आनन्दगिरिटीका (छान्दोग्य)
चतुर्थोऽध्यायः: प्रथमः खण्डः
आदित्यस्य सूत्रावच्छेदभेदत्वात्तदुपासनानन्तरं सूत्रोपासनमुपन्यस्ते । नन्वध्यात्ममधिदैवतं च वायुप्राणयोः सूत्रात्मभूतयोरुपासनं पूर्वाध्यायेऽपि व्याख्यातं तथा च कोऽत्र विशेषो येन तदुपासनं पुनरारभ्यतेऽत आह –
वायुप्राणयोरिति ।
साक्षात्पादकल्पनं विनेति यावत् । ब्रह्मत्वेन ब्रह्मकार्यरूपेणेत्यर्थः ।
विद्येति ।
“धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥”(म.स्मृ. २ । ११२) इति स्मृतिमनुसंधाय पुष्कलधनमादाय रैक्वो राज्ञे विद्यां प्रादाज्जानश्रुतिश्च शास्त्रार्थं ज्ञात्वा पुष्कलधनं दत्त्वैव श्रद्धादिसंपन्नस्ततो विद्यामाददौ । तथाऽन्योऽपि दाता ग्रहीता वा स्यादिति तद्दानग्रहणयोर्विधिप्रदर्शनार्था चाऽऽख्यायिकेत्यर्थः ।
ननु षट्शतानि गवामित्यादिदर्शनाद्धनदानमेव विद्याग्रहणे साधनमिह प्रतीयते न तु श्रद्धादीत्याशङ्क्याऽऽह –
श्रद्धेति ।
आदिपदेन तात्पर्यप्रणिपातादयो गृह्यन्ते । आख्यायिकया तदु ह पुनरेवेत्यादिलक्षणयेति यावत् ।
जनश्रुतस्य पुत्रो यस्तस्य पौत्रः पौत्रायणः स च प्रकृतो जानश्रुतिरेवेत्याह –
पुत्रस्येति ।
श्रद्धया देयस्याल्पत्वशङ्कां वारयति –
बहुदायीति ।
बहुपाकस्य फलमाह –
भोजनेति ।
उक्तस्य राज्ञो वर्तमानत्वाभावादसत्त्वमाशङ्क्योक्तमेवमिति ।
स्वसमीपं प्राप्तेभ्य एवार्थिभ्योऽसावन्नं ददातीत्याशङ्क्याऽऽह –
स हेति ॥१॥
विशिष्टान्नदानफलं दर्शयितुमारभते –
तत्रेति ।
वाक्यार्थं दर्शयति –
ऋषय इति ।
संबोधनाभ्यासस्य विषयमाह –
आदरं दर्शयन्निति ।
तदेव दृष्टान्तेन स्पष्टयति –
यथेति ।
भल्लाक्षशब्दार्थमाह –
भल्लेति ।
भल्लाक्षशब्दो भद्राक्षविषयः सन्विरुद्धलक्षणया मन्ददृष्टित्वसूचकः ।
भल्लाक्षशब्दस्य विषयान्तरमाह –
अथवेति ।
तस्य पृष्ठगामिनो हंसस्य महात्मा नातिक्रमणीयो विजानतेति सम्यग्दर्शनाभिमानशालित्वात्तेनाग्रगामी हंसो जानश्रुतिमतिचिक्रमिषुममर्षितया पीड्यमानः सन्न त्वं धर्मं जानासि ज्ञानाभिमानं तु वहसीत्युपालब्धस्तत्र भल्लाक्षेत्युपालम्भस्वरूपं सूचयतीत्यर्थः ।
पृष्ठगामी हंसो निन्दापूर्वकमग्रगामिनं(णं) हंसं संबोध्य किमूचिवानित्यपेक्षायामाह –
जानश्रुतेरिति ।
मा प्रधाक्षीरिति पाठे कथं मा प्रधाक्षीदित्युच्यते तत्राऽऽह –
पुरुषव्यत्ययेनेति ।
मध्यमपुरुषं प्रथमपुरुषं कृत्वा व्याख्यानमित्यर्थः ॥२॥
एवं सन्तमेनं प्राणिमात्रं राजानमधिकृत्य सबहुमानमेतद्वचनमात्थेति कुत्सयतीति सम्बन्धः । तत्र वैधर्म्यदृष्टान्तमाह –
रैक्वमिवेति ।
युगं वहतीति युग्यो बलीवर्दोऽश्वो वाऽस्यामस्तीति युग्वा शकटी तया सह वर्तत इति सयुग्वा रैक्वः । वकारो मत्वर्थीयः त्वं रैक्वं ज्ञानमाहात्म्ययुक्तमधिकृत्य यथा प्रशंसावचनं तथा कर्मिणमेनं राजानमधिकृत्य कथमेवमात्थेत्यर्थः ।
उक्तं वाक्यार्थं संकलयति –
अननुरूपमिति ।
अस्मिन्वराके राजनि धर्ममात्रनिष्ठेनेदमनुरूपं वचनं रैक्वे पुनर्विज्ञानवति यथोक्तं वचो युक्तमेवेति । इतरः पृष्ठगामी हंसः । यः सयुग्वा रैक्वस्त्वयोच्यते स कथं नु स्यादित्यन्वयः ॥३॥
स रैक्वो येन प्रकारेण स्यात्तं प्रकारं शृण्विति प्रतिज्ञाय प्रकारप्रदिदर्शयिषया दृष्टान्तमाह –
यथेति ।
द्यूतस्य समयः संकेतस्तदनुष्ठानकालो (वा) येन द्यूतविद्यायामेजति सोऽक्षस्तस्य कश्चिद्भागोऽथशब्दवाच्यस्तत्र यश्चतुरङ्को भागश्चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेः कृतनामव्यवहृतेन[तेन] यदा द्यूते प्रवृत्तानां मध्ये स कोऽपि जयति तदा तस्मै कृतनामवते विजितायाधरेऽयाः संयन्तीति सम्बन्धः ।
तदर्थं व्याचष्टे –
तदर्थमिति ।
अधरेयान् व्याकरोति –
अधरेया इति ।
तानेव विशिनष्टि –
त्रेतेति ।
अक्षस्य यस्मिन्भागे त्रयोऽङ्काः स त्रेता नामायो भवति । यत्र तु द्वावङ्कौ स द्वापरनामकः । यत्रैकोऽङ्कः स कलिसंज्ञ इति विभागः ।
तादर्थ्येनेतराङ्काना(णा)मन्तर्भावमुक्तं व्यक्तीकरोति –
चतुरङ्क इति ।
तदन्तर्भवन्ति तस्मिन्कृते त्रेतादयस्तेऽन्तर्भवन्तीति यावत् । महासंख्यायामवान्तरसंख्यान्तर्भावः प्रसिद्ध एवेत्यर्थः ।
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ।
रैक्वमभिव्याप्य सर्वं समेतीत्यस्यार्थं संक्षिपति –
अन्तर्भवतीति ।
रैक्वे सर्वस्यान्तर्भावं प्रश्नपूर्वकं प्रकटयति –
किं तदित्यादिना ।
तद्धर्मस्य महत्त्वादन्येषां च धर्मजातस्याल्पत्वात्तस्येतरस्मिन्नन्तर्भावः संभवतीत्यर्थः ।
किं च सर्वेषां प्राणिनां धर्मफलमल्पीयस्त्वान्महत्तरे रैक्वस्य धर्मफलेऽन्तर्भवतीत्याह –
तस्य चेति ।
न केवलं रैक्वस्यैतन्माहात्म्यं किन्त्वन्यस्यापि ज्ञानवतोऽस्तीति जानश्रुतेरनुग्रहार्थमाह –
तथेति ॥४॥
प्रतिपन्नहंसवचनखेदित इतरो राजा रात्रिशेषमतिवाह्य शयनं जहदात्मनः समीपस्थं स्तुतिकर्तारं क्षत्तारमङ्गारे हेत्यादिवाक्यमुक्तवान् । तस्याभिप्रायमाह –
स एवेति ।
कथमिवशब्दो द्वितीये घटते । तत्राऽऽह –
तदेति ।
अवधारणस्यापि नोपयोगोऽस्तीति चेत्तत्राऽऽह –
अनर्थको वेति ।
प्रश्नवाक्यं व्याचष्टे –
राज्ञेति ।
यो नु कथमित्यादि पूर्ववद्व्याख्येयम् ॥५ – ६ ॥
तस्येति कर्मणि षष्ठी ॥७॥
मया हि गार्हस्थ्यं चिकीर्ष्यते तदर्थं च धनमर्थ्यते न चायं तादर्थ्येन किंचिदुपकर्तुमित्याशयेनानादरं विज्ञातवानस्मि यदुक्तलक्षणं रैक्वं तस्य च गार्हस्थ्याभिप्रायं धनार्थित्वं चेति शेषः ॥८॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाऽध्यायस्य प्रथमः खण्डः ॥
क्षत्तृवचने श्रुते सतीति सप्तम्यर्थः । धनार्थितां च बुद्ध्वेति पूर्वेण सम्बन्धः । उहशब्दस्य पूर्ववदत्राप्येवकारोऽर्थः ॥१॥
अत्रापि विनिग्रहार्थत्वसम्भवे किमित्यानर्थक्यमित्याशङ्क्य तवैवेत्येवकारादेव विनिग्रहसिद्धिरित्याह –
एवशब्दस्येति ।
गार्हस्थ्यार्थिनस्तव कर्मानुष्ठानार्थमिदं धनं तिष्ठतादिति चेन्नेत्याह –
न ममेति ।
शूद्रशब्देन जानश्रुतेः संबोधनमनुचितमिति चोदयति –
नन्विति ।
तस्याशूद्रत्वे हेत्वन्तरमाह –
विद्याग्रहणायेति ।
तस्य श्रुतिद्वारा विद्याधिकारो नास्तीत्यपशूद्राधिकरणे निर्धारितमित्याशयेनाऽऽह –
शूद्रस्य चेति ।
जानश्रुतेः सति क्षत्रियत्वे शूद्रसम्बोधनमयोग्यमित्युपसंहरति –
कथमिति ।
न जातिशूद्रो जानश्रुतिः किंतु क्षत्रियोऽस्मिन्गौणः शूद्रशब्द इत्येकीयमतोपन्यासेन परिहरति –
तत्रेति ।
तेन शुगाविष्टत्वेनासौ जानश्रुतिः शुचा हेतुना रैक्वमाद्रवतीति शूद्रः श्रुत्वा वा हंसवाक्यं रैक्वमाद्रवतीति नैमित्तिकं तत्र शूद्रपदमित्यर्थः ।
तथाऽपि किमिति शूद्रपदेन राजानमृषिः संबोधयतीत्याशङ्क्याऽऽह –
ऋषिरिति ।
उक्तप्रकारद्वयसमाप्तावितिशब्दः ।
प्रकारान्तरेण जानश्रुतेः शूद्रत्वं गौणं व्युत्पादयति –
शूद्रवद्वेति ।
न च शुश्रूषया तेन शूद्र इति शेषः ।
मुख्यं शूद्रत्वं क्षत्तृसंबन्धेन व्यावर्तयति –
न त्विति ।
क्षत्रिये जानश्रुतौ शूद्रशब्दप्रवृत्तौ निमित्तान्तरमाह –
अपरे पुनरिति ।
तत्र गमकं दर्शयति –
लिङ्गञ्चेति ।
यदृषेर्मतमधिकधनार्थित्वमिति यावत् । अधिकं षट्शतेभ्यः सकाशादिति शेषः ॥३॥
विद्यादाने तस्या द्वारत्वं तद्दातुश्च वरज्ञानदानतीर्थतां जानन्नुवाचेति सम्बन्धः । धनदातुर्विद्यादानतीर्थत्वे प्रमाणमाह –
ब्रह्मचारीति ।
तस्या द्वारतां विद्यादाने तद्दातुस्तीर्थतां च जानन्नुवाचेत्युक्तमनुवदति –
एवं जानन्निति ।
किमुक्तमित्यपेक्षायामाह –
आजहारेति ।
तत्र वैधर्म्यदृष्टान्तमाह –
पूर्ववदिति ।
अल्पधनहरणानिच्छायां कारणापेक्षायां शूद्रेति सम्बोधनवदित्यर्थः ।
रैक्वेण ग्रामादिकं गृहीत्वा विद्या जानश्रुतये दत्तेत्यस्मान्प्रति श्रुतिर्ज्ञापयति –
ते हैत इति ।
महावृषेषु महापुण्येष्विति यावत् ॥४ -५॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वितीयः खण्डः ॥
कथं विद्यामुक्तवानित्याशङ्क्याधिदैवतं तदुक्तिप्रकारं दर्शयति –
वायुरित्यादिना ।
प्राणो वाव संवर्ग इति वक्ष्यमाणेनापुनरुक्ततायै वायुं व्याचष्टे –
वायुर्बाह्य इति ।
संवर्जनादित्यस्य व्याख्या संग्रहणादिति ।
संग्रहणपक्षं समर्थयते –
वक्ष्यमाणा इति ।
किमिति संवर्गत्वं वायोरुपदिश्यते तत्र दृष्टान्तश्रुतिं प्रमाणयति –
कृतायेति ।
संग्रसनाद्वेत्युक्तं पक्षमाकाङ्क्षापूर्वकं व्युत्पादयति –
कथमित्यादिना ।
सूर्याचन्द्रमसोर्वायावपिगमनमाक्षिपति –
नन्विति ।
आप्रलयात्तयोरधिकारपदे स्थित्यङ्गीकारात्स्वरूपावस्थितत्वं द्रष्टव्यम् ।
सूर्यादेः स्वरूपावस्थानेऽपि वायावप्ययः सम्भवतीति समाधत्ते –
नैष दोष इति ।
अस्तमने सति सूर्यादेरदर्शनप्राप्तेर्वाय्वधीनत्वं व्युत्पादयति –
वायुना हीति ।
सूर्यग्रहणं चन्द्रमसोऽप्युपलक्षणम् ।
गौणस्तर्हि वायावप्ययः सूर्यादेरित्याशङ्क्य पक्षान्तरमाह –
अथवेति ।
सङ्गतिसमये हि संहरति वेत्यर्थः ॥१ – २॥
कथं प्राणस्य संवर्गत्वमित्याशङ्क्याऽऽह –
स पुरुष इति ।
तस्मात्संवर्ग इत्यध्यात्ममिति शेषः ॥३॥
वायुप्राणावधिदैवताध्यात्मभेदेन संवर्गगुणावुक्तावुपसंहरति –
ताविति ॥४॥
अथ हेत्याद्यनन्तरवाक्यं व्याचष्टे –
अथैतयोरिति ।
ब्रह्मविच्छौण्डो ब्रह्मविदां मध्ये शूरमात्मानं मन्यमान इति यावत् । बुद्ध्वा लिङ्गविशेषेणेति शेषः ।
जिज्ञासमानावित्युक्तमेव व्यनक्ति –
किमयमिति ॥५॥
चतुर इति द्वितीयाबहुवचनदर्शनान्महात्मन इति तादृगेवेत्याह –
द्वितीयेति ।
यद्वा महात्मन इत्यस्य पञ्चम्यादौ चतुर इत्यस्य च समीचीने प्रयोगदर्शनादिह तथा मा भूदिति मत्वाऽऽह –
महात्मन इति ।
अतो हि जगारेति सम्बन्धः ।
कः शब्दः प्रजापतिविषयो व्याख्यातः । सम्प्रति पक्षान्तरमाह –
कः स इति ।
यस्ताञ्जगार स कः स्यादिति प्रश्नमेके वदन्तीत्यर्थः ।
अत्तारं प्राणमात्मानं चैकत्वेन पश्यन्ब्रह्मचारी मह्यं भिक्षां यन्न ददतुर्भवन्तौ तत्तस्मै देवायैव न ददतुरित्यज्ञत्वमेव तयोर्दर्शयन्नाह –
यस्मा इति ॥६॥
दर्शनमेव प्रश्नद्वारा विशदयति –
कथमित्यादिना ।
अधिदैवतमग्न्यादीनां वायुरूपेण जनितेति सम्बन्धः ।
तस्य प्राथमिकं [कत्वं] कृत्वा दर्शयति –
आत्मनीति ।
अग्न्यादीन्प्रलयकाले देवः स्वात्मनि वायुरूपेण ग्रसित्वा पुनरुत्पत्त्यवस्थायामुत्पादयितेति योजना ।
अध्यात्मं वागादीनपि स्वापावस्थायां स्वात्मनि प्राणरूपे संहृत्य पुनः प्रबोधावस्थायां तेषामुत्पादयिता देवः प्राणरूपेणेत्याह –
अध्यात्मं चेति ।
देवानामग्न्यादीनां प्रजानां वागादीनां च जनितेत्युक्तं सम्प्रति व्याख्यान्तरमाह –
अथ वेति ।
अभग्नदंष्ट्रः सर्वसंहर्तुरपि च काचन ग्लानिर्भवतीत्यर्थः ।
प्रजापतेर्महिम्नोऽतिप्रमाणत्वं प्रकटयति –
यस्मादिति ।
इतिशब्दात्परस्ताद्यच्छब्दस्य सम्बन्धः तदर्थश्च यस्मादित्युक्तस्तस्मात्प्रजापतेर्महिमानमतिप्रमाणमाहुरिति पूर्वेण सम्बन्धः ।
वै वयमित्यादिभागं पदच्छेदपूर्वकमादाय व्याचष्टे –
वयमित्यादिना ।
क्रियापदेन वयमित्यस्य सम्बन्धमुक्तमुपपादयति –
वयमिति ।
ब्रह्मचारिन्निदं वयमा समन्तादुपास्महे ब्रह्मेत्युक्त्वा प्रकारान्तरेण पदच्छेदपूर्वकं व्याख्यानान्तरमाह –
अन्ये नेति ।
शौनकस्याभिप्रतारिणश्च ज्ञानातिशयं दर्शयित्वा यतिश्च ब्रह्मचारी चेत्यादिस्मृतिमनुसृत्याऽऽह –
दत्तेति ॥७॥
आख्यायिकाद्वारा प्रकृतायां संवर्गविद्यायामात्मा देवनामित्यादिगुणजातमुपदिश्य गुणान्तरमुपदेष्टुमनन्तरवाक्यमवतारयति –
ते वा इति ।
तद्व्याचष्टे –
ये ग्रस्यन्त इति ।
त एते वागादिभ्यः सकाशादन्ये पञ्चेति सम्बन्धः ।
अधिदैवतमग्न्यादीन्वायुसहितान्पञ्चोक्त्वा तेनैव प्रकारेणाध्यात्ममपि तेभ्यः सकाशादन्ये प्राणसहिता वागादयः पञ्च सन्तीत्याह –
तथेति ।
अवान्तरसंख्याविनिवेशमुक्त्वा तत्रैव महासंख्यानिवेशं दर्शयति –
ते सर्व इति ।
दशसंख्यासम्बन्धात्तेषां संख्ययेति ।
कृतायोपलक्षितं द्यूतं कृतमित्युच्यते । तत्र दशसंख्यावत्त्वस्य वक्तव्यत्वादिति द्रष्टव्यम् । यदुक्तमग्न्यादयो वागादयश्च दश सन्तस्तत्कृतं भवतीति तदुपपादयति –
चतुरङ्क इत्यादिना ।
एकस्तावदयो द्यूते चतुरङ्को दृश्यते तद्वदग्न्यादयो वागादयश्च ग्रस्यमानाश्चत्वारो भवन्ति । यथा च द्यूते त्रेतानामकोऽयस्त्र्यङ्को गृह्यते तथाऽग्न्यादयो वागादयश्चैकैकन्यूनास्त्रयः । तथा च द्वापरनामायो द्व्यङ्को जायते तद्वद्वागादिष्वग्न्यादिषु च द्वौ द्वौ वर्जयित्वा द्वौ द्वौ भवतः । तथा च तत्र कलिसंज्ञायो भवत्येकाङ्कः योऽग्न्यादीनां ग्रसिता वायुर्वागादीनां ग्रसिता प्राणश्चैकस्तेभ्यो ग्रस्यमानेभ्योऽन्य इत्येवं ग्रसितृत्वेन ग्रस्यमानत्वेन च दश सन्तस्ते पूर्वोक्तं कृतं भवतीत्यर्थः ।
द्यूतस्य सर्वान्नात्तृत्वप्रसिद्ध्या दशसंख्यावतां देवानां कृतत्वसम्पादनेनात्तृत्वं सम्पादितम् । इदानीं दशसंख्यावत्त्वेनैव विराट्त्वसम्पादनेन तेषामन्नत्वं सम्पादयति –
यत इति ।
अग्न्यादिषु वागादिषु च मिलितेषु दशसंख्यावत्त्वेऽपि कथमनेन तद्वत्त्वं तथा च कथं संख्यासामान्यं तेषामन्नसंख्यासामान्यसम्पादनमित्याशङ्क्याऽऽह –
दशाक्षरेति ।
विराड्दशसंख्यावती प्रसिद्धा सा चान्नमिति श्रूयते, तथा च यथोक्तेष्वग्न्यादिषु वागादिषु च समुदितेषु संख्यासामान्याद्विराट्त्वं सम्पाद्यान्नत्वसम्पादनं सुशकमित्याह –
अत इति ।
तेषु कृतत्वेनान्न(त्तृ?)त्वं सम्पादितमुपसंहरति –
तत एवेति ।
द्यूतस्यायचतुष्टयविशिष्टत्वेन कृतोपलक्षितेन तत्र दशसंख्यायाः सत्त्वात्तत एव संख्यासामान्यादग्न्यादयश्च कृतं भवति ततश्च तेषामत्तृत्वमित्युक्तमित्यर्थः ।
सम्प्रति प्रकृतेष्वग्न्यादिषु विराट्त्वमन्नत्वमिति त्रयमुपसंहरति –
सैषेति ।
विराजो विधेयत्वात्तस्याश्च स्त्रीलिङ्गतया सैषेति विधेयलिङ्गभजनम् । त एते प्रकृता देवा विराडित्यवगन्तव्याः । सा च दशदेवतात्मिका दशसंख्यावती भवत्यन्नमिति देवतानामन्नत्वसिद्धिः । अन्नादीत्यस्य विराजा सम्बन्धादन्नादिनीति व्याख्यानम् । ततश्च देवतात्मिका विराट्कृतत्वेनान्नादिनीति तदात्मकानामग्न्यादीनामप्यत्तृत्वसिद्धिरित्यर्थः ।
विराट्त्वेनान्नत्वं कृतत्वेनात्तृत्वं चेति सम्पत्तिद्वयमग्न्यादौ दर्शितमुपसंहरति –
कृते हीति ।
कृतोपलक्षिते द्यूते दशसंख्याऽन्तर्भूता प्रसिद्धा । सा चाग्न्यादौ दर्शिता । तथा च संख्यासामान्याद्द्यूतगतमत्तृत्वमग्न्यादिषु सम्पाद्यते तेनेदं दशकमन्नादीत्युच्यते विराड् वेदे दशसंख्यावतीत्युक्तम् । सा चान्नं , विराडन्नमित्युक्तत्वात् । ततश्च विराट्सम्पत्त्या भवति प्रकृतं दशकमन्नमित्यर्थः ।
सगुणं संवर्गदर्शनमुक्त्वा तत्फलं वक्तुं विद्वत्स्वरूपं सङ्गिरते –
तथेति ।
यथाऽग्न्यादीनां विराट्त्वेनान्नत्वं कृतत्वेन चान्नादत्वं तथा वायुमग्न्याद्यात्मकं प्राणं च वागाद्यात्मकमेकीकृत्याऽऽत्मत्वेन विद्वान्दशदेवतास्वरूपभूतः सन्दशसंख्याया विराट्त्वेनान्नं कृतशब्दितयुगं तद्गतदशसंख्यावच्छिन्नतया कृतत्वेनान्नादी भवतीत्यर्थः ।
फलोक्त्युपयोगित्वेनार्थान्तरमाह –
तयेति ।
कृतोपलक्षितद्यूतस्थसंख्यावच्छिन्नत्वेनावस्थितयाऽऽन्नत्वेनान्नादित्वेन व्यवस्थितया सर्वमिदं जगद्दशसु दिक्षु संस्थितं दृष्टमुपलब्धं भवति । न हि देवतादशकं हित्वा जगन्नाम किञ्चिदस्ति । तथा च दृष्टे देवतादशके दृष्टमेव सर्वं जगद्भवेदित्यर्थः ।
भूमिकामेवं कृत्वा फलं दर्शयति –
एवंविद इति ।
वायुं प्राणमत्तारमात्मत्वेन पश्यतः कृतसंख्यावच्छिन्नतया स्थितस्य दशदेवताभूतस्य सर्वं जगद्दृष्टं भवति । दृष्टदेवतातिरिक्तस्य जगतोऽभावादित्यर्थः । यो यथोक्तदर्शी प्राणो भूत्वा सर्वत्रान्नादश्च भवतीति फलान्तरम् ॥८॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य तृतीयः खण्डः ॥
पूर्वेण सम्बन्धं दर्शयितुमुत्तरस्य तात्पर्यमाह –
सर्वमिति ।
एकीकृत्य कारणरूपेणैक्यमादायेत्यर्थः ।
तर्हि तस्मिन्ब्रह्मदृष्टिरेव विधीयतां किमित्याख्यायिका प्रणीयते तत्राऽऽह –
श्रद्धातपसोरिति ।
ब्रह्मचर्यवासस्योद्देश्यं फलं दर्शयति –
स्वाध्यायेति ।
आचार्यो हि माणवकमुपनयते विज्ञातकुलगोत्रमेवेति मन्वानः पृच्छति –
किङ्गोत्रोऽहमिति ॥१॥
अतिथ्यभ्यागताद्यधिकृत्य परिचर्याजातं बहु चरन्ती भर्तृगृहे यतोऽहं स्थिता तेन परिचरन्ती सती परिचरणचित्ततया गोत्रादीन्नापृच्छम् । तथा च तत्स्मरणे मनो मम नाऽऽसीदिति । गोत्रादिप्रश्नाभावे हेत्वन्तरमाह –
यौवन इति ।
यद्यपि तस्यामवस्थायां लज्जया गोत्रादि नाप्राक्षीस्तथाऽपि कालान्तरे किमिति पितरं न पृष्टवतीत्याशङ्क्याऽऽह –
तदैवेति ।
तथाऽपि किमित्यन्यमभिज्ञं नाप्राक्षीरित्याशङ्क्याऽऽह –
अत इति ।
प्रथमं लज्जया पितरं प्रति न प्रश्नः पुनश्च तस्योपरतत्वात्पश्चान्न दुःखबाहुल्यादन्यं प्रति प्रश्न इति स्थिते प्रश्नाभाव फलमाह –
साऽहमिति ।
किं तर्हि तव ज्ञानमस्ति तदाह –
जबाला त्विति ।
एवं स्थिते किमाचार्यं प्रति मया वक्तव्यमित्याशङ्क्याऽऽह –
स त्वमिति ।
नापृष्टः कस्यचिद्ब्रूयादिति न्यायं सूचयति –
यदीति ॥२॥
मातृवचनश्रवणानन्तरं किं कृतवानित्यपेक्षायामाह –
स हेति ।
आचार्यसमीपे ब्रह्मचर्यवासः शिष्यभावादृते न सिद्ध्यतीत्यभिमन्वानायोक्तम् –
अत इति ।
किमनया काकदन्तपरीक्षया भवता त्वहमुपनेतव्योऽस्मीत्याशङ्क्याऽऽह –
विज्ञातेति ।
मातरं पृष्ट्वा विज्ञायाऽऽगम्यतामित्याशङ्क्याऽऽह –
किं त्वित्यादिना ॥३ – ४॥
ब्राह्मणस्य वाऽनृतं विना कथमार्जसंयुक्तवचनमित्याशङ्क्याऽऽह –
ऋजवो हीति ।
क्षत्रियादीनामपि केषाञ्चिदार्जवमस्तीत्याशङ्क्याऽऽह –
नेतर इति ।
ऋजुवचनत्वेन ब्राह्मणत्वं प्रतिजानीते –
यस्मादिति ।
उपनीयाध्याप्य चेति शेषः ।
तस्यानुग्रहार्थं शुश्रूषामादिष्टवानित्याह –
कृशानामिति ।
आचार्यनियोगश्च शिष्येण सफलीकर्तव्य इत्याशयेनाऽऽह –
इत्युक्त इति ।
सम्पन्ना बभूवुस्तदैनमृषभोऽभ्युक्तवानिति सम्बन्धः ॥५॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्थः खण्डः ॥
कथमृषभः सत्यकामं प्रति वक्तुमलं न हि लोके बलीवर्दस्य मनुष्यं प्रति वचनं दृष्टमत आह –
तमेतमिति ।
सत्यकामं श्रद्धादिसम्पन्नमेनमथ तस्यामवस्थायामृषभोऽनुग्रहायाभ्युवादेति सम्बन्धः ।
ऋषभस्य स्वरूपमाह –
वायुदेवतेति ।
अरण्ये तत्र तत्र गाश्चारयतः श्रद्धापूर्वकं तपश्चरतो वायुदेवता कथं तुष्टेत्याशङ्क्याऽऽह –
दिक्सम्बन्धिनीति ॥१॥
वाक्यान्तरं च मदीयं श्रूयतामित्याह –
किञ्चेति ।
वायुदेवता दिक्सम्बन्धिनीत्युक्तत्वाद्दिग्गोचरमेव दर्शनमुवाचेत्याह –
प्राचीति ।
ब्रह्मणः पादस्येति व्यधिकरणे षष्ठ्यौ । एकपादेव ब्रह्मेति विभ्रमं व्युदस्यति –
तथेति ॥२॥
प्रथमपादोपासकस्य दृष्टमदृष्टं च फलमाह –
स य इत्यादिना ।
कस्येदं फलमित्युक्ते पूर्वोक्तमेवोपासकमनुवदति –
य एतमिति ॥३॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य पञ्चमः खण्डः ॥
अवशिष्टं पादत्रयं कथं द्रष्टव्यमिति बुभुत्समानं सत्यकामं प्रत्याह –
सोऽग्निरिति ।
अविदुषो विद्याभिमाननिमित्तकर्मत्यागो न युक्त इति मत्वाऽऽह –
सत्यकाम इति ।
अभि सायं बभूवुः सायंकालं प्राप्ता इति यावत् ।
तस्य ब्रह्मचर्यमव्यावृत्तमिति सूचयति –
तत्रेति ।
उपोपविवेश तत्रोपशब्दाभ्यां गवामग्नेश्च सामीप्ये निवेशनमस्योच्यते ।
अर्थिने विद्या वक्तव्येति सूचयति –
ऋषभेति ॥१॥
आत्मगोचरमग्नेश्चास्य विद्यमानमित्यर्थः । यद्वा पृथिव्यादिरूपेणाग्नेरवस्थानादग्निविषयमित्यर्थः । यथोक्तपादे गुणविशेषं निर्दिशति –
एष वा इति ॥३॥
द्वितीयपादोपासकस्य द्विविधं फलं दर्शयति –
स य इति ।
यथोक्तं चतुष्कलमिति यावत् । तथैवोपास्यगुणानुरोधेनेत्यर्थः । तद्गुणस्तेन गुणेन गुणवाननन्तवानविच्छिन्नसन्तानो भवतीत्यर्थः । अनन्तवतो लोकानक्षयानित्येतत् ॥४॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य षष्ठः खण्डः ॥
अवशिष्टपादद्वयं कथं ज्ञातव्यमिति जिज्ञासमानं प्रत्याह –
सोऽग्निरिति ।
पक्षिविशेषविषयत्वं हंसशब्दस्य व्यावर्तयति –
आदित्य इति ।
कथं तत्र हंसशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह –
शौक्ल्यादिति ॥१ – २॥
आदित्योऽपि स्वविषयमेव दर्शनमुक्तवानित्याह –
अग्निरिति ।
तृतीये पादेऽपि गुणविशेषमुपदिशति –
एष वा इति ।
यतो हेतोर्ज्योतिर्विषयमेव दर्शनमुक्तवानत एव तस्याऽऽदित्यत्वं प्रतिभातीत्यादित्यत्वे हंसस्य गमकान्तरमाह –
ज्योतिर्विषयमेवेति ।
य एतमेवं विद्वानित्याद्युत्तरम् ॥३- ४॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तमः खण्डः ॥
अवशिष्टं पादान्तरं तर्हि कथं ज्ञायतामित्याशङ्क्याऽऽह –
हंसोऽपीति ।
मद्गुशब्दस्य वाच्यमर्थमन्वाचष्टे -
मद्गुरिति ।
तस्य कथं सत्यकामं प्रत्युपदेष्टृत्वमत आह –
स चेति ॥१॥
तं मद्गुरुपनिपत्येत्यत्र मद्गुशब्दार्थं पूर्वोक्तमेव स्मारयति –
मद्गुः प्राण इति ।
प्राणः कलेत्याद्यायतनवानित्येवमिति यथोक्तगुणं समर्थयते –
आयतनमित्यादिना ।
तद्यस्मिन्पादे वर्तते सोऽयमायतनवान्नाम पाद इति द्रष्टव्यमिति योजना ॥२-३॥
द्विविधं विद्याफलमभिधत्ते –
तं पादमिति ।
तथैवाऽऽयतनवत्त्वगुणाक्रान्तत्वेनैवेत्यर्थः ॥४॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्याष्टमः खण्डः ॥
ब्रह्मविदिव भासीत्युक्ते कीदृशी ब्रह्मविदित्यपेक्षायामाह –
प्रसन्नेन्द्रिय इति ।
सत्यकामस्यापि तल्लक्षणवत्त्वमतःशब्दार्थः ।
मां त्वदाचार्यमवज्ञाय मच्छिष्यं त्वां कोऽन्यो मनुष्यो मच्छापादभीतः शिष्यत्वेनाऽऽदायानुशासनं कृतवान्यदनुशासनात्ते ब्रह्मविद्या जातेति साक्षेपं पृच्छति –
कस्त्वामिति ।
मनुष्येभ्य सकाशादन्ये मामनुशिष्टवन्त इति सामान्यप्रतिज्ञां विभजते –
देवता इति ।
देवतानामेवोपदेष्टृत्वं व्यतिरेकद्वारा विशदयति –
कोऽन्य इति ।
प्रतिज्ञां निगमयति –
अत इति ।
मया तर्हीदानीं न किञ्चिदस्ति तव कर्तव्यमित्याशङ्कां वारयति –
भगवानिति ॥२॥
इतश्च भगवानेव ब्रवीतु मे विद्यामित्याह –
किञ्चेति ।
तदेव कारणं दर्शयति –
श्रुतमिति ।
अस्मिन्नर्थं आचार्यादेव विद्या श्रौतव्यैवेत्येवंलक्षणे ।
श्रुतमेव विशदयति –
आचार्यादिति ।
विदिता प्राप्तेति यावत् । आचार्याधीना धीरेव फलवतीत्यतःशब्दार्थः । विद्यान्तरमाचार्येणोक्तमिति शङ्कामेवकारेण वारयति ।
दैवतैराचार्येण च सत्यकामायोक्तां विद्यामस्मान्प्रति श्रुतिर्ज्ञापयति –
अत्रेति ।
न विगतं किन्तु पूर्वेण विद्या वाय्वादिभिराचार्येण चोपदिष्टेति शेषः । तत्रापि पादचतुष्टयानुध्यानसमुच्चितमेकमेव विज्ञानं तत्फलं च संहृत्यैकविज्ञानफलत्वेन परिणेयमेकैकपादोपासनस्य कृतार्थत्वाहेतुत्वादित्याचार्योपदेशस्यैव सार्थकत्वमिति द्रष्टव्यम् ॥३॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य नवमः खण्डः ॥
सप्रपञ्चब्रह्मोपासनमुक्त्वा कार्यब्रह्मोपासनमुच्चितं कारणब्रह्मोपासनं वक्तुं खण्डान्तरमवतारयति –
पुनरिति ।
न केवलं ब्रह्मविद्याशेषत्वादित्यर्थः ।
पूर्ववदिति ।
यथा पूर्वस्मिन्खण्डे श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनायाऽऽख्यायिकेत्युक्तं तद्वदित्यर्थः ॥१॥
तप्त इति ।
भवदपेक्षितां शुश्रूषां विदधानो बहुकायक्लेशं कृतवानित्यर्थः ।
विवक्षितशुश्रूषाकरणमेव विशदयति –
कुशलमिति ।
किमिति भवत्या मां ब्रूहीदमिदानीमुच्यते न हि मत्तोऽन्यत्र त्वदनुरागो युक्तिमानित्याशङ्क्य भगवति स्नेहादित्याह –
भगवानिति ।
अग्नीन्परिचरमाणब्रह्मचारिणोऽसमावर्तनमतःशब्दार्थः । गर्हापरिहारो द्वितीयेनातःशब्देन परामृश्यते ।
आचार्यशुश्रूषापरं शिष्यं देवतैवानुगृह्णातीति ज्ञापयितुमारभते –
तस्मा इति ॥२॥
आचार्यभिप्रायमजानतः शिष्यस्य दुःखप्राप्तिं दर्शयति –
स हेति ।
अतिगमनं वस्तुस्वरूपमतीत्य विषयेषु प्रवेश इति यावत् । नानात्यया इति कामानां विशेषणम् ।
कथं तेन व्याधयो विशेष्यन्ते तत्राऽऽह –
कर्तव्येति ।
कामा एव व्याधय इत्यर्थः ॥३॥
आचार्यप्रवासात्तज्जायाया ब्रह्मचारिण्यनुग्रहात्तस्य चानशनाध्यवसायादनन्तरमित्यथशब्दार्थः । हन्तेति यद्यर्थः, अस्मद्भक्तं ब्रह्मचारिणमुपेक्ष्य देशान्तरं गतस्तर्हीति यावत् । अथ पुनरेत्याऽऽचार्यो ब्रह्मविद्यामस्मै विवक्षितां च वक्ष्यति किं त्वरयेत्याशङ्क्याऽऽह –
दुःखितायेति ।
ब्रह्मविद्यासाधनसम्पत्तिमस्य दर्शयति –
तपस्विन इति ॥४॥
प्राणो ब्रह्मेति भवद्भिरुक्तं तदहं विजानामीति सम्बन्धः । तत्र हेतुमाह –
प्रसिद्धेति ।
प्राणपदस्य प्रसिद्धार्थत्वमेव समर्थयते –
यस्मिन्निति ।
एवंभूतः प्राणशब्द इति शेषः ।
प्राणशब्दस्य प्रसिद्धार्थत्वेऽपि कुतो ब्रह्मत्वं तस्मिन्प्रसिद्धमित्याशङ्क्याऽऽह –
अत इति ।
कार्यकरणसंघाते नष्टेऽग्रहणादित्यतःशब्दार्थः । स्वकीयज्ञानसमुच्चयार्थश्चकारः ।
विजानाम्यहमित्युक्तमुपसंहरति –
तेनेति ।
स्वेनाज्ञातं ब्रह्मचारी दर्शयति –
कं चेति ।
तस्याज्ञानमाक्षिपति –
नन्विति ।
प्राणशब्दस्य वायुविशेषविषयत्वेन प्रसिद्धार्थत्ववदित्यपेरर्थः ।
ब्रह्मचारिणोऽभिप्रायं दर्शयन्नुत्तरमाह –
नूनमिति ।
ननु विरुद्धार्थत्वादग्नीनां वाक्यं भवत्वप्रमाणमित्याशङ्क्याऽऽह –
कथं चेति ।
विरुद्धार्थत्वप्रतीतेराप्तवाक्यस्य चाप्रामाण्यायोगाद्युक्तं ब्रह्मचारिणोऽज्ञानमिति निगमयति –
अत इति ।
स्वस्य विशेषणत्वं कस्य च विशेष्यत्वमित्यङ्गीकारे फलं कथयति –
इत्येवमिति ।
कस्य विशेषणत्वं स्वस्य विशेष्यत्वमित्येवमपि विशेषणविशेष्यत्वमवगन्तव्यमित्याह –
यदेवेति ।
यथोक्तविशेषणविशेष्यभावे फलमाह –
एवं चेति ।
यद्वावेत्यादिवाक्यार्थमुक्तमेव प्रतिपत्तिसौकर्यार्थं संक्षिपति –
सुखमिति ।
इतरेतरविशेषणविशेष्यत्वमाक्षिपति –
नन्विति ।
अन्यतरदेवेत्यत्र यदेव खमित्येतदुच्यते यद्वाव कं तदेव खमित्यत्र यद्वाव कमितीतरद्विशेषणमतिरिक्तमधिकमकिंचित्करमिति योजना । यदि तु यदेव खं तदेव कमिति खेन कं विशेष्यते, तदा यदेव खमित्येतदेव विशेषणमस्तु ।
यद्वाव कमिति पूर्वविशेषणमकिंचित्करमित्याह –
यदेवेति ।
वाशब्दोऽतिरिक्तमित्येतदनुकर्षणार्थः ।
विशेषणयोरर्थवत्त्वं पूर्वोक्तं सिद्धान्ती स्मारयति –
नन्विति ।
तथा च सुखस्य लौकिकसुखाद्व्यावृत्त्यर्थं यदेव खमिति विशेषणमाकाशस्य च लौकिकाकाशाद्व्यावृत्त्यर्थं यद्वाव कमिति विशेषणमर्थवदिति शेषः ।
अन्यतरविशेषणवशादपि यथोक्तव्यावृत्तिसिद्धेरकिंचित्करं विशेषणद्वयमिति शङ्कते –
सुखेनेति ।
यदा सुखेनाऽऽकाशं विशेष्यते तदा भूताकाशादाकाशं व्यावर्तितं भवति सुखस्य तद्विशेषणत्वायोगात् । सुखमपि लौकिकसुखाद्व्यवच्छिद्यते । लौकिकसुखस्याऽऽकाशविशेषणत्वानुपपत्तेः । अतः सुखेनाऽऽकाशस्याऽऽकाशेन सुखस्य वा विशेषितत्वसामर्थ्यात्प्राप्तैव सुखाकाशयोर्लौकिकसुखाकाशाभ्यां व्यावृत्तिरित्यन्यतरदेव विशेषणमर्थवदित्यर्थः ।
किमन्यतरस्यैव विशेषणस्य व्यावर्तकत्वमित्यापाद्यते किं वा तस्यैवार्थवत्त्वमिति तत्राऽऽद्यमङ्गीकरोति –
सत्यमेवमिति ।
द्वितीयं दूषयति –
न त्वित्यादिना ।
विशिष्टस्यैव ध्येयत्वे विशेषणस्यापि ध्येयत्वं सिद्ध्यतीति चेन्नैवं दण्डी प्रैषानन्वाहेतिवद्विशेषणस्यान्यथासिद्धत्वादित्याह –
विशेषणेति ।
द्वयोरपि विशेषणयोरर्थवत्त्वं निगमयति –
अत इति ।
विधान्तरेण ध्येयत्वासम्भवादित्यतःशब्दार्थः । खमिव सुखेनेत्यपेरर्थः ।
इतश्च सुखाकाशयोरितरेतरविशेषणविशेष्यत्वमेषितव्यमित्याह –
कुतश्चेति ।
कुतःशब्दोपात्तमितःशब्दार्थं स्फुटयति –
कंशब्दस्येति ।
खं ब्रह्मेति खंशब्दस्य ब्रह्मशब्दसम्बन्धवदित्यपेरर्थः ।
गुणगुणिनोरुभयोरपि ध्येयत्वसिद्ध्यर्थमितरेतरविशेषणविशेष्यत्वं कंशब्दस्य खंशब्दस्य च प्रत्येकं ब्रह्मशब्दसम्बन्धादपि स्वीकर्तव्यमित्युक्तं व्यतिरेकद्वारा साधयति –
यदि हीति ।
उक्तरीत्या द्वयोरपि ध्येयत्वमतःशब्दार्थः । ब्रह्मचारिणो मोहो नामान्योन्यविशेषणविशेष्यत्वाग्रहणादाकाशस्यैव गुणिनो ध्येयत्वं न तु सुखस्य गुणस्येति विभ्रमः ।
प्राणं चेत्यादि वाक्यं नाग्नीनां न ब्रह्मचारिणः । तथा च कथमुपाख्यायिकायामिदं निर्वहतीत्याशङ्क्याऽऽह –
तदेतदिति ।
आकाशस्य प्राणसम्बन्धित्वं कया विधयेत्यपेक्षायामाह –
आश्रयत्वेनेति ।
कार्यब्रह्मोपासनसमुच्चितं कारणब्रह्मोपासनमुपसंहर्तुमितिशब्दः ॥५॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य दशमः खण्डः ॥
प्रधानविद्यामुपदिश्याङ्गविद्याविधानायोपक्रमते –
संभूयेति ।
अनन्तरं प्रधानविद्योपदेशादिति शेषः । अग्निविद्यां वक्तुमारब्धानामग्नीनां मध्ये प्रथममिति श्रुतावथशब्दार्थः ।
पृथिव्यादिचतुष्टयमनूद्याग्न्यादित्ययोरवान्तरभेदं दर्शयति –
तत्रेति ।
एवमग्न्यादित्ययोस्तादात्म्यमितीतिशब्दार्थः ।
य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीत्येतावतैव तयोस्तादात्म्यसिद्धेः स एवाहमस्मीति पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह –
पुनरिति ।
भोज्यत्वं लक्षणं स्वभावो ययोस्तयोर्गार्हपत्येन यथा सम्बन्धस्तथा गार्हपत्यादित्ययोर्न सम्बन्धः किन्तु तादात्म्यलक्षण एवेत्यत्र हेतुमाह –
अत्तृत्वेति ।
पृथिव्यादावपि तादात्म्यं किं न स्यादित्याशङ्क्याऽऽह –
पृथिवीति ।
आभ्यामग्न्यादित्याभ्यामिति यावत् । स एवाहमस्मीति परावृत्त्या पुनर्वचनं यथोक्तार्थविशेषसिद्ध्यर्थमिति भावः ॥१॥
उक्ताया विद्याया गार्हपत्यविषयाया द्विविधं फलं दर्शयति –
स यः कश्चिदित्यादिना ।
कस्यैतत्फलमित्यपेक्षायामुक्तमेव संक्षिपति –
य एतमेवमिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्यैकादशः खण्डः ॥
गार्हपत्योपदेशानन्तर्यमथशब्दार्थः । अबादिचतुष्टयमनूद्य दक्षिणाग्नौ चन्द्रे च विशेषं दर्शयति –
तत्रेति ।
अन्वाहार्यपचनचन्द्रमसोस्तादात्म्येनाबन्नेन नक्षत्राणां च ताभ्यां भोज्यत्वेन सम्बन्ध इति वक्तुं पुनर्वचनमित्याह –
स एवेति ।
कथं पुनरन्वाहार्यपचनचन्द्रमसोस्तादात्म्यं तत्राऽऽह –
अन्नसम्बन्धादिति ।
प्रसिद्धं हि दर्शपूर्णमासयोरन्वाहार्यपचने हविः श्रवणम् । ते चन्द्रं प्राप्यान्नं भवन्तीत्यादौ चन्द्रमसि प्रसिद्धोऽन्नसम्बन्धः । तस्मात्तयोस्तादात्म्यमित्यर्थः ।
तयोरेकत्वे हेत्वन्तरमाह –
ज्योतिष्ट्वेति ।
तत्रैव हेत्वन्तरमाह –
दक्षिणेति ।
अन्वाहार्यपचनो हि दक्षिणाग्निरुच्यते । चन्द्रमाश्च दक्षिणेन पथा प्राप्यमाणो दक्षिणस्यां दिशि भवतीति गम्यते । उत्तरदिगधिष्ठातुरपि तस्य तत्सम्बन्धानिवारणात्तद्युक्तं तयोरैक्यमित्यर्थः ।
अपां नक्षत्राणां च चन्द्रवदन्वाहार्यपचनेन तादात्म्यमाशङ्क्याऽऽह –
अपामिति ।
पूर्ववत्पृथिव्यन्नयोस्तयोर्गार्हपत्यादित्याभ्यामन्नत्वेन सम्बन्धवदिति यावत् । सम्बन्धोऽन्वाहार्यपचनचन्द्रमोभ्यामिति शेषः ।
कथं नक्षत्राणामन्नत्वं तत्राऽऽह –
नक्षत्राणामिति ।
कथं पुनरपामन्नत्वं तदाह –
अपामिति ।
दक्षिणाग्नेर्दक्षिणाग्निं प्रतीति यावत् । पृथिव्या गार्हपत्याग्निं प्रत्यन्नत्ववदित्युदाहरणार्थः । स य एतमेवं विद्वानित्याद्यन्यदित्युक्तम् ॥१ -२॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य द्वादशः खण्डः ॥
गार्हपत्यस्य दक्षिणाग्नेश्चोपासनानन्तर्यमथशब्दार्थः । तत्रावान्तरभेदं दर्शयति –
य एष इति ।
सोऽहमस्मीत्याद्यन्यत्समानमिति सम्बन्धः ।
यथा पूर्वं ज्योतिष्ट्वाविशेषाद् गार्हपत्यादित्ययोरन्वाहार्यपचनचन्द्रमसोश्च साम्यमुक्तं तथा ज्योतिष्ट्वसामान्याद्विद्युदाहवनीययोस्तादात्म्यमेष्टव्यमित्याह –
पूर्ववदिति ।
कथं तर्हि ताभ्यां दिवाकाशयोः सम्बन्धस्तत्राऽऽह –
दिवा(द्व्या)काशयोस्त्विति ।
आहवनीयस्य फलत्वाद्दिवो विषयत्वं तत्र होमादिद्वारा निष्पन्नापूर्वस्य द्युलोकफलत्वाभ्युपगमद्विद्युतस्त्वाकाशाश्रयत्वं प्रसिद्धमतो विद्युदाहवनीययोर्भोग्यत्वेनैव दिवा(द्व्या)काशयोः सम्बन्ध इत्यर्थः । स य एतमेवमित्याद्यन्यदित्युक्तम् ॥१-२॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥
अग्नीनां मिथो विसंवादं व्यावर्तयति –
ते पुनरिति ।
तथाऽप्यात्मविद्या श्रोतव्येत्याशङ्क्याऽऽह –
आत्मविद्येति ।
कथमाचार्योपदेशमन्तरेण भगवदुपदेशवशादेव मे विद्या फलवत्याचार्याद्धैव विद्या विदिता साधिष्ठमित्यादि हि प्रागुक्तमत आह –
आचार्यस्त्विति ॥१॥
अपनिहनुत इवेत्यत्रेवशब्दतात्पर्यं दर्शयति –
न चेति ।
उक्तमभिप्रायमाकाङ्क्षापूर्वकं विवृणोति –
कथमित्यादिना ।
काक्वा स्वरभङ्गेन भीतः सन्नुक्तवानस्फुटमिति यावत् ।
भीतिं शिष्यस्यापनयन्नाचार्यो ब्रूते –
किं नु सोम्येति ।
आचार्यवाक्यस्थमितिशब्दमनूद्य व्याचष्टे –
इत्येवमिति ।
पृष्टः सन्निति पूर्वेण सम्बन्धः ।
यस्मादग्निभिरुक्तमाचार्याय प्रतीकद्वारा शिष्यो निवेदितवांस्तस्मादाचार्यः प्राप्तः सावकाशमित्याह –
यत इति ।
कं ब्रह्म खं ब्रह्मेत्यादिना ब्रह्मापि तैरुक्तमित्याशङ्क्याऽऽह –
न ब्रह्मेति ।
कथं तर्हि साकल्येन ब्रह्म ज्ञातव्यमित्यत आह –
अहं त्विति ।
ब्रह्मज्ञाने किं स्यादित्याशङ्क्याऽऽह –
शृण्विति ॥२ – ३॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥
कथमुपसन्नायाऽचार्यो ब्रह्मचारिणे ब्रह्मविद्यामुक्तवानित्यत आह –
य एष इति ।
अक्षिस्थाने तदुपलक्षितो द्रष्टा य एष पुरुषो दृश्यत इति सम्बन्धः ।
नासौ सर्वेषां छायात्मातिरिक्तो दृष्टिगोचरतामाचरतीत्याशङ्क्याधिकारिणो विशिनष्टि –
निवृत्तेति ।
निवृत्तानि विषयेभ्यो विमुखानि चक्षूंषि बाह्यानि करणानि येषां तैरिति यावत् ।
बाह्यकरणानां स्ववशत्वाधीनं विशेषणान्तरमाधत्ते –
ब्रह्मचर्यादीति ।
मनसो विषयपारवश्यराहित्ये विशेषणान्तरमाह –
शान्तैरिति ।
तेषां निवृत्तचक्षुष्ट्वं हेतुमाह –
विवेकिभिरिति ।
पुरुषोऽक्षिणि द्रष्टेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –
चक्षुष इति ।
आचार्येणापूर्वविद्योपदेशादग्नीनामुक्तिर्मिथ्या प्राप्तेति शङ्कते –
नन्विति ।
अग्निवचनस्य गत्यन्तरमाह –
भविष्यदिति ।
नाग्नीनामुक्तिर्मृषा नापि तेषां भविष्यद्विषयाज्ञानमिति दूषयति –
नैष दोष इति ।
यत्सुखगुणकमाकाशमुपास्यमग्निभिरुपदिष्टं तस्यैव कारणब्रह्मणो द्रष्टृरूपस्याक्षिणि दृश्यत इत्यनुवादो गतिव्याख्यानायाऽऽचार्येण क्रियते तन्नास्ति दोषद्वयमित्यर्थः ।
अक्षिणि दृश्यत इति प्रयोगादाचार्येण च्छायात्मा विवक्षित इत्याशङ्क्याऽऽह –
एष इति ।
इतश्च नायं पुरुषश्छायात्मेत्यनन्तरवाक्यमवतार्य व्याकरोति –
एतदित्यादिना ।
इतिशब्दो यथोक्तगुणैरुपास्यः पुरुषो न च्छायात्मा भवितुमर्हतीत्यर्थः ।
असङ्गत्वाच्च नायं छायात्मेत्याह –
किञ्चेति ।
माहात्म्यं स्थानद्वारेणोच्यत इति शेषः ।
किमेतावता पुरुषस्याऽऽयातमित्याशङ्क्याऽऽह –
स्थानस्यापीति ॥१॥
तस्यैवोपास्यत्वार्थं गुणान्तरं दर्शयति –
एतमिति ।
पुरुषस्य संयद्वामत्वं ब्रह्मविदुक्त्या सिद्धमपि नावयवार्थमन्तरेण व्यक्तीभवतीति शङ्कते –
कस्मादिति ।
अवयवार्थोपन्यासेन परिहरति –
यस्मादिति ।
गुणोपास्तिफलमाह –
तथेति ।
उपास्यगुणानुसारेणेत्यर्थः एवंविदं संयद्वामगुणविशिष्टपुरुषोऽस्मीति वेदितारमित्येतत् ॥२॥
गुणान्तरमुपास्यत्वाय दर्शयति –
एष इति ।
तद्व्युत्पादयति –
एष इति ॥३॥
गुणान्तरं ध्यानायोक्त्वा व्युत्पादयति –
एष इत्यादिना ।
आदित्यादिरूपेणास्यैव दीप्यमानत्वे श्रुत्यन्तरमनुकूलयति –
तस्येति ।
गुणोपास्तिफलमाह –
य एवमिति ॥४॥
गतिं वक्तुं पूर्वोक्तब्रह्मविद्यायामधिकगुणानेवाऽऽचार्योऽन्ववादीदिदानीं तामेव गतिमवतारयति –
अथेति ।
तां वक्तुं पातनिकां करोति –
यद्यदीति ।
करणाकरणाभ्यां विदुषो न वृद्धिर्नापि हानिरित्यत्र श्रुत्यन्तरं प्रमाणयति –
न कर्मणेति ।
अथ यदु चैवेत्यादिवाक्यस्य तात्पर्यं दर्शयति –
शवकर्मणीति ।
तात्पर्यान्तरं दर्शयति –
न पुनरिति ।
यदि विदुषोऽपि शवकर्म कर्तव्यं कस्तर्हि तस्य विशेषस्तत्राऽऽह –
अक्रियमाणे हीति ।
अन्यत्रेत्यविद्यावानुच्यते –
इहेति ।
प्रस्तुतवाक्यस्य विद्यावतो वोक्तिरिति शवकर्मण्यनादरपूर्वकमिति शेषः । विद्यावतः शवकर्मभावाभावयोरप्रतिबन्धः फलं सिद्ध्यति । अविद्यावतस्तु शवकर्माकरणे कर्माणि न फलदानीति विद्यास्तुतिरिहाभिप्रेतेति भावः ।
तेऽर्चिषमेवेत्यत्र तच्छब्दार्थं व्याचष्टे –
ये सुखाकाशमिति ।
सत्यलोकस्थमितिदेशव्यवच्छेदेन किमिति व्याख्यायते मुख्यमेव ब्रह्मशब्दलम्बनं किं नोच्यते तत्राऽऽह –
गन्तृगन्तव्येति ।
एतेभ्यो हेतुभ्यः सत्यलोकस्थं ब्रह्म न मुख्यमिति सम्बन्धः ।
मुख्यब्रह्मप्राप्तावपि यथोक्तव्यपदेशा भविष्यन्तीत्याशङ्क्याऽऽह –
सन्मात्रेति ।
तदनुपपत्तर्न तादृग्ब्रह्म ब्रह्मशब्दमिति शेषः ।
अनुपपत्तिमेव स्फोरयति –
ब्रह्मैवेति ।
तत्रेति मुख्यप्राप्तिरुच्यते ।
कस्यचिदपि सन्मात्रब्रह्मप्राप्तिरत्र नास्तीत्याशङ्क्याऽऽह –
सर्वभेदेति ।
वक्ष्यति षष्ठेऽध्याये श्रुतिरिति शेषः ।
जीवस्य सन्मात्रं ब्रह्म पारमार्थिकं रूपं चेदुपासकस्यापि न गतिरुचिता तस्यापि ब्रह्मातिरिक्तस्वरूपाभावादित्याशङ्क्याऽऽह –
न चेति ।
एकत्वलक्षणो मार्गो न दृष्टश्चेदगमनाय नोपतिष्ठते । न हि ध्याननिष्ठस्यादृष्टमेकत्वं गमनं वारयितुं पारयत्यज्ञानप्रतिबन्धात् । तस्य गमनभ्रान्तिसम्भवादित्यर्थः । यद्वैकत्वलक्षणो मार्गो नावगतो न गमनाय मोक्षायोपस्थितो भवतीत्यर्थः ।
तत्र प्रमाणमाह -
स एनमिति ।
स परमात्मा प्रत्यक्त्वेनाज्ञातः सन्नेनमधिकारिणं मुक्तिप्रदानेन न पालयतीत्यर्थः ।
प्रकृतां गतिमुपसंहरति –
एष इति ।
गतिफलं निगमयति –
एतेनेति ।
इममितिविशेषणादनावृत्तिरस्मिन्कल्पे । कल्पान्तरे त्वावृत्तिरिति सूच्यते ।
आवर्तशब्दं व्याकरोति –
आवर्तन्त इति ।
सफलाया यथोक्तेन गतिपूर्वकेण फलेन सहिताया इति यावत् । कार्यब्रह्मोपासनमुच्चिता कारणब्रह्मोपासना यथोक्ता न विद्यासहिताऽविद्याऽत्र विवक्षिता तस्या इत्यर्थः ॥५॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥
पूर्वोत्तरग्रन्थयोरसङ्गतिमाशङ्क्य प्रासङ्गिकीं सङ्गतिमाह –
रहस्यप्रकरण इति ।
रहस्यमुपासनं तत्प्रकरणे विदुषां फलप्राप्तये मार्गोपदेशप्रसङ्गेन यज्ञस्य समाप्तिगमनायानन्तरग्रन्थेन मार्गोपदेशादस्ति सङ्गतिरित्यर्थः ।
किञ्च पूर्वोत्तरग्रन्थयोरारण्यकत्वेन समानत्वादपि सङ्गतिरस्तीत्याह –
आरण्यकत्वेति ।
किञ्चाग्निविषया विद्या प्रकृता यज्ञे च सिद्धेऽग्निसम्बन्धे यदि किमपि क्षतमुत्पद्यते तदा प्रायश्चित्तार्था व्याहृतयो विधातव्या इत्यनन्तरग्रन्थप्रवृत्तिरिति सङ्गत्यन्तरमाह –
यज्ञ इति ।
प्रकृतायामुपासनायां मौनमङ्गीक्रियते वाग्व्यापारे विक्षिप्तचित्ततया ध्यानानुष्ठानासिद्धेः ।
ऋत्विग्विशेषस्य च प्रायश्चित्ताभिज्ञस्य मौनमत्र विधीयते तेनास्ति मिथः सङ्गतिरित्याह –
तदभिज्ञस्येति ।
यज्ञस्य देवतोद्देशेन द्रव्यत्यागात्मकत्वात्क्रियायाश्च क्षणभङ्गिन्या गतिमत्त्वायोगान्मार्गोपदेशासम्भवात्कथमाद्या सङ्गतिरित्याशङ्क्य गतिमत्त्वं सम्पादयितुं यज्ञस्य वायुरूपत्वमाह –
एष इत्यादिना ।
यज्ञो वाय्वात्मक इति श्रौती प्रसिद्धिस्तामेव प्रकटयति –
वायुप्रतिष्ठ इति ।
श्रुतीरुदाहरति –
स्वाहेति ।
स्वाहाकारमुच्चार्य वाते वायौ धीयते क्षिप्यत इति वातेधा यज्ञः ।
श्रुत्यन्तरमाह –
अयमिति ।
आदिशब्देन “वाताद्यज्ञः प्रयुज्यताम्”(तै.ब्रा. ३ । ७ । ४ । २४) इति श्रुतिर्गृह्यते ।
आदर्शितश्रुतीनामर्थं संगृह्णाति –
वात इति ।
यो यज्ञः क्रियासमवायी तत्समुदायात्मकः स वायुरेव । द्वयोश्चलनात्मकत्वाविशेषात् । तस्माद्वायुप्रतिष्ठस्तदात्मको यज्ञ इत्यर्थः ।
वायुप्रतिष्ठो यज्ञ इत्यत्र श्रुत्यन्तरमाह –
वात एवेति ।
पवनत्वश्रुत्याऽपि वायुयज्ञयोरेकत्वमाह –
एष ह यन्निति ।
विनाऽपि वायुं शुद्धिः सिद्ध्यतीत्याशङ्क्याऽऽह –
न हीति ।
अचलतो विहितक्रियामननुतिष्ठत इति यावत् । शुद्धिर्नाम दोषनिरासः । स च निषिद्धं परित्यक्तुं यतमानस्य सिद्ध्यति । न तु निषिद्धक्रियात्यागोदासीनस्य दोषनिरासात्मिका शुद्धिः सम्भवति ।
चलनं च वायुः । तस्माद्वायुरेव चलनद्वारा सर्वं जगत्पुनातीत्याह –
दोषेति ।
वायोरस्तु पावनत्वं प्रकृते किमायातमित्याशङ्क्याऽऽह –
यद्यस्मादिति ।
वाय्वात्मना गतिविशिष्टस्य यज्ञस्य मार्गद्वयमुपदिशति –
तस्येति ।
एवं विशिष्टस्य पावनस्य वायुरूपस्येति यावत् ।
यज्ञस्योक्तमार्गद्वयवैशिष्ट्ये सोपस्कारमैतरेयवाक्यमुदाहरति –
प्राणेति ।
प्राणापानाभ्यामुच्छ्वासनिश्वासाभ्यां परिचलनं विद्यते यस्यास्तस्या वाचश्चित्तस्य च पूर्वापरभावक्रमेण यज्ञः सम्पाद्यते । मनसा हि ध्यायन्वाचमभिव्याहरन्पूर्वापरीभावेन यज्ञं सम्पदयतीत्यर्थः ।
यज्ञस्य मार्गद्वयविशिष्टत्वमुपसंहरति –
अत इति ॥१॥
तयोरन्योन्यमुपकार्योपकारकभावं दर्शयति –
तयोरिति ।
वाचा सम्यक्प्रयुक्तयेति शेषः ।
संस्कृतायां च वाग्वर्तन्यां तयैव यज्ञो निष्पन्नो भवतीत्याह –
वाचैवेति ।
किं तर्हि मनोवर्तन्या संस्क्रियत इत्याशङ्क्याऽऽह –
तत्रेति ।
यज्ञस्य द्वाभ्यां मार्गाभ्यां नीयमानत्वे पूर्वोक्तरीत्या स्थिते सतीति यावत् ।
मनोवर्तन्याः संस्काराभावे प्रत्यवायं दर्शयति –
अथेत्यादिना ।
मनोवर्तनी ब्रह्मणा वाग्वर्तनी च होतृप्रभृतिभिः संस्कार्येति व्यवस्थान्तरमित्यर्थः ।
स ब्रह्मेत्यन्वयं सूचयति –
ब्रह्मेति ।
पुनरुक्तिस्तस्य क्रियापदेन सम्बन्धद्योतनार्था । एतस्मिन्नन्तरे काले प्रातरनुवाकशस्त्रमारभ्य तत्परिसमाप्तेरन्तरावस्थायामित्यर्थः ।
वाचो होत्रादिभिः संस्कार्यत्वमस्तु, मनसश्च ब्रह्मसंस्कार्यत्वं मा भूदेतावता यज्ञस्य किमायातमित्याशङ्क्याऽऽह –
स यज्ञ इति ।
यज्ञभ्रंशमेवाऽऽकाङ्क्षाद्वारा व्युत्पादयति –
कथमित्यादिना ।
नाशेऽपि यज्ञस्य यजमानस्य किमायातमित्याशङ्क्याऽऽह –
यज्ञप्राणो हीति ।
वाग्वर्तनीसंस्काराभावेऽपि तुल्यो दोषः ॥२ -३॥
मौनगुणं दर्शयति –
अथ पुनरिति ।
तथैव सम्यगनुष्ठातार इति यावत् ।
तथा ब्रह्मा चान्ये चर्त्विजो द्वे वर्तन्यौ संस्कुर्वन्त्येवेत्याह –
नेति ।
वर्तनीद्वयसंस्कारे किं स्यादित्यपेक्षायामाह –
एवमिति ॥४ -५॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य षोडशः खण्डः ॥
नित्यानुष्ठानमुक्त्वा नैमित्तिकप्रायश्चित्तविधानार्थमुपक्रमते –
अत्रेति ।
तद्वेषे ब्रह्मणो मौनभ्रंशे सतीति यावत् ।
रसान्विशेषतो ज्ञातुं पृच्छति –
कानिति ॥१॥
एवं यथा लोकानभ्यतपत्तथेति यावत् । जग्राहेति सम्बन्धः ॥२॥
तदेव विवृणोति –
भूरिति व्याहृतिमित्यादिना ।
प्रथमोऽतःशब्दो यत इत्यस्मिन्नर्थे ।
यद्दृक्त इति ।
ऋक्शब्दस्तस्मिन् ।
उक्तप्रायश्चित्तमेवाऽऽकाङ्क्षापूर्वकं विवृणोति –
कथमित्यादिना ।
क्रियाविशेषणमिति ।
यज्ञस्य क्षतं सन्दधातीति यत्तदृचामेव रसने सन्दधातीत्यर्थः । ओजसा सन्दधातीति सम्बन्धः ॥३ -४॥
तथा च यथोक्ते साधने सतीत्यर्थः । यथा पूर्वस्मिन्प्रायश्चित्ते यज्ञस्य क्षतमिव रसने होता सन्दधाति तथा द्वितीयतृतीयप्रायश्चित्तयोरपि यजुषां साम्नां च रसेनाध्वर्युरुद्गाता च तत्क्षतं संधत्त इत्याह –
पूर्ववदिति ।
होत्राद्यपराधाधीनयज्ञभ्रंशे प्रायश्चित्तमुक्त्वा ब्रह्मापराधकृते यज्ञनशे किं प्रायश्चित्तमित्याशङ्क्याऽऽह –
ब्रह्मेति ।
यथा यथोक्तप्रायश्चित्ते लिङ्गं दर्शयति –
त्रय्या हीति ।
ब्रह्मणस्त्रयीसारत्वे प्रमाणमाह –
अथ केनेति ।
साधारणकार्यस्य साधारणसामग्रीजन्यत्वनियमाद्वेदत्रयसाधारणे ब्रह्मत्वे वेदत्रयसाधारणमेव प्रायश्चित्तं वाच्यमित्येको न्यायो दर्शितः ।
संप्रत्यस्यैव वेदैकत्वप्रसिद्धेर्ब्रह्मणः सर्ववेदार्थाभिज्ञस्य ज्ञानमाहात्म्येनैव दोषनिरासान्नान्यत्प्रायश्चित्तं विधेयमिति न्यायान्तरमाह –
न्यायान्तरं वेति ॥५ -६॥
वस्तुस्वभाववैचित्र्यादुत्पन्नस्यापि क्षतस्य केनचित्सन्धानं भवतीत्यत्र दृष्टान्तानाह –
तद्यथेत्यादिना ।
किं तत्र साधनमिति तद्दर्शयति –
क्षारेणेति ।
खरे सुवर्णे वह्निसंयुक्ते द्रवीभूते क्षारप्रक्षेपेण ट्ङ्कणादिना मृदुकरणं मिथोऽवयवसंयोजनं सन्धानं प्रसिद्धमित्यर्थः ।
रजतं सुवर्णेन स्वरसतस्तावदशक्यसन्धानं तथाऽपि वह्निसंयोगपूर्वक पूर्ववदेव तत्रापि प्रसिद्धं सन्धानमित्याह –
सुवर्णेनेति ।
रजतेनेत्यादावपि यथोक्तं द्रष्टव्यम् । सन्दधाति ब्रह्मेति शेषः । भेषजेनेव कृतः संस्कृत इति यावत् ।
तदेव स्फुटयति –
रोगार्त इति ।
भवति संस्कृत इति शेषः ॥७ -८॥
इतश्चैवंविदा ब्रह्मणा भवितव्यमित्याह –
किञ्चेति ।
गाथाशब्दो गायत्र्यादिच्छन्दोव्यतिरिक्तच्छन्दोविषयः ।
यतो यतः प्रदेशात्कर्माऽऽवर्तत इत्युक्तं विवृणोति –
ऋत्विजामिति ।
यत्र यत्र प्रदेशे यज्ञस्य क्षतिरध्वर्युप्रभृतीनामभवत्तत्र तत्र यज्ञस्य क्षतरूपं प्रायश्चित्तेन प्रतिसन्दधानो ब्रह्मा कर्तॄन्परिपालयतीति सम्बन्धः ॥९॥
ऋत्विजि ब्रह्मणि मानवशब्दप्रवृत्तौ निमित्तमाह –
मौनेति ।
ज्ञानातिशयस्तच्छब्दार्थः । कर्तॄनभिरक्षतीति सम्बन्धः ।
उक्तमर्थं दृष्टान्तेन प्रकटयति –
योद्धॄनित्यादिना ।
प्रकरणार्थमुपसंहरति –
एवमिति ॥१०॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य सप्तदशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतयां च्छान्दोग्योपनिषद्भाष्यटीकायां चतुर्थोऽध्यायः ॥