अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

षष्ठोऽध्यायः: प्रथमः खण्डः (१)

वर्ति­ष्य­मा­णा­ध्या­य­स्या­ती­तेन सन्दर्भेण सम्बन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते –
श्वेतकेतुरिति ।

तमेव प्रकटयन्प्रथमं तृती­ये­ना­ध्या­ये­नास्य सम्बन्धं कथयति –
सर्वमिति ।
एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध्याय आरभ्यत इति सम्बन्धः ।

व्यवहितं सम्ब­न्ध­मु­क्त्वाऽ­व्य­व­हितं तमादर्शयति –
अनन्तरं चेति ।

अध्या­य­ता­त्प­र्य­मु­क्त्वाऽऽ­ख्या­यि­का­ता­त्प­र्य­माह –
पितेति ।
पिता प्रतिवक्ता पुत्रश्च प्रष्टे­त्ये­वं­वि­धे­य­मा­ख्या­यिका । सा च विद्यायाः सारि­ष्ठ­त्व­द्यो­त­नार्था । पिता हि पुत्राय सार­त­म­मे­वो­प­दि­श­ती­त्यर्थः । कुल­स्या­नु­रू­प­मि­त्या­दि­व­च­नान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्म­च­र्य­म­ध्य­य­ना­र्थ­मिति शेषः । गत्वे­त्या­दि­व­च­ना­न्मा­ण­व­का­धी­न­म­ध्य­य­न­मिति सूचितम् ।

मा भूदुपनयनमध्ययनं चेत्या­श­ङ्क्याऽऽह –
न चैतद्युक्तमिति ॥१॥

किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह –
तस्येति ।
अतःशब्दः स्वगृहविषयः ।

अनुमानं कल्पनं तत्र कल्पकमाह –
येनेति ।
अनू­चा­नोऽ­नु­व­च­न­स­मर्थः । कर्म­व्यु­त्पत्त्या कर­ण­व्यु­त्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥२॥

किमि­त्य­धी­त­स­र्व­वे­द­म­धि­ग­त­त­दर्थं च पुत्र­मा­त्म­वि­द्या­म­धि­कृत्य पिता पृच्छति तस्य सर्व­वे­दा­ध्य­य­ना­दि­नैव कृता­र्थ­त्वा­दि­त्या­श­ङ्क्याऽऽह –
सर्वानपीति ।

तदेतदद्भुतं श्रुत्वाऽऽ­हे­त्युक्तं विवृणोति –
कथं न्विति ॥३॥

मृन्मयमित्यस्य व्याख्या मृद्वि­का­र­जा­त­मिति । तद्यथा मृत्पिण्डेन विज्ञातेन विज्ञातं स्यात्त­थाऽ­न्य­दपि सर्वं कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना । अन्य­वि­ज्ञा­ना­द­न्य­वि­ज्ञा­न­म­दृ­ष्ट­त्वा­द­श्लि­ष्ट­मिति शङ्कते –
कथमिति ।

कार्य­का­र­ण­यो­र­न्य­त्वा­सि­द्धे­र्मै­व­मिति परिहरति –
नैष दोष इति ।

तदेव स्फुटयति –
यन्मन्यस इत्यादिना ।

अन्यत्वाभावे लोक­प्र­सि­द्धि­वि­रोधं शङ्कते –
कथं तर्हीति ।
वाचाऽऽ­र­म्भ­ण­मि­त्यत्र वाचेति तृतीया षष्ठ्यर्थे द्रष्टव्या ।

नाम­धे­य­मि­त्य­स्यार्थं कथयति –
नामैवेति ।

विकारस्य मिथ्यात्वे किं पर­मा­र्थ­तोऽ­स्ती­त्या­श­ङ्क्याऽऽह –
मृत्ति­के­त्ये­वेति ॥४॥

एकेनैव दृष्टान्तेन विव­क्षि­ता­र्थ­सिद्धौ किम­ने­क­दृ­ष्टा­न्तो­पा­दा­ने­ने­त्या­श­ङ्क्याऽऽह –
अनेकेति ।

न वा इत्या­दि­प्र­ती­क­मा­दाय व्याचष्टे –
भगवन्त इति ।

तेषामज्ञाने हेतुमाह –
यदित्यादिना ।

ननु श्वेत­के­तु­र्गु­रू­णा­म­ज्ञा­न­मा­च­क्षाणो गुरुद्रोही प्रत्यवायी स्यादि­त्या­श­ङ्क्याऽऽह –
अवाच्यमपीति ।
गुरु­णा­म­ज्ञा­न­म­तः­श­ब्दार्थः ॥६-७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य प्रथमः खण्डः ॥

यद्विज्ञानेन सर्वविज्ञानं लभ्यते तद्विज्ञानं प्रतिज्ञातं प्रकटीकर्तुं प्रथमं सर्वस्य सन्मात्रत्वं प्रतिजानीते –
सदेवेति ।

सच्छब्दस्य सामान्यविषयत्वं व्युदस्यति –
सदितीति ।

तस्य पृथिव्यादिभ्यो विशेषं दर्शयति –
सूक्ष्ममिति ।

आकाशादिभ्यो विशेषमाह –
निर्विशेषमिति ।

अन्त्य­वि­शे­ष­व्या­वृ­त्त्यर्थं विशेषमाह –
सर्वगतमिति ।

तस्य ताटस्थ्यं व्यावर्तयति –
एकमिति ।

प्रत्यगभिन्नस्य तस्य संसारित्वं वारयति –
निरञ्जनमिति ।

निष्क्रियत्वेन तत्कूटस्थत्वमाह –
निरवयवमिति ।

यथोक्ते वस्तुनि प्रमाणमाह –
यदवगम्यत इति ।

विशेषणानुसारेण शङ्कते –
किं नेदानीमिति ।

वर्त­मा­न­द­शा­या­म­सत्त्वं जगतो नास्तीत्याह –
नेति ।

सदा सत्त्वाविशेषे विशेषणं न निर्वहतीति शङ्कते –
कथमिति ।

किं विशे­ष­ण­सा­म­र्थ्या­दि­दा­नी­म­सत्त्वं जगतश्चोद्यते किं वा विशे­ष­ण­स्या­र्थ­वत्त्वं पृच्छ्यते तत्राऽऽद्यं दूषयति –
इदानीमपीति ।
प्रत्य­क्ष­वि­रो­धान्न वर्त­मा­ना­व­स्थायां जग­द­स­त्त्व­सि­द्धि­रि­त्यर्थः ।

द्वितीयं प्रत्याह –
किंत्विति ।
यच्चेदं वर्तमानं जग­न्ना­म­रू­प­वि­शे­ष­ण­व­दा­ल­क्ष्यते तदिदंशब्दस्य तद्बुद्धेश्च विषयभावेन स्थितं भवतीति कृत्वे­द­मि­दा­नी­मि­त्यपि व्यवह्रियते तदेव त्वग्रे प्रागुत्पत्तेः सच्छ­ब्द­स्त­द्बु­द्धि­श्चे­त्ये­ता­व­न्मा­त्र­ग­म्य­मेव न त्विदंशब्दस्य तद्बुद्धेश्च विषयो भवतीत्यग्रे सदे­वे­द­मा­सी­दि­त्य­व­धा­र्यते तस्मा­द्वि­शे­ष­ण­मि­दं­श­ब्द­बु­द्धि­व्या­वृ­त्त्य­पेक्षं प्राक्कालीने जग­त्य­वि­रु­द्ध­मि­त्यर्थः ।

अथा­व­र्त­मा­ना­व­स्था­या­मपि जगतः सत्त्वे किमिति तत्रे­दं­श­ब्द­बुद्धी न क्रमेते अत आह –
न हीति ।
यथा सुषुप्ते काले सदपि वस्तु नेदं­श­ब्द­बु­द्ध्यो­र्गो­चरं तथा प्रागुत्पत्तेः सदपि जगन्नामवत्त्वेन रूपवत्त्वेन चेदमिति न व्यवहर्तुं शक्यं कर­णो­प­सं­हा­र­स्यो­भ­यत्र तुल्य­त्वा­दि­त्यर्थः ।

सुषुप्तेऽपि वस्तुनो न सत्त्वं माना­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
यथेति ।
न हि तत्र वस्तु­नोऽ­स­त्त्व­मु­त्थि­तस्य परा­म­र्शा­द­नु­भू­त­स्या­नु­भ­वि­तु­श्चा­भावे तदयोगात् । न च तत्र विभक्तं वस्तु दृश्यते सुषु­प्त्य­भा­व­प्र­स­ङ्गा­द­त­स्तत्र केवलसन्मात्रं वस्त्विति यथाऽवगमस्तथा प्रागु­त्प­त्ते­रपि सर्वं सन्मा­त्र­मु­क्त­मे­वे­त्यर्थः ।

उक्तमेवार्थं संप्र­ति­प­न्ने­नो­दा­ह­र­णा­न्त­रेण समर्थयते –
यथेत्यादिना ।

किमिदं सदित्यपेक्षायां तल्लक्षणमाह –
एकमिति ।

अवतारिते लक्षणवाक्ये प्रथमं विशेषणयोरर्थमाह –
स्वकार्येति ।
सजा­ती­य­स्व­ग­त­भे­द­ही­न­मि­त्यर्थः ।

विशे­ष­णा­न्त­र­मा­दाय व्याकरोति –
अद्वितीयमितीति ।
विजा­ती­य­भे­द­शू­न्य­मि­त्यर्थः ।

यदुक्तं सत्सा­मा­ना­धि­क­र­ण्या­त्स­देव सर्वमिति तत्राऽऽरम्भवादी शङ्कते –
नन्विति ।

किं कार्यस्य सत्सा­मा­ना­धि­क­रण्यं वर्तमानदशायां परपक्षेऽपि संभवतीत्युच्यते किं वा प्राग­व­स्था­या­म­पीति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

द्वितीयं दूषयति –
प्रागु­त्प­त्ते­स्त्विति ।

लक्षणवाक्यं च परपक्षे दुर्यो­ज्य­मि­त्याह –
न चेति ।

वाक्य­द्व­य­प­र्या­लो­च­नया पर­प­क्षा­सं­भ­व­मु­प­सं­ह­रति –
तस्मादिति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­यो­रै­क­रू­प्या­द्दृ­ष्टा­न्तानां कार्य­का­र­ण­भे­द­नि­ष्ठ­त्वाच्च वैशे­षि­क­प­क्षा­सि­द्धि­रि­त्याह –
मृदादीति ।

वैशे­षि­क­प­क्षा­सं­भ­वेऽपि वैनाशिकपक्षो भविष्यतीति शङ्कते –
तत्तत्रेति ।

असच्छब्दस्य तुच्छ­व्या­वृ­त्त­वि­ष­यत्वं वारयति –
अभावमात्रमिति ।

सतोऽन्यदसदिति स्थिते­र­स­द्वा­दि­नाऽपि प्रतियोगिभूतं सदा­स्थि­त­मि­त्या­श­ङ्क्याऽऽह –
सदभावमात्रमिति ।

तदेव वैध­र्म्य­दृ­ष्टा­न्तेन स्फुटयति –
यथेति ।
सदिति यथाभूतमसदिति च ततो विपरीतं गृह्यमाणं सच्चासच्चेति द्विविधं तत्त्वं भवतीति यथा नैयायिका वदन्ति द्वे तत्त्वे सदसती भावाभावाविति तैर­प्य­भ्यु­प­ग­मान्न तथा बौद्धै­र्द्वि­विधं तत्त्वमिष्टं सद­त्य­न्ता­भा­वोऽ­स­दि­त्य­भ्यु­प­ग­मा­द­प्र­ती­त­प्र­ति­यो­गि­का­भा­व­स्या­त्य­न्ता­भा­व­तया शशविषाणं नास्तीत्यादौ प्रसि­द्ध­त्वा­दि­त्यर्थः ।

तमिमं वैनाशिकपक्षं शिष्यमुखेन दूषयति –
नन्वित्यादिना ।

शिष्यो­क्त­म­ङ्गी­क­रोति –
बाढमिति ।
भावस्य योऽभा­व­स्त­न्मा­त्र­म­स­दि­त्य­भ्यु­प­ग­च्छतां तेषां पक्षे न युक्तं कालसंबन्धाद्यसत इति युक्तमेव त्वयो­क्त­मि­त्यर्थः ।

किं च तन्मते यस्य कस्य­चि­द­स­त्त्व­मिष्टं सर्वस्य वेति विक­ल्प्याऽऽ­द्य­मु­पेत्य द्वितीयं दूषयति –
असत्त्वेति ।

किमभ्युपगन्ता यदा कदा­चि­द­भ्यु­प­ग­न्तव्यः किं वा प्राग­व­स्था­या­म­पीति विक­ल्प्याऽऽ­द्य­म­ङ्गी­कृत्य द्वितीयं दूषयन्नाशङ्कते –
इदानीमिति ।

स किं तदा­नी­म­स­त्त्वा­न्ना­भ्यु­प­ग­म्यते किं वा तद­भ्यु­प­ग­न्तु­र­भा­वान् ? नाऽऽद्य इत्याह –
न प्रागु­त्प­त्ते­रिति ।
न द्वितीयः यथा प्रागु­त्प­त्ते­र्ज­ग­द­स­दि­त्य­स्या­भ्यु­प­गन्ता संप्र­त्य­भ्यु­प­ग­म्यते तथा प्राग­व­स्था­या­म­भ्यु­प­गन्ता सन्नि­त्य­स्या­प्य­भ्यु­प­ग­न्तु­रि­दा­नी­म­भ्यु­प­ग­म­स­म्भ­वात् । न हि प्रागु­त्प­त्ते­स्त­त्सत्त्वे मानाभावः ।

विमतः कालो ज्ञातृ­स­त्ता­वा­न्का­ल­त्वा­त्सं­म­त­व­दि­त्य­नु­मा­ना­दि­त्याह –
प्रागु­त्प­त्ते­रिति ।

परपक्षं दूषयित्वा वाक्यतात्पर्यं दर्शयितुं चोदयति –
नन्विति ।
अन्यापोहस्य शब्दार्थत्वे सत्य­पो­ह्य­व­स्तु­न­स्त­द­र्थत्वे वा कथमसदिति शब्द­स्या­र्थ­सि­द्धि­रा­कृ­तेश्च मीमां­स­क­प्र­क्रि­यया शब्दार्थत्वे सत्ये­क­म­द्वि­ती­य­मि­ति­प­द­यो­रा­कृ­ति­वा­च­क­त्वा­यो­गा­द­र्था­नु­प­प­त्ति­स्त­द­भावे च पदा­र्थ­सं­स­र्गा­द्या­त्मनो वाक्या­र्थ­स्या­नु­प­प­त्ति­र्वा­क्या­र्थ­स्या­नु­प­पत्तौ च निर्विषयमिदं वाक्यमप्रमाणं स्यादित्यर्थः ।

सद­भि­नि­वे­श­नि­वृ­त्त्य­र्थ­मिदं वाक्यं न तु शून्यमेव साक्षादभिधत्ते तन्न वाक्या­प्रा­मा­ण्य­मिति परिहरति –
नैष दोष इति ।

तथाऽपि कथ­म­स­दा­दि­श­ब्दा­ना­म­गृ­ही­त­श­क्तित्वे वाक्या­र्थो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
सदित्ययमिति ।

एकमद्वितीयमिति शब्द­द्व­य­व­दि­द­मा­सी­दिति च शब्दौ सच्छब्देन समा­ना­धि­क­र­णा­वे­वे­त्याह –
तथेति ।

सदे­वे­त्या­दि­वा­क्य­स्यो­क्त­वि­ध­याऽ­र्थ­व­त्त्वेऽपि कथ­म­स­दे­वे­त्या­दि­वा­क्य­म­र्थ­व­दि­त्या­श­ङ्क्याऽऽह –
तत्रेति ।
इवशब्दो यद्व­दि­त्य­स्मि­न्नर्थे तद्वदिति पृथक्प्रयोगात् ।

किमिति वाक्यस्य सद­भि­नि­वे­श­नि­वृ­त्ति­प­रत्वं सदभावपरत्वमेव किं न स्यादि­त्या­श­ङ्क्याऽऽह –
न त्विति ।
सद­भा­व­स्या­त्य­न्ता­भा­व­ल­क्ष­णस्य तुच्च­त्वा­च्छ­ब्द­श­क्ति­गो­च­र­त्वा­स­म्भ­वा­दि­त्यर्थः ।

अन्य­प­र­त्वा­स­म्भवे सद­भि­नि­वे­श­नि­वृ­त्ति­प­रत्वं वाक्यस्य सिद्ध­मि­त्यु­प­सं­ह­रति –
अत इति ।

प्राक्काले पुरुषस्य सद­भि­नि­वे­श­नि­वृ­त्ति­रत्र विवक्षिता चेत्तर्हि नञ्पदमेव प्रयोक्तव्यं किमि­त्य­स­दे­वे­द­मग्र आसीदिति प्रयु­क्त­मि­त्या­श­ङ्क्याऽऽह –
दर्शयित्वा हीति ।

अथवा सदेवेत्यादिना स्वपक्षमुक्त्वा तद्दृ­ढी­क­र­णा­र्थ­त्वे­ना­स­दे­वे­त्या­दि­नाऽ­नु­वा­दोऽ­य­मिति तात्प­र्या­न्त­र­माह –
दर्शयित्वा हीति ।

प्रथमे पक्षे तस्मा­दि­त्या­दि­वा­क्य­स्या­र्था­भा­वा­द्द्वि­तीयः पक्षो गृहीतस्तत्र कार­ण­स्या­स­त्त्व­मु­क्त­मि­दानीं कार्यस्यापि तद्दर्शयति –
तस्मादिति ।

अजायतेति वक्तव्ये कथं श्रुत्या जायतेति प्रयु­क्त­मि­त्या­श­ङ्क्याऽऽह –
अडभाव इति ॥१॥

कुतस्तु खल्वि­त्या­दि­वा­क्या­लो­च­ना­या­मपि द्वितीयः पक्षो ग्राह्य इत्य­भि­प्रे­त्याऽऽह –
तदेतदिति ।

विमतमभावपुरःसरं कार्य­त्वा­द­ङ्कु­र­व­दिति प्रमाणं शङ्कते –
यदपीति ।

अप्र­सि­द्ध­वि­शे­ष­णत्वं मत्वा परिहरति –
तदपीति ।

बीजो­प­म­र्दे­ना­ङ्कु­रो­त्प­त्ते­रि­ष्ट­त्वा­त्क­थ­म­प्र­सि­द्ध­वि­शे­ष­ण­तेति शङ्कते –
कथमिति ।

किम­ङ्कु­रो­त्पत्तौ बीजावयवा उपमृद्यन्ते किं वा बीजा­का­र­सं­स्था­न­मिति विकल्प्याऽऽद्यं प्रत्याह –
ये तावदिति ।

द्वितीयं दूषयति –
यत्पुनरिति ।

तत्किं परमार्थवस्तु किं वा संवृतिसिद्धं ? नाऽऽद्योऽ­भ्यु­प­ग­म­वि­रो­धा­दि­त्युक्तं द्विती­य­मु­त्था­प­यति –
अथ संवृत्येति ।

संवृतिं विकल्पयति –
केयमिति ।

आद्ये भाव­स्या­भा­वा­दु­त्पत्तौ दृष्टान्ताभावः संवृ­ते­र­व­स्तु­त्वेन च बीज­सं­स्था­न­स­त्त्वा­सा­ध­क­त्वा­दि­त्याह –
यदीति ।

द्वितीयमनूद्य दूषयति –
अथेति ।
तत्त्वं यया संव्रियत आच्छाद्यते सा संवृतिर्लौकिकी बुद्धिः सा चेद्भावरूपेष्टा तर्हि तया बीजा­व­य­वा­ना­म­ङ्कु­रा­का­र­प­रि­णा­म­सि­द्धे­र्दृ­ष्टा­न्ता­सि­द्धि­रि­त्यर्थः ।

लौकि­क­बु­द्धि­म­ना­श्रित्य परमतमेवाऽऽदाय शङ्कते –
अवयवा इति ।

अस­त्य­व­य­वि­न्यु­प­म­र्दा­यो­ग­व­द­व­य­वे­ष्वपि तदयोगस्य तुल्यत्वान्नेदं चोद्य­मि­त्यु­त्त­र­माह –
न तदवयवेष्विति ।

तदेव स्फुटयति –
यथेति ।

नन्वस्मत्पक्षे परमावयवी नास्त्यवयवास्तु सन्त्येवेति चेत्तत्राऽह –
बीजावयवानामपीति ।

तर्हि तेषा­म­ङ्कु­र­ज­न्म­न्यु­प­मर्दः स्यादिति चेत्तत्राऽऽह –
तदवयवानामपीति ।
न चाङ्कु­र­ज­न्म­न्य­व­य­व­प­र­म्प­रा­वि­श्रा­न्ति­भू­मि­रु­प­प­द्यते तस्याः शून्यत्वे तदुपमर्दे सत्का­र­ण­वा­दा­पा­तात् । अशून्यत्वेऽपि कार्यत्वे कादा­चि­त्क­द्र­व्यस्य साव­य­व­त्वे­नो­क्त­दो­ष­ता­द­व­स्थ्या­द­का­र्यत्वे भाव­श्चे­दु­प­म­र्दा­सि­द्धि­र­भा­व­श्चे­त्त­दु­प­मर्दे सत्का­र­ण­वा­दा­प­त्ति­रे­वेति भावः ।

अस­द्वा­द­स्या­प्रा­मा­णि­क­त्व­मुक्त्वा सद्वादस्य प्रामाणिकत्वमाह –
सद्बुद्धीति ।

परमते दृष्टा­न्ता­भा­व­मु­क्त­म­नूद्य स्वमते तत्सत्त्वं च समुच्चिनोति –
न त्विति ।

घट­स्या­प्य­भा­वा­दे­वो­त्प­त्ते­रि­ष्ट­त्वा­द्दृ­ष्टा­न्ता­सं­प्र­ति­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
यदीति ।

किं च यद्यस्योपादानं दृष्टं तच्छब्दप्रत्ययौ तत्रानुवर्तेते यथा तथाऽ­भा­व­श्चे­घ­टा­दे­रु­पा­दानं तच्छब्दधियौ तत्रानुवृत्ते स्यातां न चानुवर्तेते तस्मादसतः सदु­त्प­त्ति­र­यु­क्ते­त्याह –
अभावेति ।

भावस्य सतो मृत्पिण्डस्य घटा­दि­का­र­ण­त्व­म­न्व­य­व्य­ति­रे­का­भ्या­मुक्तं तत्रा­न्व­य­व्य­ति­रे­क­यो­र­न्य­था­सि­द्धि­मु­द्भा­व­यति –
यदपीति ।

तस्मिन्नपि पक्षे न मत्प­क्ष­क्ष­ति­रि­त्यु­त्त­र­माह –
तदपीति ।

यदुक्तं सद्रूपाया बुद्धेः सद्रूपां बुद्धिं प्रति कारणत्वमिति तदसिद्धमिति शङ्कते –
मृद्घ­ट­बु­द्ध्यो­रिति ।
सत्त्वसिद्धौ हि पूर्वभावित्वं कारणत्वं कार्यत्वं चोत्तरभावित्वं युक्तं बुद्धीनां चास­त्त्वा­दा­न­न्त­र्य­मा­त्रेण व्यवह्रियते निमि­त्त­नै­मि­त्ति­क­त्व­मि­त्यर्थः ।

असतीनामपि बुद्धी­ना­मा­न­न्त­र्येण निमि­त्त­नै­मि­त्ति­क­त्व­मि­त्ये­तन्न शक्यं सम्भावयितुं दृष्टा­न्ता­भा­वा­दि­त्यु­त्त­र­माह –
न बुद्धीनामिति ।

कुतस्तु खल्वि­त्या­दि­वाक्यं व्याख्या­त­मु­प­सं­ह­रति –
अत इति ।

पूर्वमसतः सदुत्पत्तौ दृष्टान्ताभाव उक्त इदा­नी­म­न्य­दु­प­सं­हृ­तमि शङ्कां वारयति –
असत इति ।
स्वप­क्ष­सि­द्धि­मु­प­सं­ह­र­तीति सम्बन्धः ।

सिद्धान्तेऽपि दृष्टा­न्ता­सि­द्धि­स्तु­ल्येति शङ्कते –
नन्विति ।
यद्यपि मृदो घटो­त्प­त्ति­र्दृष्टा तथाऽपि न मृदो मृदन्तरं घटा­द्घ­टा­न्त­र­मु­त्प­द्य­मा­न­मु­प­ल­भ्यते तस्मान्न सतः सद­न्त­रो­त्प­त्ति­रि­त्यर्थः ।

किं सदन्तरस्य सतः सका­शा­दु­त्प­त्ति­रेव वार्यते किं वा कारणत्वं सतो निराक्रियते तत्राऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

द्वितीयं निराकरोति –
किं तर्हीति ।

तत्रापि दृष्टा­न्ता­भा­व­मा­श­ङ्क्याऽऽह –
यथेति ।

कुण्डलीभावे कार्य­त्व­प्र­सि­द्धि­र्ना­स्ती­त्या­श­ङ्क्यो­दा­ह­र­णा­न्त­र­माह –
यथा चेति ।
प्रभेदैरवतिष्ठत इति सम्बन्धः ।

सत एव सर्व­प्र­का­रे­णा­व­स्थाने प्राक्कालिकं कार्यस्य सत्त्व­व­च­न­म­युक्तं तस्य सर्वदा सत्त्वा­वि­शे­षा­दिति शङ्कते –
यद्येवमिति ।

प्रागवस्थं हि कारणं सन्मात्रत्वं च कार्य­स्या­व­धा­र्यते तथा च कारणस्यैव सतस्तेन तेनाऽऽ­का­रे­णा­व­स्था­न­मि­त्य­ङ्गी­का­रेऽपि कार्यस्य प्राक्कालिकं सत्त्वा­व­धा­र­ण­म­वि­रु­द्ध­मि­त्यु­त्त­र­माह –
नन्विति ।

कार्यस्य कारणमात्रत्वं चेदवधृतं तर्हि कारणमेवाऽऽसीन्न कार्यं तदसदेवेदानीं जात­मि­त्य­स­त्का­र्य­वा­दि­म­त­मा­या­त­मिति शङ्कते –
प्राप्तमिति ।

कारणस्यैव कार्य­रू­पे­णा­व­स्था­ना­न्ना­स­त्का­र्य­वा­दा­प­त्ति­रिति दृष्टान्तेन परिहरति –
नेत्यादिना ।

विम­त­मु­पा­दा­ना­द्भि­द्यते तद्वि­ल­क्ष­ण­बु­द्धि­वि­ष­य­त्वा­द्य­थाऽ­श्व­बु­द्धि­वि­ल­क्ष­ण­बु­द्धि­वि­षयो महिषस्ततो भिद्यते । तथाच कथं सत एवे­दं­धी­वि­ष­या­नि­र्वा­च्या­व­स्था­ङ्गी­का­रे­णा­स­त्का­र्य­वा­दा­प­त्ति­स­मा­धि­रिति चोदयति –
नन्विति ।

विल­क्ष­ण­बु­द्धि­वि­ष­य­त्वस्य भेद­मा­त्र­सा­ध­कत्वे सिद्धसाधनं तात्त्वि­क­भे­द­सा­ध­कत्वे दृष्टा­न्ता­सि­द्धि­रि­त्य­भि­प्रे­त्याऽऽह –
नेति ।

किं च कार्यस्य व्यभिचारित्वेन रज्जु­स­र्पा­दि­व­न्मि­थ्या­त्वा­नु­मा­ना­द­नि­र्वा­च्य­सं­स्था­ना­देव कार्य­बु­या­ल­म्ब­नत्वं सतोऽ­ङ्गी­क­र्त­व्य­मि­त्याह –
पिण्डेति ।

तदेव स्फुटयति –
यद्यपीति ।
मृत्त्वमन्तरेण पिण्डघटयोः स्वरूपाभावादिति तच्छब्दार्थः । अव्यभिचारे मृत्त्व­मि­त्या­दि­दृ­ष्टान्तः ।

अव्यभिचारफलमाह –
तस्मादिति ।

दृष्टा­न्त­ग­त­मर्थं दार्ष्टान्तिके समर्थयति –
एवमिति ।

पृथगेव प्रथमानस्य कार्यस्य कथं सन्मा­त्र­त्व­मि­त्या­श­ङ्क्याऽऽह –
वाचारम्भणेति ।

कार्यमिथ्यात्वं स्फुटीकर्तुं चोदयति –
नन्विति ।

यथा खल्वज्ञातेभ्यो रज्ज्वा­द्य­व­य­वेभ्यः सर्पा­दि­सं­स्था­न­म­नि­र्वा­च्य­मिष्टं तथा श्रुति­ज­नि­त­ज­ग­त्का­र­ण­त्व­बु­द्ध्य­नु­प­पत्त्या कल्पितेभ्यः सतो मायो­पा­धि­क­स्या­व­य­वेभ्यो विका­र­सं­स्था­न­मु­प­प­द्यते तस्मादयं द्वैतप्रपञ्चो ब्रह्मविवर्तः सम्भवतीति परिहरति –
नैष दोष इति ।

ब्रह्मविवर्तो जगदित्यत्र श्रुतिमनुकूलयति –
वाचाऽऽरम्भणमिति ।

प्रप­ञ्च­मि­थ्यात्वे फलितमुपसंहरति –
एकमेवेति ॥२॥

अद्वि­ती­य­त्व­स­म­र्थ­ना­र्थ­मु­त्त­र­वा­क्य­मु­त्थाप्य व्याचष्टे –
तत्सदिति ।

सच्छब्दवाच्यं जगत्कारणं प्रधानमिति केचित्तदप्येतेन निरस्तमित्याह –
अतश्चेति ।
ईक्षा­पू­र्व­का­रि­त्वा­दिति यावत् । अचे­त­न­त्वा­भ्यु­प­ग­मान्न तस्ये­क्षा­पू­र्वकं स्रष्टृत्वमिति शेषः । परि­णा­म­वि­व­र्त­वा­दा­वा­श्रि­त्यो­दा­ह­र­ण­द्व­यम् ।

बहु स्यामि­त्या­दि­श्रु­ति­ता­त्पर्यं वक्तुं निरस्तमेव चोद्यमुद्भावयति –
असदेवेति ।

बहु स्यां प्रजा­ये­ये­त्य­ने­ने­क्षि­तु­रेव कार्या­का­रा­प­त्ति­व­च­नेन वैशे­षि­का­दि­म­त­मे­त­न्नि­र­स्त­मिति श्रुतितात्पर्यं दर्शयन्नुतरमाह –
नेत्यादिना ।

तदेव प्रपञ्चयति –
यथेत्यादिना ।

प्रतिज्ञातमर्थं मतद्वयानुसारेण दृष्टान्ताभ्यां स्पष्टयति –
यथा रज्जुरिति ।
अज्ञा­ना­न्व­य­व्य­ति­रे­काभ्यां रज्जु­स­र्पा­दे­र­ज्ञा­न­म­यत्वे च द्वैता­भि­नि­वे­शस्य सन्मात्राविवेके सत्ये­वो­त्प­त्ते­र्वि­चा­रेण तद्विवेके चानु­त्प­त्ते­र्द्वै­त­म­प्य­ज्ञा­न­म­य­मेव तस्य तु तत्त्वं सन्मा­त्र­म­धि­ष्ठानं वाङ्म­न­सा­ती­त­मि­त्यर्थः ।

तस्य वाङ्मनसातीतत्वे प्रमाणमाह –
यत इति ।
अन्यदेव तद्वि­दि­ता­दि­त्या­दि­वा­क्य­मा­दि­प­दार्थः ।

तैत्ति­री­य­क­श्रु­ति­वि­रो­ध­मा­श­ङ्कते –
नन्विति ।

तथाऽपि कथं विरो­ध­धी­रि­त्या­श­ङ्क्याह –
इति विरुद्धमिति ।
अस्यां श्रुतौ सतः सकाशादेव प्राथम्येन तेजः सृज्यमानमुच्यते श्रुत्यन्तरे तु तस्मादेव सतः सकाशादाकशं प्राथम्येन सृष्ट­मि­त्यु­प­दिष्टं तथा च कथमिदं मिथो विरुद्धं सिद्ध्य­ती­त्यर्थः ।

तैत्ति­री­य­क­श्रु­त्य­नु­सा­रेण च्छान्दो­ग्य­श्रु­ते­र्व्या­ख्या­न­स­म्भ­वान्न विरोधोऽस्तीति परिहरति –
नैष दोष इति ।

सृष्टिक्रमस्य विव­क्षि­त­त्व­म­ङ्गी­कृ­त्योक्तं तदेव नास्त्य­द्वि­ती­यत्वं तु सतो विवक्षितमिति पक्षा­न्त­र­मा­श्रि­त्याऽऽह –
अथ वेति ।

तत्र गमकं दर्शयति –
मृदादीति ।
मृदादिकार्यं घटा­दि­त­द्व्य­ति­रे­केण नास्ति मृदाद्येव तु सत्य­मि­ति­दृ­ष्टान्ते अपा­दा­ना­द्ब्र­ह्मणः सत­स्ते­जो­ब­न्ना­दि­कार्यं तदतिरेकेण नास्ति सन्मात्रमेव सत्यमिति दार्ष्टा­न्ति­केऽपि विवक्षितं प्रति­भा­ती­त्यर्थः ।

तत्ते­जोऽ­सृ­ज­ते­त्या­दि­श्रु­ते­स्ता­त्प­र्या­न्त­र­माह –
अथवा त्रिवृ­त्क­र­ण­स्येति ।
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीत्यादौ त्रिवृ­त्क­र­ण­स्ये­ष्ट­त्वात् त्रयाणामेव भूतानामिह सृष्टिरुच्यते । न चैवं पञ्ची­क­र­ण­म­वि­व­क्षि­त­मिति वाच्यम्, भूत­त्र­य­सृ­ष्टि­श्रुतौ श्रुत्य­न्त­र­सि­द्धा­का­शा­दि­सृ­ष्टे­रु­प­ल­क्ष­ण­वत् त्रिवृ­त्क­र­ण­श्रुत्या पञ्ची­क­र­णो­प­ल­क्ष­णात् । तथा च श्रुत्य­न्त­र­सि­द्ध­यो­रा­का­श­वा­य्वो­स्ते­जः­प्र­भृ­ति­ष्व­न्त­र्भा­व­म­भि­प्रेत्य लघूपायेन सर्वस्य सन्मात्रत्वं मन्तव्यमिति मन्वाना श्रुति­स्त्रि­वृ­त्क­र­ण­मे­वाऽऽ­च­क्षाणा तदनुरोधेन त्रयाणामेव सृष्टि­मा­हे­त्यर्थः ।

तेजसोऽचेतनस्य कथ­मी­क्षि­तृ­त्व­मि­त्या­शङ्क्य वाक्यार्थमाह –
तेजोरूपेति ।

अपां तेजःकार्यत्वे लोका­नु­भ­व­म­नु­कू­ल­यति –
यस्मादिति ॥३॥

पृथि­व्या­म­न्न­श­ब्द­प्र­योगे हेतुमाह –
पार्थिवं हीति ।

अपां कार्य­म­न्न­मि­त्य­त्रापि लोकप्रसिद्धिं दर्शयति –
यस्मादिति ।

ता अन्न­म­सृ­ज­न्ते­त्य­त्रा­द्भ्योऽ­न्न­सृ­ष्टि­रु­प­दिष्टा दृष्टान्तेऽपि ताभ्य­स्त­त्सृ­ष्टि­रु­प­दि­श्यते तथा च पौन­रु­क्त्य­मि­त्या­श­ङ्क्या­र्थ­वि­शेषं दर्शयति –
अन्नमिति ।

तत्तेज ऐक्षतेत्यादौ यथाश्रुतमर्थं गृहीत्वा चोदयति –
नन्विति ।
प्राणिषु हिंसा­प्र­ति­षे­ध­व­द­नु­ग्र­ह­वि­धा­न­वच्च तेजःप्रभृतिषु तद­भा­वा­त्ते­ष्वी­क्ष­ण­का­र्य­दृ­ष्टि­व­दे­तेषु तद्दृ­ष्ट्य­भा­वाच्च नैतेष्वीक्षणं प्रामाणिकं तथा च प्रकृतं प्रम­त्त­गी­त­मि­त्यर्थः ।

तेषां गौण­मी­क्षि­तृ­त्व­मु­पेत्य परिहरति –
नैष दोष इति ।

सतोऽपि गौण­मी­क्ष­ण­मु­प­चा­र­प्राये पाठादिति शङ्कते –
नन्विति ।

सन्निधेः शब्दस्य बली­य­स्त्व­मु­पेत्य परिहरति –
न सदीक्षणस्येति ।

तुल्यं तेजः­प्र­भृ­ति­ष्वपि शब्द­ग­म्य­त्व­मी­क्ष­ण­स्येति चेन्नेत्याह –
तेजःप्रभृतीनां त्विति ।
विमतमीक्षितृ न भव­त्य­चे­त­न­त्वा­त्कु­म्भ­व­दि­त्य­नु­मा­ना­त्ते­जो­मुखे जग­ती­क्ष­णा­स­म्भ­वा­त्तत्र श्रुतं तदौ­प­चा­रि­क­मु­चि­त­मि­त्यर्थः ।

साङ्ख्योऽ­नु­मा­ना­व­ष्ट­म्भेन शङ्कते –
नन्विति ।

अचेतनस्य कथ­मी­क्ष­ण­मि­त्या­श­ङ्क्याऽऽह –
अत इति ।
अनुमातुं कल्पयितुमिति यावत् ।

कथमचेतने चेत­न­व­दु­प­चा­र­स्त­त्राऽऽह –
दृष्टश्चेति ।

आत्म­श­ब्दा­व­ष्ट­म्भेन परिहरति –
नेत्यादिना ।

आत्मोपदेशोऽपि प्रधाने ग्राणी भविष्यतीति शङ्कते –
आत्मोपदेशोऽपीति ।

तामेव शङ्कां दृष्टान्तद्वारा विवृणोति –
यथेति ।

इदं परि­ह­र­न्न­स्मि­न्ना­त्मो­प­देशो गौणो न भवति तन्निष्टस्य मोक्षो­प­दे­शा­दि­त्यु­त्त­र­माह –
नेत्यादिना ।

मोक्षो­प­दे­शोऽ­प्यु­प­च­रितो भविष्यतीति शङ्कते –
सोऽपीति ।

शङ्कामेव विवृणोति –
प्रधानात्मेति ।

एकविज्ञानेन सर्व­वि­ज्ञा­नो­प­दे­श­मा­श्रित्य परिहरति –
न येनेति ।

उक्तमेव विवृणोति –
सत्ये­क­स्मि­न्निति ।

सतोऽन्यस्य ज्ञात­व्य­स्या­प्रा­मा­णि­क­त्वाच्च सतो ज्ञाने सर्वज्ञानोपदेशो युक्तिमानित्याह –
न चेति ।

सम्प्रति [साङ्ख्यै]हि प्रधानज्ञाने तद्विकारस्य तदभिन्नस्य ज्ञानं तस्य च पुरु­षा­र्थ­त्वा­त्त­ज्ज्ञाने पुरुषाणामपि ज्ञानमुपचर्यते । तस्मा­दे­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­नो­प­दे­शान्न मोक्षो­प­दे­श­मु­ख्य­त्व­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
सर्वस्य चेति ।

कथमुपनिषदारम्भो वृथेत्युच्यते पुम­र्थ­सा­ध­न­ज्ञा­ना­र्थ­त्वा­दि­त्या­श­ङ्क्याऽऽह –
पुरुषार्थेति ।
तस्या­नु­मा­न­वा­दिनः साङ्ख्यस्य मते मुक्ति­हे­तो­र्ज्ञा­नस्य जडा­ज­ड­यो­रै­क्या­नु­प­प­त्ति­रि­त्या­दिना तर्केणैव सिद्ध­त्वा­दु­प­नि­ष­दा­रम्भो वृथैवेत्यर्थः ।

श्रुते­र्मु­ख्या­र्थत्वे बाध­का­भा­वा­त्त­त्प­रि­त्या­गा­यो­गा­दी­क्ष­त्य­धि­क­र­ण­न्या­येन प्रधा­न­वा­दा­सि­द्धि­रिति पर­म­त­नि­र­स­न­मु­प­सं­ह­रति –
तस्मादिति ।

प्रधा­न­वा­दा­स­म्भवे परिशेषायातं स्वमतं निगमयति –
अत इति ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य द्वितीयः खण्डः ॥

महा­भू­ता­ना­म­चे­त­नानां ब्रह्म­का­र्य­तोक्ता सम्प्रति जीवाविष्टानां भौतिकानामपि परम्परया ब्रह्म­का­र्य­तै­वेति वक्तुं तान्यनुवदति –
तेषामिति ।
पूर्वाध्याये येषां गत्यागती दर्शिते तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसि­द्ध­त्व­द्यो­त­नार्थं खल्वित्युक्तम् । भूतानां त्रीण्येव बीजानि भव­न्ती­त्यु­त्त­रत्र सम्बन्धः ।

भूतशब्दस्य तेजःप्रभृतिषु रूढ­त्वा­त्ते­षा­मिह ग्रहणं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
एषामितीति ।
भूतानां प्रत्य­क्ष­त्व­मे­षा­मिति निर्दिश्यते । सम्भवति च पक्ष्यादीनां प्रत्यक्षतेति तान्येवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्य­क्ष­त्वा­यो­गा­दि­त्यर्थः ।

तेजःप्रभृतीनां प्रत्य­क्ष­त्वा­यो­गा­दे­षा­मिति निर्दे­शा­नु­प­पत्तिं समर्थयते –
तेषामिति ।

तेषां प्रत्यक्षतया निर्देशासम्भवे हेत्वन्तरमाह –
देवताशब्देति ।
देवतानां परो­क्ष­त्व­प्र­सि­द्धे­रे­तेषु च देव­ता­प­द­प्र­यो­गा­न्नै­तेषां प्रत्य­क्ष­त्वो­प­प­त्ति­रि­त्यर्थः । तस्मा­न्म­हा­भू­ता­ना­मत्र भूत­श­ब्दे­नो­पा­दा­ना­यो­गा­दि­त्यर्थः ।

आण्डजं पक्ष्या­दी­त्ये­त­त्प्र­त्य­क्षे­णो­प­पा­द­यति –
पक्षि­स­र्पा­दिभ्यो हीति ।
अन्यदपीति गोधाद्युच्यते ।

अण्डा­ज्जा­त­मि­ति­व्यु­त्प­त्त्य­नु­सा­रे­णा­ण्ड­मेव बीजं न त्वण्डजमिति शङ्कते –
नन्विति ।

पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति –
सत्यमित्यादिना ।

न केवलं श्रुतेरेषा व्यवस्था किन्तू­प­प­त्ते­श्चे­त्याह –
दृश्यते चेति ।
सत्येवाण्डजादौ तज्जा­ती­य­म­ण्ड­जादि सन्तत्या जायते तदभावे तदभाव इत्य­न्व­य­व्य­ति­रे­का­भ्या­म­ण्ड­जा­द्य­वा­ण्ड­ज­जा­ति­का­र­णम् । यद्य­प्व­ण्डा­द्य­भावे नाण्डजादि जायते तथाऽ­प्य­ण्डा­दि­भा­वेऽ­ण्ड­जा­द्य­भा­वेऽपि तद्भवतीति नान्वयः । तस्मा­द­ण्ड­जा­दी­ना­म­ण्ड­जा­न्येव बीजानि नाण्डा­दी­नी­त्यर्थः । धानाशब्दो बीजविषयः ।

ननु स्वेदजं संशोकजमिति बीज­द्व­य­म­व­शि­ष्यते तत्किमिति न व्युत्पाद्यते तत्राऽऽह –
स्वेदजेति ।
स्वेदमुद्भिद्य जायमानं दंशमशकादि तदु­द्भि­ज्जेऽ­न्त­र्भ­वति । संशो­का­दौ­ष्ण्या­ज्जा­य­मानं यूकादि तद­ण्ड­जेऽ­न्त­र्भ­वति । यद्वा स्वेदजं यूकादि तद­ण्ड­जेऽ­न्त­र्भूतं संशो­का­दौ­ष्ण्या­द्भू­मि­मु­द्भिद्य जातं मशकादि तस्यो­द्भि­ज्जेऽ­न्त­र्भावः । तथा च न तयोरस्ति पृथ­ग्व्यु­त्पा­द­ना­पे­क्षे­त्यर्थः ।

स्वेद­जा­दे­र­ण्ड­जा­दा­व­न्त­र्भा­वस्य प्रापकमाह –
एवमिति ॥१॥

जीवाविष्टानां भूतानां सत्कार्यत्वं प्रक­र­ण­प्रा­मा­ण्या­दु­क्त­मि­दानीं जीवानां विशिष्टरूपेण ब्रह्म­का­र्य­त्वेऽपि न स्वरूपेण तत्कार्यत्वं ब्रह्मै­वो­पा­धि­प्र­विष्टं जीव­व्य­व­हा­रा­स्प­द­मि­त्य­ङ्गी­का­रा­त्तथा च ब्रह्मणि विज्ञाते जीवविज्ञानं सेत्स्यति जीवानां च भोगायतनानि भौतिकानि कार्याणि तेषां नामरूपनिर्माणं वक्त­व्य­मि­त्य­भि­प्रे­त्यो­त्त­र­ग्र­न्थ­मा­दाय व्याकरोति –
सेयमित्यादिना ।

यथा बहु स्यामिति पूर्वमीक्षितवती तथा किमिति पुनरैक्षत प्रयो­ज­ना­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
ह्रदेवेति ।
इदानीं महा­भू­त­सृ­ष्टे­र­न­न्त­र­मिति यावत् । ब्रह्मणो मायोपाधिकस्य कार­ण­त्वा­न्मा­यो­पा­धि­व­शा­त्पू­र्व­सृ­ष्टा­व­नु­भू­तत्वं तत्संस्कारस्य बुद्धिस्थत्वं स्मरणं चेत्यादि न विरुद्धमिति द्रष्टव्यम् ।

आत्म­ने­ति­वि­शे­ष­णस्य तात्पर्यमाह –
प्राणेति ।

निर्वि­क­ल्प­क­चि­न्मा­त्र­रूपा देवता माया­व­शा­न्म­हा­भू­तानि सृष्ट्वा तेषु यदा प्रविष्टा तदा तदारब्धेषु सूत्र­वि­रा­ट्प्र­भृ­तिषु सम­ष्टि­व्य­ष्ट्या­त्मसु देहेषु प्रविश्य तत्त­द्दे­हा­भि­मा­न­वती देव­द­त्ता­दि­नाम्ना रूपेण च शौक्ल्यादिना संबोज्य पिण्डं व्याकरोतीत्याह –
अनुप्रविश्येति ।

देवतायाः सर्व­ज्ञ­त्वा­द­सं­सा­रि­त्वा­त्स्वा­त­न्त्र्याच्च सङ्क­ल्प­प्र­वे­शा­व­यु­क्ता­विति शङ्कते –
नन्विति ।

किं साक्षा­द­नु­प्र­वे­शादि विरुध्यते किं वा जीवद्वाराऽपीति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

साक्षा­द­नु­प्र­वे­शादि नास्ति चेत्तर्हि कथं तदि­त्या­का­ङ्क्षा­पू­र्वकं द्वितीयं दूषयति –
कथमिति ।
देवताया जीव­द्वा­रे­णा­नु­प्र­वे­शा­द्य­वि­रु­द्ध­मिति शेषः ।

अविरोधमेव साधयितुं जीवस्वरूपमाह –
जीवो हीति ।
आभि­मु­ख्ये­ना­ह­मि­त्या­प­रो­क्ष्येण भासत इत्याभासः स्वतोऽ­प­रो­क्ष­श्चि­त्प्र­ति­बि­म्ब­स्त­न्मात्रं जीवो नामेत्यर्थः ।

तस्य स्वरू­पे­णा­ना­दि­त्वेऽपि विशिष्टरूपेण सादित्वं दर्शयति –
बुद्ध्यादीति ।
बुद्ध्या­दि­भि­र्भू­त­मा­त्रा­दि­भिश्च चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् ।

ननु चिदात्मा कूट­स्थोऽ­स­ङ्गोऽ­द्वि­ती­य­श्चे­ष्यते स कथं बुद्ध्या­दि­भि­र्भू­त­मा­त्रा­दि­भिश्च चिदात्मनः संसृज्यते तत्राऽऽह –
अचिन्त्येति ।
सत्त्वा­दि­प्र­का­रै­र­श­क्य­चि­न्त­नी­याऽ­ना­दि­र­नि­र्वाच्या सम्य­ग्ज्ञा­न­म­न्त­रेण नाशशून्या दण्डायमाना या माया­श­क्ति­स्तस्या विष­य­त्वे­नाऽऽ­ना­श्र­य­त्वेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनि­ष्ठ­मा­या­श­क्ति­व­शा­द्बु­द्ध्या­दि­भि­रा­त्मनः सम्बन्धः सिद्ध्य­ती­त्यर्थः ।

बुद्ध्या­दि­स­म्ब­न्ध­फ­ल­माह –
चैतन्येति ।
तदाभासो जीवशब्दवाच्यः सिद्ध्यतीति शेषः ।

बुद्ध्या­दि­भि­रा­त्मनः सम्बन्धे माया­श­क्ति­रु­पा­दा­न­मि­त्युक्तं तत्रैव निमित्तकारणमाह –
देवतेति ।
आव­र­ण­वि­क्षे­प­श­क्ति­स­म्पन्ना हि माया­श­क्ति­स्त­तोऽ­वि­द्यो­त्थ­दे­श­का­ला­द्य­न­व­च्छि­न्न­दे­व­ता­स्व­रू­पोऽ­ह­मि­ति­वि­शे­षा­ग्र­ह­ण­मा­व­रणं निमित्तं कृत्वा बुद्ध्या­द्य­ध्यासः सिद्ध्य­ती­त्यर्थः ।

बुद्ध्या­द्य­ध्या­सस्य कर्यान्तरं दर्शयति –
सुखेति ।

परैव तर्हि देवता संसारिणी स्यादिति चेत्स­त्य­म­ज्ञा­न­द्वारा बुद्ध्या­दि­स­म्ब­न्ध­म­नु­भूय जीवत्वं प्राप्य सैव संसरतीत्याह –
छायामात्रेणेति ।

परस्या देवतायाः स्वतःसंसाराभावं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।

तस्याः स्वतो दुःखा­द्य­स­म्बन्धे श्रुतिं प्रमाणयति –
सूर्य इति ।

उपाधिद्वारा तस्याः संसारित्वे च श्रुति­र­स्ती­त्याह –
ध्यायतीति ।

प्रतिबिम्बे छाया­श­ब्द­प्र­यो­गा­न्मि­थ्या­त्व­मि­ष्ट­मिति मन्वानः शङ्कते –
नन्विति ।

तन्मृ­षा­त्व­मि­ष्ट­मे­वे­त्या­श­ङ्क्याऽऽह –
तथेति ।
जीवस्य मृषात्वे स्वीकृते सति तस्येहलोकपरलोकौ तद्धे­तु­र्मो­क्ष­स्त­द्धे­तु­श्चेति सर्वं मृषा स्यादित्यर्थः ।

विशिष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्य­त्वा­ज्जी­वस्य ब्रह्मा­स्मी­ति­ज्ञा­ना­न्मुक्तिः सम्भवतीति समाधत्ते –
नैष दोष इति ।

यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह –
सर्वं चेति ।

कथं तर्हि तस्य मिथ्या­त्वो­क्ति­रि­त्या­श­ङ्क्याऽऽह –
स्वत इति ।

यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण मिथ्येत्युक्तं तथा जीव­श­ब्द­वा­च्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीक­र्त­व्य­मि­त्याह –
तथेति ।

अथ भोक्ता स्वरूपेणापि सत्योऽस्तु भोग्य­प्र­प­ञ्च­स्यैव मिथ्या­त्व­मि­ष्य­ता­मि­त्या­श­ङ्क्याऽऽह –
यक्षानुरूपो हीति ।
लौकि­क­न्या­या­नु­सा­रेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्वसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्वेऽपि तल्लक्ष्यस्य सन्मात्रस्य सत्यत्वमिति व्यवस्थेत्यर्थः ।

यच्च तार्किकैरुच्यते प्रपञ्चस्य मिथ्यात्वे सौगतमतानुमतिः सत्यत्वे चाद्वै­त­व्या­ह­ति­रि­त्युक्तं तद­प्यु­क्त­न्या­येन निरस्तमित्याह –
अत इति ।

अद्वैतवादे दोषाभावं वैध­र्म्य­दृ­ष्टा­न्तेन स्पष्टयति –
यथेति ॥२॥

व्याक­र­वा­णी­त्ये­त­दन्तं वाक्यं व्याख्याय तदनूद्य तासामित्यादि व्याचष्टे –
सैवमित्यादिना ।
व्याक­र­वा­णी­त्यै­क्ष­तेति सम्बन्धः ।

कथं पुनरिदं त्रिवृ­त्क­र­ण­मि­त्या­शङ्क्य प्रथममेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकभागं द्विधा द्विधा कृत्वा तदि­त­र­भा­ग­यो­र्नि­क्षिप्य त्रिवृत्करणं विवक्षितमित्याह –
एकैकस्या इति ।

गुण­प्र­धा­न­भा­वा­न­ङ्गी­कारे समा­न­प­रि­मा­ण­सू­त्र­त्र­य­नि­र्मि­त­र­ज्जु­व­त्त्रि­वृ­त्क­र­ण­मे­क­मेव स्यादित्याह –
अन्यथेति ।

एवकारार्थं दर्शयति –
न त्विति ।
गुणप्रधानभावेन त्रिवृ­त्क­र­ण­मु­प­सं­ह­र्तु­मि­ति­शब्दः ।

इतश्च गुणप्रधानभावेन त्रिवृ­त्क­र­ण­मे­ष्ट­व्य­मि­त्याह –
एवं हीति ।

पृथ­ङ्ना­म­प्र­त्य­य­ला­भे­नापि किं स्यादि­त्या­श­ङ्क्याऽऽह –
पृथगिति ।

सेयमित्यादि व्याचष्टे –
एवमित्यादिना ॥३॥

संक्षेपेण त्रिवृत्करणं प्रति­ज्ञा­यो­दा­ह­र­णतः स्फुटी­क­र्तु­मा­र­भ­माणो देहे त्रिवृ­त्क­र­ण­स्याग्रे स्फुटी­क­र्त­व्य­त्वा­द्दे­हा­ति­रि­क्तेषु प्रथमं तदु­दा­ह­र्तु­मु­प­क्र­मते –
तिष्ठतु तावदिति ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य तृतीयः खण्डः ॥

कथ­मु­दा­ह­र­ण­तोऽ­व­धा­र­ण­मि­त्या­श­ङ्क्या­न­न्त­र­वा­क्य­म­व­ता­र­यति –
यत्तदिति ।

उदाहरणशब्दं व्युत्पादयति –
उदाहरणं नामेति ।

तत्रैव श्रुतिमवतार्य व्याचष्टे –
तदेतदित्यादिना ।
अत्रि­वृ­त्कृ­तानां रूपमिति विद्धीति सम्बन्धः । तत्राग्नौ रूपत्रये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवे­क­द­शा­या­मि­त्यर्थः ।

अक्ष­रा­र्थ­मुक्त्वा वाक्य­ता­त्प­र्या­र्थ­माह –
प्रागिति ।

रूप­त्र­य­वि­वे­का­त्प्रा­ग­व­स्था­या­म­ग्नि­श­ब्द­बुद्धी तद्वि­वे­का­दूर्ध्वं तन्नि­वृ­त्ति­रि­त्ये­त­मर्थं दृष्टान्तेन समर्थयते –
यथेत्यादिना ।

अग्निविषये श्रुतं हित्वाऽ­धि­क­क­ल्प­नायां नास्ति निबन्धनमिति शङ्कते –
नन्विति ।

रोहि­ता­दि­रू­प­त्र­य­वि­वेके सत्य­ग्ने­र­ग्नि­त्व­म­प­ग­च्छ­ती­त्यत्र दृष्टान्तमाह –
यथेति ।

शब्द­बु­द्धि­प्र­क्षे­पेऽपि न श्रुत­त्या­गोऽ­स्तीति परिहरति –
नैवमिति ।

तत्र प्रमा­ण­त्वे­ना­न­न्त­र­वा­क्य­मा­दाय व्याचष्टे –
यत इति ।
अग्ने­र्ना­म­मा­त्र­त्व­म­तः­श­ब्दार्थः ॥१॥

प्रक्र­म­प­र्या­लो­च­ना­या­मु­दा­ह­रणे न्यूनत्वमस्तीति शङ्कते –
नन्विति ।

यद्वापीकूपादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तद­न्न­स्ये­त्यु­दा­ह­र­ण­स­म्भ­वान्न न्यूनतेति परिहरति –
नैष दोष इति ।

तर्हि तेजो­वि­ष­य­म­प्यु­दा­ह­र­ण­मू­ह­नीयं किमि­त्यु­दा­हृ­त­मि­त्या­श­ङ्क्याऽऽह –
तेजस इति ।
यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्ये­द­ग्ने­स्त्र­याणां रूपत्त्वेन यथो­क्त­रू­प­वि­भा­गस्य तेषु स्फुट­त्व­स­म्भ­वा­त्ते­जसो दृष्टा­न्त­प्र­द­र्श­न­म­न्ना­दि­वि­ष­यो­दा­ह­र­णो­प­ल­क्ष­णार्थं, तेन नोपे­क्षि­त­मि­त्यर्थः ।

अबन्नयोरपि त्रिवृ­त्क­र­ण­मु­प­ल­क्षितं चेत्तर्हि तत्र रस­ग­न्ध­यो­र­सा­धा­र­ण्या­त्त­यो­स्त्रि­वृ­त्क­र­ण­मु­दा­ह­र्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
गन्धरसयोरिति ।
यथा यद­ब­न्न­यो­र्भा­स्वरं लोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति शक्यते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेज­सोऽ­पा­म­ग्ने­श्चा­स्तीति ज्ञातुं शक्य­मि­त्य­नु­दा­ह­रणं तयोरित्यर्थः ।

ननु त्रिवृत्करणे त्रिष्वपि रूपवद्गन्धरसौ सम्भावितौ तत्कथं तयो­स्र­या­णा­म­स­म्भ­वो­क्ति­स्त­त्राऽऽह –
न हीति ।
सम्भावितावपि तौ त्रिषु विवे­क्तु­म­श­क्या­वि­त्य­नु­दा­ह­र­णी­या­वि­त्यर्थः ।

तर्हि सर्वेषु भूतेषु सम्भावितयोः स्पर्श­श­ब्द­यो­रु­दा­ह­रणं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
स्पर्श­श­ब्द­यो­रिति ।
यथा लोहि­ता­दि­रू­प­त्रयं त्रयाणां विभागेन दर्शयितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्रयाणां विभागेन दर्शयितुं शक्यं, नो खल्वे­क­त्रो­ष्ण­शी­ता­नु­ष्णा­शी­त­स्प­र्श­त्रयं दृश्यते नापि खर­म­धु­र­म­ध्य­म­श­ब्द­त्र­य­मे­क­त्रो­प­ल­ब्ध­मि­त्यर्थः ।

सर्वस्य त्रिवृत्कृतत्वे फलितमाह –
यदीति ।
यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृ­त्कृ­त­मि­त्य­ङ्गी­कृतं तदाऽ­ग्ने­र­ग्नि­त्व­व­ज्ज­गतो जगत्त्वमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना ।

तथाऽपि कथं सन्मात्रपरिशेषः स्यादि­त्या­श­ङ्क्याऽऽह –
तथेति ।
रूप­त्र­य­व्य­ति­रे­केण जग­तोऽ­भा­व­व­त्कृ­ष्ण­स्यापि रूपस्य पृथिवीशब्दितस्य शुक्ल­रू­प­मा­त्र­ज­ल­का­र्य­त्वा­त्त­द­ति­रे­के­णा­सत्त्वं पृथिवीवदपामपि शुक्ल­रू­प­मा­त्राणां लोहि­त­रू­प­मा­त्र­ते­जो­वि­का­र­त्वा­त्त­द्व्य­ति­रे­के­णा­भा­व­स्त­स्यापि सत्का­र्य­त्वा­त्ततो भेदेनासत्त्वं सन्मात्रमेव परि­शि­ष्ट­मि­त्ये­त­त्त्रि­वृ­त्क­र­ण­प्र­क­रणे विव­क्षि­त­मि­त्यर्थः ।

त्रिवृ­त्क­र­ण­पक्षे नैकविज्ञानेन सर्वविज्ञानं सिद्ध्यति परि­शि­ष्ट­वि­ज्ञे­य­स­द्भा­वा­दिति शङ्कते –
नन्विति ।
इतिपदं कथमित्यादिना सम्बध्यते ।

गन्धादयश्च शब्दान्ता गुणा गुणि­श्व­न­न्त­र्भूताः सन्तीति न सद्विज्ञानेन तद्वि­ज्ञा­नो­प­प­त्ति­रि­त्याह –
गन्धेति ।
तद्विज्ञाने = सद्विज्ञानेन वाय्वा­दि­वि­ज्ञाने, तत्र प्रकारान्तरं तत्का­र्य­त्वा­द­ति­रि­क्त­मिति यावत् ।

आका­शा­दे­स्त्रि­ष्वे­वा­न्त­र्भा­व­स­म्भ­वान्न परि­शि­ष्ट­वि­ज्ञे­य­म­स्तीति परिहरति –
नैष दोष इति ।

कथं तेजोबन्नेषु सर्वस्य आका­शा­दे­र्द­र्श­न­मि­त्याह –
कथमिति ।

तत्र शब्द­स्प­र्श­यो­रा­का­श­वा­य्वोश्च भूतत्रये प्रत्य­क्षा­नु­मा­ना­भ्या­मु­प­लब्धिं दर्शयति –
तेजसीति ।

तेजो­ग्र­ह­ण­म­ब­न्न­यो­रु­प­ल­क्षणं तत्रापि स्पर्शा­द्यु­प­ल­ब्धे­र­वि­शे­षा­द्यत्तु गन्धादि ज्ञेयान्तरमिति तत्राऽऽह –
तथेति ।
भूतत्रये स्पर्शा­द्य­न्त­र्भा­व­व­दिति यावत् ।

त्रिष्वे­वा­न्त­र्भावे फलितमाह –
रूपवतामिति ।

भूतत्रये रूप­व­त्या­का­शा­दे­र­न्त­र्भावं व्यतिरेकद्वारा समर्थयते –
न हीति ।

अन्त­र्भा­वो­क्ति­प्र­यासं परिहर्तुं पक्षान्तामाह –
अथवेति ।
प्रदर्शनार्थं पञ्चीकरणस्येति शेषः ।

कथं पञ्चीकरणे सन्मात्रपरिशेषः सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह –
यथेति ।
यदा पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरेकैकं भागं चतुर्धा कृत्वा स्वभा­गा­ति­रि­क्तेषु पूर्वेषु भागेष्वेकैकशो निक्षिप्यते तदा पञ्चीकरणं श्रुत्यु­प­ल­क्षितं लभ्यते तत्रापि पञ्चानां भागानां पृथक्करणे पञ्चैव तन्मा­त्रा­ण्य­व­शि­ष्यन्ते तान्यपि पृथि­व्या­दी­न्य­बा­दि­का­र्य­त्वा­त्त­त्त­त्का­र­ण­व्य­ति­रे­केण न सिद्ध्यन्तीति त्रिवृ­त्क­र­ण­व­त्प­ञ्ची­क­र­णेऽपि न्याय­सा­म्या­त्स­र्वस्य सद्वि­का­र­त्वा­त्त­द्व्य­ति­रे­के­णा­भा­वा­त्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः ।

उक्त­न्या­ये­नै­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­श्रु­ति­र­वि­रु­द्धे­त्यु­प­सं­ह­रति –
तदेकस्मिन्निति ॥२-३-४॥

त्रिवृ­त्क­र­ण­प­क्षेऽ­प्ये­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­श्रु­ति­वि­रु­द्धे­त्यु­प­पाद्य त्रिवृ­त्क­र­ण­मु­दा­ह­र­णा­न्त­रेण दर्शयितुमारभते –
एतदिति ।
त्रिवृत्करणमिति यावत् । ते पुनरिति त्रिवृ­त्क­र­ण­वि­ज्ञा­न­वन्तो निर्दिश्यन्ते ॥५॥

वेद­न­प्र­का­र­मे­वाऽऽ­का­ङ्क्षा­पू­र्वकं प्रकटयति –
कथमित्यादिना ।
अन्य­द­ग्न्या­दिभ्यः सकाशादिति शेषः ।
यद­ने­क­रू­प­त्वा­त्क­पो­ता­दि­रू­पेण सन्दि­ह्य­मा­न­मे­त­द्दृ­श्यते तस्मि­न्क­पो­ता­दि­स्व­रूपे यत्कि­ञ्चि­द्रो­हि­त­मिव रूपं गृह्यमाणं पूर्वे­षा­मा­सी­त्त­त्ते­जसो रूपमिति ते विदितवन्त इति योजना । अत्य­न्त­दु­र्लक्ष्यं नामरूपाभ्यां दुर्ज्ञानं द्वीपान्तरागतं पक्ष्या­दी­त्यर्थः ।

अगृह्यमाणमिति च्छेदः यथा नु खल्वि­त्या­दि­वाक्यं वृत्ता­नु­वा­द­पू­र्व­क­म­व­ता­र­यति –
एवं तावदिति ।
यथा खल्वेकैका देवता पुरुषं प्राप्य त्रिवृ­त्त्रि­वृ­द्भ­वति तथेदानीं तदाध्यात्मिकं त्रिवृ­त्क­र­ण­मे­व­मे­वेति जानीहीति सम्बन्धः । आध्यात्मिकं त्रिवृत्करणमिति शेषः ॥६-७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य चतुर्थः खण्डः ॥

कथं त्रिधा विभज्यमानत्वं कथं वा तस्य विनियोग इति प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।
रसा­दी­त्या­दि­श­ब्देन रुधिरादि गृह्यते । तस्य कर्मफलस्य नाडीचरो भोक्तेति हिताख्या नाड्यस्तास्विति यावत् ।

कथ­म­न्नो­प­यो­गा­त्प्रा­गेव मनसः सिद्ध­त्वा­त्त­न्मनो भवतीत्युच्यते तत्राऽऽह –
मनोरूपेणेति ।

मन­सोऽ­न्नो­प­चि­त­त्व­व­च­ना­द्वै­शे­षि­क­प­रि­भा­वाऽपि दूषिता वेदितव्येत्याह –
ततश्चेति ।

मनसो दैव­त्व­वि­शे­ष­णा­न्नि­त्य­त्व­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
यदपीति ।

केनाभिप्रायेण तर्हि विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह –
किं तर्हीति ।

तर्हि चक्षुरादिभ्यो वैलक्षण्यादस्ति तदपेक्षया नित्य­त्व­मि­त्या­श­ङ्क्याऽऽह –
यच्चेति ।

यद्वा चक्षु­रा­दि­ष्व­स­त्स्वपि मनसः सत्त्वो­प­ल­म्भा­त्त­द­पे­क्षया तस्य नित्य­त्व­मे­ष्ट­व्य­मि­त्या­श­ङ्क्याऽऽह –
यच्चेति ।

आत्मवन्मनसो नित्यत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
सदिति ॥१॥

भुक्तस्यान्नस्य त्रैवि­ध्य­मुक्त्वा पीतानामपामपि त्रैविध्यमाह –
तथेति ॥२॥

कथं तेज­सोऽ­ग्न्या­दि­त्या­दे­र­श­न­मि­त्या­शङ्क्य विशिनष्टि –
तैलेति ।

मज्जा­श­ब्दा­र्थ­माज –
अस्थीति ।

योऽणिष्ठः सा वागित्युक्तं व्यक्तीकरोति –
तैलघृतादीति ॥३॥