अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

सप्तमोऽध्यायः: प्रथमः खण्डः

षष्ठ­स­प्त­म­यो­र­ध्या­ययोः सम्बन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति –
परमार्थेति ।
उत्तमाधिकारिणं प्रत्य­बा­धि­त­त­त्त्व­बो­धनं प्रधानं तत्प­रोऽ­ती­तोऽ­ध्यायः स सतो ब्रह्मणः प्रत्य­ङ्नि­श्च­य­प­र­त्वे­नैव व्याख्यात इत्यर्थः ।

अध्या­या­न्त­र­भू­मि­का­मा­र­च­यति –
न सत इति ।
मध्यममधिकारिणं प्रति परम्परया ब्रह्मा­त्म­त्व­मु­प­देष्टुं सप्त­म­प्र­पा­ठ­क­प्र­वृ­त्ति­रि­त्यर्थः ।

नन्वत्रापि ब्रह्मा­त्म­त्व­मे­वो­प­दे­ष्टु­मिष्टं चेत्किमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽह –
अनि­र्दि­ष्टे­ष्विति ।
वाशब्दः शङ्कानिरासार्थः ।

यद्वा द्वयो­र­ध्या­य­यो­र­द्वि­ती­य­ब्र­ह्मा­त्म­वि­ष­य­त्वा­वि­शे­षेऽपि साक्षा­त्पा­र­म्प­र्या­र­भ्या­म­पौ­न­रु­क्त्य­मुक्तं संप्रति नामा­दी­ना­मु­त्त­रो­त्त­र­भू­य­स्त्व­वि­शि­ष्टानां सन्मा­त्र­वि­ज्ञा­ने­ना­वि­ज्ञा­ना­दे­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­म­यु­क्त­मि­त्या­शङ्क्य ब्रह्मविदः सर्वज्ञत्वं स्पष्टी­क­र्तु­मु­त्त­र­ग्र­न्था­रम्भ इत्याह –
अनि­र्दि­ष्टे­ष्विति ।

नामा­दि­सं­की­र्त­नस्य तात्प­र्या­न्त­र­माह –
अथवेति ।
अधमोऽधिकारी नामादीनि ब्रह्म­त्वे­नो­पास्य तत्फलं च भुक्त्वा क्रमेण साक्षा­द्ब्र­ह्म­भावं प्राप्नोतीति प्रद­र्श­यि­तु­मु­त्तरो ग्रन्थ इत्यर्थः ।

शाखा­च­न्द्र­नि­द­र्श­न­न्या­येन मध्य­म­स्या­धि­का­रिणो ब्रह्म­सि­द्धि­स्वी­का­रार्थं मध्य­म­स्या­धि­का­रिणो ध्यानार्थं वा नामा­दि­सं­की­र्त­न­मि­त्यु­क्तम् । इदा­नी­मु­त्त­म­मे­वा­धि­का­रि­ण­म­धि­कृत्य भूमस्तुत्यर्थं नामादिवचनमिति मतान्तरमाह –
अथवा नामादीति ।

अध्या­य­सं­ब­न्ध­मु­क्त्वाऽऽ­ख्या­यि­का­स­म्ब­न्ध­माह –
आख्यायिका त्विति ।

स्तुत्य­र्थ­त्व­मेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
तथा च परविद्यया कृता­र्थ­त्वा­त्तस्याः स्तुतिरत्र विवक्षितेति शेषः ।

अती­ता­ध्या­या­दि­ष्ट­स­दा­त्म­वि­ज्ञा­ना­द­न्य­देव देवतोपासनं मोक्ष­सा­ध­न­मि­त्या­शङ्क्य तन्निषेधेन सदा­त्म­वि­ज्ञा­न­स्यैव मोक्षसाधनत्वं दृढी­क­र्तु­मा­ख्या­यिका प्रवृत्तेति पक्षान्तरमाह –
अथवेति ।

द्विती­य­मा­ख्या­यि­का­ता­त्पर्यं प्रपञ्चयति –
येनेत्यादिना ।
सर्वस्यापि ज्ञेयस्य यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्या संपन्नो वेद­वे­दा­ङ्गा­भि­ज्ञ­त्वेन तस्यापीति यावत् । अस्ति हि नार­द­स्यो­त्त­मा­भि­जने जन्म । ब्रह्मणो मान­स­पु­त्र­त्वा­दस्ति चोत्तमकर्म विद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवणध्यानादि साधनशक्तीनां धर्मा­ध­र्म­सा­ध­नस्य वा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमि­त्त­म­स्या­भि­मा­नस्य तं त्यक्त्वेति यावत् । इति­श­ब्दोऽ­ध्या­या­ख्य­यि­कयोः संब­न्धो­क्ति­स­मा­प्त्यर्थः । अध्ययनेन ज्ञानं लक्ष्यते । तथा चाधीष्व ज्ञापयेत्यर्थः । मन्त्रः उपसदनस्येति शेषः । न्यायतः समि­त्पा­णि­रि­त्या­दि­शा­स्त्रो­क्त­वि­धि­व­शा­दिति यावत् ॥१॥

अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्या­त­मि­त्या­श­ङ्क्याऽह –
यद्वेत्थेति ।
गन्धयुक्तिः कुङ्कु­मा­दि­स­म्पा­द­नम् ॥२॥

तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृत­कृ­त्योऽ­सी­त्या­श­ङ्क्याऽऽह –
सोऽहमिति ।

कथं मन्त्र­वि­दि­त्यस्य कर्मविदिति व्याख्या­न­मि­त्या­श­ङ्क्याऽऽह –
मन्त्रेऽष्विति ।

मन्त्रविदेव नाऽऽत्म­वि­दि­त्यत्र विरोधं चोदयति –
नन्विति ।
मन्त्रवित्त्वे तत्प्र­का­श्या­त्म­वि­त्त्व­मपि स्यात्तदभावे मन्त्र­वि­त्त्व­मपि न युक्तमित्यर्थः ।

अभि­धा­न­म­भि­धे­य­मि­त्येवं रूपस्य भेदस्य विकारत्वेन मिथ्या­त्वा­दा­त्म­नश्च विका­र­त्वा­न­ङ्गी­का­रा­न्म­न्त्र­प्र­का­श्य­त्वा­भा­वान्न विरोध इति परिहरति –
नाभिधानेति ।

आत्मनो विका­र­त्वा­भा­वेऽ­प्य­भि­धे­य­त्व­मे­ष्ट­व्य­मिति शङ्कते –
नन्विति ।

श्रुत्य­न्त­रा­व­ष्ट­म्भेन निराचष्टे –
नेत्यादिना ।

आत्म­श­ब्दे­नाऽऽ­त्म­नोऽ­भि­धे­य­त्वा­भावे वाक्य­शे­षा­दि­वि­रोधः स्यादि­त्या­श­ङ्कते –
कथं तर्हीति ।

आत्म­श­ब्दे­ना­वा­च्य­स्याऽऽ­त्म­न­स्तेन लक्षणया प्रति­प­त्ति­सं­भ­वा­न्नो­प­क्र­मो­प­सं­हा­र­वि­रो­धोऽ­स्ती­त्यु­त्त­र­माह –
नैष दोष इति ।
विशिष्टे गृहीतशब्दो विशेषणे प्रयुक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः ।

केव­ला­त्म­वि­ष­य­स्याऽऽ­त्म­श­ब्दस्य तद्दर्शनमन्तरेण विशि­ष्टा­त्म­दृ­ष्टि­मा­त्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विव­क्षि­ता­त्म­धी­रि­त्या­शङ्क्य दृष्टान्तेन परिहरति –
थेत्यादिना ।

आत्मनो मुख्यवृत्त्या मन्त्र­प्र­का­श्य­त्वा­भावे फलितमाह –
तस्मादिति ।

शब्दा­र्थ­ज्ञा­न­मा­त्रे­णाऽऽ­त्म­वित्त्वं न भव­ती­त्य­ने­नाऽऽ­चा­र्यो­प­दे­श­ज­नि­त­ज्ञा­न­वत एवाऽऽ­त्म­वि­त्त्व­मि­त्युक्तं तत्र प्रमाणमाह –
अत एवेति ।

औप­दे­शि­क­ज्ञा­न­वि­ष­यत्वं तर्हि स्वीकृ­त­मि­त्या­श­ङ्क्याऽऽह –
यत इति ।

मा तर्हि तवाऽऽत्मविद्या भूदित्याशङ्क्य शोक­नि­वृ­त्त्यु­पा­य­त्वेन तदपेक्षां सूचयति –
श्रुतमिति ।
आत्म­ज्ञा­नो­डु­पे­नाऽऽ­त्म­ज्ञा­ना­ख्येन प्लवेनेति यावत् ।

कथं मदीयमर्थज्ञानं सर्वं नाम­मा­त्र­मि­त्या­श­ङ्क्याऽऽह –
वाचाऽऽरम्भणमिति ॥३॥

उक्तमुपपादयति –
नाम वा इति ।

तदुपसंहरति –
नामैवेति ।

केन रूपेणेदं नामाऽऽ­द­र्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
नामेति ।

उपास्तिप्रकारं दृष्टान्तेन स्फुटयति –
यथेति ॥४॥

नाम्नि ब्रह्म­दृ­ष्ट्यो­पा­स्य­माने किं स्यादित्याह –
स यस्त्विति ।

यो नामे­त्या­दि­वा­क्यस्य पौन­रु­क्त्य­मि­त्या­श­ङ्क्याऽऽह –
यो नामेति ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य प्रथमः खण्डः ॥

वाग्वाव नाम्नो भूयसीत्युक्तं वाङ्ना­म्नो­रे­क­त्वा­द्व्या­प्य­व्या­प­क­त्वा­नु­प­प­त्ति­रि­त्या­शङ्क्य व्याचष्टे –
वागि­ती­न्द्रि­य­मिति ।
जिह्वा­मू­ला­दि­ष्वि­त्या­दि­श­ब्दे­नो­रः­क­ण्ठ­थ­शि­रो­द­न्तौ­ष्ठ­ना­सि­का­ता­लूनि गृह्यन्ते ।

वागिन्द्रियस्य वर्णे­भ्योऽ­भि­व्य­ङ्ग्येभ्यो भूयस्त्वेऽपि नाम्नस्तु भूयस्त्वं कुत­स्त्य­मि­त्या­श­ङ्क्याऽऽह –
वर्णाश्चेति ।

तयो­र्व्य­ङ्ग्य­व्य­ञ्ज­क­भा­वेऽपि कथं व्याप्य­व्या­प­क­त्व­मि­त्या­श­ङ्क्याऽऽह –
कार्याद्धीति ।

वाचो नाम्नो भूयस्त्वं प्रश्नपूर्वकं प्रपञ्चयति –
कथं चेत्यादिना ।

इतश्च वाचो भूय­स्त्व­मे­ष्ट­व्य­मि­त्याह –
यद्यदीति ।

अन्व­य­व्य­ति­रे­काभ्यां तस्या भूयस्त्वे सिद्धे फलितमाह –
तस्मादिति ॥१॥

स यो वाच­मि­त्या­द्य­न्य­दि­त्यु­च्यते ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य द्वितीयः खण्डः ॥

मनःशब्दस्य वृत्ति­मा­त्र­वि­ष­यत्वं व्यावर्तयति –
मन इति ।

कथं तस्य वाचो भूयस्त्वं तदाह –
तद्धीति ।

वाचो मन­स्य­न्त­र्भा­वेऽपि कुतो मनसस्तस्या भूयस्त्वं तत्राऽऽह –
यच्चेति ।

मनसो वागा­दे­र्व्याप्तिं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।

इतश्च मनसोऽस्ति भूयस्त्वमित्याह –
यदेति ।
विव­क्षा­बु­द्धिस्तां करोतीति शेषः । इच्छेयेतीच्छां कृत्वेति शेषः ।

तस्याऽऽ­त्म­त्व­मु­प­पा­द­यति –
आत्मन इति ।

तस्य लोकत्वं साधयति –
सत्येवेति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य तृतीयः खण्डः ॥

संक­ल्प­श­ब्दा­र्थ­माह –
संकल्पोऽपीति ।

का साऽन्तः­क­र­ण­वृ­त्तिर्या संक­ल्प­श­ब्दि­ते­त्या­श­ङ्क्याऽऽह –
कर्तव्येति ।

द्विविधे विषये विभागेन समर्थितेऽपि कथं यथोक्तस्य संकल्पस्य मनसो भूय­स्त्व­मि­त्या­श­ङ्क्याऽऽह –
विभागेन हीति ।
संकल्पस्य कार­ण­त्वा­न्म­न­सश्च कार्यत्वादतो भूय­स्त्व­मि­त्यर्थः ।

कार्यकारणभावं तयो­रा­का­ङ्क्षा­पू­र्वकं व्यक्तीकरोति –
कथमित्यादिना ।

मनसः सका­शा­द्वा­चोऽ­न­न्त­र­भा­वित्वे विशेषं दर्शयति –
तां चेति ।

नाम्नि मन्त्रा­णा­म­न्त­र्भावं समर्थयति –
सामान्ये हीति ।

कथं मन्त्रे­ष्व­नु­प­ल­ब्ध­क­र्म­णा­म­न्त­र्भा­व­स्त­त्राऽऽह –
मन्त्रेति ।

कथं कर्म नाम­न्त्र­क­म­स्ती­त्यु­च्यते ब्राह्म­ण­वि­हि­त­स्यापि कर्मणो दर्श­ना­दि­त्या­श­ङ्क्याऽऽह –
यद्धीति ।
ब्राह्मणस्य मन्त्र­व्या­ख्या­न­रू­प­त्वा­द­ति­स्प­ष्ट­म­न्त्रा­नु­प­ल­म्भेऽपि कल्प्यते मन्त्रो­क्त­त्व­मि­त्यर्थः ।

एतदेव प्रपञ्चयति –
याऽपीत्यादिना ।

एकस्यां शाखायां यत्कर्म मन्त्रे­ष्व­नु­प­लब्धं तच्छा­खा­न्त­री­य­म­न्त्र­प्र­का­शितं भविष्यतीत्यत्र हेत्वन्तरमाह –
त्रयीति ।

तथाऽपि कथं मन्त्र­प्र­का­शि­तत्वं तत्राऽऽह –
त्रयीशब्दश्चेति ।

मन्त्रेषु कर्मा­ण्य­न्त­र्भ­व­न्ती­त्यत्र श्रुत्य­न्त­रा­नु­मतिं कथयति -
मन्त्रेष्विति ॥१॥

तथाऽपि कथं संकल्पस्य भूय­स्त्व­मि­त्या­श­ङ्क्याऽऽह –
तानीति ।

अय­न­प­र्या­य­त्वे­नो­क्त­ग­म­नस्य क्रियात्वं व्यावर्तयति –
प्रलय इति ।

इतश्च संक­ल्प­स्या­प्यस्ति महत्त्वमित्याह –
समक्लृप्तामिति ।
यतो द्यावा­पृ­थि­व्या­दिषु महत्स्वपि संक­ल्पा­नु­वृ­त्ति­र्दृ­श्य­तेऽ­तोऽपि तस्य महत्वं गम्यते न केवलं कार­ण­त्वा­दे­वे­त्यर्थः ।

इतश्च तस्य मह­त्त्व­मे­ष्ट­व्य­मि­त्याह –
तेषामिति ।
वृष्टे­र्द्यु­लो­का­दि­का­र्य­त्वा­त्त­दी­य­सं­क­ल्पस्य तन्नि­मि­त्त­त्वो­प­चा­रा­त्तस्य भूय­स्त्व­सि­द्धि­रि­त्यर्थः ।

सृष्टिवशादन्नं सम­र्थी­भ­व­ती­त्यत्र प्रसिद्धिं प्रमाणयति –
वृष्टेर्हीति ।

अन्नाधीनं प्राण­सा­म­र्थ्य­मि­त्यत्र हेतुमाह –
अन्नमया हीति ।

आपोमयः प्राण इत्यु­क्त­त्वा­त्क­थ­म­न्न­म­य­त्व­मि­त्या­श­ङ्क्याऽऽह –
अन्नोपष्टम्भका इति ।

तत्र वाजसनेयकश्रुतिं प्रमाणयति –
अन्नमिति ।

प्राणानां मन्त्रा­ध्य­य­न­का­र­णत्वं व्युत्पादयति –
प्राणवानिति ।
ततो मन्त्र­प्र­का­शि­त­क­र्म­व­शा­दिति यावत् ।

कर्मफलवशाज्जगतः सर्व­स्या­वै­क­ल्येऽपि कथं संकल्पस्य मह­त्त्व­मि­त्या­श­ङ्क्याऽऽह –
एतद्धीति ।

तन्महत्त्वे फलितमाह –
अत इति ॥२॥

आत्मा­ति­रि­क्तानां लोकानां कथं नित्यत्वमत आह –
अत्यन्तेति ।

लोकानामेवं ध्रुव­त्व­मु­च्यतां किमिति लोकिनस्तदुच्यते तत्राऽऽह –
लोकिनो हीति ।

कथ­मु­प­क­र­ण­सं­प­न्नेषु प्रतिष्ठितशब्दो भव­ती­त्या­श­ङ्क्याऽऽह –
पशु­पु­त्रा­दि­भि­रिति ।

याव­त्सं­क­ल्प­स्ये­त्या­दि­श्रु­ते­र्वि­ष­य­सं­कोचं दर्शयति –
आत्मन इति ।
संकल्पस्य याव­द्गो­च­र­स्त­त्रास्य कामचारो भवतीति सम्बन्धः ।

निरङ्कुशे संकल्पशब्दे का हानि­रि­त्या­श­ङ्क्याऽऽह –
उत्तरेति ।
यदि संकल्पमात्रस्य गोचरे संकल्पोपासकस्य कामचारो भवति तर्हि सर्वसंकल्पस्य विचित्रतया सर्व­गो­च­र­त्व­सं­भ­वा­द्या­व­च्चि­त्तस्य गतमित्यादिना वक्ष्यमाणफलं विरुध्येत न हि संकल्पोपासनादेव सर्वस्मिन्फले सिद्धे चित्ताद्युपासनं तत्फलं वा पृथ­क्क­थ­यि­तु­मु­चि­त­मतो याव­त्सं­क­ल्प­स्ये­त्या­दि­श्रु­ते­रुक्तः संकोचो युक्त इत्यर्थः ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य चतुर्थः खण्डः ॥

चित्तशब्दस्य मनःशब्देन पुनरुक्तिं परिहरति –
चित्तं चेतयितृत्वमिति ।

तस्याऽऽत्मत्वं व्यावर्तयति –
प्राप्तेति ।
इदं वस्त्वेवं प्राप्तमिति प्राप्त­का­ल­व­स्तुनो वस्त्वनुरोधी चेतनाख्यो वृत्ति­वि­शे­ष­स्त­द्वत्त्वं चित्त­त्त्व­मि­त्यर्थः ।

अतीतं भोजनं तृप्तिसाधनं दृष्टं भोज­न­त्वा­दा­गा­मि­नोऽपि तस्य तदेव प्रयो­ज­न­मि­ति­नि­रू­प­ण­सा­मर्थ्यं चित्तमिति प्रसिद्धमित्याह –
अतीतेति ।

यथोक्तस्य चित्तस्य संक­ल्पा­द्भू­यस्त्वं प्राप्त­म­पू­र्वत्वं व्युत्पादयति –
कथमित्यादिना ।

संकल्पप्रकरणं परामृशति –
पूर्ववदिति ॥१॥

यथा संकल्पस्य निमित्तत्वे सति स्तुत्य­र्थ­म­धि­क­र­णत्वं युक्तं तथा चित्तस्य विभक्तस्य संकल्पादिषु निमित्तत्वेऽपि स्तुत्यर्थमेव तदधिकरणत्वमाह –
तानीति ।

इतश्च चित्तस्यास्ति वैशिष्ट्यमाह –
किंचेति ।
यद्यपि बहु­शा­स्त्रा­र्थ­प­रि­ज्ञा­न­वा­न्सं­स्त­थाऽपि यद्यचित्तो भवतीति योजना ।

अचि­त्त­स्या­स­त्स­मत्वं श्रुतवैयर्थ्यं चेत्युक्तं प्रश्नद्वारा विवृणोति –
कस्मादित्यादिना ।
श्रुत­म­पी­त्य­पि­श­ब्देन सत्त्वं गृह्यते ।

चित्ताभावे श्रुता­दे­र्वै­य­र्थ्योक्त्या तद्वै­शि­ष्ट्य­मा­दि­ष्ट­मि­दानीं तद्वैशिष्ट्ये हेत्वन्तरमाह –
अथेति ।

चित्त­व­तो­क्ता­र्थ­ग्र­ह­णार्थं श्रोतुमिच्छा लोकस्य भवतीत्यत्र हेतुमाह –
तस्मादिति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य पञ्चमः खण्डः ॥

क तद्ध्या­न­मि­त्य­पे­क्षा­या­माह –
ध्यानं नामेति ।

अचलत्वं साधयति –
भिन्नजातीयैरिति ।

कथं तस्य चित्ता­द्भ­य­स्त्व­मि­त्या­श­ङ्क्या­ने­का­ग्र­ता­दो­षो­प­ह­त­स्या­ती­ता­दि­फ­ल­नि­रू­प­णेन साम­र्थ्या­द­र्श­ना­दे­का­ग्र­ता­रूपो ध्यान­प­दा­र्थ­श्चे­त­यि­तृ­त्वा­त्तस्य कारणत्वात्ततो भया­ने­वे­त्य­भि­प्रे­त्याऽऽह –
एकाग्रतेति ।

इतश्चास्ति तस्य भूयस्त्वमित्याह –
दृश्यते चेति ।

फलद्वारा तन्माहात्म्यं प्रश्नपूर्वकं दृष्टान्तेन स्पष्टयति –
कथमित्यादिना ।

गौरवपरिहारार्थं पक्षान्तरमाह –
मनुष्या एवेति ।

मनुष्याणामेव सतां कुतो देव­त्व­मि­त्या­श­ङ्क्याऽऽह –
शमादीति ।
ध्यानफलं नैश्चल्यं तन्महत्सु पृथिव्यादिषु दृष्टं तथाच तद्वै­शि­ष्ट्य­मि­त्यर्थः ।

तत्रैव हेत्वन्तरमाह –
यस्मादिति ।
धना­दि­भि­र्म­हत्त्वे हेतुमुत्कृष्टं कर्मेति यावत् । ध्यान­स्याऽऽ­पा­द­न­म­नु­ष्ठानं तेन तत्फललाभो लक्ष्यते तस्यांशो येषामस्ति ते तथा ।

ध्यान­फ­ल­ला­भ­क­ला­व­त्त्व­मेव स्फुटयति –
निश्चला इति ।

एवकारार्थमाह –
नेति ।

महत्सु पुरुषेषु ध्यान­फ­ला­नु­वृ­त्ति­र्दृ­ष्टै­त्य­न्व­य­मुक्त्वा व्यतिरेकमाह –
अथेति ।

व्यतिरेकं दर्श­यि­त्वाऽ­न्व­य­मु­प­सं­ह­रति –
अथ ये महत्त्वमिति ।
महत्सु नैश्च­ल्य­द­र्श­न­मतः शब्दार्थः ।

महत्त्वफलमाह –
अत इति ॥१-२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य षष्ठः खण्डः ॥

विज्ञा­न­स्यो­क्त­भू­यस्त्वं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।

यद्यपि प्रमाणतया तज्ज्ञानं शास्त्रा­र्थ­ज्ञा­न­पू­र्वकं तथाऽपि कथं तस्य ततो भूयस्त्वं तत्राऽऽह –
यस्येति ।

इतश्च तस्य ध्याना­द्भू­य­स्त्व­मि­त्याह –
किंचेति ।

भूयस्त्वफलमाह –
अत इति ॥१॥

ज्ञान­वि­ज्ञा­न­श­ब्द­यो­र­र्थ­भेदं कथयति –
विज्ञानमिति ।

तथाऽपि लोकानामचेतनानां कुत­स्त­दु­भ­या­श्र­य­त्व­मि­त्या­श­ङ्क्याऽऽह –
तद्वद्भिरिति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य सप्तमः खण्डः ॥

लोके बलशब्दार्थे श्वेतकेतुवाक्यं प्रमाणयति –
अनशनादिति ।

कथं तर्हि शरीरसामर्थ्ये बल­श­ब्द­प्र­यो­ग­स्त­त्राऽऽह –
शरीरेऽपीति ।
तदे­वे­त्य­न्नो­प­यो­ग­ज­नि­त­मे­वे­त्यर्थः ।

न केवलं कारणत्वादेव बलं विज्ञानाद्भूयः किन्तु प्रत्यक्षं च तस्य ततो भूयस्त्वमित्याह –
विज्ञानवतामिति ।
तस्माद्बलस्य विज्ञा­ना­द्भू­य­स्त्व­मिति शेषः । समुदितमपि कम्पयते तथाऽन्यत्रापि द्रष्टव्यमिति सम्बन्धः ।

यस्मादेवं बलस्य कारणत्वं विज्ञानस्य च कार्यत्वं तस्मा­त्त­त­स्त­द्भू­य­स्त्व­मि­त्ये­त­स्मि­न्नर्थे कार्य­का­र­ण­भा­व­मे­त­यो­रु­प­पा­द­यति –
यस्मादित्यादिना ।

इतश्च बलस्य भूय­स्त्व­मे­ष्ट­व्य­मि­त्याह –
किंचेति ॥१-२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्त­मा­ध्या­य­स्या­ष्टमः खण्डः ॥

अथवा यदि सोऽभुञ्जानोऽपि कथं­चि­ज्जी­वे­त्तदा जीवन्नपि सम्बन्धः । कथमशनशून्यस्य जीव­न­मि­त्या­श­ङ्क्याऽऽह –
दृश्यन्त इति ।

अन्नोपयोगाभावे बलहानिरिति व्यति­रे­क­मुक्त्वा तदुपयोगे बलं भवतीत्यन्वयं व्याचष्टे –
अथेति ।

अथान्नस्याऽऽय इत्यपि पाठोऽस्ति तत्रान्नस्याऽऽय इत्येतदेव पद­म­न्न­प्रा­प्ति­प­र­तया व्याख्ये­य­मे­का­र­मी­का­र­त्वेन विपरिणमय्य वर्ण­व्य­त्य­या­ङ्गी­का­रा­दि­त्याह –
आय इत्येतदिति ।

द्रष्टा श्रोते­त्या­द्य­न्न­का­र्यस्य श्रवणादपि पाठा­न्त­र­म­न्न­प्रा­प्ति­प­र­तया व्याख्ये­य­मि­त्याह –
द्रष्टेत्यादीति ।

कथं तद­न्न­का­र्य­मि­त्या­श­ङ्क्या­न्व­य­व्य­ति­रेकौ दर्शयति –
दृश्यते हीति ॥१-२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य नवमः खण्डः ॥

अपां कार­ण­त्वे­ना­न्ना­द्भू­य­स्त्व­म­न्व­य­व्य­ति­रे­काभ्यां साधयति –
यस्मादित्यादिना ।

अपां सर्व­ज­ग­दा­त्म­क­त्वा­च्चा­न्ना­द्भू­य­स्त्व­मु­चि­त­मि­त्याह –
अप्संभवत्वादिति ।
दधि­प­यः­प्र­भृ­त्या­हु­ति­प­रि­णा­म­त्वा­द­न्त­रि­क्षा­दे­र­प्सं­भ­व­त्व­म­व­से­यम् ।

अपां सर्व­मू­र्ता­त्म­क­त्व­मु­प­सं­ह­रति –
इत्यादीति ॥१-२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य दशमः खण्डः ॥

इति शब्द­स्त­दा­हु­ति­रि­त्य­नेन संबध्यते । वैशब्दार्थं दर्शयति –
प्रसिद्धमिति ।

अप्तेजसोरुक्तं कार्य­का­र­ण­त्व­मु­प­जीव्य फलितमाह –
तेज एवेति ।

अप्ते­ज­सो­र्वि­धा­न्त­रेण कार्यकारणभावं दर्शयति –
किंचान्यदिति ।

तदेवोपपादयति –
ऊर्ध्वाभिरिति ।

तेज­सो­भू­य­स्त्व­फ­ल­माह –
तेज इति ॥१॥

तमःशब्दार्थमाह –
बाह्येति ।
बाह्यं तमः शार्वरं प्रसि­द्ध­मा­ध्या­त्मि­क­ज्ञा­न­रा­गादि तदु­भ­य­म­प­ह­त­त­म­स्का­नि­त्यत्र तमः­श­ब्दि­त­मि­त्यर्थः ।

अपहतशब्दार्थमाह –
अपनीतेति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्त­मा­ध्या­य­स्यै­का­दशः खण्डः ॥

वायोः सकाशादाकाशो भूयानिति वक्तव्ये कथं तेजसो भूयानित्युक्तमत आह –
वायुरिति ।

कारणत्वेऽपि कथमाकाशस्य वायु­स­हि­ता­त्ते­जसो भूय­स्त्व­मि­त्या­श­ङ्क्याऽऽह –
कारणं हीति ।

तेजसो वायु­स­हि­ता­दा­का­शस्य भूयस्त्वं प्रश्नपूर्वकं प्रकारान्तरेण दर्शयति –
कथमित्यादिना ।

इत­श्चाऽऽ­का­श­स्यास्ति भूयस्त्वमित्याह –
किंचेति ।

तद्भू­य­स्त्व­फ­ल­माह –
अत इति ॥१॥

कथमाकाशोपासकस्य प्रका­श­व्या­प्त­लो­क­प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह –
प्रका­शा­का­श­यो­रिति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य द्वादशः खण्डः ॥

नपुंसकलिङ्गं श्रुतं पुंलिङ्गत्वेन कथं व्याख्या­त­मि­त्या­शङ्क्य पुंलि­ङ्गो­प­क्र­म­मा­श्रि­त्याऽऽह –
लिङ्ग­व्य­त्य­ये­नेति ।

कथं पुनः स्मर­ण­स्याऽऽ­का­शा­द्भू­य­स्त्व­मि­त्या­श­ङ्क्याऽऽह –
स्मरणे हीति ।

अन्वयमुक्त्वा व्यतिरेकं दर्शयति –
असतीति ।

आकाशादेः स्मरणाभावेऽपि सत्त्व­म­ङ्गी­कृत्य भोग्य­त्वा­भा­वा­दा­न­र्थ­क्य­मुक्तं संप्रत्यस्मरणे सत्त्वमेव नास्तीत्याह –
नापीति ।

स्मरणस्य भूय­स्त्व­म­नु­भ­वा­नु­सा­रेण साधयति –
दृश्यते हीति ।
हिशब्दार्थो यस्मादित्युक्तः ।

स्मरणाभावे श्रवणाद्यभावं व्यति­रे­क­मुक्त्वा तद्भावे तद्भावमन्वयमाह –
यदेति ।

इतश्चास्ति स्मरणस्य भूयस्त्वमित्याह –
तथेति ।

तद्भूयस्त्वे फलितमाह –
अत इति ॥१-२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य त्रयोदशः खण्डः ॥

आशाया भूय­स्त्व­मा­का­ङ्क्षा­द्वारा व्युत्पादयति –
कथमित्यादिना ॥१-२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य चतुर्दशः खण्डः ॥

प्राणस्य सर्वास्पदत्वेन भूयस्त्वं कथयति –
नामोपक्रममिति ।
प्रकृ­त­श्रु­ति­व­शा­त्त­दु­प­क्रमे यस्य जगतोऽस्ति तत्तथा पाठ­क्र­म­मे­वाऽऽ­श्रि­त्याऽऽशा चान्ते यस्यास्ति तज्जगत्तथेति विग्रहः । कार्यकारणत्वं क्वाचि­त्क­मु­पा­दा­नो­पा­दे­यत्वं निमि­त्त­नै­मि­त्ति­क­त्व­मपि क्वाचित्कमेव । उत्त­रो­त्त­र­भू­य­स्तया पूर्व­स्मा­त्पू­र्व­स्मा­न्ना­मा­दे­रु­त्त­रो­त्त­र­वा­गा­दि­भू­य­स्त्वे­नेति यावत् । स्मृतिनिमित्तः सद्भावो यस्य तत्तथा ।

आशाख्यै रशनापाशैः सर्वतो विपाशितमित्यत्र दृष्टान्तमाह –
बिसमिवेति ।
बिसशब्दो मृणालविषयः । यथोक्तं जग­द्य­स्मि­न्न­र्पितं स एष भूयानिति सम्बन्धः ।

सर्वस्य जग­त­स्त­स्मि­न्न­र्पि­त­त्व­मेव दृष्टान्तद्वारा स्पष्टयति –
येन चेति ।
सर्वतो व्यापि­ने­त्य­स्यैव स्फुटी­क­र­ण­म­न्त­र्ब­हि­र्ग­ते­नेति ।

प्राण­स्याऽऽ­शायाः सका­शा­द्भू­य­स्त्व­मा­का­ङ्क्षा­पू­र्वकं समर्थयते –
कथमित्यादिना ।
लिङ्गानां व्यष्टीनां संघातः समुदायस्तद्रूपे समष्ट्यात्मनीति यावत् ।

उपा­धि­त­द्व­तो­रै­क्य­म­भि­प्रेत्य विशिनष्टि –
प्रज्ञात्मनीति ।

तस्यै­वा­ध्या­त्म­म­धि­भू­त­म­धि­दैवं चावस्थानं सूचयति –
दैहिक इति ।

प्राणान्तरं व्यावर्तयति –
मुख्य इति ।
यथो­क्तेऽ­स्मि­न्प्राणे सर्वं सम­र्पि­त­मि­त्यु­त्त­रत्र सम्बन्धः ।

प्रज्ञात्मनीति पर­मा­त्मो­पा­धित्वं प्राणस्योक्तं तदुपपादयति –
यस्मिन्निति ।
तस्मिन्सर्वं समर्पितमिति पूर्व­व­त्स­म्बन्धः ।

किमिति चक्षुरादिषु विद्यमानेषु मुख्यस्यैव प्राणस्य पर­मा­त्मो­पा­धि­त्व­मु­प­ग­त­मि­त्या­श­ङ्क्याऽऽह –
यश्चेति ।

प्राणस्येश्वरं प्रति सर्वाधिकारित्वे श्रुत्यन्तरं प्रमाणयति –
कस्मिन्निति ।

ईश्वरं प्रति प्राण­स्यै­वो­पा­धि­कत्वे हेत्वन्तरमाह –
यस्त्विति ।
अत्रापि पूर्ववदन्वयः ।

प्राण­श्छा­या­व­दी­श्व­र­म­नु­ग­च्छ­ती­त्यत्र श्रुत्यन्तरं प्रमाणयति –
तद्यथेति ।
भूतमात्राः शब्दादयः पृथिव्यादयश्च विषयाः प्रज्ञामात्रासु शब्दादिबुद्धिषु तज्ज­न­के­न्द्रि­येषु वेत्यर्थः ।

भवतु तासां प्राणेऽ­र्पि­तत्वं तथाऽपि कथं प्राणस्य च्छायावदीश्वरं प्रत्य­नु­ग­ति­स्त­त्राऽऽह –
स एष इति ।
कौषीतकिनां श्रुतिरिति शेषः । प्राणस्य यथो­क्त­वि­शे­ष­ण­वै­शि­ष्ट्य­म­तः­श­ब्दार्थः ।

व्याख्यातं भाग­म­नू­द्या­व­शि­ष्ट­मंशं व्याकरोति –
एवमिति ।

प्राणः प्राणेन याती­त्य­स्या­र्थ­माह –
अत इति ।
सर्वा­स्प­द­त्वा­दिति यावत् ।

प्राणः प्राणेन यातीत्यादेः प्राणो ह्येवैतानि सर्वाणि भूतानीत्यन्तस्य तात्पर्यार्थं संक्षिप्य कथयति –
सर्वमिति ।

दातुर्देयस्य संप्रदानस्य च प्राणाभिन्नत्वं प्रकटयति –
प्राण इति ।
तदपीति दीयमानमुच्यते । स्वस्य संप्रदानस्य च प्राणा­भि­न्न­त्वा­त्प्रा­णा­यै­वे­त्यु­क्तम् । प्राणस्य सर्वा­त्म­त्व­म­तः­श­ब्दार्थः ॥१॥

प्रसि­द्धि­र­न­ति­क्र­म­णी­येति शङ्कते –
कथमिति ।

अन्व­य­व्य­ति­रे­काभ्यां पित्रा­दि­श­ब्दानां प्राण­वि­ष­य­त्वान्न प्रसि­द्धे­रु­ल्ल­ङ्घ­न­मि­त्याह –
उच्यत इति ।

अन्व­य­व्य­ति­रे­का­वेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
पित्रादिषु प्राणे सति पित्रा­दि­श­ब्दानां प्रयु­ज्य­मा­न­त्व­म­न्यथा चाप्र­यु­ज्य­मा­नत्वं तदित्युच्यते । त्वंका­रा­दि­यु­क्त­मि­त्या­दि­प­देन तिरस्कारप्रभेदो गृह्यते ।

पित्रा­दि­ष्व­प्रि­य­वा­दिनं प्रति विवेकिना धिक्कारवचने हेतुमाह –
पितृहेति ॥२॥

सति प्राणे पित्रादिषु पित्रा­दि­श­ब्दानां प्रयु­ज्य­मा­न­त्व­मि­त्य­न्व­य­मुक्त्वा व्यतिरेकमाह –
अथैनानेवेति ।
समस्य पुञ्जीकृत्य व्यत्य­स्या­व­य­वा­न्वि­भ­ज्ये­त्यर्थः । यद्य­पी­त्यु­प­क्र­मा­दे­व­म­पी­त्ये­त­त्त­थाऽ­पी­त्य­स्मि­न्नर्थे द्रष्टव्यम् ।

तदेवातिक्रूरं कर्म विशिनष्टि –
समासेति ।
अव­य­व­वि­भ­ज­न­मा­दि­श­ब्दार्थः । तद्दे­ह­सं­ब­द्ध­मि­त्यत्र तच्छब्दः क्रूर­पि­त्रा­दि­वि­षयः । यद्यपि त्यक्त­प्रा­णे­ष्वपि देहेषु पित्रादिशब्दो दृष्टस्तथाऽपि नासौ मुख्यः । तद्विषये क्रूर­क­र्मा­नु­ष्ठा­नेऽपि शिष्ट­ग­र्हा­दृ­ष्टे­रिति भावः ।

उक्ता­न्व­य­व्य­ति­रे­क­फ­ल­मु­प­सं­ह­रति –
तस्मादिति ॥३॥

प्राणस्यैव पित्रा­दि­सं­ज्ञ­कत्वे किं स्यादि­त्या­श­ङ्क्याऽऽह –
तस्मात्प्राणो हीति ।

प्राणस्य भूयस्त्वमित्थं व्युत्पाद्य तद्विज्ञानफलमाह –
स वा इति ।
प्राणविदतिवादी भवतीति सम्बन्धः ।

कथं प्राण­वि­त्त्व­मि­त्य­पे­क्षा­या­माह –
एवमिति ।
सर्वात्मत्वं यथोक्तप्रकारः फलतोऽनुभवः स्वरूपत्वेन साक्षात्कारः ।

तदनुदर्शनेनैव प्राणवित्त्वे सिद्ध्यति सति किमिति मननविज्ञाने पृथगुपन्यस्येते तत्राऽऽह –
मन­न­वि­ज्ञा­नाभ्यां हीति ।
उक्ता­न्व­य­व्य­ति­रे­का­ख्यो­प­प­त्ति­स­ह­कृ­ता­द्वा­क्या­द्य­त्प्रा­ण­वि­षयं ज्ञानं जायते तदत्र विज्ञानं विवक्ष्यते । तत्फ­ल­सा­क्षा­त्क­रणं दर्शनमिति भेदः । मननविज्ञाने विना दर्श­ना­सं­भ­वोऽ­तः­श­ब्दार्थः । एवं मन­ना­दि­द्वा­रे­णेति यावत् ।

अतिवादित्वं व्युत्पादयति –
नामादीति ।

नाप­ह्नु­वी­ते­त्युक्तं व्यक्तीकरोति –
कस्मादिति ।
यद्यस्मादयं विद्वा­ना­त्म­त्वेन सर्वेश्वरं प्राणोऽ­स्मी­त्यु­प­ग­त­वां­स्त­स्मा­द­प­ह्नवे हेत्व­भा­वा­दा­त्म­नोऽ­ति­वा­दित्वं नाप­ह्नु­वी­ते­ति(त्यर्थः) ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य पञ्चदशः खण्डः ॥

अत्र प्राणा­न्त­मु­प­देशं श्रुत्वा नारदस्य तूष्णीभावे किं कार­ण­मि­त्या­श­ङ्का­या­माह –
स एष इति ।

कथं तस्यो­प­र­ति­र­व­ग­ते­त्या­श­ङ्क्याऽऽह –
न पूर्ववदिति ।

किमिति तर्हि प्राप्ता­या­मु­पे­क्षायां स्वय­मे­वाऽऽ­चार्यो व्युत्पा­द­य­ती­त्या­श­ङ्क्याऽऽह –
तमेवमिति ।
“एतस्माज्जायते प्राण”(मु.उ. २ । १ । ३) इति श्रुत्य­न्त­रा­त्प्रा­णस्य विका­र­त्वे­ना­नृ­तत्वं “वाचाऽऽरम्भणं विकारो नामधेयम्”(छा.उ. ६ । १ । ४) इत्युक्तम् । तस्मिन्ननृते प्राणे ब्रह्मणि विज्ञानं तेनेति यावत् ।

परितुश्ष्टत्वे कथ­म­कृ­ता­र्थ­त्व­मि­त्या­शङ्क्य मिथ्या­ज्ञा­न­शा­लि­त्वा­दि­त्याह –
परमार्थेति ।

न च तस्यो­पे­क्षा­र्ह­त्व­मि­त्याह –
योग्यमिति ।
मिथ्या­ग्र­ह­वि­शेषो नास्ति प्राणा­त्प­र­मि­त्य­भि­मानः ।

कथं तर्हि प्राण­वि­दोऽ­ति­वा­दि­त्व­मुक्तं तत्राऽऽह –
नामादीति ।

कस्तर्हि पर­मा­र्थ­तोऽ­ति­वा­दी­त्या­श­ङ्क्याऽऽह –
यस्त्विति ।
सोऽतिवादीति यतः सन­त्कु­मा­र­स्या­भि­प्रा­योऽत एवाऽऽहेति योजना ।

ननु नारदस्य नाद्यापि सत्य­वि­ज्ञा­न­मु­त्पन्नं कथं सत्ये­ना­ति­व­दा­नीति पृच्छति तत्राऽऽह –
तथेति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य षोडशः खण्डः ॥

यदा वै विजा­ना­ती­त्या­दि­वाक्यं व्याकु­र्व­न्नु­त्त­र­माह –
यदेति ।
यदि विश्वं सद्रू­पा­द­नु­ग­ता­द्भि­न्न­म­स­देव स्याद्यदि त्वभिन्नं सन्मात्रमेव परमार्थसत्यं सिद्ध्येदिति परमार्थतः सत्यं यदैव विजानातीत्यर्थः ।

विज्ञा­न­प्र­का­र­म­भि­न­यति –
इदमिति ।
ततस्तदाऽनृतं विकारजातं हित्वा सदेव सत्यमिति कृत्वा यद्वदति तत्तदेव वदतीति योजना । सत्यविज्ञानस्य तद्वदनं प्रति हेतु­त्व­द्यो­त­ना­र्थोऽ­थ­शब्दः ।

श्रत्य­न्त­रा­व­ष्ट­म्भेन भेदाभेदवादी शङ्कते –
नन्विति ।

किं बृह­दा­र­ण्य­क­श्रुत्या विकारस्य सत्य­त्व­मु­क्त­मि­त्ये­ता­व­न्मा­त्र­मु­च्यते किं वा पर­मा­र्थ­स­त्य­त्व­मिति विक­ल्प्याऽऽ­द्य­मं­गी­क­रोति –
सत्यमिति ।

द्वितीयं दूषयति –
न त्विति ।
भेदा­भे­द­यो­र्वि­रो­धा­दे­को­पा­धा­व­यो­गा­द्वि­का­रस्य च रज्जु­स­र्प­व­न्मि­थ्या­त्वा­नु­मा­ना­द­त्य­न्ता­बा­ध्य­त्वा­भि­प्रा­येण सत्यत्वं श्रुत्य­न्त­रे­णै­वो­क्त­मि­त्यर्थः ।

कथं तर्हि प्राणादिषु सत्य­त्व­मु­क्त­मि­त्या­श­ङ्क्या­ङ्गी­कारं स्फोरयति –
किं तर्हीति ।
इन्द्रि­य­ज­नि­त­स­द्बु­द्धि­वि­ष­य­त्वा­पेक्षं भूयत्रयं सदित्युच्यते । तद­वि­ष­य­त्वा­पेक्षं भूतद्वयं त्यदिति व्यवह्रियते । तथा च भूतपञ्चकं सच्च त्यच्चेति व्युत्पाद्य सत्यममिति यथोक्तं तथा तद्बी­ज­भू­त­यो­र्ना­म­रू­प­यो­स्त­दा­त्म­क­त्वाच्च प्राणानां सत्यत्वं व्याव­हा­रि­क­मि­ष्ट­मि­त्यर्थः ।

इतश्च प्राणादिषु मिथ्याभूतेष्वपि सत्य­श्रु­ति­र­वि­रु­द्धे­त्याह –
तद्द्वारेणेति ।
प्राणादीनां व्याव­हा­रि­क­स­त्य­त्वा­नु­वा­द­द्वा­रे­णा­ध्या­रो­पा­प­वा­द­न्या­येन परमार्थसत्यस्य ब्रह्म­णोऽ­व­ग­ति­र्वि­व­क्षि­तेति कृत्वा तेष्वपि सत्य­त्व­श्रु­ति­र­वि­रु­द्धे­त्यर्थः ।

यथोक्तोऽर्थो विवक्षितो बृह­दा­र­ण्य­क­श्रु­ता­वि­त्यत्र गमकमाह –
प्राणा वा इति ।

ननु श्रुत्यन्तरे विकारस्यापि व्यावहारिकं सत्यत्वमिष्टं प्रकृते तु न तदिष्यते भूम्न एव सत्य­त्वा­ङ्गी­का­रा­त्तथा च विरो­ध­ता­द­व­स्थ्य­मत आह –
इहापीति ।

यदि प्राणस्यापि व्यवहारतः सत्यत्वमुपगतं किं तर्हि सनत्कुमारस्य विव­क्षि­त­मि­त्या­श­ङ्क्याऽऽह –
इह त्विति ।

यदा वै विजानात्यथ सत्यं वदतीति यद्व्याख्यातं तद­न्व­य­व्य­ति­रे­काभ्यां स्फुटयन्नादौ व्यतिरेकमाह –
नाविजानन्निति ।

पर­मा­र्थ­स­त्य­म­वि­जा­न­न्नपि वद­त्य­ग्न्या­दी­नि­त्या­श­ङ्क्याऽऽह –
यस्त्विति ।

तर्हि कथं सदेव परमार्थसत्यमिति वद­तोऽ­भी­ष्ट­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
न त्विति ।

तान्येव तर्हि रूपाणि पृथग्विद्यन्ते नेत्याह –
तथेति ।

अतोऽस्य नास्ति सत्यवादित्वं किंत्व­स­त्य­वा­दि­त्व­मे­वे­त्यु­प­सं­ह­रति –
इत्यत इति ।

व्यतिरेकं दर्श­यि­त्वाऽ­न्व­य­म­न्वा­चष्टे –
विजानन्नेवेति ।

अस्तु तर्हि सत्य­वि­ज्ञा­न­पू­र्व­क­म­ति­वा­दि­त्व­मि­त्या­श­ङ्क्याऽऽह –
न चेति ।
यद्येवं जिज्ञासाद्वारा सत्यविज्ञानं ज्ञेय­मि­त्ये­व­मिष्टं चेदित्यर्थः ।

सत्यवदनं प्रति सत्यविज्ञानस्य यथा कारणत्वमुक्तं तथा पूर्वस्य पूर्व­स्यो­त्त­र­मु­त्तरं कारणत्वेन द्रष्ट­व्य­मि­त्य­ति­दि­शति –
एवमिति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य सप्तदशः खण्डः ॥

विज्ञा­न­का­र­णी­भूतां मतिं व्याचष्टे –
मतिरिति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्त­मा­ध्या­य­स्या­ष्टा­दशः खण्डः ॥

मननहेतुभूतां श्रद्धां व्याकरोति –
आस्तिक्येति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्त­मा­ध्या­य­स्यै­को­न­विंशः खण्डः ॥

श्रद्धाहेतुं निष्ठां व्याचष्टे –
निष्ठेति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य विंशः खण्डः ॥

निष्ठानिदानं कृतिं विभजते –
कृतिरिति ।

कथं पुन­रे­ते­षा­मु­त्त­र­मु­त्तरं पूर्वस्य पूर्वस्य कारणीभवति तत्राऽऽह –
सत्यां हीति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्त­मा­ध्या­य­स्यै­क­विंशः खण्डः ॥

कृतिस्तर्हि कुतो भवतीति तत्राऽऽह –
साऽपीति ।
यदा सुखं लभते तदा भवतीति सम्बन्धः ।

ननु सुख­ला­भ­स्ये­न्द्रि­य­सं­य­मा­दि­व्य­ति­रे­के­णा­भा­वा­त्कथं सुखलाभाधीना कृति­रि­त्या­श­ङ्क्याऽऽह –
सुखमिति ।
वक्ष्य­मा­ण­सु­ख­ल­ब्ध­व्य­त्वा­भि­मा­ना­देव यथोक्ता कृतिः सिद्ध्य­ती­त्यर्थः ।

सुखं लब्ध्वा करो­ती­त्ये­त­द्दृ­ष्टा­न्तेन साधयति –
यथेति ।
दृष्टं फलं पुत्रपश्वादि तज्ज­न्य­सु­खो­द्दे­श­पू­र्विका लोके कृतिर्दृष्टा तथाऽऽत्मन्यपि सुखं लब्ध्वैव करोति न तु विना तदु­द्दे­श­मि­त्यर्थः ।

नन्वि­न्द्रि­याणां मनसश्च संयमपूर्वकं सुखं भवति तथा च कथं तल्लब्ध्वा करोतीत्युच्यते तत्राऽऽह –
भविष्यदपीति ।

उत्त­र­ग्र­न्थ­मा­का­ङ्क्षा­पू­र्व­क­मु­त्था­प­यति –
अथेत्यादिना ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य द्वाविंशः खण्डः ॥

भूम्नोऽर्वागपि वैषयिकं सुख­म­स्ती­त्या­श­ङ्क्याऽऽह –
ततोऽर्वागिति ।

कथमल्पत्वेऽपि सुखत्वं वार्यते तत्राऽऽह –
अल्पस्येति ।

दुःखरूपां तृष्णां प्रत्यल्पस्य सुखस्य हेतुत्वेऽपि कथं स्वयं सुखं न भव­ती­त्या­श­ङ्क्याऽऽह –
न हीति ।

अल्पस्य सुखस्य दुःखान्तर्भावे सिद्धे फलितमाह –
अत इति ॥१॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य त्रयोविंशः खण्डः ॥

भूम्नः सविशेषत्वं निर्विशेषत्वं वेति प्रश्नपूर्वकं निर्विशेषत्वं निर्धारयति –
किमित्यादिना ।
नान्यच्छृणोति स भूमेति सम्बन्धः ।

किमिति स्पर्शनादिष्वपि सत्सु दर्शनश्रवणयोरेव निषे­ध्य­त्वे­नात्र ग्रह­ण­मि­त्या­श­ङ्क्याऽऽह –
नामेति ।

अनुक्तानां स्पर्शा­दी­ना­मु­प­ल­क्ष­णा­र्थ­त्वे­नात्र द्वयोर्ग्रहणं स्पर्श­ना­द्य­वि­ष­य­त्व­स्यापि भूम्नि भावादित्याह –
अन्येषामिति ।
अत्रेति लक्ष­ण­वा­क्योक्तिः ।

तत्र हेतुमाह –
प्रायश इति ।

यस्मिन्नधिकरणे तत्त्व­वि­चा­र­णा­या­म­न्योऽन्यं न पश्यति न श्रुणोति न मनुते न विजानाति स भूमेति द्रष्टृ­दृ­श्या­दि­वि­क­ल्प­नि­षे­धे­ना­ध्या­सा­धि­क­र­ण­त्वो­प­ल­क्षि­तस्य विक­ल्पा­वि­ष­य­त्व­मेव भूम­ल­क्ष­ण­मि­त्यु­प­सं­ह­रति –
एवमिति ।

उक्तमेव लक्षणं स्फुटयितुं विमृशति –
किमत्रेति ।
लोक­प्र­सि­द्ध­द­र्श­ना­दि­वि­ष­य­त्वा­भा­व­मात्रं भूम्नो लक्षणं तन्निषेधेन स्वज्ञेयत्वं वेति विमर्शार्थः ।

कस्मिन्पक्षे को लाभः को वा दोष इति शिष्यः पृच्छति –
किंचात इति ।

आद्यमनूद्य तत्र लाभं दर्शयति –
यदीति ।
अन्यस्य प्रसिद्धस्य दर्श­ना­दे­र्वि­ष­यत्वं भूम्नि नास्ती­त्ये­ता­व­न्मात्रं तस्य लक्ष­ण­मि­त्यु­च्यते चेत्स­र्व­वि­क­ल्पा­तीतः प्रत्यगात्मा भूमे­त्य­स्म­त्प­क्ष­सि­द्धि­रि­त्यर्थः ।

द्वितीयं पक्षमनूद्य तस्मिन्दोषं सूचयति –
अथेत्यादिना ।

तमेव दोषं प्रश्नपूर्वकं स्फुटयति –
यद्ये­व­मि­त्या­दिना ।

सति क्रिया­का­र­क­फ­ल­भेदे कथं संसा­र­नि­वृ­त्ति­स्त­त्राऽऽह –
क्रियेति ।

सति भेदे क्रियादेः संसारत्वं लोके दृष्टं तद्वै­ल­क्ष­ण्या­दे­क­स्मि­न्नेव क्रिया­का­र­क­भा­वस्य न संसारतेति चोदयति –
आत्मैकत्व इति ।

एक­स्मि­न्क्रि­या­दि­भे­द­स्या­सं­भवं दर्श­य­न्नु­त्त­र­माह –
नाऽऽत्मन इति ।

द्वितीयपक्षस्य दुष्टत्वे स्पष्टीकृते प्रथमपक्षस्यापि समानं दुष्टत्वमिति शिष्यः शङ्कते –
अन्येति ।
आद्यपक्षेऽपि न पश्य­ती­त्ये­ता­व­तैव दर्श­ना­द्य­भा­व­ला­भा­द्य­त्रे­त्य­न्य­दिति च विशेषणे व्यर्थे स्यातामित्यर्थः ।

व्यर्थमेवेदृशं वचनमित्याशङ्क्य शिष्यः स्वयमेव ब्रूते –
दृश्यते हीति ।
लोके हि यत्र शून्ये गृहे नान्यत्पश्यति तद्दे­व­द­त्ती­य­मिति प्रयोगो दृश्यते न च तस्य नैरर्थक्यमिष्टं व्यव­हा­रा­ङ्ग­त्वात् । यथा च तस्मिन्यथोक्ते धन­धा­न्या­द्य­द­र्श­नेऽपि स्तम्भादीन्गृहं च न न पश्यतीति श्रुतस्य नैरर्थक्यं न गम्यते । किं तु तत्र स्तम्भादीनां तस्य च दर्शनमिष्टं तथा यत्र नान्य­त्प­श्य­ती­त्य­त्रापि विशेषणवैयर्थ्ये समाधानं वक्त­व्य­मि­त्यर्थः ।

किं विशे­ष­णा­र्थ­व­त्त्वा­नु­प­पत्त्या भूम्न्य­धि­क­र­णा­धि­क­र्त­व्य­भावः स्वात्मदर्शनं च वाच्य­मि­त्यु­च्यते किं वा श्रुतस्य गतिर्वक्तव्येति पृच्छ्यते तत्राऽऽद्यं दूषयति –
नेत्यादिना ।
तथा तत्त्व­म­सी­ति­व­दि­त्यर्थः । निर्धा­रि­त­त्वा­द­धि­क­र­णा­धि­क­र्त­व्य­भे­दा­नु­प­प­त्ति­रिति शेषः ।

यच्चान्यत्र पश्यतीति विशेषणादात्मनः स्वदर्शनं वाच्यमिति तत्राऽऽह –
अदृश्य इति ।

द्वितीयमनूद्य गतिमाह –
यत्रेत्यादिना ।

परिहारभागं दृष्टान्तेन स्पष्टयति –
यथेति ।

एकस्मिन्नेव भूम्नि यत्रेति विशेषणमनर्हमपि प्रयुज्यते प्रसि­द्धा­नु­वा­दे­ना­धि­क­र­णा­दि­वि­क­ल्पा­वि­ष­य­त्व­ल­क्ष­णस्य भूम्नो लक्षणस्य विव­क्षि­त­त्वा­दि­त्याह –
एवमिति ।

यद­वि­द्या­व­स्थ­म­न्य­द­र्श­नादि तदनुवादेन नान्यत्पश्यतीति विशेषणं च भूम्नि विरुध्यते दर्श­ना­द्य­वि­ष­य­त्व­ल­क्ष­णस्य भूम्नो लक्षणस्य विव­क्षि­त­त्वा­दि­त्याह –
अविद्येति ।

लक्ष­ण­वा­क्या­र्थ­मु­प­सं­ह­रति –
तस्मादिति ।
दर्श­ना­दि­स­क­ल­सां­सा­रि­क­व्य­व­हा­रा­भा­वो­प­ल­क्षितं तत्त्वं भूमेत्यर्थः ।

अथ यत्रे­त्या­दि­वाक्यं व्याकरोति –
अथेति ।

परि­च्छि­न्न­स्या­वि­द्या­का­ल­भा­वित्वं दृष्टान्तेन विवृणोति –
यथेति ।
तत एव परि­च्छि­न्न­त्वा­दिति यावत् ।

कथं तदमृतमिति भूम्नि तच्छ­ब्द­प्र­यो­ग­स्त­त्राऽऽह –
तच्छब्द इति ।

भूम्नः सुख­त्व­व­च­ना­त्तस्य चाऽऽश्रयं पृच्छति –
स तर्हीति ।

व्यवहारदृष्ट्या प्रश्नो वस्तुदृष्ट्या वेति विकल्प्याऽऽद्यं प्रत्याह –
इत्यु­क्त­व­न्त­मिति ।

द्वितीयमनूद्य निराकरोति –
यदीति ॥१॥

पूर्वा­प­र­वि­रो­ध­मा­शङ्क्य परिहरति –
यदीत्यादिना ।
भूम्नः स्वतोऽ­न्य­स्मि­न्प्र­ति­ष्ठि­त­त्वा­भा­वोऽ­त्रे­त्यु­च्यते तत्रान्यो हीत्या­दि­वा­क्यस्य हेतुत्वेन हेतुना तेन व्यवहितेन नाहमेवं ब्रवीमीत्यस्य सम्बन्ध इति योजना ।

कथं तर्हि ब्रवीति भवा­नि­त्या­श­ङ्क्याऽऽह –
किंत्विति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य चतुर्विंशः खण्डः ॥

अवतारितमेव वाक्यं प्रश्न­पू­र्व­क­म­व­तार्य व्याचष्टे –
कस्मादित्यादिना ।

उक्तमेवार्थं व्यतिरेकद्वारा विवृणोति –
सतीति ।

अहं­का­रा­त्म­त्वो­प­दे­श­स्या­भि­प्रा­य­माह –
यत्रेति ।

कोऽसा­व­हं­का­रे­णाऽऽ­दि­श्यत इत्याशङ्क्य प्रयो­ज­ना­नु­वा­द­पू­र्व­क­माह –
द्रष्टुरिति ॥१॥

अहं­का­रा­दे­शा­त्पृ­थ­गा­त्मा­दे­शस्य तात्पर्यमाह –
अहंकारेणेति ।

उक्ता­त्म­वि­ज्ञा­न­वतः कृतकृत्यतामाह –
आत्मैवेति ।
एकमिति सजा­ती­य­भे­द­रा­हि­त्य­स्योक्तिः । अन्यशून्यमिति विजा­ती­य­भे­द­शू­न्य­त्व­मु­च्यते ।

रति­क्री­ड­यो­र­वा­न्त­र­भेदं दर्शयति –
देहमात्रेति ।

क्रीडा बाह्य­सा­ध­ने­त्यत्र लोकसंमतिमाह –
लोक इति ।

देहस्य जीविते च भोगत्यागयोश्च निमित्तं बाह्यवस्तु तत्र सर्वत्र निरपेक्षो यदृ­च्छा­ला­भे­ष्वा­स­ङ्ग­व­र्जितो विद्वानित्याह –
देहेति ।

जीव­न्मु­क्ति­मुक्त्वा विदेहमुक्तिं दर्शयति –
स इति ।

स्वाराज्यं निमित्तीकृत्य फलान्तरमाह –
यत एवमिति ।

स्वारा­ज्य­स­र्व­लो­क­का­म­चा­र­यो­स्ता­त्प­र्य­माह –
प्राणादिष्विति ।
यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतीत्यादिना परिच्छिन्नं परतन्त्रं च पूर्वभूमिषु फलमुक्तमत्र तु पर­मा­न­न्द­प्राप्तौ तद्व्या­वृ­त्ति­रु­च्यते न तु सोपाधिकं रूपमित्यर्थः ।

फल­प्र­द­र्श­न­द्वा­रेण स्तुत्वा विद्या­म­वि­द्व­न्नि­न्दा­द्वा­राऽपि तां स्तौति –
अथेत्यादिना ।
ते क्षय्यलोका भवन्तीति सम्बन्धः ।

भेददर्शिनां विनाशिफलत्वे हेतुमाह –
भेददर्शनस्येति ।
परिच्छिन्नस्य विनाशित्ववचनं तस्मादिति परामृशति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य पञ्चविंशः खण्डः ॥

उक्त­वि­द्या­स्तु­त्य­र्थ­मेव विदुषः स्रष्टृत्वमाह –
तस्येति ।
तथा विदुषः स्रष्टृ­त्व­व्य­व­हा­र­व­दि­त्यर्थः । क्रीडादिरन्यो व्यवहारः ॥१॥

न केवलं ब्राह्मणोक्तमिह विद्याफलं किं तु मन्त्रोक्तं चेत्याह –
किंचेति ।
तच्छब्दार्थः सप्तम्या निर्दिश्यते । स च विद्याफलरूपः ।

न पश्य इति मन्त्रमादाय व्याचष्टे –
पश्यतीत्यादिना ।
सर्वमाप्नोतीति पूर्णता परि­च्छे­द­भ्र­म­व्या­व­र्त­नेन विवक्षिता न तु क्रिमि­की­ट­का­दि­भा­वोऽ­पु­रु­षा­र्थ­त्व­प्र­स­ङ्गा­दिति द्रष्टव्यम् ।

विद्या­स्तु­ति­पौ­ष्क­ल्यार्थं सगुणविद्याफलमपि निर्गु­ण­ब्र­ह्म­वि­दा­प्नो­ती­त्याह –
किंचेति ।
त्रिधा तेजोऽबन्नरूपेण । शब्द­स्प­र्शा­दि­रा­दि­श­ब्दार्थः ।

विद्यां तत्फलं तदपेक्षितां स्तुतिं चाभि­धा­याऽऽ­हा­र­शु­द्धा­वि­त्या­दे­स्ता­त्प­र्य­माह –
अथेति ।

“राग­द्वे­ष­वि­यु­क्तैस्तु विष­या­नि­न्द्रि­यै­श्च­रन्”(भ.गी. २ । ६४) इत्या­दि­स्मृ­ति­मा­श्रि­त्याऽऽ­हा­र­शब्दं व्याकरोति –
आह्रियत इतीति ।

कथं तस्याऽऽ­ह्रि­य­मा­णत्वं तत्राऽऽह –
भोक्तृरिति ।

कीदशी तस्य शुद्धि­रि­त्या­श­ङ्क्याऽऽह –
रागेति ।

आहारशुद्धिफलमाह –
तस्यामिति ।

अन्तः­क­र­ण­शु­द्धि­फलं कथयति –
सत्त्वेति ।

स्मृतिलाभफलं दर्शयति –
तस्यां चेति ।
भव­ती­त्या­हा­र­शु­द्धि­र­पे­क्षि­तेति शेषः ।

प्रकृ­त­वा­क्य­ता­त्प­र्य­मु­प­सं­ह­रति –
यत इति ।

तस्मै मृदि­त­क­षा­या­ये­त्या­दि­वा­क्य­म­व­तार्य व्याचष्टे –
सर्वमिति ।
आगतिं गतिमायव्ययौ ।

तस्य वैशि­ष्ट्या­न्त­र­माह –
तमेवेति ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य षड्विंशः खण्डः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तायां श्रीश­ङ्क­र­भ­ग­व­त्कृ­त­च्छ­न्दो­ग्यो­प­नि­ष­द्भा­ष्य­टी­कायां सप्तमोऽध्यायः समाप्तः ॥