आनन्दगिरिटीका (छान्दोग्य)
पञ्चमोऽध्यायः: प्रथमः खण्डः
वृत्तमनूद्य वर्तिष्यमाणाध्यायस्य सङ्गतिं सङ्गिरते –
सगुणेति ।
विद्यान्तरं पञ्चाग्निविद्यातिरिक्ता सगुणविद्या । तच्छीलिनां तन्निष्ठानामिति यावत् । तामेव गतिमर्चिरादिलक्षणामित्यर्थः । ततो गतिद्वयात्तृतीया च विद्याकर्मरहितानामिति शेषः ।
अथ क्रमेण मुक्तिसम्भवादुत्तरा गतिरुच्यतां किमिति दक्षिणा तृतीया च संसाररूपा गतिरतिनिकृष्टा व्यपदिश्यते तत्राऽऽह –
कष्टतरेति ।
सगुणब्रह्मविद्यावतामर्चिराद्यां गतिमुक्त्वा समुच्चितानामसमुच्चितानां कर्मणां संसारगतिप्रभेदरूपं फलं वक्तुमयमारम्भ इत्यर्थः ।
कर्मविधिश्च धनसम्पत्तौ सत्यां भवति । तत्सम्पत्तिश्च ब्राह्मणस्य श्रैष्ठ्ये सत्येव सम्भवतीति श्रैष्ठ्यसिद्धये प्राणोपासनं पूर्वत्रानुक्तं वक्तव्यमित्यन्तरग्रन्थसङ्गतिं वदन्प्रसङ्गं करोति –
प्राणः श्रेष्ठ इत्यादिना ।
प्राणो ब्रह्मेत्यादिवाक्यमादिशब्दार्थः । उदाहृतानुदाहृतश्रुत्यन्तरसमुच्चयार्थश्चकारः ।
प्राणस्य वागादिभ्यः श्रैष्ठ्यमुक्तमाक्षिपति –
स कथमिति ।
सर्वैर्वागादिभिः संहत्य प्राणस्य कार्यकरत्वे सम्प्रतिपन्ने स एव कथं श्रेष्ठो निर्धार्यते तेषामन्यतमस्यैव श्रैष्ठ्यं किं न स्यादित्यर्थः ।
तस्यैवोपास्यतया श्रैष्ठ्यमाशङ्क्य वागादीनामन्यतमस्योपास्यत्वमपास्य प्राणस्यैव नोपास्यत्वं हेत्वभावादित्याक्षेपान्तरमाह –
कथं चेति ।
प्राणस्य श्रेष्ठत्वं ज्येष्ठत्वमित्यादिगुणविधानार्थमेव तावत्प्रथममारभ्यते –
यो ह वै ज्येष्ठं चेति ।
आद्यं चोद्यं परिहरति –
प्रथममिति ।
प्राणस्यैवोपासनं न वागादीनामित्येतदनन्तरमारभ्यतेऽथ ह प्राण उच्चिक्रमिषन्नित्यादिनेति द्वितीयं चोद्यमुद्धरति –
इदमनन्तरमिति ।
कोऽसौ ज्येष्ठत्वश्रेष्ठत्वगुणो वेदितव्य इत्यत आह –
फलेनेति ।
कुतो वागादिभ्यो ज्यैष्ठ्यं प्राणस्य प्रतीतं सर्वे हि वागादयः सप्राणाः सहैव गर्भस्थे स्वतो वृत्तिभागिनो भवन्ति तत्राऽऽह –
गर्भस्थे हीति ।
तत्र गर्भविवृद्धिदर्शनं प्रमाणयति –
ययेते ।
कदा तर्हि वागादीनां वृत्तिलाभस्तत्राऽऽह –
चक्षुरादीति ।
प्राणस्य ज्यैष्ठ्यं प्रतिपादितं निगमयति –
इति प्राण इति ।
गुणद्वयमुपास्यत्वाय दर्शितं निगमयति –
अत इति ॥१॥
तदर्थत्वेनैव गुणान्तरं दर्शयति –
यो ह वा इति ।
वसुमत्तमं धनवत्त्वादन्येषां निवासकारणमित्यर्थः । तथैवेत्युपासनानुसारेणेति यावत् । वसिष्ठो ह भवतीति वासयिता वेत्यर्थः ।
वाचो वसिष्ठत्वं समर्थयते –
वाग्मिनो हीति ।
वसुमत्तमाश्च तेनान्यान्निवासयन्तीति शेषः ॥२॥
गुणान्तरमाध्यानायोपदिशति –
यो हेति ।
प्रतिष्ठात्वं चक्षुषो विशदयति –
चक्षुषा हीति ॥३॥
गुणान्तरमाह –
यो ह वा इति ।
दैवाः कामाः स्वर्गादयो (वा) मानुषाः पश्वादयः ।
श्रोत्रस्य सम्पत्त्वं साधयति –
यस्मादिति ।
इत्येवं यस्मात्तस्मादिति योजना ॥४॥
संप्रति गुणान्तरमाह –
यो हीति ।
कथं पुनरायतनत्वं मनसः सिद्धमित्यत आह –
इन्द्रियोपहृतानामिति ॥५॥
यथोक्ता गुणा मुख्यप्राणगामिनो न प्रत्येकं वागादिषु भवन्तीति वक्तुमाख्यायिकां प्रमाणयति –
अथेति ॥६॥
कञ्चिद्विराजं कश्यपादीनामन्यतमं वेत्यर्थः । शरीरस्य पापिष्ठत्वं पापकार्यप्रधानत्वम् । इवशब्दोऽवधारणार्थः । उक्तमेवार्थं संक्षिप्याऽऽह –
कुणपमिति ।
त्यक्तप्राणं शवरूपमिति यावत् ।
ननु प्रजापतिः सर्वज्ञो मुख्यमेव प्राणं किमिति श्रेष्ठं नाभिवदति तत्राऽऽह –
काक्वेति ।
अयं श्रेष्ठ इत्युक्ते यत्तेषां वागादीनां दुःखं तत्परिहर्तुमिच्चन्प्रजापतिः स्वरभङ्गोपायविशेषेण श्रेष्ठमुक्तवान्न स्फुटमित्यर्थः ॥७॥
अन्यदित्यस्य विषयमाह –
चक्षुरिति ।
बालानामपि बहिरन्तरिन्द्रियवत्वाविशेषात्कथममनस इति विशेषणमत आह –
अप्ररूढेति ॥८-९-१०-११॥
परीक्षितेषु श्रेष्ठतारहितेषु निरूप्य निश्चितेष्वित्येतत् । पदनसीलाः पादास्तेषां संहतिः पड्विस्तस्या ईशा नियामकाः शङ्कवोवर्णविकारश्छान्दसः । तान्यथोक्तानश्वो युगपदुत्पाटयेद्यथेति दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह – एवमिति ॥१२॥
मयि श्रेष्ठत्वधीर्युष्माकमस्तीति कथं ज्ञातुं शक्यमित्याशङ्क्याऽऽह –
अथेति ।
वचनं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
क्रियाविशेषणत्वमेव विशदयति –
यद्वसिष्ठत्वेति ।
वसिष्ठत्वेन गुणेनाहं गुणवानस्मीति यत्तत्त्वमेवेति योजना ।
अनन्तरं वाक्यमादाय व्याचष्टे –
त्वमित्यादिना ।
तद्वसिष्ठ इति समस्तपदमिति गृहीत्वा व्याख्याय पक्षान्तरमाह –
अथ वेति ।
यच्छब्दवदित्यपेरर्थः ।
अहं वसिष्ठत्त्वगुणोऽस्मीति यत्तत्त्वमेव वसिष्ठत्वगुणोऽसीति कथमिदानीमुच्यते । अन्यथा हि पूर्वमभिधानं तवाऽऽसीदित्याशङ्क्याऽऽह –
त्वत्कृत इति ।
वाचि दर्शितं न्यायं चक्षुरादावतिदिशति –
तथेति ॥१३-१४॥
वागादिवचनादुत्थाय प्राणाधीनतां वागादेः श्रुतिरेव कथयतीत्युत्तरस्य “न वै वाच”(छा.उ. ५ । १ । १५) इत्यादेस्तात्पर्यमाह –
श्रुतेरिति ।
तदेव च सोपस्कारं व्याकरोति –
युक्तमित्यादिना ।
यदि सर्वाण्येव करणानि वाक्तन्त्राणि स्युस्तर्हि वाच इत्येव तानि ब्रूयुः । यदि चक्षुस्तन्त्राणि स्युस्तदा सर्वाण्येव चक्षूंषीति वदेयुः । न चैवं वदन्ति, प्राणा इति तु तानि कथयन्ति । तस्मात्प्राणपारतन्त्र्यं करणानां सिद्धमित्यर्थः । वागादिभिरुक्तं त्वं तद्वसिष्ठोऽसीत्यादि प्राणस्यैव यथोक्तगुणवतो ध्येयत्वं प्रकरणार्थः । साक्षादुपसंहारादर्शनादुपसञ्जिहीर्षतीत्युक्तम् ।
आख्यायिकाया यथाश्रुतमर्थमाक्षिपति –
नन्विति ।
यथा पुरुषाश्चेतनावन्तो विवदमानाः स्पर्धन्ते तथा वागादयोऽचेतनाः स्वकीयश्रेष्ठत्वसिद्ध्यर्थं विप्रतिपन्ना मिथः स्पर्धेरन्निति नैव युक्तमचेतनेषु स्पर्धादेरदर्शनादित्यर्थः ।
किं च वाग्व्यतिरिक्तानामन्योन्यं वचनमेवनुचितं वचनस्य वाग्व्यापारत्वादित्याह –
न हीति ।
किञ्च वागादीनां देहादपसर्पणाद्ययुक्तमचेतनत्वादित्याह –
तथेति ।
वाशब्दो न हीत्यस्यानुकर्षणार्थः ।
अग्न्यादयश्चेतनावत्यो देवतास्ताभिरधिष्ठितत्वात्तादात्म्याभिप्रायेण वागादीनां चेतनावत्त्वसम्भवाद्वदनादि व्यवहारः सम्भवतीत्यग्निर्वाग्भूत्वा मुखं प्राविशदित्यादिश्रुतिमनुसृत्योत्तरमाह –
तत्रेति ।
एकस्मिन्देहेऽनेकचेतनावतां प्रसह्य विरुद्धानेकाभिप्रायानुविधायित्वेन देहस्योन्मथनप्रसङ्गादक्रियत्वप्रसङ्गाद्वा नानेकचेतनाधिष्ठितत्वमेकस्य देहस्य सम्भवतीति शङ्कते –
तार्किकेति ।
किमेकशरीरमनेकचेतनाधिष्ठितं न भवति किं वा तैर्निर्णीतकर्तृ भोक्त्रधिष्ठितमिति विकल्प्याऽद्यं दूषयति –
नेति ।
अस्ति हि परमते शरीरस्य जीवाधिष्ठितस्यैवेश्वराधिष्ठितत्वं तथाचकशरीरमनेकचेतनाधिष्ठितं न भवतीति नास्ति सेश्वरवादिनां शङ्केत्यर्थः ।
संग्रहवाक्यं विवृणोति –
ये तावदिति ।
अचेतनानां चेतनाधिष्ठितानामेव प्रवृत्तिरित्यत्र दृष्टान्तमाह –
रथादिवदिति ।
द्वितीयं प्रत्याह –
न चेति ।
[यदि] कार्यकरणानामधिष्ठातृदेवता तर्हि तत्कार्यकरणानां किमधिष्ठातृदेवतान्तरमिति पृच्छति –
किं तर्हीति ।
देवताकार्यकरणानामधिष्ठातृदेवतान्तरमिष्टं चेदनवस्था स्यादिति मन्वानं प्रत्याह –
कार्यकरणवतीनामिति ।
शाकल्यब्राह्मणमनुसृत्याऽऽह –
प्राणेति ।
ननु भूयस्यो देवताः कथं तासां प्राणलक्षणैकदेवताप्रभेदत्वमत आह –
अध्यात्मेति ।
अध्यात्माधिभूताधिदैवानां भेदकोटिर्विकल्पो यासामिति विग्रहः ।
नियन्तृत्वप्रयुक्तव्यापारवत्त्वं वारयितुं विशिनष्टि –
अध्यक्षतामात्रेणेति ।
अथेश्वरस्यापि नियन्तृत्वात्कार्यकरणवत्त्वं देवतानामिव स्यादिति चेन्नेत्याह –
स हीति ।
अकरणत्वमकार्यत्वस्योपलक्षणम् ।
तत्र श्रुतिं प्रमाणयति –
अपाणीति ।
आदिपदेन च “न तस्य कार्यं करणं च विद्यत”(श्वे.उ. ६ । ८) इत्यादिम्नत्रवर्णो गृहीतः ।
सूत्रात्मा हिरण्यगर्भः सा चैका समष्टिरूपा देवता तदवस्थाभेदानां देवतानामीश्वरो नियन्तेत्युक्तं तत्र प्रमाणमाह –
हिरण्यगर्भमिति ।
आदिपदेन “हिरण्यगर्भः समवर्तत” इत्यादि गृह्यते ।
देवानामीश्वरस्य चास्मिन्देहे भोक्तृत्वाभावे कस्य भोक्तृत्वमित्यत आह –
भोक्तेति ।
तद्विलक्षणो देवतेश्वराभ्यां व्यावृत्त इति यावत् ।
वागादिशब्दवाच्याश्चेतनावत्यो देवता इति स्वीकृत्याऽऽख्यायिकायाः स्वार्थनिर्वृत्त्यर्थमुक्तमिदानीं तस्यास्तात्पर्यमाह –
वागादीनां चेति ।
कल्पनाप्रयोजनमाह –
विदुष इति ।
यथोक्तां कल्पनां दृष्टान्तेन स्पष्टयति –
यथेत्यादि ।
तेनोक्ता इत्युक्तमेव व्यनक्ति –
एकैकश्येनेति ।
विदुष इत्यादिनोक्तं प्रयोजनं प्रकटयति –
कथं नामेति ।
विद्वान्प्राणश्रेष्ठतां कथं नाम प्रतिपद्येतेति सम्बन्धः ।
प्रतिपत्तिप्रकारं संक्षिपति –
वागादीनामिति ।
फलवती कल्पनेति शेषः ।
दृष्टेऽप्यर्थे श्रुतिमनुग्राहकत्वेन दर्शयति –
तथा चेति ॥१५॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य प्रथमः खण्डः ॥
वागादीनां स्वामी श्रैष्ठ्यादिगुणः प्राणोऽस्मीति विद्यादिति प्रधानविद्यामुपदिश्य तद्दर्शनाङ्गभूतान्नवासोदृष्टिविधानार्थे प्रक्रमे प्रथममन्नदृष्टिं विधातुं प्रसङ्गं प्रकुरुते –
स होवाचेति ।
मुख्यस्य प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च काल्पनिकमित्याह –
मुख्यमिति ।
यदिदमित्युक्तमेव च यत्पदं वाक्यार्थकल्पनार्थं यदन्नमित्यत्रानूद्यते ।
तद्वा एतदित्याद्युत्तरवाक्यस्य पूर्ववाक्यादर्थभेदाभावमाशङ्क्याऽऽह –
प्राणस्येति ।
प्राणशब्दं विहायानशब्दप्रयोगे तात्पर्यमाह –
सर्वप्रकारेति ।
अन चेष्टायामितिधातुजस्यानशब्दस्योपादानं सर्वप्रकारचेष्टया प्राणस्य व्याप्तिगुणप्रदर्शनार्थम् । तथा च यः कोऽपि दहति शोषयति प्लावयति वा स सर्वोऽपि प्राण एवेति युक्तं प्राणस्यान इति नामेत्यर्थः । प्रत्यक्षं पूर्वोक्तधातुजन्म नामेति यावत् ।
उक्तमेवार्थं समर्थयते –
प्रादीति ।
अनशब्दस्येति शेषः । न प्राणस्य सर्वचेष्टाप्तिरित्येवकारार्थः । तथा च प्राणादिशब्दोपादाने विशेषव्याप्तिरेवेति स्थिते सतीत्यर्थः । अन इति प्रत्यक्षमिदं नाम सर्वान्नानामत्तुर्नामग्रहणमिति सम्बन्धः ।
तदेव व्याचष्टे –
सर्वान्नानामिति ।
ततश्च प्राणशब्दस्य प्राणविदः सर्वमन्नं चेत्तद्विदुषो भक्ष्याभक्ष्यविभागासिद्धौ तद्विषयं शास्त्रं विरुध्येतेत्याशङ्क्याऽऽध्यात्मिकं रूपं हित्वाऽऽधिदैविकेन रूपेण तस्य सर्वान्नत्वे विभागशास्त्रमाध्यात्मिकपरिच्छेदविषयत्वेनाविरुद्धमित्याह –
प्राणभूतत्वादिति ।
प्राणभूतो विद्वानित्यत्र श्रुत्यन्तरं संवादयति –
प्राणादिति ॥१॥
प्राणविद्याङ्गत्वेनान्नदृष्टिरुपदिष्टा । संप्रति तदङ्गत्वेन वासोदृष्टिं प्रस्तौति –
स होवाचेति ।
अत्रापि प्राणस्य प्रष्टृत्वं वागादीनां प्रतिवक्तृत्वं च कल्पितमेवेत्याह –
पूर्ववदिति ।
अपां प्राणं प्रति वासोरूपत्वे गमकमाह –
यस्मादिति ।
वासोदृष्टिफलमाचष्टे –
लम्भुक इति ।
अनग्नो ह भवतीत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषमाह –
वासस इति ।
आचमनान्तरं प्राणविदो विधीयत एवंविदशिष्यन्नाचामेदिति श्रुतेरित्याशङ्क्याऽऽह –
भोक्ष्यमाणस्येति ।
आदिपदेन प्रतिवचने गृह्येते ।
सर्वप्राणिभोग्येऽन्ने तस्यान्नमितिदृष्टिवदाचमनीयास्वप्सु तस्य विधीयते वासोदृष्टिरित्युक्तं व्यतिरेकद्वारा विवृणोति –
यदीति ।
तादर्थ्येनानग्नतार्थत्वेनेति यावत् ।
अथ पूर्वमन्नदृष्टिरेव विधीयते सर्वान्नभक्षणस्य प्रमाणविरुद्धत्वादिह त्वपूर्वमाचमनमविरोधाद्विधीयतामित्याशङ्क्याऽऽह –
तुल्ययोरिति ।
एकस्याऽऽचमनस्य शुद्ध्यर्थत्वमनग्नतार्थत्वं च वक्तुमशक्यं विरोधादित्याशङ्क्याऽऽह –
यत्त्विति ।
विरोधो यथा स्यात्तथेति यावत् ।
तर्हि कीदृगाचमनं विवक्षितमित्याह –
किं तर्हीति ।
प्रयतस्य भावः प्रायत्यं तदर्था याऽऽचमनक्रिया तत्साधनभूतास्वप्सु वासःसङ्कल्पनं क्रियान्तरमत्र विधित्सितमित्याह –
प्रायत्येति ।
क्रियाभेदे फलितमाह –
तत्रेति ।
अन्यार्थास्वप्स्वन्यार्थत्वचिन्तने प्रमाणविरोधाद्विधियोगेन वासोर्थमाचमनान्तरमेव विधेयं तत्र चानग्नतार्थत्वचिन्तनमुचितमिति शङ्कार्थः ।
वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदप्रसङ्गात्प्रसिद्धाचमनसाधनभूतास्वप्सु वासोदृष्टिपरमेव च वाक्यमित्युत्तरमाह –
नेत्यादिना ।
वासोर्थत्वमन्यार्थत्वं दृष्ट्यर्थत्वमित्युक्ते प्रमाणस्यैकस्य वाक्यस्याप्रमाणत्वप्रसङ्गादिति यावत् ॥२॥
तद्धैतदित्यादिवाक्यं न विधानार्थं नापि फलवचनं तथा च व्यर्थमित्याशङ्क्याऽऽह –
तदेतदिति ।
स्तुतिमेव प्रश्नपूर्वकं विवृणोति –
कथमिति ।
जीवते पुरुषाय प्राणविद्याविदे तद्दर्शनं ब्रूयात्तदाऽस्मिन्महाफलं भवतीति किमु वक्तव्यमिति योजना ॥३॥
गोदोहनवदधिकृताधिकारमिदं कर्म प्राणविदोऽस्मिन्नधिकारोऽस्तीत्याह –
यथोक्तेति ।
अनन्तरं प्राणविद्यानिष्पत्तेरिति शेषः ।
वाक्यशेषं पूरयति –
तस्येति ।
महत्त्वद्वारा विषयोपभोगकामुकस्य कर्मविधायि शास्त्रं श्येनादिशास्त्रवदनर्थफलमेवेत्याशङ्क्याऽऽह –
महत्त्वे हीति ।
तस्येति प्रकृतमन्थाख्यकर्मोक्तिः । कालादीत्यादिशब्दो द्रव्यादिसंग्रहार्थः । दैक्षं दीक्षायां भवं मौञ्ज्यभ्यञ्जनादि न सर्वमेवायमनुतिष्ठति । प्रकृतिधर्मा हि विकृतावनुवर्तन्ते । प्रकृतिवद्विकृतिः कर्तव्येति न्यायात् । न चेदं कर्म कस्यचिद्विकृतिरतो यथोक्तधर्मवत्त्वमेवात्र विवक्षितमित्यर्थः ।
दीक्षित्वेत्यनेन विवक्षितं धर्मान्तरमाह –
उपसदिति ।
उपसदो नामेष्टयः प्रवर्ग्याहस्सु प्रसिद्धाः । तासु व्रतं पयोमात्रभक्षणं तदुपेतो भूत्वा मन्थं सम्पाद्य जुहोतीति वाजसनेयके समानप्रकरणे श्रवणादिति यावत् । पिष्टं कृत्वा तदाममपक्वमेव दधिमधुनोः सम्बन्धिपात्रे प्रक्षिप्येति सम्बन्धः । औदुम्बरत्वे नियमः । पात्रस्याऽऽकारे तु विकल्पः ।
कथमश्रुतं पात्रमत्र कल्प्यते तत्राऽऽह –
श्रुत्यन्तरादिति ।
औदुम्बरे केशाकारे कंसे चमसे वेति वाजसनेये श्रवणात्सर्वशाखाप्रत्ययन्यायेनापेक्षितं पात्रमत्र गृहीतमित्यर्थः । आवसथसम्बन्धी लौकिकोऽग्निरावसथ्यो विविक्षितो यस्मिनौपासनाख्यं कर्म क्रियते । आज्यस्य हुत्वेति सम्बन्धः । आवापस्थानमाहुतिप्रक्षेपप्रदेशो गृह्योक्तः ॥४॥
वसिष्ठाय स्वाहेत्यादिवाक्यं पूर्ववाक्येन तुल्यार्थमित्याह –
समानमिति ।
तुल्यत्वमेव स्पष्टयति –
वसिष्ठायेति ।
स्वाहेति मन्त्रं समुच्चार्य हुत्वेति सम्बन्धः । तथैव प्रथमहोमानन्तरमित्यर्थः ॥५॥
आहुत्यानन्तर्यमथशब्दार्थः । भवतु प्राणस्येदं नाम मन्थस्य तु कथं मन्त्रार्थत्वमित्याशङ्क्याऽऽह –
अन्नेन हीति ।
प्रतिज्ञातेऽर्थे प्रश्नपूर्वकं हेतुमाह –
कुत इति ।
अतश्चामो नामासीति पूर्वेण सम्बन्धः ।
हेतुं व्याचष्टे –
यस्मादिति ॥६॥
अनन्तरं जपकर्मणः सकाशादिति शेषः । तदेव स्पष्टयति –
मन्त्रस्येति ।
मन्त्रस्यैकैकेन पादेन मन्थस्यैकैकं ग्रासं भक्षयतीति योजना । भोजनं मन्थरूपमिति सम्बन्धः ।
तत्कथं सवितुः स्यात्प्राणस्य हि मन्थद्रव्यमन्नमित्युक्तं तत्राऽऽह –
प्राणमिति ।
उच्यते सवितुर्भोजनमिति शेषः ।
प्राणादित्ययोरेकत्वे फलितं वाक्यार्थमाह –
आदित्यस्येति ।
मन्थरूपं तद्भोजनमिति पूर्वेण सम्बन्धः ।
प्रार्थनाविषयं भोजनमेव विशिनष्टि –
येनेति ।
तस्यैव विशेषणान्तरं श्रेष्ठमित्यादि ।
स्थितिकारणत्वमुक्त्वा जनकत्वं पक्षान्तरमाह –
अतिशयेनेति ।
जगद्व्याप्तौ फलदाने ध्यातुः शैघ्र्यम् ।
किमिति भोजने कथ्यमाने ध्यानमुच्यते तत्राऽऽह –
विशिष्टेति ।
शुद्धधीत्वं ध्यानकारणमुक्त्वा प्रकृतकर्मवत्प्रेप्सितमहत्त्वे हेतुत्वादपि ध्यानमनुष्ठेयमित्याह –
अथवेति ।
सावित्रं रूपमुक्तम् । नियमेनौदुम्बरं वैकल्पिकाकारे विशेषः । पात्रं प्रक्षाल्य पिबतीति सम्बन्धः ।
मन्थलेपं पात्रं प्रक्षाल्य पीत्वाऽऽचमनपूर्वकमग्नेः पश्चिमभागे कृष्णाजिनव्यवहितायां केवलायां वा भूमौ प्राक्शिरा भूत्वा शयीतेत्याह –
पीत्वेति ।
शयानस्य कर्तव्यं दर्शयति –
वाचंयम इति ।
तस्य स्वप्ने कथञ्चिदुत्तमस्त्रीदर्शने शुभागमः सूच्यत इत्याह –
स एवंभूत इति ॥७-८॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वितीयः खण्डः ॥
प्राणविद्या तदङ्गकर्म चेत्युभयमुक्तमिदानीमग्निविद्यामाख्यातुकामस्तावदाख्यायिकातात्पर्यमाह –
ब्रह्मादीति ।
तासां च वक्तव्यत्वे हेतुमाह –
वैराग्यहेतोरिति ।
राजा कुमारेति सम्बोधयन्नभिमानं श्वेतकेतोरपनिनीषति ॥१॥
यथेत्यस्यार्थमाह –
येनेति ।
विद्वदविदुषोस्तुल्यमार्गयोः सतोर्द्वा मार्गौ तयोर्मध्ये देवयानस्येत्यादि योज्यम् ।
उक्तं वाक्यार्थं संक्षिपति –
इतरेतरेति ।
विदुषां च कर्मिणां च मार्गद्वयमधिकृत्य सह प्रस्थितानां यत्र मिथो वियोगो भवति तत्किं वेत्थेत्यर्थः ॥२॥
पितृलोकसम्बन्धिनं लोकमेव व्याकरोति –
यं प्राप्येति ।
आहुतिनिर्वृत्ता इत्यस्य व्याख्यानमाहुतिसाधनाश्चेति । अपूर्वरूपाणामपां भूतान्तरसमुच्चयार्थश्चकारः । अथवा पयोघृतादिरूपेणाऽऽहुतिं साधयन्तीति चाऽऽहुत्या पुनरपूर्वात्मना निष्पन्ना इत्यर्थः ।
क्रमेणेति ।
श्रद्धासोमवृष्ट्यन्नरेतसां हवनद्वारेणेति यावत् । षष्ठाहुतिभूतानामन्त्येष्टिविधानेन शरीराहुतिद्वारा सूक्ष्मतां गतानामित्यर्थः ॥३॥
त्वत्पृष्टार्थजातातिरिक्तविषयमनुशासनं ममास्तीत्यनुशिष्टोऽस्मीत्युक्तमित्याशङ्क्याऽऽह –
यो हीति ॥४॥
अननुशिष्य त्वामन्वशिषमिति कथमुक्तवानस्मीत्याशङ्क्याऽऽह –
यत इति ।
नैकञ्चनेत्युक्तमेव नञ्पदं नाशकमिति सम्बन्धं दर्शयितुं पुनरुपात्तम् । अतो मां प्रति तव मिथ्यावादिता सिद्धेति शेषः ।
पिता स्वकीयमिथ्यावादित्वशङ्कां परिहरति –
स होवाचेति ।
यथा मा त्वमित्यादिवाक्यं पूरयित्वा व्याख्यायानन्तरवाक्यमाकाङ्क्षापूर्वकमुत्थापयति –
कथमित्यादिना ।
तद्व्याचष्टे -
यथेति ।
अज्ञानाविशेषोऽतःशब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तावनुक्तिरिति यावत् ।
त्वदीयमज्ञानं कुतो हेतोर्मया ज्ञातव्यमित्याशङ्कामुद्भाव्यानन्तरवाक्येनोत्तरमाह –
कुत इत्यादिना ।
अतस्तव पात्रभूतस्यानुपदेशान्मदीयमज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामित्यर्थः । सभागपदं सप्तम्यन्तं राजविषयं प्रथमान्तं गौतमविषयमिति भेदः ।
गौतममागतं योगक्षेमार्थिनं बुद्ध्वा राजा प्रसन्नः सन्नुक्तवानित्याह –
तं होवाचेति ।
तर्हि कृतकृत्यस्य तव किमित्यागमनमित्याशङ्क्याऽऽह –
यामेवेति ।
कृच्छ्रीभावमभिनयति –
कथमिति ॥५ -६॥
गौतमस्य वचनं[यदि]राज्ञो दुःखीभावकारणं तर्हि प्रत्याख्यायतामित्याशङ्क्याऽऽह –
स हेति ।
किमिति तर्हि चिरं वसेत्युक्तवानित्यत आह –
न्यायेनेति ।
संवत्सरं वसेति यावत् । वक्तव्या विद्येति शेषः ।
कथं राज्ञो ब्राह्मणं प्रत्याज्ञां कुर्वतो न प्रत्यवायः स्यादित्याशङ्क्याऽऽह –
यत्पूर्वमिति ।
प्रत्याख्यानादिविषयं हेतुवचनम् । न केवलं विद्यावशादेव श्रैष्ठ्यं किन्तु जातितोऽपीत्यपेरर्थः ।
तर्हि ब्रूहि तां वाचमित्याशङ्क्याऽऽह –
तत्रेति ।
विद्याप्रवचने प्रस्तुते सतीति यावत् ।
यथेत्यस्यापेक्षितं पूरयति –
तथेति ।
प्रसिद्धमेव स्फोरयति –
तस्मादिति ।
ब्राह्मणानामनया विद्यया प्रशास्तृत्वस्य प्रागभावादिति यावत् ।
इतिशब्दोपात्तमर्थं कथयति –
क्षत्त्रियेति ।
उक्तप्रत्याख्यानादिकारणमतःशब्दार्थः ॥७॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य तृतीयः खण्डः ॥
ननु यथाप्रश्नमेव प्रतिवचनमुचितं पञ्चमं तु प्रश्नं प्राथम्येन प्रतिवदता क्रमो निराकृतस्तत्र किं कारणमत आह –
पञ्चम्यामिति ।
अर्थक्रममनुसृत्य पाठक्रमोऽभिधातव्य इत्यर्थः ।
ननु वाजसनेयकेऽग्निहोत्रप्रकरणेऽग्निहोत्राहुत्यपूर्वपरिणामं जगदित्युक्तं तदेवेहापि विवक्ष्यत इति चेत्किमनेन पिष्टपेषणन्यायेनेत्याशङ्क्यार्थभेदं वक्तुमग्निहोत्रप्रकरणस्थितमर्थमनुवदति –
अग्निहोत्राहुत्योरिति ।
उक्तप्रकारमेव प्रदर्शयन्प्रथमं याज्ञवल्क्यस्य जनकं प्रति पट्प्रश्नानुत्थापयति –
तं प्रतीति ।
कार्यारम्भस्तच्छब्दार्थः । अग्निहोत्राहुत्यन्नापूर्वपरिणामो जगदिष्यते । तत्राग्निहोत्रे सायं प्रातश्च हुतयोराहुत्योरस्माल्लोकादुत्क्रान्तिः । उत्क्रान्तयोः परलोकं प्रति गतिः । गतयोस्तत्र प्रतिष्ठा । प्रतिष्ठितयोः स्वाश्रये सम्पाद्यमाना तृप्तिः । तृप्तिमापाद्यावस्थितयोः पुनरिमं लोकं प्रत्यावृत्तिः । आवृत्तयोराश्रयः पुमान्कथममुं लोकं प्रत्युत्थानशीलो भवतीति कार्यारम्भमधिकृत्य पट्प्रश्नाः प्रवृत्ता इत्यर्थः ।
तत्रैव वाजसनेयके याज्ञवल्क्यं प्रति जनकस्य प्रतिवचनं दर्शयति –
तेषां चेति ।
अपूर्वरूपे खल्वाहुती यजमानमुत्क्रामन्तं परिवेष्ट्योत्क्रामतः । ते च धूमादिना यजमानेऽन्तरिक्षमाविशति तदाश्रितत्वात्तदाविशतः । ते पुनरन्तरिक्षस्थयजमानानुकूलतया स्थिते स्वयमन्तरिक्षाधिकरणे तदाहवनीयमिव कुर्वाते । आहुत्यधिकरणस्याऽऽहवनीयत्वात् तत्र वायुं समिधमिव कुरुतः । वायुनाऽऽन्तरिक्षस्य समिध्यमानत्वात् । शुक्लां शुद्धामाहुतिमिव मरीचीरेवाऽऽदधाते । मरीचीनामन्तरिक्षे व्याप्तत्वात् । ते चान्तरिक्षस्थे तन्निष्ठं यजमानं फलोन्मुखमादधाते । ते पुनरन्तरिक्षादुत्क्रामति यजमाने सहोत्क्रामतः । यजमाने च द्युलोकमाविशति सहाऽऽविशतः । तमाविश्य तमेवाऽऽहवनीयं कुर्वाते आदित्यं समिधमित्याद्यन्तरिक्षवदेवोक्तम् । यथा वाऽऽहुती पूर्वमन्तरिक्षं तर्पयत इत्युक्तं तथैव द्युलोकस्थयजमानं फलदानेन सुखिनमातन्वाते । ते चाऽऽरब्धक्षये ततो द्युलोकाद्यजमाने पृथिवीगाविशत्यब्भूते सहाऽऽवर्तेते । पृथिवीं चाऽऽविश्य व्रीह्यादिना स्वाश्रयं श्लेपयित्वा रेतःसिघ्मं पुरुषमाश्रयद्वारेणाऽऽविशतः । पुरुषाच्च रेतोद्वारा द्वितीयां प्रकृतिमाविश्य गर्भीभूतं कर्मानुष्ठानयोग्यं देहभागिनमापादयतः । ततोऽसौ पारलौकिकं कर्मानुष्ठायान्ते लोकं प्रत्युत्थानशीलो भवति । इति सर्वं जनकेनोक्तमित्यर्थः ।
तथाऽपि कथमर्थभेदसिद्धिरित्याशङ्क्योक्तमेव संक्षिप्याऽऽह –
तत्रेति ।
वाजसनेयकं सप्तम्यर्थः ।
प्रकृतश्रुतेरर्थविशेषं दर्शयति –
इह त्विति ।
पञ्चधा द्युपर्जन्यपृथिवीपुरुषयोषित्प्रकारैरिति यावत् ।
पञ्चाग्निसम्बन्धमवतार्य प्रथमपर्यायस्य तात्पर्यमाह –
इहेति ।
अयं लोको भूलोकस्तस्मिन्नित्यर्थः ।
आहुत्योरप्समवायित्वसिद्ध्यर्थं विशिनष्टि –
पय आदीति ।
तयोः श्रद्धात्वसिद्ध्यर्थं श्रद्धापुरःसरे इत्युक्तम् । तयोरधिकरणोऽग्निरित्यादिकल्पनोपयोगित्वेन विशेषणान्तरमादत्ते –
आहवनीयेति ।
तयोः स्वातन्त्र्यं परिहरति –
कर्त्रादीति ।
अधिकरणशब्दो भावप्रधानो धर्मिपरः । काल्पनिको द्युलोकाख्योऽग्निस्तत्सम्बन्धमिति तच्छब्दोऽग्निविषयः ।
अन्यच्चेत्युक्तं स्पष्टयति –
समिदादीति ।
आदिशब्दो धूमार्चिरङ्गारादिविषयः ।
पर्यायतात्पर्यमुक्त्वाऽऽक्षराणि व्याकरोति –
असावित्यादिना ।
इहेत्येतल्लोकनिर्देशः पूर्वेण सम्बध्यते । तदुत्थानादित्यत्र तच्छब्देनाऽऽदित्यो गृहीतः ॥१॥
अध्यात्माधिदैवविभागेन देवान्विशदयति –
यजमानेति ।
प्रत्ययविशेषत्वेन श्रद्धाया होम्यत्वानुपपत्तिरित्याशङ्क्य श्रद्धां व्याकरोति –
अग्निहोत्रेति ।
किञ्च प्रश्नप्रतिवचनयोरेकार्थत्वात्प्रश्ने चापां होम्यतया श्रुतत्वात्प्रतिवचनेऽपि ताः श्रद्धाशब्दिता होम्यतया विवक्षिता इत्याह –
पञ्चम्यामिति ।
अप्सु श्रद्धाशब्दस्य वृद्धव्यवहारप्रयोगाभावान्नैवमित्याशङ्क्याऽऽह –
श्रद्धेति ।
कथमापः श्रद्धाशब्देन प्रसिद्धवदुच्यन्ते तत्राऽऽह –
श्रद्धामिति ।
श्रद्धापूर्वकहोममुद्दिश्य पयःसोमाज्यादिसाधनं संपाद्य जुहोतीति तैत्तिरीयकाः पठन्ति । तथा चाप्सु श्रद्धाशब्दः सम्भवतीत्यर्थः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
उक्तं मधुविद्यायामिति शेषः । चान्द्रं कार्यं चन्द्रसमीपस्थं तत्सदृशं शरीरमित्यर्थः ।
तथाऽपि यजमानानां कथं फलवत्वमत आह –
यजमानाश्चेति ।
आहुती तच्छब्दवाच्ये प्राधान्यं मयडर्थः ।
तदेव स्पष्टयति –
आहुतिभावनाभाविता इति ।
तत्संस्तुतास्तदनुसारिणस्तदाश्रया इत्यर्थः ।
तद्भावितत्वफलमाह –
आहुतिरूपेणेति ।
तेनाऽऽकृष्टत्वं वशीकृतत्वम् ।
आहुतिभाविता इत्युक्तं स्पष्टयति –
श्रद्धेति ।
तत्पूर्वकं पयःसोमादिसाध्यं यत्कर्म तदाश्रया इत्यर्थः । सोमभूतास्तत्समीपस्थं शरीरं प्राप्य तत्स्वरूपा इत्यर्थः ।
कथं सोमसारूप्यं कर्मिणां फलमित्याशङ्क्याऽऽह –
तदर्थमिति ।
यजमानानां सोमभावो गतिमन्तरेण न सिध्यति । तथा च वक्तव्या गतिरित्याशङ्क्याऽऽह –
अत्रेति ।
आहवनीयोऽग्निः सप्तम्यर्थः ।
सा तर्हि कुत्रोच्यते न हि तदुक्तिमन्तरेण यथोक्तं फलं सिध्यत्यत आह –
तां त्विति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्थः खण्डः ॥
द्वितीयहोमसम्बन्धी द्वितीयः पर्यायस्तस्यार्थं निर्ज्ञातुं तमेव पर्यायमादत्ते श्रुतिरित्यर्थः । पुरोवातादीत्यादिशब्देन वर्षहेतुर्वायुभेदो गृह्यते । उक्तं चाभ्राणां धूमकार्यत्वं पौराणिकैः –
“यज्ञधूमोद्भवं त्वभ्रं द्विजानां च हितं सदा । दावाग्निधूमसम्भूतमभ्रं वनहितं स्मृतम् ॥
मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति । अभिचाराग्निधूमोत्थं भूतनाशाय वै द्विजाः ॥” इति ॥१॥
अध्यात्मं यजमानस्य प्राणा, इन्द्रादयस्त्वधिदैवतं देवा इत्याह –
पूर्ववदिति ।
सोमं राजानमित्यादि व्याचष्टे –
श्रद्धाख्या इति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य पञ्चमषष्ठसप्तमखण्डाः ॥
तस्या आहुतेर्गर्भः सम्भवतीत्युक्तं व्यक्तीकरोति –
एवमिति ।
यथोक्तया रीत्या श्रद्धादीनां रेतोन्तानां यानि द्युलोकादिषु योषिदन्तेष्वग्निषु हवनानि तेषामेकैकस्मिन्पर्याये यः क्रमो व्याख्यातस्तेनेति यावत् ।
कथं पुनरापो गर्भीभवन्ति भूतान्तराणामपि तुल्यो गर्भीभावस्तस्य पाञ्चभौतिकत्वादत आह –
तत्रेति ।
भूतानां मध्ये ।
किमित्यपां प्राधान्यविवक्षयैष निर्देशस्तासामेव केवलानां कार्यारम्भकत्वविवक्षा किं न स्यात्तत्राऽऽह –
न त्विति ।
भूतान्तरासहकृतानां केवलानामपामारम्भकत्वे यदारब्धं कार्य न तद्भोगायतनं तस्य जलबुद्बुदवदत्यन्तचञ्चलत्वादित्यर्थः ।
केवलानामप्त्वमुपेत्योक्तमिदानीं तदेव नास्तीत्याह –
न चेति ।
इतिशब्दस्तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति श्रुतेरिति हेत्वर्थः ।
सर्वस्य त्रिवृत्कृतत्वे कथं दृष्टो विशेषव्यपदेशो युज्येतेत्याशङ्क्याऽऽह –
त्रिवृत्कृतत्वेऽपीति ।
अपां प्राधान्यविवक्षया प्रश्नप्रतिवचनयोरप्शब्द इत्युक्तमुपसंहरति –
तस्मादिति ।
केवलानामपामसत्त्वादिति यावत् ।
कथमारम्भकेषु भूतेष्वपां बाहुल्यमवगतमित्याशङ्क्य कार्यद्वारा तदधिगतिरित्याह –
दृश्यते चेति ।
सोमादीनामब्बाहुल्येऽपि कथं पार्थिवशरीरस्य तद्बाहुल्यमित्याशङ्क्याऽऽह –
बहुद्रवं चेति ।
पञ्चमप्रश्ननिर्णयमुपसंहर्तुं पातनिकां करोति –
तत्रेति ।
योषाग्नाविति यावत् । गर्भीभूताः पुरुषवचसो भवन्तीति सम्बन्धः ॥१ -२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्याष्टमः खण्डः ॥
उक्तार्थे वाक्यं योजयति –
इति त्विति ।
अपां गर्भीभावोक्तिमात्रेण पुरुषवचस्त्वस्य निर्णीतत्वादलमुत्तरग्रन्थेनेत्याशङ्क्य तस्य तात्पर्यमाह –
यत्त्विति ।
आहुत्योः सम्बन्धीति शेषः । प्रासङ्गिकं गर्भीभावोक्तिप्रसङ्गादागतमिति यावत् । इहेति प्रकृतश्रुत्युक्तिः ।
प्रासङ्गिकीं सङ्गतिं त्यक्त्वा साक्षादेव पूर्वोत्तरग्रन्थयोरस्ति सङ्गतिरिति तात्पर्यान्तरमाह –
इह चेति ।
प्रजानामूर्ध्वगमनमुत्तरत्र निरूपयिष्यते । तादर्थ्येन तासामुत्पत्तिरादावुच्यत इत्यर्थः ।
द्विधा सङ्गतिमुक्त्वा वाक्याक्षराणि योजयति –
स गर्भ इति ।
सोमवृष्ठ्यन्नरेतांस्यपेक्ष्य पञ्चमत्वं गर्भाख्यस्य परिणामस्य द्रष्टव्यम् । अपां प्रकृतत्वद्योतनार्थमाहुतीत्यादिविशेषणद्वयम् । अथवा पूर्वोक्तात्कालान्न्यू[ने]नाधिकेन वा कालेन यावता जन्तुः समग्राङ्गो जायते तावता कालेन कुक्षौ शयित्वेति सम्बन्धः । अनन्तरं योनितो निर्गमनकारणीभूतकर्माभिव्यक्तेरिति शेषः ।
उल्बावृतत्वं कुक्षौ चिरं शयनं योनितो निःसरणमित्येतदशेषमतिप्रसिद्धं किमिति श्रुत्या व्यपदिश्यते तत्राऽऽह –
उल्बावृत इत्यादीति ।
वैराग्यार्थत्वमस्य स्पुटयति –
कष्ट हीति ।
श्लेष्मादीत्यादिशब्देनासृक्पूयस्नायुमज्जादीनि गृह्यन्ते । तदनुलिप्तस्येति तच्छब्दो मूत्रपुरीषादिविषयः । शक्तिर्बुद्धिसामर्थ्यम् । बलं देहसामर्थ्यम् । वीर्यमिन्द्रियसामर्थ्यम् । तेजः शरीरगता कान्तिः । प्रज्ञा चेतना जीवधर्मः । चेष्टा प्राणधर्मः । ता निरुद्धा यस्य तस्येति विग्रहः ।
मातुरुदरे शयानस्य कष्टत्वेऽपि तदुदराद्योनिद्वारा निःसरणं सुखकरमिति चेन्नेत्याह –
तत इति ।
तद्ग्राहकत्वप्रकारमेवाभिनयति –
मुहूर्तमपीति ।
यन्मातुरन्तःशयनं मुहूर्तमपि दुःसहं तत्कथं दीर्घकालं शयितुं शक्यम् । कथं च दश वा नव वा मासानन्तः शयित्वा पुनर्योनिद्वारा दुष्करं निःसरणं दुःसह्यं स्यादिति वैराग्यं ग्राहयति –
श्रुतिरित्यर्थः ॥१॥
जातस्य पुनरनर्थो नास्तीत्याशङ्क्याऽऽह –
स एवमिति ।
यावदायुषमित्येतद्व्याचष्टे –
पुनरिति ।
घटीयन्त्रवदूर्ध्वगमनार्थं वा निषिद्धं कर्म पौनःपुन्येनाऽऽचरन्यावत्कर्मणाऽर्जितमायुस्तावदस्मिन्देहे जीवति ततो म्रियते । तथा च जातस्य मृत्युध्रौव्यान्नास्ति सम्यग्ज्ञानं विना स्वस्तिप्राप्तिरित्यर्थः ।
अस्तु तर्हि मृतस्य कृतकृत्यतेत्याशङ्क्याऽऽह –
तमेतमिति ।
सर्वस्य तर्हि मृतस्य परलोकित्वं स्यादिति चेन्नेत्याह –
यदीति ।
तदा परलोकं प्रति कर्मणा निर्दिष्टमिति पूर्वेण सम्बन्धः युक्तं च तन्मृतस्याग्न्यर्थं नयनमित्याह –
यत इति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य नवमः खण्डः ॥
स उल्बावृत इत्यादिनोक्तमनुवदति –
वेत्थेति ।
प्रत्युपस्थितः प्रजोत्पत्तिप्रदर्शनेन प्रसङ्गत इति यावत् ।
तद्य इत्थं विदुरित्येतद्व्याचष्टे –
तत्तत्रेत्यादिना ।
सप्तम्यर्थमेव स्फोरयति –
लोकमिति ।
निर्धारणार्था षष्ठी ।
वेदनप्रकारमनुवदति –
द्युलोकादीति ।
तेऽर्चिषमभिसम्भवन्तीत्युत्तरत्र सम्बन्धः ।
साधारणोक्तेर्विशेषे सङ्कोचो हेतुं विना न सिद्ध्यतीति शङ्कते –
कथमिति ।
पारिशेष्यं सङ्कोचमिति परिहरति –
गृहस्थानामिति ।
षष्ठी निर्धारणे । अतश्च केवलकर्मिणो गृहस्था न विदुरिति ग्रहणमर्हन्तीति शेषः ।
परिव्राजका वानप्रस्थाश्च गृह्यन्तामिति चेन्नेत्याह –
ये चेति ।
केषां तर्हीति ग्रहणमत आह –
पारिशेष्यादिति ।
गृहस्थ एव हेत्वन्तरमाह –
अग्निहोत्रेति ।
तदाहुत्यपूर्वपरिणामात्मकं जगदत्र पञ्चधा प्रविभज्याग्नित्वेन दर्शनमुत्तरमार्गप्राप्तिसाधनं चोद्यते । अतो विद्यायास्तत्सम्बन्धाद्गृहस्थानामपि तत्सम्बन्धस्य प्राप्तत्वात्तेषामेवेह ग्रहणमुचितमित्यर्थः ।
पारिशेष्यमाक्षिपति –
नन्विति ।
ग्रामः सपत्नीको वासः । न च ब्रह्मचारिणां पत्नीसम्बन्धः । तन्न ग्रामहुत्या ब्रह्मचारिणो गृहीताः । गुरुकुलवासित्वाच्च नारण्यश्रुत्योपलक्षिताः । ततस्तेषामिह ग्रहणसम्भवान्न पारिशेष्यमित्यर्थः ।
किं नैष्ठिकब्रह्मचारिणोऽत्रेत्थं विदुरिति गृह्येरन्किं वोपकुर्वाणा इति विकल्पाऽऽद्यं दूषयति –
नैष दोष इति ।
“अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् । स्मृतं स्थानं तु यत्तेषां तदेव गुरुवासिनाम् ॥” इत्यादिपुराणस्मृतेः श्रुतिमूलत्वेन प्रामाण्यान्नैष्ठिकब्रह्मचारिणामूर्ध्वरेतसामादित्यसम्बन्धेनोत्तरायणेनोपलक्षितो देवयानाख्यो मार्गो यावता प्रसिद्धस्तस्मात्तेषामरण्यवासिभिः सहाखण्डितब्रह्मचर्येणैवार्चिरादिगतिलाभान्न पञ्चाग्निवित्त्वेन प्रयोजनमिति पारिशेष्यसिद्धिरित्यर्थः ।
द्वितीयं प्रत्याह –
उपकुर्वाणकास्त्विति ।
ते हि स्वाध्यायग्रहणार्थास्तस्मिन्गृहीते स्वेच्छावशादाश्रमान्तरं गृह्णन्तस्तत्फलेनैव फलवन्तो भवन्तीति न गृहस्थादिभ्यो विभज्येत्थं विदुरिति निर्देशमर्हन्तीत्यर्थः । किं नैष्ठिकानां ब्रह्मचारिणामुत्तरमार्गप्राप्तिसम्भवादनर्थकमित्थंवित्त्वं प्राप्तमिति श्रुतिविरोधाद्द्वितीये तु पारिशेष्यासिद्धितादवस्थ्यमिति शङ्कार्थः ।
किमित्थंवित्त्वं नैष्ठिकान्प्रत्यनर्थकमित्युच्यते किं वा सर्वानेव प्रतीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति –
न गृहस्थानिति ।
तान्प्रत्यर्थवत्त्वमेवेत्थंवित्त्वस्य विभज्य समर्थयते –
ये गृहस्था इति ।
स्वभावतस्तदनुष्ठितेष्टापूर्तबलादित्यर्थः । तेषामेव गृहस्थानां मध्ये ये केचिदुक्तेन प्रकारेणेत्थं पञ्चाग्निदर्शनं विदुरग्निभ्योऽन्यद्वा सगुणं ब्रह्म विदुस्ते देवयानेनोत्तरेण पथा गच्छन्तीति सम्बन्धः ।
न केवलं गृहस्थानां पञ्चाग्निवित्त्वमेव किन्तु सगुणब्रह्मवित्त्वमपि तेषामस्तीति प्रमाणमाह –
अथेति ।
अन्त्येष्टिकरणाकरणयोरविशेषेण ब्रह्मविदामर्चिरादिगतिश्रवणादस्ति गृहस्थानामपि ब्रह्मवित्त्वमिति गम्यते । परिव्राजकादिष्वन्त्येष्ट्यसम्भवेन विद्यास्तुतेरपि दुर्वचनत्वादित्यर्थः ।
विहितत्वाविशेषादाश्रमाणां तुल्यत्वमाश्रित्य शङ्कते –
नन्विति ।
साम्यमुक्त्वा गृहस्थेषु विशेषं दर्शयति –
अग्निहोत्रादीति ।
वैदिकानि कर्माणि भूयांसि सन्ति । तेषां च बाहुल्ये सत्यविदुषामूर्ध्वरेतसामेव देवयानेन पथा गमनं न गृहस्थानामित्ययुक्तं साधनभूयस्त्वे फलभूयस्त्वन्यायविरोधादित्यर्थः ।
आश्रमित्वाविशेषेऽपि धर्मविशेषाद्विशुद्धितारतम्यसम्भवान्नैकरूप्यमिति परिहरति –
नैष दोष इति ।
कथं गृहस्थानामग्निहोत्रादिभूयोधर्मवतां विद्याहीनानामप्यपूतत्वं तत्राऽऽह –
शतृमित्रेति ।
अब्रह्मचर्यादीत्यादिपदेन परिग्रहित्वादि गृह्यते | अशुद्धिबाहुल्यकारणमतःशब्दार्थः ।
तुल्यमूर्ध्वरेतसामप्यशुद्धिहेतुबाहुल्यादपूतत्वमित्याशङ्क्याऽऽह –
हिंसेति ।
ऊर्ध्वरेतसां पूतत्वे सिद्धे फलितमाह –
तेषामिति ।
ऊर्ध्वरेतसां देवयाने पथ्यनुप्रवेशे प्रमाणमाह –
तथाचेति ।
पौराणिका आहुरिति सम्बन्धः ।
आश्रमधर्ममात्रमार्गद्वारेणामृतत्वमूर्ध्वरेतसामुक्तमाक्षिपति –
इत्थंविदामिति ।
तेषां विद्यानर्थक्यमिष्टमेवेत्याशङ्क्याऽह –
तथा चेति ।
स परमात्मा स्वयमज्ञातः सन्नेनमधिकारिणमपवर्गप्रदानेन न पालयतीति च वाक्यं विद्यामन्तरेणामृतत्वं ब्रुवतो विरुद्धमित्यर्थः ।
ऊर्ध्वरेतसाममृतत्वस्याऽऽपेक्षिकत्वात्तत्र विद्यानर्थक्यमेवेति परिहरति –
नाऽऽभूतेति ।
आपेक्षिकममृतत्वमित्यत्र प्रमाणमाह –
तत्रैवेति ।
यत्र प्रजाः कामयमाना मुक्तिभाजो न भवन्तीत्युक्तं तत्रैव तत्सन्निधाविति यावत् ।
कथं तर्हि यथोक्तश्रुतिविरोधसमाधिरित्याशङ्क्याऽऽह –
यच्चेति ।
आदिशब्दस्तमेवं विद्वानमृत इह भवतीत्यादिश्रुतिसंग्रहार्थः ।
आपेक्षिकामृतत्वे श्रुतिविरोधो न शक्यते परिहर्तुमिति शङ्कते –
न चेति ।
आदिशब्दस्तेषामिह न पुनरावृत्तिरित्यादिवाक्यसंग्रहार्थः ।
इममिहेति विशेषणावष्टम्भेन निराचष्टे –
नेत्यादिना ।
तदेव व्यतिरेकमुखेन विशदयति –
यदीति ।
सर्वकल्पेषु श्रुतेरेतादृशत्वादिममिहेतिपदद्वयसामान्येन सर्वकल्पविषये विशेषणानर्थक्यं दुर्वारमित्युत्तरमाह –
नानावृत्तीति ।
विधान्तरेण विशेषणार्थसम्भवे फलितमाह –
अत इति ।
यस्मिन्कल्पे ब्रह्मलोकप्राप्तिस्तस्मात्कल्पान्तरमन्यत्रेत्युक्तम् ।
ऊर्ध्वरेतसामाश्रमधर्ममात्रनिष्ठानाममृतत्वमापेक्षिकमुपक्षिप्तम् । संप्रति तेषामेव साक्षात्कृतब्रह्मतत्त्वानामात्यन्तिकममृतत्वं गतिनिरपेक्षं सिद्ध्यतीत्याह –
न चेति ।
तेषां गत्यादिनिरपेक्षमात्यन्तिकममृतत्वं भवतीत्यत्र प्रमाणमाह –
ब्रह्मैवेति ।
न तस्मात्प्राणा उत्क्रामन्तीति माध्यन्दिनश्रुतिमनुसृत्य न तस्येत्यादिकाण्वश्रुतिरपि नेतव्येति शङ्कते –
ननु तस्मादिति ।
वाक्यशेषविरोधान्नैवमिति दूषयति –
नात्रेति ।
श्रुत्यन्तरालोचनायामपि न स्वयूथ्यकल्पनेत्याह –
सर्वे प्राणा इति ।
प्राणैः सह जीवस्येति शेषः ।
संसारदशायां प्राणैः सह विज्ञानात्मनो गमनेऽपि मोक्षे नास्ति प्राणानां जीवेन सह गमनमित्याशङ्कायां न तस्मादित्यादिवाक्यमित्याशङ्क्याऽऽह –
यदाऽपीति ।
भवतु प्राणानामत्रैव समवलयस्तथाऽपि जीवस्य गमनायत्तममृतत्वमित्याशङ्क्याऽऽह –
न चेति ।
“कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत”(प्र.उ. ६ । ३) इति श्रुतेरिति शेषः ।
किञ्च प्राणैर्वियुक्तस्य चिदात्मनो जीवत्वं नोपपद्यते प्राणोपाधिकस्यैव तस्य जीवशब्दवाच्यत्वादित्याह –
जीवत्वं चेति ।
उक्तमर्थं समर्थयते –
सर्वगतत्वादिति ।
चिदात्मा हि कल्पनायामधिष्ठाने सति यतो निर्भागं सर्वस्याऽऽत्मा तस्मादग्नेर्विस्फुलिङ्गवज्जीवत्वाख्यभेदसम्पादनं तस्य प्राणसम्बन्धमात्रमेवेति वैदिकानां प्रसिद्धम् । तथा च प्राणवियोगे चिदात्मनो जीवत्वं गतिर्वा न शक्यते कल्पयितुम् । तस्मात्पूर्णत्वादिप्रतिपादकश्रुतीनां प्रमाणत्वादित्यर्थः ।
सदात्मनः सर्वगतस्य जीवाख्यभेदकरणं न प्राणोपाधिकृतं किं तु स्वत एव तस्यांशो जीवस्तथा चाग्निविस्फुलिङ्गवत्तस्य गत्युपपत्तिरित्याशङ्क्याऽऽह –
न चेति ।
“निष्कलं निष्क्रियं शान्तम्”(श्वे.उ. ६ । १९) इत्यादिश्रुतेरिति शेषः ।
प्रकरणार्थमुपसंहरति –
तस्मादिति ।
निर्गुणब्रह्मविदामात्यन्तिकामृतत्वस्य गमनादिनिरपेक्षत्वादिति यावत् ।
सगुणब्रह्मोपासकस्य सापेक्षममृतत्वमित्यत्र विशेषणश्रुतिमनुकूलयति –
तदपराजितेति ।
आदिपदेन तदश्वत्थः सोमसवन इत्यादि गृह्यते । तेषामेव ब्रह्मविदामेष पूर्वोक्तविशेषगुणो ब्रह्मणः सत्याख्यस्य लोको नान्येषामकृतात्मनामिति विशेषदर्शनादमृतत्वं तेषां तल्लोकनिवासिभिः समं सापेक्षमेवेति निर्धारितमित्यर्थः ।
ऊर्ध्वरेतसामाश्रममात्रनिष्ठानामपि ब्रह्मलोको लभ्यते गृहस्थानां पुनर्विदुषामेवेत्युपपाद्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति –
अत इति ।
पूर्वोक्तपारिशेष्यादिवशादिति यावत् । परिव्राजकाश्चेत्यमुख्यसंन्यासिनस्त्रिदण्डिनो गृह्यन्ते मुख्यसंन्यासिनां ब्रह्मसंस्थोऽमृतत्वमेतीति पृथक्कृतत्वात् । श्रद्धां सत्यमित्युपासत इति श्रुत्यन्तरम् । पञ्चाग्निविदो गृहस्थाः स्वाश्रममात्रप्रवणा ऊर्ध्वरेतसः सत्यब्रह्मोपासकाश्चोभये सर्वशब्देनोच्यन्ते ।
चतुर्थे यदुपकोसलविद्यायां गतिव्याख्यानमतिवृत्तं तेन समानमर्चिषोऽहरित्यादिवाक्यव्याख्यानं तथा च तन्न पृथक्कर्तव्यमित्याह –
समानमिति ।
उत्तरमार्गव्याख्यानमुपसंहरति –
एष इति ।
देवयानेन पथा बहिरण्डाद्वयवस्थितं ब्रह्म गन्तव्यमित्येके तान्प्रत्याह –
नाण्डादिति ।
तत्र हेतुमाह –
यदन्तरेति ।
पितरं द्युलोकं मातरं च पृथिवीं मध्ये ये द्वे सृती अशृणवं ताभ्यामिदं विश्वं कर्मज्ञानाधिकृतं गच्छति न चाण्डाद्बहिरस्ति गतिद्वयमित्यर्थः ॥१-२॥
वेत्थ यदितोऽधि प्रजाः प्रयन्तीत्यस्य प्रश्नस्य प्रतिवचनं देवयानोपदेशेन व्याख्यातं संप्रति पितृयाणोपदेशेनापि ग्रामनिवासित्वाविशेषादित्याशङ्क्याऽऽह –
ग्राम इतीति ।
सपत्नीको हि वासो ग्राम इत्युच्यते । न च सपत्नीकत्वमूर्ध्वरेतसां युक्तं तथा च गृहस्थानामेव ग्रामविशेषणमसाधारणं; न च तदनर्थकमूर्ध्वरेतोभ्यस्तेषां व्यावृत्त्यर्थत्वादित्यर्थः ।
तदेव दृष्टान्तेन स्फुटयति –
यथेति ।
वेद्यन्तर्भावव्यासेधाद्बहिर्वेदीति विशेषणमादौ दत्तमिति प्रतीकोपादानं पुनर्व्याख्यातस्यानुवाद इत्यपुनरुक्तिः ।
इतिशब्दार्थमाह –
इत्येवंविधमिति ।
परिचरणं गुर्वादिशुश्रूषा । परित्राणं रक्षणम् । आदिपदं नित्यस्वाध्यायादिसंग्रहार्थम् । उपासते तात्पर्येणानुतिष्ठन्तीति यावत् ।
कथमितिशब्दस्य यथोक्तार्थत्वमिति ह स्मोपाध्यायः कथयतीतिवत्प्रकृतमात्रगामित्वादित्याशङ्क्याऽऽह –
इतिशब्दस्येति ।
देवयानाधिकृतेभ्यः सकाशात्पितृयाणाधिकृतेषु विशेषान्तरमाह –
नैत इति ।
अप्राप्तप्रतिषेधोऽयमिति शङ्कते –
कुत इति ।
प्राप्तिं दर्शयन्नुत्तरमाह –
अस्ति हीति ।
पूर्ववत्, यथा पूर्वं देवयानेन पथाऽवयवेभ्योऽवयविनः संवत्सरस्य प्राप्तिस्तथेति यावत् ॥३॥
अन्नशब्दस्य यथाश्रुतमर्थं गृहीत्वा चोदयति –
नन्विति ।
औपचारिकमर्थं गृहीत्वा परिहरति –
नैष दोष इति ।
वृद्धप्रयोगमन्तरेण कथमुपकरणविषयोऽन्नशब्दो व्याख्यायते तत्राऽऽह –
दृष्टश्चेति ।
भवतु कर्मिणां देवान्प्रत्युपकरणत्वं तथाऽपि स्वयमुपभोगाभावादनर्थकमिष्टादिकरणमित्याशङ्क्याऽऽह –
न चेति ।
अन्योपभोग्यानामपि स्वयं भोगसत्त्वं तस्मादित्युच्यते । तथाऽपि तेषां मृतानामशरीरिणां कथं मुख्योपभोगः सम्भवतीत्याशङ्क्याऽऽह –
शरीरं चेति ।
कथमपां चन्द्रलोके तद्देहारम्भकत्वं तदाह –
यदुक्तमिति ।
अथापां सोमत्वमेवात्र प्रतीयते नतु कर्मिदेहारम्भकत्वमित्याशङ्क्याऽऽह –
ता आप इति ।
कर्मसमवायिनीनामपां कर्मापूर्वद्वारा यजमानदेहप्रतिष्ठानां कथं द्युलोकप्रवेशादि सम्भवतीत्याशङ्क्याऽऽह –
अन्त्यायां चेति ।
अद्भिरारब्धस्य शरीरस्य भोगायतनत्वं दर्शयति –
तदारब्धेनेति ॥४॥
तद्देवानामन्नमित्यादि व्याख्याय तस्मिन्नित्यादि व्याचष्टे –
यावदिति ।
चन्द्रलोकस्तच्छब्दार्थः ।
यावत्संपातमुषित्वेति श्रूयते कथमन्यथा व्याख्यायते तत्राऽऽह –
सम्पतन्तीति ।
पुनःशब्दप्रयोगस्य तात्पर्यमाह –
पुनरिति ।
अथेत्यादिवाक्यार्थमुपसंहरति –
तस्मादिति ।
तच्छब्दपरामृष्टं हेतुं स्पष्टयति –
स्थितीति ।
यथा दीपस्य स्नेहक्षये स्थितिनिमित्ताभावादस्थितिस्तथा चन्द्रलोके स्थितिनिमित्तस्येष्टादेर्भोगेन क्षयात्तत्र स्थित्यसम्भवादावृत्तिरेवेत्यर्थः ।
तस्मिन्यावत्सम्पातमुषित्वेत्यत्र विचारयति –
तत्रेति ।
तस्य चन्द्रमण्डलप्रापकस्यातिरिक्तस्य च सर्वस्य कर्मणः क्षये सतीति यावत् । सावशेषो भुक्तात्कर्मणः सकाशादतिरिक्तेन केनचित्कर्मणा सहितः सन्नित्यर्थः ।
पक्षद्वयेऽपि फलं पृच्छति –
किं तत इति ।
तत्राऽऽद्यं पक्षं पूर्वपक्षमुखेन प्रतिचिक्षिप्सुस्तत्फलमाह –
यदीति ।
तत्रैव दूषणान्तरमाह –
तिष्ठत्विति ।
चन्द्रमण्डलं सप्तम्यर्थः । ततश्चन्द्रमण्डलादित्येतत् । इहेत्येतल्लोकोक्तिः । आदिपदं शुभाशुभकर्मानुसारिसर्वव्यापारसंग्रहार्थम् ।
न केवलं सर्वकर्मक्षयपक्षे मुक्तिरेव विरुध्यते किन्तु स्मृतिश्चेत्याह –
तत इति ।
चन्द्रलोके भोक्तव्यस्य कर्मणो भोगेन क्षयादूर्ध्वं शेषेणानुपभुक्तेन कर्मणा जन्म प्रतिपद्यन्त इत्याद्या स्मृतिः सर्वकर्मक्षयपक्षे विरुध्यत इत्यर्थः ।
सर्वकर्मक्षयपक्षे पूर्वपक्षिणाऽन्यथावादिना प्रतिक्षिप्ते सावशेषपक्षमुत्तरवादी प्रतिपद्यते –
नन्विति ।
तान्यपि चन्द्रमण्डले भुक्तान्येवेति नावशेषोऽस्तीत्याशङ्क्याऽऽह –
न चेति ।
न हि सर्वकर्मवशाच्चन्द्रमण्डलप्राप्तिरिति भावः ।
तर्हि चन्द्रमण्डले कर्मफलोपभोगाभावादलं तदारोहेणेत्याशङ्क्याऽऽह –
यन्निमित्तमिति ।
अविरोधश्चन्द्रमण्डले भोगस्य शेषकर्मसद्भावस्य चेति शेषः ।
यत्तु ततः शेषेणेत्यादिस्मृतिविरोध इति तत्राऽऽह –
शेषशब्दश्चेति ।
निःशेषेष्वपि भुक्तेषु कर्मस्वभुक्तकर्मसु शेषशब्दो न विरुध्यतेऽभुक्तानां कर्मणां कर्मत्वस्य तुल्यत्वान्नात्र सावशेषपक्षे स्मृतिविरोधोऽस्तीत्यर्थः ।
यच्चन्द्रमण्डस्थलस्यैव मोक्षः स्यादिति तत्राऽऽह –
अत एवेति ।
शेषकर्मसद्भावादेवेति यावत् ।
इतश्च कर्मशेषसिद्धिरित्याह –
विरुद्धेति ।
आरम्भकत्वसम्भवादेकजात्युपभोग्यकर्मक्षयेऽपि कर्मशेषः सम्भवतीति शेषः ।
अथैकस्मिञ्जन्मनि सर्वाणि क्षीयन्ते कर्माशयस्यैकभविकत्वादित्याशङ्क्याऽऽह –
न चेति ।
ऐकभविकन्यायस्योपरिष्टान्निराकरिष्यमाणत्वादित्यर्थः ।
इतश्च शेषकर्मसिद्धिरित्याह –
ब्रह्महत्यादेश्चेति ।
“श्वसूकरखरोष्ट्राणाम्” इत्यादिस्मरणम् ।
घृतभाण्दस्नेहशेषवद्भुक्तस्यैव कर्मणः शेषात्पुनरावृत्तिर्भविष्यतीत्यत आह –
स्थावरादीति ।
शेषकर्मसिद्धौ हेत्वन्तरमाह –
गर्भभूतानामिति ।
कर्मशेषसद्भावमुपसंहरति –
तस्मादिति ।
एकस्यापि कर्मणोऽनेकजन्महेतुत्वं तच्छब्दार्थः ।
मतान्तरमुत्थापयति –
यत्त्विति ।
यावत्प्रवृत्तफलं कर्म न क्षीयते तावत्प्रवृत्तिप्रतिबन्धादन्यानि कर्माणि स्वफलं नाऽऽरभन्ते । मरणकाले तु प्रतिबन्धकाभावात्सर्वकर्माश्रयसङ्गातोपमर्देन तेषामुत्तरशरीरारम्भकत्वमविरुद्धमित्यर्थः ।
तथाऽपि कथं शेषकर्मसद्भावासिद्धिरित्यत आह –
तत्रेति ।
अनारब्धकर्मणां सर्वेषामुत्तरशरीरारम्भकत्वे सतीति यावत् ।
प्रायणकाले यानि कर्माण्यभिव्यक्तानि तान्येवोत्तरशरीरारम्भकाणीतरेषां तु न शरीरारम्भकत्वमिति दूषयति –
तदसदिति ।
मधुब्राह्मणोक्तेन न्यायेन सर्वस्य सर्वात्मकत्वाङ्गीकाराद्देहस्यापि तथात्वान्न सर्वात्मनोपमर्दोपपत्तिरित्यर्थः ।
उक्तमर्थमुपपादयितुं सामान्यन्यायमाह –
न हीति ।
सर्वं सर्वस्य कारणं कार्यं चेति न्यायेन सर्वस्य सर्वात्मकत्वे स्थिते सति कस्यचित्क्वचित्सर्वात्मनोपमर्दस्तथाऽभिव्यक्तिर्वा नोपपद्यते । प्रतीयमानोपमर्दादेर्देशविशेषादिकृतत्वादित्यर्थः ।
उक्तन्यायं प्रकृते योजयति –
तथेति ।
इतश्च कर्मशेषः सम्भवतीति क्रमवत्तायां दृष्टान्तमाह –
यथा चेति ।
पूर्वं क्रमेणानुभूतानि यानि मनुष्यादिजन्मानि तैरभिसंस्कृताः सम्पादिता विरुद्धा या भूयस्यो वासनास्तज्जातिविशेषप्रापकेन कर्मणा तस्मिन्नारभ्यमाणे न निरुध्यन्त इत्यर्थः ।
दार्ष्टान्तिकमाह –
तथेति ।
दृष्टान्तं विवृणोति –
यदि हीति ।
व्यवहितवासनोच्छेदेऽपि नाव्यवहितवासनोच्छिद्यते तथा चानन्तरजन्मोत्थवासनासामर्थ्यात् मर्कटशिशोर्यथोक्तकौशलमविरुद्धमित्याशङ्क्याऽऽह –
न चेति ।
किञ्च पूर्वप्रज्ञा चेत्यविशेषेण पूर्वजन्मार्जितवासना जीवमनुगच्छतीति श्रवणादव्यवहितपूर्वजन्मवासनैव तमन्वेतीति न शक्यं विशेषतो वक्तुमित्याह –
तं विद्येति ।
दृष्टान्तमुपपाद्य दार्ष्टान्तिकं निगमयति –
तस्मादिति ।
शेषकर्मसद्भावे फलितमाह –
यत इति ।
उपभुक्तात्कर्मणः शेषेणेति सम्बन्धः –
कश्चिदिति ।
श्रौतौ वा स्मार्तो वा यौक्तिको वा लौकिको वेत्यर्थः ।
एतमेवाध्वानमिति प्रकृतमध्वानं प्रश्नपूर्वकं विशदयति –
कोऽसावित्यादिना ।
यथेतमित्युक्तमाक्षिपति –
नन्विति ।
किं यथेतमित्येतदेव न सम्भवति किं वा यथेतमेवेति नियमो नोपपद्यते तत्राऽऽद्यं दूषयति –
नैष दोष इति ।
द्वितीयं प्रत्याह –
न चेति ।
अत्रेति निवृत्तिरुक्ता ।
अनेवंविधमपीति ।
यथा गतिक्रमो दर्शितो न तथा निवृत्तिर्नियता किं तु विधान्तरेणापि सम्भवतीत्यर्थः ।
निवृत्तेः क्रमनियमाभावे कीदृशो नियमो विवक्षित इत्याशङ्क्याऽऽह –
पुनरिति ।
केनाभिप्रायेण तर्हि यथेतमित्युक्तमत आह –
अत इति ।
गतिक्रमवन्निवृत्तिक्रमे नियमाभावोऽतःशब्दार्थः । उक्तं च “यथेतमनेवं च” इति ।
निवृत्तिनियमे फलितमाह –
अत इति ।
परमात्मानं व्यावर्तयितुं भौतिकमित्युक्तम् ।
कथं पूर्वसिद्धाकाशतादात्म्यापत्तिरवरोहतां सिध्यतीत्याशङ्क्य तत्साम्यगमनमेव तद्भावापत्तिरित्युपचर्यते स्वाभाव्यापत्तिरिति न्यायादित्याह –
यास्तेषामिति ।
घृतस्य संस्थानं काठिन्यम् । तास्वाकाशभूतासु तत्परिवेष्टिताः कर्मिणोऽध्यवरोहन्तस्तद्भूता इव भवन्तीत्यर्थः ।
आकाशाद्वायुमित्यस्यार्थं साधयति –
ता अन्तरिक्षादिति ॥५॥
उन्नतेषु समुद्रादिव्यतिरिक्तेषु प्रदेशेष्विति यावत् । त इत्यनुशयिनो निर्दिश्यन्ते । इहेति पृथिवी कथ्यते । कथमस्मिन्वाक्ये बहुवचनेनानुशयिनां बहूक्त्या निर्देशः कृतस्तत्राऽऽह –
क्षीणकर्मणामिति ।
कथं तर्हि मेघो भूत्वा प्रवर्षतीत्यादावेकवचननिर्देशस्तत्राऽऽह –
मेघादिष्विति ।
ये पूर्वे मेघादयो नभोन्तास्तेषु प्रत्येकमभिमानिदेवतानामेकरूपत्वात्तदुपश्लिष्टानामनुशयिनामप्येकवचनेन निर्देशो युक्त इत्यर्थः ।
अतो वै खल्वित्यादिवाक्यं व्याचष्टे –
यस्मादिति ।
अनुशयिनां दुःशकं निःसरणमित्युक्तं प्रपञ्चयति –
यत इत्यादिना ।
मकरादिभिर्भक्षितानामनुशयिनां तेभ्यस्तत्समानजातीयत्वेन समुद्भवो भविष्यतीति चेन्नेत्याह –
तेऽपीति ।
मकरादयोऽपि जलचारिभिरन्यैर्भक्ष्यन्ते तथा च समुद्रे पतितानामनुशयिनां तत्रैव लयः स्यादित्यर्थः ।
नन्वेवमनुशयिनः समुद्रे लीना न ततः पुनरुद्धर्तुं शक्यन्ते तथा च कृतविनाशः स्यादित्याशङ्क्याऽऽह –
जलधरैरिति ।
समुद्राम्भोभिरिति तृतीया सहार्थे ।
तर्हि सर्पव्याघ्रोपभुक्तानामनुशयिनां तत्समानजातीयदेहभोगः स्यादिति चेन्नेत्याह –
भक्षिताश्चेति ।
यैस्तर्हि सर्पादयो भक्ष्यन्ते तेभ्यस्तत्समानजातीयत्वेनानुशयिनामुद्भवः स्यादिति चेन्नेत्याह –
तेऽपीति ।
तथाऽपि यथोक्तरीत्या परिवर्तनात्ते रेतःसिग्योगमपि यदा कदाचित्प्रपद्येरन्निति चेन्नेत्याह –
कदाचिदिति ।
तथाऽपि भक्ष्येषु जातानां रेतःसिग्योग सुलभः स्यादिति चेन्नेत्याह –
भक्ष्येष्वपीति ।
इतिशब्दो यच्छब्देन पूर्वेण सम्बध्यते ।
पूर्वमतःशब्दो हेतुपरतया व्याख्यातः संप्रति व्रीह्याद्यवधिवाचकत्वेन तं व्याचष्टे –
अथवेति ।
दुर्निष्प्रपततरमिति तकारसहिते पाठे सति विवक्षितमर्थमाह –
व्रीहियवादीति ।
तत्र हेतुमाह –
यस्मादिति ।
तर्हि तेषामन्तराले विशीर्णानां देहभागित्वाभावादनुशयवैयर्थ्यमित्याशङ्क्याऽऽह –
कदाचिदिति ।
काकतालीयया वृत्त्या यादृच्छिकन्यायेनेति यावत् ।
अनुशयाख्यस्य कर्मणो भाविदेहारम्भार्थत्वान्मुख्यं प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।
अनुशयिनो रेतःसिगाकारभाक्त्वे हेतुमाह –
रेतस इति ।
तस्य रेतःसिगाकृत्या तदंशेन भावितत्वात्संस्कृतत्वात्तदङ्गसम्भूतत्वात्तद्रूपेण गर्भाशयमनुप्रविष्टोऽनुशयी रेतःसिगाकृतिर्भवतीत्यर्थः ।
रेतसो रेतःसिगङ्गसमुत्थत्वे प्रमाणमैतरेयकश्रुतिरित्याह –
सर्वेभ्य इति ।
रेतोरूपेण गर्भाशयं प्रविष्टस्य रेतःसिगाकारत्वमुक्तं निगमयति –
अत इति ।
अनुशयिनो रेतःसिगाकारत्वे लौकिकानुभवमनुकूलयति –
तथा हीति ।
चन्द्रस्थलस्खलितानामवरोहतां व्रीह्यादिदेहसंश्लिष्टानां द्राघीयसा कालेन देहान्तरलाभश्चेत्तर्हि व्रीह्यादिदेहाभिमानिनामपि दुःशकं निष्क्रमणं व्रीह्यादिदेहसम्बन्धाविशेषादित्यत आह –
ये त्विति ।
व्रीह्यादिदेहसम्बन्धाविशेषे कुतस्तद्देहभाजां ततो निःसरणमशक्यं न भवतीत्याशङ्क्य विशेषमाह –
कस्मादित्यादिना ।
“शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(म.स्मृ. १२ । ९) इत्यादिश्रुतिस्मृत्योर्येषां कर्मनिमित्तं स्थावरं जन्म तेषां कर्मक्षयः एवावधिः । अवरोहतां तु कर्मासङ्कीर्तनाद्वैषम्यमित्यर्थः ।
यथा जलूका तृणात्तृणान्तरं दीर्घभूता संक्रमते न तथाऽनुशयिनो व्रीह्यादिदेहभाजोऽपि तत्त्यागेन देहान्तरं गच्छन्ति । तद्विषयविज्ञानवन्त एव गच्छन्तीत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –
सविज्ञान इति ।
अथोपसंहृतकरणानां विज्ञाने कारणासम्भवात्कथं सविज्ञानत्वं तत्राऽऽह –
यद्यपीति ।
दृष्टकारणभावेऽप्यदृष्टमेवैकं वासनात्मकं ज्ञानोत्पत्तौ निमित्तमिति तेन सविज्ञाना एव गच्छन्ति देहान्तरमित्यत्र हेतुमाह –
श्रुतिप्रामाण्यादिति ।
श्रुतिरत्र बृहदारण्यकश्रुतिः । यथा सविज्ञानानामेव व्रीह्यादिदेहान्तरगमनं तथा ज्ञानिनामर्चिरादिना कर्मिणां धूमादिना च गमनं स्वप्नवदुद्भूतवासनात्मकविज्ञानेन सविज्ञानानामेवेत्याह तथेति ।
तेषां सविज्ञानत्वे हेतुमाह –
लब्धवृत्तीति ।
अनुशयिनामपि तर्हि व्रीह्यादिषु संश्लिष्टानां रेतःसिगादिदेहसम्बन्धः सविज्ञानानामेवेति चेन्नेत्याह –
न तथेति ।
अनुपपत्तौ हेतुमाह –
न हीति ।
व्रीह्यादिसंश्लिष्टानामनुशयिनां सविज्ञानत्वे तल्लवनादौ तज्जीववत्तेषामपि प्रवासप्रसङ्गान्न रेतःसिग्देहसम्बन्धः सिद्ध्येदित्यर्थः ।
व्रीह्यादिषु देहान्तरं गच्छत्सु सविज्ञानत्वोपलम्भादनुशयिष्वपि देहान्तरप्राप्तेरविशेषाद्युक्तं सविज्ञानत्वमिति शङ्कते –
नन्विति ।
तृणात्तृणान्तरं प्रति जलूकागमनवदवरोहतामपि देहाद्देहान्तरं प्रति गमनस्य तुल्यत्वाद्व्रीह्यादिवद्युक्ता सविज्ञानतेति योजना ।
अस्तु तेषां सविज्ञानत्वं का हानिरित्यत आह –
तथा सतीति ।
इष्टापूर्तादिकारिणामन्तराले नरकानुभवे ।
तथा च सति तदनुष्ठानस्यानर्थार्थं विहितत्वे श्रेयःसाधनविषयककर्मकाण्डं विरुध्येतेत्याह –
श्रुतेश्चेति ।
यथा बुद्धिपूर्वं वृक्षमारोहतां सविज्ञानत्वेऽपि तस्मादबुद्धिपूर्वं पततां न सविज्ञानत्वं विज्ञायते तथा चन्द्रमण्डलमारोहतां सविज्ञानत्वेऽपि ततोऽवरोहतां नैव तदस्ति उद्भूतकर्माभावात् इत्यारोहावरोहयोर्ज्ञाने विशेषसम्भवान्मैवमिति परिहरति –
न वृक्षेति ।
संग्रहवाक्यं विवृणोति –
देहादित्यादिना ।
चकाराद्गच्छतां सविज्ञानत्वं भवेदिति सम्बन्धः ।
अवरोहतां जीवानां सर्वथा विज्ञानशून्यत्वमयुक्तं चैतन्यस्वाभाव्याद्वृक्षात्पततामपि विज्ञानमात्रमस्त्येवेत्याशङ्क्योदाहरणान्तरमाह –
यथा चेति ।
तेन मुद्गरादिना योऽभिघातस्तेन हेतुना यद्वेदनाख्यं निमित्तं तेन संमूर्छितानि संहृतानि प्रतिबद्धानि वा करणानि येषां तेषामिति यावत् । मृदितो विनष्टो देहोऽम्मयः स्थूलो देहो येषां तेषां तत एव प्रतिबद्धकरणानां विज्ञानशून्यतेति सम्बन्धः ।
यथोक्तदृष्टान्तवशाच्चन्द्रमण्डलादवरोहन्तो विज्ञानशून्याः सिद्ध्यन्तीति निगमयति –
अत इति ।
तथाऽपि मूर्छितानां स्थूलदहसद्भावाद्देशान्तरगमनं युक्तम् । अवरोहतां तु तदभावे कथं व्रीह्यादिभावः सम्भवतीत्यत आह –
अपरित्यक्तेति ।
न परित्यक्तं देहभावस्य बीजं कर्मापूर्वं याभिस्ताभिरद्भिरुपहिता जीवा मूर्छितवद्विज्ञानशून्या गमनादिक्रमेण पृथिवीं प्राप्य कर्मफलभूतजातिस्थावरशरीरैः संश्लिष्यन्त इति सम्बन्धः ।
स्थावरदेहसम्बन्धित्वात्तद्गतजीववत्तदा सविज्ञानत्वं सम्भवतीत्याशङ्क्याऽऽह –
प्रतिबद्धेति ।
व्रीह्यादिसंश्लेषावस्थायामनुशयिनां कर्मणोऽनुद्भूतवृत्तित्वात्करणानां तत्र वृत्तिलाभाभावादनुद्भूतविज्ञानत्वं युक्तमित्यर्थः ।
न केवलं व्रीह्यादिसंश्लेषकालेऽनुद्भूतविज्ञानत्वं किन्तु व्रीह्यादेर्लवनादिकालेऽपीत्याह –
तथेति ।
पाकः संस्कारः । रसादीत्यादिशब्देन शोणितमांसमेदोऽस्थिमज्जारेतांस्युच्यन्ते ।
तस्मिन्काले मूर्छितवदनुद्भूतविज्ञानत्वं देहाद्बर्हिर्निर्गतानां प्राग्देहान्तरप्राप्तेस्तदस्त्येवेति हेतुमाह –
देहेति ।
अलब्धवृत्तित्वादिति च्छेदः ।
कथं पुनरनुशयिनां विज्ञानशून्यत्वे “तद्यथा तृणजलायुक्ता तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसंहरति” इत्यादौ सचेतना जलूका दृष्टान्तत्वेनोपादीयते तत्राऽऽह –
देहबीजभूतेति ।
सर्वास्ववस्थासु तासु व्रीह्यादिसंश्लेषतल्लवनादिवशादिति यावत् । न चेतनावत्त्वं जलूकादृष्टान्ते विवक्षितं किन्तु सातत्यमात्रमिति भावः । जलूकावत्त्वं जलूकासादृश्यमनुशयिनामित्यर्थः ।
आरोहतां सविज्ञानत्वमवरोहतां विज्ञानराहित्यमित्युपपाद्याऽऽरोहतामपि यावत्स्वस्थानेभ्यः करणान्युपसंहृत्य हृदयेऽवस्थानं तावदेव सविज्ञानत्वं न देहाद्बहिर्निर्गतानां प्राग्देहान्तरप्राप्तेस्तदस्त्यनुशयिनां तु चन्द्रमण्डलादवरुरुक्षतामपि न भाविदेहपर्यन्ता वासना दीर्घा भवति प्रमाणाभावादित्याह –
अन्तराले त्विति ।
चन्द्रमण्दलादवरोहतां देहान्तरगमनस्य तुल्यत्वेऽपि विज्ञानशून्यत्वमदुष्टमित्युपसंहरति –
इतदोष इति ।
यत्तु हिंसानुग्रहात्मकत्वाद्वैदिककर्मणां स्थावरत्वमपि तत्फलमेव तथा च वैदिकानां कर्मणामनर्थानुबन्धित्वादप्रामाण्यं श्रुतेरिति तत्राऽऽह –
न चेति ।
उभयहेतुत्वमर्थानर्थहेतुत्वमिति यावत् ।
अहिंसन्नित्यादिश्रुतेः शास्त्रचोदितवैदिकेषु कर्मसु हिंसा नानर्थहेतुरित्याह –
अभ्युपगतेऽपीति ।
यद्यपि स्वरूपेण हिंसाऽनर्थहेतुरभ्युपगम्यते तथाऽपि तद्युक्तानां वैदिककर्मणां नानर्थारम्भकत्वं यथा स्वरूपेण विषद्ध्यादेर्मरणज्वरादिहेतुत्वेऽपि मन्त्रशर्करादिभिः सहोपयुक्तं सन्न तत्कार्यारम्भकम् तथा हिंसायाः स्वतोऽधर्महेतुत्वेऽपि वैदिककर्मनिष्ठाया न तद्धेतुत्वं वैदिकैरेव कर्मभिस्तत्कृतदोषापनयनसिद्धेरित्यर्थः ।
पूर्वोक्तमेव दृष्टान्तं स्पष्टयति –
मन्त्रणेति ।
तेन सहोपभुक्तस्य विषस्यानर्था हेतुत्वेन पुष्टिहेतुत्ववद्वैककर्मानुप्रविष्टाया हिंसायाः पुरुषार्थत्वमेव । अशुद्धामिति चेन्न शब्दादिति न्यायादित्यर्थः ॥६॥
तद्भूय एव भवतीत्येतत्प्रसङ्गागतं परिसमाप्य प्रकृतश्रुतिव्याख्यानमनुवर्तयति –
तत्तत्रेति ।
अन्याधिष्ठिते पूर्ववदभिलापादिति न्यायेन तेषु व्रीह्यादिषु संष्टिला येऽनुशयिनस्तेषां मध्ये ये केचिदस्मिन्ल्लोके चन्द्रमण्दलप्राप्तेः प्रागवस्थायामनुष्ठिताभुक्तरमणीयचरणास्ते रमणीयां योनिमापद्येरन्निति सम्बन्धः ।
उक्तमेव स्पष्टयति –
शोभन इति ।
कथं रमणीयचरणानुरोधेन शोभनोऽनुशयो लक्ष्यते तत्राऽऽह –
क्रौर्येति ।
ते खल्वनुशयिनो रेतःसिग्योगानन्तरं तेन कर्मणा रमणीयां योनिमापद्येरन्निति यत्तत् क्षिप्रमेवेति योजना ।
तत्रापि हेतुमाह –
स्वकर्मेति ।
अथेति प्रतीकं गृहीत्वा व्याचष्टे –
पुनरिति ।
तद्विपरीतास्तेभ्यो विलक्षणा इति यावत् । ते कपूयां योनिमशुभानुशयवशाद्रेतःसिग्योगानन्तरमापद्येरन्निति यत्तदपि क्षिप्रमेवेति योजना ।
तत्रापि विकल्पे कारणमाह –
स्वकर्मेति ।
योनिविकल्पे तृतीयं पन्थानमवतारयितुं पूर्वोक्तौ पन्थानौ संक्षिप्यानुवदति –
ये त्विति ।
शुभानुशयवशाद्ये केचित् ब्राह्मणादियोनिमापन्नास्ते स्ववर्णाश्रमविहितकर्मनिष्ठास्सन्तो यदीष्टादिकर्म कृतवन्तस्तदा दक्षिणेन पथा चन्द्र गच्छन्ति । तत्र च भोक्तव्ये भोगेन क्षीणे पुनरवशिष्टेन कर्मणा पृथिवीमागच्छन्ति । एवं घटीयन्त्रवत्पुनः पुनरारोहन्तोऽवरोहन्तश्च केवलकर्मिणो दुश्यन्ते चेद्द्विजातयः स्वकर्मस्थाः सन्तो ध्यानं लभेरन्नुत्तरेण यानेनेतो ब्रह्मलोकं गच्छन्तीत्यर्थः ॥७॥
इदानीं तृतीयस्थानमुपदिशति –
यदा त्विति ।
पौनःपुन्ये लोण्मध्मैकवचनात्तयोः सर्वाख्यातेषु विधानात्पुनः पुनर्जायन्ते म्रियन्ते चेत्यस्मिन्नर्थे जायस्व म्रियस्वेति प्रयोग इत्याह –
तेषामिति ।
यद्वा सर्वेश्वरो मार्गद्वयभ्रष्टं दृष्ट्वा तं जायस्व म्रियस्वेति प्रेरयत्येतदिहोच्यत इति द्रष्टव्यम् ।
तेनासावित्यादिवाक्यं व्याचष्टे –
येनैवमिति ।
उक्तया रीत्या निर्णीतान्प्रश्नान्विविच्य प्रतिपत्तिसौकर्यार्थं कथयति –
पञ्चमस्त्विति ।
व्यावर्तनाऽपि व्याख्यातेत्युत्तरत्र सम्बन्धः । मृतानामविदुषां विदुषां चेत्यर्थः । अन्त्येष्ट्यनन्तरं विदुषां कर्मिणां च संवत्सरमिति ज्ञानिनो गृह्यन्ते । अन्ये पितृलोकमिति केवलकर्मिण इति विभागः । क्षीणानुशयानां चन्द्रलोके भोक्तव्यं कर्म भोगेन क्षपितवतामिति यावत् ।
स्वशब्दमेवानुवदति –
तेनेति ।
किमर्थमेषां महायासवती तीव्रा संसारगतिरुक्तेत्याशङ्क्याऽऽह –
यस्मादिति ।
तृतीयस्थानस्य कष्टत्वं स्पष्टयति –
यस्माच्चेति ।
जन्मादिना जनिता या वेदना तदनुभवे कृतः क्षणोऽवसरो नान्यत्र येषां तथा । अप्लव इति च्छेदः ।
तृतीयस्थानवदितरयोरावृत्तिमत्त्वात्तुल्या कष्टतेत्यभिप्रेत्याऽऽह –
तस्माच्चेति ।
संसारगत्युपवर्णनस्य तात्पर्यमुक्त्वा पञ्चाग्निविद्यायामनुष्ठानसिद्ध्यर्थं तस्याः स्तावकं श्लोकमुदाहृत्य व्याचष्टे –
तदेतस्मिन्नित्यादिता ।
पञ्चाग्निविद्यामाहात्म्यं सप्तम्यर्थः ॥८-९ ॥
पञ्च महापातकिनः श्लोके निर्दिश्यन्ते न तु पञ्चाग्निविद्यास्तुतिरिह भातीत्याशङ्क्याऽऽह –
अथेति ।
शुद्धत्वे हेतुमाह –
तेनेति ।
कस्येदं फलमित्यपेक्षायां पूर्वोक्तविद्यावन्तमनुवदति –
य एवमिति ॥१०॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य दशमः खण्डः ॥
पूर्वोत्तरसंदर्भयोः सम्बन्धं दर्शयन्नुत्तरसन्दर्भमवतारयति –
दक्षिणेनेत्यादिना ।
उत्तरग्रन्थस्य वैश्वानराख्यात्तृभावप्रतिपत्त्यर्थत्वे गमकमाह –
अत्सीति ।
विद्यायाः सम्प्रदानं शिष्यस्तस्य न्यायो विनयादिसंपत्तिस्तत्प्रदर्शनार्था चाऽऽख्यायिका ।
दृश्यते चात्र प्राचीनशालप्रभृतीनां तत्संपत्तिरित्याह –
विद्येति ।
कथमात्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वं व्यावर्त्याभावादित्याशङ्क्याऽऽह –
ब्रह्मेतीति ।
उक्तरीत्या मिथो विशेषणविशेष्यत्वे फलितमाह –
अभेदेनेति ।
इतश्चोपास्यस्य सर्वात्मत्वं गम्यते परिच्छिन्नोपासनस्य निन्दितत्वाद्भूम्नः क्रतुवज्जायस्त्वमिति न्यायादित्याह –
मूर्धेति ॥१॥
भगवन्तः सन्तः सम्पादयांचक्रुरिति पूर्वेण संबन्धः ॥२-३॥
अश्वपतिरित्यादौ भगवन्त इति प्राचीनशालप्रभृतयः सम्बोध्यन्ते ॥४॥
स हेत्यादि सोपस्कार व्याचष्टे –
स हान्येद्युरित्यादिना ।
यथोक्तं शास्त्रप्रसिद्धमिति यावत् ।
किं तर्हि भगवदागमनस्य प्रयोजनं तदाह –
वयं चेति ।
तन्ममापि नास्तीति शङ्कां निरस्यति –
आत्मानमिति ।
शिष्यभावेनोपसन्नेभ्यो विद्या दातव्या न यथाकथञ्चिदिति राज्ञोऽभिप्रायः ।
ते हेत्यादिवाक्यस्य तात्पर्यं दर्शयति –
यतइति ।
योगक्षेमार्थं राजानं प्रत्युपगमनमिष्टमेवेति मन्वानो विशिनष्टि –
विद्यार्थिन इति ।
तथेत्यत्रातःशब्दो द्रष्टव्यः । उपनयनं पादयोर्निपातनम् । वक्ष्यमाणं वैश्वानरविज्ञानं तेनैतदित्यस्य संबन्ध इति यावत् ।
आख्यायिकातात्पर्यमुपसंहरति –
यथेति ॥५-६-७॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यैकादशः खण्डः ॥
शिष्यो हि प्रष्टाऽऽचार्यस्तु प्रतिवक्तेति न्यायेन शङ्कते –
नन्विति ।
वाक्यशेषावष्टम्भेन दूषयति –
नैष दोष इति ।
बृहदारण्यकश्रुत्यालोचनायामपि नैतदन्याय्यमित्याह –
अन्यत्रापीति ।
आचार्यस्याजातशत्रोरिति सम्बन्धः ।
तस्याऽऽत्मत्वे हेतुमाह –
आत्मन इति ।
एकाहादिरूपोज्योतिष्टोमादिरहर्गणस्तत्र सुतं सोमरूपं लताद्रव्यमहीने प्रस्तुतं सत्रे त्वासुतमिति भेदः । तवेति पुनर्वचनमन्वयदर्शनार्थम् ॥१॥
न केवलं प्राचीनशालनिष्ठमिदं फलं किन्त्वन्यस्यापि भवतीत्याह –
अन्योऽपीति ।
तर्हि यथोक्तवैश्वानरज्ञानादेव कृतकृत्यतेत्याशङ्क्याऽऽह –
मूर्धा त्विति ।
अक्षरार्थमुक्त्वा विवक्षितार्थमाह –
साध्विति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वादशः खण्डः ॥
अथ प्राचीनशाले तूष्णींभूते जिज्ञासमाने सत्यनन्तरमित्यर्थः । आदित्यस्य शुक्लत्वादिरूपत्वमष्टमे स्पष्टीभविष्यति । तस्य सर्वरूपत्वेन विश्वरूपत्वमुक्तमुपपादयति –
सर्वाणीति ॥१॥
अस्त्यन्नमित्यादि चक्षुष्ट्वेतदित्यतः प्राक्तनमिति शेषः । चक्षुष्ट्वेतदित्यादिवाक्यं व्याचष्टे –
चक्षुरित्यादिना ।
तत्रापि तात्पर्यं यथापूर्वं द्रष्टव्यमित्याह –
पूर्ववादिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य त्रयोदशः खण्डः ॥
सत्ययज्ञोपरमानन्तरमित्यथशब्दार्थः । पृथगित्यतः प्राक्तनमादिपदेन गृहीतम् । पृथग्वर्त्मेति प्रतीकमादाय व्याचष्टे –
नानेति ।
आभिमुख्येनाऽऽगच्छन्नावहः । ऊर्ध्वेन वहतीत्युद्वहः ।
तस्मात्त्वमित्यादि व्याचष्टे –
तस्मादिति ।
नानादिक्का नानाविधासु दिक्षुभवा इत्येतत् ॥१॥
अस्त्यन्नमित्यादि समानमित्यत्राऽऽदिपदमुपास्त इत्यन्तवाक्यसंग्रहार्थम् । उत्तरवाक्येऽप्यभिप्रायसाम्यं मत्वाऽऽह –
प्राणस्त्विति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्दशः खण्डः ॥
इन्द्रद्युम्नोपरमानन्तर्यमथशब्दार्थः । अत्राऽऽदिपदमेष इत्यस्मात्प्राक्तनवाक्यसंग्रहार्थम् । कथमाकाशस्य बहुलत्वमत आह –
बहुलत्वमिति ॥१॥
कथं शरीरस्य मध्यमे भागे संशयवाची सन्देहशब्दो वर्तते तत्राह –
दिहेरिति ।
आकाशस्य सर्वगतत्वेन बहुलत्वाद्देहस्य च परिच्छिन्नत्वेन तदभावात्कथमाकाशं वैश्वानरस्य शरीरं स्यादित्याशङ्क्याऽऽह –
मांसेति ।
तच्छरीरमिति सम्बन्धः ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य पञ्चदशः खण्डः ॥
जनस्योपरमानन्तर्यमथशब्दार्थः । कथमबात्मको वैश्वानरो रयिरिति धनेन निर्दिश्यते तत्राऽऽह –
अद्भ्य इति ।
आयुर्वै घृतमितिवत्कार्यवाचकेन कारणं लक्ष्यत इत्यर्थः । तस्माद्यथोक्तवैश्वानरोपासनादित्येतत् ।
धनरूपवैश्वानरोपासनाद्धनवानित्येव वक्तव्ये कथं पुष्टिमानित्यधिकावापस्तत्राऽऽह –
पुष्टेश्चेति ॥१॥
मूत्राशयो धनुर्वक्रो बस्तिरित्यभिधीयत इत्याशयेनाऽऽह –
बस्तिरिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य षोडशः खण्डः ॥
प्राचीनशालप्रभृतिषु पञ्चसु मौनमातिष्ठमानेष्वनन्तरमित्यथशब्दार्थः ॥१-२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य सप्तदशः खण्डः ॥
उद्दालकान्तेषु विद्यार्थिषूपसन्नेषु सामस्त्येन वैश्वानरविद्यां वक्तुकामस्तेषां मिथ्याज्ञानमनुवदति –
तानित्यादिना ।
अनर्थकाविवानर्थकौ निपातौ न त्वनर्थकावेव । तेषां मिथ्याज्ञानित्वप्रसिद्धिस्मारकत्वात् । यूयमित्यन्वयार्थं प्रागुक्तमपि पाठक्रमेण पुनरनूद्य पृथगिव विद्वांस इति सम्बन्धः । ये जात्यन्धा हस्तिदर्शने भिन्नदृष्टयो भवन्ति तथा यूयं वैश्वानरमात्मानमेकमपि सर्वात्मकं सन्तं भिन्नमिव विद्वांसः परिच्छिन्नात्तृरूपेणाऽऽत्मानं बुद्धवन्तः । तथा च मिथ्यादर्शिनो यूयं प्रागेव प्रत्यवायान्मामागतवन्तः साधु कृतवन्त इत्यर्थः ।
प्रधानविद्यां वक्तुं पातनिकां कृत्वा तामिदानीमुपदिशति –
यस्त्वित्यादिना ।
एतमेवंभूतं यस्तूपास्ते स सर्वेष्वन्नमत्तीति सम्बन्धः ।
एवंशब्दार्थमाह –
यथोक्तेति ।
एकं समस्तं त्रैलोक्यात्मकमिति यावत् ।
प्रादेशमात्रमित्येतद्विभजते –
प्रादेशैरिति ।
यथोक्तैराधिदैविकैरवयवैरध्यात्मं प्रत्यगात्मन्येवायं मीयत इति व्युत्पत्त्या प्रादेशमात्रस्तमिति यावत् ।
प्रकारान्तरेण व्याचष्टे –
मुखादिषु वेति ।
तेषु हि प्रदेशेष्वयमत्तृत्वेन साक्षितया मीयत इति व्युत्पत्त्या तथोच्यत इत्यर्थः ।
विधान्तरेण व्याचष्टे -
द्युलोकादीति ।
अर्थान्तरमाह –
प्रकर्षेणेति ।
आमनन्ति चैनमस्मिन्निति न्यायेन पक्षान्तरमाह शाखान्तरेत्विति ।
अस्तु तर्हि जाबालश्रुत्यनुसारेण मूर्धानामारभ्याधारफलकपर्यन्ते देहावयवे सम्पादितो वैश्वानरःप्रादेशमात्रव्याचष्टे –
प्रत्यगात्मतयेति ।
सर्वेश्वरत्वं सर्वात्मत्वं सर्वप्रत्यक्षत्वं वा हेतूकृत्य वैश्वानरशब्दमनेकधा व्याकरोति –
विश्वानित्यादिना ।
ईश्वरो वैश्वानर इत्यत्र वैश्वानरपदमुभयत्र संबध्यते । स वैश्वानरविदन्नमदन्सर्वेषु लोकादिषु स्थित्वाऽऽन्नमत्तीति सम्बन्धः ।
कथमात्मशब्देन शरीरादयो गृह्यन्ते तत्राऽऽह –
तेषु हीति ।
सर्वेषु लोकेष्वित्यादिवाक्यस्य तात्पर्यार्थं दर्शयति –
वैश्वानरविदिति ॥१॥
वैश्वानरोपासकः सर्वात्मा सन्नन्नमत्तीत्येवं कस्माद्धेतोर्निश्चितमित्याशङ्कामनूद्य हेतुप्रदर्शनपरत्वेनोत्तरत्वेनोत्तरं वाक्यमुपादत्ते –
कस्मादित्यादिना ।
वैश्वानरस्य सर्वात्मत्वात्तदुपासकस्यापि तदात्मतया सर्वात्मत्वादसौ सर्वात्मा भूत्वा सर्वत्रान्नमत्तीति युक्तमित्यर्थः ।
तस्येत्यादिवाक्यस्य तात्पर्यान्तरमाह –
अथ वेति ।
प्रधानविद्यामुक्त्वा तदङ्गप्राणाग्निहोत्रं दर्शयितुकामो भूमिकां करोति –
अथेति ।
संपादयितुमिच्छन्नादौ तदङ्गान्यश्वपतिराहेत्यर्थः । वेदिरिति स्थण्डिलमात्रं गृह्यते । अग्निहोत्रे तावन्मात्रस्योपयुक्तत्वादितरस्य दर्शपूर्णमासाद्यङ्गत्वात् । वेद्यामास्तीर्यन्ते ये दर्भा[स्ते] बर्हिःशब्देनोच्यन्ते । हृदयस्य गार्हपत्यत्वं मनःप्रणयनहेतुत्वात्, प्रणीतमुत्पन्नमिवेत्यर्थः ।
आहवनीयसादृश्यं च मुखस्य दर्शयति –
आहवनीय इति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्याष्टादशः खण्डः ॥
एवं सतीत्युक्तन्यायेनाग्निहोत्रे संपादिते सतीत्यर्थः । संपादितस्याग्निहोत्रत्वस्य सामान्यादग्न्युद्धरणादीनि तदङ्गान्यत्र भवेयुरित्याशङ्क्य तद्बुद्धिमात्रस्य विवक्षितत्वान्मैवमित्याह –
अग्निहोत्रेति ।
इहेति वैश्वानरविदो भोजनमुच्यते ।
प्रकृतहोमगतावान्तरविभागमाह –
स भोक्तेति ।
कथमिति मन्त्रो वा द्रव्यपरिमाणं वा फलं वा पृच्छ्यते तत्र प्रथमं प्रत्याह –
प्राणायेति ।
यदि द्वितीयस्तत्राऽऽह –
आहुतीति ।
अवदानस्य प्रमाणं परिमाणं कर्मिणां प्रसिद्धं तेन परिमितमिति यावत् ।
तृतीयश्चेत्तत्राऽऽह –
तेनेति ॥१॥
भुञ्जानस्य तृप्तौ प्रत्यक्षं प्रमाणं प्राणादेस्तृप्तौ शास्त्रमिति विभागमभिप्रेत्याऽऽह –
प्रत्यक्षमिति ।
प्रजादिभिश्च भोक्ता तृप्यतीति संबन्धः ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यकोनविंशः खण्डः ॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य विंशः खण्डः ॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्यैकविंशः खण्डः ॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य द्वाविंशः खण्डः ॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य त्रयोविंशः खण्डः ॥
प्रसिद्धाग्निहोत्रनिन्दाद्वारेण वैश्वानरविदो यथोक्तमग्निहोत्रमवश्यकर्तव्यतायै स्तौति –
स यः कश्चिदित्यादिना ॥१॥
प्राणाग्निहोत्रस्य वैशिष्ट्ये हेत्वन्तरमतःशब्दोपात्तं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
नैयमिकाग्निहोत्रनिन्दाद्वारा प्राणाग्निहोत्रस्तुत्यनन्तरं विधान्तरेण तस्यैव निरवद्यता कीर्त्यत इत्यथशब्दार्थः ।
एतदिति वैश्वानरदर्शनमुक्तम् –
एवमिति ।
वैश्वानरस्योक्तसर्वात्मत्वादिप्रकारेणेत्यर्थः । अग्निहोत्रमिति साम्पादिकमग्निहोत्रं गृह्यते ।
कथमिदमुक्तार्थं सर्वेषु लोकादिष्वन्नमत्तीति वाक्यं व्याख्यातं तस्य सर्वेषु लोकादिषु हुतं भवतीत्यन्यादृशमिदं वाक्यं तत्राऽऽह –
हृतमिति ॥२॥
इतश्च वैश्वानरविद्यावतोऽग्निहोत्रं विशिष्टमिति वक्तुं वैश्वानरविद्यां स्तौति –
किं चेति ।
तत्र वैश्वानरविद्यामाहात्म्ये दृष्टान्त इति यावत् । इषीकाया मुञ्जामध्यवर्तितृणस्येत्येतत् ।
सर्वशब्दात्प्रारब्धकर्मणोऽपि दाहमाशङ्क्याऽऽह –
वर्तमानेति ।
वैश्वानरविद्याया महाफलत्वे सिद्धे तद्वतोऽग्निहोत्रं विशिष्टमिति तत्कर्तुः सर्वदोषास्पर्शित्वमित्याशयेनाऽऽह –
य एतदिति ॥३॥
विद्यामेव विद्यास्तुतिद्वाराऽग्निहोत्रमिति यावत् । स्तुत्यर्थेऽग्निहोत्रस्य स्तुतिरूपो योऽर्थस्तस्मिन्नित्येतत् ॥४॥
मन्त्रस्य तात्पर्यार्थं दर्शयति –
जगदिति ।
विदुषो वैश्वानरात्मनः सर्वात्मत्वादित्यर्थः ॥५॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्य चतुर्विंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां च्छान्दोग्योपनिषद्भाष्यटीकायां पञ्चमोऽध्यायः समाप्तः ॥