आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: प्रथमः खण्डः (१)
वर्तिष्यमाणाध्यायस्यातीतेन सन्दर्भेण सम्बन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते –
श्वेतकेतुरिति ।
तमेव प्रकटयन्प्रथमं तृतीयेनाध्यायेनास्य सम्बन्धं कथयति –
सर्वमिति ।
एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध्याय आरभ्यत इति सम्बन्धः ।
व्यवहितं सम्बन्धमुक्त्वाऽव्यवहितं तमादर्शयति –
अनन्तरं चेति ।
अध्यायतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह –
पितेति ।
पिता प्रतिवक्ता पुत्रश्च प्रष्टेत्येवंविधेयमाख्यायिका । सा च विद्यायाः सारिष्ठत्वद्योतनार्था । पिता हि पुत्राय सारतममेवोपदिशतीत्यर्थः । कुलस्यानुरूपमित्यादिवचनान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्मचर्यमध्ययनार्थमिति शेषः । गत्वेत्यादिवचनान्माणवकाधीनमध्ययनमिति सूचितम् ।
मा भूदुपनयनमध्ययनं चेत्याशङ्क्याऽऽह –
न चैतद्युक्तमिति ॥१॥
किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह –
तस्येति ।
अतःशब्दः स्वगृहविषयः ।
अनुमानं कल्पनं तत्र कल्पकमाह –
येनेति ।
अनूचानोऽनुवचनसमर्थः । कर्मव्युत्पत्त्या करणव्युत्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥२॥
किमित्यधीतसर्ववेदमधिगततदर्थं च पुत्रमात्मविद्यामधिकृत्य पिता पृच्छति तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्वादित्याशङ्क्याऽऽह –
सर्वानपीति ।
तदेतदद्भुतं श्रुत्वाऽऽहेत्युक्तं विवृणोति –
कथं न्विति ॥३॥
मृन्मयमित्यस्य व्याख्या मृद्विकारजातमिति । तद्यथा मृत्पिण्डेन विज्ञातेन विज्ञातं स्यात्तथाऽन्यदपि सर्वं कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना । अन्यविज्ञानादन्यविज्ञानमदृष्टत्वादश्लिष्टमिति शङ्कते –
कथमिति ।
कार्यकारणयोरन्यत्वासिद्धेर्मैवमिति परिहरति –
नैष दोष इति ।
तदेव स्फुटयति –
यन्मन्यस इत्यादिना ।
अन्यत्वाभावे लोकप्रसिद्धिविरोधं शङ्कते –
कथं तर्हीति ।
वाचाऽऽरम्भणमित्यत्र वाचेति तृतीया षष्ठ्यर्थे द्रष्टव्या ।
नामधेयमित्यस्यार्थं कथयति –
नामैवेति ।
विकारस्य मिथ्यात्वे किं परमार्थतोऽस्तीत्याशङ्क्याऽऽह –
मृत्तिकेत्येवेति ॥४॥
एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमनेकदृष्टान्तोपादानेनेत्याशङ्क्याऽऽह –
अनेकेति ।
न वा इत्यादिप्रतीकमादाय व्याचष्टे –
भगवन्त इति ।
तेषामज्ञाने हेतुमाह –
यदित्यादिना ।
ननु श्वेतकेतुर्गुरूणामज्ञानमाचक्षाणो गुरुद्रोही प्रत्यवायी स्यादित्याशङ्क्याऽऽह –
अवाच्यमपीति ।
गुरुणामज्ञानमतःशब्दार्थः ॥६-७॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य प्रथमः खण्डः ॥
यद्विज्ञानेन सर्वविज्ञानं लभ्यते तद्विज्ञानं प्रतिज्ञातं प्रकटीकर्तुं प्रथमं सर्वस्य सन्मात्रत्वं प्रतिजानीते –
सदेवेति ।
सच्छब्दस्य सामान्यविषयत्वं व्युदस्यति –
सदितीति ।
तस्य पृथिव्यादिभ्यो विशेषं दर्शयति –
सूक्ष्ममिति ।
आकाशादिभ्यो विशेषमाह –
निर्विशेषमिति ।
अन्त्यविशेषव्यावृत्त्यर्थं विशेषमाह –
सर्वगतमिति ।
तस्य ताटस्थ्यं व्यावर्तयति –
एकमिति ।
प्रत्यगभिन्नस्य तस्य संसारित्वं वारयति –
निरञ्जनमिति ।
निष्क्रियत्वेन तत्कूटस्थत्वमाह –
निरवयवमिति ।
यथोक्ते वस्तुनि प्रमाणमाह –
यदवगम्यत इति ।
विशेषणानुसारेण शङ्कते –
किं नेदानीमिति ।
वर्तमानदशायामसत्त्वं जगतो नास्तीत्याह –
नेति ।
सदा सत्त्वाविशेषे विशेषणं न निर्वहतीति शङ्कते –
कथमिति ।
किं विशेषणसामर्थ्यादिदानीमसत्त्वं जगतश्चोद्यते किं वा विशेषणस्यार्थवत्त्वं पृच्छ्यते तत्राऽऽद्यं दूषयति –
इदानीमपीति ।
प्रत्यक्षविरोधान्न वर्तमानावस्थायां जगदसत्त्वसिद्धिरित्यर्थः ।
द्वितीयं प्रत्याह –
किंत्विति ।
यच्चेदं वर्तमानं जगन्नामरूपविशेषणवदालक्ष्यते तदिदंशब्दस्य तद्बुद्धेश्च विषयभावेन स्थितं भवतीति कृत्वेदमिदानीमित्यपि व्यवह्रियते तदेव त्वग्रे प्रागुत्पत्तेः सच्छब्दस्तद्बुद्धिश्चेत्येतावन्मात्रगम्यमेव न त्विदंशब्दस्य तद्बुद्धेश्च विषयो भवतीत्यग्रे सदेवेदमासीदित्यवधार्यते तस्माद्विशेषणमिदंशब्दबुद्धिव्यावृत्त्यपेक्षं प्राक्कालीने जगत्यविरुद्धमित्यर्थः ।
अथावर्तमानावस्थायामपि जगतः सत्त्वे किमिति तत्रेदंशब्दबुद्धी न क्रमेते अत आह –
न हीति ।
यथा सुषुप्ते काले सदपि वस्तु नेदंशब्दबुद्ध्योर्गोचरं तथा प्रागुत्पत्तेः सदपि जगन्नामवत्त्वेन रूपवत्त्वेन चेदमिति न व्यवहर्तुं शक्यं करणोपसंहारस्योभयत्र तुल्यत्वादित्यर्थः ।
सुषुप्तेऽपि वस्तुनो न सत्त्वं मानाभावादित्याशङ्क्याऽऽह –
यथेति ।
न हि तत्र वस्तुनोऽसत्त्वमुत्थितस्य परामर्शादनुभूतस्यानुभवितुश्चाभावे तदयोगात् । न च तत्र विभक्तं वस्तु दृश्यते सुषुप्त्यभावप्रसङ्गादतस्तत्र केवलसन्मात्रं वस्त्विति यथाऽवगमस्तथा प्रागुत्पत्तेरपि सर्वं सन्मात्रमुक्तमेवेत्यर्थः ।
उक्तमेवार्थं संप्रतिपन्नेनोदाहरणान्तरेण समर्थयते –
यथेत्यादिना ।
किमिदं सदित्यपेक्षायां तल्लक्षणमाह –
एकमिति ।
अवतारिते लक्षणवाक्ये प्रथमं विशेषणयोरर्थमाह –
स्वकार्येति ।
सजातीयस्वगतभेदहीनमित्यर्थः ।
विशेषणान्तरमादाय व्याकरोति –
अद्वितीयमितीति ।
विजातीयभेदशून्यमित्यर्थः ।
यदुक्तं सत्सामानाधिकरण्यात्सदेव सर्वमिति तत्राऽऽरम्भवादी शङ्कते –
नन्विति ।
किं कार्यस्य सत्सामानाधिकरण्यं वर्तमानदशायां परपक्षेऽपि संभवतीत्युच्यते किं वा प्रागवस्थायामपीति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
द्वितीयं दूषयति –
प्रागुत्पत्तेस्त्विति ।
लक्षणवाक्यं च परपक्षे दुर्योज्यमित्याह –
न चेति ।
वाक्यद्वयपर्यालोचनया परपक्षासंभवमुपसंहरति –
तस्मादिति ।
दृष्टान्तदार्ष्टान्तिकयोरैकरूप्याद्दृष्टान्तानां कार्यकारणभेदनिष्ठत्वाच्च वैशेषिकपक्षासिद्धिरित्याह –
मृदादीति ।
वैशेषिकपक्षासंभवेऽपि वैनाशिकपक्षो भविष्यतीति शङ्कते –
तत्तत्रेति ।
असच्छब्दस्य तुच्छव्यावृत्तविषयत्वं वारयति –
अभावमात्रमिति ।
सतोऽन्यदसदिति स्थितेरसद्वादिनाऽपि प्रतियोगिभूतं सदास्थितमित्याशङ्क्याऽऽह –
सदभावमात्रमिति ।
तदेव वैधर्म्यदृष्टान्तेन स्फुटयति –
यथेति ।
सदिति यथाभूतमसदिति च ततो विपरीतं गृह्यमाणं सच्चासच्चेति द्विविधं तत्त्वं भवतीति यथा नैयायिका वदन्ति द्वे तत्त्वे सदसती भावाभावाविति तैरप्यभ्युपगमान्न तथा बौद्धैर्द्विविधं तत्त्वमिष्टं सदत्यन्ताभावोऽसदित्यभ्युपगमादप्रतीतप्रतियोगिकाभावस्यात्यन्ताभावतया शशविषाणं नास्तीत्यादौ प्रसिद्धत्वादित्यर्थः ।
तमिमं वैनाशिकपक्षं शिष्यमुखेन दूषयति –
नन्वित्यादिना ।
शिष्योक्तमङ्गीकरोति –
बाढमिति ।
भावस्य योऽभावस्तन्मात्रमसदित्यभ्युपगच्छतां तेषां पक्षे न युक्तं कालसंबन्धाद्यसत इति युक्तमेव त्वयोक्तमित्यर्थः ।
किं च तन्मते यस्य कस्यचिदसत्त्वमिष्टं सर्वस्य वेति विकल्प्याऽऽद्यमुपेत्य द्वितीयं दूषयति –
असत्त्वेति ।
किमभ्युपगन्ता यदा कदाचिदभ्युपगन्तव्यः किं वा प्रागवस्थायामपीति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयन्नाशङ्कते –
इदानीमिति ।
स किं तदानीमसत्त्वान्नाभ्युपगम्यते किं वा तदभ्युपगन्तुरभावान् ? नाऽऽद्य इत्याह –
न प्रागुत्पत्तेरिति ।
न द्वितीयः यथा प्रागुत्पत्तेर्जगदसदित्यस्याभ्युपगन्ता संप्रत्यभ्युपगम्यते तथा प्रागवस्थायामभ्युपगन्ता सन्नित्यस्याप्यभ्युपगन्तुरिदानीमभ्युपगमसम्भवात् । न हि प्रागुत्पत्तेस्तत्सत्त्वे मानाभावः ।
विमतः कालो ज्ञातृसत्तावान्कालत्वात्संमतवदित्यनुमानादित्याह –
प्रागुत्पत्तेरिति ।
परपक्षं दूषयित्वा वाक्यतात्पर्यं दर्शयितुं चोदयति –
नन्विति ।
अन्यापोहस्य शब्दार्थत्वे सत्यपोह्यवस्तुनस्तदर्थत्वे वा कथमसदिति शब्दस्यार्थसिद्धिराकृतेश्च मीमांसकप्रक्रियया शब्दार्थत्वे सत्येकमद्वितीयमितिपदयोराकृतिवाचकत्वायोगादर्थानुपपत्तिस्तदभावे च पदार्थसंसर्गाद्यात्मनो वाक्यार्थस्यानुपपत्तिर्वाक्यार्थस्यानुपपत्तौ च निर्विषयमिदं वाक्यमप्रमाणं स्यादित्यर्थः ।
सदभिनिवेशनिवृत्त्यर्थमिदं वाक्यं न तु शून्यमेव साक्षादभिधत्ते तन्न वाक्याप्रामाण्यमिति परिहरति –
नैष दोष इति ।
तथाऽपि कथमसदादिशब्दानामगृहीतशक्तित्वे वाक्यार्थोपपत्तिरित्याशङ्क्याऽऽह –
सदित्ययमिति ।
एकमद्वितीयमिति शब्दद्वयवदिदमासीदिति च शब्दौ सच्छब्देन समानाधिकरणावेवेत्याह –
तथेति ।
सदेवेत्यादिवाक्यस्योक्तविधयाऽर्थवत्त्वेऽपि कथमसदेवेत्यादिवाक्यमर्थवदित्याशङ्क्याऽऽह –
तत्रेति ।
इवशब्दो यद्वदित्यस्मिन्नर्थे तद्वदिति पृथक्प्रयोगात् ।
किमिति वाक्यस्य सदभिनिवेशनिवृत्तिपरत्वं सदभावपरत्वमेव किं न स्यादित्याशङ्क्याऽऽह –
न त्विति ।
सदभावस्यात्यन्ताभावलक्षणस्य तुच्चत्वाच्छब्दशक्तिगोचरत्वासम्भवादित्यर्थः ।
अन्यपरत्वासम्भवे सदभिनिवेशनिवृत्तिपरत्वं वाक्यस्य सिद्धमित्युपसंहरति –
अत इति ।
प्राक्काले पुरुषस्य सदभिनिवेशनिवृत्तिरत्र विवक्षिता चेत्तर्हि नञ्पदमेव प्रयोक्तव्यं किमित्यसदेवेदमग्र आसीदिति प्रयुक्तमित्याशङ्क्याऽऽह –
दर्शयित्वा हीति ।
अथवा सदेवेत्यादिना स्वपक्षमुक्त्वा तद्दृढीकरणार्थत्वेनासदेवेत्यादिनाऽनुवादोऽयमिति तात्पर्यान्तरमाह –
दर्शयित्वा हीति ।
प्रथमे पक्षे तस्मादित्यादिवाक्यस्यार्थाभावाद्द्वितीयः पक्षो गृहीतस्तत्र कारणस्यासत्त्वमुक्तमिदानीं कार्यस्यापि तद्दर्शयति –
तस्मादिति ।
अजायतेति वक्तव्ये कथं श्रुत्या जायतेति प्रयुक्तमित्याशङ्क्याऽऽह –
अडभाव इति ॥१॥
कुतस्तु खल्वित्यादिवाक्यालोचनायामपि द्वितीयः पक्षो ग्राह्य इत्यभिप्रेत्याऽऽह –
तदेतदिति ।
विमतमभावपुरःसरं कार्यत्वादङ्कुरवदिति प्रमाणं शङ्कते –
यदपीति ।
अप्रसिद्धविशेषणत्वं मत्वा परिहरति –
तदपीति ।
बीजोपमर्देनाङ्कुरोत्पत्तेरिष्टत्वात्कथमप्रसिद्धविशेषणतेति शङ्कते –
कथमिति ।
किमङ्कुरोत्पत्तौ बीजावयवा उपमृद्यन्ते किं वा बीजाकारसंस्थानमिति विकल्प्याऽऽद्यं प्रत्याह –
ये तावदिति ।
द्वितीयं दूषयति –
यत्पुनरिति ।
तत्किं परमार्थवस्तु किं वा संवृतिसिद्धं ? नाऽऽद्योऽभ्युपगमविरोधादित्युक्तं द्वितीयमुत्थापयति –
अथ संवृत्येति ।
संवृतिं विकल्पयति –
केयमिति ।
आद्ये भावस्याभावादुत्पत्तौ दृष्टान्ताभावः संवृतेरवस्तुत्वेन च बीजसंस्थानसत्त्वासाधकत्वादित्याह –
यदीति ।
द्वितीयमनूद्य दूषयति –
अथेति ।
तत्त्वं यया संव्रियत आच्छाद्यते सा संवृतिर्लौकिकी बुद्धिः सा चेद्भावरूपेष्टा तर्हि तया बीजावयवानामङ्कुराकारपरिणामसिद्धेर्दृष्टान्तासिद्धिरित्यर्थः ।
लौकिकबुद्धिमनाश्रित्य परमतमेवाऽऽदाय शङ्कते –
अवयवा इति ।
असत्यवयविन्युपमर्दायोगवदवयवेष्वपि तदयोगस्य तुल्यत्वान्नेदं चोद्यमित्युत्तरमाह –
न तदवयवेष्विति ।
तदेव स्फुटयति –
यथेति ।
नन्वस्मत्पक्षे परमावयवी नास्त्यवयवास्तु सन्त्येवेति चेत्तत्राऽह –
बीजावयवानामपीति ।
तर्हि तेषामङ्कुरजन्मन्युपमर्दः स्यादिति चेत्तत्राऽऽह –
तदवयवानामपीति ।
न चाङ्कुरजन्मन्यवयवपरम्पराविश्रान्तिभूमिरुपपद्यते तस्याः शून्यत्वे तदुपमर्दे सत्कारणवादापातात् । अशून्यत्वेऽपि कार्यत्वे कादाचित्कद्रव्यस्य सावयवत्वेनोक्तदोषतादवस्थ्यादकार्यत्वे भावश्चेदुपमर्दासिद्धिरभावश्चेत्तदुपमर्दे सत्कारणवादापत्तिरेवेति भावः ।
असद्वादस्याप्रामाणिकत्वमुक्त्वा सद्वादस्य प्रामाणिकत्वमाह –
सद्बुद्धीति ।
परमते दृष्टान्ताभावमुक्तमनूद्य स्वमते तत्सत्त्वं च समुच्चिनोति –
न त्विति ।
घटस्याप्यभावादेवोत्पत्तेरिष्टत्वाद्दृष्टान्तासंप्रतिपत्तिरित्याशङ्क्याऽऽह –
यदीति ।
किं च यद्यस्योपादानं दृष्टं तच्छब्दप्रत्ययौ तत्रानुवर्तेते यथा तथाऽभावश्चेघटादेरुपादानं तच्छब्दधियौ तत्रानुवृत्ते स्यातां न चानुवर्तेते तस्मादसतः सदुत्पत्तिरयुक्तेत्याह –
अभावेति ।
भावस्य सतो मृत्पिण्डस्य घटादिकारणत्वमन्वयव्यतिरेकाभ्यामुक्तं तत्रान्वयव्यतिरेकयोरन्यथासिद्धिमुद्भावयति –
यदपीति ।
तस्मिन्नपि पक्षे न मत्पक्षक्षतिरित्युत्तरमाह –
तदपीति ।
यदुक्तं सद्रूपाया बुद्धेः सद्रूपां बुद्धिं प्रति कारणत्वमिति तदसिद्धमिति शङ्कते –
मृद्घटबुद्ध्योरिति ।
सत्त्वसिद्धौ हि पूर्वभावित्वं कारणत्वं कार्यत्वं चोत्तरभावित्वं युक्तं बुद्धीनां चासत्त्वादानन्तर्यमात्रेण व्यवह्रियते निमित्तनैमित्तिकत्वमित्यर्थः ।
असतीनामपि बुद्धीनामानन्तर्येण निमित्तनैमित्तिकत्वमित्येतन्न शक्यं सम्भावयितुं दृष्टान्ताभावादित्युत्तरमाह –
न बुद्धीनामिति ।
कुतस्तु खल्वित्यादिवाक्यं व्याख्यातमुपसंहरति –
अत इति ।
पूर्वमसतः सदुत्पत्तौ दृष्टान्ताभाव उक्त इदानीमन्यदुपसंहृतमि शङ्कां वारयति –
असत इति ।
स्वपक्षसिद्धिमुपसंहरतीति सम्बन्धः ।
सिद्धान्तेऽपि दृष्टान्तासिद्धिस्तुल्येति शङ्कते –
नन्विति ।
यद्यपि मृदो घटोत्पत्तिर्दृष्टा तथाऽपि न मृदो मृदन्तरं घटाद्घटान्तरमुत्पद्यमानमुपलभ्यते तस्मान्न सतः सदन्तरोत्पत्तिरित्यर्थः ।
किं सदन्तरस्य सतः सकाशादुत्पत्तिरेव वार्यते किं वा कारणत्वं सतो निराक्रियते तत्राऽऽद्यमङ्गीकरोति –
सत्यमिति ।
द्वितीयं निराकरोति –
किं तर्हीति ।
तत्रापि दृष्टान्ताभावमाशङ्क्याऽऽह –
यथेति ।
कुण्डलीभावे कार्यत्वप्रसिद्धिर्नास्तीत्याशङ्क्योदाहरणान्तरमाह –
यथा चेति ।
प्रभेदैरवतिष्ठत इति सम्बन्धः ।
सत एव सर्वप्रकारेणावस्थाने प्राक्कालिकं कार्यस्य सत्त्ववचनमयुक्तं तस्य सर्वदा सत्त्वाविशेषादिति शङ्कते –
यद्येवमिति ।
प्रागवस्थं हि कारणं सन्मात्रत्वं च कार्यस्यावधार्यते तथा च कारणस्यैव सतस्तेन तेनाऽऽकारेणावस्थानमित्यङ्गीकारेऽपि कार्यस्य प्राक्कालिकं सत्त्वावधारणमविरुद्धमित्युत्तरमाह –
नन्विति ।
कार्यस्य कारणमात्रत्वं चेदवधृतं तर्हि कारणमेवाऽऽसीन्न कार्यं तदसदेवेदानीं जातमित्यसत्कार्यवादिमतमायातमिति शङ्कते –
प्राप्तमिति ।
कारणस्यैव कार्यरूपेणावस्थानान्नासत्कार्यवादापत्तिरिति दृष्टान्तेन परिहरति –
नेत्यादिना ।
विमतमुपादानाद्भिद्यते तद्विलक्षणबुद्धिविषयत्वाद्यथाऽश्वबुद्धिविलक्षणबुद्धिविषयो महिषस्ततो भिद्यते । तथाच कथं सत एवेदंधीविषयानिर्वाच्यावस्थाङ्गीकारेणासत्कार्यवादापत्तिसमाधिरिति चोदयति –
नन्विति ।
विलक्षणबुद्धिविषयत्वस्य भेदमात्रसाधकत्वे सिद्धसाधनं तात्त्विकभेदसाधकत्वे दृष्टान्तासिद्धिरित्यभिप्रेत्याऽऽह –
नेति ।
किं च कार्यस्य व्यभिचारित्वेन रज्जुसर्पादिवन्मिथ्यात्वानुमानादनिर्वाच्यसंस्थानादेव कार्यबुयालम्बनत्वं सतोऽङ्गीकर्तव्यमित्याह –
पिण्डेति ।
तदेव स्फुटयति –
यद्यपीति ।
मृत्त्वमन्तरेण पिण्डघटयोः स्वरूपाभावादिति तच्छब्दार्थः । अव्यभिचारे मृत्त्वमित्यादिदृष्टान्तः ।
अव्यभिचारफलमाह –
तस्मादिति ।
दृष्टान्तगतमर्थं दार्ष्टान्तिके समर्थयति –
एवमिति ।
पृथगेव प्रथमानस्य कार्यस्य कथं सन्मात्रत्वमित्याशङ्क्याऽऽह –
वाचारम्भणेति ।
कार्यमिथ्यात्वं स्फुटीकर्तुं चोदयति –
नन्विति ।
यथा खल्वज्ञातेभ्यो रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानमनिर्वाच्यमिष्टं तथा श्रुतिजनितजगत्कारणत्वबुद्ध्यनुपपत्त्या कल्पितेभ्यः सतो मायोपाधिकस्यावयवेभ्यो विकारसंस्थानमुपपद्यते तस्मादयं द्वैतप्रपञ्चो ब्रह्मविवर्तः सम्भवतीति परिहरति –
नैष दोष इति ।
ब्रह्मविवर्तो जगदित्यत्र श्रुतिमनुकूलयति –
वाचाऽऽरम्भणमिति ।
प्रपञ्चमिथ्यात्वे फलितमुपसंहरति –
एकमेवेति ॥२॥
अद्वितीयत्वसमर्थनार्थमुत्तरवाक्यमुत्थाप्य व्याचष्टे –
तत्सदिति ।
सच्छब्दवाच्यं जगत्कारणं प्रधानमिति केचित्तदप्येतेन निरस्तमित्याह –
अतश्चेति ।
ईक्षापूर्वकारित्वादिति यावत् । अचेतनत्वाभ्युपगमान्न तस्येक्षापूर्वकं स्रष्टृत्वमिति शेषः । परिणामविवर्तवादावाश्रित्योदाहरणद्वयम् ।
बहु स्यामित्यादिश्रुतितात्पर्यं वक्तुं निरस्तमेव चोद्यमुद्भावयति –
असदेवेति ।
बहु स्यां प्रजायेयेत्यनेनेक्षितुरेव कार्याकारापत्तिवचनेन वैशेषिकादिमतमेतन्निरस्तमिति श्रुतितात्पर्यं दर्शयन्नुतरमाह –
नेत्यादिना ।
तदेव प्रपञ्चयति –
यथेत्यादिना ।
प्रतिज्ञातमर्थं मतद्वयानुसारेण दृष्टान्ताभ्यां स्पष्टयति –
यथा रज्जुरिति ।
अज्ञानान्वयव्यतिरेकाभ्यां रज्जुसर्पादेरज्ञानमयत्वे च द्वैताभिनिवेशस्य सन्मात्राविवेके सत्येवोत्पत्तेर्विचारेण तद्विवेके चानुत्पत्तेर्द्वैतमप्यज्ञानमयमेव तस्य तु तत्त्वं सन्मात्रमधिष्ठानं वाङ्मनसातीतमित्यर्थः ।
तस्य वाङ्मनसातीतत्वे प्रमाणमाह –
यत इति ।
अन्यदेव तद्विदितादित्यादिवाक्यमादिपदार्थः ।
तैत्तिरीयकश्रुतिविरोधमाशङ्कते –
नन्विति ।
तथाऽपि कथं विरोधधीरित्याशङ्क्याह –
इति विरुद्धमिति ।
अस्यां श्रुतौ सतः सकाशादेव प्राथम्येन तेजः सृज्यमानमुच्यते श्रुत्यन्तरे तु तस्मादेव सतः सकाशादाकशं प्राथम्येन सृष्टमित्युपदिष्टं तथा च कथमिदं मिथो विरुद्धं सिद्ध्यतीत्यर्थः ।
तैत्तिरीयकश्रुत्यनुसारेण च्छान्दोग्यश्रुतेर्व्याख्यानसम्भवान्न विरोधोऽस्तीति परिहरति –
नैष दोष इति ।
सृष्टिक्रमस्य विवक्षितत्वमङ्गीकृत्योक्तं तदेव नास्त्यद्वितीयत्वं तु सतो विवक्षितमिति पक्षान्तरमाश्रित्याऽऽह –
अथ वेति ।
तत्र गमकं दर्शयति –
मृदादीति ।
मृदादिकार्यं घटादितद्व्यतिरेकेण नास्ति मृदाद्येव तु सत्यमितिदृष्टान्ते अपादानाद्ब्रह्मणः सतस्तेजोबन्नादिकार्यं तदतिरेकेण नास्ति सन्मात्रमेव सत्यमिति दार्ष्टान्तिकेऽपि विवक्षितं प्रतिभातीत्यर्थः ।
तत्तेजोऽसृजतेत्यादिश्रुतेस्तात्पर्यान्तरमाह –
अथवा त्रिवृत्करणस्येति ।
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीत्यादौ त्रिवृत्करणस्येष्टत्वात् त्रयाणामेव भूतानामिह सृष्टिरुच्यते । न चैवं पञ्चीकरणमविवक्षितमिति वाच्यम्, भूतत्रयसृष्टिश्रुतौ श्रुत्यन्तरसिद्धाकाशादिसृष्टेरुपलक्षणवत् त्रिवृत्करणश्रुत्या पञ्चीकरणोपलक्षणात् । तथा च श्रुत्यन्तरसिद्धयोराकाशवाय्वोस्तेजःप्रभृतिष्वन्तर्भावमभिप्रेत्य लघूपायेन सर्वस्य सन्मात्रत्वं मन्तव्यमिति मन्वाना श्रुतिस्त्रिवृत्करणमेवाऽऽचक्षाणा तदनुरोधेन त्रयाणामेव सृष्टिमाहेत्यर्थः ।
तेजसोऽचेतनस्य कथमीक्षितृत्वमित्याशङ्क्य वाक्यार्थमाह –
तेजोरूपेति ।
अपां तेजःकार्यत्वे लोकानुभवमनुकूलयति –
यस्मादिति ॥३॥
पृथिव्यामन्नशब्दप्रयोगे हेतुमाह –
पार्थिवं हीति ।
अपां कार्यमन्नमित्यत्रापि लोकप्रसिद्धिं दर्शयति –
यस्मादिति ।
ता अन्नमसृजन्तेत्यत्राद्भ्योऽन्नसृष्टिरुपदिष्टा दृष्टान्तेऽपि ताभ्यस्तत्सृष्टिरुपदिश्यते तथा च पौनरुक्त्यमित्याशङ्क्यार्थविशेषं दर्शयति –
अन्नमिति ।
तत्तेज ऐक्षतेत्यादौ यथाश्रुतमर्थं गृहीत्वा चोदयति –
नन्विति ।
प्राणिषु हिंसाप्रतिषेधवदनुग्रहविधानवच्च तेजःप्रभृतिषु तदभावात्तेष्वीक्षणकार्यदृष्टिवदेतेषु तद्दृष्ट्यभावाच्च नैतेष्वीक्षणं प्रामाणिकं तथा च प्रकृतं प्रमत्तगीतमित्यर्थः ।
तेषां गौणमीक्षितृत्वमुपेत्य परिहरति –
नैष दोष इति ।
सतोऽपि गौणमीक्षणमुपचारप्राये पाठादिति शङ्कते –
नन्विति ।
सन्निधेः शब्दस्य बलीयस्त्वमुपेत्य परिहरति –
न सदीक्षणस्येति ।
तुल्यं तेजःप्रभृतिष्वपि शब्दगम्यत्वमीक्षणस्येति चेन्नेत्याह –
तेजःप्रभृतीनां त्विति ।
विमतमीक्षितृ न भवत्यचेतनत्वात्कुम्भवदित्यनुमानात्तेजोमुखे जगतीक्षणासम्भवात्तत्र श्रुतं तदौपचारिकमुचितमित्यर्थः ।
साङ्ख्योऽनुमानावष्टम्भेन शङ्कते –
नन्विति ।
अचेतनस्य कथमीक्षणमित्याशङ्क्याऽऽह –
अत इति ।
अनुमातुं कल्पयितुमिति यावत् ।
कथमचेतने चेतनवदुपचारस्तत्राऽऽह –
दृष्टश्चेति ।
आत्मशब्दावष्टम्भेन परिहरति –
नेत्यादिना ।
आत्मोपदेशोऽपि प्रधाने ग्राणी भविष्यतीति शङ्कते –
आत्मोपदेशोऽपीति ।
तामेव शङ्कां दृष्टान्तद्वारा विवृणोति –
यथेति ।
इदं परिहरन्नस्मिन्नात्मोपदेशो गौणो न भवति तन्निष्टस्य मोक्षोपदेशादित्युत्तरमाह –
नेत्यादिना ।
मोक्षोपदेशोऽप्युपचरितो भविष्यतीति शङ्कते –
सोऽपीति ।
शङ्कामेव विवृणोति –
प्रधानात्मेति ।
एकविज्ञानेन सर्वविज्ञानोपदेशमाश्रित्य परिहरति –
न येनेति ।
उक्तमेव विवृणोति –
सत्येकस्मिन्निति ।
सतोऽन्यस्य ज्ञातव्यस्याप्रामाणिकत्वाच्च सतो ज्ञाने सर्वज्ञानोपदेशो युक्तिमानित्याह –
न चेति ।
सम्प्रति [साङ्ख्यै]हि प्रधानज्ञाने तद्विकारस्य तदभिन्नस्य ज्ञानं तस्य च पुरुषार्थत्वात्तज्ज्ञाने पुरुषाणामपि ज्ञानमुपचर्यते । तस्मादेकविज्ञानेन सर्वविज्ञानोपदेशान्न मोक्षोपदेशमुख्यत्वसिद्धिरित्याशङ्क्याऽऽह –
सर्वस्य चेति ।
कथमुपनिषदारम्भो वृथेत्युच्यते पुमर्थसाधनज्ञानार्थत्वादित्याशङ्क्याऽऽह –
पुरुषार्थेति ।
तस्यानुमानवादिनः साङ्ख्यस्य मते मुक्तिहेतोर्ज्ञानस्य जडाजडयोरैक्यानुपपत्तिरित्यादिना तर्केणैव सिद्धत्वादुपनिषदारम्भो वृथैवेत्यर्थः ।
श्रुतेर्मुख्यार्थत्वे बाधकाभावात्तत्परित्यागायोगादीक्षत्यधिकरणन्यायेन प्रधानवादासिद्धिरिति परमतनिरसनमुपसंहरति –
तस्मादिति ।
प्रधानवादासम्भवे परिशेषायातं स्वमतं निगमयति –
अत इति ॥४॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य द्वितीयः खण्डः ॥
महाभूतानामचेतनानां ब्रह्मकार्यतोक्ता सम्प्रति जीवाविष्टानां भौतिकानामपि परम्परया ब्रह्मकार्यतैवेति वक्तुं तान्यनुवदति –
तेषामिति ।
पूर्वाध्याये येषां गत्यागती दर्शिते तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसिद्धत्वद्योतनार्थं खल्वित्युक्तम् । भूतानां त्रीण्येव बीजानि भवन्तीत्युत्तरत्र सम्बन्धः ।
भूतशब्दस्य तेजःप्रभृतिषु रूढत्वात्तेषामिह ग्रहणं किं न स्यादित्याशङ्क्याऽऽह –
एषामितीति ।
भूतानां प्रत्यक्षत्वमेषामिति निर्दिश्यते । सम्भवति च पक्ष्यादीनां प्रत्यक्षतेति तान्येवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्यक्षत्वायोगादित्यर्थः ।
तेजःप्रभृतीनां प्रत्यक्षत्वायोगादेषामिति निर्देशानुपपत्तिं समर्थयते –
तेषामिति ।
तेषां प्रत्यक्षतया निर्देशासम्भवे हेत्वन्तरमाह –
देवताशब्देति ।
देवतानां परोक्षत्वप्रसिद्धेरेतेषु च देवतापदप्रयोगान्नैतेषां प्रत्यक्षत्वोपपत्तिरित्यर्थः । तस्मान्महाभूतानामत्र भूतशब्देनोपादानायोगादित्यर्थः ।
आण्डजं पक्ष्यादीत्येतत्प्रत्यक्षेणोपपादयति –
पक्षिसर्पादिभ्यो हीति ।
अन्यदपीति गोधाद्युच्यते ।
अण्डाज्जातमितिव्युत्पत्त्यनुसारेणाण्डमेव बीजं न त्वण्डजमिति शङ्कते –
नन्विति ।
पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति –
सत्यमित्यादिना ।
न केवलं श्रुतेरेषा व्यवस्था किन्तूपपत्तेश्चेत्याह –
दृश्यते चेति ।
सत्येवाण्डजादौ तज्जातीयमण्डजादि सन्तत्या जायते तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यामण्डजाद्यवाण्डजजातिकारणम् । यद्यप्वण्डाद्यभावे नाण्डजादि जायते तथाऽप्यण्डादिभावेऽण्डजाद्यभावेऽपि तद्भवतीति नान्वयः । तस्मादण्डजादीनामण्डजान्येव बीजानि नाण्डादीनीत्यर्थः । धानाशब्दो बीजविषयः ।
ननु स्वेदजं संशोकजमिति बीजद्वयमवशिष्यते तत्किमिति न व्युत्पाद्यते तत्राऽऽह –
स्वेदजेति ।
स्वेदमुद्भिद्य जायमानं दंशमशकादि तदुद्भिज्जेऽन्तर्भवति । संशोकादौष्ण्याज्जायमानं यूकादि तदण्डजेऽन्तर्भवति । यद्वा स्वेदजं यूकादि तदण्डजेऽन्तर्भूतं संशोकादौष्ण्याद्भूमिमुद्भिद्य जातं मशकादि तस्योद्भिज्जेऽन्तर्भावः । तथा च न तयोरस्ति पृथग्व्युत्पादनापेक्षेत्यर्थः ।
स्वेदजादेरण्डजादावन्तर्भावस्य प्रापकमाह –
एवमिति ॥१॥
जीवाविष्टानां भूतानां सत्कार्यत्वं प्रकरणप्रामाण्यादुक्तमिदानीं जीवानां विशिष्टरूपेण ब्रह्मकार्यत्वेऽपि न स्वरूपेण तत्कार्यत्वं ब्रह्मैवोपाधिप्रविष्टं जीवव्यवहारास्पदमित्यङ्गीकारात्तथा च ब्रह्मणि विज्ञाते जीवविज्ञानं सेत्स्यति जीवानां च भोगायतनानि भौतिकानि कार्याणि तेषां नामरूपनिर्माणं वक्तव्यमित्यभिप्रेत्योत्तरग्रन्थमादाय व्याकरोति –
सेयमित्यादिना ।
यथा बहु स्यामिति पूर्वमीक्षितवती तथा किमिति पुनरैक्षत प्रयोजनाभावादित्याशङ्क्याऽऽह –
ह्रदेवेति ।
इदानीं महाभूतसृष्टेरनन्तरमिति यावत् । ब्रह्मणो मायोपाधिकस्य कारणत्वान्मायोपाधिवशात्पूर्वसृष्टावनुभूतत्वं तत्संस्कारस्य बुद्धिस्थत्वं स्मरणं चेत्यादि न विरुद्धमिति द्रष्टव्यम् ।
आत्मनेतिविशेषणस्य तात्पर्यमाह –
प्राणेति ।
निर्विकल्पकचिन्मात्ररूपा देवता मायावशान्महाभूतानि सृष्ट्वा तेषु यदा प्रविष्टा तदा तदारब्धेषु सूत्रविराट्प्रभृतिषु समष्टिव्यष्ट्यात्मसु देहेषु प्रविश्य तत्तद्देहाभिमानवती देवदत्तादिनाम्ना रूपेण च शौक्ल्यादिना संबोज्य पिण्डं व्याकरोतीत्याह –
अनुप्रविश्येति ।
देवतायाः सर्वज्ञत्वादसंसारित्वात्स्वातन्त्र्याच्च सङ्कल्पप्रवेशावयुक्ताविति शङ्कते –
नन्विति ।
किं साक्षादनुप्रवेशादि विरुध्यते किं वा जीवद्वाराऽपीति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
साक्षादनुप्रवेशादि नास्ति चेत्तर्हि कथं तदित्याकाङ्क्षापूर्वकं द्वितीयं दूषयति –
कथमिति ।
देवताया जीवद्वारेणानुप्रवेशाद्यविरुद्धमिति शेषः ।
अविरोधमेव साधयितुं जीवस्वरूपमाह –
जीवो हीति ।
आभिमुख्येनाहमित्यापरोक्ष्येण भासत इत्याभासः स्वतोऽपरोक्षश्चित्प्रतिबिम्बस्तन्मात्रं जीवो नामेत्यर्थः ।
तस्य स्वरूपेणानादित्वेऽपि विशिष्टरूपेण सादित्वं दर्शयति –
बुद्ध्यादीति ।
बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् ।
ननु चिदात्मा कूटस्थोऽसङ्गोऽद्वितीयश्चेष्यते स कथं बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसृज्यते तत्राऽऽह –
अचिन्त्येति ।
सत्त्वादिप्रकारैरशक्यचिन्तनीयाऽनादिरनिर्वाच्या सम्यग्ज्ञानमन्तरेण नाशशून्या दण्डायमाना या मायाशक्तिस्तस्या विषयत्वेनाऽऽनाश्रयत्वेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनिष्ठमायाशक्तिवशाद्बुद्ध्यादिभिरात्मनः सम्बन्धः सिद्ध्यतीत्यर्थः ।
बुद्ध्यादिसम्बन्धफलमाह –
चैतन्येति ।
तदाभासो जीवशब्दवाच्यः सिद्ध्यतीति शेषः ।
बुद्ध्यादिभिरात्मनः सम्बन्धे मायाशक्तिरुपादानमित्युक्तं तत्रैव निमित्तकारणमाह –
देवतेति ।
आवरणविक्षेपशक्तिसम्पन्ना हि मायाशक्तिस्ततोऽविद्योत्थदेशकालाद्यनवच्छिन्नदेवतास्वरूपोऽहमितिविशेषाग्रहणमावरणं निमित्तं कृत्वा बुद्ध्याद्यध्यासः सिद्ध्यतीत्यर्थः ।
बुद्ध्याद्यध्यासस्य कर्यान्तरं दर्शयति –
सुखेति ।
परैव तर्हि देवता संसारिणी स्यादिति चेत्सत्यमज्ञानद्वारा बुद्ध्यादिसम्बन्धमनुभूय जीवत्वं प्राप्य सैव संसरतीत्याह –
छायामात्रेणेति ।
परस्या देवतायाः स्वतःसंसाराभावं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
तस्याः स्वतो दुःखाद्यसम्बन्धे श्रुतिं प्रमाणयति –
सूर्य इति ।
उपाधिद्वारा तस्याः संसारित्वे च श्रुतिरस्तीत्याह –
ध्यायतीति ।
प्रतिबिम्बे छायाशब्दप्रयोगान्मिथ्यात्वमिष्टमिति मन्वानः शङ्कते –
नन्विति ।
तन्मृषात्वमिष्टमेवेत्याशङ्क्याऽऽह –
तथेति ।
जीवस्य मृषात्वे स्वीकृते सति तस्येहलोकपरलोकौ तद्धेतुर्मोक्षस्तद्धेतुश्चेति सर्वं मृषा स्यादित्यर्थः ।
विशिष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वाज्जीवस्य ब्रह्मास्मीतिज्ञानान्मुक्तिः सम्भवतीति समाधत्ते –
नैष दोष इति ।
यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह –
सर्वं चेति ।
कथं तर्हि तस्य मिथ्यात्वोक्तिरित्याशङ्क्याऽऽह –
स्वत इति ।
यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण मिथ्येत्युक्तं तथा जीवशब्दवाच्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीकर्तव्यमित्याह –
तथेति ।
अथ भोक्ता स्वरूपेणापि सत्योऽस्तु भोग्यप्रपञ्चस्यैव मिथ्यात्वमिष्यतामित्याशङ्क्याऽऽह –
यक्षानुरूपो हीति ।
लौकिकन्यायानुसारेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्वसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्वेऽपि तल्लक्ष्यस्य सन्मात्रस्य सत्यत्वमिति व्यवस्थेत्यर्थः ।
यच्च तार्किकैरुच्यते प्रपञ्चस्य मिथ्यात्वे सौगतमतानुमतिः सत्यत्वे चाद्वैतव्याहतिरित्युक्तं तदप्युक्तन्यायेन निरस्तमित्याह –
अत इति ।
अद्वैतवादे दोषाभावं वैधर्म्यदृष्टान्तेन स्पष्टयति –
यथेति ॥२॥
व्याकरवाणीत्येतदन्तं वाक्यं व्याख्याय तदनूद्य तासामित्यादि व्याचष्टे –
सैवमित्यादिना ।
व्याकरवाणीत्यैक्षतेति सम्बन्धः ।
कथं पुनरिदं त्रिवृत्करणमित्याशङ्क्य प्रथममेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकभागं द्विधा द्विधा कृत्वा तदितरभागयोर्निक्षिप्य त्रिवृत्करणं विवक्षितमित्याह –
एकैकस्या इति ।
गुणप्रधानभावानङ्गीकारे समानपरिमाणसूत्रत्रयनिर्मितरज्जुवत्त्रिवृत्करणमेकमेव स्यादित्याह –
अन्यथेति ।
एवकारार्थं दर्शयति –
न त्विति ।
गुणप्रधानभावेन त्रिवृत्करणमुपसंहर्तुमितिशब्दः ।
इतश्च गुणप्रधानभावेन त्रिवृत्करणमेष्टव्यमित्याह –
एवं हीति ।
पृथङ्नामप्रत्ययलाभेनापि किं स्यादित्याशङ्क्याऽऽह –
पृथगिति ।
सेयमित्यादि व्याचष्टे –
एवमित्यादिना ॥३॥
संक्षेपेण त्रिवृत्करणं प्रतिज्ञायोदाहरणतः स्फुटीकर्तुमारभमाणो देहे त्रिवृत्करणस्याग्रे स्फुटीकर्तव्यत्वाद्देहातिरिक्तेषु प्रथमं तदुदाहर्तुमुपक्रमते –
तिष्ठतु तावदिति ॥४॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य तृतीयः खण्डः ॥
कथमुदाहरणतोऽवधारणमित्याशङ्क्यानन्तरवाक्यमवतारयति –
यत्तदिति ।
उदाहरणशब्दं व्युत्पादयति –
उदाहरणं नामेति ।
तत्रैव श्रुतिमवतार्य व्याचष्टे –
तदेतदित्यादिना ।
अत्रिवृत्कृतानां रूपमिति विद्धीति सम्बन्धः । तत्राग्नौ रूपत्रये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवेकदशायामित्यर्थः ।
अक्षरार्थमुक्त्वा वाक्यतात्पर्यार्थमाह –
प्रागिति ।
रूपत्रयविवेकात्प्रागवस्थायामग्निशब्दबुद्धी तद्विवेकादूर्ध्वं तन्निवृत्तिरित्येतमर्थं दृष्टान्तेन समर्थयते –
यथेत्यादिना ।
अग्निविषये श्रुतं हित्वाऽधिककल्पनायां नास्ति निबन्धनमिति शङ्कते –
नन्विति ।
रोहितादिरूपत्रयविवेके सत्यग्नेरग्नित्वमपगच्छतीत्यत्र दृष्टान्तमाह –
यथेति ।
शब्दबुद्धिप्रक्षेपेऽपि न श्रुतत्यागोऽस्तीति परिहरति –
नैवमिति ।
तत्र प्रमाणत्वेनानन्तरवाक्यमादाय व्याचष्टे –
यत इति ।
अग्नेर्नाममात्रत्वमतःशब्दार्थः ॥१॥
प्रक्रमपर्यालोचनायामुदाहरणे न्यूनत्वमस्तीति शङ्कते –
नन्विति ।
यद्वापीकूपादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येत्युदाहरणसम्भवान्न न्यूनतेति परिहरति –
नैष दोष इति ।
तर्हि तेजोविषयमप्युदाहरणमूहनीयं किमित्युदाहृतमित्याशङ्क्याऽऽह –
तेजस इति ।
यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्येदग्नेस्त्रयाणां रूपत्त्वेन यथोक्तरूपविभागस्य तेषु स्फुटत्वसम्भवात्तेजसो दृष्टान्तप्रदर्शनमन्नादिविषयोदाहरणोपलक्षणार्थं, तेन नोपेक्षितमित्यर्थः ।
अबन्नयोरपि त्रिवृत्करणमुपलक्षितं चेत्तर्हि तत्र रसगन्धयोरसाधारण्यात्तयोस्त्रिवृत्करणमुदाहर्तव्यमित्याशङ्क्याऽऽह –
गन्धरसयोरिति ।
यथा यदबन्नयोर्भास्वरं लोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति शक्यते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेजसोऽपामग्नेश्चास्तीति ज्ञातुं शक्यमित्यनुदाहरणं तयोरित्यर्थः ।
ननु त्रिवृत्करणे त्रिष्वपि रूपवद्गन्धरसौ सम्भावितौ तत्कथं तयोस्रयाणामसम्भवोक्तिस्तत्राऽऽह –
न हीति ।
सम्भावितावपि तौ त्रिषु विवेक्तुमशक्यावित्यनुदाहरणीयावित्यर्थः ।
तर्हि सर्वेषु भूतेषु सम्भावितयोः स्पर्शशब्दयोरुदाहरणं किं न स्यादित्याशङ्क्याऽऽह –
स्पर्शशब्दयोरिति ।
यथा लोहितादिरूपत्रयं त्रयाणां विभागेन दर्शयितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्रयाणां विभागेन दर्शयितुं शक्यं, नो खल्वेकत्रोष्णशीतानुष्णाशीतस्पर्शत्रयं दृश्यते नापि खरमधुरमध्यमशब्दत्रयमेकत्रोपलब्धमित्यर्थः ।
सर्वस्य त्रिवृत्कृतत्वे फलितमाह –
यदीति ।
यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृत्कृतमित्यङ्गीकृतं तदाऽग्नेरग्नित्ववज्जगतो जगत्त्वमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना ।
तथाऽपि कथं सन्मात्रपरिशेषः स्यादित्याशङ्क्याऽऽह –
तथेति ।
रूपत्रयव्यतिरेकेण जगतोऽभाववत्कृष्णस्यापि रूपस्य पृथिवीशब्दितस्य शुक्लरूपमात्रजलकार्यत्वात्तदतिरेकेणासत्त्वं पृथिवीवदपामपि शुक्लरूपमात्राणां लोहितरूपमात्रतेजोविकारत्वात्तद्व्यतिरेकेणाभावस्तस्यापि सत्कार्यत्वात्ततो भेदेनासत्त्वं सन्मात्रमेव परिशिष्टमित्येतत्त्रिवृत्करणप्रकरणे विवक्षितमित्यर्थः ।
त्रिवृत्करणपक्षे नैकविज्ञानेन सर्वविज्ञानं सिद्ध्यति परिशिष्टविज्ञेयसद्भावादिति शङ्कते –
नन्विति ।
इतिपदं कथमित्यादिना सम्बध्यते ।
गन्धादयश्च शब्दान्ता गुणा गुणिश्वनन्तर्भूताः सन्तीति न सद्विज्ञानेन तद्विज्ञानोपपत्तिरित्याह –
गन्धेति ।
तद्विज्ञाने = सद्विज्ञानेन वाय्वादिविज्ञाने, तत्र प्रकारान्तरं तत्कार्यत्वादतिरिक्तमिति यावत् ।
आकाशादेस्त्रिष्वेवान्तर्भावसम्भवान्न परिशिष्टविज्ञेयमस्तीति परिहरति –
नैष दोष इति ।
कथं तेजोबन्नेषु सर्वस्य आकाशादेर्दर्शनमित्याह –
कथमिति ।
तत्र शब्दस्पर्शयोराकाशवाय्वोश्च भूतत्रये प्रत्यक्षानुमानाभ्यामुपलब्धिं दर्शयति –
तेजसीति ।
तेजोग्रहणमबन्नयोरुपलक्षणं तत्रापि स्पर्शाद्युपलब्धेरविशेषाद्यत्तु गन्धादि ज्ञेयान्तरमिति तत्राऽऽह –
तथेति ।
भूतत्रये स्पर्शाद्यन्तर्भाववदिति यावत् ।
त्रिष्वेवान्तर्भावे फलितमाह –
रूपवतामिति ।
भूतत्रये रूपवत्याकाशादेरन्तर्भावं व्यतिरेकद्वारा समर्थयते –
न हीति ।
अन्तर्भावोक्तिप्रयासं परिहर्तुं पक्षान्तामाह –
अथवेति ।
प्रदर्शनार्थं पञ्चीकरणस्येति शेषः ।
कथं पञ्चीकरणे सन्मात्रपरिशेषः सिद्ध्यतीत्याशङ्क्याऽऽह –
यथेति ।
यदा पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरेकैकं भागं चतुर्धा कृत्वा स्वभागातिरिक्तेषु पूर्वेषु भागेष्वेकैकशो निक्षिप्यते तदा पञ्चीकरणं श्रुत्युपलक्षितं लभ्यते तत्रापि पञ्चानां भागानां पृथक्करणे पञ्चैव तन्मात्राण्यवशिष्यन्ते तान्यपि पृथिव्यादीन्यबादिकार्यत्वात्तत्तत्कारणव्यतिरेकेण न सिद्ध्यन्तीति त्रिवृत्करणवत्पञ्चीकरणेऽपि न्यायसाम्यात्सर्वस्य सद्विकारत्वात्तद्व्यतिरेकेणाभावात्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः ।
उक्तन्यायेनैकविज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपसंहरति –
तदेकस्मिन्निति ॥२-३-४॥
त्रिवृत्करणपक्षेऽप्येकविज्ञानेन सर्वविज्ञानश्रुतिविरुद्धेत्युपपाद्य त्रिवृत्करणमुदाहरणान्तरेण दर्शयितुमारभते –
एतदिति ।
त्रिवृत्करणमिति यावत् । ते पुनरिति त्रिवृत्करणविज्ञानवन्तो निर्दिश्यन्ते ॥५॥
वेदनप्रकारमेवाऽऽकाङ्क्षापूर्वकं प्रकटयति –
कथमित्यादिना ।
अन्यदग्न्यादिभ्यः सकाशादिति शेषः ।
यदनेकरूपत्वात्कपोतादिरूपेण सन्दिह्यमानमेतद्दृश्यते तस्मिन्कपोतादिस्वरूपे यत्किञ्चिद्रोहितमिव रूपं गृह्यमाणं पूर्वेषामासीत्तत्तेजसो रूपमिति ते विदितवन्त इति योजना । अत्यन्तदुर्लक्ष्यं नामरूपाभ्यां दुर्ज्ञानं द्वीपान्तरागतं पक्ष्यादीत्यर्थः ।
अगृह्यमाणमिति च्छेदः यथा नु खल्वित्यादिवाक्यं वृत्तानुवादपूर्वकमवतारयति –
एवं तावदिति ।
यथा खल्वेकैका देवता पुरुषं प्राप्य त्रिवृत्त्रिवृद्भवति तथेदानीं तदाध्यात्मिकं त्रिवृत्करणमेवमेवेति जानीहीति सम्बन्धः । आध्यात्मिकं त्रिवृत्करणमिति शेषः ॥६-७॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य चतुर्थः खण्डः ॥
कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।
रसादीत्यादिशब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचरो भोक्तेति हिताख्या नाड्यस्तास्विति यावत् ।
कथमन्नोपयोगात्प्रागेव मनसः सिद्धत्वात्तन्मनो भवतीत्युच्यते तत्राऽऽह –
मनोरूपेणेति ।
मनसोऽन्नोपचितत्ववचनाद्वैशेषिकपरिभावाऽपि दूषिता वेदितव्येत्याह –
ततश्चेति ।
मनसो दैवत्वविशेषणान्नित्यत्वसिद्धिरित्याशङ्क्याऽऽह –
यदपीति ।
केनाभिप्रायेण तर्हि विशेषणमित्याशङ्क्याऽऽह –
किं तर्हीति ।
तर्हि चक्षुरादिभ्यो वैलक्षण्यादस्ति तदपेक्षया नित्यत्वमित्याशङ्क्याऽऽह –
यच्चेति ।
यद्वा चक्षुरादिष्वसत्स्वपि मनसः सत्त्वोपलम्भात्तदपेक्षया तस्य नित्यत्वमेष्टव्यमित्याशङ्क्याऽऽह –
यच्चेति ।
आत्मवन्मनसो नित्यत्वं किं न स्यादित्याशङ्क्याऽऽह –
सदिति ॥१॥
भुक्तस्यान्नस्य त्रैविध्यमुक्त्वा पीतानामपामपि त्रैविध्यमाह –
तथेति ॥२॥
कथं तेजसोऽग्न्यादित्यादेरशनमित्याशङ्क्य विशिनष्टि –
तैलेति ।
मज्जाशब्दार्थमाज –
अस्थीति ।
योऽणिष्ठः सा वागित्युक्तं व्यक्तीकरोति –
तैलघृतादीति ॥३॥