अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

पञ्चमोऽध्यायः: प्रथमः खण्डः

वृत्तमनूद्य वर्ति­ष्य­मा­णा­ध्या­यस्य सङ्गतिं सङ्गिरते –
सगुणेति ।
विद्यान्तरं पञ्चा­ग्नि­वि­द्या­ति­रिक्ता सगुणविद्या । तच्छीलिनां तन्निष्ठानामिति यावत् । तामेव गति­म­र्चि­रा­दि­ल­क्ष­णा­मि­त्यर्थः । ततो गति­द्व­या­त्तृ­तीया च विद्या­क­र्म­र­हि­ता­ना­मिति शेषः ।

अथ क्रमेण मुक्ति­स­म्भ­वा­दु­त्तरा गतिरुच्यतां किमिति दक्षिणा तृतीया च संसाररूपा गतिरतिनिकृष्टा व्यपदिश्यते तत्राऽऽह –
कष्टतरेति ।
सगु­ण­ब्र­ह्म­वि­द्या­व­ता­म­र्चि­राद्यां गतिमुक्त्वा समु­च्चि­ता­ना­म­स­मु­च्चि­तानां कर्मणां संसा­र­ग­ति­प्र­भे­द­रूपं फलं वक्तुमयमारम्भ इत्यर्थः ।

कर्मविधिश्च धनसम्पत्तौ सत्यां भवति । तत्सम्पत्तिश्च ब्राह्मणस्य श्रैष्ठ्ये सत्येव सम्भवतीति श्रैष्ठ्य­सि­द्धये प्राणोपासनं पूर्वत्रानुक्तं वक्त­व्य­मि­त्य­न्त­र­ग्र­न्थ­स­ङ्गतिं वदन्प्रसङ्गं करोति –
प्राणः श्रेष्ठ इत्यादिना ।
प्राणो ब्रह्मे­त्या­दि­वा­क्य­मा­दि­श­ब्दार्थः । उदा­हृ­ता­नु­दा­हृ­त­श्रु­त्य­न्त­र­स­मु­च्च­या­र्थ­श्च­कारः ।

प्राणस्य वागादिभ्यः श्रैष्ठ्य­मु­क्त­मा­क्षि­पति –
स कथमिति ।
सर्वै­र्वा­गा­दिभिः संहत्य प्राणस्य कार्यकरत्वे सम्प्रतिपन्ने स एव कथं श्रेष्ठो निर्धार्यते तेषामन्यतमस्यैव श्रैष्ठ्यं किं न स्यादित्यर्थः ।

तस्यैवोपास्यतया श्रैष्ठ्य­मा­शङ्क्य वागा­दी­ना­म­न्य­त­म­स्यो­पा­स्य­त्व­म­पास्य प्राणस्यैव नोपास्यत्वं हेत्व­भा­वा­दि­त्या­क्षे­पा­न्त­र­माह –
कथं चेति ।

प्राणस्य श्रेष्ठत्वं ज्येष्ठ­त्व­मि­त्या­दि­गु­ण­वि­धा­ना­र्थ­मेव ताव­त्प्र­थ­म­मा­र­भ्यते –
यो ह वै ज्येष्ठं चेति ।

आद्यं चोद्यं परिहरति –
प्रथममिति ।

प्राण­स्यै­वो­पा­सनं न वागा­दी­ना­मि­त्ये­त­द­न­न्त­र­मा­र­भ्य­तेऽथ ह प्राण उच्चि­क्र­मि­ष­न्नि­त्या­दि­नेति द्वितीयं चोद्यमुद्धरति –
इदमनन्तरमिति ।

कोऽसौ ज्येष्ठ­त्व­श्रे­ष्ठ­त्व­गुणो वेदितव्य इत्यत आह –
फलेनेति ।

कुतो वागादिभ्यो ज्यैष्ठ्यं प्राणस्य प्रतीतं सर्वे हि वागादयः सप्राणाः सहैव गर्भस्थे स्वतो वृत्तिभागिनो भवन्ति तत्राऽऽह –
गर्भस्थे हीति ।

तत्र गर्भ­वि­वृ­द्धि­द­र्शनं प्रमाणयति –
ययेते ।

कदा तर्हि वागादीनां वृत्ति­ला­भ­स्त­त्राऽऽह –
चक्षुरादीति ।

प्राणस्य ज्यैष्ठ्यं प्रतिपादितं निगमयति –
इति प्राण इति ।

गुण­द्व­य­मु­पा­स्य­त्वाय दर्शितं निगमयति –
अत इति ॥१॥

तदर्थत्वेनैव गुणान्तरं दर्शयति –
यो ह वा इति ।
वसुमत्तमं धन­व­त्त्वा­द­न्येषां निवा­स­का­र­ण­मि­त्यर्थः । तथै­वे­त्यु­पा­स­ना­नु­सा­रे­णेति यावत् । वसिष्ठो ह भवतीति वासयिता वेत्यर्थः ।

वाचो वसिष्ठत्वं समर्थयते –
वाग्मिनो हीति ।
वसुमत्तमाश्च तेना­न्या­न्नि­वा­स­य­न्तीति शेषः ॥२॥

गुणा­न्त­र­मा­ध्या­ना­यो­प­दि­शति –
यो हेति ।

प्रतिष्ठात्वं चक्षुषो विशदयति –
चक्षुषा हीति ॥३॥

गुणान्तरमाह –
यो ह वा इति ।
दैवाः कामाः स्वर्गादयो (वा) मानुषाः पश्वादयः ।

श्रोत्रस्य सम्पत्त्वं साधयति –
यस्मादिति ।
इत्येवं यस्मा­त्त­स्मा­दिति योजना ॥४॥

संप्रति गुणान्तरमाह –
यो हीति ।

कथं पुनरायतनत्वं मनसः सिद्धमित्यत आह –
इन्द्रि­यो­प­हृ­ता­ना­मिति ॥५॥

यथोक्ता गुणा मुख्य­प्रा­ण­गा­मिनो न प्रत्येकं वागादिषु भवन्तीति वक्तु­मा­ख्या­यिकां प्रमाणयति –
अथेति ॥६॥

कञ्चिद्विराजं कश्य­पा­दी­ना­म­न्य­तमं वेत्यर्थः । शरीरस्य पापिष्ठत्वं पाप­का­र्य­प्र­धा­न­त्वम् । इव­श­ब्दोऽ­व­धा­र­णार्थः । उक्तमेवार्थं संक्षिप्याऽऽह –
कुणपमिति ।
त्यक्तप्राणं शवरूपमिति यावत् ।

ननु प्रजापतिः सर्वज्ञो मुख्यमेव प्राणं किमिति श्रेष्ठं नाभिवदति तत्राऽऽह –
काक्वेति ।
अयं श्रेष्ठ इत्युक्ते यत्तेषां वागादीनां दुःखं तत्प­रि­ह­र्तु­मि­च्च­न्प्र­जा­पतिः स्वर­भ­ङ्गो­पा­य­वि­शे­षेण श्रेष्ठ­मु­क्त­वान्न स्फुटमित्यर्थः ॥७॥

अन्यदित्यस्य विषयमाह –
चक्षुरिति ।

बालानामपि बहि­र­न्त­रि­न्द्रि­य­व­त्वा­वि­शे­षा­त्क­थ­म­म­नस इति विशेषणमत आह –
अप्ररूढेति ॥८-९-१०-११॥

परीक्षितेषु श्रेष्ठ­ता­र­हि­तेषु निरूप्य निश्चि­ते­ष्वि­त्ये­तत् । पदनसीलाः पादास्तेषां संहतिः पड्विस्तस्या ईशा नियामकाः शङ्क­वो­व­र्ण­वि­का­र­श्छा­न्दसः । तान्य­थो­क्ता­नश्वो युग­प­दु­त्पा­ट­ये­द्य­थेति दृष्टा­न्त­मुक्त्वा दार्ष्टा­न्ति­क­माह – एवमिति ॥१२॥

मयि श्रेष्ठ­त्व­धी­र्यु­ष्मा­क­म­स्तीति कथं ज्ञातुं शक्य­मि­त्या­श­ङ्क्याऽऽह –
अथेति ।

वचनं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।

क्रिया­वि­शे­ष­ण­त्व­मेव विशदयति –
यद्वसिष्ठत्वेति ।
वसिष्ठत्वेन गुणेनाहं गुणवानस्मीति यत्तत्त्वमेवेति योजना ।

अनन्तरं वाक्यमादाय व्याचष्टे –
त्वमित्यादिना ।

तद्वसिष्ठ इति समस्तपदमिति गृहीत्वा व्याख्याय पक्षान्तरमाह –
अथ वेति ।
यच्छ­ब्द­व­दि­त्य­पे­रर्थः ।

अहं वसि­ष्ठ­त्त्व­गु­णोऽ­स्मीति यत्तत्त्वमेव वसि­ष्ठ­त्व­गु­णोऽ­सीति कथमिदानीमुच्यते । अन्यथा हि पूर्वमभिधानं तवाऽऽ­सी­दि­त्या­श­ङ्क्याऽऽह –
त्वत्कृत इति ।

वाचि दर्शितं न्यायं चक्षु­रा­दा­व­ति­दि­शति –
तथेति ॥१३-१४॥

वागा­दि­व­च­ना­दु­त्थाय प्राणाधीनतां वागादेः श्रुतिरेव कथ­य­ती­त्यु­त्त­रस्य “न वै वाच”(छा.उ. ५ । १ । १५) इत्या­दे­स्ता­त्प­र्य­माह –
श्रुतेरिति ।

तदेव च सोपस्कारं व्याकरोति –
युक्तमित्यादिना ।
यदि सर्वाण्येव करणानि वाक्तन्त्राणि स्युस्तर्हि वाच इत्येव तानि ब्रूयुः । यदि चक्षु­स्त­न्त्राणि स्युस्तदा सर्वाण्येव चक्षूंषीति वदेयुः । न चैवं वदन्ति, प्राणा इति तु तानि कथयन्ति । तस्मा­त्प्रा­ण­पा­र­तन्त्र्यं करणानां सिद्धमित्यर्थः । वागादिभिरुक्तं त्वं तद्व­सि­ष्ठोऽ­सी­त्यादि प्राणस्यैव यथोक्तगुणवतो ध्येयत्वं प्रकरणार्थः । साक्षा­दु­प­सं­हा­रा­द­र्श­ना­दु­प­स­ञ्जि­ही­र्ष­ती­त्यु­क्तम् ।

आख्यायिकाया यथा­श्रु­त­म­र्थ­मा­क्षि­पति –
नन्विति ।
यथा पुरु­षा­श्चे­त­ना­वन्तो विवदमानाः स्पर्धन्ते तथा वागादयोऽचेतनाः स्वकी­य­श्रे­ष्ठ­त्व­सि­द्ध्यर्थं विप्रतिपन्ना मिथः स्पर्धेरन्निति नैव युक्तमचेतनेषु स्पर्धा­दे­र­द­र्श­ना­दि­त्यर्थः ।

किं च वाग्व्य­ति­रि­क्ता­ना­म­न्योन्यं वचनमेवनुचितं वचनस्य वाग्व्या­पा­र­त्वा­दि­त्याह –
न हीति ।

किञ्च वागादीनां देहा­द­प­स­र्प­णा­द्य­यु­क्त­म­चे­त­न­त्वा­दि­त्याह –
तथेति ।
वाशब्दो न हीत्य­स्या­नु­क­र्ष­णार्थः ।

अग्न्या­द­य­श्चे­त­ना­वत्यो देव­ता­स्ता­भि­र­धि­ष्ठि­त­त्वा­त्ता­दा­त्म्या­भि­प्रा­येण वागादीनां चेत­ना­व­त्त्व­स­म्भ­वा­द्व­द­नादि व्यवहारः सम्भ­व­ती­त्य­ग्नि­र्वा­ग्भूत्वा मुखं प्रावि­श­दि­त्या­दि­श्रु­ति­म­नु­सृ­त्यो­त्त­र­माह –
तत्रेति ।

एक­स्मि­न्दे­हेऽ­ने­क­चे­त­ना­वतां प्रसह्य विरु­द्धा­ने­का­भि­प्रा­या­नु­वि­धा­यि­त्वेन देह­स्यो­न्म­थ­न­प्र­स­ङ्गा­द­क्रि­य­त्व­प्र­स­ङ्गाद्वा नाने­क­चे­त­ना­धि­ष्ठि­त­त्व­मे­कस्य देहस्य सम्भवतीति शङ्कते –
तार्किकेति ।

किमे­क­श­री­र­म­ने­क­चे­त­ना­धि­ष्ठितं न भवति किं वा तैर्नि­र्णी­त­कर्तृ भोक्त्र­धि­ष्ठि­त­मिति विकल्प्याऽद्यं दूषयति –
नेति ।
अस्ति हि परमते शरीरस्य जीवा­धि­ष्ठि­त­स्यै­वे­श्व­रा­धि­ष्ठि­तत्वं तथा­च­क­श­री­र­म­ने­क­चे­त­ना­धि­ष्ठितं न भवतीति नास्ति सेश्वरवादिनां शङ्केत्यर्थः ।

संग्रहवाक्यं विवृणोति –
ये तावदिति ।

अचेतनानां चेत­ना­धि­ष्ठि­ता­ना­मेव प्रवृ­त्ति­रि­त्यत्र दृष्टान्तमाह –
रथादिवदिति ।

द्वितीयं प्रत्याह –
न चेति ।

[यदि] कार्य­क­र­णा­ना­म­धि­ष्ठा­तृ­दे­वता तर्हि तत्कार्यकरणानां किम­धि­ष्ठा­तृ­दे­व­ता­न्त­र­मिति पृच्छति –
किं तर्हीति ।

देव­ता­का­र्य­क­र­णा­ना­म­धि­ष्ठा­तृ­दे­व­ता­न्त­र­मिष्टं चेदनवस्था स्यादिति मन्वानं प्रत्याह –
कार्य­क­र­ण­व­ती­ना­मिति ।

शाक­ल्य­ब्रा­ह्म­ण­म­नु­सृ­त्याऽऽह –
प्राणेति ।

ननु भूयस्यो देवताः कथं तासां प्राण­ल­क्ष­णै­क­दे­व­ता­प्र­भे­द­त्व­मत आह –
अध्यात्मेति ।
अध्या­त्मा­धि­भू­ता­धि­दै­वानां भेद­को­टि­र्वि­कल्पो यासामिति विग्रहः ।

निय­न्तृ­त्व­प्र­यु­क्त­व्या­पा­र­वत्त्वं वारयितुं विशिनष्टि –
अध्य­क्ष­ता­मा­त्रे­णेति ।

अथेश्वरस्यापि निय­न्तृ­त्वा­त्का­र्य­क­र­ण­वत्त्वं देवतानामिव स्यादिति चेन्नेत्याह –
स हीति ।
अक­र­ण­त्व­म­का­र्य­त्व­स्यो­प­ल­क्ष­णम् ।

तत्र श्रुतिं प्रमाणयति –
अपाणीति ।
आदिपदेन च “न तस्य कार्यं करणं च विद्यत”(श्वे.उ. ६ । ८) इत्या­दि­म्न­त्र­वर्णो गृहीतः ।

सूत्रात्मा हिरण्यगर्भः सा चैका समष्टिरूपा देवता तदवस्थाभेदानां देवतानामीश्वरो नियन्तेत्युक्तं तत्र प्रमाणमाह –
हिरण्यगर्भमिति ।
आदिपदेन “हिरण्यगर्भः समवर्तत” इत्यादि गृह्यते ।

देवानामीश्वरस्य चास्मिन्देहे भोक्तृत्वाभावे कस्य भोक्तृत्वमित्यत आह –
भोक्तेति ।
तद्विलक्षणो देवतेश्वराभ्यां व्यावृत्त इति यावत् ।

वागा­दि­श­ब्द­वा­च्या­श्चे­त­ना­वत्यो देवता इति स्वीकृ­त्याऽऽ­ख्या­यि­कायाः स्वार्थ­नि­र्वृ­त्त्य­र्थ­मु­क्त­मि­दानीं तस्या­स्ता­त्प­र्य­माह –
वागादीनां चेति ।

कल्प­ना­प्र­यो­ज­न­माह –
विदुष इति ।

यथोक्तां कल्पनां दृष्टान्तेन स्पष्टयति –
यथेत्यादि ।

तेनोक्ता इत्युक्तमेव व्यनक्ति –
एकैकश्येनेति ।

विदुष इत्यादिनोक्तं प्रयोजनं प्रकटयति –
कथं नामेति ।
विद्वा­न्प्रा­ण­श्रे­ष्ठतां कथं नाम प्रतिपद्येतेति सम्बन्धः ।

प्रति­प­त्ति­प्र­कारं संक्षिपति –
वागादीनामिति ।
फलवती कल्पनेति शेषः ।

दृष्टेऽप्यर्थे श्रुति­म­नु­ग्रा­ह­क­त्वेन दर्शयति –
तथा चेति ॥१५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य प्रथमः खण्डः ॥

वागादीनां स्वामी श्रैष्ठ्या­दि­गुणः प्राणोऽस्मीति विद्यादिति प्रधा­न­वि­द्या­मु­प­दिश्य तद्द­र्श­ना­ङ्ग­भू­ता­न्न­वा­सो­दृ­ष्टि­वि­धा­नार्थे प्रक्रमे प्रथ­म­म­न्न­दृष्टिं विधातुं प्रसङ्गं प्रकुरुते –
स होवाचेति ।

मुख्यस्य प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च काल्पनिकमित्याह –
मुख्यमिति ।
यदि­द­मि­त्यु­क्त­मेव च यत्पदं वाक्या­र्थ­क­ल्प­नार्थं यद­न्न­मि­त्य­त्रा­नू­द्यते ।

तद्वा एत­दि­त्या­द्यु­त्त­र­वा­क्यस्य पूर्व­वा­क्या­द­र्थ­भे­दा­भा­व­मा­श­ङ्क्याऽऽह –
प्राणस्येति ।

प्राणशब्दं विहा­या­न­श­ब्द­प्र­योगे तात्पर्यमाह –
सर्वप्रकारेति ।
अन चेष्टा­या­मि­ति­धा­तु­ज­स्या­न­श­ब्द­स्यो­पा­दानं सर्व­प्र­का­र­चे­ष्टया प्राणस्य व्याप्ति­गु­ण­प्र­द­र्श­ना­र्थम् । तथा च यः कोऽपि दहति शोषयति प्लावयति वा स सर्वोऽपि प्राण एवेति युक्तं प्राणस्यान इति नामेत्यर्थः । प्रत्यक्षं पूर्वो­क्त­धा­तु­जन्म नामेति यावत् ।

उक्तमेवार्थं समर्थयते –
प्रादीति ।
अनशब्दस्येति शेषः । न प्राणस्य सर्व­चे­ष्टा­प्ति­रि­त्ये­व­का­रार्थः । तथा च प्राणा­दि­श­ब्दो­पा­दाने विशे­ष­व्या­प्ति­रे­वेति स्थिते सतीत्यर्थः । अन इति प्रत्यक्षमिदं नाम सर्वा­न्ना­ना­म­त्तु­र्ना­म­ग्र­ह­ण­मिति सम्बन्धः ।

तदेव व्याचष्टे –
सर्वान्नानामिति ।

ततश्च प्राणशब्दस्य प्राणविदः सर्वमन्नं चेत्तद्विदुषो भक्ष्या­भ­क्ष्य­वि­भा­गा­सिद्धौ तद्विषयं शास्त्रं विरु­ध्ये­ते­त्या­श­ङ्क्याऽऽ­ध्या­त्मिकं रूपं हित्वाऽऽ­धि­दै­वि­केन रूपेण तस्य सर्वान्नत्वे विभा­ग­शा­स्त्र­मा­ध्या­त्मि­क­प­रि­च्छे­द­वि­ष­य­त्वे­ना­वि­रु­द्ध­मि­त्याह –
प्राण­भू­त­त्वा­दिति ।

प्राणभूतो विद्वानित्यत्र श्रुत्यन्तरं संवादयति –
प्राणादिति ॥१॥

प्राण­वि­द्या­ङ्ग­त्वे­ना­न्न­दृ­ष्टि­रु­प­दिष्टा । संप्रति तदङ्गत्वेन वासोदृष्टिं प्रस्तौति –
स होवाचेति ।

अत्रापि प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च कल्पितमेवेत्याह –
पूर्ववदिति ।

अपां प्राणं प्रति वासोरूपत्वे गमकमाह –
यस्मादिति ।

वासो­दृ­ष्टि­फ­ल­मा­चष्टे –
लम्भुक इति ।

अनग्नो ह भवतीत्यस्य पौन­रु­क्त्य­मा­श­ङ्क्या­र्थ­वि­शे­ष­माह –
वासस इति ।

आचमनान्तरं प्राणविदो विधीयत एवं­वि­द­शि­ष्य­न्ना­चा­मे­दिति श्रुते­रि­त्या­श­ङ्क्याऽऽह –
भोक्ष्य­मा­ण­स्येति ।
आदिपदेन प्रतिवचने गृह्येते ।

सर्व­प्रा­णि­भो­ग्येऽन्ने तस्या­न्न­मि­ति­दृ­ष्टि­व­दा­च­म­नी­या­स्वप्सु तस्य विधीयते वासो­दृ­ष्टि­रि­त्युक्तं व्यतिरेकद्वारा विवृणोति –
यदीति ।
ताद­र्थ्ये­ना­न­ग्न­ता­र्थ­त्वे­नेति यावत् ।

अथ पूर्व­म­न्न­दृ­ष्टि­रेव विधीयते सर्वा­न्न­भ­क्ष­णस्य प्रमा­ण­वि­रु­द्ध­त्वा­दिह त्वपू­र्व­मा­च­म­न­म­वि­रो­धा­द्वि­धी­य­ता­मि­त्या­श­ङ्क्याऽऽह –
तुल्ययोरिति ।

एकस्याऽऽचमनस्य शुद्ध्य­र्थ­त्व­म­न­ग्न­ता­र्थत्वं च वक्तुमशक्यं विरो­धा­दि­त्या­श­ङ्क्याऽऽह –
यत्त्विति ।
विरोधो यथा स्यात्तथेति यावत् ।

तर्हि कीदृगाचमनं विवक्षितमित्याह –
किं तर्हीति ।

प्रयतस्य भावः प्रायत्यं तदर्था याऽऽचमनक्रिया तत्सा­ध­न­भू­ता­स्वप्सु वासःसङ्कल्पनं क्रियान्तरमत्र विधि­त्सि­त­मि­त्याह –
प्रायत्येति ।

क्रियाभेदे फलितमाह –
तत्रेति ।
अन्या­र्था­स्व­प्स्व­न्या­र्थ­त्व­चि­न्तने प्रमा­ण­वि­रो­धा­द्वि­धि­यो­गेन वासो­र्थ­मा­च­म­ना­न्त­र­मेव विधेयं तत्र चान­ग्न­ता­र्थ­त्व­चि­न्त­न­मु­चि­त­मिति शङ्कार्थः ।

वासो­र्था­पू­र्वा­च­म­न­वि­धाने तत्रा­न­ग्न­ता­र्थ­त्व­दृ­ष्टि­वि­धाने च वाक्य­भे­द­प्र­स­ङ्गा­त्प्र­सि­द्धा­च­म­न­सा­ध­न­भू­ता­स्वप्सु वासोदृष्टिपरमेव च वाक्य­मि­त्यु­त्त­र­माह –
नेत्यादिना ।
वासो­र्थ­त्व­म­न्या­र्थत्वं दृष्ट्य­र्थ­त्व­मि­त्युक्ते प्रमाणस्यैकस्य वाक्य­स्या­प्र­मा­ण­त्व­प्र­स­ङ्गा­दिति यावत् ॥२॥

तद्धै­त­दि­त्या­दि­वाक्यं न विधानार्थं नापि फलवचनं तथा च व्यर्थ­मि­त्या­श­ङ्क्याऽऽह –
तदेतदिति ।

स्तुतिमेव प्रश्नपूर्वकं विवृणोति –
कथमिति ।
जीवते पुरुषाय प्राणविद्याविदे तद्दर्शनं ब्रूया­त्त­दाऽ­स्मि­न्म­हा­फलं भवतीति किमु वक्तव्यमिति योजना ॥३॥

गोदो­ह­न­व­द­धि­कृ­ता­धि­का­र­मिदं कर्म प्राण­वि­दोऽ­स्मि­न्न­धि­का­रोऽ­स्ती­त्याह –
यथोक्तेति ।
अनन्तरं प्राण­वि­द्या­नि­ष्प­त्ते­रिति शेषः ।

वाक्यशेषं पूरयति –
तस्येति ।

महत्त्वद्वारा विष­यो­प­भो­ग­का­मु­कस्य कर्मविधायि शास्त्रं श्येना­दि­शा­स्त्र­व­द­न­र्थ­फ­ल­मे­वे­त्या­श­ङ्क्याऽऽह –
महत्त्वे हीति ।
तस्येति प्रकृ­त­म­न्था­ख्य­क­र्मोक्तिः । काला­दी­त्या­दि­शब्दो द्रव्या­दि­सं­ग्र­हार्थः । दैक्षं दीक्षायां भवं मौञ्ज्य­भ्य­ञ्ज­नादि न सर्व­मे­वा­य­म­नु­ति­ष्ठति । प्रकृतिधर्मा हि विकृ­ता­व­नु­व­र्तन्ते । प्रकृ­ति­व­द्वि­कृतिः कर्तव्येति न्यायात् । न चेदं कर्म कस्य­चि­द्वि­कृ­ति­रतो यथो­क्त­ध­र्म­व­त्त्व­मे­वात्र विव­क्षि­त­मि­त्यर्थः ।

दीक्षि­त्वे­त्य­नेन विवक्षितं धर्मान्तरमाह –
उपसदिति ।
उपसदो नामेष्टयः प्रवर्ग्याहस्सु प्रसिद्धाः । तासु व्रतं पयोमात्रभक्षणं तदुपेतो भूत्वा मन्थं सम्पाद्य जुहोतीति वाजसनेयके समानप्रकरणे श्रवणादिति यावत् । पिष्टं कृत्वा तदाममपक्वमेव दधिमधुनोः सम्बन्धिपात्रे प्रक्षिप्येति सम्बन्धः । औदुम्बरत्वे नियमः । पात्रस्याऽऽकारे तु विकल्पः ।

कथमश्रुतं पात्रमत्र कल्प्यते तत्राऽऽह –
श्रुत्य­न्त­रा­दिति ।
औदुम्बरे केशाकारे कंसे चमसे वेति वाजसनेये श्रव­णा­त्स­र्व­शा­खा­प्र­त्य­य­न्या­ये­ना­पे­क्षितं पात्रमत्र गृहीतमित्यर्थः । आवसथसम्बन्धी लौकि­कोऽ­ग्नि­रा­व­सथ्यो विविक्षितो यस्मि­नौ­पा­स­नाख्यं कर्म क्रियते । आज्यस्य हुत्वेति सम्बन्धः । आवा­प­स्था­न­मा­हु­ति­प्र­क्षे­प­प्र­देशो गृह्योक्तः ॥४॥

वसिष्ठाय स्वाहे­त्या­दि­वाक्यं पूर्ववाक्येन तुल्या­र्थ­मि­त्याह –
समानमिति ।

तुल्यत्वमेव स्पष्टयति –
वसिष्ठायेति ।
स्वाहेति मन्त्रं समुच्चार्य हुत्वेति सम्बन्धः । तथैव प्रथ­म­हो­मा­न­न्त­र­मि­त्यर्थः ॥५॥

आहु­त्या­न­न्त­र्य­म­थ­श­ब्दार्थः । भवतु प्राणस्येदं नाम मन्थस्य तु कथं मन्त्रा­र्थ­त्व­मि­त्या­श­ङ्क्याऽऽह –
अन्नेन हीति ।

प्रति­ज्ञा­तेऽर्थे प्रश्नपूर्वकं हेतुमाह –
कुत इति ।
अतश्चामो नामासीति पूर्वेण सम्बन्धः ।

हेतुं व्याचष्टे –
यस्मादिति ॥६॥

अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति –
मन्त्रस्येति ।
मन्त्रस्यैकैकेन पादेन मन्थस्यैकैकं ग्रासं भक्षयतीति योजना । भोजनं मन्थरूपमिति सम्बन्धः ।

तत्कथं सवितुः स्यात्प्राणस्य हि मन्थ­द्र­व्य­म­न्न­मि­त्युक्तं तत्राऽऽह –
प्राणमिति ।
उच्यते सवितुर्भोजनमिति शेषः ।

प्राणा­दि­त्य­यो­रे­कत्वे फलितं वाक्यार्थमाह –
आदित्यस्येति ।
मन्थरूपं तद्भोजनमिति पूर्वेण सम्बन्धः ।

प्रार्थनाविषयं भोजनमेव विशिनष्टि –
येनेति ।
तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि ।

स्थिति­का­र­ण­त्व­मुक्त्वा जनकत्वं पक्षान्तरमाह –
अतिशयेनेति ।
जगद्व्याप्तौ फलदाने ध्यातुः शैघ्र्यम् ।

किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह –
विशिष्टेति ।

शुद्धधीत्वं ध्यान­का­र­ण­मुक्त्वा प्रकृ­त­क­र्म­व­त्प्रे­प्सि­त­म­हत्त्वे हेतुत्वादपि ध्यान­म­नु­ष्ठे­य­मि­त्याह –
अथवेति ।
सावित्रं रूपमुक्तम् । नियमेनौदुम्बरं वैकल्पिकाकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति सम्बन्धः ।

मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽ­च­म­न­पू­र्व­क­मग्नेः पश्चिमभागे कृष्णा­जि­न­व्य­व­हि­तायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह –
पीत्वेति ।

शयानस्य कर्तव्यं दर्शयति –
वाचंयम इति ।

तस्य स्वप्ने कथ­ञ्चि­दु­त्त­म­स्त्री­द­र्शने शुभागमः सूच्यत इत्याह –
स एवंभूत इति ॥७-८॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य द्वितीयः खण्डः ॥

प्राणविद्या तदङ्गकर्म चेत्यु­भ­य­मु­क्त­मि­दा­नी­म­ग्नि­वि­द्या­मा­ख्या­तु­का­म­स्ता­व­दा­ख्या­यि­का­ता­त्प­र्य­माह –
ब्रह्मादीति ।

तासां च वक्तव्यत्वे हेतुमाह –
वैराग्यहेतोरिति ।
राजा कुमारेति सम्बो­ध­य­न्न­भि­मानं श्वेत­के­तो­र­प­नि­नी­षति ॥१॥

यथे­त्य­स्या­र्थ­माह –
येनेति ।
विद्व­द­वि­दु­षो­स्तु­ल्य­मा­र्गयोः सतोर्द्वा मार्गौ तयोर्मध्ये देव­या­न­स्ये­त्यादि योज्यम् ।

उक्तं वाक्यार्थं संक्षिपति –
इतरेतरेति ।
विदुषां च कर्मिणां च मार्ग­द्व­य­म­धि­कृत्य सह प्रस्थितानां यत्र मिथो वियोगो भवति तत्किं वेत्थेत्यर्थः ॥२॥

पितृ­लो­क­स­म्ब­न्धिनं लोकमेव व्याकरोति –
यं प्राप्येति ।
आहुतिनिर्वृत्ता इत्यस्य व्याख्या­न­मा­हु­ति­सा­ध­ना­श्चेति । अपू­र्व­रू­पा­णा­मपां भूता­न्त­र­स­मु­च्च­या­र्थ­श्च­कारः । अथवा पयो­घृ­ता­दि­रू­पे­णाऽऽ­हुतिं साधयन्तीति चाऽऽहुत्या पुनरपूर्वात्मना निष्पन्ना इत्यर्थः ।

क्रमेणेति ।
श्रद्धा­सो­म­वृ­ष्ट्य­न्न­रे­तसां हवनद्वारेणेति यावत् । षष्ठा­हु­ति­भू­ता­ना­म­न्त्ये­ष्टि­वि­धा­नेन शरीराहुतिद्वारा सूक्ष्मतां गतानामित्यर्थः ॥३॥

त्वत्पृ­ष्टा­र्थ­जा­ता­ति­रि­क्त­वि­ष­य­म­नु­शा­सनं ममा­स्ती­त्य­नु­शि­ष्टोऽ­स्मी­त्यु­क्त­मि­त्या­श­ङ्क्याऽऽह –
यो हीति ॥४॥

अननुशिष्य त्वामन्वशिषमिति कथ­मु­क्त­वा­न­स्मी­त्या­श­ङ्क्याऽऽह –
यत इति ।
नैक­ञ्च­ने­त्यु­क्त­मेव नञ्पदं नाशकमिति सम्बन्धं दर्शयितुं पुनरुपात्तम् । अतो मां प्रति तव मिथ्यावादिता सिद्धेति शेषः ।

पिता स्वकी­य­मि­थ्या­वा­दि­त्व­शङ्कां परिहरति –
स होवाचेति ।

यथा मा त्वमि­त्या­दि­वाक्यं पूरयित्वा व्याख्या­या­न­न्त­र­वा­क्य­मा­का­ङ्क्षा­पू­र्व­क­मु­त्था­प­यति –
कथमित्यादिना ।

तद्व्याचष्टे -
यथेति ।
अज्ञा­ना­वि­शे­षोऽ­तः­श­ब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तावनुक्तिरिति यावत् ।

त्वदीयमज्ञानं कुतो हेतोर्मया ज्ञात­व्य­मि­त्या­श­ङ्का­मु­द्भा­व्या­न­न्त­र­वा­क्ये­नो­त्त­र­माह –
कुत इत्यादिना ।
अतस्तव पात्र­भू­त­स्या­नु­प­दे­शा­न्म­दी­य­म­ज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामित्यर्थः । सभागपदं सप्तम्यन्तं राजविषयं प्रथमान्तं गौतमविषयमिति भेदः ।

गौतममागतं योगक्षेमार्थिनं बुद्ध्वा राजा प्रसन्नः सन्नु­क्त­वा­नि­त्याह –
तं होवाचेति ।

तर्हि कृतकृत्यस्य तव किमि­त्या­ग­म­न­मि­त्या­श­ङ्क्याऽऽह –
यामेवेति ।

कृच्छ्री­भा­व­म­भि­न­यति –
कथमिति ॥५ -६॥

गौतमस्य वचनं[यदि]राज्ञो दुःखीभावकारणं तर्हि प्रत्या­ख्या­य­ता­मि­त्या­श­ङ्क्याऽऽह –
स हेति ।

किमिति तर्हि चिरं वसे­त्यु­क्त­वा­नि­त्यत आह –
न्यायेनेति ।
संवत्सरं वसेति यावत् । वक्तव्या विद्येति शेषः ।

कथं राज्ञो ब्राह्मणं प्रत्याज्ञां कुर्वतो न प्रत्यवायः स्यादि­त्या­श­ङ्क्याऽऽह –
यत्पूर्वमिति ।
प्रत्या­ख्या­ना­दि­वि­षयं हेतुवचनम् । न केवलं विद्यावशादेव श्रैष्ठ्यं किन्तु जाति­तोऽ­पी­त्य­पे­रर्थः ।

तर्हि ब्रूहि तां वाच­मि­त्या­श­ङ्क्याऽऽह –
तत्रेति ।
विद्याप्रवचने प्रस्तुते सतीति यावत् ।

यथे­त्य­स्या­पे­क्षितं पूरयति –
तथेति ।

प्रसिद्धमेव स्फोरयति –
तस्मादिति ।
ब्राह्मणानामनया विद्यया प्रशास्तृत्वस्य प्रागभावादिति यावत् ।

इति­श­ब्दो­पा­त्त­मर्थं कथयति –
क्षत्त्रियेति ।
उक्त­प्र­त्या­ख्या­ना­दि­का­र­ण­म­तः­श­ब्दार्थः ॥७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य तृतीयः खण्डः ॥

ननु यथाप्रश्नमेव प्रतिवचनमुचितं पञ्चमं तु प्रश्नं प्राथम्येन प्रतिवदता क्रमो निराकृतस्तत्र किं कारणमत आह –
पञ्चम्यामिति ।
अर्थ­क्र­म­म­नु­सृत्य पाठ­क्र­मोऽ­भि­धा­तव्य इत्यर्थः ।

ननु वाज­स­ने­य­केऽ­ग्नि­हो­त्र­प्र­क­र­णेऽ­ग्नि­हो­त्रा­हु­त्य­पू­र्व­प­रि­णामं जगदित्युक्तं तदेवेहापि विवक्ष्यत इति चेत्किमनेन पिष्ट­पे­ष­ण­न्या­ये­ने­त्या­श­ङ्क्या­र्थ­भेदं वक्तु­म­ग्नि­हो­त्र­प्र­क­र­ण­स्थि­त­म­र्थ­म­नु­व­दति –
अग्नि­हो­त्रा­हु­त्यो­रिति ।

उक्तप्रकारमेव प्रद­र्श­य­न्प्र­थमं याज्ञवल्क्यस्य जनकं प्रति पट्प्र­श्ना­नु­त्था­प­यति –
तं प्रतीति ।
कार्या­र­म्भ­स्त­च्छ­ब्दार्थः । अग्नि­हो­त्रा­हु­त्य­न्ना­पू­र्व­प­रि­णामो जगदिष्यते । तत्राग्निहोत्रे सायं प्रातश्च हुत­यो­रा­हु­त्यो­र­स्मा­ल्लो­का­दु­त्क्रान्तिः । उत्क्रान्तयोः परलोकं प्रति गतिः । गतयोस्तत्र प्रतिष्ठा । प्रतिष्ठितयोः स्वाश्रये सम्पाद्यमाना तृप्तिः । तृप्ति­मा­पा­द्या­व­स्थि­तयोः पुनरिमं लोकं प्रत्यावृत्तिः । आवृत्तयोराश्रयः पुमान्कथममुं लोकं प्रत्यु­त्था­न­शीलो भवतीति कार्या­र­म्भ­म­धि­कृत्य पट्प्रश्नाः प्रवृत्ता इत्यर्थः ।

तत्रैव वाजसनेयके याज्ञवल्क्यं प्रति जनकस्य प्रतिवचनं दर्शयति –
तेषां चेति ।
अपूर्वरूपे खल्वाहुती यज­मा­न­मु­त्क्रा­मन्तं परि­वे­ष्ट्यो­त्क्रा­मतः । ते च धूमादिना यज­मा­नेऽ­न्त­रि­क्ष­मा­वि­शति तदा­श्रि­त­त्वा­त्त­दा­वि­शतः । ते पुन­र­न्त­रि­क्ष­स्थ­य­ज­मा­ना­नु­कू­ल­तया स्थिते स्वय­म­न्त­रि­क्षा­धि­क­रणे तदाहवनीयमिव कुर्वाते । आहु­त्य­धि­क­र­ण­स्याऽऽ­ह­व­नी­य­त्वात् तत्र वायुं समिधमिव कुरुतः । वायु­नाऽऽ­न्त­रि­क्षस्य समिध्यमानत्वात् । शुक्लां शुद्धामाहुतिमिव मरी­ची­रे­वाऽऽ­द­धाते । मरी­ची­ना­म­न्त­रिक्षे व्याप्तत्वात् । ते चान्तरिक्षस्थे तन्निष्ठं यजमानं फलोन्मुखमादधाते । ते पुन­र­न्त­रि­क्षा­दु­त्क्रा­मति यजमाने सहोत्क्रामतः । यजमाने च द्युलोकमाविशति सहाऽऽविशतः । तमाविश्य तमेवाऽऽहवनीयं कुर्वाते आदित्यं समि­ध­मि­त्या­द्य­न्त­रि­क्ष­व­दे­वो­क्तम् । यथा वाऽऽहुती पूर्वमन्तरिक्षं तर्पयत इत्युक्तं तथैव द्युलो­क­स्थ­य­ज­मानं फलदानेन सुखिनमातन्वाते । ते चाऽऽरब्धक्षये ततो द्युलो­का­द्य­ज­माने पृथि­वी­गा­वि­श­त्य­ब्भूते सहाऽऽवर्तेते । पृथिवीं चाऽऽविश्य व्रीह्यादिना स्वाश्रयं श्लेपयित्वा रेतःसिघ्मं पुरु­ष­मा­श्र­य­द्वा­रे­णाऽऽ­वि­शतः । पुरुषाच्च रेतोद्वारा द्वितीयां प्रकृतिमाविश्य गर्भीभूतं कर्मा­नु­ष्ठा­न­योग्यं देह­भा­गि­न­मा­पा­द­यतः । ततोऽसौ पारलौकिकं कर्मा­नु­ष्ठा­यान्ते लोकं प्रत्यु­त्था­न­शीलो भवति । इति सर्वं जन­के­नो­क्त­मि­त्यर्थः ।

तथाऽपि कथ­म­र्थ­भे­द­सि­द्धि­रि­त्या­श­ङ्क्यो­क्त­मेव संक्षिप्याऽऽह –
तत्रेति ।
वाजसनेयकं सप्तम्यर्थः ।

प्रकृ­त­श्रु­ते­र­र्थ­वि­शेषं दर्शयति –
इह त्विति ।
पञ्चधा द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षि­त्प्र­का­रै­रिति यावत् ।

पञ्चा­ग्नि­स­म्ब­न्ध­म­व­तार्य प्रथमपर्यायस्य तात्पर्यमाह –
इहेति ।
अयं लोको भूलो­क­स्त­स्मि­न्नि­त्यर्थः ।

आहु­त्यो­र­प्स­म­वा­यि­त्व­सि­द्ध्यर्थं विशिनष्टि –
पय आदीति ।

तयोः श्रद्धा­त्व­सि­द्ध्यर्थं श्रद्धापुरःसरे इत्युक्तम् । तयो­र­धि­क­र­णोऽ­ग्नि­रि­त्या­दि­क­ल्प­नो­प­यो­गि­त्वेन विशे­ष­णा­न्त­र­मा­दत्ते –
आहवनीयेति ।

तयोः स्वातन्त्र्यं परिहरति –
कर्त्रादीति ।
अधिकरणशब्दो भावप्रधानो धर्मिपरः । काल्पनिको द्युलो­का­ख्योऽ­ग्नि­स्त­त्स­म्ब­न्ध­मिति तच्छ­ब्दोऽ­ग्नि­वि­षयः ।

अन्य­च्चे­त्युक्तं स्पष्टयति –
समिदादीति ।
आदिशब्दो धूमा­र्चि­र­ङ्गा­रा­दि­वि­षयः ।

पर्या­य­ता­त्प­र्य­मु­क्त्वाऽऽ­क्ष­राणि व्याकरोति –
असावित्यादिना ।
इहे­त्ये­त­ल्लो­क­नि­र्देशः पूर्वेण सम्बध्यते । तदु­त्था­ना­दि­त्यत्र तच्छ­ब्दे­नाऽऽ­दित्यो गृहीतः ॥१॥

अध्या­त्मा­धि­दै­व­वि­भा­गेन देवान्विशदयति –
यजमानेति ।

प्रत्य­य­वि­शे­ष­त्वेन श्रद्धाया होम्य­त्वा­नु­प­प­त्ति­रि­त्या­शङ्क्य श्रद्धां व्याकरोति –
अग्निहोत्रेति ।

किञ्च प्रश्न­प्र­ति­व­च­न­यो­रे­का­र्थ­त्वा­त्प्रश्ने चापां होम्यतया श्रुत­त्वा­त्प्र­ति­व­च­नेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह –
पञ्चम्यामिति ।

अप्सु श्रद्धाशब्दस्य वृद्ध­व्य­व­हा­र­प्र­यो­गा­भा­वा­न्नै­व­मि­त्या­श­ङ्क्याऽऽह –
श्रद्धेति ।

कथमापः श्रद्धाशब्देन प्रसि­द्ध­व­दु­च्यन्ते तत्राऽऽह –
श्रद्धामिति ।
श्रद्धा­पू­र्व­क­हो­म­मु­द्दिश्य पयः­सो­मा­ज्या­दि­सा­धनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः सम्भवतीत्यर्थः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्यं चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः ।

तथाऽपि यजमानानां कथं फलवत्वमत आह –
यजमानाश्चेति ।
आहुती तच्छब्दवाच्ये प्राधान्यं मयडर्थः ।

तदेव स्पष्टयति –
आहु­ति­भा­व­ना­भा­विता इति ।
तत्सं­स्तु­ता­स्त­द­नु­सा­रि­ण­स्त­दा­श्रया इत्यर्थः ।

तद्भा­वि­त­त्व­फ­ल­माह –
आहुतिरूपेणेति ।
तेनाऽऽकृष्टत्वं वशीकृतत्वम् ।

आहुतिभाविता इत्युक्तं स्पष्टयति –
श्रद्धेति ।
तत्पूर्वकं पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । सोम­भू­ता­स्त­त्स­मी­पस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः ।

कथं सोमसारूप्यं कर्मिणां फल­मि­त्या­श­ङ्क्याऽऽह –
तदर्थमिति ।

यजमानानां सोमभावो गतिमन्तरेण न सिध्यति । तथा च वक्तव्या गति­रि­त्या­श­ङ्क्याऽऽह –
अत्रेति ।
आहवनीयोऽग्निः सप्तम्यर्थः ।

सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह –
तां त्विति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य चतुर्थः खण्डः ॥

द्विती­य­हो­म­स­म्बन्धी द्वितीयः पर्या­य­स्त­स्यार्थं निर्ज्ञातुं तमेव पर्यायमादत्ते श्रुतिरित्यर्थः । पुरो­वा­ता­दी­त्या­दि­श­ब्देन वर्ष­हे­तु­र्वा­यु­भेदो गृह्यते । उक्तं चाभ्राणां धूमकार्यत्वं पौराणिकैः –
“यज्ञधूमोद्भवं त्वभ्रं द्विजानां च हितं सदा । दावा­ग्नि­धू­म­स­म्भू­त­मभ्रं वनहितं स्मृतम् ॥
मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभि­चा­रा­ग्नि­धू­मोत्थं भूतनाशाय वै द्विजाः ॥”
इति ॥१॥

अध्यात्मं यजमानस्य प्राणा, इन्द्रा­द­य­स्त्व­धि­दै­वतं देवा इत्याह –
पूर्ववदिति ।

सोमं राजानमित्यादि व्याचष्टे –
श्रद्धाख्या इति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य पञ्च­म­ष­ष्ठ­स­प्त­म­खण्डाः ॥

तस्या आहुतेर्गर्भः सम्भवतीत्युक्तं व्यक्तीकरोति –
एवमिति ।
यथोक्तया रीत्या श्रद्धादीनां रेतोन्तानां यानि द्युलोकादिषु योषि­द­न्ते­ष्व­ग्निषु हवनानि तेषा­मे­कै­क­स्मि­न्प­र्याये यः क्रमो व्याख्या­त­स्ते­नेति यावत् ।

कथं पुनरापो गर्भीभवन्ति भूतान्तराणामपि तुल्यो गर्भीभावस्तस्य पाञ्च­भौ­ति­क­त्वा­दत आह –
तत्रेति ।
भूतानां मध्ये ।

किमित्यपां प्राधा­न्य­वि­व­क्ष­यैष निर्दे­श­स्ता­सा­मेव केवलानां कार्या­र­म्भ­क­त्व­वि­वक्षा किं न स्यात्तत्राऽऽह –
न त्विति ।
भूता­न्त­रा­स­ह­कृ­तानां केव­ला­ना­म­पा­मा­र­म्भ­कत्वे यदारब्धं कार्य न तद्भोगायतनं तस्य जल­बु­द्बु­द­व­द­त्य­न्त­च­ञ्च­ल­त्वा­दि­त्यर्थः ।

केव­ला­ना­म­प्त्व­मु­पे­त्यो­क्त­मि­दानीं तदेव नास्तीत्याह –
न चेति ।
इतिशब्दस्तासां त्रिवृतं त्रिवृ­त­मे­कै­का­म­क­रो­दिति श्रुतेरिति हेत्वर्थः ।

सर्वस्य त्रिवृत्कृतत्वे कथं दृष्टो विशेषव्यपदेशो युज्ये­ते­त्या­श­ङ्क्याऽऽह –
त्रिवृ­त्कृ­त­त्वेऽ­पीति ।

अपां प्राधा­न्य­वि­व­क्षया प्रश्न­प्र­ति­व­च­न­यो­र­प्शब्द इत्यु­क्त­मु­प­सं­ह­रति –
तस्मादिति ।
केव­ला­ना­म­पा­म­स­त्त्वा­दिति यावत् ।

कथमारम्भकेषु भूतेष्वपां बाहु­ल्य­म­व­ग­त­मि­त्या­शङ्क्य कार्यद्वारा तदधिगतिरित्याह –
दृश्यते चेति ।

सोमा­दी­ना­म­ब्बा­हु­ल्येऽपि कथं पार्थिवशरीरस्य तद्बा­हु­ल्य­मि­त्या­श­ङ्क्याऽऽह –
बहुद्रवं चेति ।

पञ्च­म­प्र­श्न­नि­र्ण­य­मु­प­सं­हर्तुं पातनिकां करोति –
तत्रेति ।
योषाग्नाविति यावत् । गर्भीभूताः पुरुषवचसो भवन्तीति सम्बन्धः ॥१ -२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्च­मा­ध्या­य­स्या­ष्टमः खण्डः ॥

उक्तार्थे वाक्यं योजयति –
इति त्विति ।

अपां गर्भी­भा­वो­क्ति­मा­त्रेण पुरुषवचस्त्वस्य निर्णी­त­त्वा­द­ल­मु­त्त­र­ग्र­न्थे­ने­त्या­शङ्क्य तस्य तात्पर्यमाह –
यत्त्विति ।
आहुत्योः सम्बन्धीति शेषः । प्रासङ्गिकं गर्भी­भा­वो­क्ति­प्र­स­ङ्गा­दा­ग­त­मिति यावत् । इहेति प्रकृ­त­श्रु­त्युक्तिः ।

प्रासङ्गिकीं सङ्गतिं त्यक्त्वा साक्षादेव पूर्वो­त्त­र­ग्र­न्थ­यो­रस्ति सङ्गतिरिति तात्प­र्या­न्त­र­माह –
इह चेति ।
प्रजा­ना­मू­र्ध्व­ग­म­न­मु­त्त­रत्र निरूपयिष्यते । तादर्थ्येन तासा­मु­त्प­त्ति­रा­दा­वु­च्यत इत्यर्थः ।

द्विधा सङ्गतिमुक्त्वा वाक्याक्षराणि योजयति –
स गर्भ इति ।
सोम­वृ­ष्ठ्य­न्न­रे­तां­स्य­पेक्ष्य पञ्चमत्वं गर्भाख्यस्य परिणामस्य द्रष्टव्यम् । अपां प्रकृ­त­त्व­द्यो­त­ना­र्थ­मा­हु­ती­त्या­दि­वि­शे­ष­ण­द्व­यम् । अथवा पूर्वो­क्ता­त्का­ला­न्न्यू[ने]ना­धि­केन वा कालेन यावता जन्तुः समग्राङ्गो जायते तावता कालेन कुक्षौ शयित्वेति सम्बन्धः । अनन्तरं योनितो निर्ग­म­न­का­र­णी­भू­त­क­र्मा­भि­व्य­क्ते­रिति शेषः ।

उल्बावृतत्वं कुक्षौ चिरं शयनं योनितो निःस­र­ण­मि­त्ये­त­द­शे­ष­म­ति­प्र­सिद्धं किमिति श्रुत्या व्यपदिश्यते तत्राऽऽह –
उल्बावृत इत्यादीति ।

वैरा­ग्या­र्थ­त्व­मस्य स्पुटयति –
कष्ट हीति ।
श्लेष्मा­दी­त्या­दि­श­ब्दे­ना­सृ­क्पू­य­स्ना­यु­म­ज्जा­दीनि गृह्यन्ते । तदनुलिप्तस्येति तच्छब्दो मूत्र­पु­री­षा­दि­वि­षयः । शक्ति­र्बु­द्धि­सा­म­र्थ्यम् । बलं देहसामर्थ्यम् । वीर्य­मि­न्द्रि­य­सा­म­र्थ्यम् । तेजः शरीरगता कान्तिः । प्रज्ञा चेतना जीवधर्मः । चेष्टा प्राणधर्मः । ता निरुद्धा यस्य तस्येति विग्रहः ।

मातुरुदरे शयानस्य कष्टत्वेऽपि तदु­द­रा­द्यो­नि­द्वारा निःसरणं सुखकरमिति चेन्नेत्याह –
तत इति ।

तद्ग्रा­ह­क­त्व­प्र­का­र­मे­वा­भि­न­यति –
मुहूर्तमपीति ।

यन्मा­तु­र­न्तः­श­यनं मुहूर्तमपि दुःसहं तत्कथं दीर्घकालं शयितुं शक्यम् । कथं च दश वा नव वा मासानन्तः शयित्वा पुनर्योनिद्वारा दुष्करं निःसरणं दुःसह्यं स्यादिति वैराग्यं ग्राहयति –
श्रुतिरित्यर्थः ॥१॥

जातस्य पुनरनर्थो नास्ती­त्या­श­ङ्क्याऽऽह –
स एवमिति ।

याव­दा­यु­ष­मि­त्ये­त­द्व्या­चष्टे –
पुनरिति ।
घटी­य­न्त्र­व­दू­र्ध्व­ग­म­नार्थं वा निषिद्धं कर्म पौनः­पु­न्ये­नाऽऽ­च­र­न्या­व­त्क­र्म­णाऽ­र्जि­त­मा­यु­स्ता­व­द­स्मि­न्देहे जीवति ततो म्रियते । तथा च जातस्य मृत्यु­ध्रौ­व्या­न्नास्ति सम्यग्ज्ञानं विना स्वस्ति­प्रा­प्ति­रि­त्यर्थः ।

अस्तु तर्हि मृतस्य कृत­कृ­त्य­ते­त्या­श­ङ्क्याऽऽह –
तमेतमिति ।

सर्वस्य तर्हि मृतस्य परलोकित्वं स्यादिति चेन्नेत्याह –
यदीति ।

तदा परलोकं प्रति कर्मणा निर्दिष्टमिति पूर्वेण सम्बन्धः युक्तं च तन्मृ­त­स्या­ग्न्यर्थं नयनमित्याह –
यत इति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य नवमः खण्डः ॥

स उल्बावृत इत्या­दि­नो­क्त­म­नु­व­दति –
वेत्थेति ।
प्रत्युपस्थितः प्रजो­त्प­त्ति­प्र­द­र्श­नेन प्रसङ्गत इति यावत् ।

तद्य इत्थं विदु­रि­त्ये­त­द्व्या­चष्टे –
तत्त­त्रे­त्या­दिना ।

सप्तम्यर्थमेव स्फोरयति –
लोकमिति ।
निर्धारणार्था षष्ठी ।

वेद­न­प्र­का­र­म­नु­व­दति –
द्युलोकादीति ।
तेऽर्चि­ष­म­भि­स­म्भ­व­न्ती­त्यु­त्त­रत्र सम्बन्धः ।

साधा­र­णो­क्ते­र्वि­शेषे सङ्कोचो हेतुं विना न सिद्ध्यतीति शङ्कते –
कथमिति ।

पारिशेष्यं सङ्कोचमिति परिहरति –
गृहस्थानामिति ।
षष्ठी निर्धारणे । अतश्च केवलकर्मिणो गृहस्था न विदुरिति ग्रहणमर्हन्तीति शेषः ।

परिव्राजका वानप्रस्थाश्च गृह्यन्तामिति चेन्नेत्याह –
ये चेति ।

केषां तर्हीति ग्रहणमत आह –
पारिशेष्यादिति ।

गृहस्थ एव हेत्वन्तरमाह –
अग्निहोत्रेति ।
तदा­हु­त्य­पू­र्व­प­रि­णा­मा­त्मकं जगदत्र पञ्चधा प्रवि­भ­ज्या­ग्नि­त्वेन दर्श­न­मु­त्त­र­मा­र्ग­प्रा­प्ति­सा­धनं चोद्यते । अतो विद्या­या­स्त­त्स­म्ब­न्धा­द्गृ­ह­स्था­ना­मपि तत्सम्बन्धस्य प्राप्त­त्वा­त्ते­षा­मे­वेह ग्रह­ण­मु­चि­त­मि­त्यर्थः ।

पारि­शे­ष्य­मा­क्षि­पति –
नन्विति ।
ग्रामः सपत्नीको वासः । न च ब्रह्मचारिणां पत्नीसम्बन्धः । तन्न ग्रामहुत्या ब्रह्मचारिणो गृहीताः । गुरु­कु­ल­वा­सि­त्वाच्च नार­ण्य­श्रु­त्यो­प­ल­क्षिताः । ततस्तेषामिह ग्रहणसम्भवान्न पारि­शे­ष्य­मि­त्यर्थः ।

किं नैष्ठि­क­ब्र­ह्म­चा­रि­णोऽ­त्रेत्थं विदुरिति गृह्येरन्किं वोपकुर्वाणा इति विकल्पाऽऽद्यं दूषयति –
नैष दोष इति ।
“अष्टा­शी­ति­स­ह­स्राणि यती­ना­मू­र्ध्व­रे­त­साम् । स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम् ॥” इत्या­दि­पु­रा­ण­स्मृतेः श्रुतिमूलत्वेन प्रामा­ण्या­न्नै­ष्ठि­क­ब्र­ह्म­चा­रि­णा­मू­र्ध्व­रे­त­सा­मा­दि­त्य­स­म्ब­न्धे­नो­त्त­रा­य­णे­नो­प­ल­क्षितो देवयानाख्यो मार्गो यावता प्रसि­द्ध­स्त­स्मा­त्ते­षा­म­र­ण्य­वा­सिभिः सहा­ख­ण्डि­त­ब्र­ह्म­च­र्ये­णै­वा­र्चि­रा­दि­ग­ति­ला­भान्न पञ्चा­ग्नि­वि­त्त्वेन प्रयोजनमिति पारि­शे­ष्य­सि­द्धि­रि­त्यर्थः ।

द्वितीयं प्रत्याह –
उप­कु­र्वा­ण­का­स्त्विति ।
ते हि स्वाध्या­य­ग्र­ह­णा­र्था­स्त­स्मि­न्गृ­हीते स्वेच्छा­व­शा­दा­श्र­मा­न्तरं गृह्ण­न्त­स्त­त्फ­ले­नैव फलवन्तो भवन्तीति न गृहस्थादिभ्यो विभज्येत्थं विदुरिति निर्दे­श­म­र्ह­न्ती­त्यर्थः । किं नैष्ठिकानां ब्रह्म­चा­रि­णा­मु­त्त­र­मा­र्ग­प्रा­प्ति­स­म्भ­वा­द­न­र्थ­क­मि­त्थं­वित्त्वं प्राप्तमिति श्रुति­वि­रो­धा­द्द्वि­तीये तु पारि­शे­ष्या­सि­द्धि­ता­द­व­स्थ्य­मिति शङ्कार्थः ।

किमि­त्थं­वित्त्वं नैष्ठि­का­न्प्र­त्य­न­र्थ­क­मि­त्यु­च्यते किं वा सर्वानेव प्रतीति विक­ल्प्याऽऽ­द्य­म­ङ्गी­कृत्य द्वितीयं दूषयति –
न गृहस्थानिति ।

तान्प्र­त्य­र्थ­व­त्त्व­मे­वे­त्थं­वि­त्त्वस्य विभज्य समर्थयते –
ये गृहस्था इति ।
स्वभा­व­त­स्त­द­नु­ष्ठि­ते­ष्टा­पू­र्त­ब­ला­दि­त्यर्थः । तेषामेव गृहस्थानां मध्ये ये केचिदुक्तेन प्रकारेणेत्थं पञ्चाग्निदर्शनं विदु­र­ग्नि­भ्योऽ­न्यद्वा सगुणं ब्रह्म विदुस्ते देवयानेनोत्तरेण पथा गच्छन्तीति सम्बन्धः ।

न केवलं गृहस्थानां पञ्चा­ग्नि­वि­त्त्व­मेव किन्तु सगु­ण­ब्र­ह्म­वि­त्त्व­मपि तेषामस्तीति प्रमाणमाह –
अथेति ।
अन्त्ये­ष्टि­क­र­णा­क­र­ण­यो­र­वि­शे­षेण ब्रह्म­वि­दा­म­र्चि­रा­दि­ग­ति­श्र­व­णा­दस्ति गृहस्थानामपि ब्रह्म­वि­त्त्व­मिति गम्यते । परि­व्रा­ज­का­दि­ष्व­न्त्ये­ष्ट्य­स­म्भ­वेन विद्यास्तुतेरपि दुर्व­च­न­त्वा­दि­त्यर्थः ।

विहि­त­त्वा­वि­शे­षा­दा­श्र­माणां तुल्य­त्व­मा­श्रित्य शङ्कते –
नन्विति ।

साम्यमुक्त्वा गृहस्थेषु विशेषं दर्शयति –
अग्निहोत्रादीति ।
वैदिकानि कर्माणि भूयांसि सन्ति । तेषां च बाहुल्ये सत्य­वि­दु­षा­मू­र्ध्व­रे­त­सा­मेव देवयानेन पथा गमनं न गृह­स्था­ना­मि­त्य­युक्तं साधनभूयस्त्वे फल­भू­य­स्त्व­न्या­य­वि­रो­धा­दि­त्यर्थः ।

आश्र­मि­त्वा­वि­शे­षेऽपि धर्म­वि­शे­षा­द्वि­शु­द्धि­ता­र­त­म्य­स­म्भ­वा­न्नै­क­रू­प्य­मिति परिहरति –
नैष दोष इति ।

कथं गृह­स्था­ना­म­ग्नि­हो­त्रा­दि­भू­यो­ध­र्म­वतां विद्या­ही­ना­ना­म­प्य­पू­तत्वं तत्राऽऽह –
शतृमित्रेति ।
अब्र­ह्म­च­र्या­दी­त्या­दि­प­देन परिग्रहित्वादि गृह्यते | अशु­द्धि­बा­हु­ल्य­का­र­ण­म­तः­श­ब्दार्थः ।

तुल्य­मू­र्ध्व­रे­त­सा­म­प्य­शु­द्धि­हे­तु­बा­हु­ल्या­द­पू­त­त्व­मि­त्या­श­ङ्क्याऽऽह –
हिंसेति ।

ऊर्ध्वरेतसां पूतत्वे सिद्धे फलितमाह –
तेषामिति ।

ऊर्ध्वरेतसां देवयाने पथ्यनुप्रवेशे प्रमाणमाह –
तथाचेति ।
पौराणिका आहुरिति सम्बन्धः ।

आश्र­म­ध­र्म­मा­त्र­मा­र्ग­द्वा­रे­णा­मृ­त­त्व­मू­र्ध्व­रे­त­सा­मु­क्त­मा­क्षि­पति –
इत्थंविदामिति ।

तेषां विद्या­न­र्थ­क्य­मि­ष्ट­मे­वे­त्या­श­ङ्क्याऽह –
तथा चेति ।
स परमात्मा स्वयमज्ञातः सन्ने­न­म­धि­का­रि­ण­म­प­व­र्ग­प्र­दा­नेन न पालयतीति च वाक्यं विद्या­म­न्त­रे­णा­मृ­तत्वं ब्रुवतो विरु­द्ध­मि­त्यर्थः ।

ऊर्ध्व­रे­त­सा­म­मृ­त­त्व­स्याऽऽ­पे­क्षि­क­त्वा­त्तत्र विद्या­न­र्थ­क्य­मे­वेति परिहरति –
नाऽऽभूतेति ।

आपे­क्षि­क­म­मृ­त­त्व­मि­त्यत्र प्रमाणमाह –
तत्रैवेति ।
यत्र प्रजाः कामयमाना मुक्तिभाजो न भवन्तीत्युक्तं तत्रैव तत्सन्निधाविति यावत् ।

कथं तर्हि यथो­क्त­श्रु­ति­वि­रो­ध­स­मा­धि­रि­त्या­श­ङ्क्याऽऽह –
यच्चेति ।
आदिशब्दस्तमेवं विद्वानमृत इह भव­ती­त्या­दि­श्रु­ति­सं­ग्र­हार्थः ।

आपे­क्षि­का­मृ­तत्वे श्रुतिविरोधो न शक्यते परिहर्तुमिति शङ्कते –
न चेति ।
आदि­श­ब्द­स्ते­षा­मिह न पुन­रा­वृ­त्ति­रि­त्या­दि­वा­क्य­सं­ग्र­हार्थः ।

इममिहेति विशे­ष­णा­व­ष्ट­म्भेन निराचष्टे –
नेत्यादिना ।

तदेव व्यतिरेकमुखेन विशदयति –
यदीति ।

सर्वकल्पेषु श्रुते­रे­ता­दृ­श­त्वा­दि­म­मि­हे­ति­प­द­द्व­य­सा­मा­न्येन सर्वकल्पविषये विशेषणानर्थक्यं दुर्वा­र­मि­त्यु­त्त­र­माह –
नानावृत्तीति ।

विधान्तरेण विशे­ष­णा­र्थ­स­म्भवे फलितमाह –
अत इति ।
यस्मिन्कल्पे ब्रह्म­लो­क­प्रा­प्ति­स्त­स्मा­त्क­ल्पा­न्त­र­म­न्य­त्रे­त्यु­क्तम् ।

ऊर्ध्व­रे­त­सा­मा­श्र­म­ध­र्म­मा­त्र­नि­ष्ठा­ना­म­मृ­त­त्व­मा­पे­क्षि­क­मु­प­क्षि­प्तम् । संप्रति तेषामेव साक्षा­त्कृ­त­ब्र­ह्म­त­त्त्वा­ना­मा­त्य­न्ति­क­म­मृ­तत्वं गतिनिरपेक्षं सिद्ध्यतीत्याह –
न चेति ।

तेषां गत्या­दि­नि­र­पे­क्ष­मा­त्य­न्ति­क­म­मृ­तत्वं भवतीत्यत्र प्रमाणमाह –
ब्रह्मैवेति ।

न तस्मात्प्राणा उत्क्रामन्तीति माध्य­न्दि­न­श्रु­ति­म­नु­सृत्य न तस्ये­त्या­दि­का­ण्व­श्रु­ति­रपि नेतव्येति शङ्कते –
ननु तस्मादिति ।

वाक्य­शे­ष­वि­रो­धा­न्नै­व­मिति दूषयति –
नात्रेति ।

श्रुत्य­न्त­रा­लो­च­ना­या­मपि न स्वयू­थ्य­क­ल्प­ने­त्याह –
सर्वे प्राणा इति ।
प्राणैः सह जीवस्येति शेषः ।

संसारदशायां प्राणैः सह विज्ञानात्मनो गमनेऽपि मोक्षे नास्ति प्राणानां जीवेन सह गम­न­मि­त्या­श­ङ्कायां न तस्मा­दि­त्या­दि­वा­क्य­मि­त्या­श­ङ्क्याऽऽह –
यदाऽपीति ।

भवतु प्राणानामत्रैव समवलयस्तथाऽपि जीवस्य गम­ना­य­त्त­म­मृ­त­त्व­मि­त्या­श­ङ्क्याऽऽह –
न चेति ।
“कस्मि­न्न्व­ह­मु­त्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रति­ष्ठा­स्या­मीति । स प्राणमसृजत”(प्र.उ. ६ । ३) इति श्रुतेरिति शेषः ।

किञ्च प्राणै­र्वि­यु­क्तस्य चिदात्मनो जीवत्वं नोपपद्यते प्राणो­पा­धि­क­स्यैव तस्य जीव­श­ब्द­वा­च्य­त्वा­दि­त्याह –
जीवत्वं चेति ।

उक्तमर्थं समर्थयते –
सर्वगतत्वादिति ।
चिदात्मा हि कल्प­ना­या­म­धि­ष्ठाने सति यतो निर्भागं सर्वस्याऽऽत्मा तस्मा­द­ग्ने­र्वि­स्फु­लि­ङ्ग­व­ज्जी­व­त्वा­ख्य­भे­द­स­म्पा­दनं तस्य प्राण­स­म्ब­न्ध­मा­त्र­मे­वेति वैदिकानां प्रसिद्धम् । तथा च प्राणवियोगे चिदात्मनो जीवत्वं गतिर्वा न शक्यते कल्पयितुम् । तस्मा­त्पू­र्ण­त्वा­दि­प्र­ति­पा­द­क­श्रु­तीनां प्रमा­ण­त्वा­दि­त्यर्थः ।

सदात्मनः सर्वगतस्य जीवाख्यभेदकरणं न प्राणोपाधिकृतं किं तु स्वत एव तस्यांशो जीवस्तथा चाग्नि­वि­स्फु­लि­ङ्ग­व­त्तस्य गत्यु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
न चेति ।
“निष्कलं निष्क्रियं शान्तम्”(श्वे.उ. ६ । १९) इत्या­दि­श्रु­ते­रिति शेषः ।

प्रक­र­णा­र्थ­मु­प­सं­ह­रति –
तस्मादिति ।
निर्गु­ण­ब्र­ह्म­वि­दा­मा­त्य­न्ति­का­मृ­त­त्वस्य गम­ना­दि­नि­र­पे­क्ष­त्वा­दिति यावत् ।

सगु­ण­ब्र­ह्मो­पा­स­कस्य सापे­क्ष­म­मृ­त­त्व­मि­त्यत्र विशे­ष­ण­श्रु­ति­म­नु­कू­ल­यति –
तदपराजितेति ।
आदिपदेन तदश्वत्थः सोमसवन इत्यादि गृह्यते । तेषामेव ब्रह्मविदामेष पूर्वो­क्त­वि­शे­ष­गुणो ब्रह्मणः सत्याख्यस्य लोको नान्ये­षा­म­कृ­ता­त्म­ना­मिति विशे­ष­द­र्श­ना­द­मृ­तत्वं तेषां तल्लोकनिवासिभिः समं सापेक्षमेवेति निर्धा­रि­त­मि­त्यर्थः ।

ऊर्ध्व­रे­त­सा­मा­श्र­म­मा­त्र­नि­ष्ठा­ना­मपि ब्रह्मलोको लभ्यते गृहस्थानां पुन­र्वि­दु­षा­मे­वे­त्यु­प­पाद्य प्रकृ­त­श्रु­ति­व्या­ख्या­न­म­नु­व­र्त­यति –
अत इति ।
पूर्वो­क्त­पा­रि­शे­ष्या­दि­व­शा­दिति यावत् । परि­व्रा­ज­का­श्चे­त्य­मु­ख्य­सं­न्या­सि­न­स्त्रि­द­ण्डिनो गृह्यन्ते मुख्य­सं­न्या­सिनां ब्रह्म­सं­स्थोऽ­मृ­त­त्व­मे­तीति पृथक्कृतत्वात् । श्रद्धां सत्यमित्युपासत इति श्रुत्यन्तरम् । पञ्चाग्निविदो गृहस्थाः स्वाश्र­म­मा­त्र­प्र­वणा ऊर्ध्वरेतसः सत्य­ब्र­ह्मो­पा­स­का­श्चो­भये सर्व­श­ब्दे­नो­च्यन्ते ।

चतुर्थे यदु­प­को­स­ल­वि­द्यायां गति­व्या­ख्या­न­म­ति­वृत्तं तेन समा­न­म­र्चि­षोऽ­ह­रि­त्या­दि­वा­क्य­व्या­ख्यानं तथा च तन्न पृथ­क्क­र्त­व्य­मि­त्याह –
समानमिति ।

उत्त­र­मा­र्ग­व्या­ख्या­न­मु­प­सं­ह­रति –
एष इति ।

देवयानेन पथा बहि­र­ण्डा­द्व­य­व­स्थितं ब्रह्म गन्तव्यमित्येके तान्प्रत्याह –
नाण्डादिति ।

तत्र हेतुमाह –
यदन्तरेति ।
पितरं द्युलोकं मातरं च पृथिवीं मध्ये ये द्वे सृती अशृणवं ताभ्यामिदं विश्वं कर्म­ज्ञा­ना­धि­कृतं गच्छति न चाण्डा­द्ब­हि­रस्ति गति­द्व­य­मि­त्यर्थः ॥१-२॥

वेत्थ यदितोऽधि प्रजाः प्रयन्तीत्यस्य प्रश्नस्य प्रतिवचनं देवयानोपदेशेन व्याख्यातं संप्रति पितृ­या­णो­प­दे­शे­नापि ग्राम­नि­वा­सि­त्वा­वि­शे­षा­दि­त्या­श­ङ्क्याऽऽह –
ग्राम इतीति ।
सपत्नीको हि वासो ग्राम इत्युच्यते । न च सप­त्नी­क­त्व­मू­र्ध्व­रे­तसां युक्तं तथा च गृहस्थानामेव ग्राम­वि­शे­ष­ण­म­सा­धा­रणं; न च तद­न­र्थ­क­मू­र्ध्व­रे­तो­भ्य­स्तेषां व्यावृ­त्त्य­र्थ­त्वा­दि­त्यर्थः ।

तदेव दृष्टान्तेन स्फुटयति –
यथेति ।
वेद्य­न्त­र्भा­व­व्या­से­धा­द्ब­हि­र्वे­दीति विशेषणमादौ दत्तमिति प्रतीकोपादानं पुन­र्व्या­ख्या­त­स्या­नु­वाद इत्यपुनरुक्तिः ।

इतिशब्दार्थमाह –
इत्येवंविधमिति ।
परिचरणं गुर्वा­दि­शु­श्रूषा । परित्राणं रक्षणम् । आदिपदं नित्य­स्वा­ध्या­या­दि­सं­ग्र­हा­र्थम् । उपासते तात्प­र्ये­णा­नु­ति­ष्ठ­न्तीति यावत् ।

कथमितिशब्दस्य यथो­क्ता­र्थ­त्व­मिति ह स्मोपाध्यायः कथ­य­ती­ति­व­त्प्र­कृ­त­मा­त्र­गा­मि­त्वा­दि­त्या­श­ङ्क्याऽऽह –
इतिशब्दस्येति ।

देव­या­ना­धि­कृ­तेभ्यः सका­शा­त्पि­तृ­या­णा­धि­कृ­तेषु विशेषान्तरमाह –
नैत इति ।

अप्रा­प्त­प्र­ति­षे­धोऽ­य­मिति शङ्कते –
कुत इति ।

प्राप्तिं दर्श­य­न्नु­त्त­र­माह –
अस्ति हीति ।
पूर्ववत्, यथा पूर्वं देवयानेन पथाऽ­व­य­वे­भ्योऽ­व­य­विनः संवत्सरस्य प्राप्तिस्तथेति यावत् ॥३॥

अन्नशब्दस्य यथाश्रुतमर्थं गृहीत्वा चोदयति –
नन्विति ।

औपचारिकमर्थं गृहीत्वा परिहरति –
नैष दोष इति ।

वृद्ध­प्र­यो­ग­म­न्त­रेण कथ­मु­प­क­र­ण­वि­ष­योऽ­न्न­शब्दो व्याख्यायते तत्राऽऽह –
दृष्टश्चेति ।

भवतु कर्मिणां देवा­न्प्र­त्यु­प­क­र­णत्वं तथाऽपि स्वय­मु­प­भो­गा­भा­वा­द­न­र्थ­क­मि­ष्टा­दि­क­र­ण­मि­त्या­श­ङ्क्याऽऽह –
न चेति ।

अन्यो­प­भो­ग्या­ना­मपि स्वयं भोगसत्त्वं तस्मा­दि­त्यु­च्यते । तथाऽपि तेषां मृतानामशरीरिणां कथं मुख्योपभोगः सम्भ­व­ती­त्या­श­ङ्क्याऽऽह –
शरीरं चेति ।

कथमपां चन्द्रलोके तद्दे­हा­र­म्भ­कत्वं तदाह –
यदुक्तमिति ।

अथापां सोमत्वमेवात्र प्रतीयते नतु कर्मि­दे­हा­र­म्भ­क­त्व­मि­त्या­श­ङ्क्याऽऽह –
ता आप इति ।

कर्म­स­म­वा­यि­नी­ना­मपां कर्मा­पू­र्व­द्वारा यज­मा­न­दे­ह­प्र­ति­ष्ठानां कथं द्युलो­क­प्र­वे­शादि सम्भ­व­ती­त्या­श­ङ्क्याऽऽह –
अन्त्यायां चेति ।

अद्भिरारब्धस्य शरीरस्य भोगायतनत्वं दर्शयति –
तदारब्धेनेति ॥४॥

तद्दे­वा­ना­म­न्न­मि­त्यादि व्याख्याय तस्मिन्नित्यादि व्याचष्टे –
यावदिति ।
चन्द्र­लो­क­स्त­च्छ­ब्दार्थः ।

याव­त्सं­पा­त­मु­षि­त्वेति श्रूयते कथमन्यथा व्याख्यायते तत्राऽऽह –
सम्पतन्तीति ।

पुनः­श­ब्द­प्र­यो­गस्य तात्पर्यमाह –
पुनरिति ।

अथे­त्या­दि­वा­क्या­र्थ­मु­प­सं­ह­रति –
तस्मादिति ।

तच्छ­ब्द­प­रा­मृष्टं हेतुं स्पष्टयति –
स्थितीति ।
यथा दीपस्य स्नेहक्षये स्थिति­नि­मि­त्ता­भा­वा­द­स्थि­ति­स्तथा चन्द्रलोके स्थिति­नि­मि­त्त­स्ये­ष्टा­दे­र्भो­गेन क्षयात्तत्र स्थित्य­स­म्भ­वा­दा­वृ­त्ति­रे­वे­त्यर्थः ।

तस्मि­न्या­व­त्स­म्पा­त­मु­षि­त्वे­त्यत्र विचारयति –
तत्रेति ।
तस्य चन्द्र­म­ण्ड­ल­प्रा­प­क­स्या­ति­रि­क्तस्य च सर्वस्य कर्मणः क्षये सतीति यावत् । सावशेषो भुक्तात्कर्मणः सकाशादतिरिक्तेन केनचित्कर्मणा सहितः सन्नित्यर्थः ।

पक्षद्वयेऽपि फलं पृच्छति –
किं तत इति ।

तत्राऽऽद्यं पक्षं पूर्वपक्षमुखेन प्रति­चि­क्षि­प्सु­स्त­त्फ­ल­माह –
यदीति ।

तत्रैव दूषणान्तरमाह –
तिष्ठत्विति ।
चन्द्रमण्डलं सप्तम्यर्थः । तत­श्च­न्द्र­म­ण्ड­ला­दि­त्ये­तत् । इहे­त्ये­त­ल्लो­कोक्तिः । आदिपदं शुभा­शु­भ­क­र्मा­नु­सा­रि­स­र्व­व्या­पा­र­सं­ग्र­हा­र्थम् ।

न केवलं सर्व­क­र्म­क्ष­य­पक्षे मुक्तिरेव विरुध्यते किन्तु स्मृतिश्चेत्याह –
तत इति ।
चन्द्रलोके भोक्तव्यस्य कर्मणो भोगेन क्षयादूर्ध्वं शेषे­णा­नु­प­भु­क्तेन कर्मणा जन्म प्रतिपद्यन्त इत्याद्या स्मृतिः सर्व­क­र्म­क्ष­य­पक्षे विरुध्यत इत्यर्थः ।

सर्व­क­र्म­क्ष­य­पक्षे पूर्व­प­क्षि­णाऽ­न्य­था­वा­दिना प्रतिक्षिप्ते साव­शे­ष­प­क्ष­मु­त्त­र­वादी प्रतिपद्यते –
नन्विति ।

तान्यपि चन्द्रमण्डले भुक्तान्येवेति नाव­शे­षोऽ­स्ती­त्या­श­ङ्क्याऽऽह –
न चेति ।
न हि सर्व­क­र्म­व­शा­च्च­न्द्र­म­ण्ड­ल­प्रा­प्ति­रिति भावः ।

तर्हि चन्द्रमण्डले कर्म­फ­लो­प­भो­गा­भा­वा­दलं तदा­रो­हे­णे­त्या­श­ङ्क्याऽऽह –
यन्निमित्तमिति ।
अवि­रो­ध­श्च­न्द्र­म­ण्डले भोगस्य शेष­क­र्म­स­द्भा­वस्य चेति शेषः ।

यत्तु ततः शेषे­णे­त्या­दि­स्मृ­ति­वि­रोध इति तत्राऽऽह –
शेषशब्दश्चेति ।
निःशेषेष्वपि भुक्तेषु कर्म­स्व­भु­क्त­क­र्मसु शेषशब्दो न विरु­ध्य­तेऽ­भु­क्तानां कर्मणां कर्मत्वस्य तुल्य­त्वा­न्नात्र सावशेषपक्षे स्मृति­वि­रो­धोऽ­स्ती­त्यर्थः ।

यच्च­न्द्र­म­ण्ड­स्थ­ल­स्यैव मोक्षः स्यादिति तत्राऽऽह –
अत एवेति ।
शेष­क­र्म­स­द्भा­वा­दे­वेति यावत् ।

इतश्च कर्म­शे­ष­सि­द्धि­रि­त्याह –
विरुद्धेति ।
आर­म्भ­क­त्व­स­म्भ­वा­दे­क­जा­त्यु­प­भो­ग्य­क­र्म­क्ष­येऽपि कर्मशेषः सम्भवतीति शेषः ।

अथै­क­स्मि­ञ्ज­न्मनि सर्वाणि क्षीयन्ते कर्मा­श­य­स्यै­क­भ­वि­क­त्वा­दि­त्या­श­ङ्क्याऽऽह –
न चेति ।
ऐक­भ­वि­क­न्या­य­स्यो­प­रि­ष्टा­न्नि­रा­क­रि­ष्य­मा­ण­त्वा­दि­त्यर्थः ।

इतश्च शेष­क­र्म­सि­द्धि­रि­त्याह –
ब्रह्म­ह­त्या­दे­श्चेति ।
“श्वसू­क­र­ख­रो­ष्ट्रा­णाम्” इत्यादिस्मरणम् ।

घृत­भा­ण्द­स्ने­ह­शे­ष­व­द्भु­क्त­स्यैव कर्मणः शेषा­त्पु­न­रा­वृ­त्ति­र्भ­वि­ष्य­ती­त्यत आह –
स्थावरादीति ।

शेषकर्मसिद्धौ हेत्वन्तरमाह –
गर्भभूतानामिति ।

कर्म­शे­ष­स­द्भा­व­मु­प­सं­ह­रति –
तस्मादिति ।
एकस्यापि कर्म­णोऽ­ने­क­ज­न्म­हे­तुत्वं तच्छब्दार्थः ।

मता­न्त­र­मु­त्था­प­यति –
यत्त्विति ।
याव­त्प्र­वृ­त्त­फलं कर्म न क्षीयते ताव­त्प्र­वृ­त्ति­प्र­ति­ब­न्धा­द­न्यानि कर्माणि स्वफलं नाऽऽरभन्ते । मरणकाले तु प्रति­ब­न्ध­का­भा­वा­त्स­र्व­क­र्मा­श्र­य­स­ङ्गा­तो­प­म­र्देन तेषा­मु­त्त­र­श­री­रा­र­म्भ­क­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

तथाऽपि कथं शेष­क­र्म­स­द्भा­वा­सि­द्धि­रि­त्यत आह –
तत्रेति ।
अनारब्धकर्मणां सर्वे­षा­मु­त्त­र­श­री­रा­र­म्भ­कत्वे सतीति यावत् ।

प्रायणकाले यानि कर्मा­ण्य­भि­व्य­क्तानि तान्ये­वो­त्त­र­श­री­रा­र­म्भ­का­णी­त­रेषां तु न शरी­रा­र­म्भ­क­त्व­मिति दूषयति –
तदसदिति ।
मधु­ब्रा­ह्म­णो­क्तेन न्यायेन सर्वस्य सर्वा­त्म­क­त्वा­ङ्गी­का­रा­द्दे­ह­स्यापि तथात्वान्न सर्वा­त्म­नो­प­म­र्दो­प­प­त्ति­रि­त्यर्थः ।

उक्त­म­र्थ­मु­प­पा­द­यितुं सामान्यन्यायमाह –
न हीति ।
सर्वं सर्वस्य कारणं कार्यं चेति न्यायेन सर्वस्य सर्वात्मकत्वे स्थिते सति कस्य­चि­त्क्व­चि­त्स­र्वा­त्म­नो­प­म­र्द­स्त­थाऽ­भि­व्य­क्तिर्वा नोपपद्यते । प्रती­य­मा­नो­प­म­र्दा­दे­र्दे­श­वि­शे­षा­दि­कृ­त­त्वा­दि­त्यर्थः ।

उक्तन्यायं प्रकृते योजयति –
तथेति ।

इतश्च कर्मशेषः सम्भवतीति क्रमवत्तायां दृष्टान्तमाह –
यथा चेति ।
पूर्वं क्रमेणानुभूतानि यानि मनु­ष्या­दि­ज­न्मानि तैरभिसंस्कृताः सम्पादिता विरुद्धा या भूयस्यो वास­ना­स्त­ज्जा­ति­वि­शे­ष­प्रा­प­केन कर्मणा तस्मि­न्ना­र­भ्य­माणे न निरुध्यन्त इत्यर्थः ।

दार्ष्टा­न्ति­क­माह –
तथेति ।

दृष्टान्तं विवृणोति –
यदि हीति ।

व्यव­हि­त­वा­स­नो­च्छे­देऽपि नाव्य­व­हि­त­वा­स­नो­च्छि­द्यते तथा चान­न्त­र­ज­न्मो­त्थ­वा­स­ना­सा­म­र्थ्यात् मर्क­ट­शि­शो­र्य­थो­क्त­कौ­श­ल­म­वि­रु­द्ध­मि­त्या­श­ङ्क्याऽऽह –
न चेति ।

किञ्च पूर्वप्रज्ञा चेत्यविशेषेण पूर्व­ज­न्मा­र्जि­त­वा­सना जीवमनुगच्छतीति श्रव­णा­द­व्य­व­हि­त­पू­र्व­ज­न्म­वा­स­नैव तमन्वेतीति न शक्यं विशेषतो वक्तुमित्याह –
तं विद्येति ।

दृष्टा­न्त­मु­प­पाद्य दार्ष्टान्तिकं निगमयति –
तस्मादिति ।

शेषकर्मसद्भावे फलितमाह –
यत इति ।

उप­भु­क्ता­त्क­र्मणः शेषेणेति सम्बन्धः –
कश्चिदिति ।
श्रौतौ वा स्मार्तो वा यौक्तिको वा लौकिको वेत्यर्थः ।

एतमेवाध्वानमिति प्रकृतमध्वानं प्रश्नपूर्वकं विशदयति –
कोऽसावित्यादिना ।

यथे­त­मि­त्यु­क्त­मा­क्षि­पति –
नन्विति ।

किं यथेतमित्येतदेव न सम्भवति किं वा यथेतमेवेति नियमो नोपपद्यते तत्राऽऽद्यं दूषयति –
नैष दोष इति ।

द्वितीयं प्रत्याह –
न चेति ।
अत्रेति निवृत्तिरुक्ता ।

अनेवंविधमपीति ।
यथा गतिक्रमो दर्शितो न तथा निवृत्तिर्नियता किं तु विधान्तरेणापि सम्भवतीत्यर्थः ।

निवृत्तेः क्रमनियमाभावे कीदृशो नियमो विवक्षित इत्याशङ्क्याऽऽह –
पुनरिति ।

केनाभिप्रायेण तर्हि यथेतमित्युक्तमत आह –
अत इति ।
गति­क्र­म­व­न्नि­वृ­त्ति­क्रमे निय­मा­भा­वोऽ­तः­श­ब्दार्थः । उक्तं च “यथेतमनेवं च” इति ।

निवृत्तिनियमे फलितमाह –
अत इति ।
परमात्मानं व्यावर्तयितुं भौति­क­मि­त्यु­क्तम् ।

कथं पूर्व­सि­द्धा­का­श­ता­दा­त्म्या­प­त्ति­र­व­रो­हतां सिध्य­ती­त्या­शङ्क्य तत्साम्यगमनमेव तद्भा­वा­प­त्ति­रि­त्यु­प­च­र्यते स्वाभा­व्या­प­त्ति­रिति न्यायादित्याह –
यास्तेषामिति ।
घृतस्य संस्थानं काठिन्यम् । तास्वाकाशभूतासु तत्परिवेष्टिताः कर्मि­णोऽ­ध्य­व­रो­ह­न्त­स्त­द्भूता इव भवन्तीत्यर्थः ।

आका­शा­द्वा­यु­मि­त्य­स्यार्थं साधयति –
ता अन्तरिक्षादिति ॥५॥

उन्नतेषु समु­द्रा­दि­व्य­ति­रि­क्तेषु प्रदेशेष्विति यावत् । त इत्यनुशयिनो निर्दिश्यन्ते । इहेति पृथिवी कथ्यते । कथमस्मिन्वाक्ये बहु­व­च­ने­ना­नु­श­यिनां बहूक्त्या निर्देशः कृतस्तत्राऽऽह –
क्षीणकर्मणामिति ।

कथं तर्हि मेघो भूत्वा प्रव­र्ष­ती­त्या­दा­वे­क­व­च­न­नि­र्दे­श­स्त­त्राऽऽह –
मेघादिष्विति ।
ये पूर्वे मेघादयो नभोन्तास्तेषु प्रत्ये­क­म­भि­मा­नि­दे­व­ता­ना­मे­क­रू­प­त्वा­त्त­दु­प­श्लि­ष्टा­ना­म­नु­श­यि­ना­म­प्ये­क­व­च­नेन निर्देशो युक्त इत्यर्थः ।

अतो वै खल्वि­त्या­दि­वाक्यं व्याचष्टे –
यस्मादिति ।

अनुशयिनां दुःशकं निःस­र­ण­मि­त्युक्तं प्रपञ्चयति –
यत इत्यादिना ।

मक­रा­दि­भि­र्भ­क्षि­ता­ना­म­नु­श­यिनां तेभ्य­स्त­त्स­मा­न­जा­ती­य­त्वेन समुद्भवो भविष्यतीति चेन्नेत्याह –
तेऽपीति ।
मकरादयोऽपि जल­चा­रि­भि­र­न्यै­र्भ­क्ष्यन्ते तथा च समुद्रे पति­ता­ना­म­नु­श­यिनां तत्रैव लयः स्यादित्यर्थः ।

नन्वेवमनुशयिनः समुद्रे लीना न ततः पुनरुद्धर्तुं शक्यन्ते तथा च कृतविनाशः स्यादि­त्या­श­ङ्क्याऽऽह –
जलधरैरिति ।
समु­द्रा­म्भो­भि­रिति तृतीया सहार्थे ।

तर्हि सर्प­व्या­घ्रो­प­भु­क्ता­ना­म­नु­श­यिनां तत्स­मा­न­जा­ती­य­दे­ह­भोगः स्यादिति चेन्नेत्याह –
भक्षिताश्चेति ।

यैस्तर्हि सर्पादयो भक्ष्यन्ते तेभ्य­स्त­त्स­मा­न­जा­ती­य­त्वे­ना­नु­श­यि­ना­मु­द्भवः स्यादिति चेन्नेत्याह –
तेऽपीति ।

तथाऽपि यथोक्तरीत्या परिवर्तनात्ते रेतःसिग्योगमपि यदा कदा­चि­त्प्र­प­द्ये­र­न्निति चेन्नेत्याह –
कदाचिदिति ।

तथाऽपि भक्ष्येषु जातानां रेतःसिग्योग सुलभः स्यादिति चेन्नेत्याह –
भक्ष्येष्वपीति ।
इतिशब्दो यच्छब्देन पूर्वेण सम्बध्यते ।

पूर्वमतःशब्दो हेतुपरतया व्याख्यातः संप्रति व्रीह्या­द्य­व­धि­वा­च­क­त्वेन तं व्याचष्टे –
अथवेति ।

दुर्नि­ष्प्र­प­त­त­र­मिति तकारसहिते पाठे सति विवक्षितमर्थमाह –
व्रीहियवादीति ।

तत्र हेतुमाह –
यस्मादिति ।

तर्हि तेषामन्तराले विशीर्णानां देह­भा­गि­त्वा­भा­वा­द­नु­श­य­वै­य­र्थ्य­मि­त्या­श­ङ्क्याऽऽह –
कदाचिदिति ।
काकतालीयया वृत्त्या यादृ­च्छि­क­न्या­ये­नेति यावत् ।

अनुशयाख्यस्य कर्मणो भावि­दे­हा­र­म्भा­र्थ­त्वा­न्मुख्यं प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।

अनुशयिनो रेतः­सि­गा­का­र­भाक्त्वे हेतुमाह –
रेतस इति ।
तस्य रेतःसिगाकृत्या तदंशेन भावि­त­त्वा­त्सं­स्कृ­त­त्वा­त्त­द­ङ्ग­स­म्भू­त­त्वा­त्त­द्रू­पेण गर्भा­श­य­म­नु­प्र­वि­ष्टोऽ­नु­शयी रेतः­सि­गा­कृ­ति­र्भ­व­ती­त्यर्थः ।

रेतसो रेतः­सि­ग­ङ्ग­स­मु­त्थत्वे प्रमा­ण­मै­त­रे­य­क­श्रु­ति­रि­त्याह –
सर्वेभ्य इति ।

रेतोरूपेण गर्भाशयं प्रविष्टस्य रेतः­सि­गा­का­र­त्व­मुक्तं निगमयति –
अत इति ।

अनुशयिनो रेतःसिगाकारत्वे लौकि­का­नु­भ­व­म­नु­कू­ल­यति –
तथा हीति ।

चन्द्र­स्थ­ल­स्ख­लि­ता­ना­म­व­रो­हतां व्रीह्या­दि­दे­ह­सं­श्लि­ष्टानां द्राघीयसा कालेन देहा­न्त­र­ला­भ­श्चे­त्तर्हि व्रीह्या­दि­दे­हा­भि­मा­नि­ना­मपि दुःशकं निष्क्रमणं व्रीह्या­दि­दे­ह­स­म्ब­न्धा­वि­शे­षा­दि­त्यत आह –
ये त्विति ।

व्रीह्या­दि­दे­ह­स­म्ब­न्धा­वि­शेषे कुत­स्त­द्दे­ह­भाजां ततो निःसरणमशक्यं न भवतीत्याशङ्क्य विशेषमाह –
कस्मादित्यादिना ।
“शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(म.स्मृ. १२ । ९) इत्या­दि­श्रु­ति­स्मृ­त्यो­र्येषां कर्मनिमित्तं स्थावरं जन्म तेषां कर्मक्षयः एवावधिः । अवरोहतां तु कर्मा­स­ङ्की­र्त­ना­द्वै­ष­म्य­मि­त्यर्थः ।

यथा जलूका तृणात्तृणान्तरं दीर्घभूता संक्रमते न तथाऽनुशयिनो व्रीह्या­दि­दे­ह­भा­जोऽपि तत्त्यागेन देहान्तरं गच्छन्ति । तद्वि­ष­य­वि­ज्ञा­न­वन्त एव गच्छन्तीत्यत्र बृह­दा­र­ण्य­क­श्रुतिं प्रमाणयति –
सविज्ञान इति ।

अथो­प­सं­हृ­त­क­र­णानां विज्ञाने कार­णा­स­म्भ­वा­त्कथं सविज्ञानत्वं तत्राऽऽह –
यद्यपीति ।

दृष्ट­का­र­ण­भा­वेऽ­प्य­दृ­ष्ट­मे­वैकं वासनात्मकं ज्ञानोत्पत्तौ निमित्तमिति तेन सविज्ञाना एव गच्छन्ति देहा­न्त­र­मि­त्यत्र हेतुमाह –
श्रुति­प्रा­मा­ण्या­दिति ।
श्रुतिरत्र बृह­दा­र­ण्य­क­श्रुतिः । यथा सविज्ञानानामेव व्रीह्या­दि­दे­हा­न्त­र­ग­मनं तथा ज्ञानि­ना­म­र्चि­रा­दिना कर्मिणां धूमादिना च गमनं स्वप्न­व­दु­द्भू­त­वा­स­ना­त्म­क­वि­ज्ञा­नेन सवि­ज्ञा­ना­ना­मे­वे­त्याह तथेति ।

तेषां सविज्ञानत्वे हेतुमाह –
लब्धवृत्तीति ।

अनुशयिनामपि तर्हि व्रीह्यादिषु संश्लिष्टानां रेतः­सि­गा­दि­दे­ह­स­म्बन्धः सवि­ज्ञा­ना­ना­मे­वेति चेन्नेत्याह –
न तथेति ।

अनुपपत्तौ हेतुमाह –
न हीति ।
व्रीह्या­दि­सं­श्लि­ष्टा­ना­म­नु­श­यिनां सविज्ञानत्वे तल्लवनादौ तज्जी­व­व­त्ते­षा­मपि प्रवा­स­प्र­स­ङ्गान्न रेतः­सि­ग्दे­ह­स­म्बन्धः सिद्ध्ये­दि­त्यर्थः ।

व्रीह्यादिषु देहान्तरं गच्छत्सु सवि­ज्ञा­न­त्वो­प­ल­म्भा­द­नु­श­यि­ष्वपि देहा­न्त­र­प्रा­प्ते­र­वि­शे­षा­द्युक्तं सविज्ञानत्वमिति शङ्कते –
नन्विति ।
तृणात्तृणान्तरं प्रति जलू­का­ग­म­न­व­द­व­रो­ह­ता­मपि देहाद्देहान्तरं प्रति गमनस्य तुल्य­त्वा­द्व्री­ह्या­दि­व­द्युक्ता सविज्ञानतेति योजना ।

अस्तु तेषां सविज्ञानत्वं का हानिरित्यत आह –
तथा सतीति ।
इष्टा­पू­र्ता­दि­का­रि­णा­म­न्त­राले नरकानुभवे ।

तथा च सति तद­नु­ष्ठा­न­स्या­न­र्थार्थं विहितत्वे श्रेयः­सा­ध­न­वि­ष­य­क­क­र्म­काण्डं विरुध्येतेत्याह –
श्रुतेश्चेति ।

यथा बुद्धिपूर्वं वृक्षमारोहतां सविज्ञानत्वेऽपि तस्मा­द­बु­द्धि­पूर्वं पततां न सविज्ञानत्वं विज्ञायते तथा चन्द्र­म­ण्ड­ल­मा­रो­हतां सविज्ञानत्वेऽपि ततोऽवरोहतां नैव तदस्ति उद्भू­त­क­र्मा­भा­वात् इत्या­रो­हा­व­रो­ह­यो­र्ज्ञाने विशे­ष­स­म्भ­वा­न्मै­व­मिति परिहरति –
न वृक्षेति ।

संग्रहवाक्यं विवृणोति –
देहादित्यादिना ।
चकाराद्गच्छतां सविज्ञानत्वं भवेदिति सम्बन्धः ।

अवरोहतां जीवानां सर्वथा विज्ञा­न­शू­न्य­त्व­म­युक्तं चैत­न्य­स्वा­भा­व्या­द्वृ­क्षा­त्प­त­ता­मपि विज्ञा­न­मा­त्र­म­स्त्ये­वे­त्या­श­ङ्क्यो­दा­ह­र­णा­न्त­र­माह –
यथा चेति ।
तेन मुद्गरादिना योऽभिघातस्तेन हेतुना यद्वेदनाख्यं निमित्तं तेन संमूर्छितानि संहृतानि प्रतिबद्धानि वा करणानि येषां तेषामिति यावत् । मृदितो विनष्टो देहोऽम्मयः स्थूलो देहो येषां तेषां तत एव प्रति­ब­द्ध­क­र­णानां विज्ञा­न­शू­न्य­तेति सम्बन्धः ।

यथो­क्त­दृ­ष्टा­न्त­व­शा­च्च­न्द्र­म­ण्ड­ला­द­व­रो­हन्तो विज्ञानशून्याः सिद्ध्यन्तीति निगमयति –
अत इति ।

तथाऽपि मूर्छितानां स्थूल­द­ह­स­द्भा­वा­द्दे­शा­न्त­र­ग­मनं युक्तम् । अवरोहतां तु तदभावे कथं व्रीह्यादिभावः सम्भवतीत्यत आह –
अपरित्यक्तेति ।
न परित्यक्तं देहभावस्य बीजं कर्मापूर्वं याभि­स्ता­भि­र­द्भि­रु­प­हिता जीवा मूर्छि­त­व­द्वि­ज्ञा­न­शून्या गमनादिक्रमेण पृथिवीं प्राप्य कर्म­फ­ल­भू­त­जा­ति­स्था­व­र­श­रीरैः संश्लिष्यन्त इति सम्बन्धः ।

स्थाव­र­दे­ह­स­म्ब­न्धि­त्वा­त्त­द्ग­त­जी­व­व­त्तदा सविज्ञानत्वं सम्भ­व­ती­त्या­श­ङ्क्याऽऽह –
प्रतिबद्धेति ।
व्रीह्या­दि­सं­श्ले­षा­व­स्था­या­म­नु­श­यिनां कर्म­णोऽ­नु­द्भू­त­वृ­त्ति­त्वा­त्क­र­णानां तत्र वृत्ति­ला­भा­भा­वा­द­नु­द्भू­त­वि­ज्ञा­नत्वं युक्तमित्यर्थः ।

न केवलं व्रीह्या­दि­सं­श्ले­ष­का­लेऽ­नु­द्भू­त­वि­ज्ञा­नत्वं किन्तु व्रीह्या­दे­र्ल­व­ना­दि­का­लेऽ­पी­त्याह –
तथेति ।
पाकः संस्कारः । रसा­दी­त्या­दि­श­ब्देन शोणि­त­मां­स­मे­दोऽ­स्थि­म­ज्जा­रे­तां­स्यु­च्यन्ते ।

तस्मिन्काले मूर्छि­त­व­द­नु­द्भू­त­वि­ज्ञा­नत्वं देहा­द्ब­र्हि­र्नि­र्ग­तानां प्राग्दे­हा­न्त­र­प्रा­प्ते­स्त­द­स्त्ये­वेति हेतुमाह –
देहेति ।
अल­ब्ध­वृ­त्ति­त्वा­दिति च्छेदः ।

कथं पुनरनुशयिनां विज्ञा­न­शू­न्यत्वे “तद्यथा तृणजलायुक्ता तृणस्यान्तं गत्वाऽ­न्य­मा­क्र­म­मा­क्र­म्याऽऽ­त्मा­न­मु­प­सं­ह­रति” इत्यादौ सचेतना जलूका दृष्टा­न्त­त्वे­नो­पा­दी­यते तत्राऽऽह –
देहबीजभूतेति ।
सर्वास्ववस्थासु तासु व्रीह्या­दि­सं­श्ले­ष­त­ल्ल­व­ना­दि­व­शा­दिति यावत् । न चेतनावत्त्वं जलूकादृष्टान्ते विवक्षितं किन्तु सातत्यमात्रमिति भावः । जलूकावत्त्वं जलू­का­सा­दृ­श्य­म­नु­श­यि­ना­मि­त्यर्थः ।

आरोहतां सवि­ज्ञा­न­त्व­म­व­रो­हतां विज्ञा­न­रा­हि­त्य­मि­त्यु­प­पा­द्याऽऽ­रो­ह­ता­मपि याव­त्स्व­स्था­नेभ्यः कर­णा­न्यु­प­सं­हृत्य हृदयेऽवस्थानं तावदेव सविज्ञानत्वं न देहा­द्ब­हि­र्नि­र्ग­तानां प्राग्दे­हा­न्त­र­प्रा­प्ते­स्त­द­स्त्य­नु­श­यिनां तु चन्द्र­म­ण्ड­ला­द­व­रु­रु­क्ष­ता­मपि न भाविदेहपर्यन्ता वासना दीर्घा भवति प्रमा­णा­भा­वा­दि­त्याह –
अन्तराले त्विति ।

चन्द्र­म­ण्द­ला­द­व­रो­हतां देहान्तरगमनस्य तुल्यत्वेऽपि विज्ञा­न­शू­न्य­त्व­म­दु­ष्ट­मि­त्यु­प­सं­ह­रति –
इतदोष इति ।

यत्तु हिंसा­नु­ग्र­हा­त्म­क­त्वा­द्वै­दि­क­क­र्मणां स्थावरत्वमपि तत्फलमेव तथा च वैदिकानां कर्म­णा­म­न­र्था­नु­ब­न्धि­त्वा­द­प्रा­माण्यं श्रुतेरिति तत्राऽऽह –
न चेति ।
उभ­य­हे­तु­त्व­म­र्था­न­र्थ­हे­तु­त्व­मिति यावत् ।

अहिं­स­न्नि­त्या­दि­श्रुतेः शास्त्र­चो­दि­त­वै­दि­केषु कर्मसु हिंसा नान­र्थ­हे­तु­रि­त्याह –
अभ्युपगतेऽपीति ।
यद्यपि स्वरूपेण हिंसाऽ­न­र्थ­हे­तु­र­भ्यु­प­ग­म्यते तथाऽपि तद्युक्तानां वैदिककर्मणां नान­र्था­र­म्भ­कत्वं यथा स्वरूपेण विष­द्ध्या­दे­र्म­र­ण­ज्व­रा­दि­हे­तु­त्वेऽपि मन्त्र­श­र्क­रा­दिभिः सहोपयुक्तं सन्न तत्का­र्या­र­म्भ­कम् तथा हिंसायाः स्वतोऽ­ध­र्म­हे­तु­त्वेऽपि वैदि­क­क­र्म­नि­ष्ठाया न तद्धेतुत्वं वैदिकैरेव कर्म­भि­स्त­त्कृ­त­दो­षा­प­न­य­न­सि­द्धे­रि­त्यर्थः ।

पूर्वोक्तमेव दृष्टान्तं स्पष्टयति –
मन्त्रणेति ।
तेन सहोपभुक्तस्य विषस्यानर्था हेतुत्वेन पुष्टि­हे­तु­त्व­व­द्वै­क­क­र्मा­नु­प्र­वि­ष्टाया हिंसायाः पुरुषार्थत्वमेव । अशुद्धामिति चेन्न शब्दादिति न्यायादित्यर्थः ॥६॥

तद्भूय एव भव­ती­त्ये­त­त्प्र­स­ङ्गा­गतं परिसमाप्य प्रकृ­त­श्रु­ति­व्या­ख्या­न­म­नु­व­र्त­यति –
तत्तत्रेति ।
अन्याधिष्ठिते पूर्व­व­द­भि­ला­पा­दिति न्यायेन तेषु व्रीह्यादिषु संष्टिला येऽनु­श­यि­न­स्तेषां मध्ये ये केचि­द­स्मि­न्ल्लोके चन्द्र­म­ण्द­ल­प्राप्तेः प्राग­व­स्था­या­म­नु­ष्ठि­ता­भु­क्त­र­म­णी­य­च­र­णास्ते रमणीयां योनि­मा­प­द्ये­र­न्निति सम्बन्धः ।

उक्तमेव स्पष्टयति –
शोभन इति ।

कथं रम­णी­य­च­र­णा­नु­रो­धेन शोभनोऽनुशयो लक्ष्यते तत्राऽऽह –
क्रौर्येति ।
ते खल्वनुशयिनो रेतः­सि­ग्यो­गा­न­न्तरं तेन कर्मणा रमणीयां योनि­मा­प­द्ये­र­न्निति यत्तत् क्षिप्रमेवेति योजना ।

तत्रापि हेतुमाह –
स्वकर्मेति ।

अथेति प्रतीकं गृहीत्वा व्याचष्टे –
पुनरिति ।
तद्वि­प­री­ता­स्तेभ्यो विलक्षणा इति यावत् । ते कपूयां योनि­म­शु­भा­नु­श­य­व­शा­द्रे­तः­सि­ग्यो­गा­न­न्त­र­मा­प­द्ये­र­न्निति यत्तदपि क्षिप्रमेवेति योजना ।

तत्रापि विकल्पे कारणमाह –
स्वकर्मेति ।

योनिविकल्पे तृतीयं पन्था­न­म­व­ता­र­यितुं पूर्वोक्तौ पन्थानौ संक्षि­प्या­नु­व­दति –
ये त्विति ।
शुभानुशयवशाद्ये केचित् ब्राह्म­णा­दि­यो­नि­मा­प­न्नास्ते स्वव­र्णा­श्र­म­वि­हि­त­क­र्म­नि­ष्ठा­स्सन्तो यदीष्टादिकर्म कृतवन्तस्तदा दक्षिणेन पथा चन्द्र गच्छन्ति । तत्र च भोक्तव्ये भोगेन क्षीणे पुनरवशिष्टेन कर्मणा पृथि­वी­मा­ग­च्छन्ति । एवं घटी­य­न्त्र­व­त्पुनः पुन­रा­रो­ह­न्तोऽ­व­रो­ह­न्तश्च केवलकर्मिणो दुश्यन्ते चेद्द्विजातयः स्वकर्मस्थाः सन्तो ध्यानं लभेरन्नुत्तरेण यानेनेतो ब्रह्मलोकं गच्छन्तीत्यर्थः ॥७॥

इदानीं तृती­य­स्था­न­मु­प­दि­शति –
यदा त्विति ।

पौनःपुन्ये लोण्म­ध्मै­क­व­च­ना­त्तयोः सर्वाख्यातेषु विधानात्पुनः पुनर्जायन्ते म्रियन्ते चेत्य­स्मि­न्नर्थे जायस्व म्रियस्वेति प्रयोग इत्याह –
तेषामिति ।
यद्वा सर्वेश्वरो मार्ग­द्व­य­भ्रष्टं दृष्ट्वा तं जायस्व म्रियस्वेति प्रेर­य­त्ये­त­दि­हो­च्यत इति द्रष्टव्यम् ।

तेना­सा­वि­त्या­दि­वाक्यं व्याचष्टे –
येनैवमिति ।

उक्तया रीत्या निर्णी­ता­न्प्र­श्ना­न्वि­विच्य प्रति­प­त्ति­सौ­क­र्यार्थं कथयति –
पञ्चमस्त्विति ।
व्यावर्तनाऽपि व्याख्या­ते­त्यु­त्त­रत्र सम्बन्धः । मृतानामविदुषां विदुषां चेत्यर्थः । अन्त्ये­ष्ट्य­न­न्तरं विदुषां कर्मिणां च संवत्सरमिति ज्ञानिनो गृह्यन्ते । अन्ये पितृलोकमिति केवलकर्मिण इति विभागः । क्षीणानुशयानां चन्द्रलोके भोक्तव्यं कर्म भोगेन क्षपितवतामिति यावत् ।

स्वश­ब्द­मे­वा­नु­व­दति –
तेनेति ।

किमर्थमेषां महायासवती तीव्रा संसा­र­ग­ति­रु­क्ते­त्या­श­ङ्क्याऽऽह –
यस्मादिति ।

तृतीयस्थानस्य कष्टत्वं स्पष्टयति –
यस्माच्चेति ।
जन्मादिना जनिता या वेदना तदनुभवे कृतः क्षणोऽवसरो नान्यत्र येषां तथा । अप्लव इति च्छेदः ।

तृती­य­स्था­न­व­दि­त­र­यो­रा­वृ­त्ति­म­त्त्वा­त्तुल्या कष्ट­ते­त्य­भि­प्रे­त्याऽऽह –
तस्माच्चेति ।

संसा­र­ग­त्यु­प­व­र्ण­नस्य तात्प­र्य­मुक्त्वा पञ्चा­ग्नि­वि­द्या­या­म­नु­ष्ठा­न­सि­द्ध्यर्थं तस्याः स्तावकं श्लोकमुदाहृत्य व्याचष्टे –
तदे­त­स्मि­न्नि­त्या­दिता ।
पञ्चा­ग्नि­वि­द्या­मा­हात्म्यं सप्तम्यर्थः ॥८-९ ॥

पञ्च महापातकिनः श्लोके निर्दिश्यन्ते न तु पञ्चा­ग्नि­वि­द्या­स्तु­ति­रिह भाती­त्या­श­ङ्क्याऽऽह –
अथेति ।

शुद्धत्वे हेतुमाह –
तेनेति ।

कस्येदं फल­मि­त्य­पे­क्षायां पूर्वो­क्त­वि­द्या­व­न्त­म­नु­व­दति –
य एवमिति ॥१०॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य दशमः खण्डः ॥

पूर्वो­त्त­र­सं­द­र्भयोः सम्बन्धं दर्श­य­न्नु­त्त­र­स­न्द­र्भ­म­व­ता­र­यति –
दक्षि­णे­ने­त्या­दिना ।

उत्तरग्रन्थस्य वैश्वा­न­रा­ख्या­त्तृ­भा­व­प्र­ति­प­त्त्य­र्थत्वे गमकमाह –
अत्सीति ।
विद्यायाः सम्प्रदानं शिष्यस्तस्य न्यायो विन­या­दि­सं­प­त्ति­स्त­त्प्र­द­र्श­नार्था चाऽऽख्यायिका ।

दृश्यते चात्र प्राची­न­शा­ल­प्र­भृ­तीनां तत्सं­प­त्ति­रि­त्याह –
विद्येति ।

कथ­मा­त्म­ब्र­ह्म­श­ब्द­यो­रि­त­रे­त­र­वि­शे­ष­ण­वि­शे­ष्यत्वं व्याव­र्त्या­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
ब्रह्मेतीति ।

उक्तरीत्या मिथो विशे­ष­ण­वि­शे­ष्यत्वे फलितमाह –
अभेदेनेति ।

इतश्चोपास्यस्य सर्वात्मत्वं गम्यते परि­च्छि­न्नो­पा­स­नस्य निन्दि­त­त्वा­द्भूम्नः क्रतु­व­ज्जा­य­स्त्व­मिति न्यायादित्याह –
मूर्धेति ॥१॥

भगवन्तः सन्तः सम्पा­द­यां­च­क्रु­रिति पूर्वेण संबन्धः ॥२-३॥

अश्वपतिरित्यादौ भगवन्त इति प्राची­न­शा­ल­प्र­भृ­तयः सम्बोध्यन्ते ॥४॥

स हेत्यादि सोपस्कार व्याचष्टे –
स हान्ये­द्यु­रि­त्या­दिना ।
यथोक्तं शास्त्र­प्र­सि­द्ध­मिति यावत् ।

किं तर्हि भगवदागमनस्य प्रयोजनं तदाह –
वयं चेति ।

तन्ममापि नास्तीति शङ्कां निरस्यति –
आत्मानमिति ।
शिष्य­भा­वे­नो­प­स­न्नेभ्यो विद्या दातव्या न यथाकथञ्चिदिति राज्ञोऽभिप्रायः ।

ते हेत्या­दि­वा­क्यस्य तात्पर्यं दर्शयति –
यतइति ।

योगक्षेमार्थं राजानं प्रत्यु­प­ग­म­न­मि­ष्ट­मे­वेति मन्वानो विशिनष्टि –
विद्यार्थिन इति ।
तथे­त्य­त्रा­तः­शब्दो द्रष्टव्यः । उपनयनं पादयोर्निपातनम् । वक्ष्यमाणं वैश्वा­न­र­वि­ज्ञानं तेनैतदित्यस्य संबन्ध इति यावत् ।

आख्या­यि­का­ता­त्प­र्य­मु­प­सं­ह­रति –
यथेति ॥५-६-७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्च­मा­ध्या­य­स्यै­का­दशः खण्डः ॥

शिष्यो हि प्रष्टाऽऽ­चा­र्यस्तु प्रतिवक्तेति न्यायेन शङ्कते –
नन्विति ।

वाक्य­शे­षा­व­ष्ट­म्भेन दूषयति –
नैष दोष इति ।

बृह­दा­र­ण्य­क­श्रु­त्या­लो­च­ना­या­मपि नैत­द­न्या­य्य­मि­त्याह –
अन्यत्रापीति ।
आचा­र्य­स्या­जा­त­श­त्रो­रिति सम्बन्धः ।

तस्याऽऽत्मत्वे हेतुमाह –
आत्मन इति ।
एका­हा­दि­रू­पो­ज्यो­ति­ष्टो­मा­दि­र­ह­र्ग­ण­स्तत्र सुतं सोमरूपं लताद्रव्यमहीने प्रस्तुतं सत्रे त्वासुतमिति भेदः । तवेति पुन­र्व­च­न­म­न्व­य­द­र्श­ना­र्थम् ॥१॥

न केवलं प्राची­न­शा­ल­नि­ष्ठ­मिदं फलं किन्त्व­न्य­स्यापि भवतीत्याह –
अन्योऽपीति ।

तर्हि यथो­क्त­वै­श्वा­न­र­ज्ञा­ना­देव कृत­कृ­त्य­ते­त्या­श­ङ्क्याऽऽह –
मूर्धा त्विति ।

अक्ष­रा­र्थ­मुक्त्वा विवक्षितार्थमाह –
साध्विति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य द्वादशः खण्डः ॥

अथ प्राचीनशाले तूष्णींभूते जिज्ञासमाने सत्य­न­न्त­र­मि­त्यर्थः । आदित्यस्य शुक्ल­त्वा­दि­रू­प­त्व­म­ष्टमे स्पष्टीभविष्यति । तस्य सर्वरूपत्वेन विश्व­रू­प­त्व­मु­क्त­मु­प­पा­द­यति –
सर्वाणीति ॥१॥

अस्त्य­न्न­मि­त्यादि चक्षु­ष्ट्वे­त­दि­त्यतः प्राक्तनमिति शेषः । चक्षु­ष्ट्वे­त­दि­त्या­दि­वाक्यं व्याचष्टे –
चक्षुरित्यादिना ।

तत्रापि तात्पर्यं यथापूर्वं द्रष्ट­व्य­मि­त्याह –
पूर्ववादिति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥

सत्य­य­ज्ञो­प­र­मा­न­न्त­र­मि­त्य­थ­श­ब्दार्थः । पृथगित्यतः प्राक्त­न­मा­दि­प­देन गृहीतम् । पृथग्वर्त्मेति प्रतीकमादाय व्याचष्टे –
नानेति ।
आभि­मु­ख्ये­नाऽऽ­ग­च्छ­न्ना­वहः । ऊर्ध्वेन वहतीत्युद्वहः ।

तस्मा­त्त्व­मि­त्यादि व्याचष्टे –
तस्मादिति ।
नानादिक्का नानाविधासु दिक्षुभवा इत्येतत् ॥१॥

अस्त्य­न्न­मि­त्यादि समा­न­मि­त्य­त्राऽऽ­दि­प­द­मु­पास्त इत्य­न्त­वा­क्य­सं­ग्र­हा­र्थम् । उत्त­र­वा­क्येऽ­प्य­भि­प्रा­य­साम्यं मत्वाऽऽह –
प्राणस्त्विति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥

इन्द्र­द्यु­म्नो­प­र­मा­न­न्त­र्य­म­थ­श­ब्दार्थः । अत्राऽऽदिपदमेष इत्य­स्मा­त्प्रा­क्त­न­वा­क्य­सं­ग्र­हा­र्थम् । कथमाकाशस्य बहुलत्वमत आह –
बहुलत्वमिति ॥१॥

कथं शरीरस्य मध्यमे भागे संशयवाची सन्देहशब्दो वर्तते तत्राह –
दिहेरिति ।

आकाशस्य सर्वगतत्वेन बहु­ल­त्वा­द्दे­हस्य च परिच्छिन्नत्वेन तद­भा­वा­त्क­थ­मा­काशं वैश्वानरस्य शरीरं स्यादि­त्या­श­ङ्क्याऽऽह –
मांसेति ।
तच्छरीरमिति सम्बन्धः ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥

जन­स्यो­प­र­मा­न­न्त­र्य­म­थ­श­ब्दार्थः । कथमबात्मको वैश्वानरो रयिरिति धनेन निर्दिश्यते तत्राऽऽह –
अद्भ्य इति ।
आयुर्वै घृत­मि­ति­व­त्का­र्य­वा­च­केन कारणं लक्ष्यत इत्यर्थः । तस्मा­द्य­थो­क्त­वै­श्वा­न­रो­पा­स­ना­दि­त्ये­तत् ।

धन­रू­प­वै­श्वा­न­रो­पा­स­ना­द्ध­न­वा­नि­त्येव वक्तव्ये कथं पुष्टि­मा­नि­त्य­धि­का­वा­प­स्त­त्राऽऽह –
पुष्टेश्चेति ॥१॥

मूत्राशयो धनुर्वक्रो बस्ति­रि­त्य­भि­धी­यत इत्याशयेनाऽऽह –
बस्तिरिति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य षोडशः खण्डः ॥

प्राची­न­शा­ल­प्र­भृ­तिषु पञ्चसु मौन­मा­ति­ष्ठ­मा­ने­ष्व­न­न्त­र­मि­त्य­थ­श­ब्दार्थः ॥१-२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य सप्तदशः खण्डः ॥

उद्दालकान्तेषु विद्या­र्थि­षू­प­स­न्नेषु सामस्त्येन वैश्वानरविद्यां वक्तुकामस्तेषां मिथ्या­ज्ञा­न­म­नु­व­दति –
तानित्यादिना ।
अन­र्थ­का­वि­वा­न­र्थकौ निपातौ न त्वनर्थकावेव । तेषां मिथ्या­ज्ञा­नि­त्व­प्र­सि­द्धि­स्मा­र­क­त्वात् । यूय­मि­त्य­न्व­यार्थं प्रागुक्तमपि पाठक्रमेण पुनरनूद्य पृथगिव विद्वांस इति सम्बन्धः । ये जात्यन्धा हस्तिदर्शने भिन्नदृष्टयो भवन्ति तथा यूयं वैश्वा­न­र­मा­त्मा­न­मे­क­मपि सर्वात्मकं सन्तं भिन्नमिव विद्वांसः परि­च्छि­न्ना­त्तृ­रू­पे­णाऽऽ­त्मानं बुद्धवन्तः । तथा च मिथ्यादर्शिनो यूयं प्रागेव प्रत्य­वा­या­न्मा­मा­ग­त­वन्तः साधु कृतवन्त इत्यर्थः ।

प्रधानविद्यां वक्तुं पातनिकां कृत्वा तामि­दा­नी­मु­प­दि­शति –
यस्त्वित्यादिना ।
एतमेवंभूतं यस्तूपास्ते स सर्वे­ष्व­न्न­म­त्तीति सम्बन्धः ।

एवंशब्दार्थमाह –
यथोक्तेति ।
एकं समस्तं त्रैलो­क्या­त्म­क­मिति यावत् ।

प्रादे­श­मा­त्र­मि­त्ये­त­द्वि­भ­जते –
प्रादेशैरिति ।
यथो­क्तै­रा­धि­दै­वि­कै­र­व­य­वै­र­ध्यात्मं प्रत्य­गा­त्म­न्ये­वायं मीयत इति व्युत्पत्त्या प्रादे­श­मा­त्र­स्त­मिति यावत् ।

प्रकारान्तरेण व्याचष्टे –
मुखादिषु वेति ।
तेषु हि प्रदे­शे­ष्व­य­म­त्तृ­त्वेन साक्षितया मीयत इति व्युत्पत्त्या तथोच्यत इत्यर्थः ।

विधान्तरेण व्याचष्टे -
द्युलोकादीति ।

अर्थान्तरमाह –
प्रकर्षेणेति ।
आमनन्ति चैनमस्मिन्निति न्यायेन पक्षान्तरमाह शाखान्तरेत्विति ।

अस्तु तर्हि जाबा­ल­श्रु­त्य­नु­सा­रेण मूर्धा­ना­मा­र­भ्या­धा­र­फ­ल­क­प­र्यन्ते देहावयवे सम्पादितो वैश्वा­न­रः­प्रा­दे­श­मा­त्र­व्या­चष्टे –
प्रत्य­गा­त्म­त­येति ।

सर्वेश्वरत्वं सर्वात्मत्वं सर्व­प्र­त्य­क्षत्वं वा हेतूकृत्य वैश्वा­न­र­श­ब्द­म­ने­कधा व्याकरोति –
विश्वा­नि­त्या­दिना ।
ईश्वरो वैश्वानर इत्यत्र वैश्वा­न­र­प­द­मु­भ­यत्र संबध्यते । स वैश्वा­न­र­वि­द­न्न­म­द­न्स­र्वेषु लोकादिषु स्थित्वाऽऽ­न्न­म­त्तीति सम्बन्धः ।

कथमात्मशब्देन शरीरादयो गृह्यन्ते तत्राऽऽह –
तेषु हीति ।

सर्वेषु लोके­ष्वि­त्या­दि­वा­क्यस्य तात्पर्यार्थं दर्शयति –
वैश्वानरविदिति ॥१॥

वैश्वानरोपासकः सर्वात्मा सन्न­न्न­म­त्ती­त्येवं कस्मा­द्धे­तो­र्नि­श्चि­त­मि­त्या­श­ङ्का­म­नूद्य हेतु­प्र­द­र्श­न­प­र­त्वे­नो­त्त­र­त्वे­नो­त्तरं वाक्यमुपादत्ते –
कस्मादित्यादिना ।
वैश्वानरस्य सर्वा­त्म­त्वा­त्त­दु­पा­स­क­स्यापि तदात्मतया सर्वात्मत्वादसौ सर्वात्मा भूत्वा सर्व­त्रा­न्न­म­त्तीति युक्तमित्यर्थः ।

तस्ये­त्या­दि­वा­क्यस्य तात्प­र्या­न्त­र­माह –
अथ वेति ।

प्रधा­न­वि­द्या­मुक्त्वा तद­ङ्ग­प्रा­णा­ग्नि­होत्रं दर्शयितुकामो भूमिकां करोति –
अथेति ।
संपा­द­यि­तु­मि­च्छ­न्नादौ तद­ङ्गा­न्य­श्व­प­ति­रा­हे­त्यर्थः । वेदिरिति स्थण्डिलमात्रं गृह्यते । अग्निहोत्रे ताव­न्मा­त्र­स्यो­प­यु­क्त­त्वा­दि­त­रस्य दर्श­पू­र्ण­मा­सा­द्य­ङ्ग­त्वात् । वेद्या­मा­स्ती­र्यन्ते ये दर्भा[स्ते] बर्हिः­श­ब्दे­नो­च्यन्ते । हृदयस्य गार्हपत्यत्वं मनः­प्र­ण­य­न­हे­तु­त्वात्, प्रणी­त­मु­त्प­न्न­मि­वे­त्यर्थः ।

आहवनीयसादृश्यं च मुखस्य दर्शयति –
आहवनीय इति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्च­मा­ध्या­य­स्या­ष्टा­दशः खण्डः ॥

एवं सती­त्यु­क्त­न्या­ये­ना­ग्नि­होत्रे संपादिते सतीत्यर्थः । संपा­दि­त­स्या­ग्नि­हो­त्र­त्वस्य सामा­न्या­द­ग्न्यु­द्ध­र­णा­दीनि तदङ्गान्यत्र भवे­यु­रि­त्या­शङ्क्य तद्बु­द्धि­मा­त्रस्य विव­क्षि­त­त्वा­न्मै­व­मि­त्याह –
अग्निहोत्रेति ।
इहेति वैश्वानरविदो भोजनमुच्यते ।

प्रकृ­त­हो­म­ग­ता­वा­न्त­र­वि­भा­ग­माह –
स भोक्तेति ।

कथमिति मन्त्रो वा द्रव्यपरिमाणं वा फलं वा पृच्छ्यते तत्र प्रथमं प्रत्याह –
प्राणायेति ।

यदि द्विती­य­स्त­त्राऽऽह –
आहुतीति ।
अवदानस्य प्रमाणं परिमाणं कर्मिणां प्रसिद्धं तेन परिमितमिति यावत् ।

तृती­य­श्चे­त्त­त्राऽऽह –
तेनेति ॥१॥

भुञ्जानस्य तृप्तौ प्रत्यक्षं प्रमाणं प्राणा­दे­स्तृप्तौ शास्त्रमिति विभा­ग­म­भि­प्रे­त्याऽऽह –
प्रत्यक्षमिति ।
प्रजादिभिश्च भोक्ता तृप्यतीति संबन्धः ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्च­मा­ध्या­य­स्य­को­न­विंशः खण्डः ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य विंशः खण्डः ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्च­मा­ध्या­य­स्यै­क­विंशः खण्डः ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥

प्रसि­द्धा­ग्नि­हो­त्र­नि­न्दा­द्वा­रेण वैश्वानरविदो यथो­क्त­म­ग्नि­हो­त्र­म­व­श्य­क­र्त­व्य­तायै स्तौति –
स यः कश्चिदित्यादिना ॥१॥

प्राणा­ग्नि­हो­त्रस्य वैशिष्ट्ये हेत्व­न्त­र­म­तः­श­ब्दो­पात्तं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
नैय­मि­का­ग्नि­हो­त्र­नि­न्दा­द्वारा प्राणा­ग्नि­हो­त्र­स्तु­त्य­न­न्तरं विधान्तरेण तस्यैव निरवद्यता कीर्त्यत इत्यथशब्दार्थः ।

एतदिति वैश्वा­न­र­द­र्श­न­मु­क्तम् –
एवमिति ।
वैश्वा­न­र­स्यो­क्त­स­र्वा­त्म­त्वा­दि­प्र­का­रे­णे­त्यर्थः । अग्निहोत्रमिति साम्पा­दि­क­म­ग्नि­होत्रं गृह्यते ।

कथमिदमुक्तार्थं सर्वेषु लोका­दि­ष्व­न्न­म­त्तीति वाक्यं व्याख्यातं तस्य सर्वेषु लोकादिषु हुतं भव­ती­त्य­न्या­दृ­श­मिदं वाक्यं तत्राऽऽह –
हृतमिति ॥२॥

इतश्च वैश्वा­न­र­वि­द्या­व­तोऽ­ग्नि­होत्रं विशिष्टमिति वक्तुं वैश्वानरविद्यां स्तौति –
किं चेति ।
तत्र वैश्वा­न­र­वि­द्या­मा­हात्म्ये दृष्टान्त इति यावत् । इषीकाया मुञ्जा­म­ध्य­व­र्ति­तृ­ण­स्ये­त्ये­तत् ।

सर्व­श­ब्दा­त्प्रा­र­ब्ध­क­र्म­णोऽपि दाहमाशङ्क्याऽऽह –
वर्तमानेति ।

वैश्वा­न­र­वि­द्याया महाफलत्वे सिद्धे तद्व­तोऽ­ग्नि­होत्रं विशिष्टमिति तत्कर्तुः सर्व­दो­षा­स्प­र्शि­त्व­मि­त्या­श­ये­नाऽऽह –
य एतदिति ॥३॥

विद्यामेव विद्या­स्तु­ति­द्वा­राऽ­ग्नि­हो­त्र­मिति यावत् । स्तुत्य­र्थेऽ­ग्नि­हो­त्रस्य स्तुतिरूपो योऽर्थ­स्त­स्मि­न्नि­त्ये­तत् ॥४॥

मन्त्रस्य तात्पर्यार्थं दर्शयति –
जगदिति ।
विदुषो वैश्वानरात्मनः सर्वा­त्म­त्वा­दि­त्यर्थः ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तायां च्छान्दो­ग्यो­प­नि­ष­द्भा­ष्य­टी­कायां पञ्चमोऽध्यायः समाप्तः ॥