आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: प्रथमः खण्डः
षष्ठसप्तमयोरध्याययोः सम्बन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति –
परमार्थेति ।
उत्तमाधिकारिणं प्रत्यबाधिततत्त्वबोधनं प्रधानं तत्परोऽतीतोऽध्यायः स सतो ब्रह्मणः प्रत्यङ्निश्चयपरत्वेनैव व्याख्यात इत्यर्थः ।
अध्यायान्तरभूमिकामारचयति –
न सत इति ।
मध्यममधिकारिणं प्रति परम्परया ब्रह्मात्मत्वमुपदेष्टुं सप्तमप्रपाठकप्रवृत्तिरित्यर्थः ।
नन्वत्रापि ब्रह्मात्मत्वमेवोपदेष्टुमिष्टं चेत्किमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽह –
अनिर्दिष्टेष्विति ।
वाशब्दः शङ्कानिरासार्थः ।
यद्वा द्वयोरध्याययोरद्वितीयब्रह्मात्मविषयत्वाविशेषेऽपि साक्षात्पारम्पर्यारभ्यामपौनरुक्त्यमुक्तं संप्रति नामादीनामुत्तरोत्तरभूयस्त्वविशिष्टानां सन्मात्रविज्ञानेनाविज्ञानादेकविज्ञानेन सर्वविज्ञानमयुक्तमित्याशङ्क्य ब्रह्मविदः सर्वज्ञत्वं स्पष्टीकर्तुमुत्तरग्रन्थारम्भ इत्याह –
अनिर्दिष्टेष्विति ।
नामादिसंकीर्तनस्य तात्पर्यान्तरमाह –
अथवेति ।
अधमोऽधिकारी नामादीनि ब्रह्मत्वेनोपास्य तत्फलं च भुक्त्वा क्रमेण साक्षाद्ब्रह्मभावं प्राप्नोतीति प्रदर्शयितुमुत्तरो ग्रन्थ इत्यर्थः ।
शाखाचन्द्रनिदर्शनन्यायेन मध्यमस्याधिकारिणो ब्रह्मसिद्धिस्वीकारार्थं मध्यमस्याधिकारिणो ध्यानार्थं वा नामादिसंकीर्तनमित्युक्तम् । इदानीमुत्तममेवाधिकारिणमधिकृत्य भूमस्तुत्यर्थं नामादिवचनमिति मतान्तरमाह –
अथवा नामादीति ।
अध्यायसंबन्धमुक्त्वाऽऽख्यायिकासम्बन्धमाह –
आख्यायिका त्विति ।
स्तुत्यर्थत्वमेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
तथा च परविद्यया कृतार्थत्वात्तस्याः स्तुतिरत्र विवक्षितेति शेषः ।
अतीताध्यायादिष्टसदात्मविज्ञानादन्यदेव देवतोपासनं मोक्षसाधनमित्याशङ्क्य तन्निषेधेन सदात्मविज्ञानस्यैव मोक्षसाधनत्वं दृढीकर्तुमाख्यायिका प्रवृत्तेति पक्षान्तरमाह –
अथवेति ।
द्वितीयमाख्यायिकातात्पर्यं प्रपञ्चयति –
येनेत्यादिना ।
सर्वस्यापि ज्ञेयस्य यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्या संपन्नो वेदवेदाङ्गाभिज्ञत्वेन तस्यापीति यावत् । अस्ति हि नारदस्योत्तमाभिजने जन्म । ब्रह्मणो मानसपुत्रत्वादस्ति चोत्तमकर्म विद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवणध्यानादि साधनशक्तीनां धर्माधर्मसाधनस्य वा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमित्तमस्याभिमानस्य तं त्यक्त्वेति यावत् । इतिशब्दोऽध्यायाख्ययिकयोः संबन्धोक्तिसमाप्त्यर्थः । अध्ययनेन ज्ञानं लक्ष्यते । तथा चाधीष्व ज्ञापयेत्यर्थः । मन्त्रः उपसदनस्येति शेषः । न्यायतः समित्पाणिरित्यादिशास्त्रोक्तविधिवशादिति यावत् ॥१॥
अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्यातमित्याशङ्क्याऽह –
यद्वेत्थेति ।
गन्धयुक्तिः कुङ्कुमादिसम्पादनम् ॥२॥
तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृतकृत्योऽसीत्याशङ्क्याऽऽह –
सोऽहमिति ।
कथं मन्त्रविदित्यस्य कर्मविदिति व्याख्यानमित्याशङ्क्याऽऽह –
मन्त्रेऽष्विति ।
मन्त्रविदेव नाऽऽत्मविदित्यत्र विरोधं चोदयति –
नन्विति ।
मन्त्रवित्त्वे तत्प्रकाश्यात्मवित्त्वमपि स्यात्तदभावे मन्त्रवित्त्वमपि न युक्तमित्यर्थः ।
अभिधानमभिधेयमित्येवं रूपस्य भेदस्य विकारत्वेन मिथ्यात्वादात्मनश्च विकारत्वानङ्गीकारान्मन्त्रप्रकाश्यत्वाभावान्न विरोध इति परिहरति –
नाभिधानेति ।
आत्मनो विकारत्वाभावेऽप्यभिधेयत्वमेष्टव्यमिति शङ्कते –
नन्विति ।
श्रुत्यन्तरावष्टम्भेन निराचष्टे –
नेत्यादिना ।
आत्मशब्देनाऽऽत्मनोऽभिधेयत्वाभावे वाक्यशेषादिविरोधः स्यादित्याशङ्कते –
कथं तर्हीति ।
आत्मशब्देनावाच्यस्याऽऽत्मनस्तेन लक्षणया प्रतिपत्तिसंभवान्नोपक्रमोपसंहारविरोधोऽस्तीत्युत्तरमाह –
नैष दोष इति ।
विशिष्टे गृहीतशब्दो विशेषणे प्रयुक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः ।
केवलात्मविषयस्याऽऽत्मशब्दस्य तद्दर्शनमन्तरेण विशिष्टात्मदृष्टिमात्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विवक्षितात्मधीरित्याशङ्क्य दृष्टान्तेन परिहरति –
थेत्यादिना ।
आत्मनो मुख्यवृत्त्या मन्त्रप्रकाश्यत्वाभावे फलितमाह –
तस्मादिति ।
शब्दार्थज्ञानमात्रेणाऽऽत्मवित्त्वं न भवतीत्यनेनाऽऽचार्योपदेशजनितज्ञानवत एवाऽऽत्मवित्त्वमित्युक्तं तत्र प्रमाणमाह –
अत एवेति ।
औपदेशिकज्ञानविषयत्वं तर्हि स्वीकृतमित्याशङ्क्याऽऽह –
यत इति ।
मा तर्हि तवाऽऽत्मविद्या भूदित्याशङ्क्य शोकनिवृत्त्युपायत्वेन तदपेक्षां सूचयति –
श्रुतमिति ।
आत्मज्ञानोडुपेनाऽऽत्मज्ञानाख्येन प्लवेनेति यावत् ।
कथं मदीयमर्थज्ञानं सर्वं नाममात्रमित्याशङ्क्याऽऽह –
वाचाऽऽरम्भणमिति ॥३॥
उक्तमुपपादयति –
नाम वा इति ।
तदुपसंहरति –
नामैवेति ।
केन रूपेणेदं नामाऽऽदर्तव्यमित्याशङ्क्याऽऽह –
नामेति ।
उपास्तिप्रकारं दृष्टान्तेन स्फुटयति –
यथेति ॥४॥
नाम्नि ब्रह्मदृष्ट्योपास्यमाने किं स्यादित्याह –
स यस्त्विति ।
यो नामेत्यादिवाक्यस्य पौनरुक्त्यमित्याशङ्क्याऽऽह –
यो नामेति ॥५॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य प्रथमः खण्डः ॥
वाग्वाव नाम्नो भूयसीत्युक्तं वाङ्नाम्नोरेकत्वाद्व्याप्यव्यापकत्वानुपपत्तिरित्याशङ्क्य व्याचष्टे –
वागितीन्द्रियमिति ।
जिह्वामूलादिष्वित्यादिशब्देनोरःकण्ठथशिरोदन्तौष्ठनासिकातालूनि गृह्यन्ते ।
वागिन्द्रियस्य वर्णेभ्योऽभिव्यङ्ग्येभ्यो भूयस्त्वेऽपि नाम्नस्तु भूयस्त्वं कुतस्त्यमित्याशङ्क्याऽऽह –
वर्णाश्चेति ।
तयोर्व्यङ्ग्यव्यञ्जकभावेऽपि कथं व्याप्यव्यापकत्वमित्याशङ्क्याऽऽह –
कार्याद्धीति ।
वाचो नाम्नो भूयस्त्वं प्रश्नपूर्वकं प्रपञ्चयति –
कथं चेत्यादिना ।
इतश्च वाचो भूयस्त्वमेष्टव्यमित्याह –
यद्यदीति ।
अन्वयव्यतिरेकाभ्यां तस्या भूयस्त्वे सिद्धे फलितमाह –
तस्मादिति ॥१॥
स यो वाचमित्याद्यन्यदित्युच्यते ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वितीयः खण्डः ॥
मनःशब्दस्य वृत्तिमात्रविषयत्वं व्यावर्तयति –
मन इति ।
कथं तस्य वाचो भूयस्त्वं तदाह –
तद्धीति ।
वाचो मनस्यन्तर्भावेऽपि कुतो मनसस्तस्या भूयस्त्वं तत्राऽऽह –
यच्चेति ।
मनसो वागादेर्व्याप्तिं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
इतश्च मनसोऽस्ति भूयस्त्वमित्याह –
यदेति ।
विवक्षाबुद्धिस्तां करोतीति शेषः । इच्छेयेतीच्छां कृत्वेति शेषः ।
तस्याऽऽत्मत्वमुपपादयति –
आत्मन इति ।
तस्य लोकत्वं साधयति –
सत्येवेति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य तृतीयः खण्डः ॥
संकल्पशब्दार्थमाह –
संकल्पोऽपीति ।
का साऽन्तःकरणवृत्तिर्या संकल्पशब्दितेत्याशङ्क्याऽऽह –
कर्तव्येति ।
द्विविधे विषये विभागेन समर्थितेऽपि कथं यथोक्तस्य संकल्पस्य मनसो भूयस्त्वमित्याशङ्क्याऽऽह –
विभागेन हीति ।
संकल्पस्य कारणत्वान्मनसश्च कार्यत्वादतो भूयस्त्वमित्यर्थः ।
कार्यकारणभावं तयोराकाङ्क्षापूर्वकं व्यक्तीकरोति –
कथमित्यादिना ।
मनसः सकाशाद्वाचोऽनन्तरभावित्वे विशेषं दर्शयति –
तां चेति ।
नाम्नि मन्त्राणामन्तर्भावं समर्थयति –
सामान्ये हीति ।
कथं मन्त्रेष्वनुपलब्धकर्मणामन्तर्भावस्तत्राऽऽह –
मन्त्रेति ।
कथं कर्म नामन्त्रकमस्तीत्युच्यते ब्राह्मणविहितस्यापि कर्मणो दर्शनादित्याशङ्क्याऽऽह –
यद्धीति ।
ब्राह्मणस्य मन्त्रव्याख्यानरूपत्वादतिस्पष्टमन्त्रानुपलम्भेऽपि कल्प्यते मन्त्रोक्तत्वमित्यर्थः ।
एतदेव प्रपञ्चयति –
याऽपीत्यादिना ।
एकस्यां शाखायां यत्कर्म मन्त्रेष्वनुपलब्धं तच्छाखान्तरीयमन्त्रप्रकाशितं भविष्यतीत्यत्र हेत्वन्तरमाह –
त्रयीति ।
तथाऽपि कथं मन्त्रप्रकाशितत्वं तत्राऽऽह –
त्रयीशब्दश्चेति ।
मन्त्रेषु कर्माण्यन्तर्भवन्तीत्यत्र श्रुत्यन्तरानुमतिं कथयति -
मन्त्रेष्विति ॥१॥
तथाऽपि कथं संकल्पस्य भूयस्त्वमित्याशङ्क्याऽऽह –
तानीति ।
अयनपर्यायत्वेनोक्तगमनस्य क्रियात्वं व्यावर्तयति –
प्रलय इति ।
इतश्च संकल्पस्याप्यस्ति महत्त्वमित्याह –
समक्लृप्तामिति ।
यतो द्यावापृथिव्यादिषु महत्स्वपि संकल्पानुवृत्तिर्दृश्यतेऽतोऽपि तस्य महत्वं गम्यते न केवलं कारणत्वादेवेत्यर्थः ।
इतश्च तस्य महत्त्वमेष्टव्यमित्याह –
तेषामिति ।
वृष्टेर्द्युलोकादिकार्यत्वात्तदीयसंकल्पस्य तन्निमित्तत्वोपचारात्तस्य भूयस्त्वसिद्धिरित्यर्थः ।
सृष्टिवशादन्नं समर्थीभवतीत्यत्र प्रसिद्धिं प्रमाणयति –
वृष्टेर्हीति ।
अन्नाधीनं प्राणसामर्थ्यमित्यत्र हेतुमाह –
अन्नमया हीति ।
आपोमयः प्राण इत्युक्तत्वात्कथमन्नमयत्वमित्याशङ्क्याऽऽह –
अन्नोपष्टम्भका इति ।
तत्र वाजसनेयकश्रुतिं प्रमाणयति –
अन्नमिति ।
प्राणानां मन्त्राध्ययनकारणत्वं व्युत्पादयति –
प्राणवानिति ।
ततो मन्त्रप्रकाशितकर्मवशादिति यावत् ।
कर्मफलवशाज्जगतः सर्वस्यावैकल्येऽपि कथं संकल्पस्य महत्त्वमित्याशङ्क्याऽऽह –
एतद्धीति ।
तन्महत्त्वे फलितमाह –
अत इति ॥२॥
आत्मातिरिक्तानां लोकानां कथं नित्यत्वमत आह –
अत्यन्तेति ।
लोकानामेवं ध्रुवत्वमुच्यतां किमिति लोकिनस्तदुच्यते तत्राऽऽह –
लोकिनो हीति ।
कथमुपकरणसंपन्नेषु प्रतिष्ठितशब्दो भवतीत्याशङ्क्याऽऽह –
पशुपुत्रादिभिरिति ।
यावत्संकल्पस्येत्यादिश्रुतेर्विषयसंकोचं दर्शयति –
आत्मन इति ।
संकल्पस्य यावद्गोचरस्तत्रास्य कामचारो भवतीति सम्बन्धः ।
निरङ्कुशे संकल्पशब्दे का हानिरित्याशङ्क्याऽऽह –
उत्तरेति ।
यदि संकल्पमात्रस्य गोचरे संकल्पोपासकस्य कामचारो भवति तर्हि सर्वसंकल्पस्य विचित्रतया सर्वगोचरत्वसंभवाद्यावच्चित्तस्य गतमित्यादिना वक्ष्यमाणफलं विरुध्येत न हि संकल्पोपासनादेव सर्वस्मिन्फले सिद्धे चित्ताद्युपासनं तत्फलं वा पृथक्कथयितुमुचितमतो यावत्संकल्पस्येत्यादिश्रुतेरुक्तः संकोचो युक्त इत्यर्थः ॥३॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्थः खण्डः ॥
चित्तशब्दस्य मनःशब्देन पुनरुक्तिं परिहरति –
चित्तं चेतयितृत्वमिति ।
तस्याऽऽत्मत्वं व्यावर्तयति –
प्राप्तेति ।
इदं वस्त्वेवं प्राप्तमिति प्राप्तकालवस्तुनो वस्त्वनुरोधी चेतनाख्यो वृत्तिविशेषस्तद्वत्त्वं चित्तत्त्वमित्यर्थः ।
अतीतं भोजनं तृप्तिसाधनं दृष्टं भोजनत्वादागामिनोऽपि तस्य तदेव प्रयोजनमितिनिरूपणसामर्थ्यं चित्तमिति प्रसिद्धमित्याह –
अतीतेति ।
यथोक्तस्य चित्तस्य संकल्पाद्भूयस्त्वं प्राप्तमपूर्वत्वं व्युत्पादयति –
कथमित्यादिना ।
संकल्पप्रकरणं परामृशति –
पूर्ववदिति ॥१॥
यथा संकल्पस्य निमित्तत्वे सति स्तुत्यर्थमधिकरणत्वं युक्तं तथा चित्तस्य विभक्तस्य संकल्पादिषु निमित्तत्वेऽपि स्तुत्यर्थमेव तदधिकरणत्वमाह –
तानीति ।
इतश्च चित्तस्यास्ति वैशिष्ट्यमाह –
किंचेति ।
यद्यपि बहुशास्त्रार्थपरिज्ञानवान्संस्तथाऽपि यद्यचित्तो भवतीति योजना ।
अचित्तस्यासत्समत्वं श्रुतवैयर्थ्यं चेत्युक्तं प्रश्नद्वारा विवृणोति –
कस्मादित्यादिना ।
श्रुतमपीत्यपिशब्देन सत्त्वं गृह्यते ।
चित्ताभावे श्रुतादेर्वैयर्थ्योक्त्या तद्वैशिष्ट्यमादिष्टमिदानीं तद्वैशिष्ट्ये हेत्वन्तरमाह –
अथेति ।
चित्तवतोक्तार्थग्रहणार्थं श्रोतुमिच्छा लोकस्य भवतीत्यत्र हेतुमाह –
तस्मादिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चमः खण्डः ॥
क तद्ध्यानमित्यपेक्षायामाह –
ध्यानं नामेति ।
अचलत्वं साधयति –
भिन्नजातीयैरिति ।
कथं तस्य चित्ताद्भयस्त्वमित्याशङ्क्यानेकाग्रतादोषोपहतस्यातीतादिफलनिरूपणेन सामर्थ्यादर्शनादेकाग्रतारूपो ध्यानपदार्थश्चेतयितृत्वात्तस्य कारणत्वात्ततो भयानेवेत्यभिप्रेत्याऽऽह –
एकाग्रतेति ।
इतश्चास्ति तस्य भूयस्त्वमित्याह –
दृश्यते चेति ।
फलद्वारा तन्माहात्म्यं प्रश्नपूर्वकं दृष्टान्तेन स्पष्टयति –
कथमित्यादिना ।
गौरवपरिहारार्थं पक्षान्तरमाह –
मनुष्या एवेति ।
मनुष्याणामेव सतां कुतो देवत्वमित्याशङ्क्याऽऽह –
शमादीति ।
ध्यानफलं नैश्चल्यं तन्महत्सु पृथिव्यादिषु दृष्टं तथाच तद्वैशिष्ट्यमित्यर्थः ।
तत्रैव हेत्वन्तरमाह –
यस्मादिति ।
धनादिभिर्महत्त्वे हेतुमुत्कृष्टं कर्मेति यावत् । ध्यानस्याऽऽपादनमनुष्ठानं तेन तत्फललाभो लक्ष्यते तस्यांशो येषामस्ति ते तथा ।
ध्यानफललाभकलावत्त्वमेव स्फुटयति –
निश्चला इति ।
एवकारार्थमाह –
नेति ।
महत्सु पुरुषेषु ध्यानफलानुवृत्तिर्दृष्टैत्यन्वयमुक्त्वा व्यतिरेकमाह –
अथेति ।
व्यतिरेकं दर्शयित्वाऽन्वयमुपसंहरति –
अथ ये महत्त्वमिति ।
महत्सु नैश्चल्यदर्शनमतः शब्दार्थः ।
महत्त्वफलमाह –
अत इति ॥१-२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षष्ठः खण्डः ॥
विज्ञानस्योक्तभूयस्त्वं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।
यद्यपि प्रमाणतया तज्ज्ञानं शास्त्रार्थज्ञानपूर्वकं तथाऽपि कथं तस्य ततो भूयस्त्वं तत्राऽऽह –
यस्येति ।
इतश्च तस्य ध्यानाद्भूयस्त्वमित्याह –
किंचेति ।
भूयस्त्वफलमाह –
अत इति ॥१॥
ज्ञानविज्ञानशब्दयोरर्थभेदं कथयति –
विज्ञानमिति ।
तथाऽपि लोकानामचेतनानां कुतस्तदुभयाश्रयत्वमित्याशङ्क्याऽऽह –
तद्वद्भिरिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तमः खण्डः ॥
लोके बलशब्दार्थे श्वेतकेतुवाक्यं प्रमाणयति –
अनशनादिति ।
कथं तर्हि शरीरसामर्थ्ये बलशब्दप्रयोगस्तत्राऽऽह –
शरीरेऽपीति ।
तदेवेत्यन्नोपयोगजनितमेवेत्यर्थः ।
न केवलं कारणत्वादेव बलं विज्ञानाद्भूयः किन्तु प्रत्यक्षं च तस्य ततो भूयस्त्वमित्याह –
विज्ञानवतामिति ।
तस्माद्बलस्य विज्ञानाद्भूयस्त्वमिति शेषः । समुदितमपि कम्पयते तथाऽन्यत्रापि द्रष्टव्यमिति सम्बन्धः ।
यस्मादेवं बलस्य कारणत्वं विज्ञानस्य च कार्यत्वं तस्मात्ततस्तद्भूयस्त्वमित्येतस्मिन्नर्थे कार्यकारणभावमेतयोरुपपादयति –
यस्मादित्यादिना ।
इतश्च बलस्य भूयस्त्वमेष्टव्यमित्याह –
किंचेति ॥१-२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्याष्टमः खण्डः ॥
अथवा यदि सोऽभुञ्जानोऽपि कथंचिज्जीवेत्तदा जीवन्नपि सम्बन्धः । कथमशनशून्यस्य जीवनमित्याशङ्क्याऽऽह –
दृश्यन्त इति ।
अन्नोपयोगाभावे बलहानिरिति व्यतिरेकमुक्त्वा तदुपयोगे बलं भवतीत्यन्वयं व्याचष्टे –
अथेति ।
अथान्नस्याऽऽय इत्यपि पाठोऽस्ति तत्रान्नस्याऽऽय इत्येतदेव पदमन्नप्राप्तिपरतया व्याख्येयमेकारमीकारत्वेन विपरिणमय्य वर्णव्यत्ययाङ्गीकारादित्याह –
आय इत्येतदिति ।
द्रष्टा श्रोतेत्याद्यन्नकार्यस्य श्रवणादपि पाठान्तरमन्नप्राप्तिपरतया व्याख्येयमित्याह –
द्रष्टेत्यादीति ।
कथं तदन्नकार्यमित्याशङ्क्यान्वयव्यतिरेकौ दर्शयति –
दृश्यते हीति ॥१-२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य नवमः खण्डः ॥
अपां कारणत्वेनान्नाद्भूयस्त्वमन्वयव्यतिरेकाभ्यां साधयति –
यस्मादित्यादिना ।
अपां सर्वजगदात्मकत्वाच्चान्नाद्भूयस्त्वमुचितमित्याह –
अप्संभवत्वादिति ।
दधिपयःप्रभृत्याहुतिपरिणामत्वादन्तरिक्षादेरप्संभवत्वमवसेयम् ।
अपां सर्वमूर्तात्मकत्वमुपसंहरति –
इत्यादीति ॥१-२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य दशमः खण्डः ॥
इति शब्दस्तदाहुतिरित्यनेन संबध्यते । वैशब्दार्थं दर्शयति –
प्रसिद्धमिति ।
अप्तेजसोरुक्तं कार्यकारणत्वमुपजीव्य फलितमाह –
तेज एवेति ।
अप्तेजसोर्विधान्तरेण कार्यकारणभावं दर्शयति –
किंचान्यदिति ।
तदेवोपपादयति –
ऊर्ध्वाभिरिति ।
तेजसोभूयस्त्वफलमाह –
तेज इति ॥१॥
तमःशब्दार्थमाह –
बाह्येति ।
बाह्यं तमः शार्वरं प्रसिद्धमाध्यात्मिकज्ञानरागादि तदुभयमपहततमस्कानित्यत्र तमःशब्दितमित्यर्थः ।
अपहतशब्दार्थमाह –
अपनीतेति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकादशः खण्डः ॥
वायोः सकाशादाकाशो भूयानिति वक्तव्ये कथं तेजसो भूयानित्युक्तमत आह –
वायुरिति ।
कारणत्वेऽपि कथमाकाशस्य वायुसहितात्तेजसो भूयस्त्वमित्याशङ्क्याऽऽह –
कारणं हीति ।
तेजसो वायुसहितादाकाशस्य भूयस्त्वं प्रश्नपूर्वकं प्रकारान्तरेण दर्शयति –
कथमित्यादिना ।
इतश्चाऽऽकाशस्यास्ति भूयस्त्वमित्याह –
किंचेति ।
तद्भूयस्त्वफलमाह –
अत इति ॥१॥
कथमाकाशोपासकस्य प्रकाशव्याप्तलोकप्राप्तिरित्याशङ्क्याऽऽह –
प्रकाशाकाशयोरिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वादशः खण्डः ॥
नपुंसकलिङ्गं श्रुतं पुंलिङ्गत्वेन कथं व्याख्यातमित्याशङ्क्य पुंलिङ्गोपक्रममाश्रित्याऽऽह –
लिङ्गव्यत्ययेनेति ।
कथं पुनः स्मरणस्याऽऽकाशाद्भूयस्त्वमित्याशङ्क्याऽऽह –
स्मरणे हीति ।
अन्वयमुक्त्वा व्यतिरेकं दर्शयति –
असतीति ।
आकाशादेः स्मरणाभावेऽपि सत्त्वमङ्गीकृत्य भोग्यत्वाभावादानर्थक्यमुक्तं संप्रत्यस्मरणे सत्त्वमेव नास्तीत्याह –
नापीति ।
स्मरणस्य भूयस्त्वमनुभवानुसारेण साधयति –
दृश्यते हीति ।
हिशब्दार्थो यस्मादित्युक्तः ।
स्मरणाभावे श्रवणाद्यभावं व्यतिरेकमुक्त्वा तद्भावे तद्भावमन्वयमाह –
यदेति ।
इतश्चास्ति स्मरणस्य भूयस्त्वमित्याह –
तथेति ।
तद्भूयस्त्वे फलितमाह –
अत इति ॥१-२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य त्रयोदशः खण्डः ॥
आशाया भूयस्त्वमाकाङ्क्षाद्वारा व्युत्पादयति –
कथमित्यादिना ॥१-२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्दशः खण्डः ॥
प्राणस्य सर्वास्पदत्वेन भूयस्त्वं कथयति –
नामोपक्रममिति ।
प्रकृतश्रुतिवशात्तदुपक्रमे यस्य जगतोऽस्ति तत्तथा पाठक्रममेवाऽऽश्रित्याऽऽशा चान्ते यस्यास्ति तज्जगत्तथेति विग्रहः । कार्यकारणत्वं क्वाचित्कमुपादानोपादेयत्वं निमित्तनैमित्तिकत्वमपि क्वाचित्कमेव । उत्तरोत्तरभूयस्तया पूर्वस्मात्पूर्वस्मान्नामादेरुत्तरोत्तरवागादिभूयस्त्वेनेति यावत् । स्मृतिनिमित्तः सद्भावो यस्य तत्तथा ।
आशाख्यै रशनापाशैः सर्वतो विपाशितमित्यत्र दृष्टान्तमाह –
बिसमिवेति ।
बिसशब्दो मृणालविषयः । यथोक्तं जगद्यस्मिन्नर्पितं स एष भूयानिति सम्बन्धः ।
सर्वस्य जगतस्तस्मिन्नर्पितत्वमेव दृष्टान्तद्वारा स्पष्टयति –
येन चेति ।
सर्वतो व्यापिनेत्यस्यैव स्फुटीकरणमन्तर्बहिर्गतेनेति ।
प्राणस्याऽऽशायाः सकाशाद्भूयस्त्वमाकाङ्क्षापूर्वकं समर्थयते –
कथमित्यादिना ।
लिङ्गानां व्यष्टीनां संघातः समुदायस्तद्रूपे समष्ट्यात्मनीति यावत् ।
उपाधितद्वतोरैक्यमभिप्रेत्य विशिनष्टि –
प्रज्ञात्मनीति ।
तस्यैवाध्यात्ममधिभूतमधिदैवं चावस्थानं सूचयति –
दैहिक इति ।
प्राणान्तरं व्यावर्तयति –
मुख्य इति ।
यथोक्तेऽस्मिन्प्राणे सर्वं समर्पितमित्युत्तरत्र सम्बन्धः ।
प्रज्ञात्मनीति परमात्मोपाधित्वं प्राणस्योक्तं तदुपपादयति –
यस्मिन्निति ।
तस्मिन्सर्वं समर्पितमिति पूर्ववत्सम्बन्धः ।
किमिति चक्षुरादिषु विद्यमानेषु मुख्यस्यैव प्राणस्य परमात्मोपाधित्वमुपगतमित्याशङ्क्याऽऽह –
यश्चेति ।
प्राणस्येश्वरं प्रति सर्वाधिकारित्वे श्रुत्यन्तरं प्रमाणयति –
कस्मिन्निति ।
ईश्वरं प्रति प्राणस्यैवोपाधिकत्वे हेत्वन्तरमाह –
यस्त्विति ।
अत्रापि पूर्ववदन्वयः ।
प्राणश्छायावदीश्वरमनुगच्छतीत्यत्र श्रुत्यन्तरं प्रमाणयति –
तद्यथेति ।
भूतमात्राः शब्दादयः पृथिव्यादयश्च विषयाः प्रज्ञामात्रासु शब्दादिबुद्धिषु तज्जनकेन्द्रियेषु वेत्यर्थः ।
भवतु तासां प्राणेऽर्पितत्वं तथाऽपि कथं प्राणस्य च्छायावदीश्वरं प्रत्यनुगतिस्तत्राऽऽह –
स एष इति ।
कौषीतकिनां श्रुतिरिति शेषः । प्राणस्य यथोक्तविशेषणवैशिष्ट्यमतःशब्दार्थः ।
व्याख्यातं भागमनूद्यावशिष्टमंशं व्याकरोति –
एवमिति ।
प्राणः प्राणेन यातीत्यस्यार्थमाह –
अत इति ।
सर्वास्पदत्वादिति यावत् ।
प्राणः प्राणेन यातीत्यादेः प्राणो ह्येवैतानि सर्वाणि भूतानीत्यन्तस्य तात्पर्यार्थं संक्षिप्य कथयति –
सर्वमिति ।
दातुर्देयस्य संप्रदानस्य च प्राणाभिन्नत्वं प्रकटयति –
प्राण इति ।
तदपीति दीयमानमुच्यते । स्वस्य संप्रदानस्य च प्राणाभिन्नत्वात्प्राणायैवेत्युक्तम् । प्राणस्य सर्वात्मत्वमतःशब्दार्थः ॥१॥
प्रसिद्धिरनतिक्रमणीयेति शङ्कते –
कथमिति ।
अन्वयव्यतिरेकाभ्यां पित्रादिशब्दानां प्राणविषयत्वान्न प्रसिद्धेरुल्लङ्घनमित्याह –
उच्यत इति ।
अन्वयव्यतिरेकावेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
पित्रादिषु प्राणे सति पित्रादिशब्दानां प्रयुज्यमानत्वमन्यथा चाप्रयुज्यमानत्वं तदित्युच्यते । त्वंकारादियुक्तमित्यादिपदेन तिरस्कारप्रभेदो गृह्यते ।
पित्रादिष्वप्रियवादिनं प्रति विवेकिना धिक्कारवचने हेतुमाह –
पितृहेति ॥२॥
सति प्राणे पित्रादिषु पित्रादिशब्दानां प्रयुज्यमानत्वमित्यन्वयमुक्त्वा व्यतिरेकमाह –
अथैनानेवेति ।
समस्य पुञ्जीकृत्य व्यत्यस्यावयवान्विभज्येत्यर्थः । यद्यपीत्युपक्रमादेवमपीत्येतत्तथाऽपीत्यस्मिन्नर्थे द्रष्टव्यम् ।
तदेवातिक्रूरं कर्म विशिनष्टि –
समासेति ।
अवयवविभजनमादिशब्दार्थः । तद्देहसंबद्धमित्यत्र तच्छब्दः क्रूरपित्रादिविषयः । यद्यपि त्यक्तप्राणेष्वपि देहेषु पित्रादिशब्दो दृष्टस्तथाऽपि नासौ मुख्यः । तद्विषये क्रूरकर्मानुष्ठानेऽपि शिष्टगर्हादृष्टेरिति भावः ।
उक्तान्वयव्यतिरेकफलमुपसंहरति –
तस्मादिति ॥३॥
प्राणस्यैव पित्रादिसंज्ञकत्वे किं स्यादित्याशङ्क्याऽऽह –
तस्मात्प्राणो हीति ।
प्राणस्य भूयस्त्वमित्थं व्युत्पाद्य तद्विज्ञानफलमाह –
स वा इति ।
प्राणविदतिवादी भवतीति सम्बन्धः ।
कथं प्राणवित्त्वमित्यपेक्षायामाह –
एवमिति ।
सर्वात्मत्वं यथोक्तप्रकारः फलतोऽनुभवः स्वरूपत्वेन साक्षात्कारः ।
तदनुदर्शनेनैव प्राणवित्त्वे सिद्ध्यति सति किमिति मननविज्ञाने पृथगुपन्यस्येते तत्राऽऽह –
मननविज्ञानाभ्यां हीति ।
उक्तान्वयव्यतिरेकाख्योपपत्तिसहकृताद्वाक्याद्यत्प्राणविषयं ज्ञानं जायते तदत्र विज्ञानं विवक्ष्यते । तत्फलसाक्षात्करणं दर्शनमिति भेदः । मननविज्ञाने विना दर्शनासंभवोऽतःशब्दार्थः । एवं मननादिद्वारेणेति यावत् ।
अतिवादित्वं व्युत्पादयति –
नामादीति ।
नापह्नुवीतेत्युक्तं व्यक्तीकरोति –
कस्मादिति ।
यद्यस्मादयं विद्वानात्मत्वेन सर्वेश्वरं प्राणोऽस्मीत्युपगतवांस्तस्मादपह्नवे हेत्वभावादात्मनोऽतिवादित्वं नापह्नुवीतेति(त्यर्थः) ॥४॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चदशः खण्डः ॥
अत्र प्राणान्तमुपदेशं श्रुत्वा नारदस्य तूष्णीभावे किं कारणमित्याशङ्कायामाह –
स एष इति ।
कथं तस्योपरतिरवगतेत्याशङ्क्याऽऽह –
न पूर्ववदिति ।
किमिति तर्हि प्राप्तायामुपेक्षायां स्वयमेवाऽऽचार्यो व्युत्पादयतीत्याशङ्क्याऽऽह –
तमेवमिति ।
“एतस्माज्जायते प्राण”(मु.उ. २ । १ । ३) इति श्रुत्यन्तरात्प्राणस्य विकारत्वेनानृतत्वं “वाचाऽऽरम्भणं विकारो नामधेयम्”(छा.उ. ६ । १ । ४) इत्युक्तम् । तस्मिन्ननृते प्राणे ब्रह्मणि विज्ञानं तेनेति यावत् ।
परितुश्ष्टत्वे कथमकृतार्थत्वमित्याशङ्क्य मिथ्याज्ञानशालित्वादित्याह –
परमार्थेति ।
न च तस्योपेक्षार्हत्वमित्याह –
योग्यमिति ।
मिथ्याग्रहविशेषो नास्ति प्राणात्परमित्यभिमानः ।
कथं तर्हि प्राणविदोऽतिवादित्वमुक्तं तत्राऽऽह –
नामादीति ।
कस्तर्हि परमार्थतोऽतिवादीत्याशङ्क्याऽऽह –
यस्त्विति ।
सोऽतिवादीति यतः सनत्कुमारस्याभिप्रायोऽत एवाऽऽहेति योजना ।
ननु नारदस्य नाद्यापि सत्यविज्ञानमुत्पन्नं कथं सत्येनातिवदानीति पृच्छति तत्राऽऽह –
तथेति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षोडशः खण्डः ॥
यदा वै विजानातीत्यादिवाक्यं व्याकुर्वन्नुत्तरमाह –
यदेति ।
यदि विश्वं सद्रूपादनुगताद्भिन्नमसदेव स्याद्यदि त्वभिन्नं सन्मात्रमेव परमार्थसत्यं सिद्ध्येदिति परमार्थतः सत्यं यदैव विजानातीत्यर्थः ।
विज्ञानप्रकारमभिनयति –
इदमिति ।
ततस्तदाऽनृतं विकारजातं हित्वा सदेव सत्यमिति कृत्वा यद्वदति तत्तदेव वदतीति योजना । सत्यविज्ञानस्य तद्वदनं प्रति हेतुत्वद्योतनार्थोऽथशब्दः ।
श्रत्यन्तरावष्टम्भेन भेदाभेदवादी शङ्कते –
नन्विति ।
किं बृहदारण्यकश्रुत्या विकारस्य सत्यत्वमुक्तमित्येतावन्मात्रमुच्यते किं वा परमार्थसत्यत्वमिति विकल्प्याऽऽद्यमंगीकरोति –
सत्यमिति ।
द्वितीयं दूषयति –
न त्विति ।
भेदाभेदयोर्विरोधादेकोपाधावयोगाद्विकारस्य च रज्जुसर्पवन्मिथ्यात्वानुमानादत्यन्ताबाध्यत्वाभिप्रायेण सत्यत्वं श्रुत्यन्तरेणैवोक्तमित्यर्थः ।
कथं तर्हि प्राणादिषु सत्यत्वमुक्तमित्याशङ्क्याङ्गीकारं स्फोरयति –
किं तर्हीति ।
इन्द्रियजनितसद्बुद्धिविषयत्वापेक्षं भूयत्रयं सदित्युच्यते । तदविषयत्वापेक्षं भूतद्वयं त्यदिति व्यवह्रियते । तथा च भूतपञ्चकं सच्च त्यच्चेति व्युत्पाद्य सत्यममिति यथोक्तं तथा तद्बीजभूतयोर्नामरूपयोस्तदात्मकत्वाच्च प्राणानां सत्यत्वं व्यावहारिकमिष्टमित्यर्थः ।
इतश्च प्राणादिषु मिथ्याभूतेष्वपि सत्यश्रुतिरविरुद्धेत्याह –
तद्द्वारेणेति ।
प्राणादीनां व्यावहारिकसत्यत्वानुवादद्वारेणाध्यारोपापवादन्यायेन परमार्थसत्यस्य ब्रह्मणोऽवगतिर्विवक्षितेति कृत्वा तेष्वपि सत्यत्वश्रुतिरविरुद्धेत्यर्थः ।
यथोक्तोऽर्थो विवक्षितो बृहदारण्यकश्रुतावित्यत्र गमकमाह –
प्राणा वा इति ।
ननु श्रुत्यन्तरे विकारस्यापि व्यावहारिकं सत्यत्वमिष्टं प्रकृते तु न तदिष्यते भूम्न एव सत्यत्वाङ्गीकारात्तथा च विरोधतादवस्थ्यमत आह –
इहापीति ।
यदि प्राणस्यापि व्यवहारतः सत्यत्वमुपगतं किं तर्हि सनत्कुमारस्य विवक्षितमित्याशङ्क्याऽऽह –
इह त्विति ।
यदा वै विजानात्यथ सत्यं वदतीति यद्व्याख्यातं तदन्वयव्यतिरेकाभ्यां स्फुटयन्नादौ व्यतिरेकमाह –
नाविजानन्निति ।
परमार्थसत्यमविजानन्नपि वदत्यग्न्यादीनित्याशङ्क्याऽऽह –
यस्त्विति ।
तर्हि कथं सदेव परमार्थसत्यमिति वदतोऽभीष्टसिद्धिरित्याशङ्क्याऽऽह –
न त्विति ।
तान्येव तर्हि रूपाणि पृथग्विद्यन्ते नेत्याह –
तथेति ।
अतोऽस्य नास्ति सत्यवादित्वं किंत्वसत्यवादित्वमेवेत्युपसंहरति –
इत्यत इति ।
व्यतिरेकं दर्शयित्वाऽन्वयमन्वाचष्टे –
विजानन्नेवेति ।
अस्तु तर्हि सत्यविज्ञानपूर्वकमतिवादित्वमित्याशङ्क्याऽऽह –
न चेति ।
यद्येवं जिज्ञासाद्वारा सत्यविज्ञानं ज्ञेयमित्येवमिष्टं चेदित्यर्थः ।
सत्यवदनं प्रति सत्यविज्ञानस्य यथा कारणत्वमुक्तं तथा पूर्वस्य पूर्वस्योत्तरमुत्तरं कारणत्वेन द्रष्टव्यमित्यतिदिशति –
एवमिति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तदशः खण्डः ॥
विज्ञानकारणीभूतां मतिं व्याचष्टे –
मतिरिति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्याष्टादशः खण्डः ॥
मननहेतुभूतां श्रद्धां व्याकरोति –
आस्तिक्येति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकोनविंशः खण्डः ॥
श्रद्धाहेतुं निष्ठां व्याचष्टे –
निष्ठेति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य विंशः खण्डः ॥
निष्ठानिदानं कृतिं विभजते –
कृतिरिति ।
कथं पुनरेतेषामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणीभवति तत्राऽऽह –
सत्यां हीति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकविंशः खण्डः ॥
कृतिस्तर्हि कुतो भवतीति तत्राऽऽह –
साऽपीति ।
यदा सुखं लभते तदा भवतीति सम्बन्धः ।
ननु सुखलाभस्येन्द्रियसंयमादिव्यतिरेकेणाभावात्कथं सुखलाभाधीना कृतिरित्याशङ्क्याऽऽह –
सुखमिति ।
वक्ष्यमाणसुखलब्धव्यत्वाभिमानादेव यथोक्ता कृतिः सिद्ध्यतीत्यर्थः ।
सुखं लब्ध्वा करोतीत्येतद्दृष्टान्तेन साधयति –
यथेति ।
दृष्टं फलं पुत्रपश्वादि तज्जन्यसुखोद्देशपूर्विका लोके कृतिर्दृष्टा तथाऽऽत्मन्यपि सुखं लब्ध्वैव करोति न तु विना तदुद्देशमित्यर्थः ।
नन्विन्द्रियाणां मनसश्च संयमपूर्वकं सुखं भवति तथा च कथं तल्लब्ध्वा करोतीत्युच्यते तत्राऽऽह –
भविष्यदपीति ।
उत्तरग्रन्थमाकाङ्क्षापूर्वकमुत्थापयति –
अथेत्यादिना ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य द्वाविंशः खण्डः ॥
भूम्नोऽर्वागपि वैषयिकं सुखमस्तीत्याशङ्क्याऽऽह –
ततोऽर्वागिति ।
कथमल्पत्वेऽपि सुखत्वं वार्यते तत्राऽऽह –
अल्पस्येति ।
दुःखरूपां तृष्णां प्रत्यल्पस्य सुखस्य हेतुत्वेऽपि कथं स्वयं सुखं न भवतीत्याशङ्क्याऽऽह –
न हीति ।
अल्पस्य सुखस्य दुःखान्तर्भावे सिद्धे फलितमाह –
अत इति ॥१॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य त्रयोविंशः खण्डः ॥
भूम्नः सविशेषत्वं निर्विशेषत्वं वेति प्रश्नपूर्वकं निर्विशेषत्वं निर्धारयति –
किमित्यादिना ।
नान्यच्छृणोति स भूमेति सम्बन्धः ।
किमिति स्पर्शनादिष्वपि सत्सु दर्शनश्रवणयोरेव निषेध्यत्वेनात्र ग्रहणमित्याशङ्क्याऽऽह –
नामेति ।
अनुक्तानां स्पर्शादीनामुपलक्षणार्थत्वेनात्र द्वयोर्ग्रहणं स्पर्शनाद्यविषयत्वस्यापि भूम्नि भावादित्याह –
अन्येषामिति ।
अत्रेति लक्षणवाक्योक्तिः ।
तत्र हेतुमाह –
प्रायश इति ।
यस्मिन्नधिकरणे तत्त्वविचारणायामन्योऽन्यं न पश्यति न श्रुणोति न मनुते न विजानाति स भूमेति द्रष्टृदृश्यादिविकल्पनिषेधेनाध्यासाधिकरणत्वोपलक्षितस्य विकल्पाविषयत्वमेव भूमलक्षणमित्युपसंहरति –
एवमिति ।
उक्तमेव लक्षणं स्फुटयितुं विमृशति –
किमत्रेति ।
लोकप्रसिद्धदर्शनादिविषयत्वाभावमात्रं भूम्नो लक्षणं तन्निषेधेन स्वज्ञेयत्वं वेति विमर्शार्थः ।
कस्मिन्पक्षे को लाभः को वा दोष इति शिष्यः पृच्छति –
किंचात इति ।
आद्यमनूद्य तत्र लाभं दर्शयति –
यदीति ।
अन्यस्य प्रसिद्धस्य दर्शनादेर्विषयत्वं भूम्नि नास्तीत्येतावन्मात्रं तस्य लक्षणमित्युच्यते चेत्सर्वविकल्पातीतः प्रत्यगात्मा भूमेत्यस्मत्पक्षसिद्धिरित्यर्थः ।
द्वितीयं पक्षमनूद्य तस्मिन्दोषं सूचयति –
अथेत्यादिना ।
तमेव दोषं प्रश्नपूर्वकं स्फुटयति –
यद्येवमित्यादिना ।
सति क्रियाकारकफलभेदे कथं संसारनिवृत्तिस्तत्राऽऽह –
क्रियेति ।
सति भेदे क्रियादेः संसारत्वं लोके दृष्टं तद्वैलक्षण्यादेकस्मिन्नेव क्रियाकारकभावस्य न संसारतेति चोदयति –
आत्मैकत्व इति ।
एकस्मिन्क्रियादिभेदस्यासंभवं दर्शयन्नुत्तरमाह –
नाऽऽत्मन इति ।
द्वितीयपक्षस्य दुष्टत्वे स्पष्टीकृते प्रथमपक्षस्यापि समानं दुष्टत्वमिति शिष्यः शङ्कते –
अन्येति ।
आद्यपक्षेऽपि न पश्यतीत्येतावतैव दर्शनाद्यभावलाभाद्यत्रेत्यन्यदिति च विशेषणे व्यर्थे स्यातामित्यर्थः ।
व्यर्थमेवेदृशं वचनमित्याशङ्क्य शिष्यः स्वयमेव ब्रूते –
दृश्यते हीति ।
लोके हि यत्र शून्ये गृहे नान्यत्पश्यति तद्देवदत्तीयमिति प्रयोगो दृश्यते न च तस्य नैरर्थक्यमिष्टं व्यवहाराङ्गत्वात् । यथा च तस्मिन्यथोक्ते धनधान्याद्यदर्शनेऽपि स्तम्भादीन्गृहं च न न पश्यतीति श्रुतस्य नैरर्थक्यं न गम्यते । किं तु तत्र स्तम्भादीनां तस्य च दर्शनमिष्टं तथा यत्र नान्यत्पश्यतीत्यत्रापि विशेषणवैयर्थ्ये समाधानं वक्तव्यमित्यर्थः ।
किं विशेषणार्थवत्त्वानुपपत्त्या भूम्न्यधिकरणाधिकर्तव्यभावः स्वात्मदर्शनं च वाच्यमित्युच्यते किं वा श्रुतस्य गतिर्वक्तव्येति पृच्छ्यते तत्राऽऽद्यं दूषयति –
नेत्यादिना ।
तथा तत्त्वमसीतिवदित्यर्थः । निर्धारितत्वादधिकरणाधिकर्तव्यभेदानुपपत्तिरिति शेषः ।
यच्चान्यत्र पश्यतीति विशेषणादात्मनः स्वदर्शनं वाच्यमिति तत्राऽऽह –
अदृश्य इति ।
द्वितीयमनूद्य गतिमाह –
यत्रेत्यादिना ।
परिहारभागं दृष्टान्तेन स्पष्टयति –
यथेति ।
एकस्मिन्नेव भूम्नि यत्रेति विशेषणमनर्हमपि प्रयुज्यते प्रसिद्धानुवादेनाधिकरणादिविकल्पाविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादित्याह –
एवमिति ।
यदविद्यावस्थमन्यदर्शनादि तदनुवादेन नान्यत्पश्यतीति विशेषणं च भूम्नि विरुध्यते दर्शनाद्यविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादित्याह –
अविद्येति ।
लक्षणवाक्यार्थमुपसंहरति –
तस्मादिति ।
दर्शनादिसकलसांसारिकव्यवहाराभावोपलक्षितं तत्त्वं भूमेत्यर्थः ।
अथ यत्रेत्यादिवाक्यं व्याकरोति –
अथेति ।
परिच्छिन्नस्याविद्याकालभावित्वं दृष्टान्तेन विवृणोति –
यथेति ।
तत एव परिच्छिन्नत्वादिति यावत् ।
कथं तदमृतमिति भूम्नि तच्छब्दप्रयोगस्तत्राऽऽह –
तच्छब्द इति ।
भूम्नः सुखत्ववचनात्तस्य चाऽऽश्रयं पृच्छति –
स तर्हीति ।
व्यवहारदृष्ट्या प्रश्नो वस्तुदृष्ट्या वेति विकल्प्याऽऽद्यं प्रत्याह –
इत्युक्तवन्तमिति ।
द्वितीयमनूद्य निराकरोति –
यदीति ॥१॥
पूर्वापरविरोधमाशङ्क्य परिहरति –
यदीत्यादिना ।
भूम्नः स्वतोऽन्यस्मिन्प्रतिष्ठितत्वाभावोऽत्रेत्युच्यते तत्रान्यो हीत्यादिवाक्यस्य हेतुत्वेन हेतुना तेन व्यवहितेन नाहमेवं ब्रवीमीत्यस्य सम्बन्ध इति योजना ।
कथं तर्हि ब्रवीति भवानित्याशङ्क्याऽऽह –
किंत्विति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य चतुर्विंशः खण्डः ॥
अवतारितमेव वाक्यं प्रश्नपूर्वकमवतार्य व्याचष्टे –
कस्मादित्यादिना ।
उक्तमेवार्थं व्यतिरेकद्वारा विवृणोति –
सतीति ।
अहंकारात्मत्वोपदेशस्याभिप्रायमाह –
यत्रेति ।
कोऽसावहंकारेणाऽऽदिश्यत इत्याशङ्क्य प्रयोजनानुवादपूर्वकमाह –
द्रष्टुरिति ॥१॥
अहंकारादेशात्पृथगात्मादेशस्य तात्पर्यमाह –
अहंकारेणेति ।
उक्तात्मविज्ञानवतः कृतकृत्यतामाह –
आत्मैवेति ।
एकमिति सजातीयभेदराहित्यस्योक्तिः । अन्यशून्यमिति विजातीयभेदशून्यत्वमुच्यते ।
रतिक्रीडयोरवान्तरभेदं दर्शयति –
देहमात्रेति ।
क्रीडा बाह्यसाधनेत्यत्र लोकसंमतिमाह –
लोक इति ।
देहस्य जीविते च भोगत्यागयोश्च निमित्तं बाह्यवस्तु तत्र सर्वत्र निरपेक्षो यदृच्छालाभेष्वासङ्गवर्जितो विद्वानित्याह –
देहेति ।
जीवन्मुक्तिमुक्त्वा विदेहमुक्तिं दर्शयति –
स इति ।
स्वाराज्यं निमित्तीकृत्य फलान्तरमाह –
यत एवमिति ।
स्वाराज्यसर्वलोककामचारयोस्तात्पर्यमाह –
प्राणादिष्विति ।
यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतीत्यादिना परिच्छिन्नं परतन्त्रं च पूर्वभूमिषु फलमुक्तमत्र तु परमानन्दप्राप्तौ तद्व्यावृत्तिरुच्यते न तु सोपाधिकं रूपमित्यर्थः ।
फलप्रदर्शनद्वारेण स्तुत्वा विद्यामविद्वन्निन्दाद्वाराऽपि तां स्तौति –
अथेत्यादिना ।
ते क्षय्यलोका भवन्तीति सम्बन्धः ।
भेददर्शिनां विनाशिफलत्वे हेतुमाह –
भेददर्शनस्येति ।
परिच्छिन्नस्य विनाशित्ववचनं तस्मादिति परामृशति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चविंशः खण्डः ॥
उक्तविद्यास्तुत्यर्थमेव विदुषः स्रष्टृत्वमाह –
तस्येति ।
तथा विदुषः स्रष्टृत्वव्यवहारवदित्यर्थः । क्रीडादिरन्यो व्यवहारः ॥१॥
न केवलं ब्राह्मणोक्तमिह विद्याफलं किं तु मन्त्रोक्तं चेत्याह –
किंचेति ।
तच्छब्दार्थः सप्तम्या निर्दिश्यते । स च विद्याफलरूपः ।
न पश्य इति मन्त्रमादाय व्याचष्टे –
पश्यतीत्यादिना ।
सर्वमाप्नोतीति पूर्णता परिच्छेदभ्रमव्यावर्तनेन विवक्षिता न तु क्रिमिकीटकादिभावोऽपुरुषार्थत्वप्रसङ्गादिति द्रष्टव्यम् ।
विद्यास्तुतिपौष्कल्यार्थं सगुणविद्याफलमपि निर्गुणब्रह्मविदाप्नोतीत्याह –
किंचेति ।
त्रिधा तेजोऽबन्नरूपेण । शब्दस्पर्शादिरादिशब्दार्थः ।
विद्यां तत्फलं तदपेक्षितां स्तुतिं चाभिधायाऽऽहारशुद्धावित्यादेस्तात्पर्यमाह –
अथेति ।
“रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्”(भ.गी. २ । ६४) इत्यादिस्मृतिमाश्रित्याऽऽहारशब्दं व्याकरोति –
आह्रियत इतीति ।
कथं तस्याऽऽह्रियमाणत्वं तत्राऽऽह –
भोक्तृरिति ।
कीदशी तस्य शुद्धिरित्याशङ्क्याऽऽह –
रागेति ।
आहारशुद्धिफलमाह –
तस्यामिति ।
अन्तःकरणशुद्धिफलं कथयति –
सत्त्वेति ।
स्मृतिलाभफलं दर्शयति –
तस्यां चेति ।
भवतीत्याहारशुद्धिरपेक्षितेति शेषः ।
प्रकृतवाक्यतात्पर्यमुपसंहरति –
यत इति ।
तस्मै मृदितकषायायेत्यादिवाक्यमवतार्य व्याचष्टे –
सर्वमिति ।
आगतिं गतिमायव्ययौ ।
तस्य वैशिष्ट्यान्तरमाह –
तमेवेति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य षड्विंशः खण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्कृतच्छन्दोग्योपनिषद्भाष्यटीकायां सप्तमोऽध्यायः समाप्तः ॥