आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: प्रथमः खण्डः (२)
भुक्तस्यान्नस्य पीतानामप्यपामशितस्य तैलादेश्च येऽणिष्ठा धातवस्ते मनोवाक्प्राणा इत्येवं यतः सिद्धमतस्तेषामन्नादिमयत्वं युक्तिमित्याह –
यत इति ।
तेषामन्नादिमयत्वं व्यतिरेकासिद्धिमाश्रित्याऽऽक्षिपति –
नन्विति ।
आखुप्रमुखानां स्फुटोदपादानाद्यनुपलम्भेऽपि यत्तेषां भक्ष्यं तत्रैवोदकान्तर्भावसम्भवात्प्राणादेरम्मयत्वाद्युपपन्नमित्युत्तरमाह –
नैष दोष इति ।
सर्वस्यान्नादेस्त्रिवृत्कृतत्वस्योक्तत्वात्तस्य सर्वस्यैव भक्ष्यस्य भूतत्रयात्मत्वसम्भवादेकैकं भक्षयतोऽपि सर्वभक्षकत्वोपपत्तेर्मन आदेरन्नादिमयत्वमविरुद्धमित्यर्थः ।
उक्तमेव व्यक्तीकरोति –
न हीत्यादिना ।
उक्तरीत्या मनाअदेरन्नादिमयत्वप्रत्यायनद्वारा प्रनाड्या सन्मात्रपरिशेषे प्रत्यायिते सति श्वेतकेतुश्चोदयतीत्याह –
इत्येवमिति ।
सर्वेषां सन्निधानाविशेषेऽन्नस्य सूक्ष्मांशो मन एवोपचिनोति न प्राणमिति निश्चयासिद्धिरित्याह –
नाद्यापीति ।
पार्थिवमेवोपचिनोतीति विशेषमाशङ्क्याऽऽह –
यस्मादिति ।
एकस्मिन्नुदरे प्रविष्टानामन्नादीनां मिश्रीभूतत्वान्मनसश्च सर्वभूतगुणव्यञ्जकत्वेन सर्वभूतारब्धत्वात्पार्थिवत्वासिद्धेर्नोक्तो विशेषः सम्भवतीत्यर्थः । यस्मादेवमभिप्रायः श्वेतकेतोरत इति योजना ।
मन आदेरन्नादिमयत्वमुपपादयितुमुत्तरग्रन्थमवतारयति –
तमेवमिति ।
यत्त्वं मन आदेरन्नादिमयत्वं कथमिति पृच्छसि तदिदं यथोपपद्यते तथाऽत्रान्नादिमयत्वे तस्य दृष्टान्तमुच्यमानं शृण्विति योजना ॥४॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य पञ्चमः खण्डः ॥
मिश्रीभावेऽपि सूक्ष्मभागस्य पृथगेव कार्यकारणत्वे दृष्टान्तमाह –
दध्न इति ॥१॥
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ।
खजो मन्थास्तेन मध्यमानस्य दध्नो यथाऽणिमा तथा यथोक्तस्यान्नस्य योऽणिमेति योज्यम् ।
कथं तन्मनो भवतीत्युच्यते प्रागपि मनसः सिद्धत्वादित्याशङ्क्याऽऽह –
मनोऽऽवयवैरिति ॥२-४॥
मन आदेरन्नादिमयत्वमुपसंहरति –
अन्नमयं हीति ।
अतो भवदभिप्रायादिति यावत् । एतत्सर्वमिति प्राणस्याम्मयत्वं वाचस्तेजोमयत्वं चोच्यते ।
हृदयप्रदेशे प्राणादिसंनिधानाविशेषे कथं मनस एवान्नरसेनोपचय इत्येतन्नाद्यापि समाहितमिति मत्वाऽऽह –
मनस्त्विति ।
मनसो विशेषतोऽन्नमयत्वमुपपादयितुमुत्तरग्रन्थमुत्थापयति –
तथेति ॥५॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य षष्ठः खण्डः ॥
अन्वयव्यतिरेकाभ्यां मनसोऽन्नरसोपचितत्वं दर्शयितुमन्नरसजनितां शक्तिं कलात्वेन कल्पयति –
अन्नस्येत्यादिना ।
षोडशदिनावच्छेदेन षोडशधा कल्पनं द्रष्टव्यम् ।
तथाऽपि पुरुषस्य कथं षोडशकलत्वमत आह –
तयेति ।
तामेव प्रकृतामन्नरसकृतां शक्तिं विशिनष्टि –
यस्यामिति ।
तया संयुक्तः पुरुषः षोडशकल इति पूर्वेण सम्बन्धः ।
अन्नरसजनितं मानसशक्तिप्रयुक्तं संघातस्य सामर्थ्यमित्यत्र वाक्यं प्रमाणयति –
वक्ष्यति चेति ।
आयो लाभोऽस्यास्तीत्यायी यावदन्नं प्राप्यात्ता भवति तावदेवास्य द्रष्टेत्यादिव्यवहारः सम्भवतीत्यर्थः ।
उक्तेऽर्थे लोकानुभवमनुकूलयति –
सर्वस्येति ।
तदेव स्पष्टयति –
मानसेनेति ।
किंच केचिन्मानसेनैव बलेन ध्यानाहारा दृश्यन्ते तच्च ध्यानमन्नपरम्परापरिनिष्पन्नमन्नस्यैव देहादिरूपेण परिणतत्वादित्याह –
ध्यानेति ।
एवं पातनिकां कृत्वा षोडशकलशब्दार्थमाह –
अत इति ।
यतोऽन्नकृतं मानसं वीर्यमतस्तदेव षोडशधा विभज्य कला यस्येति योजना । एतच्छब्देनान्नकृतं मानसं वीर्यं परामृश्यते । विच्छेत्स्यते विच्छेदमापत्स्यते यस्मात्तस्मादपः पिबेति पूर्वेण सम्बन्धः ।
अपां पानपरित्यागे प्राणविच्छेदे कारणमाह –
यस्मादिति ।
प्राणस्याम्मय्यत्वेऽपि किमित्यपां परित्यागे तस्योच्छेदस्तत्राऽऽह –
न हीति ॥१-३॥
ऋगाद्यप्रतिभानं तत्रेत्युच्यते । ईषदपि न देहात्कुतो बहु दहेदिति योजना ॥३-५॥
व्यावृत्तिर्व्यतिरेकोऽन्नोपयोगाभावे मनसः सामर्थ्याभावः । अनुवृत्तिरन्वयोऽन्नोपयोगे मनसः सामर्थ्यमिति भेदः । मनसोऽन्नमयत्वमुपपादयितुमुपक्रान्तमापोमयः प्राण इत्यादि कथमिहोच्यते तत्राऽऽह –
यथैतदिति ।
विद्यासमाप्तिमन्तरेण कथं द्विर्वचनमित्याशङ्क्याऽऽह –
द्विरभ्यास इति ॥६॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य सप्तमः खण्डः ॥
त्रिवृत्करणनिर्णयविषयमवान्तरप्रकरणं परिसमाप्य महाप्रकरणं सद्विषयमेवानुवर्तयन्मनसो लये सुषुप्तौ जीवस्य सत्संपत्तिं वक्तुं मन उपाधिकत्वमुक्तमनुवदति –
यस्मिन्निति ।
उपाधेः स्वरूपमुक्तं संचारयति –
तन्मन इति ।
उपाध्युपहिते कार्यकरत्वं दर्शयति –
यन्मय इति ।
मनसो भावे जाग्रत्स्वप्नव्यवहारसिद्धिरित्युक्त्वा तदभावे सुषुप्तिमवतारयति –
तदुपरमे चेति ।
आत्मनि मनोवशादेव दर्शनादिव्यवहारो न स्वारस्येनेत्यत्र बृहदारण्यकश्रुतिं प्रमाणयति –
तदुक्तमिति ।
द्वितीये वाक्ये सधीरित्येतदुपयुज्यते । तृतीये तु विज्ञानमयो मनोमय इति च पदद्वयमुपजीव्यते ।
एवं भूमिकां कृत्वा समनन्तरवाक्यमादत्ते –
तस्येति ।
तत्पुत्रायेत्यत्र तस्यां देवतायां तदवस्थानमिति तच्छब्दार्थः । तत्रेति द्वितीयपक्षोक्तः ।
अर्थादिति ।
स्वप्नस्य हि कार्यस्य सतत्त्वं कारणं तच्च सुषुप्तमेव । “सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः”(नै.सि. ४ । ४३) इत्युभयापगमनात् । द्वितीयव्याख्याने सुषुप्तमेवार्थवशात्फलतीत्यर्थः ।
इतश्च स्वप्नान्तशब्देन साक्षादर्थाद्वा सुषुप्तमेवोक्तमित्याह –
स्वमिति ।
नन्ववस्थान्तरेऽपि स्वमपीतो भवतीतिवचनमविरुद्धमिति चेन्नेत्याह –
नहीति ।
तत्रापि कथं स्वापः स्यादित्याशङ्क्याऽऽह –
तत्रेति ।
स्वपितिनामनिर्वचनसामर्थ्यसिद्धमर्थं निगमयति –
अत इति ।
ननु स्वप्नान्तशब्दो बुद्धान्तशब्दवद्यदा स्वप्नमेवान्वचष्टे तदाऽपि स्वमपीतो भवतीत्यविरुद्धं सर्वदा जीवस्य सद्रूपब्रह्मप्राप्तेस्तुल्यत्वादत आह –
यत्र त्विति ।
स्वप्नदर्शनस्य पुण्यापुण्यकार्यत्वं प्रकटयति –
पुण्यापुण्ययोर्हीति ।
न केवलं पुण्यापुण्याभ्यामेव स्वप्ने संयुज्यते किन्त्वविद्यादिभिश्चेति न तत्र स्वाप्ययः सम्भवतीत्याह –
पुण्यापुण्ययोश्चेति ।
तर्हि स्वप्नवन्न सुषुप्तेऽपि स्वाप्ययः स्यात्तत्रापि कामकर्मादिसबन्धसम्भवादित्याशङ्क्याऽऽह –
अनन्वागतमिति ।
सति जीवरूपे कथं देवताभावः सम्भवतीत्याशङ्क्याऽऽह –
मनसीति ।
तस्मादित्यस्यातःशब्दो व्याख्यानं तेन परामृष्टं हेतुमेव स्पष्टयति –
स्वमात्मानमिति ।
स्वपितिनामनिर्वचनफलं दर्शयति –
गुणेति ।
सुषुप्ते स्वरूपावस्थानस्य मुख्यस्यासंभवान्मुक्तत्वेनानुत्थानप्रसङ्गात्स्वरूपावस्थानप्रसिद्धेर्निमित्तं वक्तव्यमिति पृच्छति –
कथं पुनरिति ।
ज्वरादिरोगग्रस्तस्य स्वभावस्थितौ प्रसिद्धः श्रमाभावः सुषुप्तं च श्रमापनोदावस्थानं तथा च तत्र स्वरूपस्थितिप्रसिद्धिरविरुद्धेत्याह –
जाग्रदिति ।
संगृहीतं समाधानं विवृणोति –
जागरिते हीति ।
करणानामनेकव्यापारनिमित्ता ग्लानिर्भवतीत्यत्र मानमाह –
श्रुतेश्चेति ।
अनुभवसमुच्चयार्थश्चकारः सुषुप्त्यवस्थायां करणानामुपरतौ प्रमाणमाह –
तथा चेति ।
सुषुप्तौ प्राणस्यापि वागादिवदुपसंहृतत्वमाशङ्क्याऽऽह –
करणानीति ।
अन्यथा मृतिभ्रान्तिः स्यादिति भावः जीवस्यापि बहिर्व्यापारः स्यादिति चेन्नैवं करणाभावादित्याह –
तदेति ।
ननु सुषुप्ते श्रमापनोदार्थं न स्वरूपावस्थानं तत्कुतो लौकिकी प्रसिद्धिरित्याशङ्क्याऽऽह –
नान्यत्रेति ।
उक्तमर्थं लौकिकदृष्टान्तेन स्पष्टयति –
दृश्यते हीति ।
बृहदारण्यकश्रुत्यालोचनायामपि सुषुप्त्यवस्थायामवस्थाद्वयजनितश्रमापोहार्थं ब्रह्मनीडप्राप्तिर्गम्यत इत्याह –
तद्यथेति ॥१॥
तत्रेति सुषुप्त्यवस्थोच्यते । यथोक्तोऽर्थो हि जीवस्य ब्रह्मण्यवस्थानं तस्मिन्निति यावत् । सशब्दो दृष्टान्तविषयः शकुनिविषयो वा । अप्राप्येति च्छेदः । यथा मञ्चाक्रोशनेन मञ्चस्थो देवदत्तो लक्ष्यते तथा तन्मन इति मनसि स्थितो जीवो लक्ष्यो भवतीत्याह –
मञ्चाक्रोशनवदिति ।
न केवलं प्रकरणात्प्राणशब्देन परा देवतालक्ष्यतेऽन्यत्र प्रयोगदर्शनाच्चेत्याह –
प्राणस्येति ।
प्राणशब्देन परदेवतालक्षणायां फलितमाह –
अत इति ।
प्राणमेवोपश्रयते विज्ञानात्मेत्यत्र हेतुमाह –
प्राणबन्धनमिति ॥२॥
वृत्तमनूद्यानन्तरवाक्यमुत्थापयति –
एवमिति ।
आहाशनापिपासे सोम्येत्यादीति शेषः ।
किमभिप्रायः सन्पिता पुत्रं प्रत्येवमाहेत्याकाङ्क्षायामाह –
अन्नादीति ।
अन्नादीनि कार्याणि कारणान्यबादीनि तेषां या परम्परा तयाऽपि जगतो यत्सल्लक्षणं मूलं तद्दर्शयितुमिच्छन्पिता पुत्रं प्रत्यशनेत्यादिकं वाक्यमाहेत्यर्थः ।
अशनेत्यस्य सन्नन्तत्वाभावेऽपि कथं तदर्थो व्याख्यायते तत्राऽऽह –
अशनेति ।
यकारस्य लोपेनास्मिन्प्रयोगे सन्प्रत्ययः प्रयुक्तस्तथाच तदर्थोक्तिरविरुद्धेत्यर्थः ।
तत्राशनायापिपासयोः सतत्त्वं विज्ञापयति –
यत्रेति ।
सामान्येनोक्त नाम विशेषतो ज्ञातुं पृच्छति –
किं तदिति ।
यत्कठिनमन्नं पुरुषेणाशितं तत्पीता आपो नयन्त इति सम्बन्धः । तदेति परिणामावस्थोक्तिः । अथेत्यन्नस्य भुक्तस्य जीर्णत्वानन्तर्यमुच्यते ।
कथं तदा नाम्नो गौणत्वं तदाह –
जीर्णे हीति ।
तद्यथेत्यत्र तच्छब्दार्थमाह –
तत्तत्रेति ।
एतस्मिन्नर्थे दृष्टान्त उच्यत इति शेषः ।
अशनायेति कथमपामाख्यानमशनाया इति हि वक्तव्यं तत्राऽऽह –
विसर्जनीयेति ।
तत्रेत्यस्य व्याख्यानमेवं सतीत्यपामशितनेतृत्वे सतीत्यर्थः । अद्भिः पीताभिरिति शेषः । तत्रेति शरीरनिर्देशः ॥३॥
अन्नस्य देहमूलत्वमाकाङ्क्षापूर्वकं व्युत्पादयति –
कथमित्यादिना ।
तथा पुरुषभुक्तान्नवदिति यावत् ।
तथाऽपि कथं सतो मूलस्य सिद्धिरत आह –
यत्त्विति ।
सतो मूलस्य वास्तवं रूपं दर्शयति –
एकमिति ।
तस्य सर्वकल्पनाधिष्ठानत्वेन परिणामवादं व्युदस्यति –
यस्मिन्निति ।
अध्यासे मूलकारणमाह –
अविद्ययेति ।
प्रजाः सर्वाः सन्मूलाः सदायतनाश्चेत्युक्तमर्थं दृष्टान्तेन समर्थयते –
न हीति ।
सत्प्रतिष्ठाः सदायतनाश्चेत्यनयोरर्थभेदाभावमाशङ्क्याऽऽह –
अन्ते चेति ।
प्रतिष्ठाशब्दस्य लयवाचित्वादायतनशब्दस्य चाऽऽश्रयविषयत्वान्न पौनरुक्त्यमित्यर्थः ।
लयशब्दस्य सुषुप्त्यादिविषयत्वं वारयति –
समाप्तिरिति ।
सम्यगाप्तिः समाप्तिरिति प्राप्तिरत्र विवक्षितेति शङ्कां वारयति –
अवसानमिति ।
तस्याभावत्वेन तुच्छरूपत्वं निरस्यति –
परिशेष इति ॥४॥
अन्नाख्यशुङ्गद्वारा सतो मूलस्याधिगतेरनन्तरमित्यथशब्दार्थः । पिपासतीत्येतन्नाम पुरुषो यस्मिन्काले भवतीति योजना । कथं पिपासतीत्येतन्नाम पुरुषस्य गौणमित्याशङ्क्याऽऽह –
द्रवीकृतस्येति ।
भवत्वपां तेजसा शोष्यमाणत्वं किं तावतेत्याशङ्क्याऽऽह –
नितरां चेति ।
तदा पानेच्छावस्थायामित्यर्थः ।
तेजसो यदुदकनेतृत्वमुक्तं तत्र श्रुतिमवतार्य व्याचष्टे –
तदेतदाहेति ।
उदन्यमिति वक्तव्ये कथमुदन्येत्युक्तं तत्राऽऽह –
उदन्येतीति ।
तत्रापि तेजस्यपीत्येतत् ।
यथाऽशनायेति च्छान्दसं तथा तेजस्युदन्येत्यपि च्छान्दसमेवेत्याह –
पूर्ववदिति ।
अन्नद्वारा सतो मूलस्याधिगमवदम्बुद्वाराऽपि तस्याधिगतिरस्तीत्याह –
अपामपीति ॥५॥
तेजःशुङ्गद्वाराऽपि सतो मूलस्य प्रतिपत्तिरस्तीत्याह –
सामर्थ्यादिति ।
त्रिवृत्करणवशादिति यावत् । शरीरस्य भूतत्रयकार्यत्वमतःशब्दार्थः ।
यथा पूर्वमन्नशुङ्गेन देहेनान्नाख्यं मूलं गम्यत इत्यादि व्याख्यातं तथा तेजःशुङ्गेन देहेन तेजो मूलं गम्यत इत्यादि व्याख्येयमित्याह –
पूर्ववदिति ।
वृत्तानुवादपूर्वकं यथेत्यादिवाक्यमादत्ते –
एवं हीति ।
उक्तया रीत्या नामद्वयप्रसिद्धिद्वारेण यथोक्तदेहाख्यशुङ्गस्यान्नादिकारणपरम्परया सदाख्यं मूलमुक्तविशेषणं सन्मूलमन्विच्छेत्युपदेशेन श्वेतकेतुं ज्ञापयित्वा व्यवस्थया शरीरमेकैकभूतारब्धमित्याक्षेपे प्राप्ते यदस्मिन्प्रकरणे तेजःप्रभृतीनामुपयुज्यमानानां स्वस्वभावानुसारेण संघातस्योपचयकरत्वं वक्तव्यं प्राप्तं तदिह सर्वशरीरेषु सर्वभूतकार्योपलम्भाद्व्यवस्थायां प्रमाणाभावाद्दृश्यमाने संघाते कस्य भूतस्य कियत्कार्यमित्यपेक्षायामन्नमशितमित्यादावुक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशतीति योजना ।
सतो मूलस्य व्यवहारसत्यत्वं वारयति –
परमार्थेति ।
वस्तुतो नाविद्यासंबन्धस्तस्यास्तीत्याह –
अभयमिति ।
अविद्याकार्यसंबन्धोऽपि परमार्थतो न तस्यास्तीत्याह –
असंत्रासमिति ।
उभयसम्बन्धाभावे समुत्खातनिखिलदुःखत्वेन परमानन्दत्व तस्य सिद्ध्यतीत्याह –
निरायासमिति ।
पूर्वोक्तमेव व्यक्तीकरोति –
तत्रैवेति ।
किं तदन्नमशितमित्यादाभुक्तं तत्राऽऽह –
अन्नादीनामिति ।
साप्तधातुकं त्वगसृङ्मांसमेदोमज्जास्थिशुक्राख्याः सप्त धातवस्तेषां संहतिरूपमित्यर्थः ।
तेजोबन्नकार्यभूतदेहशुङ्गद्वारा सत्तत्वं निरूपितमिदानीं मरणद्वारेणापि तन्निरूपयितुमारभते –
सोऽयमिति ।
तदाहेत्यत्र क्रमवद्गमनं तदित्युक्तम् ।
वाग्व्यापारस्य मनसि लये हेतुमाह –
मनःपूर्वको हीति ।
प्राणसंपत्तिर्मनसस्तदधीनत्वम् । मनोव्यापारनिवृत्त्यवस्था तदेत्युच्यते । प्राणश्च तदेत्यविज्ञानावस्था कथ्यते ।
कथं प्राणस्य स्वात्मन्युपसंहृतबाह्यकरणत्वं तदाह –
संवर्गविद्यायामिति ।
तत्र हि प्राणः संवृङ्क्ते वागादीनिति । दृष्टमतो युक्तं तस्य स्वात्मन्युपसंहृतकरणत्वमित्यर्थः । तेजसीति भौतिकमाध्यात्मिकं तेजो गृह्यते । जीवतीत्याहुरिति सम्बन्धः ।
सकरणस्य सप्राणस्य च भूतवर्गस्य परस्यां देवतायामुक्तक्रमेणोपसंहारेऽपि जीवस्य किमायातमित्याशङ्क्याऽऽह –
तदेवमिति ।
तस्यां परस्यां देवतायामुक्तेन क्रमेण तेजस्युपसंहृते सतीति यावत् । स्वमूलं मनसो मूलं भूतपञ्चकम् । निमित्तोपसंहारादित्यत्र निमित्तं मनो विवक्षितम् ।
सत्सम्पन्नस्य सत्याभिसंधेर्न पुनरुत्थानमित्येतद्दृष्टान्तेन स्पष्टयति –
यथेति ।
अभयं देशं प्राप्तो न पुनः सभयं देशं गन्तुमिच्छतीति शेषः ।
यस्त्वनृताभिसंधो यथोक्तया रीत्या न तत्संपन्नस्तं प्रत्याह –
इतरस्त्विति ॥६॥
अस्येति षष्ठ्या सर्वं जगदुक्तम् । असंसारी संसारी वेति च्छेदः । मूलादेर्विशेषं दर्शयति –
परमार्थेति ।
कल्पितस्य जगतः स्वरूपं प्रत्यग्भूतमतात्त्विकमिति शङ्कां वारयति –
सतत्त्वमिति ।
तत्त्वेन सहितमपि सतत्त्वमित्याशङ्क्याऽऽह –
याथात्म्यमिति ।
कथमेवमर्थत्वमात्मशब्दस्य लभ्यते तत्राऽह –
आत्मशब्दस्येति ।
सतो भवत्वात्मत्वं मम तु किं स्यादित्याशङ्क्याऽऽह –
अत इति ।
सन्देहास्पदमेव विशिनष्टि –
अहन्यहनीति ।
सन्देहे हेतुमाह –
येनेति ।
तेन सन्दिग्धमेतदिति पूर्वेण सम्बन्धः ।
सन्देहव्यावृत्तिस्तर्हि कथमित्यत आह –
अत इति ।
पुत्रस्य प्राप्तसन्देहापोहार्थमुत्तरग्रन्थमुत्थापयति –
एवमिति ॥७॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्याष्टमः खण्डः ॥
यथेत्यादिदृष्टान्तमवतारयति –
यत्पृच्छसीति ।
प्रत्यहं सुषुप्ते सर्वाः प्रजाः सत्सम्पद्य सत्सम्पन्नाः स्मो वयमिति यन्न विदुस्तदज्ञानं कस्मात्कारणादिति यन्मां पृच्छसि तत्र सुषुप्तादावज्ञाने कारणभूतं दृष्टान्तमुच्यमानं श्रुणु त्वमिति योजना ।
यथा स दृष्टान्तः स्पष्टो भवति तथोच्यत इत्याह –
यथेति ।
पुनर्मधुपदं क्रियापदेन सम्बन्धप्रदर्शनार्थम् ।
मधुकृतां मधुनिष्पादकत्वमाकाङ्क्षापूर्वकं दर्शयति –
कथमित्यादिना ।
नानागतीनां नानाफलानामित्येतत् ।
बहूनां रसानां कथमेकतेत्याशङ्क्याऽऽह –
मधुत्वेनेति ।
तदेव स्पष्टयति –
मधुत्वमिति ॥१॥
ते यथेत्यादि व्याचष्टे –
ते रसा इति ।
उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति –
यथा हीत्यादिना ।
इहेति प्रकृतदृष्टान्तोक्तिः ।
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ॥२॥
रसानामचेतनत्वेन विवेकानर्हत्वात्कथं चेतनावतामेवं दृष्टान्तः स्यादित्याशङ्क्याऽऽह –
यस्माच्चेति ।
चेतनानामपि सुषुप्त्यादौ जाड्यास्कन्दिततया रसतुल्यत्वात्तेषां विवेकानर्हावस्थापत्तिमात्रे प्रकृतमुदाहरणमविरुद्धमिति भावः । एवं यथोक्तरसदृष्टान्तवशेनेति यावत् ।
सता सम्पन्नानामपि तत्स्यादित्याशङ्क्याऽऽह –
संसारिण इति ॥३॥
स य एषोऽणिमेत्याद्यवतारयति –
ताः प्रजा इति ।
इतः सद्विज्ञानरहितेभ्यः सकाशादिति यावत् । यमणुभावमिति यच्छब्दोऽध्याहर्तव्यः ।
प्रश्नान्तरं दृष्टान्तबलादुत्थापयति –
यथेति ।
सतोऽहमागतोऽस्मीत्युत्थितस्य ज्ञानाभावं दृष्टान्तेनोपपादयितुमुत्तरग्रन्थमुत्थापयति –
इत्युक्त इति ॥४॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य नवमः खण्डः ॥
आगमनावध्यपरिज्ञानं तत्रेत्युक्तम् ॥१॥
प्रश्नान्तरं व्याचष्टे –
दृष्टमिति ।
विनष्टा इति लोके दृष्टमिति सम्बन्धः । जीवास्तु प्रत्यहं सुषुप्त्यवस्थायां मरणप्रलययोश्च कारणभावं गच्छन्तोऽपि न विनश्यन्तीति यदेतत्तदिति योजना ।
जीवविनाशं शङ्कमानस्य प्रतिबोधनार्थमुत्तरं वाक्यमुत्थापयति –
तथेति ॥२-३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य दशमः खण्डः ॥
जीवस्य नाशाभावं वक्तुमादौ दृष्टान्तमाह –
श्रुण्विति ॥१॥
ननु रोगग्रस्तायां वातोपहतायां वा शाखायां प्राणोपसंहारेऽपि कुतो जीवोपसंहारः सम्भवति तत्राऽऽह –
वागिति ।
ननु वृक्षे जीवस्य सद्भावे तत्रोपसंहारानुपसंहारौ वक्तव्यौ तत्र तस्य सत्त्वं तु कुतस्त्यमत आह –
जीवेन चेति ।
रसरूपेण वर्धयदिति सम्बन्धः ।
वृक्षशरीरे जीवस्य सत्त्वेऽपि किमित्यसौ कदाचित्तदीयामेकां शाखां जहातीत्याशङ्क्याऽऽह –
अशितेति ।
जीवोपसंहारेऽपि किमिति शाखा शुष्यति तत्राऽह –
जीवस्थितीति ।
जीवस्य स्थितिर्निमित्तं यस्येति विग्रहः । तथा शाखायामुक्तप्रकारेणेति यावत् ।
यत्तु वैशेषिकवैनाशिकाभ्यां स्थावराणां निर्जीवत्वेनाचेतनत्वमुक्तं तदेतन्निरस्तमित्याह –
वृक्षस्येति ।
आदिशब्दो वृद्धिमोदादिसंग्रहार्थः । स एष वृक्षो जीवेनाऽऽत्मनाऽनुप्रभूत इति दृष्टान्तश्रुतिः ॥२॥
श्रुतिदृष्टान्ते विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह –
यथेत्यादिना ।
जीवस्य सुषुप्ते नाशाभावे हेत्वन्तरमाह –
कार्यशेषे चेति ।
तस्मिन्सति सुषुप्तो भूत्वा पुनरुत्थितस्य कार्यस्य शेषोऽस्ति यस्मिन्कर्मणि तदिदं ममासमाप्तमिति स्मृत्वा तस्य समापनदर्शनान्न स्वापे जीवो नश्यतीत्यर्थः ।
मरणकाले तन्नाशाभावे हेत्वन्तरमाह –
जातमात्राणामिति ।
आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे ।
जीवस्य प्रलयादावविनाशे कारणान्तरमाह –
अग्निहोत्रादीनामिति ।
इतिशब्दो जीवस्य नित्यत्वोपसंहारार्थः ।
यदुक्तं सन्मूलाः सोम्येत्यादि तत्र चोदयति –
कथं पुनरिति ।
विलक्षणयोर्न कार्यकारणत्वमिति शङ्कमानं प्रतिबोधयितुमुत्तरं वाक्यमुपादत्ते –
तथेति ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्यैकादशः खण्डः ॥
स्थूलस्य कार्यस्य सूक्ष्ममुख्यकारणत्वमेतदित्युच्यते । अस्य सोम्य महतो वृक्षस्येति प्रकृतं वृक्षं परामृशति –
अत इति ॥१॥
यमेतमणिमानं न पश्यस्येतस्याणिम्नो बीजस्येति सम्बन्धः । तथाऽपीत्यत्यन्ताणुत्वाददर्शनेऽपीत्यर्थः । अत्यन्तसूक्ष्माद्बीजादत्यन्तस्थूलस्य वृक्षस्योत्पत्त्युपलम्भोऽतःशब्दार्थः । सन्मूलाः सोम्येत्यादिश्रुत्या दृश्यते त्विति न्यायेन च जगतः सत्कार्यत्वे सिद्धे श्रद्धामन्तरेणापि तन्निर्णयसम्भवात्किमिति श्वेतकेतुः श्रद्धत्स्त्वेति पित्रा नियुज्यते तत्राऽऽह –
यद्यपीति ।
सत्यामपि श्रद्धायां कथं बाह्यविषयासक्तमनसोऽत्यन्तसूक्ष्मेष्वर्थेष्ववगमः स्यादित्याशङ्क्याऽऽह –
श्रद्धायां त्विति ।
मनःसमाधानवशाद्बुभुत्सितस्यार्थस्यावगतिरित्यत्र बृहदारण्यकश्रुतिं सम्वादयति –
अन्यत्रेति ॥२॥
प्रत्यक्षतोऽनुपलभ्यमानत्वान्नास्तीति मन्वानः शङ्कते –
यदीति ।
अनुपलभ्यमानस्यापि सत्त्वमाशङ्क्याऽऽह –
इत्येतदिति ।
अप्रत्यक्षस्यापि जगन्मूलस्यास्तित्वं प्रतिपादयितुमुत्तरग्रन्थमवतारयति –
तथेति ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य द्वादशः खण्डः ॥
नोपलभ्यते स्वेन प्रकारेणेति शेषः । इतीममर्थं प्रत्यक्षीकर्तुं यदीच्छसि तर्हि दृष्टान्तमत्र शृण्विति योजना । रात्रेरत्ययानन्तर्यमथशब्दार्थः । जगन्मूलं स्वतोऽप्रत्यक्षमपि प्रत्यक्षमुपायान्तरेणेति पित्रोक्तोऽर्थस्तं प्रत्यक्षीचिकीर्षुर्घटादावुदके पिण्डरूपं लवणं रात्रौ प्रक्षिप्य तदत्ययानन्तरं प्रातःकाले पितृसमीपं श्वेतकेतुर्गतवानित्याह –
स हेति ।
यथा तत्पिण्डरूपं लवणं प्रक्षेपात्प्रागभूत्तथा न विज्ञातवानिति सम्बन्धः ।
उदके प्रक्षिप्तं लवणं विमृश्यापि न विज्ञायते चेदसदेव तर्हि तदित्याशङ्क्याऽऽह –
विद्यमानमेवेति ।
किमिति तर्हि चक्षुषा स्पर्शेन वा नोपलभ्यते तत्राऽऽह –
अप्स्विति ॥१॥
कथं तर्हि तस्य विद्यमानत्वमवगतं तत्राऽऽह –
यथेति ।
यद्यपि पिण्डरूपं लवणमुदके क्षिप्तमवमृश्यापि चक्षुस्स्पर्शनाभ्यां न त्वं वेत्थ तथाऽपि तत्तत्र विद्यत एव यतस्ताभ्यामगृह्यमाणमपि तत्रोपायान्तरेणोपभ्यत इत्येतमर्थं प्रत्याययितुमुत्तरं वाक्यमित्यर्थः । यथाशब्दो यद्यपीत्यर्थे ।
तद्धेत्यादि व्याचष्टे –
लवणमिति ।
संवर्तत इतीदं वचनं ब्रुवन्नाजगामेति सम्बन्धः ।
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
इत्येवमुक्तवन्तमित्यादिना ।
सतो जगन्मूलस्यास्मिन्देहे सत्त्वं त्वया कथमवगतमत आह –
वावेति ।
अत्र वावेत्यादिनाऽत्रैव किलेत्यस्य पौनरुक्त्यमाशङ्क्यार्थविशेषं दर्शयति –
यथाऽत्रेत्यादिना ॥२॥
उपायान्तरजिज्ञासया पृच्छति –
यद्येवमिति ।
तर्हि तदेत्यध्याहृतस्य तस्येत्यादिना सम्बन्धः ।
सतो मूलस्योपलम्भेऽनुपलम्भे वा किं स्यादित्याशङ्क्याऽऽह –
यदुपलम्भादिति ।
बुभुत्सितमुपायमुपदर्शयितुमुत्तरग्रन्थमुपादत्ते –
तथेति ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य त्रयोदशः खण्डः ॥
यथाऽयमुपायः शक्यो ज्ञातुं तथा लोके प्रदृश्यते दृष्टान्त इत्याह –
यथेति ।
तमेव दृष्टान्तं व्याचष्टे –
हे सोम्येति ।
यथा दिग्भ्रमोपेतो यत्किञ्चिद्दिगभिमुखो विक्रोशति तथा स तत्र विजने देशे शब्दं कुर्यादिति सम्बन्धः ।
प्राङित्यस्यार्थमाह –
प्रागञ्चन इति ।
तस्यैव विवक्षितमर्थं कथयति –
प्राङ्मुख इति ।
वक्ष्यमाणप्रकारैर्विकल्पार्थो वाशब्दः ॥१॥
यथाबन्धनं बन्धनमनुसृत्येति यावत् । पण्डितो मेधावीतिविशेषणद्वयस्य व्यवच्छेद्यं दर्शयति –
नेतर इति ।
व्याख्यातं दृष्टान्तं सोपस्करमनुवदति –
यथेत्यादिना ।
दार्ष्टान्तिकं व्याचष्टे –
एवमिति ।
आदिशब्देन वाव्याकाशौ गृह्येते । मयड्विकारार्थः ।
देहारण्यस्यानेकानर्थसङ्कटत्वं कथयति –
वातेति ।
शीतौष्णादीत्यादिपदेन रागद्वेषादिद्वन्द्वं गृहीतं तेनानेकेन द्वन्द्वेन जातं सुखं दुःखं च तदुपेतमिदं देहारण्यमित्येतत् । बन्ध्वादीत्यादिशब्दो मित्रक्षेत्रादिविषयः । पुण्यापुण्यादीत्यादिपदमविद्याकामवासनासंग्रहार्थम् ।
देहारण्यं प्रविष्टस्य जन्तोर्विक्रोशनप्रकारं सकारणं सूचयति –
अहमित्यादिना ।
तस्य सदा दुःखित्वशङ्कां वारयति –
कथञ्चिदेवेति ।
आपाततो ब्रह्मवित्त्वमात्रेण मुक्तबन्धनत्वासिद्धेर्विशिनष्टि –
ब्रह्मिष्ठमिति ।
यदाऽऽसादयति तदा सुखी स्यादित्युत्तरत्र सम्बन्धः । संसारविषयं दोषदर्शनं तस्य क्षयिष्णुत्वादिज्ञानं तस्य मार्गो विवेकः स यस्याऽऽचार्येण दर्शितो विद्यातः स दर्शितसंसारविषयदोषदर्शनमार्गः ।
आचार्येण साधनचतुष्टयसम्पन्नस्याधिकारिणः संसारान्मोक्षितत्वप्रकारं दर्शयति –
नासीति ।
यद्यपि वाक्यार्थज्ञाने वाक्यमेवोपायस्तथाऽप्याचार्योपदेशजनितातिशयदर्शनात्तदुपदेशोऽवगत्यन्तवाक्यार्थज्ञाने प्रथमो हेतुरुपदेशमात्राद्यस्य नावगत्यन्तवाक्यार्थधीस्तस्य प्रमाणाद्यसम्भवनानिरसनसमर्थो विचारो मेधाविशब्देन विहितस्तस्य प्रज्ञातिशयवति प्रयोगादिति भावः ।
पुरुषव्यत्यये हेतुमाह –
सामर्थ्यादिति ।
अस्मद्युपपदेऽसत्युत्तमपुरुषप्रयोगानुपपत्तेर्देहादिस्थित्यनुपपत्तेर्वेत्यर्थः ।
यावदित्यादिवाक्यार्थं स्पष्टयति –
येनेति ।
पूर्ववदिति सामर्थ्यात्पुरुषव्यत्ययं लक्षयति ।
अथशब्दस्य सत्सम्पत्तेर्देहमोक्षादानन्तर्यमर्थो भविष्यतीत्याशङ्क्याऽऽह –
न हीति ।
अथ सम्पत्स्य इति विदेहमुक्तिमुक्तामाक्षिपति –
नन्विति ।
अप्रवृत्तफलानीति च्छेदः । उत्पन्ने चेति चकारोऽप्यर्थः । विमतानि कर्माणि ब्रह्मज्ञानेन न क्षीयन्ते कर्मत्वात्प्रवृत्तफलकर्मवदित्यर्थः ।
क्षीयन्ते चास्य कर्माणि, ज्ञानाग्निः सर्वकर्माणीत्यादिश्रुतिस्मृतिविरोधात्कालात्ययापदिष्टतेति शङ्कते –
अथेति ।
अतिप्रसङ्गान्न श्रुतिस्मृत्योर्यथाश्रुतार्थतेति परिहरति –
तदेति ।
ज्ञानस्याऽऽनर्थक्यमुक्त्वा पक्षान्तरमाह –
देशान्तरेति ।
यथा ग्रामप्राप्त्युपायोपायोऽश्वोरथो वेति ज्ञाने सत्यसत्यन्तराये कस्यचिदेव ग्रामप्राप्तिर्भवति न त्वन्तरायवतस्तज्ज्ञानेऽपि तत्प्राप्तिर्यथा तथा समुत्पन्नज्ञानस्यापि कस्यचिदेव भोगेन क्षीणकर्माशयस्य मोक्षो न ज्ञानमात्रादित्यनियतफलत्वमित्यर्थः ।
कर्मत्वहेतोरप्रयोजकत्वं वदन्नुत्तरमाह –
न कर्मणामिति ।
संग्रहवाक्यमेव प्रपञ्चयन्नादौ नञर्थं स्फुटयति –
यदुक्तमिति ।
तत्र हेतुमाह –
विदुष इति ।
प्रामाण्याद्देहान्तरारम्भे तद्विरोधप्रसङ्गादिति शेषः ।
श्रुत्यन्तरमाश्रित्य शङ्कते –
नन्विति ।
तथा चानारब्धकर्मवशाद्विदुषोऽपि देहान्तरमारब्धव्यमिति शेषः ।
तत्प्रामाण्यमङ्गीकरोति –
सत्यमेवमिति ।
तर्हि विदुषोऽपि देहान्तरमनारब्धकर्मवशादारब्धव्यं नेत्याह –
तथाऽपीति ।
विशेषमेवाऽऽकाङ्क्षाद्वारा विशदयति –
कथमित्यादिना ।
प्रवृत्तफलत्वमेव स्फुटयति –
यैरिति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।
लक्ष्यस्य वेधो भेदनं तत्समकालमेवेष्वादेरूर्ध्वं गतिप्रयोजनं नास्तीति न स्थितिर्लक्ष्यमुद्दिश्य मुक्तस्य तस्याऽऽरब्धवेगस्याप्रतिबन्धेन तदासादितस्य वेगक्षयादेव स्थितिदृष्टान्तवद्विद्यार्थे देहे विद्यालाभानन्तरं फलं नास्तीति न कर्माणि निवर्तन्ते किन्तु भोगक्षयादेव तस्य लब्धवृत्तित्वादित्यर्थः ।
प्रवृत्तफलेभ्योऽप्रवृत्तफलानां कर्मणां विशेषमाह –
अन्यानि त्विति ।
न चाप्रवृत्तफलानां कर्मणां क्षयोऽप्रसिद्धस्तथाविधस्यैव पापस्य प्रायश्चित्तेन प्रक्षयोपगमादित्याह –
प्रायश्चित्तेनेवेति ।
आरब्धफलातिरिक्तानां कर्मणां ज्ञानान्निवृत्तौ श्रुतिस्मृती दर्शयति –
ज्ञानाग्निरित्यादिना ।
प्रवृत्ताप्रवृत्तफलेषु कर्मसु सिद्धे विशेषे फलितमाह –
अत इति ।
जीवनादीत्यादिशब्देन पुत्रकलत्रादि गृह्यते । मुक्तस्याप्रतिबद्धेष्वादेयविद्वेगक्षयं गतिध्रौव्यव्यवहारवदारब्धकर्मणां फलभोगोऽवश्यमेव स्यादिति सम्बन्धः ।
यतश्चाऽऽरब्धकर्मणां भोगादेव क्षयस्ततस्तस्येत्यादिना यच्चिरत्वं सत्सम्पत्तेरुक्तं तद्युक्तमेवेति कृत्वा यथोक्तस्य दोषस्य सद्यःशरीरपातादिलक्षणस्याऽऽशङ्कानुपपत्तिरित्युपसंहरति –
इतीति ।
आद्यस्येतिशब्दस्य तस्येत्यनेन सम्बन्धः ।
यत्तूत्पन्नेऽपि ज्ञाने यावज्जीवं विहितानि करोत्येवेति तत्राऽऽह –
ज्ञानोत्पत्तेरिति ॥२॥
ज्ञानस्य नाऽऽनर्थक्यमविद्यातत्कार्यनिवर्तनेन सत्सम्पत्तिहेतुत्वान्नाप्यनैकान्तिकफलत्वमन्तरायाभावादित्युक्तमिदानीमर्चिरादिमार्गप्राप्त्या वाऽत्रैवाविद्यानिवृत्तिमात्रेण वा सत्सम्पत्तिरिति सन्दिहानः शङ्कते –
आचार्यवानिति ।
संशयानस्य सम्बोधनार्थमुत्तरं वाक्यमवतारयति –
तथेति ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य चतुर्दशः खण्डः ॥
नन्वेष संसारिणो मरणक्रमो नतु विदुषः सत्सम्पत्तिक्रमस्तयोर्विशेषस्य वक्तव्यत्वादत आह –
संसारिण इति ।
करणोपरमे तेजःसहचरितभूतसूक्ष्मोपसंहारे च विशेषविज्ञानाभावः समान एव विद्वदविदुषोरित्यर्थः ।
कस्तर्हि तयोर्विशेषस्तत्राऽऽह –
अविद्वानिति ।
सतस्तस्मादज्ञातात्सदात्मनः सकाशादिति यावत् ।
एकदेशिमतमुत्थाप्य प्रत्याचष्टे –
अन्ये त्विति ।
भवतु विदुषोऽपि तदभिसन्धिपूर्वकं गमनमित्याशङ्क्याऽऽह –
न हीति ।
आदिशब्देन गत्यागती गृह्येते ।
सद्विज्ञानवतो गमनयोगे हेत्वन्तरमाह –
अविद्येति ।
विदुषोऽविद्याकामकर्मणामभावे प्रमाणमाह –
पर्याप्तकामस्येति ।
ननु कामप्रविलय एवात्र श्रूयते नाविद्याकामकर्मनिर्मोकस्तत्राऽऽह –
नदीति ।
यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरुपे हित्वा परं पुरुषमुपैतीतिदृष्टान्तपूर्विकायाः श्रुतेर्नामरूपबीजावस्थाविद्याया लयो गम्यते न चाविद्याकामयोरभावे कर्मोपपत्तिस्तस्मान्न विदुषो गतिपुर्विका सत्सम्पत्तिरित्यर्थः ॥२॥
विमतः सत्सम्पन्नः पुनरावृत्तिमर्हति सत्सम्पन्नत्वान्मरणकाले सत्सम्पन्नवद्विमतो वा विशेषविज्ञानाभावो नाऽऽत्यन्तिको विशेषविज्ञानाभावत्वान्मरणकालीनविशेषविज्ञानाभाववदित्यनुमानाद्विद्वदविदुषोरविशेषं मन्वानः शङ्कते –
यदीति ।
तत्रानृताभिसन्धत्वं तादृगभिसन्धिमन्निष्ठत्वं वोपाधिरित्यनुमानद्वयं दूषयितुमुत्तरं ग्रन्थमुत्थापयति –
तथेति ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य पञ्चदशः खण्डः ॥
परीक्षणाय परीक्षाद्वारेण रक्षणार्थमिति यावत् । परस्वग्रहणमात्रेण बन्धेन प्रतिग्रहीतुरपि बन्धप्रसङ्गान्न तन्मात्रं बन्धनकारणमित्याह –
अन्यथेति ।
तत एवानृताभिसन्धत्वादेवेत्यर्थः ॥१॥
तत एवेति ।
स्तैन्यस्य कर्मणोऽकर्तृत्वादेवेत्यर्थः ।
दृष्टान्ते विवक्षितमंशमनुवदति –
तप्तेति ॥२॥
तदनुवादपूर्वकं दार्ष्टान्तिकमाह –
स यथेति ।
स य एषोऽणिमेत्यादि व्याचष्टे –
यदात्मेति ।
त्वं तदसीति त्वमर्थोद्देशेन तदर्थभावो विधीयते तत्रोद्देश्यस्य शरीरद्वयविशिष्टस्य विरोधादशरीरब्रह्मात्मत्वं विधातुमशक्यमिति मन्वानश्चोदयति –
कः पुनरिति ।
त्वंपदेन वाच्यस्य लक्ष्यस्य वा ब्रह्मत्वायोगस्त्वयोच्यते ? नाऽऽद्योऽङ्गीकारान्न द्वितीयःशरीरद्वयवैशिष्ट्योपलक्षितस्य श्रोतृत्वाद्यध्यासास्पदस्य त्वंपदलक्ष्यस्य ब्रह्मत्वविधाने विरोधास्फुरणादिति परिहरति –
योऽहमिति ।
विज्ञाय च वेदेति पूर्वेण सह सम्बन्धः ।
तस्य सतः सकाशादौपाधिको भेदो वस्तुतस्त्वैक्यमिति मत्वाऽऽह –
तेजोबन्नमयमिति ।
त्वंपदार्थं श्वेतकेतुं निर्धार्य तद्धास्येत्यादि व्याचष्टे –
आत्मानमिति ।
अज्ञातार्थप्रकाशनं मानफलं तस्य स्वप्रकाशे ब्रह्मणि नोपपत्तिरिति मन्वानश्चोदयति –
किं पुनरिति ।
अत्राऽऽत्मनीति सम्बन्धः ।
स्वप्रकाशे प्रकाशातिशयस्य मानफलस्यासम्भवेऽप्यध्यस्तव्यावृत्तिस्तत्फलं भविष्यतीत्युत्तरमाह –
कर्तृत्वेति ।
अश्रुतस्य श्रवणायामतस्य मननायाविज्ञातस्य विज्ञानफलसिद्धये चाधिकृतं यमर्थं त्वंपदवाच्यमवोचाम तस्य स्वात्मनि क्रियाकर्तृत्वे फलभोक्तृत्वे च यन्मिथ्यैवाधिकृतत्वविज्ञानं तन्निवृत्तिर्मानफलमिति योजना ।
यथोक्तं मानफलमेव प्रपञ्चयति –
प्राक्चेति ।
अहमेवात्राधिकृतश्चेति चकारस्य सम्बन्धः । तस्येत्यज्ञस्येत्यर्थः ।
विरोधमेव स्फोरयति –
न हीति ।
प्रमाणफलमुपसंहरति –
तस्मादिति ।
तत्त्वमसीति वाक्यं मुख्यैकत्वपरमिति स्वपक्षमुक्त्वा परपक्षं शङ्कते –
नन्विति ।
आध्यासिकमेकत्वं सामानाधिकरण्यालम्बनमिति स्वपक्षं दृष्टान्तेनोक्त्वा सिद्धान्तं दूषयति –
नत्विति ।
श्वेतकेतोः सन्मात्रत्वे तदज्ञानायोगादसकृदुपदेशासिद्धिरित्यर्थः ।
किमध्यासवाक्यसामान्यादाध्यासिकमेकत्वं सामानाधिकरण्यालम्बनं किं वा मुख्यैकत्वे बाधकसद्भावादिति विकल्प्याऽऽद्यं दूषयति –
नेत्यादिना ।
यथा लोके शुक्तिकां रजतमिति प्रत्येतीत्यादावितिशब्दपरं सामानाधिकरण्यं न वस्तुनिष्ठं दृष्टं तथाऽध्यासवाक्यानामप्यादित्यो ब्रह्मेत्यादेश इत्यादीनामितिशब्दपरसामानाधिकरण्यवशादवस्तुनिष्ठत्वं गम्यते न तथा तत्त्वमसिवाक्यस्यावस्तुनिष्ठत्वमितिशब्दपरत्वाभावेन सामानाधिकरण्यस्य स्वरूपपर्यवसायित्वनिश्चयादित्यर्थः । इह त्विति प्रकरणोक्तिः । इह प्रवेशं दर्शयित्वेत्यत्र तेजोबन्नमयं सङ्घातमिहेति व्यपदिशति ।
जीवब्रह्मणोर्भेदग्राहिप्रमाणविरोधान्न मुख्यमेकत्वं किं तु चैतन्यगुणयोगाद्गौणमिति द्वितीयं शङ्कते –
नन्विति ।
यथा मृदादि कारणमेव घटादि कार्यं न पृथगस्ति तथा सर्वमिदमाकाशादिकार्यं सन्मात्रं तत्र सर्वप्रकारभेदरहितमेकरसमबाधितमित्युपदेशदर्शनान्न गौणमेकत्वमित्युत्तरमाह –
नेत्यादिना ।
इतश्च नोपचरितमेकत्वमित्याह –
न चेति ।
औपचारिकविज्ञानस्य मृषात्वे दृष्टान्तमाह –
त्वमिति ।
किञ्च गौणमेकत्वं वदता स्तुत्यर्थत्वं विधिपरत्वं वा वाक्यस्य वक्तव्यं ? आद्येऽपि श्वेतकेतोः सतो वा वस्तुनः स्तुतिरिति विकल्प्याऽऽद्यं दूषयति –
नापीति ।
उपास्यत्वात्सतः स्तुतिरिति द्वितीयमाशङ्क्य दूषयति –
नापि सदिति ।
इतश्च श्वेतकेतुत्वोपदेशेन सतो न स्तुतिरित्याह –
नापि सत इति ।
श्वेतकेतोरनुपास्यत्वेन स्तुत्यसम्भवेऽपि कर्तृत्वात्कर्मसु तत्स्तावकत्वं वाक्यस्य युक्तमित्याशङ्क्य कर्मविध्यसन्निधानात्सदात्मत्वमात्रप्रतीतेश्च नैवमित्याह –
न चेति ।
विकल्पान्तरमुद्भावयति –
ननु सदस्मीतीति ।
एकविज्ञानेन सर्वविज्ञानवचनविरोधान्न दृष्टिविधिपरत्वमित्युत्तरमाह –
नन्विति ।
गौणपक्षेऽपि तुल्याऽनुपपत्तिरित्यपेरर्थः ।
एकविज्ञानेन सर्वविज्ञानश्रुतेर्न विरोधोऽस्तीति पूर्ववाद्याह –
नेति ।
नेदमेकविज्ञानेन सर्वविज्ञानं दृष्टिविधिस्तुतिः कार्यकारणानन्यत्वादियुक्तिभिरुपपादितत्वाद्विधिपक्षे चासम्भावनादिनिराससमर्थाचार्यवत्त्वोपदेशानर्थक्यादौपदेशिकज्ञानमात्रेण विध्यनुष्ठानसिद्धेर्विध्यपेक्षितस्य च तेनैवाऽऽक्षेपादित्युत्तरमाह –
नाऽऽचार्यवानिति ।
तदेव विवृणोति –
यदि हीति ।
आचार्यवत्त्वमिति नोपदिश्यत इति शेषः ।
इतश्च नेदं वाक्यं दृष्टिविधिपरमेष्टव्यमित्याह –
तस्येति ।
सदात्मत्वसाक्षात्कारादृतेऽपि सकृदनुष्ठितपरोक्षबुद्धिमात्रान्मोक्षसम्भवाद्विलम्बाभिधानमनर्थकमापद्येत यथा सकृदनुष्ठितादपि यागाद्भवति स्वर्गस्तद्वदिह च चिरमिति क्षेपकरणं मोक्षस्येति तस्मान्नेदं दृष्टिविधिपरमित्यर्थः ।
किञ्च विधिवादिना प्रतीयमानेऽर्थे वाक्यस्याप्रामाण्यं विपर्यासलक्षणमनुत्पत्तिलक्षणं वा वाच्यं तदुभयं दुर्वचमित्याह –
न चेति ।
तत्त्वमसीत्यधिकारिणं प्रत्युक्ते सति प्रमाणभूतेन तेन वाक्येन जनिता सद्ब्रह्माहमिति या तस्य बुद्धिस्तां निवर्तयितुं नाहं सदिति बलवती बुद्धिरुत्पन्नेति न शक्यते वक्तुं विवेकवतः श्रुतवाक्यस्य तथाविधबुद्ध्यनुत्पादात् । न चाधिकारिणः श्रुतवाक्यस्य सद्ब्रह्माहमिति बुद्धिर्नोत्पन्नेति वक्तुं शक्यमधिकारिणः प्रमितिजनको वेद इति न्यायात् । न च भेदप्रत्ययो यथोक्ताया बुद्धेर्बाधकस्तस्य स्वाप्नभेदप्रत्ययवन्मिथ्यात्वानुमानादित्यर्थः ।
इतश्च तत्त्वमसिवाक्यं वस्तुपरमेवेत्याह –
सर्वोपनिषदिति ।
तत्त्वमसिवाक्यान्नायथार्था बुद्धिर्नापि न भवेत्येव बुद्धिरित्येतमर्थं दृष्टान्तेनाऽऽह –
यथेति ।
जीवे भासमानेऽप्यनवभासमानत्वान्न स्वभावो ब्रह्मेत्युक्तमनूद्य दूषयति –
यत्तूक्तमिति ।
लोकायतातिरिक्तानां देहादतिरेको जीवस्य स्वाभाविकोऽपि नावभासते तथा ब्रह्मभावोऽपि तस्यानाद्यनिर्वाच्याज्ञानसामर्थ्यादेव नावभासिष्यते ।
तथा च तस्मिन्भासमानेऽप्यनवभासमानत्वान्न स्वभावो ब्रह्मेत्ययुक्तं व्याप्त्यभावादित्याह –
कार्येति ।
ननु देहव्यतिरिक्तात्मवादिनामात्मनि भाति देहव्यतिरिक्तोऽपि भात्येवेति व्याप्तिसिद्धिरित्याशङ्क्याऽऽह –
कथमिति ।
देहादिसङ्गातादतिरिक्तोऽहमित्येवं व्यतिरिक्तविज्ञाने सति कथं तेषां कर्तृत्वादिविज्ञानं सम्भवति । न हि सङ्गाताभिमानविगमे तद्युज्यते । न च तन्नास्त्येव दृश्यमानत्वादित्यर्थः ।
सिद्धे दृष्टान्ते दार्ष्टान्तिकमाह –
तद्वदिति ।
देहाद्व्यतिरिक्तस्य सतोऽप्यप्रतिभानवत्सदात्मकस्यापि श्वेतकेतोर्देहादिष्वात्माभिमानित्वात्सदात्मनि ब्रह्मणि विज्ञानं न स्यादतस्तत्स्वभावस्यापि ब्रह्मभावस्याप्रतिभानमज्ञानकृतमित्यर्थः ।
वाक्यस्यार्थान्तरपरत्वासम्भवे फलितमुपसंहरति –
तस्मादिति ।
महावाक्यस्योक्तया विधयाऽर्थान्तरपरत्वासम्भवाद्विकारेऽनृताभिसन्धिकृतोऽयं जीवात्मेत्येवंरूपं यन्मिथ्याज्ञानं तस्य सनिदानस्य निवर्तकमेवेदं तत्त्वमसिवाक्यं न त्वभूतप्रादुर्भावफलमित्येवं जीवब्रह्मणोरैक्यं सर्वोपनिषत्सारभूतं स्थितमित्यर्थः ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य षोडशः खण्डः ॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्कृतच्छन्दोग्यभाष्यटीकायां षष्ठोऽध्यायः समाप्तः ॥