अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

अष्टमोऽध्यायः: प्रथमः खण्डः (२)

यद्यदाचरति श्रेष्ठ इति न्यायेन सर्वेषां मृषावादित्वं स्यादिति शङ्कते –
नन्विति ।

प्राजा­प­त्य­म­भि­प्रा­य­मेव प्रक­ट­य­न्न­ति­प्र­सङ्गं परिहर्तुं तदी­य­म­नृ­त­वा­दित्वं दूषयति –
न चेति ।

तदे­वाऽऽ­का­ङ्क्षा­पू­र्वकं स्फुटयति –
कथमित्यादिना ।
शिष्याभ्यां गृहीतो योऽयमात्मा ततः सकाशादात्मना स्वेनैव प्रजापतिनोक्तो योऽस्त्य­क्ष्यु­प­ल­क्षितो द्रष्टा समनसि प्रजापतेः सन्निहिततरोऽतः स एव तेनोक्त इत्यर्थः ।

इतश्च द्रष्टा प्रजापतेर्मनसि सन्निहिततर इत्याह –
सर्वेषां चेति ।

प्रजापतेर्मनसि द्रष्टुः सन्निहितत्वेऽपि कथं तस्य न मृषावादित्वमत आह –
तमेवेति ।

इतश्च प्रजा­प­ते­र्न­मृ­षा­वा­दि­त्व­मि­त्याह –
तथा चेति ॥४॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य सप्तमः खण्डः॥

आत्मा­न­मु­द­श­रा­वेऽ­वेक्ष्य तं तत्राऽत्मानं पश्यन्तौ तावनन्तरं यदात्मनो न विजानीथो युवां तन्मे प्रब्रूतमिति सम्बन्धः । प्रजा­प­ति­व­च­न­मु­प­क्र­मा­नु­कूलं न भवतीति शङ्कते –
नन्विति ।

उपक्रममतिक्रम्य ब्रुवाणस्य प्रजा­प­ते­र­भि­प्रा­य­माह –
उच्यत इति ।

तत्र प्रथ­म­मि­न्द्र­वि­रो­च­ना­भ्या­मा­वा­भ्या­मि­द­म­वि­दि­त­मिति प्रजापतिं प्रत्यवचने कारणमाह –
नैवेति ।
छायात्मनि च्छायायां तद्धेतौ शरीरे चेन्द्र­वि­रो­च­न­यो­र्य­था­क्र­म­मा­त्म­धी­रियं निश्चिता प्रवृ­त्ते­त्यर्थः ।

तयो­स्त­त्राऽऽ­त्म­प्र­त्य­यस्य निश्चितत्वे गमकमाह –
येनेति ।

प्रव्रजनेऽपि शान्त­हृ­द­य­यो­स्तयोः सत्यप्रत्ययस्य कथं निश्चि­त­त्व­मि­त्या­श­ङ्क्याऽऽह –
नहीति ।
तेन विप­री­त­ग्रा­हि­त्वे­नेति यावत् ।

उक्तमगृहीत्वा विपरीतं गृहीतवन्तौ तर्हि प्रजा­प­ति­नो­पे­क्ष­णीयौ कुबु­द्धि­त्वा­दि­त्या­शङ्क्य प्राजा­प­त्य­म­भि­प्रा­य­माह –
विपरीतग्राहिणौ चेति ।

कथमिदं प्रजा­प­ते­र­भि­म­त­मि­त्य­धि­ग­त­मत आह –
विपरीतेति ।

प्राजापत्ये प्रश्ने देवा­सु­र­रा­ज­यो­र्वि­प­री­त­ग्र­ह­ण­म­नु­व­दति –
तौ हेति ॥१॥

तदपनयनप्रकारं सूचयति –
तौ ह पुनरिति ।
छायायां तद्धेतौ च देहे तयोरात्मनिश्चयो यस्तस्य निरासायेति यावत् । इह चेति पर्यायोक्तिः । नाऽऽदिदेश तत्प्र­यो­ज­ना­भा­वा­दि­त्यर्थः ।

उक्तोदाहरणेन च्छायायां देहे चेन्द्र­वि­रो­च­न­यो­रा­त्म­प्र­त्ययो नापनीतो भवतीति शङ्कते –
कथमिति ।

छाया­या­स्त­त्का­र­णस्य चाऽऽग­न्तु­क­त्वा­द­ना­त्म­त्व­मत्र विव­क्षि­त­मि­त्यु­त्त­र­माह –
साध्वलंकारेति ।
पूर्व­मु­द­का­दि­स­म्ब­न्धा­व­स्था­या­मिति यावत् ।

व्यभि­चा­रि­त्वाच्च च्छाया­त­त्का­र­ण­यो­र­ना­त्म­त्व­मि­त्याह –
शरी­रै­क­दे­शा­ना­मिति ।

उपपत्तिभ्यां सिद्धमर्थं निगमयति –
इत्यु­द­श­रा­वा­दा­विति ।

न केवलं छाया­त­त्का­र­ण­यो­रे­वा­ना­त्मत्वं किं तूक्त­न्या­ये­ना­हं­का­रा­दीनां तद्धर्माणां चाऽऽत्मीयत्वं प्रयुक्तमिति प्रस­ङ्गा­द­ति­दि­शति –
न केवलमिति ।
आत्म­त्वा­भि­म­त­म­हं­का­रा­दीति शेषः । मोहा­दा­दा­त्मी­य­त्वा­भि­म­त­मि­त्य­ध्या­हा­र्यम् ।

एतेनेति सूचितमेव हेतुं दर्शयति –
कादा­चि­त्क­त्वा­दिति ।
अना­त्मे­त्य­ना­त्म­त्व­म­ना­त्मी­य­त्वो­प­ल­क्ष­णा­र्थम् ।

तर्हि तयो­र्य­थो­क्त­रीत्या विप­री­त­ग्र­ह­ण­स्या­प­ग­त­त्वा­त्कि­मु­त्त­रेण प्रजा­प­ति­वा­क्ये­ने­त्या­श­ङ्क्याऽऽह –
एवमिति ॥२॥

तथैवेत्यस्य व्याख्यानं पूर्ववदिति । यथैवेदमिति प्रतीकग्रहणं तद्व्याचष्टे –
यथेति ।
आवां स्व इतीदमुदाहरणं यथैवेति सम्बन्धः । अक्षि­वा­क्या­दु­द­श­रा­व­वा­क्या­त्सा­ध्व­लं­का­र­वा­क्याच्च च्छाया­त­द्धे­त्वो­र­न्य­त­र­स्यै­वाऽऽ­त्म­त्व­म­भ्या­सा­दिति भ्रमातिशयः सुतरामित्युक्तः ।

प्रजा­प­ति­वा­क्य­मु­त्था­प­यति –
यस्येत्यादिना ।

वाक्य­व्या­ख्या­न­म­ति­दि­शति –
पूर्ववदिति ।

एषशब्देन तयो­र­भि­प्रे­त­मे­वाऽऽ­त्मानं छायाख्यं देहाख्यं च परामृश्य प्रजा­प­ति­र­नु­मो­दि­त­वा­नि­त्या­श­ङ्क्याऽऽह –
नत्विति ।

तौ ह शान्त­हृ­द­या­वि­त्या­दि­वा­क्यस्य तात्पर्यमाह –
य आत्मेत्यादीति ।
संस्कृतौ तावद्भवतामिति शेषः ।

संस्कृतयोरपि तयोरात्मविषये कथं विवेको भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह –
मद्वचनमिति ।

उपेक्षायां कारणान्तरमाह –
पुनरिति ।

किमिति शान्तहृदयत्वं तुष्टहृदयत्वेन व्याख्यायते हृदयगतः शम एव किं न विवक्ष्यते तत्राऽऽह –
न त्विति॥३॥

यदि प्रजा­प­ति­स्ता­वु­पे­क्षि­त­वा­न्कि­मिति तर्हि तौ हान्वी­क्ष्ये­त्या­दि­वा­क्य­मि­त्या­श­ङ्क्याऽऽह –
एवं तयोरिति ।
प्रजा­प­ति­रु­वा­चेति सम्बन्धः ।

तर्हि किमिति तावाहूय नोक्त­वा­नि­त्या­श­ङ्क्याऽऽह –
प्रत्य­क्ष­व­च­ने­नेति ।

कर्तृत्वेन सम्ब­न्धा­र्थ­मु­क्त­मेव पुनरनुवदति –
प्रजापतिरिति ।

किम­सा­वू­चि­वा­नि­त्य­पे­क्षा­या­माह –
अनुपलभ्येति ।

यथोक्तं प्रजापतिवाक्यं श्रुत्वाऽपि गच्छ­तो­रि­न्द्र­वि­रो­च­न­यो­र्वि­रो­च­न­ग­त­म­वा­न्त­र­वि­शे­ष­माह –
स्वगृहमिति ।

पित्रा तथोक्तत्वेऽपि किमस्माभिस्तत्र कर्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
तस्मादिति ।
तथा पूज­नी­त्य­त्व­व­दिति यावत् । तथे­त्यु­क्त­प्र­का­रोक्तिः ।

तथाऽपि प्रार्थिता सर्व­लो­क­का­मा­वा­प्ति­र­सि­द्धे­त्या­श­ङ्क्याऽऽह –
इह लोकेति ॥४॥

विरो­च­न­स­म्प्र­दा­य­स्या­वि­च्छि­न्नत्वं दर्शयति –
तस्मादिति ।
देहा­त्म­वा­द­स्याऽऽ­सु­र­त्वा­दिति यावत् । तत्सं­प्र­दा­य­स्तेषां विरो­च­न­प्र­भृ­ती­ना­म­सु­राणां संप्रदायो देहा­त्म­त्वो­प­देशः ।

किमि­त्या­त्म­त्वा­दि­र­हि­त­मा­सु­र­मा­हु­रि­त्य­पे­क्षा­या­माह –
आसुराणां हीति ।

प्रकृ­तो­प­नि­ष­त्कार्यं कथयति –
तयेति॥५॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­य­स्या­ष्टमः खण्डः॥

एवं विरोचनगतं विशेषं दर्शयित्वा देवराजगामिनं विशेषमाह –
अथेत्यादिना ।

द्वयो­स्तु­ल्येऽपि प्राजा­प­त्य­वा­क्य­श्र­वणे देवराजस्यैव कथं पथि तदनुसन्धानं वृत्त­मि­त्या­श­ङ्क्याऽऽह –
दैव्येति ।

स्मरणफलमाह –
स्मरन्नेवेति ।

प्रजापतिवचनं स्मरतोऽपि कथमिन्द्रस्य च्छायात्मग्रहणे दोष­द­र्श­न­मि­त्या­श­ङ्क्याऽऽह –
उदशरावेति ।
यदर्थो देहा­दे­र­ना­त्म­त्व­ज्ञा­प­ना­येति यावत् । कादा­चि­त्क­त्व­व्य­भि­चा­रि­त्वा­दि­र्न्यायः तदेकदेशो व्यभि­चा­रि­णोऽ­ना­त्म­त्वम् ।

न्यायै­क­दे­श­दृ­ष्टि­फ­ल­मा­चष्टे –
येनेति ।

दोष­द­र्श­न­मे­वाऽऽ­का­ङ्क्षा­द्वारा स्फोरयति –
कथमित्यादिना ।

उदाहृते वाक्ये विवक्षितमर्थं कथयति –
यथेति ।

परिष्कृतो भव­ती­त्ये­त­द्व्या­चष्टे –
नखेति ।
एवमेव देहस्य नखाद्यपगमे छायात्मनोऽपि तदपगमवदित्यर्थः । शरी­रेऽ­स्मि­न्नन्धे सति च्छाया­त्माऽ­प्यन्धो भवतीति सम्बन्धः ।

किमिति देहस्याऽऽन्ध्ये छाया­त्म­न­स्त­दि­ष्ट­मि­त्या­श­ङ्क्याऽऽह –
नखलोमादिभिरिति ।
तैः सह चक्षुरादीनां तुल्य­त्वा­द्दे­हा­व­य­व­त्वस्य देहेनखाद्यभावे छायायामपि तद­भा­वा­भ्यु­प­ग­मा­द्देहे चक्षु­रा­द्य­भा­वेऽपि च्छायाया तदभावो युक्त इत्यर्थः ।

स्राम­श­ब्द­स्या­पु­न­रु­क्त­मर्थं कथयति –
स्रामः किलेति ।

पदार्थमुक्त्वा वाक्यार्थमाह –
स्राम इति ।

पार­त­न्त्र्या­द­ना­त्मत्वं छायाया दर्शयित्वा तत्रैव हेत्वन्तरमाह –
तथेति ॥१॥

विना­शि­त्वा­दि­यु­क्ति­द­र्श­न­फ­ल­मु­प­स­म्ह­रति –
अत इति ।

दोषं दृष्ट्वा यथोक्तरीत्या किं कृत­वा­नि­त्य­पे­क्षा­या­माह –
इत्येवमिति ।

सर्वज्ञो हि प्रजा­प­ति­रि­न्द्रा­भि­प्रायं जानन्नेव किमर्थं प्राकृ­त­व­त्पृ­च्छ­ती­त्या­श­ङ्क्याऽऽह –
विजानन्नपीति ।

आचार्यस्य ज्ञातवतोऽपि शिष्यं प्रत्य­भि­प्रा­य­वि­शे­षेण ज्ञातुं प्रश्नोपपत्तौ दृष्टान्तमाह –
यद्वेथेति ।
तथा च प्रजा­प­ति­प्र­श्ना­नु­रो­धे­नेति यावत् । इन्द्रविषयः स्वशब्दः।

शिष्ययोः श्रवणसाम्येऽपि प्रति­प­त्ति­वै­षम्ये निमित्तं पृच्छति –
नन्विति ।

आचा­र्य­म­तो­प­न्या­स­द्वारा परिहरति –
तत्रेति ।

तत्र प्रति­प­त्ति­वि­शेषे दृष्टान्तेन निमित्तविशेषं दर्शयति –
यथेति ।
आचा­र्यो­क्त­बुद्ध्या तात्पर्येण प्रजापतिना छायात्मैवोक्त इति भ्रान्त्ये­त्यर्थः ।

विरो­च­न­स्ये­न्द्र­व­च्छा­या­त्म­ग्र­ह­ण­मा­चा­र्यो­क्त­बुद्ध्या नाभूदित्याह –
न तथेति ।

कथं तर्हि तस्याऽऽ­त्म­द­र्श­न­मि­त्या­श­ङ्क्याऽऽह –
देह एवेति ।
आचार्येणाऽत्मा देह एवोक्त इति बुद्ध्या तत्रैव विरो­च­न­स्याऽऽ­त्म­ज्ञा­न­मा­सी­दि­त्यर्थः ।

इन्द्रस्य छायात्मग्रहणे देवा­न­प्रा­प्त­स्यै­व­मा­र्ग­मध्ये दोष­द­र्श­न­व­द्वि­रो­च­न­स्या­सु­रा­न­प्रा­प्त­स्या­ध्वनि देहात्मदर्शने दोषदर्शनं च न प्रवृत्तमित्याह –
नापीति ।

दृष्टा­न्त­मुक्त्वा दार्ष्टा­न्ति­क­माह –
तद्वदेवेति ।

विद्या­ग्र­ह­णौ­प­यि­कस्य सामर्थ्यस्य प्रतिबन्धभूतो यो रागा­दि­दो­ष­स्त­द­ल्प­त्वा­पे­क्ष­मि­न्द्रस्य च्छाया­या­मा­त्म­ग्र­ह­ण­मि­त्युक्तं व्यक्तीकरोति –
इन्द्र इति ।

यथो­क्त­दो­ष­भू­य­त्वा­पेक्षं गृह्णतो विरो­च­न­स्या­भि­प्रायं दृष्टान्तेन दर्शयति –
यथेत्यादिना ।

उक्तमर्थं बृह­दा­र­ण्य­क­श्रु­त्य­व­ष्ट­म्भेन स्पष्टयति –
स्वचित्तेति ।
देवा­न्म­नु­ष्या­न­सु­रांश्च प्रजापतिना दकारोपदेशे साधारण्येन कृते तेषां तदीयश्रवणे तुल्येऽपि तद­र्थ­वि­शे­षा­व­धा­रणं स्वचि­त्त­गु­ण­दो­ष­व­शा­देव बृहदारण्यके ख्यापितं तथेहापीत्यर्थः ।

तत्र वा कथं तुल्येऽपि श्रव­णेऽ­र्थ­वि­शे­ष­बु­द्धि­स्त­त्राऽऽह –
दाम्यतेति ।
अदान्ता हि वयं स्वभावस्तेन दाम्य­ते­त्य­स्मा­न्प्रति पितोक्तवानिति देवानां मतिराविरासीत् । स्वभावतो लुब्धा वयं तेन दत्ते­त्य­स्मा­न्प्र­त्यु­क्त­वा­न्पि­तेति मनुष्याणां बुद्धिरासीत् । सुक्रूरा हि वयं स्वभावस्तेन दय­ध्व­मि­त्य­स्मा­न्प्रति प्रजा­प­ति­रू­चि­वा­नि­त्य­सु­राणां प्रति­प­त्ति­र्ब­भूव । तदेवं दका­र­मा­त्र­श्र­व­णा­दा­त्म­चि­त्ता­नु­रो­धेन विचित्रा तेषां मनीषा प्रवृत्ता तथे­न्द्र­वि­रो­च­न­यो­रपि भविष्यतीत्यर्थः ।

अथे­न्द्र­वि­रो­च­न­यो­र्यु­क्ति­द­र्श­ना­वि­शे­षा­द­र्थ­प्र­ति­प­त्ते­र­प्य­वि­शेषः स्यादिति चेन्नेत्याह –
निमित्तान्यपीति ।
युक्ति­द­र्श­ना­न्यपि स्वचि­त्त­गु­ण­दो­षा­ल्प­त्व­ब­हु­त्वा­पे­क्षा­ण्य­त­स्त­यो­स्त­द­पेक्षं प्रति­प­त्ति­वै­ष­म्य­म­वि­रु­द्ध­मि­त्यर्थः ॥२॥

इन्द्राभिप्रायं बुद्ध्वा प्रजा­प­ति­र­नु­मो­दि­त­वा­नि­त्यु­क्त­मि­दा­नी­म­नु­मो­द­न­वाक्यं व्याकरोति –
एवमेवेति ।
इन्द्रा­भि­प्रा­य­वि­षय एष शब्दः ।

अनु­व्या­ख्या­स्या­मी­त्युक्तं श्रुत्वा श्रोतु­का­म­मु­प­ग­त­मि­न्द्रं­प्र­त्याह –
यस्मादिति ॥३॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य नवमः खण्डः ॥

पूर्व­व­च्छा­या­त्म­द­र्श­न­व­दि­त्यर्थः । अस्मि­न्न­प्या­त्म­नीति स्वप्न दृशीत्यर्थः । छायात्मनः शरी­रा­नु­वि­धा­यि­त्व­वन्न स्वप्न­दृ­श­स्त­द­नु­वि­धा­यित्वं तथा च कथं पूर्व­व­द्दो­ष­द­र्श­न­मि­त्या­शङ्क्य परिहरति –
कथमित्यादिना ॥१॥

स्राम्येण चक्षु­रा­दि­ग­ता­न­व­र­त­स­लि­ल­ग­ल­न­वि­ष­य­त्वे­नेति यावत् । देह­दो­षे­णाऽऽ­त्मनो न दोषो भवतीति प्रागेवोक्तं तत्किमर्थमिह पुनरुच्यतेऽत आह –
यदध्यायादाविति ।
न्यायोऽ­न्व­य­व्य­ति­रे­काख्यः ।

एतद्देहाभिमाने हि सत्येव देहधर्मेण संयुज्यत इव द्रष्टा स्वप्ने त्वेत­द्दे­हा­भि­मा­ना­भा­वान्न तेन संसृज्यत इत्याह –
तदिहेति ।

स्वप्नद्रष्टा चेद्देहदोषेण न युज्यते कथं तर्हि तस्मि­न्दो­ष­द­र्श­न­मि­त्या­श­ङ्क्याऽऽह –
न तावदिति ।

किमित्येवकारो यथाश्रुतो न व्याख्यायते तत्राऽह –
न त्विति ।
इति शब्दो द्रष्ट­व्य­मि­त्य­नेन सम्बध्यते ।

देहस्य वधेन नायं हन्यत इति विशेषणात्स्वतो वधः स्वप्नदृशो नियमतो विवक्षितः कस्मादेवशब्दो न यथाश्रुत एवेति शङ्कते –
नास्येति ।

किमयं प्रजा­प­ति­मा­प्त­म­नाप्तं वा मन्यते ? यद्यनाप्तं बुध्यते न तर्हि तं प्रत्यु­प­ग­ति­रि­न्द्रस्य विद्या­ग्र­ह­णार्थं सम्भवतीति मत्वाऽऽह –
नैवमिति ।

विकल्पान्तरं प्रत्याह –
प्रजापतिमिति ।
न स्वतो हननं स्वप्नदृशो विव­क्षि­त­मि­न्द्र­स्येति शेषः ।

उक्तमेव स्फोरयति –
एतदिति ।

दृष्टान्तेन शङ्कते –
नन्विति ।

दृष्टान्तं विघटयति –
नैवमिति ।

तद्विघटनप्रकारं प्रश्नपूर्वकं प्रकटयति –
कस्मादित्यादिना ।

एत­दे­वाऽऽ­का­ङ्क्षा­पू­र्वकं प्रपञ्चयति –
कथमित्यादिना ।

अथेन्द्रो दृश्यत इति श्रुत्यर्थं गृहीत्वा छायात्मानमेव गृही­त­वा­नि­त्युक्तं कथ­मि­दा­नी­म­न्य­थो­च्यते तत्राऽऽह –
तथेति ।
यथेदं वाक्य­म­क्ष्यु­प­ल­क्षि­त­द्र­ष्टृ­परं तथा प्रागेव व्याख्यातं न तु स्वप्नद्रष्टरि च्छायात्मनीव स्पष्टा विना­श­दृ­ष्टि­रि­त्यर्थः । यथा तदुपगम्य स्वप्नद्रष्टारं घन्तीव तथेति यावत् ।

इवशब्दमाक्षिपति –
नन्विति ।

वेत्तृत्वं विका­र­श्चे­द­मृ­तत्वं न स्यान्मृ­दा­दि­व­द्वि­ना­शि­त्व­प्र­स­ङ्गा­त्त­स्मा­दि­व­शब्दो युक्त इत्युत्तरमाह –
उच्यत इति ।

अहं वेद्मी­ति­वि­क्रि­या­श्र­य­त्व­प्र­त्य­क्ष­वि­रो­धा­दि­व­शब्दो न युक्त इति शङ्कते –
नन्विति ।

अध्यासादपि प्रत्य­क्षो­प­प­त्तेर्न विकारित्वं सिद्ध्यतीति परिहरति –
नेत्यादिना ।

नाहमित्यादि वाक्यमवतारयति –
तिष्ठत्विति ।
न वेत्त्य­प्रि­य­वे­त्तैव भवतीत्यर्थः ।

इष्टं सर्व­लो­क­का­मा­वा­प्ति­ल­क्षणं विधेये ब्रह्म­भा­वे­नाऽऽ­ध्या­सि­क­म­प्य­प्रि­य­वे­त्तृ­त्वा­दि­क­मस्ति तत्पु­न­रु­द्दे­शेऽ­प्या­ग­त­म­त­स्त्व­द­भि­प्रा­ये­णा­प्रि­य­वे­त्तेव स्वप्नद्रष्टा न तु मदभिप्रायेणेति विशिनष्टि –
तवेति ।

तत्र हेतुमाह –
आत्मन इति ।

वसा­प­रा­णी­त्या­दि­वा­क्य­ता­त्प­र्य­माह –
द्विरुक्तमपीति ।
तथा प्रजा­प­ति­वा­क्या­नु­सा­रे­णेति यावत् ॥२-४॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य दशमः खण्डः ॥

यथा पूर्वमेतं त्वेव त इत्याद्युक्त्वा य एष स्वप्ने महीयमान इत्याद्युक्तं तथेहाप्येतं त्वेवे­त्युक्त्वा तद्य­त्रै­त­दि­त्याह –
विशि­ष्टा­धि­का­रिणे प्रजापतिरिति योजना ।

व्याख्यातस्यैव वाक्यस्यार्थं संक्षिप्य दर्शयति –
अक्षिणीति ।
तत्रापि सुषु­प्त­द­र्श­नेऽ­पी­त्यर्थः ।

तदेव दोषदर्शनं प्रश्नद्वारा स्फोरयति –
कथमित्यादिना ।

स्वात्मानं न जाना­ती­त्यु­क्त­मे­वाऽऽ­का­ङ्क्षा­द्वा­रे­णा­भि­न­यति –
कथमिति ।

तत्र वैध­र्म्य­दृ­ष्टा­न्त­माह –
यथेति ।

स्वपरविवेकाभावे दोषमाह –
अत इति ।

घ्नन्ति त्वेवे­त्य­त्रोक्तं लक्षयति –
पूर्ववदिति ।

कुतो ज्ञाना­भा­व­मा­त्रेण विन­ष्ट­त्व­मि­त्या­श­ङ्क्यो­क्त­म­भि­प्रायं स्पष्टयति –
ज्ञाने हीति ।

एवकारो यथाश्रुत एव किं न स्यादि­त्या­श­ङ्क्याऽऽह –
न त्विति ॥१-२॥

पूर्व­व­द्ब्र­ह्म­च­र्या­दे­शा­भावे हेतुमाह –
स्वल्पस्त्विति ।

आख्या­यि­का­तोऽ­प­सृत्य श्रुतिरस्मभ्यं किम­र्थ­मि­त्य­मु­प­दि­श­ती­त्या­श­ङ्क्याऽऽह –
एवमिति ॥३॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­य­स्यै­का­दशः खण्डः ॥

कार्य­का­र­ण­प­रि­वे­ष्टितौ विश्व­तै­ज­सा­वुक्तौ कार­ण­मा­त्र­ब­द्धश्च प्राज्ञो व्याख्यातः संप्रत्यशरीरं तुरीयमुपदेष्टुं सशरीरतां निन्दति –
मघवन्निति ।

शरीरवदात्मनोऽपि विना­शि­त्व­म­व­स्था­वि­शेषे दर्शि­त­मि­त्या­श­ङ्क्याऽऽह –
यन्मन्यस इति ।

सशरीरो विशे­ष­वि­ज्ञा­न­वा­न्भ­व­त्य­श­री­रस्य तु विशे­ष­वि­ज्ञा­ना­भा­वा­द्वि­ना­श­भ्रमो न पुनरसौ वस्तुतो विनश्यति स्वेन रूपे­णा­भि­नि­ष्प­द्यत इति संप्र­सा­द­स्या­वि­ना­शि­त्व­व­च­ना­दि­त्य­भि­प्रेत्य कारणमेव स्पष्ट­य­न्न­क्ष­राणि व्याचष्टे –
यदिदमित्यादिना ।

ननु मर्त्य­मि­त्ये­ता­व­तैव मृत्यु­व्या­प्तत्वे शरीरस्य सिद्धे किमित्यात्तं मृत्युनेति पुनरुच्यते तत्राऽऽह –
कदाचिदेवेति ।

वैराग्यार्थं विशे­ष­व­च­न­मि­त्युक्तं यत्तदेव वैराग्यं किम­र्थ­मि­त्या­श­ङ्क्याऽऽह –
कथमिति ।
निवर्तने विशेषवचनं फलवदिति शेषः ।

तदस्येत्यत्र तच्छब्दार्थमाह –
शरीरमित्यत्रेति ।
मघ­व­न्नि­त्या­दि­वाक्यं सप्तम्यर्थः । त्रिस्थानतया जाग्र­त्स्व­प्न­सु­षु­प्ता­ख्य­स्था­न­त्र­य­स­म्ब­न्धि­त्वे­नेति यावत् । अमृतत्वं षडू­र्मि­व­र्जि­त­त्वम् । अशरीरत्वं स्वाभा­वि­क­सा­व­य­व­त्वा­दि­रा­हि­त्यम् । आत्म­नोऽ­धि­ष्ठा­न­मि­त्यत्र भोगे­त्य­पे­क्षि­त­पू­रणं कृतम् ।

भोक्तृभोगायतनं शरीरमिति विशे­ष­णा­र्थ­मुक्त्वा तस्यै­वा­र्था­न्त­र­माह –
आत्मनो वेति ।
अधिष्ठानं जन­यि­तु­स्त­स्यो­प­ल­ब्धे­र­धि­क­र­ण­मिति यावत् ।

अधि­ष्ठा­न­श­ब्द­स्या­र्था­न्त­र­माह –
जीवरूपेणेति ।

उत्तरवाक्यस्थं सशरीरशब्दं व्याचष्टे –
यस्येति ।
ईदृशं मर्त्य­त्वा­दि­वि­शे­ष­ण­व­दि­त्यर्थः । तद्यथोक्तं शरी­र­म­धि­ष्ठि­त­म­ने­नेति व्युत्पत्त्या तदधिष्ठितः स तद्रूपः पुरुष इत्यर्थः ।

तस्यैव संपि­ण्डि­त­म­र्थ­माह –
तद्वानिति ।

उक्तेऽर्थे विशेषणं पातयति –
सशरीर इति ।

अशरीरस्य कथं सश­री­र­त्व­मि­त्या­श­ङ्क्याऽऽह –
अशरीरेति ।
अविवेकतः सशरीरो भवतीति पूर्वेण सम्बन्धः । यतः सशरीरोऽत एव प्रिया­प्रि­या­भ्या­मात्तो वै पुरुष इति योजना ।

वैशब्दार्थमाह –
प्रसिद्धमिति ।

एत­च्छ­ब्दा­र्थ­मे­वो­त्त­र­वा­क्य­व्या­ख्या­नेन स्फोरयति –
सशरीरस्येति ।
तौ ममेति मन्यमानस्य सतः स्वस्य तयोः संत­ति­रू­प­यो­र­प­ह­ति­र्ना­स्तीति सम्बन्धः । प्रियाप्रिययोः स्वारस्येन विनाशोऽस्ति क्षणि­क­त्वा­दि­त्या­शङ्क्य संत­ति­रू­प­यो­रि­त्यु­क्तम् । इतिशब्दो वाक्य­स­मा­प्त्यर्थः ।

अजस्य देह­स­म्ब­न्ध­द्वारा संसा­रि­त्व­मुक्त्वा तस्यैव विद्यावतो देह­नि­वृ­त्ति­द्वा­रेण मुक्तिं दर्शयति –
तं पुनरिति ।

मुक्ते पुंसि प्रिया­प्रि­य­यो­र्मि­लि­त­यो­र­स्प­र्शेऽ­प्ये­कै­कस्य स्पर्शः स्यादि­त्या­श­ङ्क्याऽऽह –
स्पृशिरिति ।

प्रत्येकं सम्बन्धमभिनयति –
प्रियमिति ।

समस्ततया श्रुतस्यानेकस्य प्रत्येकं क्रियासम्बन्धे दृष्टान्तमाह –
नेति ।

प्रिया­प्रि­य­यो­र्मु­क्ता­त्म­न्य­सं­स्पर्शं पातनिकापूर्वकं कैमुतिकन्यायेन दर्शयति –
धर्माधर्मेति ।
तत्रे­त्य­श­री­र­ताख्यं स्वरूपमुच्यते ।

प्रिय­स्प­र्शा­भावं श्रुत्वा मोक्ष­स्या­पु­म­र्थत्वं शङ्कते –
नन्विति ।
इहापीति मुक्तो गृह्यते ।

स्वाभा­वि­क­प्रि­या­प्र­ति­षे­धा­न्ना­पु­म­र्थत्वं मुक्ते­रि­त्यु­त्त­र­माह –
नैष दोष इति ।

प्रति­षे­ध­मे­वा­भि­न­यति –
अशरीरमिति ।

कादाचित्कयोरेव प्रिया­प्रि­य­यो­रेष निषेध इत्यत्र नियामकमाह –
आगमापायिनोरिति ।

कादाचित्के स्पर्शशब्दवन्न स्वात्म­न्ये­त­च्छ­ब्दोऽ­स्ती­त्याह –
न त्विति ।

आत्मनि तर्हि कादाचित्कमेव प्रियमिति तन्मा­त्र­प्र­ति­षे­धा­त्त­द­व­स्थ­म­पु­म­र्थ­त्व­मि­त्या­श­ङ्क्याऽऽह –
सवितुरिति ।

भूम­वि­द्या­लो­च­ना­या­मपि सुख­मा­त्र­स्याऽऽ­त्मनि न प्रति­षे­धोऽ­स्ती­त्याह –
इहापीति ।

तथाऽपि विषयविषयिभावेन भेदा­भा­वा­त्त­द­व­स्थ­म­पु­रु­षा­र्थ­त्व­मिति शङ्कते –
नन्विति ।

भेदो न पुमर्थत्वोपयोगी केव­ल­व्य­ति­रे­का­भा­वा­त्सु­ख­सा­क्षा­त्का­रस्तु पुरुषार्थः स चाभेदेऽपि विद्यत इत्याशङ्क्याऽऽह –
स्वरूपेणेति ।

आत्मनि विशे­ष­ज्ञा­न­रा­हि­त्य­मि­न्द्रस्य नेष्टमित्यत्र हेतुमाह –
नाहेति ।

किं तर्ही­न्द्र­स्ये­ष्ट­मि­त्या­श­ङ्क्याऽऽह –
तद्धीति ।
येन ज्ञाने­नाऽऽ­प्नोति तदि­ष्ट­मि­न्द्र­स्येति पूर्वेण सम्बन्धः ।

किमिदं विशे­ष­वि­ज्ञा­न­मि­न्द्र­स्ये­ष्ट­मि­त्यु­च्यते किं वा हितमिति विवक्ष्यते तत्राऽऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

द्वितीयं दूषयति –
न त्विति ।
द्वितीयाद्वै भयं भव­ती­त्या­दि­श्रु­ते­रि­त्यर्थः ।

तथाऽ­पी­ष्ट­मे­वे­न्द्राय प्रजा­प­ति­नो­प­दे­ष्ट­व्य­मि­त्या­श­ङ्क्याऽऽह –
हितं चेति ।

किं तर्हि तस्य हितमिति चेत्तदाह –
व्योमवदिति ।
हितं वक्तव्यमिति सम्बन्धः ।

हितमेव न त्विष्टमिति स्थिते फलितमाह –
तत्रेति ।

सर्वेषां भूतानां लोकानां कामानां चाऽऽत्मा सच्चि­दा­न­न्द­मात्रं तद्रूपत्वं चेन्मु­क्त­स्ये­ष्यते कथं तर्हि तस्यै­श्व­र्य­श्रु­तयो निर्वहन्तीति चोदयति –
नन्विति ।
सगुणविद्यावतां यदैश्वर्यं तन्नि­र्गु­ण­वि­द्या­स्तु­त्यर्थं संकीर्त्यते ।

ब्रह्मीभूतस्य मुक्तस्य सगुणविद्याया अपि प्रत्य­ग्भू­त­त्वा­त्फ­लस्य तत्रोपचरितुं युक्तत्वादिति परिहरति –
नेत्यादिना ।

सर्वात्मत्वे निन्दाऽपि प्राप्नोतीति शङ्कते –
नन्विति ।

दुःखस्य दुःख­त्वा­भा­व­व­त्त­स्याऽऽत्मा विद्वानपि न दुःखी भविष्यतीति समाधत्ते –
न , दुःखस्येति ।

तर्हि दुःखिनामात्मा मुक्त इति दुःखी स्यात्तत्राऽऽह –
आत्मनीति ।
न तावदात्मनः स्वभावतो दुःखित्वं किन्त्वाविद्यकं सा च मुक्तस्य दग्धेति दुःखि­त्वा­प्र­स­क्ति­रि­त्यर्थः ।

तर्हि विद्यया दग्धा­या­म­वि­द्यायां तद­ध्या­रो­पि­त­मै­श्व­र्य­म­पी­श्व­रस्य सगु­ण­वि­द्या­फ­ल­भूतं दग्धमेवेति कथं स्तुत्यर्थमिह तदु­प­दे­श­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
शुद्धेति ।
शुद्धं सत्त्वं रज­स्त­मो­भ्या­म­स्पृष्टं तस्मा­न्मा­यै­क­दे­शा­ज्जाताः संकल्पा निमित्तानि येषां कामा­ना­मै­श्व­र्य­भे­दानां ते तथोक्तास्तेषां सर्वेषु विषयेषु मनो­मा­त्रे­णे­श्व­रा­भि­ध्या­न­रू­पेण सिद्धा­ना­मी­श्व­रा­ख्येन स्वभा­वे­ना­भि­स­म्बन्धो मायावस्थायां सिद्ध्य­ती­त्यर्थः ।

ननु जीवा­ना­मे­वा­वि­द्या­त­त्का­र्य­स­म्बन्धा नेश्वरस्येति चेन्नेत्याह –
पर एवेति ।

चतुर्ष्वपि पर्यायेषु त्वमर्थानुवादेन तस्य तदर्थत्वं विधेयमिति स्वाभिप्रायेण प्रजापतिवाक्यं व्याख्यातं सम्प्रति स्वयू­थ्य­म­त­मु­त्था­प­यति –
य एष इति ।

प्रथमपर्यायस्य च्छाया­त्मा­वि­ष­य­त्व­व­द्द्वि­ती­य­तृ­ती­य­प­र्या­य­यो­रपि विज्ञा­ना­त्म­वि­ष­य­त्व­मि­त्याह –
स्वप्नेति ।
अन्य एव परस्मादुक्त इति सम्बन्धः ।

चतु­र्थ­प­र्या­य­व­त्प­र्या­य­त्र­येऽ­पि­प­र­मा­त्मैव कस्मान्नोच्यते तत्राऽऽह –
न पर इति ।
अप­ह­त­पा­प्म­त्त्वा­दे­र­व­स्था­व­त्त्वस्य च मिथो विरोधो हेत्वर्थः ।

नन्वन्तिमे पर्याये परस्योपदेशो युज्यते तज्ज्ञानस्य मुत्ति­फ­ल­त्वा­त्कि­मिति पूर्वेषु पर्यायेषु च्छायादयो निर्दिश्यन्ते तत्फलाभावादत आह –
छायाद्यात्मनां चेति ।

तत्र प्रथमं छायात्मोपदेशस्य प्रयोजनमाह –
आदावेवेति ।
पर­स्या­ति­सू­क्ष्म­त्वेन दुर्वि­ज्ञे­य­त्वा­त्त­स्मि­न्ने­वाऽऽ­दा­वु­च्य­माने सति तस्यापि सूक्ष्मस्य श्रवणेऽपि श्रोतु­र­ना­त्म­नि­ष्ठस्य किल व्यामोहः स्यात्स मा भूदिति पृथ­क्छा­या­त्मो­प­देशः कृत इति सम्बन्धः ।

स्वप्न­सु­षु­प्त­यो­र्वि­ज्ञा­ना­त्मो­प­दे­शस्य प्रयोजनं दर्श­य­न्नु­क्त­मर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
इतिशब्दस्तिङा सम्बध्यते ।

पर्यायान्तरस्य तात्पर्यमाह –
चतुर्थे त्विति ।

मर­ण­ध­र्म­का­द्दे­हा­त्पृ­थ­ग्भूत्वा ज्योतिः­स्व­रू­प­म­श­री­र­त्वं­प्राप्तो यद्यपि चतुर्थे पर्याये कथ्यते तथाऽपि कथमसौ परमात्मा स्यादि­त्या­श­ङ्क्याऽऽह –
यस्मिन्निति ।
स सम्प्रसादो यो विद्वा­न्क­र्तृ­त्वेन विवक्षितः ।

किमिदं व्याख्यानं शब्दानुसारि किं वाऽर्थानुसारीति विक­ल्प्याऽ­द्य­म­ङ्गी­क­रोति –
सत्यमिति ।

द्वितीयं दूषयति –
नत्विति ।

अस­म्भ­व­मे­वाऽऽ­का­ङ्क्षा­द्वारा स्फुटयति –
कथमित्यादिना ।
यद्याद्ये पर्याये छाया­त्मो­प­दि­श्येत तर्ही­न्द्र­वि­रो­च­नयोः सम्य­ग्द­र्शि­त्वा­द्वि­प­री­त­ग्र­हा­पो­हार्थं प्रजापतेरायासो वृथा स्यात् । तेन नेदं याख्या­न­म­र्था­नु­सा­री­त्यर्थः ।

इतश्च नाऽऽद्ये पर्या­ये­छा­या­त्मो­प­दे­शोऽ­स्ती­त्याह –
किंचेति ।

प्रजा­प­ति­नो­प­दि­ष्ट­स्यापि च्छायात्मनो ग्रहणं न मृष्य­ती­त्या­शङ्क्य हेत्वन्तरं स्पष्टयति –
यदीति ।
तेन च्छाया­त्म­ग्र­ह­णा­प­न­य­का­र­णा­व­च­ने­नेति यावत् । तेन प्रजा­प­ति­ने­त्ये­क­स्त­च्छब्दो योज्यः ।

इतश्च प्रथमे पर्याये द्रष्टु­रे­वो­प­दे­शो­न­च्छा­या­पु­रु­ष­स्ये­त्याह –
किंचान्यदिति ।
एतच्छब्देन सन्नि­हि­ता­व­ल­म्बिना छाया­त्मा­न­म­नु­कृष्य स्वप्ने द्रष्टुरुपदेशे प्रजा­प­ते­र्मृ­षा­वा­दित्वं प्रसज्येत तथा च प्रथमेऽपि पर्याये द्रष्टैवोपदिष्ट इत्यर्थः ।

स्वप्ना­व­स्था­वि­शि­ष्टस्य स्थाना­न्त­रे­बा­ध्य­त्वान्न तत्र द्रष्टु­रु­प­दे­शोऽ­स्तीति शङ्कते –
स्वप्न इति ।

अनु­भ­वा­नु­सा­रे­णो­त्त­र­माह –
नेत्यादिना ।

किंच प्रका­श­का­र­णा­ना­मु­प­रमे यः प्रकाशः स नैसर्गिक इति न्यायेन प्रतीचः स्वयं­ज्यो­तिष्ट्वं बृहदारण्यके स्वाप्ना­व­स्था­मा­श्रि­त्योक्तं ततश्च तत्र द्रष्टुरुपदेशः सिद्ध्यतीत्याह –
न चेति ।

सूर्या­दी­ना­मु­प­रमे यः प्रकाशो दृश्यमानः स नैसर्गिक इत्ययुक्तं स्वप्नेऽ­प्य­न्तः­क­र­णस्य सत्त्वा­दि­त्या­श­ङ्क्यऽऽह –
यद्यपीति ।

करणत्वाभावे हेतुं पृच्छति –
किं तर्हीति ।

नील­पी­ता­दि­जा­ग्र­द्वा­स­ना­भि­र्वि­व­र्त­माना साक्षिणो वेद्यतामापद्यते । तथा च पट­चि­त्र­व­द्वि­चि­त्र­वा­स­ना­म­य­चे­तसः साक्षि­ग­म्य­त्वान्न स्वनोपलब्धौ करणं भवतीति तद्द्रष्टुः स्वयं­ज्यो­तिष्ट्वं न्याय­सि­द्ध­मि­त्याह –
पटेति ।

प्रासङ्गिकं हित्वा द्रष्टै­वो­प­दिष्टः स्वप्ना­व­स्था­या­मि­त्यत्र हेत्वन्तरमाह –
किञ्चेति ।
तथा च जाग्र­द­व­स्था­या­मिव स्वप्नेऽपि द्रष्टैवोपदिष्ट इति शेषः ।

इतश्च द्रष्टु­रे­वो­प­देशः स्वप्न­द­शा­या­मि­त्याह –
प्राप्ताविति ।

न केव­ल­मु­क्त­सौ­षुप्तो निषेधो निषे­ध्य­प्रा­प्ति­सा­पे­क्ष­त्वा­द­व­स्था­द्वये द्रष्टु­रु­प­दे­श­मा­का­ङ्क्षति किं तु तुरीयगतो निषेधोऽपि निषे­ध्य­मा­का­ङ्क्ष­न्न­व­स्था­द्वये द्रष्टु­रु­प­दे­श­मा­का­ङ्क्ष­ती­त्याह –
तथेति ।
निषेधस्य प्राप्ति­सा­पे­क्ष­त्वा­त्प्र­कृ­त­स्यैव द्रष्टु­र­वि­द्या­नि­दाने सशरीरत्वे तन्निमित्तयोः स्थान­द्व­य­ग­त­योर्न प्रिया­प्रि­य­यो­र­प­ह­ति­र­स्तीति न ह वै सश­री­र­स्ये­त्या­दि­नोक्तं सशरीरत्वे प्राप्तयोः प्रिया­प्रि­य­यो­स्त­स्यै­वा­व­स्था­त्र­या­ती­तस्य सत्यां विद्या­या­म­श­री­र­मि­त्या­दिना प्रतिषेधो युक्त इति योजना ।

स्वप्ने द्रष्टुरुपदेशे हेत्वन्तरमाह –
एकश्चेति ।

चतु­र्थ­प­र्या­य­स्य­सौ­षु­प्ता­द­र्था­न्त­र­वि­ष­य­त्व­मु­क्त­म­नु­भाष्य दूषयति –
यच्चो­क्त­मि­त्या­दिना ।

तदेव व्यतिरेकद्वारा स्फोरयति –
यदीति ।

अधिकरणाधेयभावेन भेदः सत्यो नास्तीत्यत्र हेत्वन्तरमाह –
किंचान्यदिति ।

जीवपरयोर्भेदस्य षष्ठ­प्र­पा­ठ­क­वि­रो­ध­व­त्स­प्त­म­प्र­पा­ठ­क­वि­रो­धोऽपि स्यादित्याह –
तथेति ।

बृह­दा­र­ण्य­क­श्रु­त्या­लो­च­ना­या­मपि जीवेश्वरभेदो न सम्भवतीत्याह –
नान्य इति ।

इतश्च जीवपरयोरभेदो नास्तीत्याह –
सर्व­श्रु­ति­ष्विति ।

श्रौत­म­र्थ­मु­प­स­म्ह­रति –
तस्मादिति ।

आत्मैक्ये परस्यैव संसारित्वं सर्वदेहेषु स्यादिति चेन्नेत्याह –
न चेति ।

आरो­पि­त­सं­सा­रित्वं वस्तुतो नाऽऽत्म­न्य­स्ती­त्ये­त­द्दृ­ष्टा­न्तेन स्पष्टयति –
न हीति ।
मिथ्या च तदज्ञानं चेति मिथ्याज्ञानं तेना­ध्य­स्ता­न्य­वि­द्य­मा­ना­न्येव विद्य­मा­न­व­त्प्र­ती­ति­मा­पा­दि­ता­नीति यावत् ।

न ह वै सशरीरस्येत्यादि वदता वास्तवत्वं शरीरसम्बन्धस्य विवक्षितमिति शङ्का­मु­क्त­न्या­या­ति­दे­शेन निरस्यति –
एतेनेति ।
आत्मनि संसारस्य प्रसक्तिर्नेति यावत् । याव­द­ध्या­स­भा­वित्वं प्रिया­प्रि­य­यो­र­प­ह­त्य­भावो न वास्तवत्वं शरी­र­स­म्ब­न्ध­स्यैव प्रिया­प्रि­य­मू­लस्य दुर्नि­रू­प­त्वा­दि­त्यर्थः । स्वप्नद्रष्टा खल्व­प्रि­य­वे­त्तेव भवति नत्व­प्रि­य­वे­त्तै­वेति यत्पूर्वत्र स्थितं तत्सिद्धम् ।

लाभान्तरमाह –
एवं चेति ।
प्रजापतेर्वचनं सत्यं भवेदिति सम्बन्धः ।

अपौरुषेय्यां श्रुतौ कुतः प्रजापतेर्वचनं साव­का­श­मि­त्या­श­ङ्क्याऽऽह –
यदिवेति ।

सुखादयः साश्रया गुण­त्वा­द्रू­पा­दि­व­दि­त्य­नु­मा­ना­त्त­दा­श्रयः परिशेषादात्मा भविष्यतीति वैशे­षि­का­दि­त­र्क­वि­रो­धा­द­सत्यं श्रुते­र्व­च­न­मि­त्या­श­ङ्क्याऽऽह –
न चेति ।
सुखा­दी­ना­मु­पा­धि­ध­र्म­त्वेन सिद्ध­सा­ध्य­त्वा­न्नास्ति श्रौतवचसो बाधकमित्यर्थः ।

प्रत्यक्षमिति शङ्कते –
नन्विति ।

तस्याऽऽ­भा­स­त्वान्न बाधकत्वमिति परिहरति –
नेत्यादिना ।

दृष्टान्तोऽपि सम्प्रतिपन्नो न भवतीति शङ्कते –
सर्वमिति ।

जरादेः सत्यवचनं त्वदी­य­मे­व­म­स्त्ये­वे­त्य­ङ्गी­क­रोति –
अस्त्येवेति ।

अङ्गीकारे हेतुमाह –
दुरवगममिति ।
अधिकारिणः प्रमितिजनको वेद इति न्याया­त्ता­दृ­शा­ना­म­न­धि­का­रिणां दुर्ज्ञा­न­मा­त्म­त­त्त्वम् । अतोऽस्त्येव जरा­दि­स­त्य­त्व­व­चनं न तावता वस्तु­क्ष­ति­रि­त्यर्थः ।

दुरवगमत्वे लिङ्गमाह –
येनेति ।
अत्रे­त्या­त्म­त­त्वोक्तिः ।

तस्य दुर्ज्ञानत्वे लिङ्गान्तरमाह –
तथेति ।

वैना­शि­क­भ्रा­न्ति­र­प्या­त्मनो दुर्ज्ञानत्वं गमयतीत्याह –
तथेन्द्रस्येति ।

साङ्ख्य­भ्रा­न्ति­रपि दुर्ज्ञा­न­त्व­मा­त्मनो ज्ञापयतीत्याह –
तथा साङ्ख्या इति ।

तार्कि­क­भ्रा­न्ति­रपि तस्य दुर्ग्रहत्वे गमिकेत्याह –
तथाऽन्य इति ।
बुद्धि­सु­ख­दुः­खे­च्छा­द्वे­ष­प्र­य­त्न­ध­र्मा­ध­र्म­भा­वना न वाऽऽत्मगुणाः ।

मीमां­स­क­भ्रा­न्ति­स्तस्य दुर्ग्रहत्वे गमिकेत्याह –
तथाऽन्य इति ।

यदा परी­क्ष­का­णा­म­पी­दृशी भ्रान्तिरात्मनो दुरवगमत्वं गमयति तदा विचारविधुराणां लौकिकानां भ्रान्ति­स्त­त्र­प्र­मा­ण­यि­त­व्ये­त्याह –
किमन्य इति ।
अन्ये बम्भ्रमतीति किं वक्तव्यमिति सम्बन्धः ।

यदि लौकिकानां परीक्षकाणां चेदमात्मतत्त्वं दुर्ज्ञानं प्रतिज्ञायते केषां तर्हीदं सुज्ञा­न­मि­त्या­श­ङ्क्याऽऽह –
तस्मादिति ।

एष­णा­स्वि­वाऽऽ­त्म­त­त्त्वेऽपि तेषामौदासीन्यं वारयति –
अनन्यशरणैरिति ।

तेषां कुटीचकादिभावं व्यासेधति –
परमहंसेति ।

कर्म­नि­ष्ठा­ना­मा­श्र­मा­न­तीत्य नैष्क­र्म्य­प्रा­धा­न्येन वर्तमानत्वं दर्शयति –
अत्या­श्र­मि­भि­रिति ।

अन­न्य­श­र­णै­रि­त्युक्तं व्यनक्ति –
वेदान्तेति ।
पूज्यतमैरिति नित्यानुवादः ।

तेषा­मा­त्म­वे­द­नो­पायं प्राक्त­न­मु­प­दि­शति –
प्राजापत्यं चेति ।
स्थानत्रयं तुरीयं चेत्येतद्विषयं प्रकरणचतुष्टयम् ।

यथो­क्ता­धि­का­रि­णा­मे­वाऽऽ­त्म­वे­द­न­मित्य त्रलि­ङ्गा­न्त­र­माह –
तथेति ।
अश­री­र­मि­त्या­दि­वा­क्य­व्या­ख्या­नो­प­सं­हा­रा­र्थ­मि­ति­प­दम् ॥१॥

सशरीरस्य बन्धो मुक्ति­र­श­री­र­स्येति स्थिते किमर्थमशरीरो वायु­रि­त्या­दि­वा­क्य­मि­त्या­श­ङ्क्याऽऽह –
तत्रेत्यादिना ।

कथं वायोरशरीरत्वं तदाह –
अविद्यमानमिति ।
एवं सति वाय्वा­दी­ना­म­श­री­रत्वे सतीतियावत् ।

आकाशस्य सर्व­त्रै­क­रू­प­त्वा­द­मु­ष्मा­दिति कुतो व्यप­दे­श­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह –
अमुष्मादितीति ।

यथो­क्ता­न्य­श­री­राणि वाय्वादीनि तेषा­मा­का­श­त्वा­पत्तौ दृष्टान्तमाह –
यथेति ।
तथा वाय्वादीनि स्वेन­रू­पे­णा­गृ­ह्य­मा­ण­त्व­द­शा­या­मा­का­शा­ख्यतां गतानीति सम्बन्धः । तानि च वाय्वादीनि तथा­भू­ता­न्या­का­शा­त्मत्वं प्राप्ता­नी­त्ये­तत् ।

वर्षा­दि­फ­ल­नि­ष्प­त्त्यर्थं वाय्वा­दी­ना­मा­का­श­दे­शा­त्स­मु­त्था­न­मु­क्त­मा­का­ङ्क्षा­द्वा­रेण स्फुटयति –
कथमित्यादिना ।
स्वेन स्वेन रूपे­णा­भि­नि­ष्प­द्यन्त इति सम्बन्धः ।

तत्रवायोरभ्रस्य विद्युतः स्तनयित्नोश्च स्वेन रूपे­णा­भि­नि­ष्प­त्ति­प्र­कारं विवृणोति –
पुरोवातादीति ।
स्तिमितभावं हित्वा वायुरितिशेषः ॥२॥

दृष्टान्तमनूद्य दार्ष्टा­न्ति­क­माह –
यथेति ।
वाय्वा­दी­ना­मि­त्यस्य पुर­स्ता­त्त­थे­त्य­ध्या­ह­र्त­व्यम् । तत्राऽऽ­दि­श­ब्दे­ना­भ्र­वि­द्यु­त्स्त­न­यि­त्वनो गृह्यन्ते । आका­शा­दी­त्या­दि­प­द­म­भ्रा­दि­का­र­ण­सं­ग्र­हा­र्थम् ।

शरीरसाम्यमेव विशिनष्टि –
अहमिति ।

प्रति­बो­ध­ने­दृ­ष्टा­न्त­माह –
प्रजापतिनेति ।
यथोक्तेन क्रमेण पर्या­य­च­तु­ष्ट­यो­प­दि­ष्ट­प्र­का­रे­णेति यावत् । मघ­वा­न्प्र­ति­बो­धित इति सम्बन्धः ।

दार्ष्टन्तिके प्रति­बो­ध­न­प्र­कारं दर्शयति –
नासीति ।

शरीराद्विदुषः समुत्थाने दृष्टान्तमाह –
आकाशादिवेति ।

समुत्थानं विभजते –
देहादीति ।

पुनरुक्तिं परिहरति –
इति व्याख्यातमिति ।

उत्तरवाक्यस्थं सशब्दं व्याचष्टे –
स येनेति ।
स उत्तमपुरुष इति सम्बन्धः ।

सम्प्रसादस्य स्वेन रूपे­णा­भि­नि­ष्पत्तिं दृष्टान्तेन स्पष्टयति –
प्रागित्यादिना ।

उक्त­दृ­ष्टा­न्ता­नु­सा­रे­णा­वि­द्या­द­शायां शरी­रा­त्म­त्व­मा­पन्नो जीवो विद्यया प्रका­शि­त­ब्र­ह्म­स­तत्त्वः स्वेन रूपे­णा­भि­नि­ष्पन्नो भवतीति दार्ष्टा­न्ति­क­माह –
एवं चेति ।

पुरु­ष­स्यो­त्त­म­वि­शे­षणं पुरु­षा­न्त­र­व्य­व­च्छे­दा­र्थ­मि­त्य­भि­प्रेत्य पुरुषभेदं दर्शयति –
अक्षीति ।
इति चत्वारः पुरुषा इतिशेषः ।

तत्र पूर्वेषां त्रयाणां व्यवच्छेद्यत्वं तुरीयस्य तूत्त­म­पु­रु­ष­त्व­मि­त्याह –
एषामिति ।

यथो­क्तो­त्त­म­पु­रुषे भगवत्सम्मतिं सङ्गिरते –
कृतेति ।
“द्वाविमौ पुरुषौ लोके क्षरमक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
उत्तमः पुरुषस्त्वन्यः पर­मा­त्मे­त्यु­दा­हृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
यस्मा­त्क्ष­र­म­ती­तोऽ­ह­म­क्ष­रा­दपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥”(भ. गी. १५ । १६-१८)
इति हि स भगवानूचिवान् ।

स तत्रेत्यादि व्याचष्टे –
स संप्रसाद इति ।
क्वचिदिति स्वर्गलोकोक्तिः । क्वचि­न्म­नो­मा­त्रै­रि­त्यत्र क्वचिदिति ब्रह्मलोको गृह्यते ।

नोपजनमिति प्रतीकं गृहीत्वा व्याकरोति –
स्त्रीपुं­स­यो­रिति ।
तन्न स्मरन्पर्येतीति सम्बन्धः ।

यथोक्तदेहस्मृतौ काऽनु­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह –
तत्स्मरणे हीति ।

विदुषो मुक्त­स्या­नु­भू­त­दे­हा­स्म­रणे दूषणमाशङ्कते –
नन्विति ।

असर्वज्ञत्वदोषं निराकरोति –
नैष दोष इति ।
अनु­भू­ता­र्थ­स्मृतौ हि सर्वज्ञ इति । न च शरीराद्यनुभूतं तस्या­वि­द्या­का­म­क­र्म­मू­ल­स्या­ज्ञा­न­मा­त्र­त्वा­त्तस्य च सकार्यस्य ज्ञानोदयमात्रेण नष्ट­त्वा­त्प्रा­गपि शरी­रा­दे­र­नु­भ­व­वि­प­री­त­व­र्ति­त्वा­नु­प­प­त्ते­रि­त्यर्थः ।

शरीरादि पूर्वं सम्य­ग्ज्ञा­ने­ना­वि­ष­यी­कृ­त­मपि सद्भ्रा­न्त्याऽ­नू­भू­त­मे­वेति विदुषामपि स्मर्तव्यमिति चेन्नेत्याह –
न हीति ।

मुक्ते पुरुषे शरीरादयो न सम्बध्यन्ते चेत्कथं तर्हि तत्र कामाः सम्ब­ध्ये­र­न्नि­त्या­श­ङ्क्याऽऽह –
ये त्विति ।

किमिति सर्वैरेते कामा नानु­भू­ये­र­न्नि­त्या­श­ङ्क्याऽऽह –
अनृतापिधाना इति ।

इतश्च विदुषामेव तद­भि­व्य­क्ति­रि­त्याह –
विद्येति ।

किमिति निर्गु­ण­वि­द्या­प्र­क­रणे विदुषि सत्य­का­म­स­म्ब­न्ध­व­चनं तत्राऽऽह –
इत्या­त्म­ज्ञा­नेति ।
आत्म­वि­द्या­स्तु­त्यर्थं विदुषि कामसम्बन्धवचनम् ।

मन­सै­ता­न्का­मा­न्प­श्य­न्नि­त्यत्र विशेषश्रवणमपि युक्तमित्याह –
अत इति ।

इन्द्रियादिषु भवतां कामानां कुतो ब्रह्म­लो­क­भा­वि­त्व­मि­त्या­श­ङ्क्याऽऽह –
यत्रेति ।

मन­सै­ता­न्का­मा­नि­त्या­दि­वाक्यं स्तुत्यर्थमपि प्रधा­न­वा­क्य­वि­रु­द्ध­त्वा­त्त्या­ज्य­मिति शङ्कते –
नन्विति ।

वाक्ययोर्मिथो विरोधे दृष्टान्तमाह –
यथेति ।

“यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टु­र्दृ­ष्टे­र्वि­प­रि­लोपो विद्य­तेऽ­वि­ना­शि­त्वा­न्नतु तद्द्वितीयमस्ति ततोऽ­न्य­द्वि­भक्तं यत्पश्येत्”(बृ.उ. ४ । ३ । २३) इति बृह­दा­र­ण्य­क­श्रु­ति­मा­श्रित्य विरोधं धुनीते –
नैष दोष इति ।

अथ यथोक्तं वाक्यं सुषुप्तमधिकृत्य प्रवृत्तं कथं मुक्त­वि­ष­य­त­यो­दा­हृ­त­मत आह –
यद्यपीति ।
सुप्तस्य मोक्ष­दृ­ष्टा­न्त­त्वा­त्त­द्ग­तस्य च दार्ष्टा­न्ति­केऽ­नु­ग­मा­द्य­दुक्तं सुषुप्ते तत्सम्बन्धो मुक्ते सिद्ध्य­ती­त्यर्थः ।

किं च मुक्त­मे­वा­धि­कृत्य “यत्र त्वस्य सर्व­मा­त्मै­वा­भूत्”(बृ.उ. ४ । ५ । १५) इत्यादि तत्रै­वो­क्त­मि­त्याह –
केनेति ।

फला­र्थ­वा­द­स्या­क्षि­वा­क्यस्य च मिथो विरोधं शङ्कते –
अशरीरेति ।
दृश्यत इत्यस्य पदस्य चाक्षुषदर्शने रूढत्वादशरीरस्य तद­यो­ग्य­त्वा­द­श­री­रा­त्मो­क्ति­र्दृ­श्यत इति श्रुति­वि­रु­द्धे­त्यर्थः ।

आत्म­त्वा­मृ­त­त्वा­दि­ब्र­ह्म­वि­ष­या­ने­क­श्रु­ति­लि­ङ्ग­वि­रो­धा­द्दृ­श्यत इत्ये­क­स्याः­श्रु­ते­र्ज्ञा­न­मा­त्र­वि­ष­य­नि­रो­धोऽ­स्ती­त्य­भि­प्रे­त्या­न­न्त­र­वा­क्य­मु­त्था­प­यति –
तत्रेति ।
चाक्षु­ष­द­र्श­ना­वि­ष­यत्वे सति चक्षुषो दर्शने को हेतु­रि­त्य­पे­क्षायां लिङ्गहेतुकं तावद्दर्शनं सम्भवतीति मत्वा दृष्टान्तमाह श्रुतिः ।

स दृष्टान्तो यथा भवति तथोच्यत इत्याह –
तत्रेति ।

तमेव दृष्टान्तमनूद्य व्याचष्टे –
यथेत्यादिना ।

अध्या­हा­र­रा­हि­त्य­सि­द्ध्यर्थं पक्षान्तरमाह –
प्रयोग्येति ।
एवमित्यनेन द्वितीयो यथाशब्दः सम्बध्यते । शरीरस्य रथस्थानीयत्वं शरीरं रथमेव त्विति श्रुत्य­न्त­रा­न्म­न्त­व्यम् । अस्मिन्युक्तः स रथस्थानीय ईश्वरेण स्वक­र्म­फ­लो­प­भो­ग­नि­मित्तं प्राणो रथित्वेन नियुक्त इति सम्बन्धः ।

घ्राणप्राणं व्यावर्तयति –
पञ्चवृत्तिरिति ।

“बुद्धिं तु सारथिं विद्धि मनःप्रग्रहमेव च । इन्द्रियाणि हयानाहुः”(क.उ. १ । ३ । ३) इति श्रुत्य­न्त­र­मा­श्रि­त्याऽऽह –
इन्द्रियेति ।

आत्मानं रथिनं विद्धी­ति­श्रु­ति­वि­रुद्धं प्राणस्य रथि­त्व­मि­त्या­शङ्क्य तस्यो­पा­धि­र्य­स्त­द­भे­दा­ङ्गी­का­रा­त्मै­व­मि­त्याह –
प्रज्ञात्मेति ।

तस्या­ध्या­त्म­स­न्ता­न­श­री­र­द्व­य­वि­शि­ष्ट­त्वेन स्फुरितं स्वरूपं दर्शयति –
विज्ञानेति ।

ईश्वरस्य यथो­क्त­प्रा­णो­पा­धि­द्वारा भोक्तृ­त्वा­दि­सं­सा­रि­त्व­मि­त्यत्र श्रुत्यन्तरं प्रमाणयति –
कस्मिन्निति ।
प्रति­ष्ठा­स्या­मी­ती­क्षित्वा स प्राण­म­सृ­ज­ते­त्या­दि­श्रु­ति­रिति शेषः ।

तथा च यथा राज्ञा सर्वा­धि­का­रि­त्वेन सेनाध्यक्षः सन्धिविग्रहादौ नियुज्यते तथेश्वरेण सर्व­चे­ष्टा­न्त­रा­धि­कृतः स्वकी­य­द­र्श­ना­दि­व्या­पा­र­नि­मित्तं नियुक्तो भवतीत्याह –
राज्ञेति ।
प्राणः स्वविलक्षणेन चेतनेन नियुज्यते प्रयो­ज्य­त्वा­द­श्वा­दि­व­दि­त्य­नु­मा­ना­द्दे­ह­सं­ह­ता­त्प्रा­णा­द­ति­रि­क्तोऽ­सं­ह­त­श्चे­तनः सिद्ध्यतीति समुदायार्थः ।

चक्षुरादिचेष्टा चेतननिमित्ता चेष्टा­त्वा­द्र­था­दि­चे­ष्टा­व­दि­त्य­नु­मा­ना­न्तरं सूचयति –
तस्यैवेति ।
प्रकृ­त­प्रा­ण­वि­ष­य­स्त­च्छब्दः । मात्रेत्येतस्य व्याख्यानमेकदेश इति । प्राणसंवादे चक्षुरादीनां प्राण­पा­र­त­न्त्र्य­प्र­ती­ते­स्त­दे­क­दे­शत्वं तेषामिति द्रष्टव्यम् ॥३॥

शरी­रा­द्व्य­ति­रि­क्त­मा­त्मानं सम्भाव्य तस्यौपाधिकं द्रष्टृ­त्व­मा­चष्टे –
अथेति ।
अति­रि­क्ता­त्म­स­म्भा­व­ना­न­न्त­र्य­म­थ­श­ब्दार्थः । यत्र तत्रे­ति­स­प्त­मीभ्यां संसारदशोच्यते । अनुगतं चक्षुरिति सम्बन्धः ।

दर्शनाय चक्षु­रि­त्य­स्यार्थं समर्थयते –
यस्येति ।
यस्य परस्य द्रष्टुरर्थे करणं चक्षुरिष्टं स परश्चक्षुषि लिङ्गेन दृश्यत इति सम्बन्धः ।

पारार्थ्ये चक्षुषो हेतुमाह –
देहादिभिरिति ।
यत्संहतं तत्स्व­वि­ल­क्ष­ण­शेषं दृष्टं यथा शयनासनादि तथा तदपि चक्षु­र्दे­हा­दिभिः संहतत्वाद्यस्य विलक्षणस्य शेषभूतं सोऽत्र दर्शनेन लिङ्गेन दृश्यते । विमतं साश्रयं धर्म­त्वा­द्रू­पा­दि­व­दि­त्य­नु­मा­ना­दि­त्यर्थः ।

दृश्यत इत्य­स्या­वि­रु­द्धा­र्थ­मु­क्त्वाऽ­क्षि­णी­त्यस्य विवक्षितमर्थमाह –
अक्षिणिति ।

यथाऽक्षिद्वारा रूपोपलब्धा परस्तथा तत्त­दि­न्द्रि­य­द्वारा तत्त­द्वि­ष­यो­प­लब्धा पर एवेति कृत्वा युक्त­मि­द­मु­प­ल­क्ष­ण­मिति साधयति –
सर्वविषयेति ।

सर्वे­न्द्रि­यै­रु­प­ल­ब्धृ­त्व­म­वि­शिष्टं चेत्कथं तर्हि सर्वास्वपि श्रुतिषु चक्षु­ष्ये­वा­त्मो­प­दि­श्यते तत्राऽऽह –
स्फुटेति ।

चक्षुषः स्फुटोपलब्धौ हेतुत्वे श्रुतिं सम्वादयति –
अहमिति ।
यत्रादर्शमिति चाक्षुषः प्रत्य­य­स्त­द्वस्तु सत्यं स्फुटो­प­ल­म्भा­दिति द्वयो­र्वि­व­द­मा­न­यो­र्दृ­ष्ट­मि­त्यर्थः ।

य एषोऽ­क्षि­णी­त्यत्र सर्वे­न्द्रि­य­द्वा­रो­प­लब्धा विवक्षित इत्युक्तं व्यक्तीकरोति –
अथापीति ।
चक्षुषि स्फुटो­प­ल­म्भेऽ­पीति यावत् । योऽस्मिन्देहे येन केनापीन्द्रियेण यं कंचिद्विषयं वेद स आत्मेति सम्बन्धः ।

उक्त­मे­वा­र्थ­मा­का­ङ्क्षा­द्वारा स्फोरयति –
कथमित्यादिना ।

जिघ्राणीति यो वेदेत्युक्तमेव संक्षिपति –
अस्येति ॥४॥

इन्द्रि­यै­र्घ्रा­णा­दि­भि­र­सं­स्पृष्टं तत्त­द्द्वा­रे­णा­नि­ष्प­न्न­मिति यावत् । केवलं मनो­मा­त्र­ज­नि­त­मि­त्ये­त­न्म­न्वानि संपा­द­या­नी­त्यर्थः । यो वेदेत्यत्र प्रत्ययार्थभूतं कर्तृत्वं सापे­क्ष­त्वा­न्मिथ्या प्रकृत्यर्थं रूपं तु संवि­न्मा­त्र­म­न­पे­क्ष­तया सत्य­मा­त्म­स्व­रू­प­मि­त्याह –
यो वेदेति ।

आत्मा संवे­द­न­स्व­भा­व­श्चे­त्त­त्सं­स­र्गा­देव विष­य­सि­द्धि­स­म्भ­वा­च्च­क्षु­रा­दि­वै­यर्थ्यं स्यादि­त्या­श­ङ्क्याऽऽह –
दर्शनादीति ।
अन्तः­क­र­ण­वृ­त्ति­र्द­र्श­ना­दि­क्रिया । सा चाऽऽत्मनः संवि­दे­क­र­स­स्या­स­ङ्गो­दा­सी­नस्य विष­य­सं­स­र्ग­भ्र­म­हे­तु­स्त­न्नि­ष्प­त्त्य­र्थानि चक्षुरादीनि भवन्ति सार्थ­का­नी­त्यर्थः ।

तेषामुक्तरीत्या सार्थकत्वे गमकमाह –
इदं चेति ।
करणानामुक्तं सार्थकत्वं प्रकृतस्य संवि­न्मा­त्र­स्या­स­ङ्ग­त्वा­देव स्वतो विष­य­स­म्ब­न्धा­नु­प­पत्त्या तत्स­म्ब­न्ध­भ्रा­न्ति­का­र­णा­न्तः­क­र­ण­वृ­त्ति­वि­शे­षा­पे­क्षया निर्धा­रि­त­मि­त्यर्थः ।

आत्मनः संवि­न्मा­त्र­स्व­भा­वत्वे कथं कर्तृत्वव्यपदेश इत्याशङ्क्याऽऽह –
आत्मन इति ।

य एषोऽ­क्षि­णी­त्यादि वाक्यं प्रपञ्चितं सम्प्रति स तत्रेत्यादि फलवाक्यं प्रप­ञ्च­यि­तु­मि­न्द्रि­या­न्त­रेभ्यो मनसो वैलक्षण्यं दर्शयति –
मनोऽप्त्येति ।

तस्य चक्षुष्ट्वेऽपि कुतो दैव­त्व­मि­त्या­श­ङ्क्याऽऽह –
वर्तमानेति ।
आग­न्तु­क­दो­ष­रा­हित्यं मृदितदोषत्वम् । सर्वेश्वरो व्यज्यते यस्मिन्विशुद्धे मनसि तन्मनः सर्वेश्वरं तदुपाधिरस्येति तथोक्तः । ईश्वरेण तद­भि­व्य­ञ्ज­के­ने­त्ये­तत् । अवि­द्या­दि­प्र­ति­ब­न्ध­क­स्या­भा­वा­न्म­नसा नित्यं प्रततं दर्शनं नित्या­भि­व्य­क्त­स्व­रूपं चैतन्यं तेन पश्यन्निति योजना ॥५॥

तं वा एतमित्यादि व्याचष्टे –
यस्मादिति ।

पदार्थमुक्त्वा वाक्यार्थमाह –
यदर्थं हीति ।

स सर्वां­श्चे­त्या­दि­वा­क्य­मा­श­ङ्को­त्त­र­त्वे­नो­त्थाप्य व्याचष्टे –
तद्यु­क्त­मि­त्या­दिना ।
यथोक्तं फलं तच्छब्दार्थः । प्रकरणं निर्वि­शे­ष­ब्र­ह्मा­त्मै­क­त्व­ज्ञा­न­वि­ष­यम् ॥६॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य द्वादशः खण्डः ॥

दह­र­वि­द्या­प्र­क­रणे निर्विशेषं ब्रह्म उपा­स्य­स्तु­त्यर्थं प्रसङ्गादुक्तं तत्प्र­क­र­ण­प­रि­स­मा­प्त्यर्थं प्रकृताया दहरविद्यायाः शेष­भू­त­ज­प­वि­धा­ना­र्थ­मा­र­भते –
श्यामादिति ।
अत्य­न्त­दु­र­व­गा­ह्य­त्वा­द्ध्या­न­ही­ना­ना­मिति शेषः ।

कथं जीवतो ब्रह्म­लो­क­प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह –
मनसेति ।

न तर्हि मुख्या तत्प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह –
शरीरेति ।

विपरीतपाठं हेतुत्वेनेति व्याचष्टे –
यस्मादिति ।

हेतुः प्रतिज्ञया योज्यते –
अत इति ।

दृष्टा­न्त­मा­का­ङ्क्षा­पू­र्व­क­म­व­तार्य व्याचष्टे –
कथमित्यादिना ।

शरीरस्य त्याज्यत्वे हेतुमाह –
सर्वानर्थेति ।
इतिशब्दो ध्यान­स­मा­प्त्यर्थो दह­रोऽ­स्मि­न्न­न्त­रा­काश इति ॥१॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य त्रयोदशः खण्डः ॥

लक्षणनिर्देशस्य प्रकृतोपयोगं दर्शयति –
आध्यानायेति ।
“सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति । आकाशा ह्येवेभ्यो ज्यायान्”(छा. उ. १ । ९ । १) इत्याद्याः श्रुतयः ।

आका­श­श­ब्दे­नाऽऽ­त्मनः श्रुतिषु प्रसिद्धत्वे हेतुमाह –
आकाश इवेति ।

ते यदन्तरेत्यत्र ते इति पदं प्रथ­मा­द्वि­व­च­नान्तं गृहीत्वा व्याख्याय द्विती­या­द्वि­व­च­नान्तं षष्ठ्यर्थमादाय व्याचष्टे –
तयोर्वेति ।

यदन्तरेति समस्तं पदं पूर्वत्र व्याख्यातमधुना तु व्यस्तं व्याकृतं तदेव व्याकरणं संक्षिपति –
नामरूपाभ्यामिति ।

ताभ्यामस्पृष्टं चेत्कथं तन्नि­र्वा­ह­क­मि­त्या­श­ङ्क्याऽऽह –
नाम­रू­पा­भ्या­म­स्पृ­ष्ट­मिति ।
मायावशादिति शेषः ।

आत्मत्वेऽपि कथं कर­त­ला­म­ल­क­व­द्ब्र­ह्म­णोऽ­प­रो­क्ष­त्व­मत आह –
आत्मा हीति ।
तेन स्वसं­वे­द्य­त्वे­नेति यावत् ।

कुतो देह­द्व­यो­प­हि­त­स्याऽऽ­त्मनः स्वसंवेद्यत्व तत्राऽऽह –
अशरीर इति ।

परि­च्छि­न्न­स्या­श­री­र­त्व­म­यु­क्त­मि­त्या­श­ङ्क्याऽऽह –
व्योमवदिति ।

ब्रह्मैव प्रत्य­क्ष­भू­त­मिति कथ­म­व­ग­त­मि­त्या­श­ङ्क्याऽऽह –
आत्मेति ।
अनात्मत्वं चेद­ब्र­ह्म­त्व­प्र­स­ङ्गा­त्प्र­त्य­ग्भूतं ब्रह्म वक्त­व्य­मि­त्यर्थः ।

उपास्यस्वरूपं दर्शयित्वा तदुपासकस्य प्रार्थ­ना­म­न्त्र­मु­त्थाप्य व्याकरोति –
अत ऊर्ध्वमिति ।

प्रथमतो ब्राह्मणग्रहणे हेतुमाह –
ब्राह्मणा एवेति ।

विशेष्यं निर्दिशति –
स्त्रीव्य­ञ्ज­न­मिति ।
योनिशब्दितं प्रज­न­ने­न्द्रि­य­मि­त्यर्थः ।

कथं तद्भक्षयितृ भवेत्तदाह –
तत्सेविनामिति ।]
तदभिगमनं नाम गर्भ­वा­स­स्त­स्या­ति­श­ये­ना­न­र्थ­हे­तुत्वं ज्ञापयितुं द्विर्व­च­न­मि­त्यर्थः ॥१॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य चतुर्दशः खण्डः॥

उक्त­वि­ज्ञा­न­स्यौ­त्प्रे­क्षि­क­त्व­शङ्कां व्युद­स्य­न्न­ना­दि­पा­र­म्प­र्या­ग­तत्वं दर्शयति –
तद्धैतदिति ।
सोपकरणमुपकरणैः शमादिभिः सहितमिति यावत् । तद्द्वारेण हिर­ण्य­ग­र्भ­द्वा­रे­णे­त्यर्थः ।

विद्याप्रकरणं समा­प्या­वि­द्व­द­नु­ष्ठि­तस्य कर्मणः साफ­ल्य­म­वि­द्व­त्सं­तो­षार्थं कथयति –
यथेत्यादिना ।
इहेति प्रकृ­तो­प­नि­ष­दुक्तिः । प्राङ्मु­ख­त्व­प­वि­त्र­पा­णि­त्वा­दयो नियमाः । भिक्षा­श­न­स्ना­ना­च­म­ना­दि­र्विधिः ।

किमित्येष नियमोऽध्ययने कथ्यते तत्राऽऽह –
एवं हीति ।
तत्रापीति सप्तम्या यथोक्तोऽधिकारी गृहीतः । एतत्सर्वं स्वयं कुर्व­न्ब्र­ह्म­लो­क­म­भि­स­म्प­द्यत इति सम्बन्धः । एवं वर्तयन्नित्यस्य व्याख्यानमेवं यथोक्तेन प्रकारेण कुर्वन्निति ।

अप्रा­प्त­प्र­ति­षे­धा­शङ्कां वारयति –
पुनरावृत्तेरिति ।
चन्द्र­लो­का­दि­व­द्ब्र­ह्म­लो­का­दपि प्राप्ता पुन­रा­वृ­त्ति­स्तस्या न चेत्यादिना प्रति­षे­धा­न्ना­प्रा­प्त­प्र­ति­षे­ध­प्र­स­क्ति­रि­त्यर्थः ।

अपु­न­रा­वृ­त्ति­वा­क्य­स्था­न्य­क्ष­राणि व्याकरोति –
अर्चिरादिनेति ।
प्रागिति महा­प्र­ल­या­त्पू­र्व­का­लोक्तिः । ततो ब्रह्म­लो­का­दि­त्यर्थः ॥१॥
॥ इति श्रीम­दा­न­न्द­गि­रि­टी­का­या­म­ष्ट­मा­ध्या­यस्य पञ्चदशः खण्डः ॥

वियदादिजगज्जातं जातमज्ञानतो यतः । तदस्मि नामरूपादिविरहि ब्रह्म निर्भयम् ॥१॥
नम­स्त्र्य­य्य­न्त­सं­दो­ह­स­र­सी­रु­ह­भा­नवे । गुरवे पर­प­क्षौ­घ­ध्वा­न्त­ध्वं­स­प­टी­यसे ॥२॥
॥ इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तायां श्रीश­ङ्क­र­भ­ग­व­त्प्र­णी­त­च्छा­न्दो­ग्य­भा­ष्य­टी­का­या­म­ष्ट­मोऽ­ध्यायः समाप्तः ॥