आनन्दगिरिटीका (छान्दोग्य)
अष्टमोऽध्यायः: प्रथमः खण्डः (१)
पूर्वस्मिन्नध्यायद्वये निर्विशेषमात्मतत्त्वमनवच्छिन्नं सदानन्दैकतानमावेदितं तथा चोपनिषदारम्भे चरितार्थे किमवशिष्यते यदर्थमध्यायान्तरमित्याशङ्क्याऽऽह –
यद्यपीति ।
कर्तुमिति तदधिगमाय विशिष्टो देश उपदेष्टव्य इति सम्बन्धः । मन्दबुद्धीनां तर्हि परमार्थवस्तुनो ब्रह्मणोऽधिगतिरपेक्षितेत्यर्थः ।
न केवलं मन्दाधिकारिणां ब्रह्माधिगमशेषत्वेन हृदयदेशोपदेश एवात्र कर्तव्यः किं तु पूर्वत्रानुक्तगुणाद्यर्थान्तरोपदेशश्च कार्य इत्याह –
यद्यपीति ।
अवशिष्टमर्थान्तरमुपदेष्टव्यमन्वाचष्टे –
तथेति ।
मन्दधियां ब्रह्मधीशेषत्वेन देशविशेषवद्गुणविशेषवच्च ब्रह्मचर्यादिसाधनविशेषो विधातव्य इति सम्बन्धः ।
शब्दोत्थब्रह्मज्ञानवतां विधिं विनाऽपि विषयवैमुख्यसम्भवात्किं विधिनेत्याशङ्क्याऽऽह –
यद्यपि ब्रह्मविदामिति ।
यथा साधनविशेषो वक्तव्योऽवशिष्यते तथोपासकानां गतिश्च वक्तव्येत्यवशिष्टमर्थान्तरमाह –
तथेति ।
एकत्वदर्शिनां गन्त्रादिसर्वभेदप्रत्ययास्तमयादविद्याविशेषस्य देहस्थितिनिमित्तस्य क्षये सति निवृत्तिसम्भवात्कुतो गतिर्वक्तव्येत्याशङ्क्याऽऽह –
यद्यप्यात्मैकत्वविदामिति ।
अविद्यादिशेषस्थितिनिमित्तक्षये स्वात्मन्येव निवृत्तिरित्युत्तरेण सम्बन्धः ।
स्वात्मनिर्वाणेऽपि कृतकरूपत्यागेन स्वाभाविकस्वरूपावस्थानमित्यत्र दृष्टान्तानाह –
गगन इवेति ।
अनेकोदाहरणोपादानं बुद्धिसौकर्यार्थम् ।
उक्तमेवाध्यायतात्पर्यं संक्षिप्य दर्शयति –
दिग्देशेति ।
दिशादेशेन गुणैर्गत्या फलभेदेन च शून्यं तदनवच्छिन्नमिति यावत् ।
तस्य दिगाद्यनवच्छिन्नत्वे हेतुमाह –
अद्वयमिति ।
तर्हि तेषां भ्रमापोहार्थं परमार्थसदद्वयं ब्रह्म ग्राहयितव्यं किमित्यन्यथोपदिश्यते तत्राऽऽह –
सन्मार्गस्था इति ।
अध्यायतात्पर्यं संक्षेपविस्तराभ्यां दर्शयित्वा श्रुत्यक्षराणि व्याकरोति –
अथेत्यादिना ।
उत्तमबुद्धीन्प्रति निर्विशेष ब्रह्मोपदेशानन्तरं मन्दबुद्धीन्प्रति सविशेषमुपदिश्यते ब्रह्मेत्यर्थः ।
तत्र तावदुपास्यायतनं निर्दिशति –
यदिदमिति ।
हृदयपुण्डरीकस्य वेश्मसादृश्ये हेतुमाह –
द्वारपालादीति ।
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषय इत्यादिश्रुतेरुक्तहेतुसिद्धिः ।
तस्याऽऽश्रयं दर्शयति –
अस्मिन्निति ।
शरीरस्य ब्रह्मपुरत्वं दृष्टान्तेन साधयति –
राज्ञ इति ।
तत्रोक्तं वेश्म दृष्टान्तेन स्पष्टयति –
पुरे चेति ।
कथं पुनः सर्वगतस्य निरवयवस्य ब्रह्मणो यथोक्तवेश्मनिष्ठत्वमित्याशङ्क्याऽऽह –
ब्रह्मण इति ।
ननु संसारिणो ब्रह्मातिरिक्तस्य स्वकर्मोपार्जितेन शरीरेण स्वामित्वसंबन्धो न ब्रह्मणस्तदसंबन्धिनः कथं तत्रोपलब्धिरत आह –
अस्मिन्हीति ।
ब्रह्मणो जीवात्मना सृष्टे कार्ये जलार्कवत्प्रवेशे हृदयपुण्डरीकस्य ब्रह्मोपलब्ध्यधिष्ठानत्वं पूर्वोक्तमविरुद्धमित्याह –
तस्मादिति ।
अन्तराकाशस्यात्यल्पतरत्वे हेतुमाह –
वेश्मन इति ।
आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्तयति –
आकाशाख्यमिति ।
कथं वाक्यशेषेऽप्याकाशशब्दो ब्रह्मणि वर्तते तत्राऽऽह –
आकाश इवेति ।
तस्मिन्यदन्तस्तदाश्रयेण सहान्वेष्टव्यं तस्मिन्वा स्वे महिम्नि यदन्तस्तदाकाशाख्यं ब्रह्म तदन्वेष्टव्यं तस्मिन्वा हृदयपुण्डरीकावच्छिन्ने नभसि यदन्तराकाशाख्यं ब्रह्म तदन्वेष्टव्यमिति योजना ॥१॥
दहरोऽस्मिन्नित्यादिवाक्यस्य यथाश्रुतमर्थं गृहीत्वा चोद्यमुत्थापयति –
तं चेदिति ।
तदेव चोद्यमाकाङ्क्षाद्वारा विवृणोति –
कथमित्यादिना ।
भवतु परिच्छिन्ने शरीरे पुण्डरीकाकारस्य हृदयस्याल्पत्वं तदन्तर्वर्तिनश्चाऽऽकाशस्य ततोऽप्यल्पतरत्वं तथाऽपि प्रकृते किं स्यादित्याशङ्क्याऽऽह –
पुण्डरीक एवेति ।
किंशब्दस्य प्रश्नविषयत्वं व्यावर्तयति –
न किंचनेति ।
हृदयपुण्डरीकान्तर्वर्तिनमाकाशमुपेत्याऽऽद्यं दूषयति –
यदि नामेति ।
फलानुपलम्भोऽतःशब्दः । तत्रेत्यन्तर्वर्त्याकाशोक्तिः ।
शिष्याचार्यव्यतिरिक्तस्यात्राप्रस्तुतत्वात्कस्येदं नियोगवचनमित्याशङ्क्याऽऽह –
इति श्रुतेरिति ॥२॥
किमाचार्यो ब्रूयादित्यपेक्षायां वक्ष्यमाणेऽर्थे शिष्याणां मनःसमाधानमादौ प्रार्थयत इत्याह –
श्रुणुतेति ।
श्रोतव्यमेव दर्शयितुं शिष्यैरुक्तमनुवदति –
तत्रेति ।
किमाकाशस्य स्वाभाविकं दहरत्वमुपेत्य चाद्यते किं वा परोपाधिनिमित्तमिति विकल्प्याऽऽद्यं दूषयति –
तदसदिति ।
ततश्च तस्य स्वाभाविकं दहरत्वमाश्रित्य चोद्यं निरवकाशमिति शेषः ।
कथं तर्हि दहरत्वोक्तिराकाशस्येत्याशङ्क्याऽऽह –
किं तर्हीति ।
तस्मिन्विशुद्धे तावन्मात्रं ब्रह्म यथोक्तविशेषणं योगिनां विषयेभ्यो विमुखीकृतान्तःकरणानामुपलभ्यत इति सम्बन्धः ।
अन्तःकरणस्य शुद्धत्वे दृष्टान्तमाह –
स्वच्छ इवेति ।
ब्रह्मणस्तस्मिन्नुपलभ्यमानत्वे प्रतिबिम्बरूपमिवेत्युदाहरणम् । प्रतिपत्तिसौकर्यार्थमुदाहरणान्तरम् ।
ब्रह्मणो नैसर्गिकमागन्तुकं च व्यवधानं नास्तीत्युपलब्धिसिद्ध्यर्थं विशिनष्टि –
स्वच्छमिति ।
तादृगेव दहरत्वमादाय चोद्यते चेदनौपाधिकं महत्त्वमुपेत्य समाधिः सम्भवतीति कल्पान्तरं निरस्यति –
स्वतस्त्विति ।
यस्मिन्नन्वेष्टव्यमाश्रयेण सहेति शेषः ।
यावांस्तावानिति वचनादाकाशेन तुल्यपरिमाणत्वं ब्रह्मणोऽभिप्रेतं तथाच ज्यायानाकाशादित्यादि विरुद्धमित्याशङ्क्याऽऽह –
नापीति ।
केनाभिप्रायेण तर्हि तावानित्युक्तमत आह –
किं तर्हीति ।
“न तस्य प्रतिमाऽस्ति”(श्वे.उ. ४ । १९) इत्याकाशादि येन व्याप्तं लोकोऽनुभवति तस्मिन्नक्षरे सर्वमृगादि समाहितमित्यर्थः ।
कार्यकारणयोरतुल्यपरिमाणत्वप्रसिद्धेश्च नाऽऽकाशसमता ब्रह्मणोऽस्तीत्याह –
तस्मादिति ।
आधाराधेययोस्तुल्यपरिमाणत्वाच्चैवमित्याह –
एतस्मिन्निति ।
इतश्चाऽऽकाशस्य न स्वाभाविकं दहरत्वमित्याह –
किंचेति ।
कार्यं हि द्यावापृथिव्यादि कारणे समाहितं तच्च हृदये ध्येयमित्यभिप्रेत्य बुद्ध्युपाधिविशिष्ट इत्युक्तम् ।
आकाशे द्यावापृथिव्यादिः समाहितत्वे भूमविद्यासंवादं दर्शयति –
यथा वेति ।
न विद्यते सर्वं तदास्मिन्समाहितमिति सम्बन्धः ।
नास्तिशब्दस्यात्यन्तासद्विषयत्वं व्यावर्तयति –
नष्टमिति ॥३॥
आश्रयनाशादाश्रितनाशः स्यादिति न्यायमाश्रित्य शङ्कते –
तं चेदिति ।
यद्यस्मिन्सर्वं समाहितं ततो देहनाशे किमवशिष्यत इति सम्बन्धः ।
शिष्याणामधिकावापं दोषमाशङ्कते –
कथमिति ।
शङ्कितं दोषं परिहरति –
नैष दोष इति ।
सर्वं तदस्मिन्समाहितमित्यत्रोक्तेन सर्वशब्देनेति शेषः ।
शिष्याणामधिकावापं दोषं परिहृत्य प्रकृतं चोद्यं विवणोति –
यदेत्यादिना ।
आकाशस्य शिष्यमाणत्वमाशङ्क्याऽऽह –
घटेति ।
ततो यथोक्तान्नाशादिति सम्बन्धः ॥४॥
कया पुना रीत्या शून्यविषया शिष्यमतिरपनेतव्येति प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।
देहादिविक्रियया ब्रह्मणो न विक्रियाऽस्तीत्येतत्कैमुतिकन्यायेन साधयति –
न चेति ।
देहादिषु तादात्म्येन स्थितं चेद्ब्रह्म दोषैरसंस्पृष्टमित्ययुक्तमित्याशङ्क्याऽऽह –
कथमिति ।
प्रकृता दहरोपासना तत्र व्यासङ्गो विक्षेपः ।
यदि देहादिदोषैरसंस्पृष्टत्वं ब्रह्मणो नोच्यते चेदेते न क्वचिदुपपद्यन्ते तर्हि तदविवक्षितमेव स्यादित्याशङ्क्याऽऽह –
इन्द्रेति ।
नास्येत्यादिनोऽक्तेऽर्थे हेतुमाह –
एतदिति ।
कथं यथोक्तं ब्रह्मणः पुरमवितथं स्यादित्याशङ्क्याऽऽह –
ब्रह्मैवेति ।
सत्यशब्दसामानाधिकरण्यादुक्तसमाससिद्धिरित्यर्थः ।
कथं तर्हि शरीरं ब्रह्मपुरमित्युक्तमत आह –
शरीराख्यं त्विति ।
तदेव स्फुटयितुं शरीरस्य मिथ्यात्वं सप्रमाणं दर्शयति –
तत्त्विति ।
अथ मिथ्याभूतस्य तस्य कथं ब्रह्मपुरत्वमत आह –
तद्विकार इति ।
किं च व्यावहारिकं सत्यमिदं शरीरं तद्युक्तं तस्यानृतस्यापि ब्रह्मोपलब्ध्यधिष्ठानस्य ब्रह्मपुरत्वमित्याह –
व्यावहारिकमिति ।
ब्रह्म तु परमार्थसत्यमतश्चैतदेव सत्यमित्युक्तं ब्रह्मपुरमित्याह –
सत्यं त्विति ।
ब्रह्मणः सत्यत्वेऽपि पुरत्वायोगात्कुतो ब्रह्मपुरत्वमित्याशङ्क्याऽऽह –
सर्वव्यवहारेति ।
दहराकाशस्याल्पत्वं विनाशित्वमित्याशङ्कितं दोषं परिहृत्योपास्यत्वसिद्ध्यर्थं पातनिकां करोति –
अत इति ।
अस्मिन्सर्वकामसमाधाने फलितमुपासनमुपदिशति –
अतस्तदिति ।
यथोक्ते दहराकाशे कीदृगुपासनं कर्तव्यमित्यपेक्षायामहंग्रहेणेत्याह –
एष इति ।
पुनरुक्तिं शङ्कते –
तदुक्तमिति ।
तां परिहरति –
यद्यपीति ।
अन्यथा देहसम्बन्धं विना स्वभावतोऽपीत्यर्थः । निवृत्त्यर्थं पुनरुच्यत इति पूर्वेण सम्बन्धः ।
प्रकारान्तरेण पुनरुक्तिं चोदयति –
नन्विति ।
शोकस्यान्ता किंचिद्व्यवधाय पिपासा येष्वस्ति ते शोकान्तास्तेषां जरादीनामपहतपाप्मत्वेन प्रतिषिद्धत्वे हेतुमाह –
कारणेति ।
कथं धर्माधर्मप्रतिषेधे जरादिविकारप्रतिषेधस्तत्राऽऽह –
धर्मेति ।
इति पृथक्प्रतिषेधोऽनर्थकः स्यादिति सम्बन्धः ।
जरादिप्रतिषेधस्यार्थवत्त्वमङ्गीकृत्य पाप्मप्रतिषेधस्य नैरर्थक्यमिति पक्षान्तरमाह –
जरादीति ।
धर्मादेर्जरादेर्वा निषेधादितरनिषेधः सिद्ध्यतीत्यङ्गीकरोति –
सत्यमेवमिति ।
तर्हि किमित्यपहतपाप्मेत्युक्त्वा विजरो विमृत्युरित्याद्युच्यते तत्राऽऽह –
तथाऽपीति ।
तथाऽपि दुःखे प्रतिषिद्धे किमिति जरादि प्रतिषिध्यते तत्राऽऽह –
जरादिति ।
यत्तु कार्याभावे सतोरपि धर्माधर्मयोरुत्खातदन्तोरगवदकिंचित्करत्वादपहतपाप्मेति न पृथग्वक्तव्यमिति तत्राऽऽह –
पापनिमित्तानामिति ।
ईश्वरस्य सत्यकामत्वं साधयति –
वितथा हीति ।
यथेश्वरस्यावितथाः कामास्तथा संकल्पाश्चेत्याह –
तथेति ।
अभावरूपाणां धर्माणामद्वैताव्याघातमकत्वेन सम्भावितत्वेऽपि कथं भावरूपा धर्माः सम्भवेयुरित्याशङ्क्याऽऽह –
संकल्पा इति ।
शुद्धसत्त्वं रजस्तमोभ्यामस्पृष्टं त्रिगुणाया मायाया अंशभूतं तदेवोपाधिस्तन्निमित्तं येषां ते तथा ।
अस्वाभाविकानां संकल्पादीनामीश्वरविशेषणत्वे दृष्टान्तमाह –
चित्रगुवदिति ।
यथा चित्रा गावोऽस्वाभाविकाश्चित्रगोर्देवदत्तस्य विशेषणं तथा ब्रह्मणोऽपि कामादय इत्यर्थः ।
किमिति कामादयो ब्रह्मणि स्वाभाविका न भवन्ति धर्मधर्मिणोरेवोपचारादद्वैतश्रुतेरुपपत्तेरित्याशङ्क्याऽऽह –
न स्वत इति ।
वाक्यान्तरमवतारयितुं पातनिकां करोति –
यथोक्तेति ।
ज्ञानप्रकारं निमित्ताधिकारिप्रदर्शनपूर्वकं दर्शयति –
गुरुभ्य इति ।
प्रश्नपूर्वकं यथा हीत्यादिवाक्यमाह –
न चेदिति ।
यथाकाशात्मापरिज्ञानमत्रेति परामृष्टम् ।
अक्षरोत्यमर्थं ह्येवेत्यनेन दृष्टान्तेन दर्शयित्वा वाक्यार्थं कथयति –
यथा ह्येवेति ।
अमुमर्थं प्रश्नपूर्वकमन्वाचष्टे –
किमित्यादिना ।
उक्तदृष्टान्तेन विवक्षितमंशमनूद्यदृष्टान्तान्तरस्य तात्पर्यमाह –
एष इति ॥५ ॥
केषामेष दोषो भवतीत्याकाङ्क्षायामाह –
उक्त इति ।
कर्मसाध्यस्य पारतन्त्र्यं क्षयिष्णुत्वं च ज्ञानहीनकर्मसाध्यविषयब्रह्मोपासकानामेष दोषो भवतीति दर्शयत्त्युत्तरं वाक्यमित्यर्थः ।
अविदुषामेवास्वातन्त्र्यदोषमुक्त्वा विदुषां स्वातन्त्र्यफलं कथयति –
अथेत्यादिना ॥६॥
॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाधायस्य प्रथमः खण्डः ॥
उक्तमेवार्थमाकाङ्क्षापूर्वकमुपपादयति –
कथमित्यादिना ॥१॥
सुखहेतुभूता इति कुतो विशेषणमित्याशङ्क्याऽऽह –
सामर्थ्यादिति ।
तदेव स्फुटयति –
नहीति ॥२-९॥
तेन ज्ञानमाहात्म्येनेति यावत् ॥१०॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य द्वितीयः खण्डः ॥
त इमे सत्याः कामा इत्यादेस्तात्पर्यमाह –
यथोक्तेति ।
आह समनन्तरा श्रुतिरिति शेषः ।
तमेवानुक्रोशं दर्शयति –
कष्टमिति ।
अनृतमपिधानमिवापिधानं तेषांमिति सम्बन्धः ।
किं तदनृतं तदाह –
बाह्येति ।
कथं तदपिधानमात्मस्थानां कामानामित्याशङ्क्याऽऽह –
तन्निमित्तमिति ।
उक्तमर्थमाकाङ्क्षापूर्वकमुत्तरं वाक्यमवतार्योपपादयति –
कथमित्यादिना ।
तं हृदयाकाशे स्वात्मनि सन्तमपि द्रष्टुमिच्छन्नपि यस्मान्न लभते तस्मादनृतापिधानं निमित्तं कृत्वा तदलाभो भवतीति योजना ॥१॥
इतश्च तेषामलाभे निमित्तमनृतापिधानमेवेत्याह –
अथ पुनरिति ।
यथोक्तेन विधिनेत्युपास्तिप्रकारोक्तिः ।
आत्मस्थानां कामानामनृतापिधानत्वमुक्तं निगमयति –
अत्रेति ।
यस्मादविद्वद्भिरलभ्या विद्वद्भिश्च लभ्याः सत्याः कामाः सर्वाधारे जगन्मूलकारणे ब्रह्मणि स्वात्मभूते वर्तन्ते तस्मात्ते भवन्त्यनृतापिधानाः । सत्यामविद्यायामनुपलम्भाद्विद्यया तत्प्रशमने चोपलम्भादित्यर्थः ।
यदुक्तं ब्रह्मणि स्वात्मनि कामाः सन्तोऽपि नोपलभ्यन्त इत्यन्याय्यमिति तत्र दृष्टान्तं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे –
कथमिवेत्यादिना ।
तत्र स्वायत्तस्याप्यप्राप्तौ दृष्टान्तो निर्दिश्यत इति शेषः ।
दार्ष्टान्तिकं व्याकरोति –
एवमेवेति ।
अलाभप्रकारमभिनयति –
एषोऽहमिति ।
तत्र हेतुमाह –
अनृतेनेति ।
यथोक्तेन मिथ्याज्ञानशब्दितानाद्यनिर्वाच्याज्ञानकृतेन तृष्णाप्रभेदेन तन्निमित्तेनेच्छाप्रचारेणेत्यर्थः । तस्मात्प्रजानां स्वात्मभूतब्रह्मलोकालाभ इति शेषः ।
स्वरूपादनृतेन हृतत्वमेव स्फोरयति –
अविद्यादीति ।
प्रकृतमाक्रोशमुपसंहरति –
अत इति ॥२॥
अनुक्रोशद्वारा यथोक्तब्रह्मध्यानानुष्ठाने प्रयत्नस्य कर्तव्यतोक्ता, सम्प्रति नामादाविव हृदये ब्रह्मदृष्ट्यारोपमात्रमिति शङ्कां वारयितुमनन्तरवाक्यमवतार्य व्याकरोति –
स वा इत्यादिना ।
कथमात्मा यथोक्तो हृदयेऽस्तीति गम्यते तत्राऽऽह –
तस्येति ।
यथोक्तावगतिफलमाह –
अहरहरिति ।
एवंविदिति विशेषणममृष्यमाणः शङ्कते –
नन्विति ।
अनेवंविदोऽपि सुषुप्तिकाले ब्रह्मप्राप्तिमङ्गीकरोति –
बाधमेवमिति ।
तर्हि किमित्येवंविदिति विशेषणमित्याशङ्क्याऽऽह –
तथाऽपीति ।
विद्वदविदुषोर्विशेषमेव दृष्टान्तेन स्पष्टयति –
यथेति ।
त्वं तदसीत्याचार्येण प्रतिबोधितो विद्वान्सदेव भवत्यन्यस्त्वविद्वानस्मीति देहादिकमेव जानन्न सदेव भवतीति योजना । देहपातेऽपीत्यपिशब्देन जीवदवस्था दृष्टान्तिता ॥३॥
संप्रसादस्य विदुषो यन्मुक्त्यालम्बनं शुद्धं ब्रह्म तत्तादात्म्योपदेशेनोपास्यं स्तोतुं संप्रसादशब्दार्थं कथयति –
सुषुप्तेति ।
सम्यक्प्रसीदतीति संप्रसादो विद्वानिति शेषः ।
स्वाभाविकमेवाऽऽत्मनः स्वास्थ्यं कथं सुषुप्ते प्रसीदतीति विशेष्यते तत्राऽऽह –
जाग्रदिति ।
जहातीति सुषुप्तः पुरुषः संप्रसाद इति विशेषव्युत्पत्तिबलेन संप्रसादशब्दः सौषुप्तसर्वजीवसाधारणस्तत्कथमेष संप्रसाद इति सन्निहितविद्वत्परामर्शस्तत्राऽऽह –
संप्रसादशब्द इति ।
तस्य सौषुप्तसर्वजीवसाधारणत्वेऽपि प्रक्रमवशाद्विद्वानेवैष संप्रसाद इति व्यपदिश्यते । यथा सन्निहितोऽर्थो यत्नविशेषादेष इति शब्दशक्तिवशादुच्यते तथेहापीत्यर्थः । एष एवंवित्प्रकृतः संप्रसादः स विद्वानिति यावत् । विवेकानन्तर्यमथशब्दार्थः ।
समुत्थानशब्दस्य मुख्यार्थत्वं वारयति –
न त्विति ।
देहाद्व्युत्थितस्यापि स्वेन रूपेणामिनिष्पत्तिर्भविष्यतीत्याशङ्क्याऽऽह –
न हीति ।
कुतोऽयं स्वरूपेऽभिनिष्पत्तिप्रयोगस्तत्राऽऽह –
प्रागिति ।
एतच्छब्दः सम्यग्ज्ञानविषयः । अनात्मस्वरूपप्रतिपत्तिभ्रान्तिनिवृत्त्यपेक्षया स्वरूपसंपत्तिरुपचरितेत्यर्थः ।
किं तत्स्वरूपमिति तदाह –
अशरीरता हीति ।
यथा मिथ्यारूप्यतादात्म्यनिवृत्तौ स्वाभाविकेनारूप्यात्मना शुक्तिरवतिष्ठते तथा शरीरतादात्म्यभ्रान्तिनिवृत्तौ तदभावोपलक्षितं स्वच्छं स्वरूपमेवावस्थितं भवतीत्यर्थः ।
एष आत्मेति होवाचेत्यत्रैषशब्दार्थमाह –
यत्स्वमिति ।
कोऽसावुक्तिकर्तेत्याकाङ्क्षायामाह –
स ब्रूयादिति ।
न केवलमात्मत्वमेव प्रकृतस्य ज्योतिषः किन्तु रूपान्तरत्वमस्तीत्याह –
किञ्चेति ।
अविनाशित्वे हेतुमाह –
भूमेति ।
तथाऽपि कथमविनाशित्वं तत्राऽऽह –
यो वा इति ।
इतिशब्दो हेत्वर्थः । यस्माद्यथोक्तलक्षणं ब्रह्म तस्मात्तदुपासनामर्हतीत्यर्थः ।
उपास्यस्य ब्रह्मणो नाम निर्दिशति –
तस्येति ।
उक्तस्य पुनरुक्तिरनर्थिकेत्याशङ्क्य परिहरति –
किमर्थमित्यादिना ॥४॥
उपास्यस्तुत्यर्थं नामोक्त्वा तादर्थ्येनैव नामाक्षराणि प्रस्तौति –
तानीति ।
तानि कानीत्यपेक्षायामाह –
एतानीति ।
कथं तकार इत्युच्यत ईकारस्यापि तत्र भावादित्याशङ्क्याऽऽह –
ईकार इति ।
तत्र हेतुमाह –
ह्रस्वेनेति ।
दीर्घमीकारमुद्दिश्य ह्रस्वं पुनरनुवदन्नविवक्षितत्वमेव नामाक्षरेषु तस्य सूचयतीत्यर्थः ।
त्रयाणामक्षराणामवान्तरभेदं दर्शयति –
तेषामिति ।
निर्धारणे षष्ठी । वर्णविभागानन्तर्यमथशब्दार्थः । तकारस्याक्षरसामान्यान्मर्त्यत्वम् ।
कथमक्षरे पूर्वे यमित्यक्षरेण प्रयोक्ता नियमयतीत्याकाङ्क्षायां नियमनस्वाभाव्येनेत्याह –
आत्मन इति ।
यमित्यक्षरस्य नियमनस्वाभाव्यमेव साधयति –
यद्यस्मादिति ।
तस्य तत्स्वभावत्वेऽनुभवमनुकूलयति –
संयते इवेति ।
यमा यमित्यक्षरेणेत्यर्थः ।
तस्य पूर्वाभ्यामुपरिष्टाद्भावित्वं तन्नियामकत्वे हेतुरिति मत्वाऽऽह –
एतेनेति ।
लक्ष्येते पूर्वे अक्षरे इति शेषः ।
ब्रह्मणः सत्यमिति नाम तस्य यन्निर्वचनं कृतं तस्य प्रयोजनमाह –
ब्रह्मेति ।
फलवाक्यस्थमेवंवित्पदं व्याकरोति –
एवमिति ।
वाक्यं तु न व्याख्येयं प्रागेव व्याख्यातत्वादित्याह –
अहरिति ॥५॥
॥ इति श्रीमदानन्दगिरिटीकायां अष्टमाध्यायस्य तृतीयः खण्डः ॥
वाक्यान्तरमादत्ते –
अथेति ।
तस्य तात्पर्यमाह –
उक्तलक्षण इति ।
प्रकारान्तरेण स्तुतिप्रारम्भार्थो वाक्यस्थोऽथशब्दः ।
किमिति स्तुतिरित्यपेक्षायां स्तुत्ये ब्रह्मण्याधारे ब्रह्मचर्याख्यस्य साधनस्य सम्बन्धविधानार्थमित्याह –
ब्रह्मचर्येति ।
यथा मृदादिमयः सेतुर्व्यवस्थाहेतुरस्येदं क्षेत्रमिति तथाऽयमपि व्यवस्थाहेतुरित्याह –
सेतुरिवेति ।
सेतुत्वं साधयति –
विधृतिरिति ।
विधारकत्वमुपपादयति –
अनेनेति ।
वर्णाश्रमादीत्यादिशब्दो वयोवस्थाविषयः । फलादीत्यादिशब्दस्तु तदवान्तरजातीयविषयः । कर्त्रनुरूपक्रियादिभेदविषयनियमः सह वर्णादिव्यवस्थापयता परमेश्वरेण सर्वं जगद्विधृतमिति सम्बन्धः ।
अन्वयमुखेनोक्तमेव व्यतिरेकमुखेनाऽऽह –
अध्रियमाणं हीति ।
उक्तमेवार्थं प्रश्नपूर्वकं विशदयति –
किमर्थमित्यादिना ।
नैतमिति प्रतीकग्रहणं यत्तद्व्याचष्टे –
सेतुमित्यादिना ।
तदेव वैधर्म्यदृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
परमात्मनो न कालपरिच्छेद्यतेत्यत्राऽऽथर्वणश्रुतिं प्रमाणयति –
यस्मादिति ।
तरतीति तरतेरतिक्रमणार्थो नाऽऽत्मनि सम्भवतीत्यत्र हेतुमाह –
कारणं हीति ।
कार्यस्य कारणातिक्रमणं माभूत् अहोरात्रादेस्त्वात्मातिक्रमणं किं न स्यादित्याशङ्क्याऽऽह –
अहोरात्रादि चेति ।
तरतेरतिक्रमणार्थत्वमङ्गीकृत्यापि निषेधे हेतुमाह –
अन्येनेति ।
तरतिवाक्यस्यापहतपाप्मादिवाक्येन पौनरुक्त्यमाशङ्क्य परिहरति –
यद्यपीति ।
विशेषणानामानन्त्यात्प्रत्येकं प्रतिषेधवचनासम्भवमभिप्रेत्याऽऽह –
अहोरात्राद्या हीति ।
पाप्मकार्याणामात्मानमप्राप्यैव निवृत्तौ हेतुमाह –
अपहतेति ॥१॥
यथोक्तसेतुप्राप्तौ फलितमाह –
यस्मादिति ।
स्वाभाविकमस्यानर्थत्वमित्याशङ्क्याऽऽह –
देहवत्त्व इति ।
विद्धो दुःखादिसम्बन्धी ।
इतश्चाऽऽत्मसेतोरस्ति महाभागधेयत्वमित्याह –
किंचेति ।
कथं सर्वमपि तमोरूपमहरेव विदुषः स्यान्नहि विद्ययाऽपि विरुद्धोऽर्थः सिद्ध्यतीत्याशङ्क्याऽऽह –
विज्ञप्तीति ।
तत्र हेतुमाह –
सकृदिति ।
ब्रह्मलक्षणोऽवेद्यो लोकः स्वप्रकाशचिदेकतानो यतोऽवतिष्ठतेऽतस्तद्रूपत्वाद्विदुषो यथोक्तरूपत्वमविरुद्धमित्यर्थः ॥२॥
विद्याफले यथोक्तरीत्या व्यवस्थिते सत्येतत्फलं विद्यावत्त्वेन केषां सिद्ध्यतीत्याशङ्क्याऽऽह –
तत्रेति ।
ब्रह्मचर्यवतां विद्याद्वारा ब्रह्माख्यो लोकः फलतीत्यर्थः ।
तेषामेवेत्येवकारद्योतितमर्थमाह –
नान्येषामिति ।
ब्रह्मविदामपीति वाङ्मात्रब्रह्मवित्त्वमुच्यते । तेषां ब्रह्मचर्यवतां ब्रह्मविदामिति यावत् ।
ब्रह्मचर्यसाधनवतामेव ब्रह्मवित्त्वेन ब्रह्माख्या लोको भवतीति स्थिते फलितमाह –
तस्मादिति ।
साधनं ब्रह्मविद्यायामिति शेषः । ब्रह्मविदामिति भाविनीं वृत्तिमाश्रित्योक्तम् ॥३॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य चतुर्थः खण्डः ॥
अथ यथोक्तपरमात्मप्राप्तिसाधने ज्ञाने सहकारिब्रह्मचर्यं प्रागेवोक्तं तथाच कृतं ब्रह्मचर्यविषयेणोत्तरग्रन्थेनेत्याशङ्क्याऽऽह –
य आत्मेति ।
शमाद्यपेक्षयाऽन्तरशब्दः । उक्तमपि ब्रह्मचर्यं विधातुमनन्तरग्रन्थप्रवृत्तिरित्यर्थः ।
किमिति तर्हि तस्य स्तुतिरित्याशङ्क्य तस्या विधिशेषत्वं दर्शयति –
यज्ञादिभिश्चेति ।
श्रुतिराहोत्तरं वाक्यमित्युक्तं तदादाय व्याकरोति –
अथेत्यादिना ।
ब्रह्मचर्यस्योक्तरीत्या विधित्सितत्वे तदीयस्तुतिप्रारम्भार्थोऽथशब्दः ।
यज्ञस्य ब्रह्मचर्येऽन्तर्भावं साधयति –
यज्ञस्यापीति ।
उक्तमेवार्थमाकाङ्क्षाद्वारा समर्थयते –
कथमित्यादिना ।
पारम्पर्येण चित्तशुद्धिद्वारेणेत्यर्थः ।
न केवलं फलद्वारा यज्ञो ब्रह्मचर्येऽन्तर्भवति किन्तु यकारज्ञकारसम्स्पर्शादपीत्याह –
यो ज्ञातेति ।
इष्टस्य ब्रह्मचर्यान्तर्भावमाकाङ्क्षाद्वारा स्फोरयति –
कथमित्यादिना ।
पूजयित्वा तमात्मानमनुनिन्दत इति सम्बन्धः ।
ब्रह्मचर्येणाऽत्मविषयैषणं निष्पाद्यते इष्टेनापि तदेव सम्पाद्यते तस्मादेषणादुभयसादृश्यादिष्टमपि यज्ञवद्ब्रह्मचर्यमेवेत्याह –
एषणादिति ॥१॥
बहुयजमानकं वैदिकं कर्म सत्त्रायणम् । तथा यज्ञवदिष्टवच्चेत्यर्थः । कथं सत्त्रायणं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्क्याऽऽह –
सत इति ॥२॥
उपवासपरायणत्वमनाशकायनं तत्कथं ब्रह्मचर्येऽन्तर्भवतीत्याशङ्क्याऽऽह –
यमात्मानमिति ।
अरण्यायनमरण्यवासस्तत्कथं ब्रह्मचर्यान्तर्भूतमित्याशङ्क्याऽऽह –
अरण्यशब्दयोरिति ।
विस्तरेणोक्तमर्थं संक्षिप्याऽऽह –
यो ज्ञानादित्यादिना ।
यो ब्रह्मचर्येणाऽत्मनो ज्ञानादात्मानं विन्दते स ब्रह्मलोकं लभते तस्माद्यज्ञो ब्रह्मचर्यमिति योजना । आदिशब्देन स्वस्य परमपुरुषार्थसाधनत्वं गृह्यते ॥३॥
ब्रह्मचर्यस्य स्तुतत्वात्तद्विषयं विधिमिक्त्वा तत्सहकृतविद्यासाध्यफलं कथयति –
तत्तत्र (ही)ति ।
ब्रह्मचर्यस्यात्यल्पसाधनत्वान्महती स्तुतिरयुक्ता तद्ब्रह्मचर्येण ज्ञानमुपलक्ष्य तदेव स्तूयत इति मतमुत्थापयति –
नन्वत्रेति ।
तस्य क्षुद्रसाधनत्वमसिद्धं दुरनुष्टेयत्वात्तद्व्यतिरेकेण ज्ञानासम्भवाच्चेत्युत्तरमाह –
नेत्यादिना ।
विषयापहृतचित्तानां नराणां विवेकासम्भवे प्रमाणमाह –
पराञ्चीति ।
ध्यायतो विषयानित्याद्या स्मृतिरत्र विवक्षिता ।
ब्रह्मचर्यस्योत्तमसाधनत्वे सिद्धे फलितमाह –
ज्ञानेति ।
ब्रह्मलोकप्राप्तिसाधनस्य ब्रह्मचर्यस्य यज्ञादिभिः स्तुतत्वात्तेषामपि तत्प्राप्तिसाधनत्वं श्रुत्याऽभिप्रेतमिति शङ्कते –
नन्विति ।
किं तेषां पुरुषार्थसाधनत्वं प्रस्तुतश्रुत्या प्रतीतं किं वा ब्रह्मलोकसाधनत्वमिति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
न द्वितीयो वाक्यभेदप्रसङ्गादित्याह –
न त्विति ।
कथं तर्हि यज्ञादिभिर्ब्रह्मचर्यस्तुतिस्तत्राऽऽह –
किं तर्हीति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।
त्वमिन्द्रस्त्वं विष्णुरित्यादिना विप्रादिभी राजा स्तूयते तथाऽपि न तस्येन्द्रादिव्यापारे निरङ्कुशं कर्तृत्वमस्तीति यथेष्यते तथा यज्ञादिभिर्ब्रह्मचर्यस्य स्तुतस्यापि नास्ति तुल्यफलत्वमित्यर्थः ।
ब्रह्मलोकस्थान्पदार्थान्निर्णेतुं विचारमवतारयन्नादौ तद्विषयमाह –
य इम इति ।
तत्रैकं पक्षमुत्थाप्य दृष्टान्तेन तदुत्थितिप्रकारमाह –
ते किमिति ।
पक्षान्तरं स्वप्नदृष्टान्तवशाद्दर्शयति –
आहोस्विदिति ।
कस्मिन्पक्षे को लाभः को वा दोषः, इति शिष्यः पृच्छति –
किंचात इति ।
घटस्थौल्ये दोषदर्शनान्मानसत्त्वेन सौक्ष्म्ये च पुराणानुग्रहसंभवात्ते मानसा एवेत्याह –
यदीति ।
न केवलं तेषां स्थौल्ये स’त्युभे अस्मिन्नि’त्यादिश्रुत्या पुराणस्मृत्या च विरोधः किं त्वशोकं संतापवर्जितमहिमं शीतस्पर्शशून्यं ब्रह्मलोकमुपयन्तीत्याद्याश्च श्रुतयो ब्रह्मलोकं निरूपयन्त्यस्तत्रत्यानामर्थानां स्थौल्ये विरुध्येरन् ।
स्थूलानां पदार्थानां तत्र सत्त्वे शीतस्पर्शादेरवर्जनीयत्वादित्याह –
अशोकमिति ।
ब्राह्मलौकिकपदार्थानां मानसत्वे पुराणस्मृत्यन्तरविरोधं शङ्कते –
नन्विति ।
किं दृश्यमानरूपेण समुद्रादीनां ब्रह्मलोकगमनं स्मृत्यर्थः किं वा स्वरूपान्तरेणेति विकल्प्याऽद्यं दूषयति –
न मूर्तिमत्व इति ।
उभयत्रानुपलम्भप्रसङ्गादिति ।
प्रथमपक्षायोगेद्वितीयंपक्षंपरिशिष्टमाचष्टे –
तस्मादिति ।
अस्तु द्वितीयो विकल्पः का नो हानिरित्याशङ्क्य ब्रह्मलके मानसेन देहेन मानसादीनामेव सागरादीनां मानसरूपेण सह सम्बन्धोपपत्तेर्मानस्य एव मूर्तयस्तेषां ब्रह्मलोकस्थाःकल्पयितुं युक्ता इत्याह –
तुल्यायां चेति ।
तर्हि मनोरथकल्पितवदतिचञ्चलत्वाद्भोगयोग्याकारत्वं सागरादीनां न स्यादित्याशङ्क्याह –
दृष्टा हीति ।
स्वप्नतुल्यत्वे मिथ्यात्वप्रसक्तिरिति शङ्कते –
नन्विति ।
प्रसङ्गस्येष्टत्वमाशङ्क्य श्रुतिविरोधमाह –
त इम इति ।
ये स्वप्ने दृष्टास्ते न सन्ति न तु न दृष्टा इति दर्शनं न बाध्यते तथा च स्वाप्नसंवेदनस्य सत्यत्वमिष्टं तथैव ब्राह्मलौकिकानां पदर्थानाम् ।
मानस्य इति दृष्टान्तं विवृणोति –
मानसा हीति ।
जागरिते संविदतिरिक्ताः सन्ति पदार्थास्तद्वासनारूपास्ते स्वप्ने भान्ति न तु संविदात्मकत्वं तेषामिति शङ्कते –
नन्विति ।
जागरितस्यापि संविद्विवर्तत्वान्न पृथगस्ति सत्वमित्युत्तरमाह –
अत्यल्पमिति ।
भूमविद्यालोचनायामपि जाग्रद्विषयाणां संविद्विवर्तत्वं सेत्स्यतीत्याह –
संकल्पमूला हीति ।
इतश्च जाग्रद्विषयाणां संविद्विवर्तत्वमित्याह सर्वश्रुतिषु चेति । ननु कुलालो घटं चिकीर्षुर्मनसि संकल्पितमाकारं बहिर्निर्मिमीते तत्र सङ्कल्पो बाह्याकरस्य निमित्तं संकल्पश्च पूर्वानुभूतसजातीयगोचरः पूर्वानुभूतोऽपि पूर्वतरसंकल्पनिमित्त इति निमित्तनैमित्तिकभावः ।
सर्वस्य संविद्विवर्तत्वे कथमुपपद्यते तत्राऽह –
तस्मादिति ।
यस्मात्सतः सर्वस्येक्षणं पूर्वकल्पीयसदृशगोचरं पूर्वकल्पीयास्ततः पूर्वतरेक्षणनिमित्ता इति संविदेवेत्थं स्वाविद्यया विवर्तते निरवयवस्य सन्मात्रस्य स्वारस्येनेक्षणाद्यनुपपत्तेस्तस्मात्सर्वस्य संविद्विवर्तत्वेऽपि निमित्तनैमित्तिकभावोऽयमनिर्वाच्यो न विरुध्यत इत्यर्थः ।
अथ सच्छब्दवाच्यायाः संविदोऽनिर्वाच्यस्पन्दनकाले ये विषया बाह्यतया भासन्ते तेषां कदाचिदपि संविदतिरेकेण सत्त्वानङ्गीकारादाद्यन्तासत्त्वलक्षणमनृतत्वमापद्येत तथा च व्यवहारभङ्गप्रसङ्गस्तत्राऽऽह –
यद्यपीति ।
तथाऽपि नानृतत्वमित्यध्याहारः अध्यस्तस्याधिष्ठानमेव स्वात्मातस्मिन्न कदाचिदप्यत्यन्तासत्त्वं तादात्मयेनैव स्फुरणादतो न व्यवहारभङ्गप्रसङ्ग इति भावः ।
कदाचिदपि नानृतत्वमिति वदता प्रतीतिकालात्कालान्तरेऽपि विषयाणां नासत्त्वमित्युक्तं तत्रानुभवविरोधं शङ्कते –
नन्विति ।
स्वप्नदृष्टानां समीहितमेव कालान्तरे मिथ्यात्वमित्यङ्गीकरोति –
सत्यमिति ।
तर्हि तेषामसत्त्वमेव स्वीकृतमित्याशङ्क्याऽऽह –
जाग्रदिति ।
तथाऽपि जाग्रद्बोधेनाविषयीकरणादसत्त्वं स्वप्नदृष्टानामेष्टव्यमित्याशङ्क्याऽऽह –
तथेति ।
यदि जाग्रद्बोधेनाविषयीकरणमात्रेणासत्त्वं स्वप्नदृष्टानां पदार्थानामिष्टं तर्हि जाग्रद्विषयाणामपि स्वप्नबोधेनाविषयीकरणादसत्त्वप्रसङ्गस्तन्न कदाचिदपि संविदि विषयाणामत्यन्तासत्त्वमित्यर्थः ।
कथं तर्हि वाचारम्भणश्रुतिरित्याशङ्क्याऽऽह –
विशेषेति ।
त्रयाणां रूपाणां सत्यत्वे विशेषाकारमात्रं मिथ्येत्युक्तमयुक्तं तेष्वपि विशेषाकारस्य सत्त्वादित्याशङ्क्याऽऽह –
तान्यपीति ।
कथं तर्हि तेषु सत्यपदं प्रयुक्तमित्याशङ्क्याऽऽह –
स्वत इति ।
तर्हि तत्सत्यमित्येतावत्प्रयोक्तव्यं किमिति त्रीणि रूपाणीत्येव सत्यमित्युक्तं तत्राऽऽह –
प्रागिति ।
प्रकृतमुपसंहरति –
तस्मादिति ।
प्रथमपक्षवद्द्वितीयपक्षे दोषाभावादिति यावत् ।
यद्यैहिकविषयवद्ब्राह्मलौकिका अपि विषया विचार्यमाणाः सत्यास्तर्हि कस्तत्र विशेषो येनैतत्परित्यागेन तत्कामिनां विद्याविधानं तत्राऽऽह –
बाह्येति ।
जन्या ब्रह्मलोके विषया इति शेषः । प्रकृतायाः फलश्रुतेरित्यध्याहारः ।
ननु तेषामविद्यादशायामर्थक्रियाकारित्वरूपसत्यत्वसंभवेऽपि कुतो विद्यावस्थायां सत्यत्वमित्याशङ्क्याऽह –
सत्सत्येति ।
यथा रज्ज्वां कल्पितसर्पादयो रज्जुतत्त्वबोधे तदात्मतामेवाऽऽपाद्यन्ते विवेचनात्तथा सर्वेऽपि विषया विद्यावस्थायामन्वयव्यतिरेकाभ्यां परिहारायासन्मात्रत्वमेव प्राप्नुवन्तीति तत्सत्यत्वमविरुद्धमित्यर्थः ॥४॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य पञ्चमः खण्डः ॥
सगुणविद्याफलस्वरूपमित्थमुपपाद्य तत्प्राप्तये गतिर्वक्तव्येति नाडीखण्डमवतारयति –
यस्त्विति ।
यथोक्तो गुणः सत्यकामत्वादिः । ब्रह्मचर्यादीत्यादिशब्दः शमदमादिसङ्ग्रहार्थः ।
तमेवाऽऽदिशब्दार्थं स्पष्टयति –
त्यक्तेति ।
अधिकारिणः सफलोपास्तिविध्यानन्तर्यमथशब्दार्थः । रसेनान्नस्येति शेषः । तदाकारा इति तच्छब्दोऽन्नरसविषयः । शुक्लस्येत्यादिषष्ठी पूर्ववत् । श्रुतावितिशब्दोऽध्याहारद्योतनार्थः ।
कथं पुनरन्नरसस्य पिङ्गलादिविचित्रो वर्णविशेषः सिद्ध्यतीत्याशङ्क्याऽऽह –
सौरेणेति ।
यत्पित्ताख्यं सौरं तेजस्तेन पाकोऽशितस्य पीतस्य च जायते तेनाभिनिर्वृत्तेनाल्पेन कफेन संपर्कात्तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलं तेन संपर्काद्रसस्य नाडीनां च जायते पिङ्गलत्वमित्यर्थः ।
तदेव च पित्ताख्यं सौरं तेजो यथोक्तपाकाभिनिर्वृत्तेन प्रभूतेन वातेन सम्बन्धात्तद्भूयस्त्वाद्भवति नीलं तेन च संपर्कादन्नरसस्य नाडीनां च जायते नैल्यमित्याह –
तदेवेति ।
प्रकृतमेव पित्ताख्यं सौरं तेजो यथोक्तपाकवशादभिनिर्वृत्तकफस्य स्वसम्बन्धिनो भूयस्त्वाद्भवति शुक्लं तेन च सम्पर्कादन्नरसस्य नाडीनां च शौक्ल्यं भवतीत्याह –
तदेव चेति ।
उक्तपाकाभिनिर्वृत्तेन कफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत्सम्बन्धि पीतं जायते तत्सम्बन्धाच्चान्नरसस्य च नाडीनां च पीतत्वं भवतीत्याह –
कफेनेति ।
यदा तु यथोक्तपाकाभिनिष्पन्नं शोणितं बहुलं भवति तदा तस्य नाडीनां च लौहित्यं भवतीत्याह –
शोणितेति ।
पक्षान्तरमाह –
वैद्यकाद्वेति ।
अन्वेषणप्रकारमाह –
कथमिति ।
नाभेरूर्ध्वं हृदयादधस्तादामाशयमाचक्षते । तद्गतं तेजःसौरं पित्तमित्युच्यते । तच्चान्नरसस्य धात्वन्तरसहकारिवशाद्वर्णविशेषे कारणम् । “आमाशयगतं पित्तं रञ्जकं रसरञ्जनात्”(अ.हृ. १३ । २५) इत्यादिवचनादित्यर्थः ।
कथं तर्हि पिङ्गलस्येत्याद्या श्रुतिरित्याशङ्क्याऽऽह –
श्रुतिस्त्विति ।
उक्तमर्थमाकाङ्क्षाद्वारा स्फोरयति –
कथमित्यादिना ।
आदित्यस्य पैङ्गल्यादयो वर्णविशेषाः शास्त्रप्रामाण्यादेव प्रत्येतव्याः ॥१॥
आदित्यस्य तेजसो नाडीष्वनुगतस्य पैङ्गल्यादयो वर्णविशेषा भवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेन स्पष्टयति –
तस्येत्यादिना ।
उभयत्राऽऽदित्यमण्डले पुरुषे चेत्यर्थः ।
तत्र पूर्वोक्तमेव दृष्टान्तमनुवदति –
यथेति ।
उभौ ग्रामौ महापथो यथा गच्छति तथोभयत्राऽऽदित्यस्य रश्मयः प्रविष्टाः इत्यर्थः ।
तमेव प्रवेशं प्रश्नद्वारा प्रकटयति –
कथमित्यादिना ।
कथं नाडीनां पिङ्गलादिवर्णत्वमित्याशङ्क्य सौरेण तेजसेत्यादिनोक्तं स्मारयति –
यथोक्तास्त्विति ।
अमुष्मिन्नादित्ये सृप्ता इति सम्बन्धः ।
कथं स्त्रीलिङ्गेन निर्दिष्टानां रश्मीनां पुंलिङ्गेन निर्देशस्तत्राऽऽह –
रश्मीनामिति ॥२॥
नाडीस्वरूपमुक्त्वा विज्ञानात्मस्वापाधिकरणत्वेन ताः स्तोतुमादौ स्वापं प्रस्तौति –
तत्तत्रेति ।
सप्तम्यर्थमेव स्फुटयति –
एवं सतीति ।
नाडीस्वरूपे पूर्वोक्तरीत्या निरूपिते सतीत्यर्थः । एतत्स्वपनमिति क्रियाविशेषणम् ।
समस्तविशेषणस्यार्थवत्वमाह –
स्वापस्येति ।
दर्शनवृत्तिमददर्शनवृत्तिश्चेति द्विप्रकारत्वं स्वापस्येष्टम् । तत्र दर्शनवृत्तेः स्वापस्य व्यावृत्त्यर्थं समस्त इति विशेषणम् ।
तस्य संपिण्डितमर्थमाह –
उपसंहृतेति ।
विशेषणान्तरमुत्थाप्य व्याकरोति –
अत इति ।
उपसंहृतसर्वकरणत्वादिति यावत् ।
उक्तं विशेषणद्वयमुपजीव्य स्वप्नमित्यादि व्याचष्टे –
अत एवेति ।
नाडीषु प्रविष्टो भवतीति यदुक्तं तदयुक्तं य एषोऽन्तर्हृदय आकशस्तस्मिञ्शेत इत्यङ्गीकारादित्याशङ्क्याऽऽह –
नाडीभिरिति ।
नाडीष्विति श्रुता सप्तमी कथं नाडीभिरिति तृतीयया व्याख्यायते तत्राऽऽह –
न हीति ।
तदेति सुषुप्त्यवस्थोच्यते ।
तस्यामवस्थायां कर्माभावे कथं पुनरुत्थानमित्याशङ्क्याऽऽह –
देहेति ।
सुखदुःखानुभवाभावात्पाप्मासंस्पर्शोऽत्र विवक्षितो न तु कर्माभावादित्यर्थः ।
अविषयत्वं साधयति –
अन्यो हीति ।
सुषुप्ते स्वरूपावस्थस्य कथं प्रच्यवनमित्याशङ्क्याऽऽह –
स्वरूपेति ।
अविद्याकामकर्मणां बीजमनाद्यज्ञानं तस्य ब्रह्मविद्याख्येनाग्नीना न स्वापे दाहस्तन्निमित्तं सुषुप्तस्य पुनः स्वरूपप्रच्यवनमिति सम्बन्धः ।
तदेव व्याचष्टे –
जाग्रदिति ।
कीदृक्प्रच्यवनमित्यपेक्षायामाह –
बाह्येति ।
एतच्च सति सम्पद्य न विदुरित्यादावुदितमित्याह –
इत्यवोचामेति ।
तेजसा हेति पाप्मास्पर्शे श्रौतौ हेतुस्तं हेतुं व्याचष्टे –
यदेति ।
तद्व्याप्तिकार्यमाह –
अत इति ।
कार्यकरणसंस्पर्शाभावफलं दर्शयति –
तस्मादिति ॥३॥
नाडीरेवं स्तुत्वा ताभिरूर्ध्वगमनं प्रदर्शयितुं मरणकालं प्रसञ्जयति –
तत्रेति ।
तस्यैवार्थमाह –
एवं सतीति ।
नाडीनामुक्तरीत्या प्राशस्त्ये सतीत्यर्थः । ताभिरूर्ध्वगमनप्रदर्शनप्रारम्भार्थोऽथशब्दः । रोगादीत्यादिपदमागन्तुकसर्वनिमित्तसंग्रहार्थम् । जरादीत्यादिपदं तु नैसर्गिकसर्वनिमित्तद्योतनार्थमिति भेदः । एतन्नयनमिति क्रियाविशेषणम् ॥४॥
प्रारब्धकर्मावसानार्थोऽथशब्दः । एतदिति क्रियाविशेषणमेतदुत्क्रमणं यथा स्यात्तथेत्यर्थः । यथोक्ताभिर्नाडीषु प्रसृताभिरादित्यमण्डलादागताभिरिति यावत् । कर्मणा जितं वशीकृतं स्वात्मसम्बन्धितामापादितं लोकमनतिक्रम्य तं प्रत्यविद्वान्केवलकर्मवान्गच्छतीत्यर्थः । दहरविद्यावतो गतिं दर्शयति –
इतरस्त्विति ।
यथोक्तसाधनं दहरविज्ञानं तेन सम्पन्नो विशिष्ट इत्यर्थः । ध्यायन्गच्छतीत्युत्तरत्र सम्बन्धः । यथापूर्वं स्वस्थावस्थायामिव मरणावस्थायामपीत्यर्थः ।
वा हेतिनिपातद्वयस्यावधारणरूपमर्थं कथयति –
एवेति ।
उच्छब्दार्थमाह –
ऊर्ध्वमिति ।
वाशब्देन द्योतितं विकल्पं दर्शयति –
विद्वाञ्श्चेदिति ।
यदि विद्वान्प्रमीयते तदोर्ध्वमेव गच्छति । यदि त्वविद्वान्प्रमीयते तदा तिर्यगेव गच्छतीति विभागः ।
विदुषस्त्यक्तदेहस्याऽऽदित्यप्राप्तावत्यन्तशैघ्र्यं दर्शयितुमनन्तरवाक्यमादत्ते –
स विद्वानिति ।
तद्व्याचष्टे –
यावतेति ।
आदित्यप्राप्तौ किं स्यादित्यत आह –
अत इति ।
अविदुषामपि तर्हि प्राप्तानामादित्यं ततो निरुद्धानां पुनर्ब्रह्मलोकाप्राप्तिरित्याशङ्क्याऽऽह –
सौरेणेति ।
देहे निरुद्धानां मूर्धन्यया नाड्या नोत्क्रमणमविदुषामित्यत्र लिङ्गं दर्शयति –
विष्वङ्ङिति ॥५॥
यथोक्तोऽर्थो नाडीविभागलक्षणः । प्रधानत इति विशेषणतात्पर्यमाह –
आनन्त्यादिति ।
प्रकरणं नाडीविषयं दहरविद्याविषयं वा ॥६॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य षष्ठः खण्डः ॥
दहरविद्यायामुपास्य स्तुत्यर्थमुक्तमनुवदति –
अथेति ।
विवेकानन्तर्यमथशब्दार्थो व्याख्यातः । शरीरात्समुत्थानं तस्मिन्नहंममाभिमानत्यागः ।
स्वरूपं विशिनष्टि –
एष इति ।
उक्तिकर्तृत्वमाचार्यस्य दर्शितमेव ।
प्राणो वा संप्रसादो विज्ञानात्मा वेति संशयात्पृच्छति –
तत्रेति ।
प्रकृतं वाक्यं सप्तम्यर्थः ।
तस्य च संप्रसादस्य परमात्मविषयं ज्ञानं केनोपायेन भवतीति प्रश्नान्तरमाह –
कथं वेति ।
किं तस्य परमात्माधिगमेनेत्याशङ्क्याऽऽह –
यथेति ।
तथा तस्याधिगमः कथमिति सम्बन्धः ।
अभिनिष्पद्यमानरूपश्चाऽऽत्मा सविशेषो निर्विशेषो वेतिप्रश्नान्तरं करोति –
येनेति ।
आत्मनो हि सच्चिदानन्दैकतानादर्थान्तराणि रूपाणि दृश्यमानानि शरीरसम्बन्धप्रयुक्तानि । तथा च ततः शरीरादुपाधेर्यदन्यत्तस्य स्वरूपं तत्कथं सर्वप्रमाणाप्रतिपन्नमस्तीति प्रश्नान्तरमाह –
सम्प्रसादस्य चेति ।
एतेषां प्रश्नानामुत्तरत्वेनोत्तरग्रन्थमवतारयति –
इत्येत इति ।
प्रजापतेरिन्द्रविरोचनयोश्च संवादरूपा याऽत्राऽख्यायिका दृश्यते सा किमर्थेत्याशङ्क्याऽह –
आख्यायिका त्विति ।
शिष्यस्य विद्याया ग्रहणे गुरोस्तस्याःसम्यक्प्रदाने च यो विधिः श्रद्धालुत्वादिप्रकारस्तत्प्रदर्शनार्थेति यावत् । यद्वा विद्याया ग्रहणं स्वीकरणं यत्र संप्रदाने तद्दानपात्रे शिष्ये दृश्यते तस्य विधिर्ब्रह्मचर्यादिस्तत्प्रदर्शनार्थेत्यर्थः ।
आख्यायिकायास्तात्पर्यान्तरमाह –
विद्येति ।
प्रजापतिना प्रोक्ता देवैरसुरैश्च प्रार्थितेन्द्रविरोचनाभ्यां देवासुराधिपतिभ्यामायासेन महता प्रेप्सिता देवराजेन च कथंचित्प्राप्ता तस्मान्महार्हेयं विद्येति तस्याः स्तुत्यर्थाऽऽख्यायिकेत्यर्थः ।
महद्भिरुपासितस्य महार्हत्वे दृष्टान्तमाह –
राजसेवितमिति ।
यन्मायोपाधि सविशेषं चैतन्यं निरुपाधि निर्विशेषमिति सविशेषनिर्विशेषयोरभेदाभिप्रायेण प्रजापतिवाक्यं व्याकर्तुमादत्ते –
य आत्मेति ।
तत्र सोऽन्वेष्टव्य इति वाक्ये सशब्दार्थमाह –
यस्येति ।
उपासनमपि किमर्थमित्यपेक्षायामाह –
उपलब्ध्यर्थमिति ।
तस्यैतत्फलमिति सम्बन्धः ।
कथं निर्गुणविद्यायाः सर्वलोककामावाप्तिः फलमित्याशङ्क्याऽऽह –
सर्वात्मतेति ।
परिच्छेदभ्रमव्यावृत्त्या पूर्णस्वरूपेणावस्थितिरित्यर्थः ।
प्रजापतिवाक्यात्प्रतीयमानविधिस्वरूपमाह –
अन्वेष्टव्य इति ।
एवकारव्यावर्त्यं दर्शयति –
नापूर्वविधिरिति ।
शब्दादेव विद्योदये तदुत्पत्त्यर्थोऽपूर्वविधिरग्निहोत्रादिविधिवन्न सम्भवतीत्यर्थः ।
कथमिह नियमविधिरपि स्यादवघातविधिवदित्याशङ्क्याऽऽह –
एवमिति ।
मिथ्याज्ञानसंस्कारप्राबल्यादनात्माभिनिवेशस्य पक्षे प्राप्तौ शास्त्राचार्याभ्यामात्मान्वेषणमेव कार्यमिति नियम इत्यर्थः ।
इतश्च नियमविधिरेव नापूर्वविधिरित्याह –
दृष्टार्थत्वादिति ।
अन्वेषणविजिज्ञासनाभ्यां ज्ञानसाधनमुक्तं तस्य च विद्याद्वाराऽविद्यानिवृत्तिर्दृष्टमेव फलमन्वयव्यतिरकाभ्यां तद्धेतुत्वावगमात्तथा च तत्र नापूर्वविधेरवकाशोऽस्तीत्यर्थः ।
तयोर्दृष्टफलत्वे वाक्यशेषमनुकूलयति –
दृष्टार्थत्वं चेति ।
कथमसकृत्प्रयुक्तेन न पश्यामीति वर्तमानापदेशेनान्वेषणादेर्दृष्टफलतेत्याशङ्क्य देहातिरिक्तात्मवादिनां वाक्योत्थज्ञानादनुमानाच्च मनुष्यत्वादिभ्रमनिवृत्तिप्रसिद्धेर्मैवमित्यभिप्रेत्याऽऽह –
पररूपेणेति ।
अन्वेषणादेर्दृष्टफलत्वे फलितमाह –
इति नियमार्थतेति ।
अपूर्वविधित्वं तद्विषयत्वमिति यावत् । इहेत्यन्वेषणादेरुक्तिरग्निहोत्रादिवदन्वेषणादेरत्यन्ताप्राप्त्यभावस्योक्तत्वादित्यर्थः॥१॥
इदानीमाख्यायिकां व्याख्यातुमाख्यायिका तु विद्याग्रहणसंप्रदानविधिप्रदर्शनार्थेत्यादिनोक्तं स्मारयति –
तद्धेति ।
अवतारिताख्यायिकाक्षराणि व्याचष्टे –
तद्धेत्यादिना ।
किमितीन्द्रविरोचनौ विद्यार्थिनावपि परिकरं परित्यज्य शरीरमात्रेण प्रजापतिं प्रगतवन्तौ तत्राऽह –
विनयेनेति ।
तयोरुक्तरूपगतिवशादेवदर्शितमर्थान्तरं कथयति –
त्रैलोक्येति ।
विद्येति दर्शयतीति पूर्वेण सम्बन्धः ।
तस्या गुरुतरत्वे हेतुमाह –
यत इति ।
सविदंमैत्रीम् ॥२॥
तमात्मानं ज्ञातुमिच्छन्ताववास्वेति वक्तव्येऽप्यवास्तमिति प्रजापतिवचोनुकर्षणमात्रमिति द्रष्टव्यम् । अथेन्द्रविरोचनयोर्मिथो वैरिणोरपि विद्यार्थित्वेन चिरमेकत्र ब्रह्मचर्यवासेन सूचितमर्थं दर्शयति –
तेनेति ॥३॥
शुद्धकल्मषौ प्रक्षालितदोषाविति यावत् । पुरुषो द्रष्टेति सम्बन्धः । अस्मदादिभिस्तत्र द्रष्टा दृष्टो नास्तीत्याशङ्क्याऽऽह –
निवृत्तेति ।
इन्द्रियाणां विषयेभ्यो वैमुख्ये हेतुमाह –
मृदितेति ।
योगिभिः समाधिनिष्ठैरन्तर्दृष्टिभिरिति यावत् ।
यआत्मेत्यादिवाक्येनास्यैकवाक्यतां दर्शयति –
एष इति ।
भूमविद्यया चास्यैकवाक्यत्वं सूचयति –
भूमाख्यमिति ।
इतिशब्दो वाक्यसमाप्त्यर्थः ।
उक्तेऽर्थे वाक्यं पातयति –
अथ योऽयमिति ।
प्रश्नार्थोऽथशब्दः । इतिशब्दः समाप्त्यर्थः ।
यश्चक्षुरुपलक्षितो द्रष्टैष एव मयोक्तोऽपहतपाप्मादिधर्मवानात्मा युवाभ्यां पुनरन्यथागृहीतमिति निपातेन सूचयन्नुक्तवान्प्रजापतिरित्याह –
एवमिति ।
प्रजापतिश्चेदेवमुक्तवान्कथं तर्हि तयोर्वैमुख्यं न निवृत्तमित्याशङ्क्याऽऽह –
एतदिति ।
यथोक्तवचोरूपं वस्त्विति यावत् ।
यत्प्रजापतिना मनसि निहितं तत्प्रकटीकर्तुं चोदयति –
नन्विति ।
शिष्टशिष्यगतं विपरीतग्रहणमाचार्येणानुज्ञातुमयुक्तमित्यङ्गीकृत्य प्रजापतेरभिप्रायमाह –
सत्यमेवमिति ।
कथं तर्हि तयोर्विपरीतग्रहणमपनेतव्यमित्याशङ्क्याऽऽह –
गृह्णीतां तावदिति ।
तावद्विपरीतमिति शेषः । चकारेण क्रियापदमनुकृष्यते ।