अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

अष्टमोऽध्यायः: प्रथमः खण्डः (१)

पूर्व­स्मि­न्न­ध्या­य­द्वये निर्वि­शे­ष­मा­त्म­त­त्त्व­म­न­व­च्छिन्नं सदा­न­न्दै­क­ता­न­मा­वे­दितं तथा चोपनिषदारम्भे चरितार्थे किमवशिष्यते यद­र्थ­म­ध्या­या­न्त­र­मि­त्या­श­ङ्क्याऽऽह –
यद्यपीति ।
कर्तुमिति तदधिगमाय विशिष्टो देश उपदेष्टव्य इति सम्बन्धः । मन्दबुद्धीनां तर्हि परमार्थवस्तुनो ब्रह्म­णोऽ­धि­ग­ति­र­पे­क्षि­ते­त्यर्थः ।

न केवलं मन्दाधिकारिणां ब्रह्मा­धि­ग­म­शे­ष­त्वेन हृदयदेशोपदेश एवात्र कर्तव्यः किं तु पूर्व­त्रा­नु­क्त­गु­णा­द्य­र्था­न्त­रो­प­दे­शश्च कार्य इत्याह –
यद्यपीति ।

अव­शि­ष्ट­म­र्था­न्त­र­मु­प­दे­ष्ट­व्य­म­न्वा­चष्टे –
तथेति ।
मन्दधियां ब्रह्म­धी­शे­ष­त्वेन देश­वि­शे­ष­व­द्गु­ण­वि­शे­ष­वच्च ब्रह्म­च­र्या­दि­सा­ध­न­वि­शेषो विधातव्य इति सम्बन्धः ।

शब्दो­त्थ­ब्र­ह्म­ज्ञा­न­वतां विधिं विनाऽपि विष­य­वै­मु­ख्य­स­म्भ­वात्किं विधि­ने­त्या­श­ङ्क्याऽऽह –
यद्यपि ब्रह्मविदामिति ।

यथा साधनविशेषो वक्त­व्योऽ­व­शि­ष्यते तथोपासकानां गतिश्च वक्त­व्ये­त्य­व­शि­ष्ट­म­र्था­न्त­र­माह –
तथेति ।

एकत्वदर्शिनां गन्त्रा­दि­स­र्व­भे­द­प्र­त्य­या­स्त­म­या­द­वि­द्या­वि­शे­षस्य देह­स्थि­ति­नि­मि­त्तस्य क्षये सति निवृ­त्ति­स­म्भ­वा­त्कुतो गति­र्व­क्त­व्ये­त्या­श­ङ्क्याऽऽह –
यद्य­प्या­त्मै­क­त्व­वि­दा­मिति ।
अवि­द्या­दि­शे­ष­स्थि­ति­नि­मि­त्त­क्षये स्वात्मन्येव निवृ­त्ति­रि­त्यु­त्त­रेण सम्बन्धः ।

स्वात्म­नि­र्वा­णेऽपि कृतकरूपत्यागेन स्वाभा­वि­क­स्व­रू­पा­व­स्था­न­मि­त्यत्र दृष्टान्तानाह –
गगन इवेति ।
अने­को­दा­ह­र­णो­पा­दानं बुद्धि­सौ­क­र्या­र्थम् ।

उक्त­मे­वा­ध्या­य­ता­त्पर्यं संक्षिप्य दर्शयति –
दिग्देशेति ।
दिशादेशेन गुणैर्गत्या फलभेदेन च शून्यं तदनवच्छिन्नमिति यावत् ।

तस्य दिगा­द्य­न­व­च्छि­न्नत्वे हेतुमाह –
अद्वयमिति ।

तर्हि तेषां भ्रमापोहार्थं परमार्थसदद्वयं ब्रह्म ग्राहयितव्यं किमि­त्य­न्य­थो­प­दि­श्यते तत्राऽऽह –
सन्मार्गस्था इति ।

अध्यायतात्पर्यं संक्षे­प­वि­स्त­राभ्यां दर्शयित्वा श्रुत्यक्षराणि व्याकरोति –
अथेत्यादिना ।
उत्त­म­बु­द्धी­न्प्रति निर्विशेष ब्रह्मो­प­दे­शा­न­न्तरं मन्द­बु­द्धी­न्प्रति सवि­शे­ष­मु­प­दि­श्यते ब्रह्मेत्यर्थः ।

तत्र तावदुपास्यायतनं निर्दिशति –
यदिदमिति ।

हृदयपुण्डरीकस्य वेश्मसादृश्ये हेतुमाह –
द्वारपालादीति ।
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषय इत्या­दि­श्रु­ते­रु­क्त­हे­तु­सिद्धिः ।

तस्याऽऽश्रयं दर्शयति –
अस्मिन्निति ।

शरीरस्य ब्रह्मपुरत्वं दृष्टान्तेन साधयति –
राज्ञ इति ।

तत्रोक्तं वेश्म दृष्टान्तेन स्पष्टयति –
पुरे चेति ।

कथं पुनः सर्वगतस्य निरवयवस्य ब्रह्मणो यथो­क्त­वे­श्म­नि­ष्ठ­त्व­मि­त्या­श­ङ्क्याऽऽह –
ब्रह्मण इति ।

ननु संसारिणो ब्रह्मा­ति­रि­क्तस्य स्वक­र्मो­पा­र्जि­तेन शरीरेण स्वामि­त्व­सं­बन्धो न ब्रह्म­ण­स्त­द­सं­ब­न्धिनः कथं तत्रोपलब्धिरत आह –
अस्मिन्हीति ।

ब्रह्मणो जीवात्मना सृष्टे कार्ये जला­र्क­व­त्प्र­वेशे हृदयपुण्डरीकस्य ब्रह्मो­प­ल­ब्ध्य­धि­ष्ठा­नत्वं पूर्वो­क्त­म­वि­रु­द्ध­मि­त्याह –
तस्मादिति ।

अन्त­रा­का­श­स्या­त्य­ल्प­त­रत्वे हेतुमाह –
वेश्मन इति ।

आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्तयति –
आकाशाख्यमिति ।

कथं वाक्य­शे­षेऽ­प्या­का­श­शब्दो ब्रह्मणि वर्तते तत्राऽऽह –
आकाश इवेति ।
तस्मि­न्य­द­न्त­स्त­दा­श्र­येण सहान्वेष्टव्यं तस्मिन्वा स्वे महिम्नि यद­न्त­स्त­दा­का­शाख्यं ब्रह्म तदन्वेष्टव्यं तस्मिन्वा हृद­य­पु­ण्ड­री­का­व­च्छिन्ने नभसि यदन्तराकाशाख्यं ब्रह्म तद­न्वे­ष्ट­व्य­मिति योजना ॥१॥

दह­रोऽ­स्मि­न्नि­त्या­दि­वा­क्यस्य यथाश्रुतमर्थं गृहीत्वा चोद्यमुत्थापयति –
तं चेदिति ।

तदेव चोद्य­मा­का­ङ्क्षा­द्वारा विवृणोति –
कथमित्यादिना ।

भवतु परिच्छिन्ने शरीरे पुण्डरीकाकारस्य हृदयस्याल्पत्वं तद­न्त­र्व­र्ति­न­श्चाऽऽ­का­शस्य ततोऽ­प्य­ल्प­त­रत्वं तथाऽपि प्रकृते किं स्यादि­त्या­श­ङ्क्याऽऽह –
पुण्डरीक एवेति ।

किंशब्दस्य प्रश्नविषयत्वं व्यावर्तयति –
न किंचनेति ।

हृद­य­पु­ण्ड­री­का­न्त­र्व­र्ति­न­मा­का­श­मु­पे­त्याऽऽद्यं दूषयति –
यदि नामेति ।
फला­नु­प­ल­म्भोऽ­तः­शब्दः । तत्रे­त्य­न्त­र्व­र्त्या­का­शोक्तिः ।

शिष्या­चा­र्य­व्य­ति­रि­क्त­स्या­त्रा­प्र­स्तु­त­त्वा­त्क­स्येदं नियो­ग­व­च­न­मि­त्या­श­ङ्क्याऽऽह –
इति श्रुतेरिति ॥२॥

किमाचार्यो ब्रूया­दि­त्य­पे­क्षायां वक्ष्यमाणेऽर्थे शिष्याणां मनःसमाधानमादौ प्रार्थयत इत्याह –
श्रुणुतेति ।

श्रोतव्यमेव दर्शयितुं शिष्यै­रु­क्त­म­नु­व­दति –
तत्रेति ।

किमाकाशस्य स्वाभाविकं दहरत्वमुपेत्य चाद्यते किं वा परो­पा­धि­नि­मि­त्त­मिति विकल्प्याऽऽद्यं दूषयति –
तदसदिति ।
ततश्च तस्य स्वाभाविकं दहरत्वमाश्रित्य चोद्यं निरवकाशमिति शेषः ।

कथं तर्हि दह­र­त्वो­क्ति­रा­का­श­स्ये­त्या­श­ङ्क्याऽऽह –
किं तर्हीति ।
तस्मिन्विशुद्धे तावन्मात्रं ब्रह्म यथोक्तविशेषणं योगिनां विषयेभ्यो विमु­खी­कृ­ता­न्तः­क­र­णा­ना­मु­प­ल­भ्यत इति सम्बन्धः ।

अन्तःकरणस्य शुद्धत्वे दृष्टान्तमाह –
स्वच्छ इवेति ।
ब्रह्म­ण­स्त­स्मि­न्नु­प­ल­भ्य­मा­नत्वे प्रति­बि­म्ब­रू­प­मि­वे­त्यु­दा­ह­र­णम् । प्रति­प­त्ति­सौ­क­र्या­र्थ­मु­दा­ह­र­णा­न्त­रम् ।

ब्रह्मणो नैस­र्गि­क­मा­ग­न्तुकं च व्यवधानं नास्ती­त्यु­प­ल­ब्धि­सि­द्ध्यर्थं विशिनष्टि –
स्वच्छमिति ।

तादृगेव दहरत्वमादाय चोद्यते चेदनौपाधिकं महत्त्वमुपेत्य समाधिः सम्भवतीति कल्पान्तरं निरस्यति –
स्वतस्त्विति ।
यस्मि­न्न­न्वे­ष्ट­व्य­मा­श्र­येण सहेति शेषः ।

यावांस्तावानिति वचनादाकाशेन तुल्यपरिमाणत्वं ब्रह्म­णोऽ­भि­प्रेतं तथाच ज्याया­ना­का­शा­दि­त्यादि विरु­द्ध­मि­त्या­श­ङ्क्याऽऽह –
नापीति ।

केनाभिप्रायेण तर्हि तावानित्युक्तमत आह –
किं तर्हीति ।
“न तस्य प्रतिमाऽस्ति”(श्वे.उ. ४ । १९) इत्याकाशादि येन व्याप्तं लोकोऽनुभवति तस्मिन्नक्षरे सर्वमृगादि समाहितमित्यर्थः ।

कार्य­का­र­ण­यो­र­तु­ल्य­प­रि­मा­ण­त्व­प्र­सि­द्धेश्च नाऽऽकाशसमता ब्रह्म­णोऽ­स्ती­त्याह –
तस्मादिति ।

आधा­रा­धे­य­यो­स्तु­ल्य­प­रि­मा­ण­त्वा­च्चै­व­मि­त्याह –
एतस्मिन्निति ।

इतश्चाऽऽकाशस्य न स्वाभाविकं दहरत्वमित्याह –
किंचेति ।
कार्यं हि द्यावा­पृ­थि­व्यादि कारणे समाहितं तच्च हृदये ध्येय­मि­त्य­भि­प्रेत्य बुद्ध्यु­पा­धि­वि­शिष्ट इत्युक्तम् ।

आकाशे द्यावा­पृ­थि­व्यादिः समाहितत्वे भूमविद्यासंवादं दर्शयति –
यथा वेति ।
न विद्यते सर्वं तदा­स्मि­न्स­मा­हि­त­मिति सम्बन्धः ।

नास्ति­श­ब्द­स्या­त्य­न्ता­स­द्वि­ष­यत्वं व्यावर्तयति –
नष्टमिति ॥३॥

आश्र­य­ना­शा­दा­श्रि­त­नाशः स्यादिति न्यायमाश्रित्य शङ्कते –
तं चेदिति ।
यद्यस्मिन्सर्वं समाहितं ततो देहनाशे किमवशिष्यत इति सम्बन्धः ।

शिष्या­णा­म­धि­का­वापं दोषमाशङ्कते –
कथमिति ।

शङ्कितं दोषं परिहरति –
नैष दोष इति ।
सर्वं तद­स्मि­न्स­मा­हि­त­मि­त्य­त्रो­क्तेन सर्वशब्देनेति शेषः ।

शिष्या­णा­म­धि­का­वापं दोषं परिहृत्य प्रकृतं चोद्यं विवणोति –
यदेत्यादिना ।

आकाशस्य शिष्य­मा­ण­त्व­मा­श­ङ्क्याऽऽह –
घटेति ।
ततो यथो­क्ता­न्ना­शा­दिति सम्बन्धः ॥४॥

कया पुना रीत्या शून्यविषया शिष्य­म­ति­र­प­ने­त­व्येति प्रश्नपूर्वकं विवृणोति –
कथमित्यादिना ।

देहादिविक्रियया ब्रह्मणो न विक्रि­याऽ­स्ती­त्ये­त­त्कै­मु­ति­क­न्या­येन साधयति –
न चेति ।

देहादिषु तादात्म्येन स्थितं चेद्ब्रह्म दोषै­र­सं­स्पृ­ष्ट­मि­त्य­यु­क्त­मि­त्या­श­ङ्क्याऽऽह –
कथमिति ।
प्रकृता दहरोपासना तत्र व्यासङ्गो विक्षेपः ।

यदि देहा­दि­दो­षै­र­सं­स्पृ­ष्टत्वं ब्रह्मणो नोच्यते चेदेते न क्वचि­दु­प­प­द्यन्ते तर्हि तदविवक्षितमेव स्यादि­त्या­श­ङ्क्याऽऽह –
इन्द्रेति ।

नास्ये­त्या­दि­नोऽ­क्तेऽर्थे हेतुमाह –
एतदिति ।

कथं यथोक्तं ब्रह्मणः पुरमवितथं स्यादि­त्या­श­ङ्क्याऽऽह –
ब्रह्मैवेति ।
सत्य­श­ब्द­सा­मा­ना­धि­क­र­ण्या­दु­क्त­स­मा­स­सि­द्धि­रि­त्यर्थः ।

कथं तर्हि शरीरं ब्रह्म­पु­र­मि­त्यु­क्त­मत आह –
शरीराख्यं त्विति ।

तदेव स्फुटयितुं शरीरस्य मिथ्यात्वं सप्रमाणं दर्शयति –
तत्त्विति ।

अथ मिथ्याभूतस्य तस्य कथं ब्रह्मपुरत्वमत आह –
तद्विकार इति ।

किं च व्यावहारिकं सत्यमिदं शरीरं तद्युक्तं तस्यानृतस्यापि ब्रह्मो­प­ल­ब्ध्य­धि­ष्ठा­नस्य ब्रह्म­पु­र­त्व­मि­त्याह –
व्यावहारिकमिति ।

ब्रह्म तु पर­मा­र्थ­स­त्य­म­त­श्चै­त­देव सत्यमित्युक्तं ब्रह्म­पु­र­मि­त्याह –
सत्यं त्विति ।

ब्रह्मणः सत्यत्वेऽपि पुर­त्वा­यो­गा­त्कुतो ब्रह्म­पु­र­त्व­मि­त्या­श­ङ्क्याऽऽह –
सर्वव्यवहारेति ।

दह­रा­का­श­स्या­ल्पत्वं विना­शि­त्व­मि­त्या­श­ङ्कितं दोषं परि­हृ­त्यो­पा­स्य­त्व­सि­द्ध्यर्थं पातनिकां करोति –
अत इति ।

अस्मि­न्स­र्व­का­म­स­मा­धाने फलि­त­मु­पा­स­न­मु­प­दि­शति –
अतस्तदिति ।

यथोक्ते दहराकाशे कीदृगुपासनं कर्त­व्य­मि­त्य­पे­क्षा­या­म­हं­ग्र­हे­णे­त्याह –
एष इति ।

पुनरुक्तिं शङ्कते –
तदुक्तमिति ।

तां परिहरति –
यद्यपीति ।
अन्यथा देहसम्बन्धं विना स्वभा­व­तोऽ­पी­त्यर्थः । निवृत्त्यर्थं पुनरुच्यत इति पूर्वेण सम्बन्धः ।

प्रकारान्तरेण पुनरुक्तिं चोदयति –
नन्विति ।

शोकस्यान्ता किंचिद्व्यवधाय पिपासा येष्वस्ति ते शोकान्तास्तेषां जरा­दी­ना­म­प­ह­त­पा­प्म­त्वेन प्रतिषिद्धत्वे हेतुमाह –
कारणेति ।

कथं धर्मा­ध­र्म­प्र­ति­षेधे जरा­दि­वि­का­र­प्र­ति­षे­ध­स्त­त्राऽऽह –
धर्मेति ।
इति पृथ­क्प्र­ति­षे­धोऽ­न­र्थकः स्यादिति सम्बन्धः ।

जरा­दि­प्र­ति­षे­ध­स्या­र्थ­व­त्त्व­म­ङ्गी­कृत्य पाप्म­प्र­ति­षे­धस्य नैरर्थक्यमिति पक्षान्तरमाह –
जरादीति ।

धर्मा­दे­र्ज­रा­देर्वा निषे­धा­दि­त­र­नि­षेधः सिद्ध्य­ती­त्य­ङ्गी­क­रोति –
सत्यमेवमिति ।

तर्हि किमि­त्य­प­ह­त­पा­प्मे­त्युक्त्वा विजरो विमृ­त्यु­रि­त्या­द्यु­च्यते तत्राऽऽह –
तथाऽपीति ।

तथाऽपि दुःखे प्रतिषिद्धे किमिति जरादि प्रतिषिध्यते तत्राऽऽह –
जरादिति ।

यत्तु कार्याभावे सतोरपि धर्मा­ध­र्म­यो­रु­त्खा­त­द­न्तो­र­ग­व­द­किं­चि­त्क­र­त्वा­द­प­ह­त­पा­प्मेति न पृथ­ग्व­क्त­व्य­मिति तत्राऽऽह –
पाप­नि­मि­त्ता­ना­मिति ।

ईश्वरस्य सत्यकामत्वं साधयति –
वितथा हीति ।

यथे­श्व­र­स्या­वि­तथाः कामास्तथा संक­ल्पा­श्चे­त्याह –
तथेति ।

अभावरूपाणां धर्मा­णा­म­द्वै­ता­व्या­घा­त­म­क­त्वेन सम्भावितत्वेऽपि कथं भावरूपा धर्माः सम्भ­वे­यु­रि­त्या­श­ङ्क्याऽऽह –
संकल्पा इति ।
शुद्धसत्त्वं रज­स्त­मो­भ्या­म­स्पृष्टं त्रिगुणाया मायाया अंशभूतं तदे­वो­पा­धि­स्त­न्नि­मित्तं येषां ते तथा ।

अस्वाभाविकानां संक­ल्पा­दी­ना­मी­श्व­र­वि­शे­ष­णत्वे दृष्टान्तमाह –
चित्रगुवदिति ।
यथा चित्रा गावोऽ­स्वा­भा­वि­का­श्चि­त्र­गो­र्दे­व­द­त्तस्य विशेषणं तथा ब्रह्मणोऽपि कामादय इत्यर्थः ।

किमिति कामादयो ब्रह्मणि स्वाभाविका न भवन्ति धर्म­ध­र्मि­णो­रे­वो­प­चा­रा­द­द्वै­त­श्रु­ते­रु­प­प­त्ते­रि­त्या­श­ङ्क्याऽऽह –
न स्वत इति ।

वाक्या­न्त­र­म­व­ता­र­यितुं पातनिकां करोति –
यथोक्तेति ।

ज्ञानप्रकारं निमि­त्ता­धि­का­रि­प्र­द­र्श­न­पू­र्वकं दर्शयति –
गुरुभ्य इति ।

प्रश्नपूर्वकं यथा हीत्या­दि­वा­क्य­माह –
न चेदिति ।
यथा­का­शा­त्मा­प­रि­ज्ञा­न­म­त्रेति परामृष्टम् ।

अक्षरोत्यमर्थं ह्येवेत्यनेन दृष्टान्तेन दर्शयित्वा वाक्यार्थं कथयति –
यथा ह्येवेति ।

अमुमर्थं प्रश्न­पू­र्व­क­म­न्वा­चष्टे –
किमित्यादिना ।

उक्तदृष्टान्तेन विव­क्षि­त­मं­श­म­नू­द्य­दृ­ष्टा­न्ता­न्त­रस्य तात्पर्यमाह –
एष इति ॥५ ॥

केषामेष दोषो भव­ती­त्या­का­ङ्क्षा­या­माह –
उक्त इति ।
कर्मसाध्यस्य पारतन्त्र्यं क्षयिष्णुत्वं च ज्ञान­ही­न­क­र्म­सा­ध्य­वि­ष­य­ब्र­ह्मो­पा­स­का­ना­मेष दोषो भवतीति दर्श­य­त्त्यु­त्तरं वाक्यमित्यर्थः ।

अवि­दु­षा­मे­वा­स्वा­त­न्त्र्य­दो­ष­मुक्त्वा विदुषां स्वातन्त्र्यफलं कथयति –
अथेत्यादिना ॥६॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­कायां अष्टमाधायस्य प्रथमः खण्डः ॥

उक्त­मे­वा­र्थ­मा­का­ङ्क्षा­पू­र्व­क­मु­प­पा­द­यति –
कथमित्यादिना ॥१॥

सुखहेतुभूता इति कुतो विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह –
सामर्थ्यादिति ।

तदेव स्फुटयति –
नहीति ॥२-९॥

तेन ज्ञान­मा­हा­त्म्ये­नेति यावत् ॥१०॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य द्वितीयः खण्डः ॥

त इमे सत्याः कामा इत्या­दे­स्ता­त्प­र्य­माह –
यथोक्तेति ।
आह समनन्तरा श्रुतिरिति शेषः ।

तमेवानुक्रोशं दर्शयति –
कष्टमिति ।
अनृ­त­म­पि­धा­न­मि­वा­पि­धानं तेषांमिति सम्बन्धः ।

किं तदनृतं तदाह –
बाह्येति ।

कथं तद­पि­धा­न­मा­त्म­स्थानां कामा­ना­मि­त्या­श­ङ्क्याऽऽह –
तन्निमित्तमिति ।

उक्त­म­र्थ­मा­का­ङ्क्षा­पू­र्व­क­मु­त्तरं वाक्य­म­व­ता­र्यो­प­पा­द­यति –
कथमित्यादिना ।
तं हृदयाकाशे स्वात्मनि सन्तमपि द्रष्टु­मि­च्छ­न्नपि यस्मान्न लभते तस्मा­द­नृ­ता­पि­धानं निमित्तं कृत्वा तदलाभो भवतीति योजना ॥१॥

इतश्च तेषामलाभे निमि­त्त­म­नृ­ता­पि­धा­न­मे­वे­त्याह –
अथ पुनरिति ।
यथोक्तेन विधि­ने­त्यु­पा­स्ति­प्र­का­रोक्तिः ।

आत्मस्थानां कामा­ना­म­नृ­ता­पि­धा­न­त्व­मुक्तं निगमयति –
अत्रेति ।
यस्मा­द­वि­द्व­द्भि­र­लभ्या विद्वद्भिश्च लभ्याः सत्याः कामाः सर्वाधारे जगन्मूलकारणे ब्रह्मणि स्वात्मभूते वर्तन्ते तस्मात्ते भव­न्त्य­नृ­ता­पि­धानाः । सत्या­म­वि­द्या­या­म­नु­प­ल­म्भा­द्वि­द्यया तत्प्रशमने चोप­ल­म्भा­दि­त्यर्थः ।

यदुक्तं ब्रह्मणि स्वात्मनि कामाः सन्तोऽपि नोपलभ्यन्त इत्यन्याय्यमिति तत्र दृष्टान्तं प्रश्न­पू­र्व­क­मु­त्थाप्य व्याचष्टे –
कथमिवेत्यादिना ।
तत्र स्वाय­त्त­स्या­प्य­प्राप्तौ दृष्टान्तो निर्दिश्यत इति शेषः ।

दार्ष्टान्तिकं व्याकरोति –
एवमेवेति ।

अला­भ­प्र­का­र­म­भि­न­यति –
एषोऽहमिति ।

तत्र हेतुमाह –
अनृतेनेति ।
यथोक्तेन मिथ्या­ज्ञा­न­श­ब्दि­ता­ना­द्य­नि­र्वा­च्या­ज्ञा­न­कृ­तेन तृष्णाप्रभेदेन तन्नि­मि­त्ते­ने­च्छा­प्र­चा­रे­णे­त्यर्थः । तस्मात्प्रजानां स्वात्म­भू­त­ब्र­ह्म­लो­का­लाभ इति शेषः ।

स्वरूपादनृतेन हृतत्वमेव स्फोरयति –
अविद्यादीति ।

प्रकृ­त­मा­क्रो­श­मु­प­सं­ह­रति –
अत इति ॥२॥

अनुक्रोशद्वारा यथो­क्त­ब्र­ह्म­ध्या­ना­नु­ष्ठाने प्रयत्नस्य कर्तव्यतोक्ता, सम्प्रति नामादाविव हृदये ब्रह्म­दृ­ष्ट्या­रो­प­मा­त्र­मिति शङ्कां वार­यि­तु­म­न­न्त­र­वा­क्य­म­व­तार्य व्याकरोति –
स वा इत्यादिना ।

कथमात्मा यथोक्तो हृदयेऽस्तीति गम्यते तत्राऽऽह –
तस्येति ।

यथो­क्ता­व­ग­ति­फ­ल­माह –
अहरहरिति ।

एवंविदिति विशे­ष­ण­म­मृ­ष्य­माणः शङ्कते –
नन्विति ।

अनेवंविदोऽपि सुषुप्तिकाले ब्रह्म­प्रा­प्ति­म­ङ्गी­क­रोति –
बाधमेवमिति ।

तर्हि किमि­त्ये­वं­वि­दिति विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह –
तथाऽपीति ।

विद्व­द­वि­दु­षो­र्वि­शे­ष­मेव दृष्टान्तेन स्पष्टयति –
यथेति ।
त्वं तदसीत्याचार्येण प्रतिबोधितो विद्वान्सदेव भव­त्य­न्य­स्त्व­वि­द्वा­न­स्मीति देहादिकमेव जानन्न सदेव भवतीति योजना । देह­पा­तेऽ­पी­त्य­पि­श­ब्देन जीवदवस्था दृष्टान्तिता ॥३॥

संप्रसादस्य विदुषो यन्मु­क्त्या­ल­म्बनं शुद्धं ब्रह्म तत्ता­दा­त्म्यो­प­दे­शे­नो­पास्यं स्तोतुं संप्र­सा­द­श­ब्दार्थं कथयति –
सुषुप्तेति ।
सम्य­क्प्र­सी­द­तीति संप्रसादो विद्वानिति शेषः ।

स्वाभा­वि­क­मे­वाऽऽ­त्मनः स्वास्थ्यं कथं सुषुप्ते प्रसीदतीति विशेष्यते तत्राऽऽह –
जाग्रदिति ।

जहातीति सुषुप्तः पुरुषः संप्रसाद इति विशे­ष­व्यु­त्प­त्ति­ब­लेन संप्रसादशब्दः सौषु­प्त­स­र्व­जी­व­सा­धा­र­ण­स्त­त्क­थ­मेष संप्रसाद इति सन्नि­हि­त­वि­द्व­त्प­रा­म­र्श­स्त­त्राऽऽह –
संप्रसादशब्द इति ।
तस्य सौषु­प्त­स­र्व­जी­व­सा­धा­र­ण­त्वेऽपि प्रक्र­म­व­शा­द्वि­द्वा­ने­वैष संप्रसाद इति व्यपदिश्यते । यथा सन्निहितोऽर्थो यत्नविशेषादेष इति शब्द­श­क्ति­व­शा­दु­च्यते तथेहापीत्यर्थः । एष एवंवित्प्रकृतः संप्रसादः स विद्वानिति यावत् । विवे­का­न­न्त­र्य­म­थ­श­ब्दार्थः ।

समुत्थानशब्दस्य मुख्यार्थत्वं वारयति –
न त्विति ।

देहा­द्व्यु­त्थि­त­स्यापि स्वेन रूपे­णा­मि­नि­ष्प­त्ति­र्भ­वि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
न हीति ।

कुतोऽयं स्वरू­पेऽ­भि­नि­ष्प­त्ति­प्र­यो­ग­स्त­त्राऽऽह –
प्रागिति ।
एतच्छब्दः सम्य­ग्ज्ञा­न­वि­षयः । अना­त्म­स्व­रू­प­प्र­ति­प­त्ति­भ्रा­न्ति­नि­वृ­त्त्य­पे­क्षया स्वरू­प­सं­प­त्ति­रु­प­च­रि­ते­त्यर्थः ।

किं तत्स्वरूपमिति तदाह –
अशरीरता हीति ।
यथा मिथ्या­रू­प्य­ता­दा­त्म्य­नि­वृत्तौ स्वाभा­वि­के­ना­रू­प्या­त्मना शुक्तिरवतिष्ठते तथा शरी­र­ता­दा­त्म्य­भ्रा­न्ति­नि­वृत्तौ तदभावोपलक्षितं स्वच्छं स्वरू­प­मे­वा­व­स्थितं भवतीत्यर्थः ।

एष आत्मेति होवा­चे­त्य­त्रै­ष­श­ब्दा­र्थ­माह –
यत्स्वमिति ।

कोऽसा­वु­क्ति­क­र्ते­त्या­का­ङ्क्षा­या­माह –
स ब्रूयादिति ।

न केवलमात्मत्वमेव प्रकृतस्य ज्योतिषः किन्तु रूपा­न्त­र­त्व­म­स्ती­त्याह –
किञ्चेति ।

अविनाशित्वे हेतुमाह –
भूमेति ।

तथाऽपि कथमविनाशित्वं तत्राऽऽह –
यो वा इति ।
इतिशब्दो हेत्वर्थः । यस्मा­द्य­थो­क्त­ल­क्षणं ब्रह्म तस्मा­त्त­दु­पा­स­ना­म­र्ह­ती­त्यर्थः ।

उपास्यस्य ब्रह्मणो नाम निर्दिशति –
तस्येति ।

उक्तस्य पुन­रु­क्ति­र­न­र्थि­के­त्या­शङ्क्य परिहरति –
किम­र्थ­मि­त्या­दिना ॥४॥

उपा­स्य­स्तु­त्यर्थं नामोक्त्वा तादर्थ्येनैव नामाक्षराणि प्रस्तौति –
तानीति ।

तानि कानी­त्य­पे­क्षा­या­माह –
एतानीति ।

कथं तकार इत्युच्यत ईकारस्यापि तत्र भावा­दि­त्या­श­ङ्क्याऽऽह –
ईकार इति ।

तत्र हेतुमाह –
ह्रस्वेनेति ।
दीर्घ­मी­का­र­मु­द्दिश्य ह्रस्वं पुन­र­नु­व­द­न्न­वि­व­क्षि­त­त्व­मेव नामाक्षरेषु तस्य सूचयतीत्यर्थः ।

त्रया­णा­म­क्ष­रा­णा­म­वा­न्त­र­भेदं दर्शयति –
तेषामिति ।
निर्धारणे षष्ठी । वर्ण­वि­भा­गा­न­न्त­र्य­म­थ­श­ब्दार्थः । तका­र­स्या­क्ष­र­सा­मा­न्या­न्म­र्त्य­त्वम् ।

कथमक्षरे पूर्वे यमित्यक्षरेण प्रयोक्ता निय­म­य­ती­त्या­का­ङ्क्षायां निय­म­न­स्वा­भा­व्ये­ने­त्याह –
आत्मन इति ।

यमित्यक्षरस्य निय­म­न­स्वा­भा­व्य­मेव साधयति –
यद्यस्मादिति ।

तस्य तत्स्व­भा­व­त्वेऽ­नु­भ­व­म­नु­कू­ल­यति –
संयते इवेति ।
यमा यमि­त्य­क्ष­रे­णे­त्यर्थः ।

तस्य पूर्वा­भ्या­मु­प­रि­ष्टा­द्भा­वित्वं तन्नियामकत्वे हेतुरिति मत्वाऽऽह –
एतेनेति ।
लक्ष्येते पूर्वे अक्षरे इति शेषः ।

ब्रह्मणः सत्यमिति नाम तस्य यन्निर्वचनं कृतं तस्य प्रयोजनमाह –
ब्रह्मेति ।

फल­वा­क्य­स्थ­मे­वं­वि­त्पदं व्याकरोति –
एवमिति ।

वाक्यं तु न व्याख्येयं प्रागेव व्याख्या­त­त्वा­दि­त्याह –
अहरिति ॥५॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­कायां अष्टमाध्यायस्य तृतीयः खण्डः ॥

वाक्या­न्त­र­मा­दत्ते –
अथेति ।

तस्य तात्पर्यमाह –
उक्तलक्षण इति ।
प्रकारान्तरेण स्तुति­प्रा­र­म्भार्थो वाक्य­स्थोऽ­थ­शब्दः ।

किमिति स्तुति­रि­त्य­पे­क्षायां स्तुत्ये ब्रह्मण्याधारे ब्रह्म­च­र्या­ख्यस्य साधनस्य सम्ब­न्ध­वि­धा­ना­र्थ­मि­त्याह –
ब्रह्मचर्येति ।

यथा मृदादिमयः सेतु­र्व्य­व­स्था­हे­तु­र­स्येदं क्षेत्रमिति तथाऽयमपि व्यव­स्था­हे­तु­रि­त्याह –
सेतुरिवेति ।

सेतुत्वं साधयति –
विधृतिरिति ।

विधा­र­क­त्व­मु­प­पा­द­यति –
अनेनेति ।
वर्णा­श्र­मा­दी­त्या­दि­शब्दो वयोवस्थाविषयः । फला­दी­त्या­दि­श­ब्दस्तु तद­वा­न्त­र­जा­ती­य­वि­षयः । कर्त्र­नु­रू­प­क्रि­या­दि­भे­द­वि­ष­य­नि­यमः सह वर्णा­दि­व्य­व­स्था­प­यता परमेश्वरेण सर्वं जगद्विधृतमिति सम्बन्धः ।

अन्व­य­मु­खे­नो­क्त­मेव व्यति­रे­क­मु­खे­नाऽऽह –
अध्रियमाणं हीति ।

उक्तमेवार्थं प्रश्नपूर्वकं विशदयति –
किम­र्थ­मि­त्या­दिना ।

नैतमिति प्रतीकग्रहणं यत्तद्व्याचष्टे –
सेतुमित्यादिना ।

तदेव वैध­र्म्य­दृ­ष्टा­न्तेन स्पष्टयति –
यथेत्यादिना ।

परमात्मनो न काल­प­रि­च्छे­द्य­ते­त्य­त्राऽऽ­थ­र्व­ण­श्रुतिं प्रमाणयति –
यस्मादिति ।

तरतीति तर­ते­र­ति­क्र­म­णार्थो नाऽऽत्मनि सम्भवतीत्यत्र हेतुमाह –
कारणं हीति ।

कार्यस्य कारणातिक्रमणं माभूत् अहो­रा­त्रा­दे­स्त्वा­त्मा­ति­क्र­मणं किं न स्यादि­त्या­श­ङ्क्याऽऽह –
अहोरात्रादि चेति ।

तर­ते­र­ति­क्र­म­णा­र्थ­त्व­म­ङ्गी­कृ­त्यापि निषेधे हेतुमाह –
अन्येनेति ।

तर­ति­वा­क्य­स्या­प­ह­त­पा­प्मा­दि­वा­क्येन पौन­रु­क्त्य­मा­शङ्क्य परिहरति –
यद्यपीति ।

विशे­ष­णा­ना­मा­न­न्त्या­त्प्र­त्येकं प्रति­षे­ध­व­च­ना­स­म्भ­व­म­भि­प्रे­त्याऽऽह –
अहोरात्राद्या हीति ।

पाप्म­का­र्या­णा­मा­त्मा­न­म­प्रा­प्यैव निवृत्तौ हेतुमाह –
अपहतेति ॥१॥

यथो­क्त­से­तु­प्राप्तौ फलितमाह –
यस्मादिति ।

स्वाभा­वि­क­म­स्या­न­र्थ­त्व­मि­त्या­श­ङ्क्याऽऽह –
देहवत्त्व इति ।
विद्धो दुःखादिसम्बन्धी ।

इत­श्चाऽऽ­त्म­से­तो­रस्ति महा­भा­ग­धे­य­त्व­मि­त्याह –
किंचेति ।

कथं सर्वमपि तमोरूपमहरेव विदुषः स्यान्नहि विद्ययाऽपि विरुद्धोऽर्थः सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह –
विज्ञप्तीति ।

तत्र हेतुमाह –
सकृदिति ।
ब्रह्म­ल­क्ष­णोऽ­वेद्यो लोकः स्वप्र­का­श­चि­दे­क­तानो यतोऽ­व­ति­ष्ठ­तेऽ­त­स्त­द्रू­प­त्वा­द्वि­दुषो यथो­क्त­रू­प­त्व­म­वि­रु­द्ध­मि­त्यर्थः ॥२॥

विद्याफले यथोक्तरीत्या व्यवस्थिते सत्येतत्फलं विद्यावत्त्वेन केषां सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह –
तत्रेति ।
ब्रह्मचर्यवतां विद्याद्वारा ब्रह्माख्यो लोकः फलतीत्यर्थः ।

तेषा­मे­वे­त्ये­व­का­र­द्यो­ति­त­म­र्थ­माह –
नान्येषामिति ।
ब्रह्मविदामपीति वाङ्मा­त्र­ब्र­ह्म­वि­त्त्व­मु­च्यते । तेषां ब्रह्मचर्यवतां ब्रह्मविदामिति यावत् ।

ब्रह्म­च­र्य­सा­ध­न­व­ता­मेव ब्रह्मवित्त्वेन ब्रह्माख्या लोको भवतीति स्थिते फलितमाह –
तस्मादिति ।
साधनं ब्रह्म­वि­द्या­या­मिति शेषः । ब्रह्मविदामिति भाविनीं वृत्ति­मा­श्रि­त्यो­क्तम् ॥३॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य चतुर्थः खण्डः ॥

अथ यथो­क्त­प­र­मा­त्म­प्रा­प्ति­सा­धने ज्ञाने सह­का­रि­ब्र­ह्म­चर्यं प्रागेवोक्तं तथाच कृतं ब्रह्म­च­र्य­वि­ष­ये­णो­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याऽऽह –
य आत्मेति ।
शमा­द्य­पे­क्ष­याऽ­न्त­र­शब्दः । उक्तमपि ब्रह्मचर्यं विधा­तु­म­न­न्त­र­ग्र­न्थ­प्र­वृ­त्ति­रि­त्यर्थः ।

किमिति तर्हि तस्य स्तुति­रि­त्या­शङ्क्य तस्या विधिशेषत्वं दर्शयति –
यज्ञादिभिश्चेति ।

श्रुतिराहोत्तरं वाक्यमित्युक्तं तदादाय व्याकरोति –
अथेत्यादिना ।
ब्रह्म­च­र्य­स्यो­क्त­रीत्या विधित्सितत्वे तदी­य­स्तु­ति­प्रा­र­म्भा­र्थोऽ­थ­शब्दः ।

यज्ञस्य ब्रह्म­च­र्येऽ­न्त­र्भावं साधयति –
यज्ञस्यापीति ।

उक्त­मे­वा­र्थ­मा­का­ङ्क्षा­द्वारा समर्थयते –
कथमित्यादिना ।
पारम्पर्येण चित्त­शु­द्धि­द्वा­रे­णे­त्यर्थः ।

न केवलं फलद्वारा यज्ञो ब्रह्म­च­र्येऽ­न्त­र्भ­वति किन्तु यका­र­ज्ञ­का­र­स­म्स्प­र्शा­द­पी­त्याह –
यो ज्ञातेति ।

इष्टस्य ब्रह्म­च­र्या­न्त­र्भा­व­मा­का­ङ्क्षा­द्वारा स्फोरयति –
कथमित्यादिना ।
पूजयित्वा तमा­त्मा­न­म­नु­नि­न्दत इति सम्बन्धः ।

ब्रह्म­च­र्ये­णाऽ­त्म­वि­ष­यै­षणं निष्पाद्यते इष्टेनापि तदेव सम्पाद्यते तस्मा­दे­ष­णा­दु­भ­य­सा­दृ­श्या­दि­ष्ट­मपि यज्ञ­व­द्ब्र­ह्म­च­र्य­मे­वे­त्याह –
एषणादिति ॥१॥

बहुयजमानकं वैदिकं कर्म सत्त्रायणम् । तथा यज्ञ­व­दि­ष्ट­व­च्चे­त्यर्थः । कथं सत्त्रायणं ब्रह्म­च­र्येऽ­न्त­र्भ­व­ती­त्या­श­ङ्क्याऽऽह –
सत इति ॥२॥

उप­वा­स­प­रा­य­ण­त्व­म­ना­श­का­यनं तत्कथं ब्रह्म­च­र्येऽ­न्त­र्भ­व­ती­त्या­श­ङ्क्याऽऽह –
यमात्मानमिति ।

अर­ण्या­य­न­म­र­ण्य­वा­स­स्त­त्कथं ब्रह्म­च­र्या­न्त­र्भू­त­मि­त्या­श­ङ्क्याऽऽह –
अरण्यशब्दयोरिति ।

विस्त­रे­णो­क्त­मर्थं संक्षिप्याऽऽह –
यो ज्ञाना­दि­त्या­दिना ।
यो ब्रह्म­च­र्ये­णाऽ­त्मनो ज्ञानादात्मानं विन्दते स ब्रह्मलोकं लभते तस्माद्यज्ञो ब्रह्मचर्यमिति योजना । आदिशब्देन स्वस्य पर­म­पु­रु­षा­र्थ­सा­ध­नत्वं गृह्यते ॥३॥

ब्रह्मचर्यस्य स्तुत­त्वा­त्त­द्वि­षयं विधिमिक्त्वा तत्स­ह­कृ­त­वि­द्या­सा­ध्य­फलं कथयति –
तत्तत्र (ही)ति ।

ब्रह्म­च­र्य­स्या­त्य­ल्प­सा­ध­न­त्वा­न्म­हती स्तुतिरयुक्ता तद्ब्रह्मचर्येण ज्ञानमुपलक्ष्य तदेव स्तूयत इति मतमुत्थापयति –
नन्वत्रेति ।

तस्य क्षुद्र­सा­ध­न­त्व­म­सिद्धं दुर­नु­ष्टे­य­त्वा­त्त­द्व्य­ति­रे­केण ज्ञाना­स­म्भ­वा­च्चे­त्यु­त्त­र­माह –
नेत्यादिना ।

विष­या­प­हृ­त­चि­त्तानां नराणां विवेकासम्भवे प्रमाणमाह –
पराञ्चीति ।
ध्यायतो विषयानित्याद्या स्मृतिरत्र विवक्षिता ।

ब्रह्म­च­र्य­स्यो­त्त­म­सा­ध­नत्वे सिद्धे फलितमाह –
ज्ञानेति ।

ब्रह्म­लो­क­प्रा­प्ति­सा­ध­नस्य ब्रह्मचर्यस्य यज्ञादिभिः स्तुत­त्वा­त्ते­षा­मपि तत्प्रा­प्ति­सा­ध­नत्वं श्रुत्याऽ­भि­प्रे­त­मिति शङ्कते –
नन्विति ।

किं तेषां पुरु­षा­र्थ­सा­ध­नत्वं प्रस्तु­त­श्रुत्या प्रतीतं किं वा ब्रह्म­लो­क­सा­ध­न­त्व­मिति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

न द्वितीयो वाक्य­भे­द­प्र­स­ङ्गा­दि­त्याह –
न त्विति ।

कथं तर्हि यज्ञा­दि­भि­र्ब्र­ह्म­च­र्य­स्तु­ति­स्त­त्राऽऽह –
किं तर्हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेति ।
त्वमि­न्द्रस्त्वं विष्णु­रि­त्या­दिना विप्रादिभी राजा स्तूयते तथाऽपि न तस्ये­न्द्रा­दि­व्या­पारे निरङ्कुशं कर्तृत्वमस्तीति यथेष्यते तथा यज्ञा­दि­भि­र्ब्र­ह्म­च­र्यस्य स्तुतस्यापि नास्ति तुल्य­फ­ल­त्व­मि­त्यर्थः ।

ब्रह्म­लो­क­स्था­न्प­दा­र्था­न्नि­र्णेतुं विचा­र­म­व­ता­र­य­न्नादौ तद्विषयमाह –
य इम इति ।

तत्रैकं पक्षमुत्थाप्य दृष्टान्तेन तदु­त्थि­ति­प्र­का­र­माह –
ते किमिति ।

पक्षान्तरं स्वप्न­दृ­ष्टा­न्त­व­शा­द्द­र्श­यति –
आहोस्विदिति ।

कस्मिन्पक्षे को लाभः को वा दोषः, इति शिष्यः पृच्छति –
किंचात इति ।

घटस्थौल्ये दोष­द­र्श­ना­न्मा­न­स­त्त्वेन सौक्ष्म्ये च पुरा­णा­नु­ग्र­ह­सं­भ­वात्ते मानसा एवेत्याह –
यदीति ।
न केवलं तेषां स्थौल्ये स’त्युभे अस्मि­न्नि’त्या­दि­श्रुत्या पुराणस्मृत्या च विरोधः किं त्वशोकं संता­प­व­र्जि­त­म­हिमं शीतस्पर्शशून्यं ब्रह्म­लो­क­मु­प­य­न्ती­त्या­द्याश्च श्रुतयो ब्रह्मलोकं निरू­प­य­न्त्य­स्त­त्र­त्या­ना­म­र्थानां स्थौल्ये विरुध्येरन् ।

स्थूलानां पदार्थानां तत्र सत्त्वे शीत­स्प­र्शा­दे­र­व­र्ज­नी­य­त्वा­दि­त्याह –
अशोकमिति ।

ब्राह्म­लौ­कि­क­प­दा­र्थानां मानसत्वे पुरा­ण­स्मृ­त्य­न्त­र­वि­रोधं शङ्कते –
नन्विति ।

किं दृश्यमानरूपेण समुद्रादीनां ब्रह्मलोकगमनं स्मृत्यर्थः किं वा स्वरू­पा­न्त­रे­णेति विकल्प्याऽद्यं दूषयति –
न मूर्तिमत्व इति ।
उभ­य­त्रा­नु­प­ल­म्भ­प्र­स­ङ्गा­दिति ।

प्रथ­म­प­क्षा­यो­गे­द्वि­ती­यं­प­क्षं­प­रि­शि­ष्ट­मा­चष्टे –
तस्मादिति ।

अस्तु द्वितीयो विकल्पः का नो हानि­रि­त्या­शङ्क्य ब्रह्मलके मानसेन देहेन मानसादीनामेव सागरादीनां मानसरूपेण सह सम्ब­न्धो­प­प­त्ते­र्मा­नस्य एव मूर्तयस्तेषां ब्रह्म­लो­क­स्थाः­क­ल्प­यितुं युक्ता इत्याह –
तुल्यायां चेति ।

तर्हि मनो­र­थ­क­ल्पि­त­व­द­ति­च­ञ्च­ल­त्वा­द्भो­ग­यो­ग्या­का­रत्वं सागरादीनां न स्यादि­त्या­श­ङ्क्याह –
दृष्टा हीति ।

स्वप्नतुल्यत्वे मिथ्या­त्व­प्र­स­क्ति­रिति शङ्कते –
नन्विति ।

प्रस­ङ्ग­स्ये­ष्ट­त्व­मा­शङ्क्य श्रुतिविरोधमाह –
त इम इति ।
ये स्वप्ने दृष्टास्ते न सन्ति न तु न दृष्टा इति दर्शनं न बाध्यते तथा च स्वाप्न­सं­वे­द­नस्य सत्यत्वमिष्टं तथैव ब्राह्म­लौ­कि­कानां पदर्थानाम् ।

मानस्य इति दृष्टान्तं विवृणोति –
मानसा हीति ।

जागरिते संविदतिरिक्ताः सन्ति पदा­र्था­स्त­द्वा­स­ना­रू­पास्ते स्वप्ने भान्ति न तु संविदात्मकत्वं तेषामिति शङ्कते –
नन्विति ।

जागरितस्यापि संवि­द्वि­व­र्त­त्वान्न पृथगस्ति सत्व­मि­त्यु­त्त­र­माह –
अत्यल्पमिति ।

भूम­वि­द्या­लो­च­ना­या­मपि जाग्रद्विषयाणां संवि­द्वि­व­र्तत्वं सेत्स्यतीत्याह –
संकल्पमूला हीति ।
इतश्च जाग्रद्विषयाणां संवि­द्वि­व­र्त­त्व­मि­त्याह सर्वश्रुतिषु चेति । ननु कुलालो घटं चिकीर्षुर्मनसि संकल्पितमाकारं बहिर्निर्मिमीते तत्र सङ्कल्पो बाह्याकरस्य निमित्तं संकल्पश्च पूर्वा­नु­भू­त­स­जा­ती­य­गो­चरः पूर्वानुभूतोऽपि पूर्व­त­र­सं­क­ल्प­नि­मित्त इति निमि­त्त­नै­मि­त्ति­क­भावः ।

सर्वस्य संवि­द्वि­व­र्तत्वे कथमुपपद्यते तत्राऽह –
तस्मादिति ।
यस्मात्सतः सर्वस्येक्षणं पूर्व­क­ल्पी­य­स­दृ­श­गो­चरं पूर्व­क­ल्पी­या­स्ततः पूर्व­त­रे­क्ष­ण­नि­मित्ता इति संविदेवेत्थं स्वाविद्यया विवर्तते निरवयवस्य सन्मात्रस्य स्वार­स्ये­ने­क्ष­णा­द्य­नु­प­प­त्ते­स्त­स्मा­त्स­र्वस्य संवि­द्वि­व­र्त­त्वेऽपि निमि­त्त­नै­मि­त्ति­क­भा­वोऽ­य­म­नि­र्वाच्यो न विरुध्यत इत्यर्थः ।

अथ सच्छ­ब्द­वा­च्यायाः संवि­दोऽ­नि­र्वा­च्य­स्प­न्द­न­काले ये विषया बाह्यतया भासन्ते तेषां कदाचिदपि संविदतिरेकेण सत्त्वा­न­ङ्गी­का­रा­दा­द्य­न्ता­स­त्त्व­ल­क्ष­ण­म­नृ­त­त्व­मा­प­द्येत तथा च व्यव­हा­र­भ­ङ्ग­प्र­स­ङ्ग­स्त­त्राऽऽह –
यद्यपीति ।
तथाऽपि नानृ­त­त्व­मि­त्य­ध्या­हारः अध्य­स्त­स्या­धि­ष्ठा­न­मेव स्वात्मा­त­स्मिन्न कदा­चि­द­प्य­त्य­न्ता­सत्त्वं तादात्मयेनैव स्फुरणादतो न व्यव­हा­र­भ­ङ्ग­प्र­सङ्ग इति भावः ।

कदाचिदपि नानृतत्वमिति वदता प्रती­ति­का­ला­त्का­ला­न्त­रेऽपि विषयाणां नास­त्त्व­मि­त्युक्तं तत्रानुभवविरोधं शङ्कते –
नन्विति ।

स्वप्नदृष्टानां समीहितमेव कालान्तरे मिथ्या­त्व­मि­त्य­ङ्गी­क­रोति –
सत्यमिति ।

तर्हि तेषामसत्त्वमेव स्वीकृ­त­मि­त्या­श­ङ्क्याऽऽह –
जाग्रदिति ।

तथाऽपि जाग्र­द्बो­धे­ना­वि­ष­यी­क­र­णा­द­सत्त्वं स्वप्न­दृ­ष्टा­ना­मे­ष्ट­व्य­मि­त्या­श­ङ्क्याऽऽह –
तथेति ।
यदि जाग्र­द्बो­धे­ना­वि­ष­यी­क­र­ण­मा­त्रे­णा­सत्त्वं स्वप्नदृष्टानां पदार्थानामिष्टं तर्हि जाग्र­द्वि­ष­या­णा­मपि स्वप्न­बो­धे­ना­वि­ष­यी­क­र­णा­द­स­त्त्व­प्र­स­ङ्ग­स्तन्न कदाचिदपि संविदि विष­या­णा­म­त्य­न्ता­स­त्त्व­मि­त्यर्थः ।

कथं तर्हि वाचा­र­म्भ­ण­श्रु­ति­रि­त्या­श­ङ्क्याऽऽह –
विशेषेति ।

त्रयाणां रूपाणां सत्यत्वे विशेषाकारमात्रं मिथ्ये­त्यु­क्त­म­युक्तं तेष्वपि विशेषाकारस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह –
तान्यपीति ।

कथं तर्हि तेषु सत्यपदं प्रयु­क्त­मि­त्या­श­ङ्क्याऽऽह –
स्वत इति ।

तर्हि तत्स­त्य­मि­त्ये­ता­व­त्प्र­यो­क्तव्यं किमिति त्रीणि रूपाणीत्येव सत्यमित्युक्तं तत्राऽऽह –
प्रागिति ।

प्रकृतमुपसंहरति –
तस्मादिति ।
प्रथ­म­प­क्ष­व­द्द्वि­ती­य­पक्षे दोषाभावादिति यावत् ।

यद्यै­हि­क­वि­ष­य­व­द्ब्रा­ह्म­लौ­किका अपि विषया विचार्यमाणाः सत्यास्तर्हि कस्तत्र विशेषो येनै­त­त्प­रि­त्या­गेन तत्कामिनां विद्याविधानं तत्राऽऽह –
बाह्येति ।
जन्या ब्रह्मलोके विषया इति शेषः । प्रकृतायाः फल­श्रु­ते­रि­त्य­ध्या­हारः ।

ननु तेषा­म­वि­द्या­द­शा­या­म­र्थ­क्रि­या­का­रि­त्व­रू­प­स­त्य­त्व­सं­भ­वेऽपि कुतो विद्यावस्थायां सत्य­त्व­मि­त्या­श­ङ्क्याऽह –
सत्सत्येति ।
यथा रज्ज्वां कल्पितसर्पादयो रज्जुतत्त्वबोधे तदा­त्म­ता­मे­वाऽऽ­पा­द्यन्ते विवेचनात्तथा सर्वेऽपि विषया विद्या­व­स्था­या­म­न्व­य­व्य­ति­रे­काभ्यां परि­हा­रा­या­स­न्मा­त्र­त्व­मेव प्राप्नुवन्तीति तत्स­त्य­त्व­म­वि­रु­द्ध­मि­त्यर्थः ॥४॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य पञ्चमः खण्डः ॥

सगु­ण­वि­द्या­फ­ल­स्व­रू­प­मि­त्थ­मु­प­पाद्य तत्प्राप्तये गतिर्वक्तव्येति नाडी­ख­ण्ड­म­व­ता­र­यति –
यस्त्विति ।
यथोक्तो गुणः सत्यकामत्वादिः । ब्रह्म­च­र्या­दी­त्या­दि­शब्दः शम­द­मा­दि­स­ङ्ग्र­हार्थः ।

तमे­वाऽऽ­दि­श­ब्दार्थं स्पष्टयति –
त्यक्तेति ।
अधिकारिणः सफ­लो­पा­स्ति­वि­ध्या­न­न्त­र्य­म­थ­श­ब्दार्थः । रसेनान्नस्येति शेषः । तदाकारा इति तच्छ­ब्दोऽ­न्न­र­स­वि­षयः । शुक्ल­स्ये­त्या­दि­षष्ठी पूर्ववत् । श्रुता­वि­ति­श­ब्दोऽ­ध्या­हा­र­द्यो­त­नार्थः ।

कथं पुनरन्नरसस्य पिङ्ग­ला­दि­वि­चित्रो वर्णविशेषः सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह –
सौरेणेति ।
यत्पित्ताख्यं सौरं तेजस्तेन पाकोऽशितस्य पीतस्य च जायते तेना­भि­नि­र्वृ­त्ते­ना­ल्पेन कफेन संपर्कात्तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलं तेन संपर्काद्रसस्य नाडीनां च जायते पिङ्ग­ल­त्व­मि­त्यर्थः ।

तदेव च पित्ताख्यं सौरं तेजो यथो­क्त­पा­का­भि­नि­र्वृ­त्तेन प्रभूतेन वातेन सम्ब­न्धा­त्त­द्भू­य­स्त्वा­द्भ­वति नीलं तेन च संप­र्का­द­न्न­र­सस्य नाडीनां च जायते नैल्यमित्याह –
तदेवेति ।

प्रकृतमेव पित्ताख्यं सौरं तेजो यथो­क्त­पा­क­व­शा­द­भि­नि­र्वृ­त्त­क­फस्य स्वसम्बन्धिनो भूयस्त्वाद्भवति शुक्लं तेन च सम्प­र्का­द­न्न­र­सस्य नाडीनां च शौक्ल्यं भवतीत्याह –
तदेव चेति ।

उक्त­पा­का­भि­नि­र्वृ­त्तेन कफेन तद­भि­नि­र्वृ­त्त­स्यैव वातस्य समतायां तदेव तेज­स्त­त्स­म्बन्धि पीतं जायते तत्स­म्ब­न्धा­च्चा­न्न­र­सस्य च नाडीनां च पीतत्वं भवतीत्याह –
कफेनेति ।

यदा तु यथो­क्त­पा­का­भि­नि­ष्पन्नं शोणितं बहुलं भवति तदा तस्य नाडीनां च लौहित्यं भवतीत्याह –
शोणितेति ।

पक्षान्तरमाह –
वैद्यकाद्वेति ।

अन्वे­ष­ण­प्र­का­र­माह –
कथमिति ।
नाभेरूर्ध्वं हृद­या­द­ध­स्ता­दा­मा­श­य­मा­च­क्षते । तद्गतं तेजःसौरं पित्त­मि­त्यु­च्यते । तच्चान्नरसस्य धात्व­न्त­र­स­ह­का­रि­व­शा­द्व­र्ण­वि­शेषे कारणम् । “आमाशयगतं पित्तं रञ्जकं रसरञ्जनात्”(अ.हृ. १३ । २५) इत्या­दि­व­च­ना­दि­त्यर्थः ।

कथं तर्हि पिङ्ग­ल­स्ये­त्याद्या श्रुति­रि­त्या­श­ङ्क्याऽऽह –
श्रुतिस्त्विति ।

उक्त­म­र्थ­मा­का­ङ्क्षा­द्वारा स्फोरयति –
कथमित्यादिना ।
आदित्यस्य पैङ्गल्यादयो वर्णविशेषाः शास्त्र­प्रा­मा­ण्या­देव प्रत्येतव्याः ॥१॥

आदित्यस्य तेजसो नाडीष्वनुगतस्य पैङ्गल्यादयो वर्णविशेषा भवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टा­न्ता­व­ष्ट­म्भेन स्पष्टयति –
तस्येत्यादिना ।
उभ­य­त्राऽऽ­दि­त्य­म­ण्डले पुरुषे चेत्यर्थः ।

तत्र पूर्वोक्तमेव दृष्टा­न्त­म­नु­व­दति –
यथेति ।
उभौ ग्रामौ महापथो यथा गच्छति तथो­भ­य­त्राऽऽ­दि­त्यस्य रश्मयः प्रविष्टाः इत्यर्थः ।

तमेव प्रवेशं प्रश्नद्वारा प्रकटयति –
कथमित्यादिना ।

कथं नाडीनां पिङ्ग­ला­दि­व­र्ण­त्व­मि­त्या­शङ्क्य सौरेण तेज­से­त्या­दि­नोक्तं स्मारयति –
यथोक्तास्त्विति ।
अमु­ष्मि­न्ना­दित्ये सृप्ता इति सम्बन्धः ।

कथं स्त्रीलिङ्गेन निर्दिष्टानां रश्मीनां पुंलिङ्गेन निर्दे­श­स्त­त्राऽऽह –
रश्मीनामिति ॥२॥

नाडी­स्व­रू­प­मुक्त्वा विज्ञा­ना­त्म­स्वा­पा­धि­क­र­ण­त्वेन ताः स्तोतुमादौ स्वापं प्रस्तौति –
तत्तत्रेति ।

सप्तम्यर्थमेव स्फुटयति –
एवं सतीति ।
नाडीस्वरूपे पूर्वोक्तरीत्या निरूपिते सतीत्यर्थः । एतत्स्वपनमिति क्रियाविशेषणम् ।

सम­स्त­वि­शे­ष­ण­स्या­र्थ­व­त्व­माह –
स्वापस्येति ।
दर्श­न­वृ­त्ति­म­द­द­र्श­न­वृ­त्ति­श्चेति द्विप्रकारत्वं स्वापस्येष्टम् । तत्र दर्शनवृत्तेः स्वापस्य व्यावृत्त्यर्थं समस्त इति विशेषणम् ।

तस्य संपि­ण्डि­त­म­र्थ­माह –
उपसंहृतेति ।

विशे­ष­णा­न्त­र­मु­त्थाप्य व्याकरोति –
अत इति ।
उप­सं­हृ­त­स­र्व­क­र­ण­त्वा­दिति यावत् ।

उक्तं विशे­ष­ण­द्व­य­मु­प­जीव्य स्वप्नमित्यादि व्याचष्टे –
अत एवेति ।

नाडीषु प्रविष्टो भवतीति यदुक्तं तदयुक्तं य एषोऽन्तर्हृदय आकशस्तस्मिञ्शेत इत्य­ङ्गी­का­रा­दि­त्या­श­ङ्क्याऽऽह –
नाडीभिरिति ।

नाडीष्विति श्रुता सप्तमी कथं नाडीभिरिति तृतीयया व्याख्यायते तत्राऽऽह –
न हीति ।
तदेति सुषु­प्त्य­व­स्थो­च्यते ।

तस्यामवस्थायां कर्माभावे कथं पुन­रु­त्था­न­मि­त्या­श­ङ्क्याऽऽह –
देहेति ।
सुख­दुः­खा­नु­भ­वा­भा­वा­त्पा­प्मा­सं­स्प­र्शोऽत्र विवक्षितो न तु कर्मा­भा­वा­दि­त्यर्थः ।

अविषयत्वं साधयति –
अन्यो हीति ।

सुषुप्ते स्वरूपावस्थस्य कथं प्रच्य­व­न­मि­त्या­श­ङ्क्याऽऽह –
स्वरूपेति ।
अवि­द्या­का­म­क­र्मणां बीजमनाद्यज्ञानं तस्य ब्रह्म­वि­द्या­ख्ये­ना­ग्नीना न स्वापे दाह­स्त­न्नि­मित्तं सुषुप्तस्य पुनः स्वरू­प­प्र­च्य­व­न­मिति सम्बन्धः ।

तदेव व्याचष्टे –
जाग्रदिति ।

कीदृ­क्प्र­च्य­व­न­मि­त्य­पे­क्षा­या­माह –
बाह्येति ।

एतच्च सति सम्पद्य न विदु­रि­त्या­दा­वु­दि­त­मि­त्याह –
इत्यवोचामेति ।

तेजसा हेति पाप्मास्पर्शे श्रौतौ हेतुस्तं हेतुं व्याचष्टे –
यदेति ।

तद्व्या­प्ति­का­र्य­माह –
अत इति ।

कार्य­क­र­ण­सं­स्प­र्शा­भा­व­फलं दर्शयति –
तस्मादिति ॥३॥

नाडीरेवं स्तुत्वा ताभिरूर्ध्वगमनं प्रदर्शयितुं मरणकालं प्रसञ्जयति –
तत्रेति ।

तस्यैवार्थमाह –
एवं सतीति ।
नाडी­ना­मु­क्त­रीत्या प्राशस्त्ये सतीत्यर्थः । ताभि­रू­र्ध्व­ग­म­न­प्र­द­र्श­न­प्रा­र­म्भा­र्थोऽ­थ­शब्दः । रोगा­दी­त्या­दि­प­द­मा­ग­न्तु­क­स­र्व­नि­मि­त्त­सं­ग्र­हा­र्थम् । जरादीत्यादिपदं तु नैस­र्गि­क­स­र्व­नि­मि­त्त­द्यो­त­ना­र्थ­मिति भेदः । एतन्नयनमिति क्रियाविशेषणम् ॥४॥

प्रार­ब्ध­क­र्मा­व­सा­ना­र्थोऽ­थ­शब्दः । एतदिति क्रिया­वि­शे­ष­ण­मे­त­दु­त्क्र­मणं यथा स्यात्त­थे­त्यर्थः । यथो­क्ता­भि­र्ना­डीषु प्रसृ­ता­भि­रा­दि­त्य­म­ण्ड­ला­दा­ग­ता­भि­रिति यावत् । कर्मणा जितं वशीकृतं स्वात्म­स­म्ब­न्धि­ता­मा­पा­दितं लोकमनतिक्रम्य तं प्रत्य­वि­द्वा­न्के­व­ल­क­र्म­वा­न्ग­च्छ­ती­त्यर्थः । दहरविद्यावतो गतिं दर्शयति –
इतरस्त्विति ।
यथोक्तसाधनं दहरविज्ञानं तेन सम्पन्नो विशिष्ट इत्यर्थः । ध्याय­न्ग­च्छ­ती­त्यु­त्त­रत्र सम्बन्धः । यथापूर्वं स्वस्था­व­स्था­या­मिव मर­णा­व­स्था­या­म­पी­त्यर्थः ।

वा हेति­नि­पा­त­द्व­य­स्या­व­धा­र­ण­रू­प­मर्थं कथयति –
एवेति ।

उच्छब्दार्थमाह –
ऊर्ध्वमिति ।

वाशब्देन द्योतितं विकल्पं दर्शयति –
विद्वा­ञ्श्चे­दिति ।
यदि विद्वा­न्प्र­मी­यते तदोर्ध्वमेव गच्छति । यदि त्ववि­द्वा­न्प्र­मी­यते तदा तिर्यगेव गच्छतीति विभागः ।

विदु­ष­स्त्य­क्त­दे­ह­स्याऽऽ­दि­त्य­प्रा­प्ता­व­त्य­न्त­शैघ्र्यं दर्श­यि­तु­म­न­न्त­र­वा­क्य­मा­दत्ते –
स विद्वानिति ।

तद्व्याचष्टे –
यावतेति ।

आदित्यप्राप्तौ किं स्यादित्यत आह –
अत इति ।

अविदुषामपि तर्हि प्राप्ता­ना­मा­दित्यं ततो निरुद्धानां पुन­र्ब्र­ह्म­लो­का­प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह –
सौरेणेति ।

देहे निरुद्धानां मूर्धन्यया नाड्या नोत्क्र­म­ण­म­वि­दु­षा­मि­त्यत्र लिङ्गं दर्शयति –
विष्वङ्ङिति ॥५॥

यथोक्तोऽर्थो नाडीविभागलक्षणः । प्रधानत इति विशे­ष­ण­ता­त्प­र्य­माह –
आनन्त्यादिति ।
प्रकरणं नाडीविषयं दहरविद्याविषयं वा ॥६॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य षष्ठः खण्डः ॥

दह­र­वि­द्या­या­मु­पास्य स्तुत्य­र्थ­मु­क्त­म­नु­व­दति –
अथेति ।
विवे­का­न­न्त­र्य­म­थ­श­ब्दार्थो व्याख्यातः । शरी­रा­त्स­मु­त्थानं तस्मि­न्न­हं­म­मा­भि­मा­न­त्यागः ।

स्वरूपं विशिनष्टि –
एष इति ।
उक्ति­क­र्तृ­त्व­मा­चा­र्यस्य दर्शितमेव ।

प्राणो वा संप्रसादो विज्ञानात्मा वेति संशयात्पृच्छति –
तत्रेति ।
प्रकृतं वाक्यं सप्तम्यर्थः ।

तस्य च संप्रसादस्य परमात्मविषयं ज्ञानं केनोपायेन भवतीति प्रश्नान्तरमाह –
कथं वेति ।

किं तस्य पर­मा­त्मा­धि­ग­मे­ने­त्या­श­ङ्क्याऽऽह –
यथेति ।
तथा तस्याधिगमः कथमिति सम्बन्धः ।

अभि­नि­ष्प­द्य­मा­न­रू­प­श्चाऽऽत्मा सविशेषो निर्विशेषो वेति­प्र­श्ना­न्तरं करोति –
येनेति ।

आत्मनो हि सच्चि­दा­न­न्दै­क­ता­ना­द­र्था­न्त­राणि रूपाणि दृश्यमानानि शरी­र­स­म्ब­न्ध­प्र­यु­क्तानि । तथा च ततः शरी­रा­दु­पा­धे­र्य­द­न्य­त्तस्य स्वरूपं तत्कथं सर्व­प्र­मा­णा­प्र­ति­प­न्न­म­स्तीति प्रश्नान्तरमाह –
सम्प्रसादस्य चेति ।

एतेषां प्रश्ना­ना­मु­त्त­र­त्वे­नो­त्त­र­ग्र­न्थ­म­व­ता­र­यति –
इत्येत इति ।

प्रजा­प­ते­रि­न्द्र­वि­रो­च­न­योश्च संवादरूपा याऽत्राऽ­ख्या­यिका दृश्यते सा किम­र्थे­त्या­श­ङ्क्याऽह –
आख्यायिका त्विति ।
शिष्यस्य विद्याया ग्रहणे गुरो­स्त­स्याः­स­म्य­क्प्र­दाने च यो विधिः श्रद्धा­लु­त्वा­दि­प्र­का­र­स्त­त्प्र­द­र्श­ना­र्थेति यावत् । यद्वा विद्याया ग्रहणं स्वीकरणं यत्र संप्रदाने तद्दानपात्रे शिष्ये दृश्यते तस्य विधि­र्ब्र­ह्म­च­र्या­दि­स्त­त्प्र­द­र्श­ना­र्थे­त्यर्थः ।

आख्या­यि­का­या­स्ता­त्प­र्या­न्त­र­माह –
विद्येति ।
प्रजापतिना प्रोक्ता देवैरसुरैश्च प्रार्थि­ते­न्द्र­वि­रो­च­नाभ्यां देवा­सु­रा­धि­प­ति­भ्या­मा­या­सेन महता प्रेप्सिता देवराजेन च कथंचित्प्राप्ता तस्मा­न्म­हा­र्हेयं विद्येति तस्याः स्तुत्य­र्थाऽऽ­ख्या­यि­के­त्यर्थः ।

मह­द्भि­रु­पा­सि­तस्य महार्हत्वे दृष्टान्तमाह –
राजसेवितमिति ।

यन्मायोपाधि सविशेषं चैतन्यं निरुपाधि निर्विशेषमिति सवि­शे­ष­नि­र्वि­शे­ष­यो­र­भे­दा­भि­प्रा­येण प्रजापतिवाक्यं व्याक­र्तु­मा­दत्ते –
य आत्मेति ।

तत्र सोऽन्वेष्टव्य इति वाक्ये सशब्दार्थमाह –
यस्येति ।

उपासनमपि किम­र्थ­मि­त्य­पे­क्षा­या­माह –
उपलब्ध्यर्थमिति ।
तस्यैतत्फलमिति सम्बन्धः ।

कथं निर्गु­ण­वि­द्यायाः सर्व­लो­क­का­मा­वाप्तिः फल­मि­त्या­श­ङ्क्याऽऽह –
सर्वात्मतेति ।
परि­च्छे­द­भ्र­म­व्या­वृत्त्या पूर्ण­स्व­रू­पे­णा­व­स्थि­ति­रि­त्यर्थः ।

प्रजा­प­ति­वा­क्या­त्प्र­ती­य­मा­न­वि­धि­स्व­रू­प­माह –
अन्वेष्टव्य इति ।

एव­का­र­व्या­वर्त्यं दर्शयति –
नापूर्वविधिरिति ।
शब्दादेव विद्योदये तदु­त्प­त्त्य­र्थोऽ­पू­र्व­वि­धि­र­ग्नि­हो­त्रा­दि­वि­धि­वन्न सम्भवतीत्यर्थः ।

कथमिह नियमविधिरपि स्याद­व­घा­त­वि­धि­व­दि­त्या­श­ङ्क्याऽऽह –
एवमिति ।
मिथ्या­ज्ञा­न­सं­स्का­र­प्रा­ब­ल्या­द­ना­त्मा­भि­नि­वे­शस्य पक्षे प्राप्तौ शास्त्रा­चा­र्या­भ्या­मा­त्मा­न्वे­ष­ण­मेव कार्यमिति नियम इत्यर्थः ।

इतश्च नियमविधिरेव नापू­र्व­वि­धि­रि­त्याह –
दृष्टा­र्थ­त्वा­दिति ।
अन्वे­ष­ण­वि­जि­ज्ञा­स­नाभ्यां ज्ञानसाधनमुक्तं तस्य च विद्या­द्वा­राऽ­वि­द्या­नि­वृ­त्ति­र्दृ­ष्ट­मेव फल­म­न्व­य­व्य­ति­र­काभ्यां तद्धे­तु­त्वा­व­ग­मा­त्तथा च तत्र नापू­र्व­वि­धे­र­व­का­शोऽ­स्ती­त्यर्थः ।

तयो­र्दृ­ष्ट­फ­लत्वे वाक्य­शे­ष­म­नु­कू­ल­यति –
दृष्टार्थत्वं चेति ।

कथ­म­स­कृ­त्प्र­यु­क्तेन न पश्यामीति वर्त­मा­ना­प­दे­शे­ना­न्वे­ष­णा­दे­र्दृ­ष्ट­फ­ल­ते­त्या­शङ्क्य देहा­ति­रि­क्ता­त्म­वा­दिनां वाक्यो­त्थ­ज्ञा­ना­द­नु­मा­नाच्च मनु­ष्य­त्वा­दि­भ्र­म­नि­वृ­त्ति­प्र­सि­द्धे­र्मै­व­मि­त्य­भि­प्रे­त्याऽऽह –
पररूपेणेति ।

अन्वे­ष­णा­दे­र्दृ­ष्ट­फ­लत्वे फलितमाह –
इति नियमार्थतेति ।
अपूर्वविधित्वं तद्विषयत्वमिति यावत् । इहे­त्य­न्वे­ष­णा­दे­रु­क्ति­र­ग्नि­हो­त्रा­दि­व­द­न्वे­ष­णा­दे­र­त्य­न्ता­प्रा­प्त्य­भा­व­स्यो­क्त­त्वा­दि­त्यर्थः॥१॥

इदा­नी­मा­ख्या­यिकां व्याख्या­तु­मा­ख्या­यिका तु विद्या­ग्र­ह­ण­सं­प्र­दा­न­वि­धि­प्र­द­र्श­ना­र्थे­त्या­दि­नोक्तं स्मारयति –
तद्धेति ।

अव­ता­रि­ता­ख्या­यि­का­क्ष­राणि व्याचष्टे –
तद्धेत्यादिना ।

किमि­ती­न्द्र­वि­रो­चनौ विद्यार्थिनावपि परिकरं परित्यज्य शरीरमात्रेण प्रजापतिं प्रगतवन्तौ तत्राऽह –
विनयेनेति ।

तयो­रु­क्त­रू­प­ग­ति­व­शा­दे­व­द­र्शि­त­म­र्था­न्तरं कथयति –
त्रैलोक्येति ।
विद्येति दर्शयतीति पूर्वेण सम्बन्धः ।

तस्या गुरुतरत्वे हेतुमाह –
यत इति ।
सविदंमैत्रीम् ॥२॥

तमात्मानं ज्ञातु­मि­च्छ­न्ता­व­वा­स्वेति वक्त­व्येऽ­प्य­वा­स्त­मिति प्रजा­प­ति­व­चो­नु­क­र्ष­ण­मा­त्र­मिति द्रष्टव्यम् । अथे­न्द्र­वि­रो­च­न­यो­र्मिथो वैरिणोरपि विद्यार्थित्वेन चिरमेकत्र ब्रह्मचर्यवासेन सूचितमर्थं दर्शयति –
तेनेति ॥३॥

शुद्धकल्मषौ प्रक्षा­लि­त­दो­षा­विति यावत् । पुरुषो द्रष्टेति सम्बन्धः । अस्म­दा­दि­भि­स्तत्र द्रष्टा दृष्टो नास्ती­त्या­श­ङ्क्याऽऽह –
निवृत्तेति ।

इन्द्रियाणां विषयेभ्यो वैमुख्ये हेतुमाह –
मृदितेति ।
योगिभिः समा­धि­नि­ष्ठै­र­न्त­र्दृ­ष्टि­भि­रिति यावत् ।

यआ­त्मे­त्या­दि­वा­क्ये­ना­स्यै­क­वा­क्यतां दर्शयति –
एष इति ।

भूमविद्यया चास्यै­क­वा­क्यत्वं सूचयति –
भूमाख्यमिति ।
इतिशब्दो वाक्य­स­मा­प्त्यर्थः ।

उक्तेऽर्थे वाक्यं पातयति –
अथ योऽयमिति ।
प्रश्ना­र्थोऽ­थ­शब्दः । इतिशब्दः समाप्त्यर्थः ।

यश्च­क्षु­रु­प­ल­क्षितो द्रष्टैष एव मयो­क्तोऽ­प­ह­त­पा­प्मा­दि­ध­र्म­वा­नात्मा युवाभ्यां पुन­र­न्य­था­गृ­ही­त­मिति निपातेन सूच­य­न्नु­क्त­वा­न्प्र­जा­प­ति­रि­त्याह –
एवमिति ।

प्रजा­प­ति­श्चे­दे­व­मु­क्त­वा­न्कथं तर्हि तयोर्वैमुख्यं न निवृ­त्त­मि­त्या­श­ङ्क्याऽऽह –
एतदिति ।
यथोक्तवचोरूपं वस्त्विति यावत् ।

यत्प्रजापतिना मनसि निहितं तत्प्रकटीकर्तुं चोदयति –
नन्विति ।

शिष्टशिष्यगतं विप­री­त­ग्र­ह­ण­मा­चा­र्ये­णा­नु­ज्ञा­तु­म­यु­क्त­मि­त्य­ङ्गी­कृत्य प्रजा­प­ते­र­भि­प्रा­य­माह –
सत्यमेवमिति ।

कथं तर्हि तयो­र्वि­प­री­त­ग्र­ह­ण­म­प­ने­त­व्य­मि­त्या­श­ङ्क्याऽऽह –
गृह्णीतां तावदिति ।
तावद्विपरीतमिति शेषः । चकारेण क्रिया­प­द­म­नु­कृ­ष्यते ।