आनन्दगिरिटीका (छान्दोग्य)
अष्टमोऽध्यायः: प्रथमः खण्डः (२)
यद्यदाचरति श्रेष्ठ इति न्यायेन सर्वेषां मृषावादित्वं स्यादिति शङ्कते –
नन्विति ।
प्राजापत्यमभिप्रायमेव प्रकटयन्नतिप्रसङ्गं परिहर्तुं तदीयमनृतवादित्वं दूषयति –
न चेति ।
तदेवाऽऽकाङ्क्षापूर्वकं स्फुटयति –
कथमित्यादिना ।
शिष्याभ्यां गृहीतो योऽयमात्मा ततः सकाशादात्मना स्वेनैव प्रजापतिनोक्तो योऽस्त्यक्ष्युपलक्षितो द्रष्टा समनसि प्रजापतेः सन्निहिततरोऽतः स एव तेनोक्त इत्यर्थः ।
इतश्च द्रष्टा प्रजापतेर्मनसि सन्निहिततर इत्याह –
सर्वेषां चेति ।
प्रजापतेर्मनसि द्रष्टुः सन्निहितत्वेऽपि कथं तस्य न मृषावादित्वमत आह –
तमेवेति ।
इतश्च प्रजापतेर्नमृषावादित्वमित्याह –
तथा चेति ॥४॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य सप्तमः खण्डः॥
आत्मानमुदशरावेऽवेक्ष्य तं तत्राऽत्मानं पश्यन्तौ तावनन्तरं यदात्मनो न विजानीथो युवां तन्मे प्रब्रूतमिति सम्बन्धः । प्रजापतिवचनमुपक्रमानुकूलं न भवतीति शङ्कते –
नन्विति ।
उपक्रममतिक्रम्य ब्रुवाणस्य प्रजापतेरभिप्रायमाह –
उच्यत इति ।
तत्र प्रथममिन्द्रविरोचनाभ्यामावाभ्यामिदमविदितमिति प्रजापतिं प्रत्यवचने कारणमाह –
नैवेति ।
छायात्मनि च्छायायां तद्धेतौ शरीरे चेन्द्रविरोचनयोर्यथाक्रममात्मधीरियं निश्चिता प्रवृत्तेत्यर्थः ।
तयोस्तत्राऽऽत्मप्रत्ययस्य निश्चितत्वे गमकमाह –
येनेति ।
प्रव्रजनेऽपि शान्तहृदययोस्तयोः सत्यप्रत्ययस्य कथं निश्चितत्वमित्याशङ्क्याऽऽह –
नहीति ।
तेन विपरीतग्राहित्वेनेति यावत् ।
उक्तमगृहीत्वा विपरीतं गृहीतवन्तौ तर्हि प्रजापतिनोपेक्षणीयौ कुबुद्धित्वादित्याशङ्क्य प्राजापत्यमभिप्रायमाह –
विपरीतग्राहिणौ चेति ।
कथमिदं प्रजापतेरभिमतमित्यधिगतमत आह –
विपरीतेति ।
प्राजापत्ये प्रश्ने देवासुरराजयोर्विपरीतग्रहणमनुवदति –
तौ हेति ॥१॥
तदपनयनप्रकारं सूचयति –
तौ ह पुनरिति ।
छायायां तद्धेतौ च देहे तयोरात्मनिश्चयो यस्तस्य निरासायेति यावत् । इह चेति पर्यायोक्तिः । नाऽऽदिदेश तत्प्रयोजनाभावादित्यर्थः ।
उक्तोदाहरणेन च्छायायां देहे चेन्द्रविरोचनयोरात्मप्रत्ययो नापनीतो भवतीति शङ्कते –
कथमिति ।
छायायास्तत्कारणस्य चाऽऽगन्तुकत्वादनात्मत्वमत्र विवक्षितमित्युत्तरमाह –
साध्वलंकारेति ।
पूर्वमुदकादिसम्बन्धावस्थायामिति यावत् ।
व्यभिचारित्वाच्च च्छायातत्कारणयोरनात्मत्वमित्याह –
शरीरैकदेशानामिति ।
उपपत्तिभ्यां सिद्धमर्थं निगमयति –
इत्युदशरावादाविति ।
न केवलं छायातत्कारणयोरेवानात्मत्वं किं तूक्तन्यायेनाहंकारादीनां तद्धर्माणां चाऽऽत्मीयत्वं प्रयुक्तमिति प्रसङ्गादतिदिशति –
न केवलमिति ।
आत्मत्वाभिमतमहंकारादीति शेषः । मोहादादात्मीयत्वाभिमतमित्यध्याहार्यम् ।
एतेनेति सूचितमेव हेतुं दर्शयति –
कादाचित्कत्वादिति ।
अनात्मेत्यनात्मत्वमनात्मीयत्वोपलक्षणार्थम् ।
तर्हि तयोर्यथोक्तरीत्या विपरीतग्रहणस्यापगतत्वात्किमुत्तरेण प्रजापतिवाक्येनेत्याशङ्क्याऽऽह –
एवमिति ॥२॥
तथैवेत्यस्य व्याख्यानं पूर्ववदिति । यथैवेदमिति प्रतीकग्रहणं तद्व्याचष्टे –
यथेति ।
आवां स्व इतीदमुदाहरणं यथैवेति सम्बन्धः । अक्षिवाक्यादुदशराववाक्यात्साध्वलंकारवाक्याच्च च्छायातद्धेत्वोरन्यतरस्यैवाऽऽत्मत्वमभ्यासादिति भ्रमातिशयः सुतरामित्युक्तः ।
प्रजापतिवाक्यमुत्थापयति –
यस्येत्यादिना ।
वाक्यव्याख्यानमतिदिशति –
पूर्ववदिति ।
एषशब्देन तयोरभिप्रेतमेवाऽऽत्मानं छायाख्यं देहाख्यं च परामृश्य प्रजापतिरनुमोदितवानित्याशङ्क्याऽऽह –
नत्विति ।
तौ ह शान्तहृदयावित्यादिवाक्यस्य तात्पर्यमाह –
य आत्मेत्यादीति ।
संस्कृतौ तावद्भवतामिति शेषः ।
संस्कृतयोरपि तयोरात्मविषये कथं विवेको भविष्यतीत्याशङ्क्याऽऽह –
मद्वचनमिति ।
उपेक्षायां कारणान्तरमाह –
पुनरिति ।
किमिति शान्तहृदयत्वं तुष्टहृदयत्वेन व्याख्यायते हृदयगतः शम एव किं न विवक्ष्यते तत्राऽऽह –
न त्विति॥३॥
यदि प्रजापतिस्तावुपेक्षितवान्किमिति तर्हि तौ हान्वीक्ष्येत्यादिवाक्यमित्याशङ्क्याऽऽह –
एवं तयोरिति ।
प्रजापतिरुवाचेति सम्बन्धः ।
तर्हि किमिति तावाहूय नोक्तवानित्याशङ्क्याऽऽह –
प्रत्यक्षवचनेनेति ।
कर्तृत्वेन सम्बन्धार्थमुक्तमेव पुनरनुवदति –
प्रजापतिरिति ।
किमसावूचिवानित्यपेक्षायामाह –
अनुपलभ्येति ।
यथोक्तं प्रजापतिवाक्यं श्रुत्वाऽपि गच्छतोरिन्द्रविरोचनयोर्विरोचनगतमवान्तरविशेषमाह –
स्वगृहमिति ।
पित्रा तथोक्तत्वेऽपि किमस्माभिस्तत्र कर्तव्यमित्याशङ्क्याऽऽह –
तस्मादिति ।
तथा पूजनीत्यत्ववदिति यावत् । तथेत्युक्तप्रकारोक्तिः ।
तथाऽपि प्रार्थिता सर्वलोककामावाप्तिरसिद्धेत्याशङ्क्याऽऽह –
इह लोकेति ॥४॥
विरोचनसम्प्रदायस्याविच्छिन्नत्वं दर्शयति –
तस्मादिति ।
देहात्मवादस्याऽऽसुरत्वादिति यावत् । तत्संप्रदायस्तेषां विरोचनप्रभृतीनामसुराणां संप्रदायो देहात्मत्वोपदेशः ।
किमित्यात्मत्वादिरहितमासुरमाहुरित्यपेक्षायामाह –
आसुराणां हीति ।
प्रकृतोपनिषत्कार्यं कथयति –
तयेति॥५॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्याष्टमः खण्डः॥
एवं विरोचनगतं विशेषं दर्शयित्वा देवराजगामिनं विशेषमाह –
अथेत्यादिना ।
द्वयोस्तुल्येऽपि प्राजापत्यवाक्यश्रवणे देवराजस्यैव कथं पथि तदनुसन्धानं वृत्तमित्याशङ्क्याऽऽह –
दैव्येति ।
स्मरणफलमाह –
स्मरन्नेवेति ।
प्रजापतिवचनं स्मरतोऽपि कथमिन्द्रस्य च्छायात्मग्रहणे दोषदर्शनमित्याशङ्क्याऽऽह –
उदशरावेति ।
यदर्थो देहादेरनात्मत्वज्ञापनायेति यावत् । कादाचित्कत्वव्यभिचारित्वादिर्न्यायः तदेकदेशो व्यभिचारिणोऽनात्मत्वम् ।
न्यायैकदेशदृष्टिफलमाचष्टे –
येनेति ।
दोषदर्शनमेवाऽऽकाङ्क्षाद्वारा स्फोरयति –
कथमित्यादिना ।
उदाहृते वाक्ये विवक्षितमर्थं कथयति –
यथेति ।
परिष्कृतो भवतीत्येतद्व्याचष्टे –
नखेति ।
एवमेव देहस्य नखाद्यपगमे छायात्मनोऽपि तदपगमवदित्यर्थः । शरीरेऽस्मिन्नन्धे सति च्छायात्माऽप्यन्धो भवतीति सम्बन्धः ।
किमिति देहस्याऽऽन्ध्ये छायात्मनस्तदिष्टमित्याशङ्क्याऽऽह –
नखलोमादिभिरिति ।
तैः सह चक्षुरादीनां तुल्यत्वाद्देहावयवत्वस्य देहेनखाद्यभावे छायायामपि तदभावाभ्युपगमाद्देहे चक्षुराद्यभावेऽपि च्छायाया तदभावो युक्त इत्यर्थः ।
स्रामशब्दस्यापुनरुक्तमर्थं कथयति –
स्रामः किलेति ।
पदार्थमुक्त्वा वाक्यार्थमाह –
स्राम इति ।
पारतन्त्र्यादनात्मत्वं छायाया दर्शयित्वा तत्रैव हेत्वन्तरमाह –
तथेति ॥१॥
विनाशित्वादियुक्तिदर्शनफलमुपसम्हरति –
अत इति ।
दोषं दृष्ट्वा यथोक्तरीत्या किं कृतवानित्यपेक्षायामाह –
इत्येवमिति ।
सर्वज्ञो हि प्रजापतिरिन्द्राभिप्रायं जानन्नेव किमर्थं प्राकृतवत्पृच्छतीत्याशङ्क्याऽऽह –
विजानन्नपीति ।
आचार्यस्य ज्ञातवतोऽपि शिष्यं प्रत्यभिप्रायविशेषेण ज्ञातुं प्रश्नोपपत्तौ दृष्टान्तमाह –
यद्वेथेति ।
तथा च प्रजापतिप्रश्नानुरोधेनेति यावत् । इन्द्रविषयः स्वशब्दः।
शिष्ययोः श्रवणसाम्येऽपि प्रतिपत्तिवैषम्ये निमित्तं पृच्छति –
नन्विति ।
आचार्यमतोपन्यासद्वारा परिहरति –
तत्रेति ।
तत्र प्रतिपत्तिविशेषे दृष्टान्तेन निमित्तविशेषं दर्शयति –
यथेति ।
आचार्योक्तबुद्ध्या तात्पर्येण प्रजापतिना छायात्मैवोक्त इति भ्रान्त्येत्यर्थः ।
विरोचनस्येन्द्रवच्छायात्मग्रहणमाचार्योक्तबुद्ध्या नाभूदित्याह –
न तथेति ।
कथं तर्हि तस्याऽऽत्मदर्शनमित्याशङ्क्याऽऽह –
देह एवेति ।
आचार्येणाऽत्मा देह एवोक्त इति बुद्ध्या तत्रैव विरोचनस्याऽऽत्मज्ञानमासीदित्यर्थः ।
इन्द्रस्य छायात्मग्रहणे देवानप्राप्तस्यैवमार्गमध्ये दोषदर्शनवद्विरोचनस्यासुरानप्राप्तस्याध्वनि देहात्मदर्शने दोषदर्शनं च न प्रवृत्तमित्याह –
नापीति ।
दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह –
तद्वदेवेति ।
विद्याग्रहणौपयिकस्य सामर्थ्यस्य प्रतिबन्धभूतो यो रागादिदोषस्तदल्पत्वापेक्षमिन्द्रस्य च्छायायामात्मग्रहणमित्युक्तं व्यक्तीकरोति –
इन्द्र इति ।
यथोक्तदोषभूयत्वापेक्षं गृह्णतो विरोचनस्याभिप्रायं दृष्टान्तेन दर्शयति –
यथेत्यादिना ।
उक्तमर्थं बृहदारण्यकश्रुत्यवष्टम्भेन स्पष्टयति –
स्वचित्तेति ।
देवान्मनुष्यानसुरांश्च प्रजापतिना दकारोपदेशे साधारण्येन कृते तेषां तदीयश्रवणे तुल्येऽपि तदर्थविशेषावधारणं स्वचित्तगुणदोषवशादेव बृहदारण्यके ख्यापितं तथेहापीत्यर्थः ।
तत्र वा कथं तुल्येऽपि श्रवणेऽर्थविशेषबुद्धिस्तत्राऽऽह –
दाम्यतेति ।
अदान्ता हि वयं स्वभावस्तेन दाम्यतेत्यस्मान्प्रति पितोक्तवानिति देवानां मतिराविरासीत् । स्वभावतो लुब्धा वयं तेन दत्तेत्यस्मान्प्रत्युक्तवान्पितेति मनुष्याणां बुद्धिरासीत् । सुक्रूरा हि वयं स्वभावस्तेन दयध्वमित्यस्मान्प्रति प्रजापतिरूचिवानित्यसुराणां प्रतिपत्तिर्बभूव । तदेवं दकारमात्रश्रवणादात्मचित्तानुरोधेन विचित्रा तेषां मनीषा प्रवृत्ता तथेन्द्रविरोचनयोरपि भविष्यतीत्यर्थः ।
अथेन्द्रविरोचनयोर्युक्तिदर्शनाविशेषादर्थप्रतिपत्तेरप्यविशेषः स्यादिति चेन्नेत्याह –
निमित्तान्यपीति ।
युक्तिदर्शनान्यपि स्वचित्तगुणदोषाल्पत्वबहुत्वापेक्षाण्यतस्तयोस्तदपेक्षं प्रतिपत्तिवैषम्यमविरुद्धमित्यर्थः ॥२॥
इन्द्राभिप्रायं बुद्ध्वा प्रजापतिरनुमोदितवानित्युक्तमिदानीमनुमोदनवाक्यं व्याकरोति –
एवमेवेति ।
इन्द्राभिप्रायविषय एष शब्दः ।
अनुव्याख्यास्यामीत्युक्तं श्रुत्वा श्रोतुकाममुपगतमिन्द्रंप्रत्याह –
यस्मादिति ॥३॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य नवमः खण्डः ॥
पूर्ववच्छायात्मदर्शनवदित्यर्थः । अस्मिन्नप्यात्मनीति स्वप्न दृशीत्यर्थः । छायात्मनः शरीरानुविधायित्ववन्न स्वप्नदृशस्तदनुविधायित्वं तथा च कथं पूर्ववद्दोषदर्शनमित्याशङ्क्य परिहरति –
कथमित्यादिना ॥१॥
स्राम्येण चक्षुरादिगतानवरतसलिलगलनविषयत्वेनेति यावत् । देहदोषेणाऽऽत्मनो न दोषो भवतीति प्रागेवोक्तं तत्किमर्थमिह पुनरुच्यतेऽत आह –
यदध्यायादाविति ।
न्यायोऽन्वयव्यतिरेकाख्यः ।
एतद्देहाभिमाने हि सत्येव देहधर्मेण संयुज्यत इव द्रष्टा स्वप्ने त्वेतद्देहाभिमानाभावान्न तेन संसृज्यत इत्याह –
तदिहेति ।
स्वप्नद्रष्टा चेद्देहदोषेण न युज्यते कथं तर्हि तस्मिन्दोषदर्शनमित्याशङ्क्याऽऽह –
न तावदिति ।
किमित्येवकारो यथाश्रुतो न व्याख्यायते तत्राऽह –
न त्विति ।
इति शब्दो द्रष्टव्यमित्यनेन सम्बध्यते ।
देहस्य वधेन नायं हन्यत इति विशेषणात्स्वतो वधः स्वप्नदृशो नियमतो विवक्षितः कस्मादेवशब्दो न यथाश्रुत एवेति शङ्कते –
नास्येति ।
किमयं प्रजापतिमाप्तमनाप्तं वा मन्यते ? यद्यनाप्तं बुध्यते न तर्हि तं प्रत्युपगतिरिन्द्रस्य विद्याग्रहणार्थं सम्भवतीति मत्वाऽऽह –
नैवमिति ।
विकल्पान्तरं प्रत्याह –
प्रजापतिमिति ।
न स्वतो हननं स्वप्नदृशो विवक्षितमिन्द्रस्येति शेषः ।
उक्तमेव स्फोरयति –
एतदिति ।
दृष्टान्तेन शङ्कते –
नन्विति ।
दृष्टान्तं विघटयति –
नैवमिति ।
तद्विघटनप्रकारं प्रश्नपूर्वकं प्रकटयति –
कस्मादित्यादिना ।
एतदेवाऽऽकाङ्क्षापूर्वकं प्रपञ्चयति –
कथमित्यादिना ।
अथेन्द्रो दृश्यत इति श्रुत्यर्थं गृहीत्वा छायात्मानमेव गृहीतवानित्युक्तं कथमिदानीमन्यथोच्यते तत्राऽऽह –
तथेति ।
यथेदं वाक्यमक्ष्युपलक्षितद्रष्टृपरं तथा प्रागेव व्याख्यातं न तु स्वप्नद्रष्टरि च्छायात्मनीव स्पष्टा विनाशदृष्टिरित्यर्थः । यथा तदुपगम्य स्वप्नद्रष्टारं घन्तीव तथेति यावत् ।
इवशब्दमाक्षिपति –
नन्विति ।
वेत्तृत्वं विकारश्चेदमृतत्वं न स्यान्मृदादिवद्विनाशित्वप्रसङ्गात्तस्मादिवशब्दो युक्त इत्युत्तरमाह –
उच्यत इति ।
अहं वेद्मीतिविक्रियाश्रयत्वप्रत्यक्षविरोधादिवशब्दो न युक्त इति शङ्कते –
नन्विति ।
अध्यासादपि प्रत्यक्षोपपत्तेर्न विकारित्वं सिद्ध्यतीति परिहरति –
नेत्यादिना ।
नाहमित्यादि वाक्यमवतारयति –
तिष्ठत्विति ।
न वेत्त्यप्रियवेत्तैव भवतीत्यर्थः ।
इष्टं सर्वलोककामावाप्तिलक्षणं विधेये ब्रह्मभावेनाऽऽध्यासिकमप्यप्रियवेत्तृत्वादिकमस्ति तत्पुनरुद्देशेऽप्यागतमतस्त्वदभिप्रायेणाप्रियवेत्तेव स्वप्नद्रष्टा न तु मदभिप्रायेणेति विशिनष्टि –
तवेति ।
तत्र हेतुमाह –
आत्मन इति ।
वसापराणीत्यादिवाक्यतात्पर्यमाह –
द्विरुक्तमपीति ।
तथा प्रजापतिवाक्यानुसारेणेति यावत् ॥२-४॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य दशमः खण्डः ॥
यथा पूर्वमेतं त्वेव त इत्याद्युक्त्वा य एष स्वप्ने महीयमान इत्याद्युक्तं तथेहाप्येतं त्वेवेत्युक्त्वा तद्यत्रैतदित्याह –
विशिष्टाधिकारिणे प्रजापतिरिति योजना ।
व्याख्यातस्यैव वाक्यस्यार्थं संक्षिप्य दर्शयति –
अक्षिणीति ।
तत्रापि सुषुप्तदर्शनेऽपीत्यर्थः ।
तदेव दोषदर्शनं प्रश्नद्वारा स्फोरयति –
कथमित्यादिना ।
स्वात्मानं न जानातीत्युक्तमेवाऽऽकाङ्क्षाद्वारेणाभिनयति –
कथमिति ।
तत्र वैधर्म्यदृष्टान्तमाह –
यथेति ।
स्वपरविवेकाभावे दोषमाह –
अत इति ।
घ्नन्ति त्वेवेत्यत्रोक्तं लक्षयति –
पूर्ववदिति ।
कुतो ज्ञानाभावमात्रेण विनष्टत्वमित्याशङ्क्योक्तमभिप्रायं स्पष्टयति –
ज्ञाने हीति ।
एवकारो यथाश्रुत एव किं न स्यादित्याशङ्क्याऽऽह –
न त्विति ॥१-२॥
पूर्ववद्ब्रह्मचर्यादेशाभावे हेतुमाह –
स्वल्पस्त्विति ।
आख्यायिकातोऽपसृत्य श्रुतिरस्मभ्यं किमर्थमित्यमुपदिशतीत्याशङ्क्याऽऽह –
एवमिति ॥३॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्यैकादशः खण्डः ॥
कार्यकारणपरिवेष्टितौ विश्वतैजसावुक्तौ कारणमात्रबद्धश्च प्राज्ञो व्याख्यातः संप्रत्यशरीरं तुरीयमुपदेष्टुं सशरीरतां निन्दति –
मघवन्निति ।
शरीरवदात्मनोऽपि विनाशित्वमवस्थाविशेषे दर्शितमित्याशङ्क्याऽऽह –
यन्मन्यस इति ।
सशरीरो विशेषविज्ञानवान्भवत्यशरीरस्य तु विशेषविज्ञानाभावाद्विनाशभ्रमो न पुनरसौ वस्तुतो विनश्यति स्वेन रूपेणाभिनिष्पद्यत इति संप्रसादस्याविनाशित्ववचनादित्यभिप्रेत्य कारणमेव स्पष्टयन्नक्षराणि व्याचष्टे –
यदिदमित्यादिना ।
ननु मर्त्यमित्येतावतैव मृत्युव्याप्तत्वे शरीरस्य सिद्धे किमित्यात्तं मृत्युनेति पुनरुच्यते तत्राऽऽह –
कदाचिदेवेति ।
वैराग्यार्थं विशेषवचनमित्युक्तं यत्तदेव वैराग्यं किमर्थमित्याशङ्क्याऽऽह –
कथमिति ।
निवर्तने विशेषवचनं फलवदिति शेषः ।
तदस्येत्यत्र तच्छब्दार्थमाह –
शरीरमित्यत्रेति ।
मघवन्नित्यादिवाक्यं सप्तम्यर्थः । त्रिस्थानतया जाग्रत्स्वप्नसुषुप्ताख्यस्थानत्रयसम्बन्धित्वेनेति यावत् । अमृतत्वं षडूर्मिवर्जितत्वम् । अशरीरत्वं स्वाभाविकसावयवत्वादिराहित्यम् । आत्मनोऽधिष्ठानमित्यत्र भोगेत्यपेक्षितपूरणं कृतम् ।
भोक्तृभोगायतनं शरीरमिति विशेषणार्थमुक्त्वा तस्यैवार्थान्तरमाह –
आत्मनो वेति ।
अधिष्ठानं जनयितुस्तस्योपलब्धेरधिकरणमिति यावत् ।
अधिष्ठानशब्दस्यार्थान्तरमाह –
जीवरूपेणेति ।
उत्तरवाक्यस्थं सशरीरशब्दं व्याचष्टे –
यस्येति ।
ईदृशं मर्त्यत्वादिविशेषणवदित्यर्थः । तद्यथोक्तं शरीरमधिष्ठितमनेनेति व्युत्पत्त्या तदधिष्ठितः स तद्रूपः पुरुष इत्यर्थः ।
तस्यैव संपिण्डितमर्थमाह –
तद्वानिति ।
उक्तेऽर्थे विशेषणं पातयति –
सशरीर इति ।
अशरीरस्य कथं सशरीरत्वमित्याशङ्क्याऽऽह –
अशरीरेति ।
अविवेकतः सशरीरो भवतीति पूर्वेण सम्बन्धः । यतः सशरीरोऽत एव प्रियाप्रियाभ्यामात्तो वै पुरुष इति योजना ।
वैशब्दार्थमाह –
प्रसिद्धमिति ।
एतच्छब्दार्थमेवोत्तरवाक्यव्याख्यानेन स्फोरयति –
सशरीरस्येति ।
तौ ममेति मन्यमानस्य सतः स्वस्य तयोः संततिरूपयोरपहतिर्नास्तीति सम्बन्धः । प्रियाप्रिययोः स्वारस्येन विनाशोऽस्ति क्षणिकत्वादित्याशङ्क्य संततिरूपयोरित्युक्तम् । इतिशब्दो वाक्यसमाप्त्यर्थः ।
अजस्य देहसम्बन्धद्वारा संसारित्वमुक्त्वा तस्यैव विद्यावतो देहनिवृत्तिद्वारेण मुक्तिं दर्शयति –
तं पुनरिति ।
मुक्ते पुंसि प्रियाप्रिययोर्मिलितयोरस्पर्शेऽप्येकैकस्य स्पर्शः स्यादित्याशङ्क्याऽऽह –
स्पृशिरिति ।
प्रत्येकं सम्बन्धमभिनयति –
प्रियमिति ।
समस्ततया श्रुतस्यानेकस्य प्रत्येकं क्रियासम्बन्धे दृष्टान्तमाह –
नेति ।
प्रियाप्रिययोर्मुक्तात्मन्यसंस्पर्शं पातनिकापूर्वकं कैमुतिकन्यायेन दर्शयति –
धर्माधर्मेति ।
तत्रेत्यशरीरताख्यं स्वरूपमुच्यते ।
प्रियस्पर्शाभावं श्रुत्वा मोक्षस्यापुमर्थत्वं शङ्कते –
नन्विति ।
इहापीति मुक्तो गृह्यते ।
स्वाभाविकप्रियाप्रतिषेधान्नापुमर्थत्वं मुक्तेरित्युत्तरमाह –
नैष दोष इति ।
प्रतिषेधमेवाभिनयति –
अशरीरमिति ।
कादाचित्कयोरेव प्रियाप्रिययोरेष निषेध इत्यत्र नियामकमाह –
आगमापायिनोरिति ।
कादाचित्के स्पर्शशब्दवन्न स्वात्मन्येतच्छब्दोऽस्तीत्याह –
न त्विति ।
आत्मनि तर्हि कादाचित्कमेव प्रियमिति तन्मात्रप्रतिषेधात्तदवस्थमपुमर्थत्वमित्याशङ्क्याऽऽह –
सवितुरिति ।
भूमविद्यालोचनायामपि सुखमात्रस्याऽऽत्मनि न प्रतिषेधोऽस्तीत्याह –
इहापीति ।
तथाऽपि विषयविषयिभावेन भेदाभावात्तदवस्थमपुरुषार्थत्वमिति शङ्कते –
नन्विति ।
भेदो न पुमर्थत्वोपयोगी केवलव्यतिरेकाभावात्सुखसाक्षात्कारस्तु पुरुषार्थः स चाभेदेऽपि विद्यत इत्याशङ्क्याऽऽह –
स्वरूपेणेति ।
आत्मनि विशेषज्ञानराहित्यमिन्द्रस्य नेष्टमित्यत्र हेतुमाह –
नाहेति ।
किं तर्हीन्द्रस्येष्टमित्याशङ्क्याऽऽह –
तद्धीति ।
येन ज्ञानेनाऽऽप्नोति तदिष्टमिन्द्रस्येति पूर्वेण सम्बन्धः ।
किमिदं विशेषविज्ञानमिन्द्रस्येष्टमित्युच्यते किं वा हितमिति विवक्ष्यते तत्राऽऽद्यमङ्गीकरोति –
सत्यमिति ।
द्वितीयं दूषयति –
न त्विति ।
द्वितीयाद्वै भयं भवतीत्यादिश्रुतेरित्यर्थः ।
तथाऽपीष्टमेवेन्द्राय प्रजापतिनोपदेष्टव्यमित्याशङ्क्याऽऽह –
हितं चेति ।
किं तर्हि तस्य हितमिति चेत्तदाह –
व्योमवदिति ।
हितं वक्तव्यमिति सम्बन्धः ।
हितमेव न त्विष्टमिति स्थिते फलितमाह –
तत्रेति ।
सर्वेषां भूतानां लोकानां कामानां चाऽऽत्मा सच्चिदानन्दमात्रं तद्रूपत्वं चेन्मुक्तस्येष्यते कथं तर्हि तस्यैश्वर्यश्रुतयो निर्वहन्तीति चोदयति –
नन्विति ।
सगुणविद्यावतां यदैश्वर्यं तन्निर्गुणविद्यास्तुत्यर्थं संकीर्त्यते ।
ब्रह्मीभूतस्य मुक्तस्य सगुणविद्याया अपि प्रत्यग्भूतत्वात्फलस्य तत्रोपचरितुं युक्तत्वादिति परिहरति –
नेत्यादिना ।
सर्वात्मत्वे निन्दाऽपि प्राप्नोतीति शङ्कते –
नन्विति ।
दुःखस्य दुःखत्वाभाववत्तस्याऽऽत्मा विद्वानपि न दुःखी भविष्यतीति समाधत्ते –
न , दुःखस्येति ।
तर्हि दुःखिनामात्मा मुक्त इति दुःखी स्यात्तत्राऽऽह –
आत्मनीति ।
न तावदात्मनः स्वभावतो दुःखित्वं किन्त्वाविद्यकं सा च मुक्तस्य दग्धेति दुःखित्वाप्रसक्तिरित्यर्थः ।
तर्हि विद्यया दग्धायामविद्यायां तदध्यारोपितमैश्वर्यमपीश्वरस्य सगुणविद्याफलभूतं दग्धमेवेति कथं स्तुत्यर्थमिह तदुपदेशसिद्धिरित्याशङ्क्याऽऽह –
शुद्धेति ।
शुद्धं सत्त्वं रजस्तमोभ्यामस्पृष्टं तस्मान्मायैकदेशाज्जाताः संकल्पा निमित्तानि येषां कामानामैश्वर्यभेदानां ते तथोक्तास्तेषां सर्वेषु विषयेषु मनोमात्रेणेश्वराभिध्यानरूपेण सिद्धानामीश्वराख्येन स्वभावेनाभिसम्बन्धो मायावस्थायां सिद्ध्यतीत्यर्थः ।
ननु जीवानामेवाविद्यातत्कार्यसम्बन्धा नेश्वरस्येति चेन्नेत्याह –
पर एवेति ।
चतुर्ष्वपि पर्यायेषु त्वमर्थानुवादेन तस्य तदर्थत्वं विधेयमिति स्वाभिप्रायेण प्रजापतिवाक्यं व्याख्यातं सम्प्रति स्वयूथ्यमतमुत्थापयति –
य एष इति ।
प्रथमपर्यायस्य च्छायात्माविषयत्ववद्द्वितीयतृतीयपर्याययोरपि विज्ञानात्मविषयत्वमित्याह –
स्वप्नेति ।
अन्य एव परस्मादुक्त इति सम्बन्धः ।
चतुर्थपर्यायवत्पर्यायत्रयेऽपिपरमात्मैव कस्मान्नोच्यते तत्राऽऽह –
न पर इति ।
अपहतपाप्मत्त्वादेरवस्थावत्त्वस्य च मिथो विरोधो हेत्वर्थः ।
नन्वन्तिमे पर्याये परस्योपदेशो युज्यते तज्ज्ञानस्य मुत्तिफलत्वात्किमिति पूर्वेषु पर्यायेषु च्छायादयो निर्दिश्यन्ते तत्फलाभावादत आह –
छायाद्यात्मनां चेति ।
तत्र प्रथमं छायात्मोपदेशस्य प्रयोजनमाह –
आदावेवेति ।
परस्यातिसूक्ष्मत्वेन दुर्विज्ञेयत्वात्तस्मिन्नेवाऽऽदावुच्यमाने सति तस्यापि सूक्ष्मस्य श्रवणेऽपि श्रोतुरनात्मनिष्ठस्य किल व्यामोहः स्यात्स मा भूदिति पृथक्छायात्मोपदेशः कृत इति सम्बन्धः ।
स्वप्नसुषुप्तयोर्विज्ञानात्मोपदेशस्य प्रयोजनं दर्शयन्नुक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
इतिशब्दस्तिङा सम्बध्यते ।
पर्यायान्तरस्य तात्पर्यमाह –
चतुर्थे त्विति ।
मरणधर्मकाद्देहात्पृथग्भूत्वा ज्योतिःस्वरूपमशरीरत्वंप्राप्तो यद्यपि चतुर्थे पर्याये कथ्यते तथाऽपि कथमसौ परमात्मा स्यादित्याशङ्क्याऽऽह –
यस्मिन्निति ।
स सम्प्रसादो यो विद्वान्कर्तृत्वेन विवक्षितः ।
किमिदं व्याख्यानं शब्दानुसारि किं वाऽर्थानुसारीति विकल्प्याऽद्यमङ्गीकरोति –
सत्यमिति ।
द्वितीयं दूषयति –
नत्विति ।
असम्भवमेवाऽऽकाङ्क्षाद्वारा स्फुटयति –
कथमित्यादिना ।
यद्याद्ये पर्याये छायात्मोपदिश्येत तर्हीन्द्रविरोचनयोः सम्यग्दर्शित्वाद्विपरीतग्रहापोहार्थं प्रजापतेरायासो वृथा स्यात् । तेन नेदं याख्यानमर्थानुसारीत्यर्थः ।
इतश्च नाऽऽद्ये पर्यायेछायात्मोपदेशोऽस्तीत्याह –
किंचेति ।
प्रजापतिनोपदिष्टस्यापि च्छायात्मनो ग्रहणं न मृष्यतीत्याशङ्क्य हेत्वन्तरं स्पष्टयति –
यदीति ।
तेन च्छायात्मग्रहणापनयकारणावचनेनेति यावत् । तेन प्रजापतिनेत्येकस्तच्छब्दो योज्यः ।
इतश्च प्रथमे पर्याये द्रष्टुरेवोपदेशोनच्छायापुरुषस्येत्याह –
किंचान्यदिति ।
एतच्छब्देन सन्निहितावलम्बिना छायात्मानमनुकृष्य स्वप्ने द्रष्टुरुपदेशे प्रजापतेर्मृषावादित्वं प्रसज्येत तथा च प्रथमेऽपि पर्याये द्रष्टैवोपदिष्ट इत्यर्थः ।
स्वप्नावस्थाविशिष्टस्य स्थानान्तरेबाध्यत्वान्न तत्र द्रष्टुरुपदेशोऽस्तीति शङ्कते –
स्वप्न इति ।
अनुभवानुसारेणोत्तरमाह –
नेत्यादिना ।
किंच प्रकाशकारणानामुपरमे यः प्रकाशः स नैसर्गिक इति न्यायेन प्रतीचः स्वयंज्योतिष्ट्वं बृहदारण्यके स्वाप्नावस्थामाश्रित्योक्तं ततश्च तत्र द्रष्टुरुपदेशः सिद्ध्यतीत्याह –
न चेति ।
सूर्यादीनामुपरमे यः प्रकाशो दृश्यमानः स नैसर्गिक इत्ययुक्तं स्वप्नेऽप्यन्तःकरणस्य सत्त्वादित्याशङ्क्यऽऽह –
यद्यपीति ।
करणत्वाभावे हेतुं पृच्छति –
किं तर्हीति ।
नीलपीतादिजाग्रद्वासनाभिर्विवर्तमाना साक्षिणो वेद्यतामापद्यते । तथा च पटचित्रवद्विचित्रवासनामयचेतसः साक्षिगम्यत्वान्न स्वनोपलब्धौ करणं भवतीति तद्द्रष्टुः स्वयंज्योतिष्ट्वं न्यायसिद्धमित्याह –
पटेति ।
प्रासङ्गिकं हित्वा द्रष्टैवोपदिष्टः स्वप्नावस्थायामित्यत्र हेत्वन्तरमाह –
किञ्चेति ।
तथा च जाग्रदवस्थायामिव स्वप्नेऽपि द्रष्टैवोपदिष्ट इति शेषः ।
इतश्च द्रष्टुरेवोपदेशः स्वप्नदशायामित्याह –
प्राप्ताविति ।
न केवलमुक्तसौषुप्तो निषेधो निषेध्यप्राप्तिसापेक्षत्वादवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षति किं तु तुरीयगतो निषेधोऽपि निषेध्यमाकाङ्क्षन्नवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षतीत्याह –
तथेति ।
निषेधस्य प्राप्तिसापेक्षत्वात्प्रकृतस्यैव द्रष्टुरविद्यानिदाने सशरीरत्वे तन्निमित्तयोः स्थानद्वयगतयोर्न प्रियाप्रिययोरपहतिरस्तीति न ह वै सशरीरस्येत्यादिनोक्तं सशरीरत्वे प्राप्तयोः प्रियाप्रिययोस्तस्यैवावस्थात्रयातीतस्य सत्यां विद्यायामशरीरमित्यादिना प्रतिषेधो युक्त इति योजना ।
स्वप्ने द्रष्टुरुपदेशे हेत्वन्तरमाह –
एकश्चेति ।
चतुर्थपर्यायस्यसौषुप्तादर्थान्तरविषयत्वमुक्तमनुभाष्य दूषयति –
यच्चोक्तमित्यादिना ।
तदेव व्यतिरेकद्वारा स्फोरयति –
यदीति ।
अधिकरणाधेयभावेन भेदः सत्यो नास्तीत्यत्र हेत्वन्तरमाह –
किंचान्यदिति ।
जीवपरयोर्भेदस्य षष्ठप्रपाठकविरोधवत्सप्तमप्रपाठकविरोधोऽपि स्यादित्याह –
तथेति ।
बृहदारण्यकश्रुत्यालोचनायामपि जीवेश्वरभेदो न सम्भवतीत्याह –
नान्य इति ।
इतश्च जीवपरयोरभेदो नास्तीत्याह –
सर्वश्रुतिष्विति ।
श्रौतमर्थमुपसम्हरति –
तस्मादिति ।
आत्मैक्ये परस्यैव संसारित्वं सर्वदेहेषु स्यादिति चेन्नेत्याह –
न चेति ।
आरोपितसंसारित्वं वस्तुतो नाऽऽत्मन्यस्तीत्येतद्दृष्टान्तेन स्पष्टयति –
न हीति ।
मिथ्या च तदज्ञानं चेति मिथ्याज्ञानं तेनाध्यस्तान्यविद्यमानान्येव विद्यमानवत्प्रतीतिमापादितानीति यावत् ।
न ह वै सशरीरस्येत्यादि वदता वास्तवत्वं शरीरसम्बन्धस्य विवक्षितमिति शङ्कामुक्तन्यायातिदेशेन निरस्यति –
एतेनेति ।
आत्मनि संसारस्य प्रसक्तिर्नेति यावत् । यावदध्यासभावित्वं प्रियाप्रिययोरपहत्यभावो न वास्तवत्वं शरीरसम्बन्धस्यैव प्रियाप्रियमूलस्य दुर्निरूपत्वादित्यर्थः । स्वप्नद्रष्टा खल्वप्रियवेत्तेव भवति नत्वप्रियवेत्तैवेति यत्पूर्वत्र स्थितं तत्सिद्धम् ।
लाभान्तरमाह –
एवं चेति ।
प्रजापतेर्वचनं सत्यं भवेदिति सम्बन्धः ।
अपौरुषेय्यां श्रुतौ कुतः प्रजापतेर्वचनं सावकाशमित्याशङ्क्याऽऽह –
यदिवेति ।
सुखादयः साश्रया गुणत्वाद्रूपादिवदित्यनुमानात्तदाश्रयः परिशेषादात्मा भविष्यतीति वैशेषिकादितर्कविरोधादसत्यं श्रुतेर्वचनमित्याशङ्क्याऽऽह –
न चेति ।
सुखादीनामुपाधिधर्मत्वेन सिद्धसाध्यत्वान्नास्ति श्रौतवचसो बाधकमित्यर्थः ।
प्रत्यक्षमिति शङ्कते –
नन्विति ।
तस्याऽऽभासत्वान्न बाधकत्वमिति परिहरति –
नेत्यादिना ।
दृष्टान्तोऽपि सम्प्रतिपन्नो न भवतीति शङ्कते –
सर्वमिति ।
जरादेः सत्यवचनं त्वदीयमेवमस्त्येवेत्यङ्गीकरोति –
अस्त्येवेति ।
अङ्गीकारे हेतुमाह –
दुरवगममिति ।
अधिकारिणः प्रमितिजनको वेद इति न्यायात्तादृशानामनधिकारिणां दुर्ज्ञानमात्मतत्त्वम् । अतोऽस्त्येव जरादिसत्यत्ववचनं न तावता वस्तुक्षतिरित्यर्थः ।
दुरवगमत्वे लिङ्गमाह –
येनेति ।
अत्रेत्यात्मतत्वोक्तिः ।
तस्य दुर्ज्ञानत्वे लिङ्गान्तरमाह –
तथेति ।
वैनाशिकभ्रान्तिरप्यात्मनो दुर्ज्ञानत्वं गमयतीत्याह –
तथेन्द्रस्येति ।
साङ्ख्यभ्रान्तिरपि दुर्ज्ञानत्वमात्मनो ज्ञापयतीत्याह –
तथा साङ्ख्या इति ।
तार्किकभ्रान्तिरपि तस्य दुर्ग्रहत्वे गमिकेत्याह –
तथाऽन्य इति ।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना न वाऽऽत्मगुणाः ।
मीमांसकभ्रान्तिस्तस्य दुर्ग्रहत्वे गमिकेत्याह –
तथाऽन्य इति ।
यदा परीक्षकाणामपीदृशी भ्रान्तिरात्मनो दुरवगमत्वं गमयति तदा विचारविधुराणां लौकिकानां भ्रान्तिस्तत्रप्रमाणयितव्येत्याह –
किमन्य इति ।
अन्ये बम्भ्रमतीति किं वक्तव्यमिति सम्बन्धः ।
यदि लौकिकानां परीक्षकाणां चेदमात्मतत्त्वं दुर्ज्ञानं प्रतिज्ञायते केषां तर्हीदं सुज्ञानमित्याशङ्क्याऽऽह –
तस्मादिति ।
एषणास्विवाऽऽत्मतत्त्वेऽपि तेषामौदासीन्यं वारयति –
अनन्यशरणैरिति ।
तेषां कुटीचकादिभावं व्यासेधति –
परमहंसेति ।
कर्मनिष्ठानामाश्रमानतीत्य नैष्कर्म्यप्राधान्येन वर्तमानत्वं दर्शयति –
अत्याश्रमिभिरिति ।
अनन्यशरणैरित्युक्तं व्यनक्ति –
वेदान्तेति ।
पूज्यतमैरिति नित्यानुवादः ।
तेषामात्मवेदनोपायं प्राक्तनमुपदिशति –
प्राजापत्यं चेति ।
स्थानत्रयं तुरीयं चेत्येतद्विषयं प्रकरणचतुष्टयम् ।
यथोक्ताधिकारिणामेवाऽऽत्मवेदनमित्य त्रलिङ्गान्तरमाह –
तथेति ।
अशरीरमित्यादिवाक्यव्याख्यानोपसंहारार्थमितिपदम् ॥१॥
सशरीरस्य बन्धो मुक्तिरशरीरस्येति स्थिते किमर्थमशरीरो वायुरित्यादिवाक्यमित्याशङ्क्याऽऽह –
तत्रेत्यादिना ।
कथं वायोरशरीरत्वं तदाह –
अविद्यमानमिति ।
एवं सति वाय्वादीनामशरीरत्वे सतीतियावत् ।
आकाशस्य सर्वत्रैकरूपत्वादमुष्मादिति कुतो व्यपदेशसिद्धिरित्याशङ्क्याऽऽह –
अमुष्मादितीति ।
यथोक्तान्यशरीराणि वाय्वादीनि तेषामाकाशत्वापत्तौ दृष्टान्तमाह –
यथेति ।
तथा वाय्वादीनि स्वेनरूपेणागृह्यमाणत्वदशायामाकाशाख्यतां गतानीति सम्बन्धः । तानि च वाय्वादीनि तथाभूतान्याकाशात्मत्वं प्राप्तानीत्येतत् ।
वर्षादिफलनिष्पत्त्यर्थं वाय्वादीनामाकाशदेशात्समुत्थानमुक्तमाकाङ्क्षाद्वारेण स्फुटयति –
कथमित्यादिना ।
स्वेन स्वेन रूपेणाभिनिष्पद्यन्त इति सम्बन्धः ।
तत्रवायोरभ्रस्य विद्युतः स्तनयित्नोश्च स्वेन रूपेणाभिनिष्पत्तिप्रकारं विवृणोति –
पुरोवातादीति ।
स्तिमितभावं हित्वा वायुरितिशेषः ॥२॥
दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेति ।
वाय्वादीनामित्यस्य पुरस्तात्तथेत्यध्याहर्तव्यम् । तत्राऽऽदिशब्देनाभ्रविद्युत्स्तनयित्वनो गृह्यन्ते । आकाशादीत्यादिपदमभ्रादिकारणसंग्रहार्थम् ।
शरीरसाम्यमेव विशिनष्टि –
अहमिति ।
प्रतिबोधनेदृष्टान्तमाह –
प्रजापतिनेति ।
यथोक्तेन क्रमेण पर्यायचतुष्टयोपदिष्टप्रकारेणेति यावत् । मघवान्प्रतिबोधित इति सम्बन्धः ।
दार्ष्टन्तिके प्रतिबोधनप्रकारं दर्शयति –
नासीति ।
शरीराद्विदुषः समुत्थाने दृष्टान्तमाह –
आकाशादिवेति ।
समुत्थानं विभजते –
देहादीति ।
पुनरुक्तिं परिहरति –
इति व्याख्यातमिति ।
उत्तरवाक्यस्थं सशब्दं व्याचष्टे –
स येनेति ।
स उत्तमपुरुष इति सम्बन्धः ।
सम्प्रसादस्य स्वेन रूपेणाभिनिष्पत्तिं दृष्टान्तेन स्पष्टयति –
प्रागित्यादिना ।
उक्तदृष्टान्तानुसारेणाविद्यादशायां शरीरात्मत्वमापन्नो जीवो विद्यया प्रकाशितब्रह्मसतत्त्वः स्वेन रूपेणाभिनिष्पन्नो भवतीति दार्ष्टान्तिकमाह –
एवं चेति ।
पुरुषस्योत्तमविशेषणं पुरुषान्तरव्यवच्छेदार्थमित्यभिप्रेत्य पुरुषभेदं दर्शयति –
अक्षीति ।
इति चत्वारः पुरुषा इतिशेषः ।
तत्र पूर्वेषां त्रयाणां व्यवच्छेद्यत्वं तुरीयस्य तूत्तमपुरुषत्वमित्याह –
एषामिति ।
यथोक्तोत्तमपुरुषे भगवत्सम्मतिं सङ्गिरते –
कृतेति ।
“द्वाविमौ पुरुषौ लोके क्षरमक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥”(भ. गी. १५ । १६-१८)
इति हि स भगवानूचिवान् ।
स तत्रेत्यादि व्याचष्टे –
स संप्रसाद इति ।
क्वचिदिति स्वर्गलोकोक्तिः । क्वचिन्मनोमात्रैरित्यत्र क्वचिदिति ब्रह्मलोको गृह्यते ।
नोपजनमिति प्रतीकं गृहीत्वा व्याकरोति –
स्त्रीपुंसयोरिति ।
तन्न स्मरन्पर्येतीति सम्बन्धः ।
यथोक्तदेहस्मृतौ काऽनुपपत्तिरित्याशङ्क्याऽऽह –
तत्स्मरणे हीति ।
विदुषो मुक्तस्यानुभूतदेहास्मरणे दूषणमाशङ्कते –
नन्विति ।
असर्वज्ञत्वदोषं निराकरोति –
नैष दोष इति ।
अनुभूतार्थस्मृतौ हि सर्वज्ञ इति । न च शरीराद्यनुभूतं तस्याविद्याकामकर्ममूलस्याज्ञानमात्रत्वात्तस्य च सकार्यस्य ज्ञानोदयमात्रेण नष्टत्वात्प्रागपि शरीरादेरनुभवविपरीतवर्तित्वानुपपत्तेरित्यर्थः ।
शरीरादि पूर्वं सम्यग्ज्ञानेनाविषयीकृतमपि सद्भ्रान्त्याऽनूभूतमेवेति विदुषामपि स्मर्तव्यमिति चेन्नेत्याह –
न हीति ।
मुक्ते पुरुषे शरीरादयो न सम्बध्यन्ते चेत्कथं तर्हि तत्र कामाः सम्बध्येरन्नित्याशङ्क्याऽऽह –
ये त्विति ।
किमिति सर्वैरेते कामा नानुभूयेरन्नित्याशङ्क्याऽऽह –
अनृतापिधाना इति ।
इतश्च विदुषामेव तदभिव्यक्तिरित्याह –
विद्येति ।
किमिति निर्गुणविद्याप्रकरणे विदुषि सत्यकामसम्बन्धवचनं तत्राऽऽह –
इत्यात्मज्ञानेति ।
आत्मविद्यास्तुत्यर्थं विदुषि कामसम्बन्धवचनम् ।
मनसैतान्कामान्पश्यन्नित्यत्र विशेषश्रवणमपि युक्तमित्याह –
अत इति ।
इन्द्रियादिषु भवतां कामानां कुतो ब्रह्मलोकभावित्वमित्याशङ्क्याऽऽह –
यत्रेति ।
मनसैतान्कामानित्यादिवाक्यं स्तुत्यर्थमपि प्रधानवाक्यविरुद्धत्वात्त्याज्यमिति शङ्कते –
नन्विति ।
वाक्ययोर्मिथो विरोधे दृष्टान्तमाह –
यथेति ।
“यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्नतु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्”(बृ.उ. ४ । ३ । २३) इति बृहदारण्यकश्रुतिमाश्रित्य विरोधं धुनीते –
नैष दोष इति ।
अथ यथोक्तं वाक्यं सुषुप्तमधिकृत्य प्रवृत्तं कथं मुक्तविषयतयोदाहृतमत आह –
यद्यपीति ।
सुप्तस्य मोक्षदृष्टान्तत्वात्तद्गतस्य च दार्ष्टान्तिकेऽनुगमाद्यदुक्तं सुषुप्ते तत्सम्बन्धो मुक्ते सिद्ध्यतीत्यर्थः ।
किं च मुक्तमेवाधिकृत्य “यत्र त्वस्य सर्वमात्मैवाभूत्”(बृ.उ. ४ । ५ । १५) इत्यादि तत्रैवोक्तमित्याह –
केनेति ।
फलार्थवादस्याक्षिवाक्यस्य च मिथो विरोधं शङ्कते –
अशरीरेति ।
दृश्यत इत्यस्य पदस्य चाक्षुषदर्शने रूढत्वादशरीरस्य तदयोग्यत्वादशरीरात्मोक्तिर्दृश्यत इति श्रुतिविरुद्धेत्यर्थः ।
आत्मत्वामृतत्वादिब्रह्मविषयानेकश्रुतिलिङ्गविरोधाद्दृश्यत इत्येकस्याःश्रुतेर्ज्ञानमात्रविषयनिरोधोऽस्तीत्यभिप्रेत्यानन्तरवाक्यमुत्थापयति –
तत्रेति ।
चाक्षुषदर्शनाविषयत्वे सति चक्षुषो दर्शने को हेतुरित्यपेक्षायां लिङ्गहेतुकं तावद्दर्शनं सम्भवतीति मत्वा दृष्टान्तमाह श्रुतिः ।
स दृष्टान्तो यथा भवति तथोच्यत इत्याह –
तत्रेति ।
तमेव दृष्टान्तमनूद्य व्याचष्टे –
यथेत्यादिना ।
अध्याहारराहित्यसिद्ध्यर्थं पक्षान्तरमाह –
प्रयोग्येति ।
एवमित्यनेन द्वितीयो यथाशब्दः सम्बध्यते । शरीरस्य रथस्थानीयत्वं शरीरं रथमेव त्विति श्रुत्यन्तरान्मन्तव्यम् । अस्मिन्युक्तः स रथस्थानीय ईश्वरेण स्वकर्मफलोपभोगनिमित्तं प्राणो रथित्वेन नियुक्त इति सम्बन्धः ।
घ्राणप्राणं व्यावर्तयति –
पञ्चवृत्तिरिति ।
“बुद्धिं तु सारथिं विद्धि मनःप्रग्रहमेव च । इन्द्रियाणि हयानाहुः”(क.उ. १ । ३ । ३) इति श्रुत्यन्तरमाश्रित्याऽऽह –
इन्द्रियेति ।
आत्मानं रथिनं विद्धीतिश्रुतिविरुद्धं प्राणस्य रथित्वमित्याशङ्क्य तस्योपाधिर्यस्तदभेदाङ्गीकारात्मैवमित्याह –
प्रज्ञात्मेति ।
तस्याध्यात्मसन्तानशरीरद्वयविशिष्टत्वेन स्फुरितं स्वरूपं दर्शयति –
विज्ञानेति ।
ईश्वरस्य यथोक्तप्राणोपाधिद्वारा भोक्तृत्वादिसंसारित्वमित्यत्र श्रुत्यन्तरं प्रमाणयति –
कस्मिन्निति ।
प्रतिष्ठास्यामीतीक्षित्वा स प्राणमसृजतेत्यादिश्रुतिरिति शेषः ।
तथा च यथा राज्ञा सर्वाधिकारित्वेन सेनाध्यक्षः सन्धिविग्रहादौ नियुज्यते तथेश्वरेण सर्वचेष्टान्तराधिकृतः स्वकीयदर्शनादिव्यापारनिमित्तं नियुक्तो भवतीत्याह –
राज्ञेति ।
प्राणः स्वविलक्षणेन चेतनेन नियुज्यते प्रयोज्यत्वादश्वादिवदित्यनुमानाद्देहसंहतात्प्राणादतिरिक्तोऽसंहतश्चेतनः सिद्ध्यतीति समुदायार्थः ।
चक्षुरादिचेष्टा चेतननिमित्ता चेष्टात्वाद्रथादिचेष्टावदित्यनुमानान्तरं सूचयति –
तस्यैवेति ।
प्रकृतप्राणविषयस्तच्छब्दः । मात्रेत्येतस्य व्याख्यानमेकदेश इति । प्राणसंवादे चक्षुरादीनां प्राणपारतन्त्र्यप्रतीतेस्तदेकदेशत्वं तेषामिति द्रष्टव्यम् ॥३॥
शरीराद्व्यतिरिक्तमात्मानं सम्भाव्य तस्यौपाधिकं द्रष्टृत्वमाचष्टे –
अथेति ।
अतिरिक्तात्मसम्भावनानन्तर्यमथशब्दार्थः । यत्र तत्रेतिसप्तमीभ्यां संसारदशोच्यते । अनुगतं चक्षुरिति सम्बन्धः ।
दर्शनाय चक्षुरित्यस्यार्थं समर्थयते –
यस्येति ।
यस्य परस्य द्रष्टुरर्थे करणं चक्षुरिष्टं स परश्चक्षुषि लिङ्गेन दृश्यत इति सम्बन्धः ।
पारार्थ्ये चक्षुषो हेतुमाह –
देहादिभिरिति ।
यत्संहतं तत्स्वविलक्षणशेषं दृष्टं यथा शयनासनादि तथा तदपि चक्षुर्देहादिभिः संहतत्वाद्यस्य विलक्षणस्य शेषभूतं सोऽत्र दर्शनेन लिङ्गेन दृश्यते । विमतं साश्रयं धर्मत्वाद्रूपादिवदित्यनुमानादित्यर्थः ।
दृश्यत इत्यस्याविरुद्धार्थमुक्त्वाऽक्षिणीत्यस्य विवक्षितमर्थमाह –
अक्षिणिति ।
यथाऽक्षिद्वारा रूपोपलब्धा परस्तथा तत्तदिन्द्रियद्वारा तत्तद्विषयोपलब्धा पर एवेति कृत्वा युक्तमिदमुपलक्षणमिति साधयति –
सर्वविषयेति ।
सर्वेन्द्रियैरुपलब्धृत्वमविशिष्टं चेत्कथं तर्हि सर्वास्वपि श्रुतिषु चक्षुष्येवात्मोपदिश्यते तत्राऽऽह –
स्फुटेति ।
चक्षुषः स्फुटोपलब्धौ हेतुत्वे श्रुतिं सम्वादयति –
अहमिति ।
यत्रादर्शमिति चाक्षुषः प्रत्ययस्तद्वस्तु सत्यं स्फुटोपलम्भादिति द्वयोर्विवदमानयोर्दृष्टमित्यर्थः ।
य एषोऽक्षिणीत्यत्र सर्वेन्द्रियद्वारोपलब्धा विवक्षित इत्युक्तं व्यक्तीकरोति –
अथापीति ।
चक्षुषि स्फुटोपलम्भेऽपीति यावत् । योऽस्मिन्देहे येन केनापीन्द्रियेण यं कंचिद्विषयं वेद स आत्मेति सम्बन्धः ।
उक्तमेवार्थमाकाङ्क्षाद्वारा स्फोरयति –
कथमित्यादिना ।
जिघ्राणीति यो वेदेत्युक्तमेव संक्षिपति –
अस्येति ॥४॥
इन्द्रियैर्घ्राणादिभिरसंस्पृष्टं तत्तद्द्वारेणानिष्पन्नमिति यावत् । केवलं मनोमात्रजनितमित्येतन्मन्वानि संपादयानीत्यर्थः । यो वेदेत्यत्र प्रत्ययार्थभूतं कर्तृत्वं सापेक्षत्वान्मिथ्या प्रकृत्यर्थं रूपं तु संविन्मात्रमनपेक्षतया सत्यमात्मस्वरूपमित्याह –
यो वेदेति ।
आत्मा संवेदनस्वभावश्चेत्तत्संसर्गादेव विषयसिद्धिसम्भवाच्चक्षुरादिवैयर्थ्यं स्यादित्याशङ्क्याऽऽह –
दर्शनादीति ।
अन्तःकरणवृत्तिर्दर्शनादिक्रिया । सा चाऽऽत्मनः संविदेकरसस्यासङ्गोदासीनस्य विषयसंसर्गभ्रमहेतुस्तन्निष्पत्त्यर्थानि चक्षुरादीनि भवन्ति सार्थकानीत्यर्थः ।
तेषामुक्तरीत्या सार्थकत्वे गमकमाह –
इदं चेति ।
करणानामुक्तं सार्थकत्वं प्रकृतस्य संविन्मात्रस्यासङ्गत्वादेव स्वतो विषयसम्बन्धानुपपत्त्या तत्सम्बन्धभ्रान्तिकारणान्तःकरणवृत्तिविशेषापेक्षया निर्धारितमित्यर्थः ।
आत्मनः संविन्मात्रस्वभावत्वे कथं कर्तृत्वव्यपदेश इत्याशङ्क्याऽऽह –
आत्मन इति ।
य एषोऽक्षिणीत्यादि वाक्यं प्रपञ्चितं सम्प्रति स तत्रेत्यादि फलवाक्यं प्रपञ्चयितुमिन्द्रियान्तरेभ्यो मनसो वैलक्षण्यं दर्शयति –
मनोऽप्त्येति ।
तस्य चक्षुष्ट्वेऽपि कुतो दैवत्वमित्याशङ्क्याऽऽह –
वर्तमानेति ।
आगन्तुकदोषराहित्यं मृदितदोषत्वम् । सर्वेश्वरो व्यज्यते यस्मिन्विशुद्धे मनसि तन्मनः सर्वेश्वरं तदुपाधिरस्येति तथोक्तः । ईश्वरेण तदभिव्यञ्जकेनेत्येतत् । अविद्यादिप्रतिबन्धकस्याभावान्मनसा नित्यं प्रततं दर्शनं नित्याभिव्यक्तस्वरूपं चैतन्यं तेन पश्यन्निति योजना ॥५॥
तं वा एतमित्यादि व्याचष्टे –
यस्मादिति ।
पदार्थमुक्त्वा वाक्यार्थमाह –
यदर्थं हीति ।
स सर्वांश्चेत्यादिवाक्यमाशङ्कोत्तरत्वेनोत्थाप्य व्याचष्टे –
तद्युक्तमित्यादिना ।
यथोक्तं फलं तच्छब्दार्थः । प्रकरणं निर्विशेषब्रह्मात्मैकत्वज्ञानविषयम् ॥६॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य द्वादशः खण्डः ॥
दहरविद्याप्रकरणे निर्विशेषं ब्रह्म उपास्यस्तुत्यर्थं प्रसङ्गादुक्तं तत्प्रकरणपरिसमाप्त्यर्थं प्रकृताया दहरविद्यायाः शेषभूतजपविधानार्थमारभते –
श्यामादिति ।
अत्यन्तदुरवगाह्यत्वाद्ध्यानहीनानामिति शेषः ।
कथं जीवतो ब्रह्मलोकप्राप्तिरित्याशङ्क्याऽऽह –
मनसेति ।
न तर्हि मुख्या तत्प्राप्तिरित्याशङ्क्याऽऽह –
शरीरेति ।
विपरीतपाठं हेतुत्वेनेति व्याचष्टे –
यस्मादिति ।
हेतुः प्रतिज्ञया योज्यते –
अत इति ।
दृष्टान्तमाकाङ्क्षापूर्वकमवतार्य व्याचष्टे –
कथमित्यादिना ।
शरीरस्य त्याज्यत्वे हेतुमाह –
सर्वानर्थेति ।
इतिशब्दो ध्यानसमाप्त्यर्थो दहरोऽस्मिन्नन्तराकाश इति ॥१॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य त्रयोदशः खण्डः ॥
लक्षणनिर्देशस्य प्रकृतोपयोगं दर्शयति –
आध्यानायेति ।
“सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति । आकाशा ह्येवेभ्यो ज्यायान्”(छा. उ. १ । ९ । १) इत्याद्याः श्रुतयः ।
आकाशशब्देनाऽऽत्मनः श्रुतिषु प्रसिद्धत्वे हेतुमाह –
आकाश इवेति ।
ते यदन्तरेत्यत्र ते इति पदं प्रथमाद्विवचनान्तं गृहीत्वा व्याख्याय द्वितीयाद्विवचनान्तं षष्ठ्यर्थमादाय व्याचष्टे –
तयोर्वेति ।
यदन्तरेति समस्तं पदं पूर्वत्र व्याख्यातमधुना तु व्यस्तं व्याकृतं तदेव व्याकरणं संक्षिपति –
नामरूपाभ्यामिति ।
ताभ्यामस्पृष्टं चेत्कथं तन्निर्वाहकमित्याशङ्क्याऽऽह –
नामरूपाभ्यामस्पृष्टमिति ।
मायावशादिति शेषः ।
आत्मत्वेऽपि कथं करतलामलकवद्ब्रह्मणोऽपरोक्षत्वमत आह –
आत्मा हीति ।
तेन स्वसंवेद्यत्वेनेति यावत् ।
कुतो देहद्वयोपहितस्याऽऽत्मनः स्वसंवेद्यत्व तत्राऽऽह –
अशरीर इति ।
परिच्छिन्नस्याशरीरत्वमयुक्तमित्याशङ्क्याऽऽह –
व्योमवदिति ।
ब्रह्मैव प्रत्यक्षभूतमिति कथमवगतमित्याशङ्क्याऽऽह –
आत्मेति ।
अनात्मत्वं चेदब्रह्मत्वप्रसङ्गात्प्रत्यग्भूतं ब्रह्म वक्तव्यमित्यर्थः ।
उपास्यस्वरूपं दर्शयित्वा तदुपासकस्य प्रार्थनामन्त्रमुत्थाप्य व्याकरोति –
अत ऊर्ध्वमिति ।
प्रथमतो ब्राह्मणग्रहणे हेतुमाह –
ब्राह्मणा एवेति ।
विशेष्यं निर्दिशति –
स्त्रीव्यञ्जनमिति ।
योनिशब्दितं प्रजननेन्द्रियमित्यर्थः ।
कथं तद्भक्षयितृ भवेत्तदाह –
तत्सेविनामिति ।]
तदभिगमनं नाम गर्भवासस्तस्यातिशयेनानर्थहेतुत्वं ज्ञापयितुं द्विर्वचनमित्यर्थः ॥१॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य चतुर्दशः खण्डः॥
उक्तविज्ञानस्यौत्प्रेक्षिकत्वशङ्कां व्युदस्यन्ननादिपारम्पर्यागतत्वं दर्शयति –
तद्धैतदिति ।
सोपकरणमुपकरणैः शमादिभिः सहितमिति यावत् । तद्द्वारेण हिरण्यगर्भद्वारेणेत्यर्थः ।
विद्याप्रकरणं समाप्याविद्वदनुष्ठितस्य कर्मणः साफल्यमविद्वत्संतोषार्थं कथयति –
यथेत्यादिना ।
इहेति प्रकृतोपनिषदुक्तिः । प्राङ्मुखत्वपवित्रपाणित्वादयो नियमाः । भिक्षाशनस्नानाचमनादिर्विधिः ।
किमित्येष नियमोऽध्ययने कथ्यते तत्राऽऽह –
एवं हीति ।
तत्रापीति सप्तम्या यथोक्तोऽधिकारी गृहीतः । एतत्सर्वं स्वयं कुर्वन्ब्रह्मलोकमभिसम्पद्यत इति सम्बन्धः । एवं वर्तयन्नित्यस्य व्याख्यानमेवं यथोक्तेन प्रकारेण कुर्वन्निति ।
अप्राप्तप्रतिषेधाशङ्कां वारयति –
पुनरावृत्तेरिति ।
चन्द्रलोकादिवद्ब्रह्मलोकादपि प्राप्ता पुनरावृत्तिस्तस्या न चेत्यादिना प्रतिषेधान्नाप्राप्तप्रतिषेधप्रसक्तिरित्यर्थः ।
अपुनरावृत्तिवाक्यस्थान्यक्षराणि व्याकरोति –
अर्चिरादिनेति ।
प्रागिति महाप्रलयात्पूर्वकालोक्तिः । ततो ब्रह्मलोकादित्यर्थः ॥१॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य पञ्चदशः खण्डः ॥
वियदादिजगज्जातं जातमज्ञानतो यतः । तदस्मि नामरूपादिविरहि ब्रह्म निर्भयम् ॥१॥
नमस्त्र्यय्यन्तसंदोहसरसीरुहभानवे । गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां श्रीशङ्करभगवत्प्रणीतच्छान्दोग्यभाष्यटीकायामष्टमोऽध्यायः समाप्तः ॥