अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

षष्ठोऽध्यायः: प्रथमः खण्डः (२)

भुक्तस्यान्नस्य पीता­ना­म­प्य­पा­म­शि­तस्य तैलादेश्च येऽणिष्ठा धातवस्ते मनोवाक्प्राणा इत्येवं यतः सिद्ध­म­त­स्ते­षा­म­न्ना­दि­म­यत्वं युक्तिमित्याह –
यत इति ।

तेषा­म­न्ना­दि­म­यत्वं व्यति­रे­का­सि­द्धि­मा­श्रि­त्याऽऽ­क्षि­पति –
नन्विति ।

आखुप्रमुखानां स्फुटो­द­पा­दा­ना­द्य­नु­प­ल­म्भेऽपि यत्तेषां भक्ष्यं तत्रै­वो­द­का­न्त­र्भा­व­स­म्भ­वा­त्प्रा­णा­दे­र­म्म­य­त्वा­द्यु­प­प­न्न­मि­त्यु­त्त­र­माह –
नैष दोष इति ।
सर्व­स्या­न्ना­दे­स्त्रि­वृ­त्कृ­त­त्व­स्यो­क्त­त्वा­त्तस्य सर्वस्यैव भक्ष्यस्य भूत­त्र­या­त्म­त्व­स­म्भ­वा­दे­कैकं भक्षयतोऽपि सर्व­भ­क्ष­क­त्वो­प­प­त्ते­र्मन आदे­र­न्ना­दि­म­य­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

उक्तमेव व्यक्तीकरोति –
न हीत्यादिना ।

उक्तरीत्या मना­अ­दे­र­न्ना­दि­म­य­त्व­प्र­त्या­य­न­द्वारा प्रनाड्या सन्मात्रपरिशेषे प्रत्यायिते सति श्वेत­के­तु­श्चो­द­य­ती­त्याह –
इत्येवमिति ।

सर्वेषां सन्नि­धा­ना­वि­शे­षेऽ­न्नस्य सूक्ष्मांशो मन एवोपचिनोति न प्राणमिति निश्च­या­सि­द्धि­रि­त्याह –
नाद्यापीति ।

पार्थि­व­मे­वो­प­चि­नो­तीति विशे­ष­मा­श­ङ्क्याऽऽह –
यस्मादिति ।
एकस्मिन्नुदरे प्रवि­ष्टा­ना­म­न्ना­दीनां मिश्री­भू­त­त्वा­न्म­न­सश्च सर्व­भू­त­गु­ण­व्य­ञ्ज­क­त्वेन सर्व­भू­ता­र­ब्ध­त्वा­त्पा­र्थि­व­त्वा­सि­द्धे­र्नोक्तो विशेषः सम्भवतीत्यर्थः । यस्मा­दे­व­म­भि­प्रायः श्वेतकेतोरत इति योजना ।

मन आदे­र­न्ना­दि­म­य­त्व­मु­प­पा­द­यि­तु­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
तमेवमिति ।
यत्त्वं मन आदे­र­न्ना­दि­म­यत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽ­त्रा­न्ना­दि­म­यत्वे तस्य दृष्टा­न्त­मु­च्य­मानं शृण्विति योजना ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य पञ्चमः खण्डः ॥

मिश्रीभावेऽपि सूक्ष्मभागस्य पृथगेव कार्यकारणत्वे दृष्टान्तमाह –
दध्न इति ॥१॥

दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­माह –
यथेति ।
खजो मन्थास्तेन मध्यमानस्य दध्नो यथाऽणिमा तथा यथो­क्त­स्या­न्नस्य योऽणिमेति योज्यम् ।

कथं तन्मनो भवतीत्युच्यते प्रागपि मनसः सिद्ध­त्वा­दि­त्या­श­ङ्क्याऽऽह –
मनोऽऽवयवैरिति ॥२-४॥

मन आदे­र­न्ना­दि­म­य­त्व­मु­प­सं­ह­रति –
अन्नमयं हीति ।
अतो भवदभिप्रायादिति यावत् । एतत्सर्वमिति प्राण­स्या­म्म­यत्वं वाचस्तेजोमयत्वं चोच्यते ।

हृदयप्रदेशे प्राणा­दि­सं­नि­धा­ना­वि­शेषे कथं मनस एवान्नरसेनोपचय इत्ये­त­न्ना­द्यापि समाहितमिति मत्वाऽऽह –
मनस्त्विति ।

मनसो विशे­ष­तोऽ­न्न­म­य­त्व­मु­प­पा­द­यि­तु­मु­त्त­र­ग्र­न्थ­मु­त्था­प­यति –
तथेति ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य षष्ठः खण्डः ॥

अन्व­य­व्य­ति­रे­काभ्यां मन­सोऽ­न्न­र­सो­प­चि­तत्वं दर्श­यि­तु­म­न्न­र­स­ज­नितां शक्तिं कलात्वेन कल्पयति –
अन्न­स्ये­त्या­दिना ।
षोड­श­दि­ना­व­च्छे­देन षोडशधा कल्पनं द्रष्टव्यम् ।

तथाऽपि पुरुषस्य कथं षोडशकलत्वमत आह –
तयेति ।

तामेव प्रकृ­ता­म­न्न­र­स­कृतां शक्तिं विशिनष्टि –
यस्यामिति ।
तया संयुक्तः पुरुषः षोडशकल इति पूर्वेण सम्बन्धः ।

अन्नरसजनितं मान­स­श­क्ति­प्र­युक्तं संघातस्य साम­र्थ्य­मि­त्यत्र वाक्यं प्रमाणयति –
वक्ष्यति चेति ।
आयो लाभोऽ­स्या­स्ती­त्यायी यावदन्नं प्राप्यात्ता भवति तावदेवास्य द्रष्टे­त्या­दि­व्य­व­हारः सम्भवतीत्यर्थः ।

उक्तेऽर्थे लोका­नु­भ­व­म­नु­कू­ल­यति –
सर्वस्येति ।

तदेव स्पष्टयति –
मानसेनेति ।

किंच केचिन्मानसेनैव बलेन ध्यानाहारा दृश्यन्ते तच्च ध्यान­म­न्न­प­र­म्प­रा­प­रि­नि­ष्प­न्न­म­न्न­स्यैव देहादिरूपेण परि­ण­त­त्वा­दि­त्याह –
ध्यानेति ।

एवं पातनिकां कृत्वा षोड­श­क­ल­श­ब्दा­र्थ­माह –
अत इति ।
यतोऽन्नकृतं मानसं वीर्यमतस्तदेव षोडशधा विभज्य कला यस्येति योजना । एत­च्छ­ब्दे­ना­न्न­कृतं मानसं वीर्यं परामृश्यते । विच्छेत्स्यते विच्छे­द­मा­प­त्स्यते यस्मात्तस्मादपः पिबेति पूर्वेण सम्बन्धः ।

अपां पानपरित्यागे प्राणविच्छेदे कारणमाह –
यस्मादिति ।

प्राण­स्या­म्म­य्य­त्वेऽपि किमित्यपां परित्यागे तस्यो­च्छे­द­स्त­त्राऽऽह –
न हीति ॥१-३॥

ऋगाद्यप्रतिभानं तत्रेत्युच्यते । ईषदपि न देहात्कुतो बहु दहेदिति योजना ॥३-५॥

व्यावृ­त्ति­र्व्य­ति­रे­कोऽ­न्नो­प­यो­गा­भावे मनसः सामर्थ्याभावः । अनु­वृ­त्ति­र­न्व­योऽ­न्नो­प­योगे मनसः सामर्थ्यमिति भेदः । मन­सोऽ­न्न­म­य­त्व­मु­प­पा­द­यि­तु­मु­प­क्रा­न्त­मा­पो­मयः प्राण इत्यादि कथमिहोच्यते तत्राऽऽह –
यथैतदिति ।

विद्या­स­मा­प्ति­म­न्त­रेण कथं द्विर्व­च­न­मि­त्या­श­ङ्क्याऽऽह –
द्विरभ्यास इति ॥६॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य सप्तमः खण्डः ॥

त्रिवृ­त्क­र­ण­नि­र्ण­य­वि­ष­य­म­वा­न्त­र­प्र­क­रणं परिसमाप्य महाप्रकरणं सद्वि­ष­य­मे­वा­नु­व­र्त­य­न्म­नसो लये सुषुप्तौ जीवस्य सत्संपत्तिं वक्तुं मन उपा­धि­क­त्व­मु­क्त­म­नु­व­दति –
यस्मिन्निति ।

उपाधेः स्वरूपमुक्तं संचारयति –
तन्मन इति ।

उपाध्युपहिते कार्यकरत्वं दर्शयति –
यन्मय इति ।

मनसो भावे जाग्र­त्स्व­प्न­व्य­व­हा­र­सि­द्धि­रि­त्युक्त्वा तदभावे सुषु­प्ति­म­व­ता­र­यति –
तदुपरमे चेति ।

आत्मनि मनोवशादेव दर्श­ना­दि­व्य­व­हारो न स्वार­स्ये­ने­त्यत्र बृह­दा­र­ण्य­क­श्रुतिं प्रमाणयति –
तदुक्तमिति ।
द्वितीये वाक्ये सधी­रि­त्ये­त­दु­प­यु­ज्यते । तृतीये तु विज्ञानमयो मनोमय इति च पद­द्व­य­मु­प­जी­व्यते ।

एवं भूमिकां कृत्वा सम­न­न्त­र­वा­क्य­मा­दत्ते –
तस्येति ।
तत्पु­त्रा­ये­त्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । तत्रेति द्विती­य­प­क्षोक्तः ।

अर्थादिति ।
स्वप्नस्य हि कार्यस्य सतत्त्वं कारणं तच्च सुषुप्तमेव । “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्न­प्र­बो­धयोः”(नै.सि. ४ । ४३) इत्युभयापगमनात् । द्विती­य­व्या­ख्याने सुषु­प्त­मे­वा­र्थ­व­शा­त्फ­ल­ती­त्यर्थः ।

इतश्च स्वप्ना­न्त­श­ब्देन साक्षादर्थाद्वा सुषु­प्त­मे­वो­क्त­मि­त्याह –
स्वमिति ।

नन्व­व­स्था­न्त­रेऽपि स्वमपीतो भव­ती­ति­व­च­न­म­वि­रु­द्ध­मिति चेन्नेत्याह –
नहीति ।

तत्रापि कथं स्वापः स्यादि­त्या­श­ङ्क्याऽऽह –
तत्रेति ।

स्वपि­ति­ना­म­नि­र्व­च­न­सा­म­र्थ्य­सि­द्ध­मर्थं निगमयति –
अत इति ।

ननु स्वप्नान्तशब्दो बुद्धा­न्त­श­ब्द­व­द्यदा स्वप्न­मे­वा­न्व­चष्टे तदाऽपि स्वमपीतो भवतीत्यविरुद्धं सर्वदा जीवस्य सद्रू­प­ब्र­ह्म­प्रा­प्ते­स्तु­ल्य­त्वा­दत आह –
यत्र त्विति ।

स्वप्नदर्शनस्य पुण्या­पु­ण्य­का­र्यत्वं प्रकटयति –
पुण्या­पु­ण्य­यो­र्हीति ।

न केवलं पुण्या­पु­ण्या­भ्या­मेव स्वप्ने संयुज्यते किन्त्व­वि­द्या­दि­भि­श्चेति न तत्र स्वाप्ययः सम्भवतीत्याह –
पुण्या­पु­ण्य­यो­श्चेति ।

तर्हि स्वप्नवन्न सुषुप्तेऽपि स्वाप्ययः स्यात्तत्रापि काम­क­र्मा­दि­स­ब­न्ध­स­म्भ­वा­दि­त्या­श­ङ्क्याऽऽह –
अनन्वागतमिति ।

सति जीवरूपे कथं देवताभावः सम्भ­व­ती­त्या­श­ङ्क्याऽऽह –
मनसीति ।

तस्मा­दि­त्य­स्या­तः­शब्दो व्याख्यानं तेन परामृष्टं हेतुमेव स्पष्टयति –
स्वमात्मानमिति ।

स्वपि­ति­ना­म­नि­र्व­च­न­फलं दर्शयति –
गुणेति ।

सुषुप्ते स्वरू­पा­व­स्था­नस्य मुख्य­स्या­सं­भ­वा­न्मु­क्त­त्वे­ना­नु­त्था­न­प्र­स­ङ्गा­त्स्व­रू­पा­व­स्था­न­प्र­सि­द्धे­र्नि­मित्तं वक्तव्यमिति पृच्छति –
कथं पुनरिति ।

ज्वरा­दि­रो­ग­ग्र­स्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभावः सुषुप्तं च श्रमा­प­नो­दा­व­स्थानं तथा च तत्र स्वरू­प­स्थि­ति­प्र­सि­द्धि­र­वि­रु­द्धे­त्याह –
जाग्रदिति ।

संगृहीतं समाधानं विवृणोति –
जागरिते हीति ।

कर­णा­ना­म­ने­क­व्या­पा­र­नि­मित्ता ग्लानि­र्भ­व­ती­त्यत्र मानमाह –
श्रुतेश्चेति ।

अनु­भ­व­स­मु­च्च­या­र्थ­श्च­कारः सुषु­प्त्य­व­स्थायां करणानामुपरतौ प्रमाणमाह –
तथा चेति ।

सुषुप्तौ प्राणस्यापि वागा­दि­व­दु­प­सं­हृ­त­त्व­मा­श­ङ्क्याऽऽह –
करणानीति ।

अन्यथा मृतिभ्रान्तिः स्यादिति भावः जीवस्यापि बहिर्व्यापारः स्यादिति चेन्नैवं करणाभावादित्याह –
तदेति ।

ननु सुषुप्ते श्रमापनोदार्थं न स्वरूपावस्थानं तत्कुतो लौकिकी प्रसि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
नान्यत्रेति ।

उक्तमर्थं लौकि­क­दृ­ष्टा­न्तेन स्पष्टयति –
दृश्यते हीति ।

बृह­दा­र­ण्य­क­श्रु­त्या­लो­च­ना­या­मपि सुषु­प्त्य­व­स्था­या­म­व­स्था­द्व­य­ज­नि­त­श्र­मा­पो­हार्थं ब्रह्म­नी­ड­प्रा­प्ति­र्ग­म्यत इत्याह –
तद्यथेति ॥१॥

तत्रेति सुषु­प्त्य­व­स्थो­च्यते । यथोक्तोऽर्थो हि जीवस्य ब्रह्म­ण्य­व­स्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लक्ष्यो भवतीत्याह –
मञ्चा­क्रो­श­न­व­दिति ।

न केवलं प्रक­र­णा­त्प्रा­ण­श­ब्देन परा देव­ता­ल­क्ष्य­तेऽ­न्यत्र प्रयो­ग­द­र्श­ना­च्चे­त्याह –
प्राणस्येति ।

प्राणशब्देन पर­दे­व­ता­ल­क्ष­णायां फलितमाह –
अत इति ।

प्राण­मे­वो­प­श्र­यते विज्ञा­ना­त्मे­त्यत्र हेतुमाह –
प्राणबन्धनमिति ॥२॥

वृत्त­म­नू­द्या­न­न्त­र­वा­क्य­मु­त्था­प­यति –
एवमिति ।
आहाशनापिपासे सोम्येत्यादीति शेषः ।

किमभिप्रायः सन्पिता पुत्रं प्रत्ये­व­मा­हे­त्या­का­ङ्क्षा­या­माह –
अन्नादीति ।
अन्नादीनि कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सल्लक्षणं मूलं तद्द­र्श­यि­तु­मि­च्छ­न्पिता पुत्रं प्रत्य­श­ने­त्या­दिकं वाक्य­मा­हे­त्यर्थः ।

अशनेत्यस्य सन्न­न्त­त्वा­भा­वेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह –
अशनेति ।
यकारस्य लोपे­ना­स्मि­न्प्र­योगे सन्प्रत्ययः प्रयुक्तस्तथाच तद­र्थो­क्ति­र­वि­रु­द्धे­त्यर्थः ।

तत्रा­श­ना­या­पि­पा­सयोः सतत्त्वं विज्ञापयति –
यत्रेति ।

सामान्येनोक्त नाम विशेषतो ज्ञातुं पृच्छति –
किं तदिति ।
यत्कठिनमन्नं पुरुषेणाशितं तत्पीता आपो नयन्त इति सम्बन्धः । तदेति परि­णा­मा­व­स्थोक्तिः । अथेत्यन्नस्य भुक्तस्य जीर्ण­त्वा­न­न्त­र्य­मु­च्यते ।

कथं तदा नाम्नो गौणत्वं तदाह –
जीर्णे हीति ।

तद्यथेत्यत्र तच्छब्दार्थमाह –
तत्तत्रेति ।
एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः ।

अशनायेति कथ­म­पा­मा­ख्या­न­म­श­नाया इति हि वक्तव्यं तत्राऽऽह –
विसर्जनीयेति ।
तत्रेत्यस्य व्याख्यानमेवं सती­त्य­पा­म­शि­त­ने­तृत्वे सतीत्यर्थः । अद्भिः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥३॥

अन्नस्य देह­मू­ल­त्व­मा­का­ङ्क्षा­पू­र्वकं व्युत्पादयति –
कथमित्यादिना ।
तथा पुरु­ष­भु­क्ता­न्न­व­दिति यावत् ।

तथाऽपि कथं सतो मूलस्य सिद्धिरत आह –
यत्त्विति ।

सतो मूलस्य वास्तवं रूपं दर्शयति –
एकमिति ।

तस्य सर्व­क­ल्प­ना­धि­ष्ठा­न­त्वेन परिणामवादं व्युदस्यति –
यस्मिन्निति ।

अध्यासे मूलकारणमाह –
अविद्ययेति ।

प्रजाः सर्वाः सन्मूलाः सदा­य­त­ना­श्चे­त्यु­क्त­मर्थं दृष्टान्तेन समर्थयते –
न हीति ।

सत्प्रतिष्ठाः सदा­य­त­ना­श्चे­त्य­न­यो­र­र्थ­भे­दा­भा­व­मा­श­ङ्क्याऽऽह –
अन्ते चेति ।
प्रति­ष्ठा­श­ब्दस्य लय­वा­चि­त्वा­दा­य­त­न­श­ब्दस्य चाऽऽश्र­य­वि­ष­य­त्वान्न पौन­रु­क्त्य­मि­त्यर्थः ।

लयशब्दस्य सुषु­प्त्या­दि­वि­ष­यत्वं वारयति –
समाप्तिरिति ।

सम्यगाप्तिः समाप्तिरिति प्राप्तिरत्र विवक्षितेति शङ्कां वारयति –
अवसानमिति ।

तस्याभावत्वेन तुच्छरूपत्वं निरस्यति –
परिशेष इति ॥४॥

अन्ना­ख्य­शु­ङ्ग­द्वारा सतो मूल­स्या­धि­ग­ते­र­न­न्त­र­मि­त्य­थ­श­ब्दार्थः । पिपा­स­ती­त्ये­त­न्नाम पुरुषो यस्मिन्काले भवतीति योजना । कथं पिपा­स­ती­त्ये­त­न्नाम पुरुषस्य गौण­मि­त्या­श­ङ्क्याऽऽह –
द्रवीकृतस्येति ।

भवत्वपां तेजसा शोष्यमाणत्वं किं ताव­ते­त्या­श­ङ्क्याऽऽह –
नितरां चेति ।
तदा पाने­च्छा­व­स्था­या­मि­त्यर्थः ।

तेजसो यदु­द­क­ने­तृ­त्व­मुक्तं तत्र श्रुतिमवतार्य व्याचष्टे –
तदेतदाहेति ।

उदन्यमिति वक्तव्ये कथ­मु­द­न्ये­त्युक्तं तत्राऽऽह –
उदन्येतीति ।
तत्रापि तेजस्यपीत्येतत् ।

यथाऽशनायेति च्छान्दसं तथा तेज­स्यु­द­न्ये­त्यपि च्छान्द­स­मे­वे­त्याह –
पूर्ववदिति ।

अन्नद्वारा सतो मूल­स्या­धि­ग­म­व­द­म्बु­द्वा­राऽपि तस्या­धि­ग­ति­र­स्ती­त्याह –
अपामपीति ॥५॥

तेजः­शु­ङ्ग­द्वा­राऽपि सतो मूलस्य प्रति­प­त्ति­र­स्ती­त्याह –
सामर्थ्यादिति ।
त्रिवृ­त्क­र­ण­व­शा­दिति यावत् । शरीरस्य भूत­त्र­य­का­र्य­त्व­म­तः­श­ब्दार्थः ।

यथा पूर्व­म­न्न­शु­ङ्गेन देहेनान्नाख्यं मूलं गम्यत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्ये­य­मि­त्याह –
पूर्ववदिति ।

वृत्ता­नु­वा­द­पू­र्वकं यथे­त्या­दि­वा­क्य­मा­दत्ते –
एवं हीति ।
उक्तया रीत्या नाम­द्व­य­प्र­सि­द्धि­द्वा­रेण यथो­क्त­दे­हा­ख्य­शु­ङ्ग­स्या­न्ना­दि­का­र­ण­प­र­म्प­रया सदाख्यं मूलमुक्तविशेषणं सन्मू­ल­म­न्वि­च्छे­त्यु­प­दे­शेन श्वेतकेतुं ज्ञापयित्वा व्यवस्थया शरी­र­मे­कै­क­भू­ता­र­ब्ध­मि­त्या­क्षेपे प्राप्ते यदस्मिन्प्रकरणे तेजः­प्र­भृ­ती­ना­मु­प­यु­ज्य­मा­नानां स्वस्व­भा­वा­नु­सा­रेण संघा­त­स्यो­प­च­य­क­रत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्व­भू­त­का­र्यो­प­ल­म्भा­द्व्य­व­स्थायां प्रमा­णा­भा­वा­द्दृ­श्य­माने संघाते कस्य भूतस्य किय­त्का­र्य­मि­त्य­पे­क्षा­या­म­न्न­म­शि­त­मि­त्या­दा­वु­क्त­मेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना ।

सतो मूलस्य व्यवहारसत्यत्वं वारयति –
परमार्थेति ।

वस्तुतो नावि­द्या­सं­ब­न्ध­स्त­स्या­स्ती­त्याह –
अभयमिति ।

अवि­द्या­का­र्य­सं­ब­न्धोऽपि परमार्थतो न तस्यास्तीत्याह –
असंत्रासमिति ।

उभयसम्बन्धाभावे समु­त्खा­त­नि­खि­ल­दुः­ख­त्वेन परमानन्दत्व तस्य सिद्ध्यतीत्याह –
निरायासमिति ।

पूर्वोक्तमेव व्यक्तीकरोति –
तत्रैवेति ।

किं तद­न्न­म­शि­त­मि­त्या­दा­भुक्तं तत्राऽऽह –
अन्नादीनामिति ।
साप्तधातुकं त्वग­सृ­ङ्मां­स­मे­दो­म­ज्जा­स्थि­शु­क्राख्याः सप्त धातवस्तेषां संह­ति­रू­प­मि­त्यर्थः ।

तेजो­ब­न्न­का­र्य­भू­त­दे­ह­शु­ङ्ग­द्वारा सत्तत्वं निरूपितमिदानीं मरणद्वारेणापि तन्नि­रू­प­यि­तु­मा­र­भते –
सोऽयमिति ।
तदाहेत्यत्र क्रमवद्गमनं तदित्युक्तम् ।

वाग्व्यापारस्य मनसि लये हेतुमाह –
मनःपूर्वको हीति ।
प्राण­सं­प­त्ति­र्म­न­स­स्त­द­धी­न­त्वम् । मनो­व्या­पा­र­नि­वृ­त्त्य­वस्था तदेत्युच्यते । प्राणश्च तदे­त्य­वि­ज्ञा­ना­वस्था कथ्यते ।

कथं प्राणस्य स्वात्म­न्यु­प­सं­हृ­त­बा­ह्य­क­र­णत्वं तदाह –
संव­र्ग­वि­द्या­या­मिति ।
तत्र हि प्राणः संवृङ्क्ते वागादीनिति । दृष्टमतो युक्तं तस्य स्वात्म­न्यु­प­सं­हृ­त­क­र­ण­त्व­मि­त्यर्थः । तेजसीति भौति­क­मा­ध्या­त्मिकं तेजो गृह्यते । जीवतीत्याहुरिति सम्बन्धः ।

सकरणस्य सप्राणस्य च भूतवर्गस्य परस्यां देव­ता­या­मु­क्त­क्र­मे­णो­प­सं­हा­रेऽपि जीवस्य किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
तदेवमिति ।
तस्यां परस्यां देवतायामुक्तेन क्रमेण तेजस्युपसंहृते सतीति यावत् । स्वमूलं मनसो मूलं भूतपञ्चकम् । निमि­त्तो­प­सं­हा­रा­दि­त्यत्र निमित्तं मनो विवक्षितम् ।

सत्सम्पन्नस्य सत्याभिसंधेर्न पुन­रु­त्था­न­मि­त्ये­त­द्दृ­ष्टा­न्तेन स्पष्टयति –
यथेति ।
अभयं देशं प्राप्तो न पुनः सभयं देशं गन्तुमिच्छतीति शेषः ।

यस्त्व­नृ­ता­भि­संधो यथोक्तया रीत्या न तत्संपन्नस्तं प्रत्याह –
इतरस्त्विति ॥६॥

अस्येति षष्ठ्या सर्वं जगदुक्तम् । असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्शयति –
परमार्थेति ।

कल्पितस्य जगतः स्वरूपं प्रत्य­ग्भू­त­म­ता­त्त्वि­क­मिति शङ्कां वारयति –
सतत्त्वमिति ।

तत्त्वेन सहितमपि सत­त्त्व­मि­त्या­श­ङ्क्याऽऽह –
याथात्म्यमिति ।

कथ­मे­व­म­र्थ­त्व­मा­त्म­श­ब्दस्य लभ्यते तत्राऽह –
आत्मशब्दस्येति ।

सतो भवत्वात्मत्वं मम तु किं स्यादि­त्या­श­ङ्क्याऽऽह –
अत इति ।

सन्देहास्पदमेव विशिनष्टि –
अहन्यहनीति ।

सन्देहे हेतुमाह –
येनेति ।
तेन सन्दिग्धमेतदिति पूर्वेण सम्बन्धः ।

सन्दे­ह­व्या­वृ­त्ति­स्तर्हि कथमित्यत आह –
अत इति ।

पुत्रस्य प्राप्त­स­न्दे­हा­पो­हा­र्थ­मु­त्त­र­ग्र­न्थ­मु­त्था­प­यति –
एवमिति ॥७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठा­ध्या­य­स्या­ष्टमः खण्डः ॥

यथे­त्या­दि­दृ­ष्टा­न्त­म­व­ता­र­यति –
यत्पृच्छसीति ।
प्रत्यहं सुषुप्ते सर्वाः प्रजाः सत्सम्पद्य सत्सम्पन्नाः स्मो वयमिति यन्न विदुस्तदज्ञानं कस्मा­त्का­र­णा­दिति यन्मां पृच्छसि तत्र सुषु­प्ता­दा­व­ज्ञाने कारणभूतं दृष्टा­न्त­मु­च्य­मानं श्रुणु त्वमिति योजना ।

यथा स दृष्टान्तः स्पष्टो भवति तथोच्यत इत्याह –
यथेति ।
पुनर्मधुपदं क्रियापदेन सम्ब­न्ध­प्र­द­र्श­ना­र्थम् ।

मधुकृतां मधु­नि­ष्पा­द­क­त्व­मा­का­ङ्क्षा­पू­र्वकं दर्शयति –
कथमित्यादिना ।
नानागतीनां नाना­फ­ला­ना­मि­त्ये­तत् ।

बहूनां रसानां कथ­मे­क­ते­त्या­श­ङ्क्याऽऽह –
मधुत्वेनेति ।

तदेव स्पष्टयति –
मधुत्वमिति ॥१॥

ते यथेत्यादि व्याचष्टे –
ते रसा इति ।

उक्तमर्थं वैध­र्म्य­दृ­ष्टा­न्तेन स्पष्टयति –
यथा हीत्यादिना ।
इहेति प्रकृ­त­दृ­ष्टा­न्तोक्तिः ।

दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­माह –
यथेति ॥२॥

रसानामचेतनत्वेन विवे­का­न­र्ह­त्वा­त्कथं चेतनावतामेवं दृष्टान्तः स्यादि­त्या­श­ङ्क्याऽऽह –
यस्माच्चेति ।
चेतनानामपि सुषुप्त्यादौ जाड्या­स्क­न्दि­त­तया रस­तु­ल्य­त्वा­त्तेषां विवे­का­न­र्हा­व­स्था­प­त्ति­मात्रे प्रकृ­त­मु­दा­ह­र­ण­म­वि­रु­द्ध­मिति भावः । एवं यथो­क्त­र­स­दृ­ष्टा­न्त­व­शे­नेति यावत् ।

सता सम्पन्नानामपि तत्स्या­दि­त्या­श­ङ्क्याऽऽह –
संसारिण इति ॥३॥

स य एषोऽ­णि­मे­त्या­द्य­व­ता­र­यति –
ताः प्रजा इति ।
इतः सद्वि­ज्ञा­न­र­हि­तेभ्यः सकाशादिति यावत् । यमणुभावमिति यच्छ­ब्दोऽ­ध्या­ह­र्तव्यः ।

प्रश्नान्तरं दृष्टा­न्त­ब­ला­दु­त्था­प­यति –
यथेति ।

सतोऽ­ह­मा­ग­तोऽ­स्मी­त्यु­त्थि­तस्य ज्ञानाभावं दृष्टा­न्ते­नो­प­पा­द­यि­तु­मु­त्त­र­ग्र­न्थ­मु­त्था­प­यति –
इत्युक्त इति ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य नवमः खण्डः ॥

आग­म­ना­व­ध्य­प­रि­ज्ञानं तत्रेत्युक्तम् ॥१॥

प्रश्नान्तरं व्याचष्टे –
दृष्टमिति ।
विनष्टा इति लोके दृष्टमिति सम्बन्धः । जीवास्तु प्रत्यहं सुषु­प्त्य­व­स्थायां मरणप्रलययोश्च कारणभावं गच्छन्तोऽपि न विनश्यन्तीति यदेतत्तदिति योजना ।

जीवविनाशं शङ्कमानस्य प्रति­बो­ध­ना­र्थ­मु­त्तरं वाक्यमुत्थापयति –
तथेति ॥२-३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य दशमः खण्डः ॥

जीवस्य नाशाभावं वक्तुमादौ दृष्टान्तमाह –
श्रुण्विति ॥१॥

ननु रोगग्रस्तायां वातोपहतायां वा शाखायां प्राणो­प­सं­हा­रेऽपि कुतो जीवोपसंहारः सम्भवति तत्राऽऽह –
वागिति ।

ननु वृक्षे जीवस्य सद्भावे तत्रो­प­सं­हा­रा­नु­प­सं­हारौ वक्तव्यौ तत्र तस्य सत्त्वं तु कुतस्त्यमत आह –
जीवेन चेति ।
रसरूपेण वर्धयदिति सम्बन्धः ।

वृक्षशरीरे जीवस्य सत्त्वेऽपि किमित्यसौ कदा­चि­त्त­दी­या­मेकां शाखां जहा­ती­त्या­श­ङ्क्याऽऽह –
अशितेति ।

जीवोपसंहारेऽपि किमिति शाखा शुष्यति तत्राऽह –
जीवस्थितीति ।
जीवस्य स्थिति­र्नि­मित्तं यस्येति विग्रहः । तथा शाखा­या­मु­क्त­प्र­का­रे­णेति यावत् ।

यत्तु वैशे­षि­क­वै­ना­शि­काभ्यां स्थावराणां निर्जी­व­त्वे­ना­चे­त­न­त्व­मुक्तं तदे­त­न्नि­र­स्त­मि­त्याह –
वृक्षस्येति ।
आदिशब्दो वृद्धि­मो­दा­दि­सं­ग्र­हार्थः । स एष वृक्षो जीवे­नाऽऽ­त्म­नाऽ­नु­प्र­भूत इति दृष्टा­न्त­श्रुतिः ॥२॥

श्रुति­दृ­ष्टान्ते विव­क्षि­त­मं­श­म­नूद्य दार्ष्टा­न्ति­क­माह –
यथेत्यादिना ।

जीवस्य सुषुप्ते नाशाभावे हेत्वन्तरमाह –
कार्यशेषे चेति ।
तस्मिन्सति सुषुप्तो भूत्वा पुनरुत्थितस्य कार्यस्य शेषोऽस्ति यस्मिन्कर्मणि तदिदं ममासमाप्तमिति स्मृत्वा तस्य समापनदर्शनान्न स्वापे जीवो नश्यतीत्यर्थः ।

मरणकाले तन्नाशाभावे हेत्वन्तरमाह –
जातमात्राणामिति ।
आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे ।

जीवस्य प्रलयादावविनाशे कारणान्तरमाह –
अग्नि­हो­त्रा­दी­ना­मिति ।
इतिशब्दो जीवस्य नित्य­त्वो­प­सं­हा­रार्थः ।

यदुक्तं सन्मूलाः सोम्येत्यादि तत्र चोदयति –
कथं पुनरिति ।

विलक्षणयोर्न कार्य­का­र­ण­त्व­मिति शङ्कमानं प्रति­बो­ध­यि­तु­मु­त्तरं वाक्यमुपादत्ते –
तथेति ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठा­ध्या­य­स्यै­का­दशः खण्डः ॥

स्थूलस्य कार्यस्य सूक्ष्म­मु­ख्य­का­र­ण­त्व­मे­त­दि­त्यु­च्यते । अस्य सोम्य महतो वृक्षस्येति प्रकृतं वृक्षं परामृशति –
अत इति ॥१॥

यमेतमणिमानं न पश्य­स्ये­त­स्या­णिम्नो बीजस्येति सम्बन्धः । तथाऽ­पी­त्य­त्य­न्ता­णु­त्वा­द­द­र्श­नेऽ­पी­त्यर्थः । अत्य­न्त­सू­क्ष्मा­द्बी­जा­द­त्य­न्त­स्थू­लस्य वृक्ष­स्यो­त्प­त्त्यु­प­ल­म्भोऽ­तः­श­ब्दार्थः । सन्मूलाः सोम्ये­त्या­दि­श्रुत्या दृश्यते त्विति न्यायेन च जगतः सत्कार्यत्वे सिद्धे श्रद्धा­म­न्त­रे­णापि तन्नि­र्ण­य­स­म्भ­वा­त्कि­मिति श्वेतकेतुः श्रद्ध­त्स्त्वेति पित्रा नियुज्यते तत्राऽऽह –
यद्यपीति ।

सत्यामपि श्रद्धायां कथं बाह्य­वि­ष­या­स­क्त­म­न­सोऽ­त्य­न्त­सू­क्ष्मे­ष्व­र्थे­ष्व­व­गमः स्यादि­त्या­श­ङ्क्याऽऽह –
श्रद्धायां त्विति ।

मनः­स­मा­धा­न­व­शा­द्बु­भु­त्सि­त­स्या­र्थ­स्या­व­ग­ति­रि­त्यत्र बृह­दा­र­ण्य­क­श्रुतिं सम्वादयति –
अन्यत्रेति ॥२॥

प्रत्य­क्ष­तोऽ­नु­प­ल­भ्य­मा­न­त्वा­न्ना­स्तीति मन्वानः शङ्कते –
यदीति ।

अनु­प­ल­भ्य­मा­न­स्यापि सत्त्व­मा­श­ङ्क्याऽऽह –
इत्येतदिति ।

अप्र­त्य­क्ष­स्यापि जग­न्मू­ल­स्या­स्तित्वं प्रति­पा­द­यि­तु­मु­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
तथेति ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य द्वादशः खण्डः ॥

नोपलभ्यते स्वेन प्रकारेणेति शेषः । इतीममर्थं प्रत्य­क्षी­कर्तुं यदीच्छसि तर्हि दृष्टान्तमत्र शृण्विति योजना । रात्रे­र­त्य­या­न­न्त­र्य­म­थ­श­ब्दार्थः । जगन्मूलं स्वतोऽ­प्र­त्य­क्ष­मपि प्रत्य­क्ष­मु­पा­या­न्त­रे­णेति पित्रो­क्तोऽ­र्थस्तं प्रत्य­क्षी­चि­की­र्षु­र्घ­टा­दा­वु­दके पिण्डरूपं लवणं रात्रौ प्रक्षिप्य तदत्ययानन्तरं प्रातःकाले पितृसमीपं श्वेत­के­तु­र्ग­त­वा­नि­त्याह –
स हेति ।
यथा तत्पिण्डरूपं लवणं प्रक्षे­पा­त्प्रा­ग­भू­त्तथा न विज्ञातवानिति सम्बन्धः ।

उदके प्रक्षिप्तं लवणं विमृश्यापि न विज्ञायते चेदसदेव तर्हि तदि­त्या­श­ङ्क्याऽऽह –
विद्यमानमेवेति ।

किमिति तर्हि चक्षुषा स्पर्शेन वा नोपलभ्यते तत्राऽऽह –
अप्स्विति ॥१॥

कथं तर्हि तस्य विद्य­मा­न­त्व­म­व­गतं तत्राऽऽह –
यथेति ।
यद्यपि पिण्डरूपं लवणमुदके क्षिप्त­म­व­मृ­श्यापि चक्षु­स्स्प­र्श­नाभ्यां न त्वं वेत्थ तथाऽपि तत्तत्र विद्यत एव यत­स्ता­भ्या­म­गृ­ह्य­मा­ण­मपि तत्रो­पा­या­न्त­रे­णो­प­भ्यत इत्येतमर्थं प्रत्या­य­यि­तु­मु­त्तरं वाक्यमित्यर्थः । यथाशब्दो यद्यपीत्यर्थे ।

तद्धेत्यादि व्याचष्टे –
लवणमिति ।
संवर्तत इतीदं वचनं ब्रुव­न्ना­ज­गा­मेति सम्बन्धः ।

दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­माह –
इत्ये­व­मु­क्त­व­न्त­मि­त्या­दिना ।

सतो जग­न्मू­ल­स्या­स्मि­न्देहे सत्त्वं त्वया कथमवगतमत आह –
वावेति ।

अत्र वावे­त्या­दि­नाऽ­त्रैव किलेत्यस्य पौन­रु­क्त्य­मा­श­ङ्क्या­र्थ­वि­शेषं दर्शयति –
यथाऽ­त्रे­त्या­दिना ॥२॥

उपा­या­न्त­र­जि­ज्ञा­सया पृच्छति –
यद्येवमिति ।
तर्हि तदे­त्य­ध्या­हृ­तस्य तस्येत्यादिना सम्बन्धः ।

सतो मूल­स्यो­प­ल­म्भेऽ­नु­प­लम्भे वा किं स्यादि­त्या­श­ङ्क्याऽऽह –
यदुपलम्भादिति ।

बुभु­त्सि­त­मु­पा­य­मु­प­द­र्श­यि­तु­मु­त्त­र­ग्र­न्थ­मु­पा­दत्ते –
तथेति ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य त्रयोदशः खण्डः ॥

यथाऽयमुपायः शक्यो ज्ञातुं तथा लोके प्रदृश्यते दृष्टान्त इत्याह –
यथेति ।

तमेव दृष्टान्तं व्याचष्टे –
हे सोम्येति ।
यथा दिग्भ्रमोपेतो यत्कि­ञ्चि­द्दि­ग­भि­मुखो विक्रोशति तथा स तत्र विजने देशे शब्दं कुर्यादिति सम्बन्धः ।

प्राङि­त्य­स्या­र्थ­माह –
प्रागञ्चन इति ।

तस्यैव विवक्षितमर्थं कथयति –
प्राङ्मुख इति ।
वक्ष्य­मा­ण­प्र­का­रै­र्वि­क­ल्पार्थो वाशब्दः ॥१॥

यथाबन्धनं बन्ध­न­म­नु­सृ­त्येति यावत् । पण्डितो मेधा­वी­ति­वि­शे­ष­ण­द्व­यस्य व्यवच्छेद्यं दर्शयति –
नेतर इति ।

व्याख्यातं दृष्टान्तं सोपस्करमनुवदति –
यथेत्यादिना ।

दार्ष्टान्तिकं व्याचष्टे –
एवमिति ।
आदिशब्देन वाव्याकाशौ गृह्येते । मयड्विकारार्थः ।

देहा­र­ण्य­स्या­ने­का­न­र्थ­स­ङ्क­टत्वं कथयति –
वातेति ।
शीतौ­ष्णा­दी­त्या­दि­प­देन राग­द्वे­षा­दि­द्वन्द्वं गृहीतं तेनानेकेन द्वन्द्वेन जातं सुखं दुःखं च तदुपेतमिदं देहा­र­ण्य­मि­त्ये­तत् । बन्ध्वा­दी­त्या­दि­शब्दो मित्र­क्षे­त्रा­दि­वि­षयः । पुण्या­पु­ण्या­दी­त्या­दि­प­द­म­वि­द्या­का­म­वा­स­ना­सं­ग्र­हा­र्थम् ।

देहारण्यं प्रविष्टस्य जन्तो­र्वि­क्रो­श­न­प्र­कारं सकारणं सूचयति –
अहमित्यादिना ।

तस्य सदा दुःखित्वशङ्कां वारयति –
कथञ्चिदेवेति ।

आपाततो ब्रह्म­वि­त्त्व­मा­त्रेण मुक्त­ब­न्ध­न­त्वा­सि­द्धे­र्वि­शि­नष्टि –
ब्रह्मिष्ठमिति ।
यदाऽऽसादयति तदा सुखी स्यादि­त्यु­त्त­रत्र सम्बन्धः । संसारविषयं दोषदर्शनं तस्य क्षयि­ष्णु­त्वा­दि­ज्ञानं तस्य मार्गो विवेकः स यस्याऽऽचार्येण दर्शितो विद्यातः स दर्शि­त­सं­सा­र­वि­ष­य­दो­ष­द­र्श­न­मार्गः ।

आचार्येण साध­न­च­तु­ष्ट­य­स­म्प­न्न­स्या­धि­का­रिणः संसा­रा­न्मो­क्षि­त­त्व­प्र­कारं दर्शयति –
नासीति ।
यद्यपि वाक्यार्थज्ञाने वाक्य­मे­वो­पा­य­स्त­थाऽ­प्या­चा­र्यो­प­दे­श­ज­नि­ता­ति­श­य­द­र्श­ना­त्त­दु­प­दे­शोऽ­व­ग­त्य­न्त­वा­क्या­र्थ­ज्ञाने प्रथमो हेतु­रु­प­दे­श­मा­त्रा­द्यस्य नाव­ग­त्य­न्त­वा­क्या­र्थ­धी­स्तस्य प्रमा­णा­द्य­स­म्भ­व­ना­नि­र­स­न­स­मर्थो विचारो मेधाविशब्देन विहितस्तस्य प्रज्ञातिशयवति प्रयोगादिति भावः ।

पुरुषव्यत्यये हेतुमाह –
सामर्थ्यादिति ।
अस्म­द्यु­प­प­देऽ­स­त्यु­त्त­म­पु­रु­ष­प्र­यो­गा­नु­प­प­त्ते­र्दे­हा­दि­स्थि­त्य­नु­प­प­त्ते­र्वे­त्यर्थः ।

याव­दि­त्या­दि­वा­क्यार्थं स्पष्टयति –
येनेति ।
पूर्ववदिति साम­र्थ्या­त्पु­रु­ष­व्य­त्ययं लक्षयति ।

अथशब्दस्य सत्स­म्प­त्ते­र्दे­ह­मो­क्षा­दा­न­न्त­र्य­मर्थो भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
न हीति ।

अथ सम्पत्स्य इति विदे­ह­मु­क्ति­मु­क्ता­मा­क्षि­पति –
नन्विति ।
अप्र­वृ­त्त­फ­ला­नीति च्छेदः । उत्पन्ने चेति चकारोऽप्यर्थः । विमतानि कर्माणि ब्रह्मज्ञानेन न क्षीयन्ते कर्म­त्वा­त्प्र­वृ­त्त­फ­ल­क­र्म­व­दि­त्यर्थः ।

क्षीयन्ते चास्य कर्माणि, ज्ञानाग्निः सर्व­क­र्मा­णी­त्या­दि­श्रु­ति­स्मृ­ति­वि­रो­धा­त्का­ला­त्य­या­प­दि­ष्ट­तेति शङ्कते –
अथेति ।

अतिप्रसङ्गान्न श्रुति­स्मृ­त्यो­र्य­था­श्रु­ता­र्थ­तेति परिहरति –
तदेति ।

ज्ञान­स्याऽऽ­न­र्थ­क्य­मुक्त्वा पक्षान्तरमाह –
देशान्तरेति ।
यथा ग्राम­प्रा­प्त्यु­पा­यो­पा­योऽ­श्वो­रथो वेति ज्ञाने सत्यसत्यन्तराये कस्यचिदेव ग्राम­प्रा­प्ति­र्भ­वति न त्वन्त­रा­य­व­त­स्त­ज्ज्ञा­नेऽपि तत्प्रा­प्ति­र्यथा तथा समु­त्प­न्न­ज्ञा­न­स्यापि कस्यचिदेव भोगेन क्षीणकर्माशयस्य मोक्षो न ज्ञान­मा­त्रा­दि­त्य­नि­य­त­फ­ल­त्व­मि­त्यर्थः ।

कर्म­त्व­हे­तो­र­प्र­यो­ज­कत्वं वदन्नुत्तरमाह –
न कर्मणामिति ।

संग्रहवाक्यमेव प्रपञ्चयन्नादौ नञर्थं स्फुटयति –
यदुक्तमिति ।

तत्र हेतुमाह –
विदुष इति ।
प्रामा­ण्या­द्दे­हा­न्त­रा­रम्भे तद्वि­रो­ध­प्र­स­ङ्गा­दिति शेषः ।

श्रुत्य­न्त­र­मा­श्रित्य शङ्कते –
नन्विति ।
तथा चाना­र­ब्ध­क­र्म­व­शा­द्वि­दु­षोऽपि देहा­न्त­र­मा­र­ब्ध­व्य­मिति शेषः ।

तत्प्रा­मा­ण्य­म­ङ्गी­क­रोति –
सत्यमेवमिति ।

तर्हि विदुषोऽपि देहा­न्त­र­म­ना­र­ब्ध­क­र्म­व­शा­दा­र­ब्धव्यं नेत्याह –
तथाऽपीति ।

विशे­ष­मे­वाऽऽ­का­ङ्क्षा­द्वारा विशदयति –
कथमित्यादिना ।

प्रवृ­त्त­फ­ल­त्व­मेव स्फुटयति –
यैरिति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।
लक्ष्यस्य वेधो भेदनं तत्स­म­का­ल­मे­वे­ष्वा­दे­रूर्ध्वं गतिप्रयोजनं नास्तीति न स्थिति­र्ल­क्ष्य­मु­द्दिश्य मुक्तस्य तस्याऽऽ­र­ब्ध­वे­ग­स्या­प्र­ति­ब­न्धेन तदासादितस्य वेगक्षयादेव स्थिति­दृ­ष्टा­न्त­व­द्वि­द्यार्थे देहे विद्या­ला­भा­न­न्तरं फलं नास्तीति न कर्माणि निवर्तन्ते किन्तु भोगक्षयादेव तस्य लब्ध­वृ­त्ति­त्वा­दि­त्यर्थः ।

प्रवृ­त्त­फ­ले­भ्योऽ­प्र­वृ­त्त­फ­लानां कर्मणां विशेषमाह –
अन्यानि त्विति ।

न चाप्र­वृ­त्त­फ­लानां कर्मणां क्षयोऽ­प्र­सि­द्ध­स्त­था­वि­ध­स्यैव पापस्य प्रायश्चित्तेन प्रक्ष­यो­प­ग­मा­दि­त्याह –
प्राय­श्चि­त्ते­ने­वेति ।

आर­ब्ध­फ­ला­ति­रि­क्तानां कर्मणां ज्ञाना­न्नि­वृत्तौ श्रुतिस्मृती दर्शयति –
ज्ञाना­ग्नि­रि­त्या­दिना ।

प्रवृ­त्ता­प्र­वृ­त्त­फ­लेषु कर्मसु सिद्धे विशेषे फलितमाह –
अत इति ।
जीव­ना­दी­त्या­दि­श­ब्देन पुत्रकलत्रादि गृह्यते । मुक्त­स्या­प्र­ति­ब­द्धे­ष्वा­दे­य­वि­द्वे­ग­क्षयं गति­ध्रौ­व्य­व्य­व­हा­र­व­दा­र­ब्ध­क­र्मणां फलभोगोऽवश्यमेव स्यादिति सम्बन्धः ।

यत­श्चाऽऽ­र­ब्ध­क­र्मणां भोगादेव क्षय­स्त­त­स्त­स्ये­त्या­दिना यच्चिरत्वं सत्स­म्प­त्ते­रुक्तं तद्युक्तमेवेति कृत्वा यथोक्तस्य दोषस्य सद्यः­श­री­र­पा­ता­दि­ल­क्ष­ण­स्याऽऽ­श­ङ्का­नु­प­प­त्ति­रि­त्यु­प­सं­ह­रति –
इतीति ।
आद्य­स्ये­ति­श­ब्दस्य तस्येत्यनेन सम्बन्धः ।

यत्तूत्पन्नेऽपि ज्ञाने यावज्जीवं विहितानि करोत्येवेति तत्राऽऽह –
ज्ञानो­त्प­त्ते­रिति ॥२॥

ज्ञानस्य नाऽऽन­र्थ­क्य­म­वि­द्या­त­त्का­र्य­नि­व­र्त­नेन सत्स­म्प­त्ति­हे­तु­त्वा­न्ना­प्य­नै­का­न्ति­क­फ­ल­त्व­म­न्त­रा­या­भा­वा­दि­त्यु­क्त­मि­दा­नी­म­र्चि­रा­दि­मा­र्ग­प्राप्त्या वाऽत्रै­वा­वि­द्या­नि­वृ­त्ति­मा­त्रेण वा सत्सम्पत्तिरिति सन्दिहानः शङ्कते –
आचार्यवानिति ।

संशयानस्य सम्बो­ध­ना­र्थ­मु­त्तरं वाक्यमवतारयति –
तथेति ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य चतुर्दशः खण्डः ॥

नन्वेष संसारिणो मरणक्रमो नतु विदुषः सत्स­म्प­त्ति­क्र­म­स्त­यो­र्वि­शे­षस्य वक्तव्यत्वादत आह –
संसारिण इति ।
करणोपरमे तेजः­स­ह­च­रि­त­भू­त­सू­क्ष्मो­प­सं­हारे च विशे­ष­वि­ज्ञा­ना­भावः समान एव विद्व­द­वि­दु­षो­रि­त्यर्थः ।

कस्तर्हि तयो­र्वि­शे­ष­स्त­त्राऽऽह –
अविद्वानिति ।
सत­स्त­स्मा­द­ज्ञा­ता­त्स­दा­त्मनः सकाशादिति यावत् ।

एक­दे­शि­म­त­मु­त्थाप्य प्रत्याचष्टे –
अन्ये त्विति ।

भवतु विदुषोऽपि तद­भि­स­न्धि­पू­र्वकं गम­न­मि­त्या­श­ङ्क्याऽऽह –
न हीति ।
आदिशब्देन गत्यागती गृह्येते ।

सद्विज्ञानवतो गमनयोगे हेत्वन्तरमाह –
अविद्येति ।

विदु­षोऽ­वि­द्या­का­म­क­र्म­णा­म­भावे प्रमाणमाह –
पर्या­प्त­का­म­स्येति ।

ननु कामप्रविलय एवात्र श्रूयते नावि­द्या­का­म­क­र्म­नि­र्मो­क­स्त­त्राऽऽह –
नदीति ।
यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरुपे हित्वा परं पुरु­ष­मु­पै­ती­ति­दृ­ष्टा­न्त­पू­र्वि­कायाः श्रुते­र्ना­म­रू­प­बी­जा­व­स्था­वि­द्याया लयो गम्यते न चावि­द्या­का­म­यो­र­भावे कर्मो­प­प­त्ति­स्त­स्मान्न विदुषो गतिपुर्विका सत्स­म्प­त्ति­रि­त्यर्थः ॥२॥

विमतः सत्सम्पन्नः पुन­रा­वृ­त्ति­म­र्हति सत्स­म्प­न्न­त्वा­न्म­र­ण­काले सत्स­म्प­न्न­व­द्वि­मतो वा विशे­ष­वि­ज्ञा­ना­भावो नाऽऽत्यन्तिको विशे­ष­वि­ज्ञा­ना­भा­व­त्वा­न्म­र­ण­का­ली­न­वि­शे­ष­वि­ज्ञा­ना­भा­व­व­दि­त्य­नु­मा­ना­द्वि­द्व­द­वि­दु­षो­र­वि­शेषं मन्वानः शङ्कते –
यदीति ।

तत्रा­नृ­ता­भि­स­न्धत्वं तादृ­ग­भि­स­न्धि­म­न्नि­ष्ठत्वं वोपा­धि­रि­त्य­नु­मा­न­द्वयं दूषयितुमुत्तरं ग्रन्थ­मु­त्था­प­यति –
तथेति ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य पञ्चदशः खण्डः ॥

परीक्षणाय परीक्षाद्वारेण रक्षणार्थमिति यावत् । पर­स्व­ग्र­ह­ण­मा­त्रेण बन्धेन प्रतिग्रहीतुरपि बन्धप्रसङ्गान्न तन्मात्रं बन्ध­न­का­र­ण­मि­त्याह –
अन्यथेति ।
तत एवा­नृ­ता­भि­स­न्ध­त्वा­दे­वे­त्यर्थः ॥१॥

तत एवेति ।
स्तैन्यस्य कर्म­णोऽ­क­र्तृ­त्वा­दे­वे­त्यर्थः ।

दृष्टान्ते विव­क्षि­त­मं­श­म­नु­व­दति –
तप्तेति ॥२॥

तदनुवादपूर्वकं दार्ष्टा­न्ति­क­माह –
स यथेति ।

स य एषोऽणिमेत्यादि व्याचष्टे –
यदात्मेति ।

त्वं तदसीति त्वमर्थोद्देशेन तदर्थभावो विधीयते तत्रोद्देश्यस्य शरी­र­द्व­य­वि­शि­ष्टस्य विरो­धा­द­श­री­र­ब्र­ह्मा­त्मत्वं विधातुमशक्यमिति मन्वानश्चोदयति –
कः पुनरिति ।

त्वंपदेन वाच्यस्य लक्ष्यस्य वा ब्रह्म­त्वा­यो­ग­स्त्व­यो­च्यते ? नाऽऽद्योऽ­ङ्गी­का­रान्न द्विती­यः­श­री­र­द्व­य­वै­शि­ष्ट्यो­प­ल­क्षि­तस्य श्रोतृ­त्वा­द्य­ध्या­सा­स्प­दस्य त्वंपदलक्ष्यस्य ब्रह्मत्वविधाने विरो­धा­स्फु­र­णा­दिति परिहरति –
योऽहमिति ।
विज्ञाय च वेदेति पूर्वेण सह सम्बन्धः ।

तस्य सतः सकाशादौपाधिको भेदो वस्तु­त­स्त्वै­क्य­मिति मत्वाऽऽह –
तेजोबन्नमयमिति ।

त्वंपदार्थं श्वेतकेतुं निर्धार्य तद्धास्येत्यादि व्याचष्टे –
आत्मानमिति ।

अज्ञा­ता­र्थ­प्र­का­शनं मानफलं तस्य स्वप्रकाशे ब्रह्मणि नोपपत्तिरिति मन्वानश्चोदयति –
किं पुनरिति ।
अत्राऽऽत्मनीति सम्बन्धः ।

स्वप्रकाशे प्रकाशातिशयस्य मान­फ­ल­स्या­स­म्भ­वेऽ­प्य­ध्य­स्त­व्या­वृ­त्ति­स्त­त्फलं भवि­ष्य­ती­त्यु­त्त­र­माह –
कर्तृत्वेति ।
अश्रुतस्य श्रवणायामतस्य मन­ना­या­वि­ज्ञा­तस्य विज्ञा­न­फ­ल­सि­द्धये चाधिकृतं यमर्थं त्वंप­द­वा­च्य­म­वो­चाम तस्य स्वात्मनि क्रियाकर्तृत्वे फलभोक्तृत्वे च यन्मि­थ्यै­वा­धि­कृ­त­त्व­वि­ज्ञानं तन्नि­वृ­त्ति­र्मा­न­फ­ल­मिति योजना ।

यथोक्तं मानफलमेव प्रपञ्चयति –
प्राक्चेति ।
अह­मे­वा­त्रा­धि­कृ­त­श्चेति चकारस्य सम्बन्धः । तस्ये­त्य­ज्ञ­स्ये­त्यर्थः ।

विरोधमेव स्फोरयति –
न हीति ।

प्रमा­ण­फ­ल­मु­प­सं­ह­रति –
तस्मादिति ।

तत्त्वमसीति वाक्यं मुख्यै­क­त्व­प­र­मिति स्वपक्षमुक्त्वा परपक्षं शङ्कते –
नन्विति ।

आध्यासिकमेकत्वं सामा­ना­धि­क­र­ण्या­ल­म्ब­न­मिति स्वपक्षं दृष्टा­न्ते­नोक्त्वा सिद्धान्तं दूषयति –
नत्विति ।
श्वेतकेतोः सन्मात्रत्वे तद­ज्ञा­ना­यो­गा­द­स­कृ­दु­प­दे­शा­सि­द्धि­रि­त्यर्थः ।

किम­ध्या­स­वा­क्य­सा­मा­न्या­दा­ध्या­सि­क­मे­कत्वं सामा­ना­धि­क­र­ण्या­ल­म्बनं किं वा मुख्यैकत्वे बाधकसद्भावादिति विकल्प्याऽऽद्यं दूषयति –
नेत्यादिना ।
यथा लोके शुक्तिकां रजतमिति प्रत्ये­ती­त्या­दा­वि­ति­श­ब्द­परं सामानाधिकरण्यं न वस्तुनिष्ठं दृष्टं तथाऽ­ध्या­स­वा­क्या­ना­म­प्या­दित्यो ब्रह्मेत्यादेश इत्या­दी­ना­मि­ति­श­ब्द­प­र­सा­मा­ना­धि­क­र­ण्य­व­शा­द­व­स्तु­नि­ष्ठत्वं गम्यते न तथा तत्त्व­म­सि­वा­क्य­स्या­व­स्तु­नि­ष्ठ­त्व­मि­ति­श­ब्द­प­र­त्वा­भा­वेन सामा­ना­धि­क­र­ण्यस्य स्वरू­प­प­र्य­व­सा­यि­त्व­नि­श्च­या­दि­त्यर्थः । इह त्विति प्रकरणोक्तिः । इह प्रवेशं दर्श­यि­त्वे­त्यत्र तेजोबन्नमयं सङ्घातमिहेति व्यपदिशति ।

जीव­ब्र­ह्म­णो­र्भे­द­ग्रा­हि­प्र­मा­ण­वि­रो­धान्न मुख्यमेकत्वं किं तु चैत­न्य­गु­ण­यो­गा­द्गौ­ण­मिति द्वितीयं शङ्कते –
नन्विति ।

यथा मृदादि कारणमेव घटादि कार्यं न पृथगस्ति तथा सर्व­मि­द­मा­का­शा­दि­कार्यं सन्मात्रं तत्र सर्व­प्र­का­र­भे­द­र­हि­त­मे­क­र­स­म­बा­धि­त­मि­त्यु­प­दे­श­द­र्श­नान्न गौण­मे­क­त्व­मि­त्यु­त्त­र­माह –
नेत्यादिना ।

इतश्च नोप­च­रि­त­मे­क­त्व­मि­त्याह –
न चेति ।

औप­चा­रि­क­वि­ज्ञा­नस्य मृषात्वे दृष्टान्तमाह –
त्वमिति ।

किञ्च गौणमेकत्वं वदता स्तुत्यर्थत्वं विधिपरत्वं वा वाक्यस्य वक्तव्यं ? आद्येऽपि श्वेतकेतोः सतो वा वस्तुनः स्तुतिरिति विकल्प्याऽऽद्यं दूषयति –
नापीति ।

उपास्यत्वात्सतः स्तुतिरिति द्वितीयमाशङ्क्य दूषयति –
नापि सदिति ।

इतश्च श्वेत­के­तु­त्वो­प­दे­शेन सतो न स्तुतिरित्याह –
नापि सत इति ।

श्वेत­के­तो­र­नु­पा­स्य­त्वेन स्तुत्य­स­म्भ­वेऽपि कर्तृ­त्वा­त्क­र्मसु तत्स्तावकत्वं वाक्यस्य युक्त­मि­त्या­शङ्क्य कर्म­वि­ध्य­स­न्नि­धा­ना­त्स­दा­त्म­त्व­मा­त्र­प्र­ती­तेश्च नैवमित्याह –
न चेति ।

विक­ल्पा­न्त­र­मु­द्भा­व­यति –
ननु सदस्मीतीति ।

एकविज्ञानेन सर्व­वि­ज्ञा­न­व­च­न­वि­रो­धान्न दृष्टि­वि­धि­प­र­त्व­मि­त्यु­त्त­र­माह –
नन्विति ।
गौणपक्षेऽपि तुल्याऽ­नु­प­प­त्ति­रि­त्य­पे­रर्थः ।

एकविज्ञानेन सर्व­वि­ज्ञा­न­श्रु­तेर्न विरोधोऽस्तीति पूर्ववाद्याह –
नेति ।

नेदमेकविज्ञानेन सर्वविज्ञानं दृष्टि­वि­धि­स्तुतिः कार्य­का­र­णा­न­न्य­त्वा­दि­यु­क्ति­भि­रु­प­पा­दि­त­त्वा­द्वि­धि­पक्षे चास­म्भा­व­ना­दि­नि­रा­स­स­म­र्था­चा­र्य­व­त्त्वो­प­दे­शा­न­र्थ­क्या­दौ­प­दे­शि­क­ज्ञा­न­मा­त्रेण विध्य­नु­ष्ठा­न­सि­द्धे­र्वि­ध्य­पे­क्षि­तस्य च तेनै­वाऽऽ­क्षे­पा­दि­त्यु­त्त­र­माह –
नाऽऽचार्यवानिति ।

तदेव विवृणोति –
यदि हीति ।
आचा­र्य­व­त्त्व­मिति नोपदिश्यत इति शेषः ।

इतश्च नेदं वाक्यं दृष्टि­वि­धि­प­र­मे­ष्ट­व्य­मि­त्याह –
तस्येति ।
सदा­त्म­त्व­सा­क्षा­त्का­रा­दृ­तेऽपि सकृ­द­नु­ष्ठि­त­प­रो­क्ष­बु­द्धि­मा­त्रा­न्मो­क्ष­स­म्भ­वा­द्वि­ल­म्बा­भि­धा­न­म­न­र्थ­क­मा­प­द्येत यथा सकृदनुष्ठितादपि यागाद्भवति स्वर्गस्तद्वदिह च चिरमिति क्षेपकरणं मोक्षस्येति तस्मान्नेदं दृष्टि­वि­धि­प­र­मि­त्यर्थः ।

किञ्च विधिवादिना प्रतीयमानेऽर्थे वाक्य­स्या­प्रा­माण्यं विप­र्या­स­ल­क्ष­ण­म­नु­त्प­त्ति­ल­क्षणं वा वाच्यं तदुभयं दुर्वचमित्याह –
न चेति ।
तत्त्व­म­सी­त्य­धि­का­रिणं प्रत्युक्ते सति प्रमाणभूतेन तेन वाक्येन जनिता सद्ब्रह्माहमिति या तस्य बुद्धिस्तां निवर्तयितुं नाहं सदिति बलवती बुद्धि­रु­त्प­न्नेति न शक्यते वक्तुं विवेकवतः श्रुतवाक्यस्य तथा­वि­ध­बु­द्ध्य­नु­त्पा­दात् । न चाधिकारिणः श्रुतवाक्यस्य सद्ब्रह्माहमिति बुद्धि­र्नो­त्प­न्नेति वक्तुं शक्यमधिकारिणः प्रमितिजनको वेद इति न्यायात् । न च भेदप्रत्ययो यथोक्ताया बुद्धे­र्बा­ध­क­स्तस्य स्वाप्न­भे­द­प्र­त्य­य­व­न्मि­थ्या­त्वा­नु­मा­ना­दि­त्यर्थः ।

इतश्च तत्त्वमसिवाक्यं वस्तु­प­र­मे­वे­त्याह –
सर्वोपनिषदिति ।

तत्त्व­म­सि­वा­क्या­न्ना­य­थार्था बुद्धिर्नापि न भवेत्येव बुद्धि­रि­त्ये­त­मर्थं दृष्टान्तेनाऽऽह –
यथेति ।

जीवे भास­मा­नेऽ­प्य­न­व­भा­स­मा­न­त्वान्न स्वभावो ब्रह्मे­त्यु­क्त­म­नूद्य दूषयति –
यत्तूक्तमिति ।
लोका­य­ता­ति­रि­क्तानां देहादतिरेको जीवस्य स्वाभाविकोऽपि नावभासते तथा ब्रह्मभावोऽपि तस्या­ना­द्य­नि­र्वा­च्या­ज्ञा­न­सा­म­र्थ्या­देव नावभासिष्यते ।

तथा च तस्मि­न्भा­स­मा­नेऽ­प्य­न­व­भा­स­मा­न­त्वान्न स्वभावो ब्रह्मे­त्य­युक्तं व्याप्त्य­भा­वा­दि­त्याह –
कार्येति ।

ननु देह­व्य­ति­रि­क्ता­त्म­वा­दि­ना­मा­त्मनि भाति देह­व्य­ति­रि­क्तोऽपि भात्येवेति व्याप्ति­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
कथमिति ।
देहा­दि­स­ङ्गा­ता­द­ति­रि­क्तोऽ­ह­मि­त्येवं व्यति­रि­क्त­वि­ज्ञाने सति कथं तेषां कर्तृ­त्वा­दि­वि­ज्ञानं सम्भवति । न हि सङ्गा­ता­भि­मा­न­वि­गमे तद्युज्यते । न च तन्नास्त्येव दृश्य­मा­न­त्वा­दि­त्यर्थः ।

सिद्धे दृष्टान्ते दार्ष्टा­न्ति­क­माह –
तद्वदिति ।
देहा­द्व्य­ति­रि­क्तस्य सतोऽ­प्य­प्र­ति­भा­न­व­त्स­दा­त्म­क­स्यापि श्वेत­के­तो­र्दे­हा­दि­ष्वा­त्मा­भि­मा­नि­त्वा­त्स­दा­त्मनि ब्रह्मणि विज्ञानं न स्याद­त­स्त­त्स्व­भा­व­स्यापि ब्रह्म­भा­व­स्या­प्र­ति­भा­न­म­ज्ञा­न­कृ­त­मि­त्यर्थः ।

वाक्य­स्या­र्था­न्त­र­प­र­त्वा­स­म्भवे फलितमुपसंहरति –
तस्मादिति ।
महा­वा­क्य­स्यो­क्तया विध­याऽ­र्था­न्त­र­प­र­त्वा­स­म्भ­वा­द्वि­का­रेऽ­नृ­ता­भि­स­न्धि­कृ­तोऽयं जीवा­त्मे­त्ये­वं­रूपं यन्मिथ्याज्ञानं तस्य सनिदानस्य निवर्तकमेवेदं तत्त्वमसिवाक्यं न त्वभू­त­प्रा­दु­र्भा­व­फ­ल­मि­त्येवं जीव­ब्र­ह्म­णो­रैक्यं सर्वो­प­नि­ष­त्सा­र­भूतं स्थितमित्यर्थः ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य षोडशः खण्डः ॥
इति श्रीप­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तायां श्रीश­ङ्क­र­भ­ग­व­त्कृ­त­च्छ­न्दो­ग्य­भा­ष्य­टी­कायां षष्ठोऽध्यायः समाप्तः ॥