आनन्दगिरिटीका (गीताभाष्य)
प्रथमोऽध्यायः
आनन्दगिरिटीका
दृष्टिं मयि विशिष्टार्थां कृपापीयूषवर्षिणीम् ।
हेरम्ब देहि प्रत्यूहक्ष्वेडव्यूहनिवारिणीम् ॥ १ ॥ यद्वक्त्रपङ्केरुहसम्प्रसूतं निष्ठामृतं विश्वविभागनिष्ठम् ।
साध्येतराभ्यां परिनिष्टितान्तं तं वासुदेवं सततं नतोऽस्मि ॥ २ ॥ प्रत्यञ्चमच्युतं नत्वा गुरूनपि गरीयसः ।
क्रियते शिष्यशिक्षायै गीताभाष्यविवेचनम् ॥ ३ ॥
कर्मनिष्ठाज्ञाननिष्ठेत्युपायोपेयभूतं निष्ठाद्वयमधिकृत्य प्रवृत्त गीताशास्त्रं व्याचिख्यासुर्भगवान् भाष्यकारो विघ्नोपप्लवोपशमनादिप्रयोजनप्रसिद्धये प्रामाणिकव्यवहारप्रमाणकमिष्टदेवतातत्त्वानुस्मरणं मङ्गलाचरणं सम्पादयन् अनवशेषेणेतिहासपुराणयोर्व्याचिख्यासितगीताशास्त्रेणैकवाक्यतामभिप्रेत्य पौराणिकश्लोकमेवान्तर्यामिविषयमुदाहरति –
नारायण इति ।
‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ’ [मनुः १.१०] इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः । सूक्ष्मदर्शिनः पुनराचक्षते – नरशब्देन चराचरात्मकं शरीरजातमुच्यते । तत्र नित्यसन्निहिताश्चिदाभासा जीवा नारा इति निरुच्यन्ते । तेषामयनमाश्रयो नियामकोऽन्तर्यामी नारायण इति । यमधिकृत्यान्तर्यामिब्राह्मणं श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते । तदनेन शास्त्रप्रतिपाद्यं विशिष्टं तत्त्वमादिष्टं भवति ।
ननु परस्याऽऽत्मनो मायासम्बन्धादन्तर्यामित्वं शास्त्रप्रतिपाद्यत्वं च वक्तव्यम् । अन्यथा कूटस्थासङ्गाविषयाद्वितीयस्य तदयोगात् । तथा च शुद्धतासिद्धौ कथं यथोक्ता परदेवता शास्त्रादावनुस्मर्यते ? शुद्धस्य हि तत्त्वस्यानुस्मरणमभीष्टफलवदभीष्टम् । तत्राह –
परोऽव्यक्तादिति ।
अव्यक्तम् अव्याकृतं मायेत्यनर्थान्तरम् । तस्मात् परो – व्यतिरिक्त स्तेनासंस्पृष्टोऽयं परः, ‘अक्षरात् परतः परः’(मु. उ. २-१-२) इति श्रुतेर्गृहीतः । तत्त्वतो मायासम्बन्धाभावेऽपि कल्पनया तदीयसङ्गतिमङ्गीकृत्यान्तर्यामित्वादिकमुन्नेयम् ।
यस्मादीश्वरस्य व्यतिरेको विवक्षितस्तस्मिन्नव्यक्ते साक्षिसिद्धेऽपि, कार्यलिङ्गकमनुमानमुपन्यस्यति –
अण्डमिति ।
अपञ्चीकृतपञ्चमहाभूतात्मकं हैरण्यगर्भं तत्त्वमण्डमित्यभिलप्यते । तदव्यक्तात् पूर्वोक्तादुत्पद्यते । प्रसिद्धा हि श्रुतिस्मृतिवादेषु हिरण्यगर्भस्य मूलकारणादुत्पत्तिः । तथा च कार्यलिङ्गादव्यक्तादभिव्यक्तिरित्यर्थः ।
हिरण्यगर्भे श्रुतिस्मृतिसमधिगतेऽपि कार्यलिङ्गकमनुमानमस्तीति मन्वानो विराडुत्पत्तिमुपदर्शयति –
अण्डस्येति ।
उक्तस्याण्डस्य हिरण्यगर्भाभिधानीयस्यान्तरिमे भूरादयो लोका विराडात्मका वर्तन्ते । कार्यं हि कारणस्यान्तर्भवति । तेन हिरण्यगर्भान्तर्भूता भूरादयो लोका विराडात्मानस्तेन सृष्टा इति तल्लिङ्गाद्धिरण्यगर्भसिद्धिरित्यर्थः ।
लोकानेव पञ्चीकृतपञ्चमहाभूतात्मकविराडात्मत्वेन व्युत्पादयति –
सप्तद्वीपेति ।
‘सा पृथिव्यभवत्’ [बृ.उ. १.२.२] इति श्रुतौ विराजो जन्म सङ्कीर्तितमित्यङ्गीकारादशेषद्वीपोपेता पृथिवीत्यनेन सर्वलोकात्मको विराडेवोच्यते । चशब्देन विराजो हि हिरण्यगर्भे पूर्वोक्ताण्डात्मन्यन्तर्भावात् , ततः सम्भवोऽनुकृष्यते । परमात्मा हि स्वाज्ञानद्वारा जगदशेषमुत्पाद्य स्वात्मन्येवान्तर्भाव्याखण्डैकरससच्चिदानन्दात्मना स्वे महिम्नि तिष्ठतीत्यर्थः । अत्र च नारायणशब्देनाभिधेयमुक्तम् । नरा एव नारा जीवाः, त्वम्पदवाच्याः, तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म । तथा च कल्पितस्याधिष्ठानातिरिक्तस्वरूपाभावाद्वाच्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्ममात्रत्वाद्ब्रह्मात्मैक्यं विषयोऽत्र सूच्यते । तेनार्थाद्विषयविषयिभावः सम्बन्धोऽपि ध्वनितः । परोऽव्यक्तादित्यनेन मायासंस्पर्शाभावोक्त्या सर्वानर्थनिवृत्त्या परमानन्दाविर्भावलक्षणो मोक्षो विवक्षितः । तेन च तत्कामस्याधिकारो द्योतितः । परिशिष्टेन तु, शब्देन वस्तुनो वास्तवमद्वितीयत्वमावेदितम् । तेन च वस्तुद्वारा परमविषयत्वं तज्ज्ञाननिष्ठायास्तदुपायभूतकर्मनिष्ठायाश्चावान्तरविषयत्वमित्यर्थादुक्तमित्यवधेयम् ॥ १ ॥
ननु नैवं साध्यसाधनभूतं निष्ठाद्वयमत्र भगवता प्रतिपाद्यते, भूमिप्रार्थितेन ब्रह्मणाऽभ्यर्थितस्य भगवतो भूमिभारापहारार्थं वसुदेवेन देवक्यामाविर्भूतस्य तादर्थ्येन मध्यमं पृथासुतं प्रथितमहिमानं प्रेरयितुं धर्मयोरिहानूद्यमानत्वात् , अतो नास्य शास्त्रस्य निष्ठाद्वयं परापरविषयभावमनुभवितुमलमिति । तन्न । भगवतो धर्मसंस्थापनस्वाभाव्यध्रौव्याद् धर्मद्वयस्थापनार्थमेव प्रादुर्भावाभ्युपगमाद्भूभारपरिहारस्य चाऽऽर्थिकत्वात् , अर्जुनं निमित्तीकृत्याधिकारिणं स्वधर्मप्रवर्तनद्वारा ज्ञाननिष्ठायामवतारयितुं गीताशास्त्रस्य प्रणीतत्वात् , उचितमस्य निष्ठाद्वयविषयत्वमिति परिहरति –
स भगवान् इत्यादिना धर्मद्वयमर्जुनायोपदिदेश इत्यन्तेन भाष्येण ।
तत्र, नेदं गीताशास्त्रं व्याख्यातुमुचितमाप्तप्रणीतत्वानिर्धारणात् तथाविधशास्त्रान्तरवदित्याशङ्क्य, मङ्गलाचरणस्योद्देश्यं दर्शयन् आदौ शास्त्रप्रणेतुराप्तत्वनिर्धारणार्थं सर्वज्ञत्वादिप्रतिज्ञापूर्वकं सर्वजगज्जनयितृत्वमाह –
स भगवानिति ।
प्रकृतो नारायणाख्यो देवः सर्वज्ञः सर्वेश्वरः समस्तमपि प्रपञ्चमुत्पाद्य व्यवस्थितः । न च तस्यानाप्तत्वम् , ईश्वरानुगृहीतानामाप्तत्वप्रसिद्ध्या तस्य परमाप्तत्वप्रसिद्धेरित्यर्थः ।
ननु भगवता सृष्टमपि चातुर्वर्ण्यादिविशिष्टं हिरण्यगर्भादिलक्षणं जगत् न व्यवस्थितिमास्थातुं शक्यते व्यवस्थापकाभावात् , न च परस्यैवेश्वरस्य व्यवस्थापकत्वं वैषम्यादिप्रसङ्गात् , तत्राह –
तस्य चेति ।
सृष्टस्य जगतो मर्यादाविरहितत्वे शङ्किते तदीयां व्यवस्थां कर्तुमिच्छन् व्यवस्थापकमालोच्य क्षत्रस्यापि क्षत्रत्वेन प्रसिद्धं धर्मं तथाविधमधिगम्य सृष्टवानित्यर्थः ।
सृष्टस्य धर्मस्य साध्यस्वभावतया साधयितारमन्तरेणासम्भावत् तस्यैव तदनुष्ठातृत्वानभ्युपगमात् प्राणिप्रभेदानामधर्मप्रायाणां तदयोगात् कुतस्तदीया सृष्टिरित्याशङ्क्याह –
मरीच्यादीनिति ।
तेषां भगवता सृष्टानां प्रजासृष्टिहेतूनां यागदानादिप्रवृत्तिसाध्यं धर्ममनुष्ठातुमधिकृतानां स्वकीयत्वेन तदुपादानमुपपन्नमित्यर्थः ।
चैत्यवन्दनादिभ्यो विशेषार्थं धर्मं विशिनष्टि –
वेदोक्तमिति ।
ननु नैतावता जगदशेषमपि व्यवस्थापयितुं शक्यते, प्रवृत्तिमार्गस्य पूर्वोक्तधर्मं प्रति नियतत्वेऽपि निवृत्तिमार्गस्य तेन व्यवस्थापनायोग्यत्वात् , तत्राह –
ततोऽन्यांश्चेति ।
निवृत्तिरूपस्य धर्मस्य शमदमाद्यात्मनो गमकमाह –
ज्ञानेति ।
विवेकवैराग्यातिशये शमाद्यतिशयो गम्यते । ततो विवेकादि तस्य गमकमित्यर्थः ।
धर्मे बहुविदां विवाददर्शनाज्जगतः स्थेम्ने कारणीभूतधर्मान्तरमपि स्रष्टव्यमस्तीत्याशङ्क्याह –
द्विविधो हीति ।
अतिप्रसङ्गाप्रसङ्गव्यावृत्तये प्रकृतं धर्मं लक्षयति –
प्राणिनामिति ।
प्रवृत्तिलक्षणो धर्मोऽभ्युदयार्थिनां साक्षादभ्युदयहेतुः, निश्रेयसार्थिनां परम्परया निःश्रेयसहेतुः । निवृत्तिलक्षणस्तु धर्मः साक्षादेव निःश्रेयसहेतुरिति विभागः । ज्ञानस्यैव निःश्रेयसहेतुत्वेऽपि शमादीनां ज्ञानद्वारा मोक्षहेतुत्वं, ज्ञानातिरिक्तव्यवधानाभावाच्च साक्षादित्युक्तम् ।
यद्येवं धर्मो लक्ष्यते, तर्हि वर्णित्वमाश्रमित्वं चोपेक्ष्य सर्वैरेव पुरुषार्थार्थिभिर्द्वावपि धर्मौ यथायोग्यमनुष्ठेयावित्यानुष्ठातृनियमासिद्धिरित्याशङ्क्याह –
ब्राह्मणाद्यैरिति ।
अर्थित्वाविशेषेऽपि श्रुतिस्मृतिपर्यालोचनयाऽनुष्ठानान्नियमसिद्धिरित्यर्थः ।
नित्यनैमित्तिकेषु यावज्जीवमनुष्ठानं काम्येषु करणांशे रागाधीना प्रवृत्तिः इतिकर्तव्यतांशे वैधीति विभागेऽपि कदाचिदेवानुष्ठानमिति विभागमभिप्रेत्याह –
दीर्घेणेति ।
अथ यथोक्तधर्मवशादेव जगतो विवक्षितस्थितिसिद्धेर्भगवतो नारायणस्यादिकर्तुरनेकानर्थकलुषितशरीरपरिग्रहासम्भवादन्यस्यैव कस्यचिदनाप्तस्य वैषम्यनैर्घृण्यवतो निग्रहपरिग्रहद्वारेण गीताशास्त्रप्रणयनमिति कुतोऽस्य आप्तप्रणीतत्वम् , तत्राह –
अनुष्ठातॄणामिति ।
अथवा यथोक्तशङ्कायां दीर्घेणेत्यारभ्योत्तरम् । महता कालेन कृतत्रेतात्यये द्वापरावसाने साधकानां कामक्रोधादिपूर्वकादविवेकादधर्मबाहुल्याद्धर्माभिभवादधर्माभिवृद्धेश्च जगतो मर्यादाभेदे तदीयां मर्यादामात्मनिर्मितां पालयितुमिच्छन् प्रकृतो भगवान् एतदर्थेन चातुर्वर्ण्यादिसंरक्षणार्थं लीलामयं मायाशक्तिप्रयुक्तं स्वेच्छाविग्रहं जग्राहेत्यर्थः ।
‘भौमस्य ब्रह्मणो गुप्त्यै वसुदेवादजीजनत्’ [म.भा.शां. ४७.२९] इति स्मृतिमनुसृत्य पदद्वयमनूद्य व्याचष्टे –
भौमस्येति ।
अंशेनेति ।
स्वेच्छानिर्मितेन मायामयेन स्वरूपेणेत्यर्थः ।
किल इति
किलेत्यस्मिन्नर्थे पौराणिकी प्रसिद्धिरनूद्यते । न हि भगवतो व्यतिरिक्तस्येदं जन्मेति युज्यते, बहुविधागमविरोधादिति भावः ।
ननु वैदिकधर्मसंरक्षणार्थं भगवतो जन्म, ‘यदा यदा हि धर्मस्य’ [भ. गी. ४.७] इत्यादिदर्शनात् । किमिदं ब्राह्मणत्वस्य रक्षणार्थमिति तत्राह –
ब्राह्मणत्वस्य हीति ।
तथापि वर्णाश्रमभेदव्यवस्थापनं विना कथं यथोक्तधर्मरक्षणमित्याशङ्क्याह –
तदधीनत्वादिति ।
ब्राह्मणं हि पुरोधाय क्षत्रादिः प्रतिष्ठां प्रतिपद्यते, याजनाध्यापनयोस्तद्धर्मत्वात् तद्द्वारा च वर्णाश्रमभेदव्यवस्थापनात् । अतो ब्राह्मण्ये रक्षिते सर्वमपि सुरक्षितं भवतीत्यर्थः ।
नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्त्वे सत्यस्मदादिभिरविशेषादनीश्वरत्वप्रसक्तिरित्याशङ्क्य ज्ञानादिकृतं विशेषमाह –
स चेति ।
ज्ञानं – ज्ञप्तिः – अर्थपरिच्छित्तिः, ऐश्वर्यम् – ईश्वरत्वं स्वातन्त्र्यम्, शक्तिः – तदर्थनिर्वर्तनसामर्थ्यम् , बलम् – सहायसम्पत्तिः, वीर्यम् – पराक्रमवत्त्वम् , तेजस्तु प्रागल्भ्यमधृष्यत्वम् , एते च षड्गुणाः सर्वविषयाः सर्वदा भगवति वर्तन्ते । तथा च तस्य शरीरादिमत्त्वेऽपि नास्मदादिसाम्यमित्यर्थः ।
अथैवमपि कथमीश्वरस्यानादिनिधनस्य नित्यशुद्धबुद्वमुक्तस्वभावस्य स्वभावविपरीतं जन्मादि सम्भवति ? न हि भूतानामीशिता स्वतन्त्रः स्वात्मनोऽनर्थं स्वयमेव सम्पादयितुमर्हति, न चास्य देहादिग्रहे किमपि फलमुपलभ्यते, तत्राह –
त्रिगुणात्मिकामिति ।
सिसृक्षितदेहादिगतवैरूप्यसिद्ध्यर्थमिदं विशेषणम् । तस्या व्यापकत्वं वक्तुं वैष्णवीमित्युक्तम् ।
ईश्वरपारवश्यं तस्या दर्शयति –
स्वामिति ।
तस्याश्च प्रतिभासमात्रशरीरत्वमेव न तु वस्तुत्वमित्याह –
मायामिति ।
तस्या नानाविधकार्याकारेण परिणामित्वं सूचयति –
मूलप्रकृतिमिति ।
ईश्वरस्य प्रकृत्यधीनत्वं वारयति –
वशीकृत्येति ।
नित्यशुद्धबुद्धमुक्त
नित्यत्वं कार्याकारविरहितत्वम् , शुद्धत्वमकारणत्वम् , बुद्धत्वं अजडत्वम् , मुक्तत्वं अविद्याकामकर्मपारतन्त्र्यराहित्यम् ।
न च नित्यत्वादयः संसारावस्थायामसन्तो मोक्षावस्थायां सम्भवन्तीति युक्तमित्याह –
स्वभाव इति ।
स्वमायया ।
देहग्रहे प्राधान्यं मायाया दर्शयितुं पुनः स्वमाययेत्युक्तम् ।
‘स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः’(बृ. उ. १४-३-८) इति श्रुतिमाश्रित्याह –
देहवानिति ।
इव जात इव
इवकाराभ्यां देहादेरवस्तुत्वेन कल्पितत्वं द्योत्यते ।
लोकानुग्रहमिति
धर्मद्वयोपदेशद्वारा प्राणिवर्गस्याभ्युदयनिःश्रेयसतत्परत्वापादनं लोकानुग्रहः । यद्यपि कूटस्थः स्वतन्त्रो नित्यत्वादिलक्षणश्चायमीश्वरः स्वतो दृश्यते, तथापि यथोक्तमायाशक्त्या देहादि गृहीत्वा प्राणिनामनुग्रहमादधानो न स्वभावविपर्ययं पर्येतीत्यर्थः ।
ननु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ‘ इति न्यायादीश्वरस्याऽऽप्तकामतया कृतकृत्यस्य प्रयोजनाभावादनुग्राह्याणां चाद्वैतवादे व्यतिरिक्तानामसत्त्वान्न धर्मद्वयमुपदेष्टुमुचितमिति, तत्राह –
स्वप्रयोजनेति ।
कल्पितभेदभाञ्जि भूतान्युपादाय तदनुग्रहेच्छया चैत्यवन्दनादिविलक्षणं धर्मद्वयमर्जुनं निमित्तीकृत्याऽऽप्तकामोऽपि भगवानुपदिष्टवानित्यर्थः ।
अर्जुनस्योपदेशापेक्षास्तीति दर्शयितुं विशिनष्टि –
शोकेति ।
ननु भूतानुग्रहे कर्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते, तत्राह –
गुणाधिकैरिति ।
प्रचयं गमिष्यतीति मत्वा धर्मद्वयमर्जुनायोपदिदेशेति सम्बन्धः ।
अथ तथापि सुगतोपदिष्टधर्मवदयमपि भगवदुपदिष्टो धर्मो न प्रामाणिकोपादेयतामुपगच्छेदित्याशङ्क्य वेदोक्तत्वान्नास्य तत्तुल्यत्वमित्युक्तमित्यभिप्रत्य शिष्टपरिगृहीतत्वाच्च मैवमित्याह –
तं धर्ममिति ।
अधर्मे धर्मबुद्धिर्वेदव्यासस्य जातेत्याशङ्क्याह –
सर्वज्ञ इति ।
‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्’ [वि.पु. ३.४.५] इति स्मृतेः सज्जनोपकारकभगवदवतारत्वाच्च व्यासस्य नान्यथाबुद्धिरित्याह –
भगवानिति ।
गीताशास्त्रस्यानाप्तप्रणीतत्वमपाकृत्य व्याख्येयत्वमुपपादितमुपसंहरति –
तदिदमिति ।
पौरुषेयस्य वचसो मूलप्रमाणाभावेनाप्रामाण्यमिति मत्वा विशिनष्टि –
समस्तेति ।
शास्त्राक्षरैरेव तदर्थप्रतिपत्तिसम्भवे किमिति व्याख्यानमित्याशङ्क्याह –
दुर्विज्ञेयार्थमिति ।
‘पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपस्य समाधानं व्याक्यानं पञ्चलक्षणम् ॥' इत्यादिक्रमेणास्य शास्त्रस्य पूर्वाचार्यैर्व्याख्यातत्वात् किमर्थमिदमारभ्यते गतार्थत्वात् , तत्राह –
तदर्थेति ।
गीताशास्त्रार्थस्य प्रकटीकरणार्थं पदविभागस्तदर्थोक्तिः समासद्वारा वाक्यार्थनिर्देशः, तत्रापेक्षितो न्यायश्चाक्षेपसमाधानलक्षणो वृत्तिकारैर्दर्शितः तथापि तथाविधमेव शास्त्रं शास्त्रपरिचयशून्यैः समुच्चयवादिभिर्विरुद्धार्थत्वेनानेकार्थत्वेन च गृहीतमालक्ष्य तद्बुद्धिमनुरोद्धुमिदमारब्धव्यमित्यर्थः ।
येषां प्राचीने व्याख्याने बुद्धिरप्रविष्टा तेषां सम्प्रतितने एतस्मिन्नसौ प्रवेक्ष्यतीति कुतो नियमस्तत्राह –
विवेकत इति ।
पूर्वव्याख्याने तत्तदर्थनिर्धारणार्थोपन्यासः सङ्कीर्णवद्भातीति न तत्र केषाञ्चिन्मनीषा समुन्मिषति, प्रकृते त्वसम्प्रकीर्णतया तत्तत्पदार्थनिर्णयोपयोगिन्यायो विव्रियते, तेनात्र मन्दमध्यमयोरपि बुद्धिरवतरतीत्यर्थः । किञ्च अनपेक्षिताधिकग्रन्थसद्भावान्न प्राचीने व्याख्याने श्रोतॄणां प्रवृत्तिः । अत्र त्वपेक्षिताल्पग्रन्थे विवरणे प्रायशः सर्वेषां प्रवृत्तिः स्यादिति मत्वाह –
सङ्क्षेपत इति ।
ननु अनाप्तप्रणीतत्वाद्यभावेऽपि नेदं शास्त्रं व्याख्येयं विषयाद्यनुबन्धस्यानभिहितत्वेन शास्त्रत्वाभावादित्याशङ्क्य सर्वव्यापाराणां प्रयोजनार्थत्वादादौ प्रयोजनमाह –
तस्येति ।
प्रसाधितप्रामाण्यस्य, व्याख्येयत्वेन मनसि संनिहितस्य गीताशास्त्रस्य सङ्क्षेपतः सङ्ग्रहः सम्पिण्डितत्वमेकवाक्यत्वं, तेनेदं परमं फलं यन्निश्चितं श्रेयो निःश्रेयसं कैवल्यम् । अवान्तरफलं तु तत्रतत्रावान्तरवाक्यभेदेन मनोनिग्रहादि विवक्ष्यते ।
निःश्रेयसं च द्विविधम् – निरतिशयसुखाविर्भावो निःशेषानर्थोच्छित्तिश्च । तत्राद्यमुदाहरति –
परमिति ।
द्वितीयं दर्शयति –
सहेतुकस्येति ।
संसारोपरमस्यात्यन्तिकत्वं प्रतियोगिनः संसारस्य पुनरुत्पत्त्ययोग्यत्वम् । तच्च स्वापमूर्च्छादिव्यवच्छेदार्थं विशेषणम् । तदेव साधयितुं सहेतुकस्येत्युक्तम् ।
उक्तं फलं समुच्चितादेकाकिनो वा कर्मणः स्यादिति तस्यैव शास्त्रप्रतिपाद्यतेत्याशङ्क्याभिधेयमभिधित्समानः समाधत्ते –
तच्चेति ।
आत्मज्ञाननिष्ठाशेषत्वेन कर्मनिष्ठा अत्रोच्यते । प्राधान्येन त्वात्मज्ञाननिष्ठैवात्र प्रतिपाद्यत इत्यर्थः ।
ननु शेषिणी निष्ठा कुतो भवति संन्यासात् ? न कर्मनिष्ठायाः शेषत्वात् तत्राह –
सर्वेति ।
संन्यासद्वारेणासकृदनुष्ठितश्रवणादेः शेषिणी निष्ठा सिद्ध्यति, शेषत्वं च कर्मणः, तत्र परस्पराश्रयत्वमित्यर्थः ।
ननु ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ’ [भ. गी. १८.५] इति वाक्यशेषात् समुच्चितमात्मज्ञानमत्र प्रतिपाद्यते, नेत्याह –
तथेति ।
सर्वकर्मसंन्यासपूर्वकमात्मज्ञाननिष्ठारूपं धर्मं निःश्रेयसप्रयोजनं प्रागुक्तं परामृशति –
इममेवेति ।
वक्तृभेदादभिप्रायभेदाशङ्कां वारयति –
भगवतैवेति ।
उक्तमनुगीतास्विति सम्बन्धः ।
ब्रह्मणः पदं
ब्रह्मणः पदं – पूर्वोक्तं निःश्रेयसम् । तस्य वेदनं लाभः । तत्र विशिष्टो ज्ञाननिष्ठारूपो धर्मः समर्थो भवतीत्यर्थः । यज्ञदानादिवाक्यस्य तु तद्वयाख्यानावसरे तात्पर्यं वक्ष्यते ।
कर्मत्यागस्य भगवतोऽभिप्रेतत्वे वाक्यान्तरमनुगीतागतमेवोदाहरति –
तत्रैवेति ।
धर्माधर्मापूर्वासंसर्गित्वे हेतुमाह –
नैवेति ।
क्रियाद्वयसम्बन्धाभावात् तन्निर्वर्त्त्यापूर्वाभ्यामसम्बन्धे प्राप्तमर्थमाह –
यः स्यादिति ।
वागादिबाह्यकरणव्यापारविरहितत्वं तूष्णीमित्युच्यते । किञ्चिदचिन्तयन् इत्यन्तःकरणव्यापाराभावोऽभिप्रेतः । द्विविधकरणव्यापारविरहितः सन् प्रागुक्तो योऽधिकारी केवलमेकस्मिन् – अद्वितीये ब्रह्मणि आसनमवस्थानम् , तत्र लीनः, तस्मिन्नेव समाप्तिभागी स्यात् , तस्यासम्प्रज्ञातसमाधिनिष्ठस्य सर्वकर्मत्यागहेतुकं ज्ञानं मुक्तिहेतुर्भवतीत्यर्थः ।
न केवलमनुगीतास्वेव यथोक्तं ज्ञानमुक्तम् । किन्तु प्रकृतेऽपि शास्त्रे समाप्त्यवसरे दर्शितमित्याह –
इहापीति ।
नन्वत्र निवृत्तिलक्षणधर्मात्मकं ससंन्यसमात्मज्ञानमेव न प्रतिपाद्यते, ‘कुरु कर्मैव तस्मात् त्वम् ’ [भ. गी. ४.१५] इत्यादौ प्रवृत्तिलक्षणस्यापि धर्मस्य वक्ष्यमाणत्वात् , धर्मयोश्च प्रकृतत्वाविशेषात् , तत्राह –
अभ्युदयार्थोऽपीति ।
ननु वर्णिभिराश्रमिभिश्चानुष्ठेयत्वेनान्यत्र विहितस्यापि तस्य न युक्तं मोक्षसाधनत्वाधिकारे विधानम् , देवादिस्थानप्राप्तिहेतुत्वेन मोक्षं प्रति प्रतिपक्षत्वात् । सत्यम् , तथापि फलाभिलाषमन्तरेणेश्वरार्पणधिया कृतस्य बुद्धिशुद्धिहेतुत्वात् तस्येह वचनमित्याह –
स देवादीति ।
फलाभिसन्धिद्वारा कृतः सन्निति शेषः ।
प्रवृत्तिलक्षणधर्मस्योक्तरीत्या चित्तशुद्धिहेतुत्वेऽपि मोक्षहेतुत्वेन कुतो मोक्षाधिकारे निर्देशः स्यादित्याशङ्क्याह –
शुद्धेति ।
प्रतिपद्यते प्रागुक्तो धर्म इति शेषः ।
यदुक्तं फलाभिसन्धिवर्जितमीश्वरार्पणबुद्ध्याऽनुष्ठितं कर्म बुद्धिशुद्धये भवतीति, तत्र वाक्यषेषमनुकूलयति –
तथा चेति ।
शास्त्रस्य प्रयोजनं ससाधनमुक्तमनूद्य विषयं दर्शयति –
इममिति ।
दर्शितेन फलेन शास्त्रस्य निष्ठाद्वयद्वारा साध्यसाधनभावः सम्बन्धो विषयेण विषयविषयित्वमिति विवक्षित्वाह –
विशेषत इति ।
एवमनुबन्धत्रयविशिष्टं शास्त्रं व्याख्यानार्हमित्युपसंहरति –
विशिष्टेति ।
सिद्धे व्याख्यानयोग्यत्वे व्याख्येयत्वं फलितमाह –
यत इति ।
तत्रैषाऽक्षरयोजना -
धृतराष्ट्र उवाचेति ।
धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाद्बाह्यमर्थं प्रत्यक्षयितुमनीशः सन् अभ्याशवर्तिनं सञ्जयमात्मनो हितोपदेष्टारं पृच्छति -
धर्मक्षेत्र इति ।
धर्मस्य तद्बुद्धेश्च क्षेत्रमभिवृद्धिकारणं यदुच्यते कुरुक्षेत्रमिति, तत्र समवेताः सङ्गताः, युयुत्सवो योद्धुकामास्ते च केचिन्मदीया दुर्योधनप्रभृतयः पाण्डवाश्चापरे युधिष्ठिरादयः, ते च सर्वे युद्धभूमौ सङ्गता भूत्वा किं कृतवन्तः ॥ १ ॥
‘किमस्मदीयं प्रबलं बलं प्रतिलभ्य धीरपुरुषैर्भीष्मादिभिरधिष्ठितं परेषां भयमाविरभूत् , यद्वा पक्षद्वयहिंसानिमित्ताधर्मभयमासीत् , येनैते युद्धादुपरमेरन् ? ‘ इत्येवं पुत्रपरवशस्य पुत्रस्नेहाभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने सञ्जयस्य प्रतिवचनम् -
दृष्ट्वेत्यादि ।
पाण्डवानां भयप्रसङ्गो नास्तीत्येतत् तुशब्देन द्योत्यते । प्रत्युत दुर्योधनस्यैव राज्ञो भयं प्रभूतं प्रादुर्बभूव । पाण्डवानां - पाण्डुसुतानां युधिष्ठिरादीनामनीकं - सैन्यं धृष्टद्युम्नादिभिरतिधृष्टैर्व्यूहाधिष्ठितं दृष्ट्वा प्रत्यक्षेण प्रतीत्य त्रस्तहृदयो दुर्योधनो राजा तदा - तस्यां सङ्ग्रामोद्योगावस्थायाम् , आचार्यं द्रोणनामानमात्मनः शिक्षितारं रक्षितारं च श्लाघयन्नुपसङ्गम्य - तदीयं समीपं विनयेन प्राप्य भयोद्विग्नहृदयत्वेऽपि तेजस्वित्वादेव वचनमर्थसहितं वाक्यमुक्तवानित्यर्थः ॥ २ ॥
तदेव वचनमुदाहरति -
पश्येति ।
एतामस्मदभ्याशे महापुरुषानपि भवत्प्रमुखानपरिगणय्य भयलेशशून्यामवस्थितां चमूमिमां सेनां पाण्डुपुत्रैर्युधिष्ठिरादिभिरानीतां महतीमनेकाक्षौहिणीसहितामक्षोभ्यां, पश्येत्याचार्यं दुर्योधनो नियुङ्क्ते । नियोगद्वारा च तस्मिन् परेषामवज्ञां विज्ञापयन् क्रोधातिरेकमुत्पादयितुमुत्सहते ।
परकीयसेनाया वैशिष्ट्याभिधानद्वारा परपक्षेऽपि त्वदीयमेव बलमिति सूचयन् आचार्यस्य तन्निरसनं सुकरमिति मन्वानः सन्नाह -
व्यूढामिति ।
राज्ञो द्रुपदस्य पुत्रः तव च शिष्यो धृष्टद्युम्नो लोके ख्यातिमुपगतः, स्वयं च शस्त्रास्त्रविद्यासम्पन्नो महामहिमा तेन व्यूहमापाद्याधिष्ठितामिमां चमूं किमिति न प्रतिपद्यसे किमिति वा मृष्यसीत्यर्थः ॥ ३ ॥
अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहवः सन्तीत्यनुपेक्षणीयत्वं परपक्षस्य विवक्षयन्नाह -
अत्रेति ।
अस्यां हि प्रतिपक्षभूतायां सेनायां शूराः - स्वयमभीरवः शस्त्रास्त्रकुशलाः भीमार्जुनाभ्यां सर्वसम्प्रतिपन्नवीर्याभ्यां तुल्याः युद्धभूमावुपलभ्यन्ते ।
तेषां युद्धशौण्डीर्यं विशदीकर्तुं विशिनष्टि -
महेष्वासा इति ।
इषुरस्यतेऽस्मिन्निति व्युत्पत्त्या धनुस्तदुच्यते । तच्च महत् अन्यैरप्रधृष्यं तद् येषां ते राजानस्तथा विवक्ष्यन्ते ।
तानेव परसेनामध्यमध्यासीनान् परपक्षानुरागिणो राज्ञो विज्ञापयति -
युयुधान इत्यादिना सौभद्रो द्रौपदेयाश्चेत्यन्तेन ।
तेषां सर्वेषामपि महाबलपराक्रमभाक्त्वादनुपेक्ष्यत्वं पुनर्विवक्षति -
सर्व एवेति
॥ ४, ५, ६ ॥
यद्येवं परकीयं बलमतिप्रभूतं प्रतीत्यातिभीतवदभिदधासि, हन्त सन्धिरेव परैरिष्यताम् , अलं विग्रहाग्रहेण इत्याचार्याभिप्रायमाशङ्क्य ब्रवीति -
अस्माकमिति ।
तुशब्देनान्तरुत्पन्नमपि स्वकीयं भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । ये खल्वस्मत्पक्षे व्यवस्थिताः सर्वेभ्यः समुत्कर्षजुषः तान् मयोच्यमानान् निबोध - निश्चयेन मद्वचनादवधारयेत्यर्थः ।
यद्यपि त्वमेव त्रैवर्णिकेषु त्रैविद्यवृद्धेषु प्रधानत्वात् प्रतिपत्तुं प्रभवसि, तथापि मदीयसैन्यस्य ये मुख्यास्तानहं ते तुभ्यं संज्ञार्थमसङ्ख्येषु तेषु मध्ये कतिचिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं विज्ञापनं करोमि, न त्वज्ञातं किञ्चित् तव ज्ञापयामीति मत्वाह -
द्विजोत्तमेति
॥ ७ ॥
तानेव स्वसेनानिविष्टान् पुरुषधौरेयान् आत्मीयभयपरिहारार्थं परिगणयति -
भवानित्यादिना
॥ ८ ॥
द्रोणादिपरिगणनस्य परिशिष्टपरिसङ्ख्यार्थत्वं व्यावर्तयति -
अन्ये चेति ।
सर्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वजीवितादपि मह्यं स्पृहयन्तीत्याह -
मदर्थ इति ।
यत्तु तेषां शूरत्वमुक्तं तदिदानीं विशदयति -
नानेति ।
नानाविधानि अनेकप्रकाराणि शस्त्राणि - आयुधानि प्रहरणानि - प्रहरणसाधनानि येषां ते तथा ।
बहुविधायुधसम्पत्तावपि तत्प्रयोगे नैपुण्याभावे तद्वैफल्यमिति चेत् , नेत्याह -
सर्व इति
॥ ९ ॥
राजा पुनरपि स्वकीयभयाभावे हेत्वन्तरमाचार्यं प्रत्यावेदयति -
अपर्याप्तमिति ।
अस्माकं खल्विदं एकादशसङ्ख्याकाक्षौहिणीपरिगणितमपरिमितं बलं भीष्मेण च प्रथितमहामहिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं पर्याप्तं - परोषां परिभवे समर्थम् । एतेषां पुनस्तदल्पं - सप्तसङ्ख्याकाक्षौहिणीपरिमितं बलं भीमेन चपलबुद्धिना कुशलताविकलेन परिपालितं अपर्याप्तम् - अस्मानभिभवितुमसमर्थमित्यर्थः । अथवा - तदिदमस्माकं बलं भीष्माधिष्ठितमपर्याप्तं - अपरिमितं अधृष्यं - अक्षोभ्यम् । एतेषां तु पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं - अपरिमितम् सोढुं शक्यमित्यर्थः । अथवा - तत् पाण्डवानां बलमपर्याप्तं - नालम् , अस्माकं - अस्मभ्यं भीष्माभिरक्षितं भीष्मोऽभिरक्षितोऽस्मै परबलनिवृत्त्यर्थमिति तदेव तथोच्यते । इदं पुनरस्मदीयं बलमेतेषां - पाण्डवानां पर्याप्तं - परिभवे समर्थम् , भीमाभिरक्षितं भीमो दुर्बलहृदयो यस्मादस्मै परबलनिवृत्त्यर्थमभिरक्षितः । तस्मादस्माकं न किञ्चिदपि भयकारणमस्तीत्यर्थः ॥ १० ॥
स्वकीयबलस्य भीष्माधिष्ठितत्वेन बलिष्ठत्वमुक्त्वा भीष्मशेषत्वेन तदनुगुणत्वं द्रोणादीनां प्रार्थयते -
अयनेष्विति ।
कर्तव्यविशेषद्योती चशब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागेनावस्थितिस्थानानि नियम्यन्ते । तान्यत्र अयनान्युच्यन्ते । सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति । तेषु सर्वेषु प्रक्लृप्तं प्रविभागमप्रत्याख्याय भवान् अश्वत्थामा कर्णश्चेत्येवमादयो भवन्तः सर्वेऽवस्थिताः सन्तो भीष्ममेव सेनापतिं सर्वतो रक्षन्तु । तस्य हि रक्षणे सर्वमस्मदीयं बलं रक्षितं स्यात् , परबलनिवृत्त्यर्थत्वेन तस्यास्माभी रक्षितत्वादित्यर्थः ॥ ११ ॥
तमेवमाचार्यं प्रति संवादं कुर्वन्तं भयाविष्टं राजानं दृष्ट्वा तदभ्याशवर्ती पितामहस्तद् - बुद्ध्यनुरोधार्थमित्थं कृतवानित्याह -
तस्येति ।
राज्ञो दुर्योधनस्य हर्षं - बुद्धिगतमुल्लासविशेषं परपरिभवद्वारा स्वकीयविजयद्वारकं सम्यगुत्पादयन् भयं तदीयमपनिनीषुरुच्चैः सिंहनादं कृत्वा शङ्खमापूरितवान् । किमिति दुर्योधनस्य हर्षमुत्पादयितुं पितामहो यतते, कुरुवृद्धत्वात् तस्य कुरुराजत्वात् पितामहत्वाच्चास्य दुर्योधनभयापनयनार्था प्रवृत्तिरुचिता, तदुपजीवितया तद्वशत्वाच्च । तस्य च सिंहनादे शङ्खशब्दे च परेषां हृदयव्यथा सम्भाव्यते, दूरादेव अरिनिवहं प्रति भयजननलक्षणप्रतापत्वादित्यर्थः ॥ १२ ॥
राजाभिप्रायं प्रतीत्य भीष्मप्रवृत्त्यनन्तरं तत्पक्षैस्तैस्तै राजभिः शङ्खादयो वाद्यविशेषा झटिति शब्दवन्तः सम्पादिताः । स च शङ्खादिप्रयुक्तशब्दस्तुमुलो बहुलं भयं परेषां परिद्योतयन्नासीदित्याह -
तत इति
॥१३ ॥
एवं दुर्योधनपक्षे प्रवृत्तिमालक्ष्य परिसरवर्तिनौ केशवार्जुनौ श्वेतैर्हयैरतिबलपराक्रमैर्युक्ते महति - अप्रधृष्ये रथे व्यवस्थितौ अप्राकृतौ शङ्खौ पूरितवन्तावित्याह -
ततः श्वेतैर्हयैरिति
॥ १४ ॥
तयोः शङ्खयोर्दिव्यत्वमेवावेदयति -
पाञ्चजन्यमिति ।
केशवार्जुनयोर्युद्धाभिमुख्यं दृष्ट्वा संहृष्टः स्वारस्येन समररसिको भीमसेनोऽपि युद्धाभिमुखोऽभूदित्याह -
पौण्ड्रमिति
॥ १५ ॥
एतेषामीदृशीं प्रवृत्तिं प्रतीत्य परिपालनावकाशमासाद्य राज्ञो युधिष्ठिरस्यापि प्रवृत्तिं दर्शयति -
अनन्तेति ।
ज्यायसां भ्रातॄणामनुसरणमावश्यकमिति मत्वा तयोर्यवीयसोर्भ्रात्रोरपि प्रवृत्तिमाह -
नकुल इति
॥ १६ ॥
अन्येषामपि तत्पक्षीयाणां राज्ञामैकमत्यं विज्ञापयन् धृतराष्ट्रस्य दुराशां सञ्जयो व्युदस्यति -
काश्यश्चेत्यादिना
॥ १७ ॥
द्रुपद इति ।
परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं सम्बध्यते ॥ १८ ॥
तैस्तै राजभिः शङ्खानापूरयद्भिरापादितो महान् घोषः तुमुलः - अतिभैरवो नभश्च - अन्तरिक्षं पृथिवीं च - भुवनं लोकत्रयं सर्वमेव विशेषेणानुक्रमेण नादयन् - नादयुक्तं कुर्वन् धार्तराष्ट्राणां दुर्योधनादीनां हृदयानि अन्तःकरणानि व्यदारयत् - विदारितवान् । युज्यते हि तत्प्रेरितशङ्खघोषश्रवणात् त्रैंलोक्याक्रोशे तमुपश्रृण्वतां तेषां हृदयेषु दोधूयमानत्वम् । तदाह -
स घोष इति
॥ १९ ॥
दुर्योधनादीनां धार्तराष्ट्राणामेवं भयप्राप्तिं प्रदर्श्य पार्थादीनां पाण्डवानां तद्वैपरीत्यमिदानीमुदाहरति -
अथेत्यादिना ।
भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि वैपरीत्याद् व्यवस्थितान् अप्रचलितानेव परान् प्रत्यक्षेणोपलभ्य हनुमन्तं वानरवरं ध्वजलक्षणत्वेन आदायावस्थितोऽर्जुनो भगवन्तमाहेति सम्बन्धः ।
किमाहेत्यपेक्षायामिदं - वक्ष्यमाणं हेतुमद्वचनमित्याह -
वाक्यमिदमिति ।
कस्यामवस्थायामिदमुक्तवानिति तत्राह -
प्रवृत्त इति ।
शस्त्राणां - इषुप्रासप्रभृतीनां सम्पातः - समुदायः तस्मिन् प्रवृत्ते - प्रयोगाभिमुखे सतीति यावत् ।
किं कृत्वा भगवन्तं प्रत्युक्तवानिति तदाह –
धनुरिति ।
महीपतिशब्देन राजा प्रज्ञाचक्षुः सञ्जयेन सम्बोध्यते ॥ २० ॥
तदेव गाण्डीवधन्वनो वाक्यमनुक्रामति -
सेनयोरिति ।
उभयोरपि सेनयोः संनिहितयोर्मध्ये मदीयं रथं स्थापयेत्यर्जुनेन सारथ्ये सर्वेश्वरो नियुज्यते । किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठति ? युक्तं हि भगवतो भक्तपारवश्यम् । अच्युतेति सम्बोधनतया भगवतः स्वरूपं न कदाचिदपि प्रच्युतिं प्राप्नोतीत्युच्यते ॥ २१ ॥
मध्ये रथं स्थापयेत्युक्तम् । तदेव रथस्थापनस्थानं निर्धारयति -
यावदिति ।
एतान् - प्रतिपक्षे प्रतिष्ठितान् भीष्मद्रोणादीन् अस्माभिः सार्धं योद्धुमपेक्षावतो यावद् - गत्वा निरीक्षितुमहं क्षमः स्याम् , तावति प्रदेशे रथस्य स्थापनम् कर्तव्यमित्यर्थः ।
किञ्च, प्रवृृत्ते युद्धप्रारम्भे बहवो राजानोऽमुष्यां युद्धभूमावुपलभ्यन्ते, तेषां मध्ये कैः सह मया योद्धव्यम् ? न हि क्वचिदपि मम गतिप्रतिहतिरस्तीत्याह -
कैर्मयेति
॥ २२ ॥
प्रतियोगिनामभावे कथं तव युद्धौत्सुक्यं फलवद् भवेदिति तत्राह –
योत्स्यमानानिति ।
ये केचिदेते राजानो नानादेशेभ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान् - परिगृहीतप्रहरणोपायान् अतितरां सङ्ग्रामसमुत्सुकानुपलभे । तेन प्रतियोगिनां बाहुल्यमित्यर्थः ।
तेषामस्माभिः सह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्पते ? तत्राह -
धार्तराष्ट्रस्येति ।
धृतराष्ट्रपुत्रस्य दुर्योधनस्य दुर्बुद्धेः - स्वरक्षणोपायमप्रतिपद्यमानस्य युद्धाय संरम्भं कुर्वतो युद्धे - युद्धभूमौ स्थित्वा प्रियं कर्तुमिच्छवो राजानः समागता दृश्यन्ते, तेन तेषामौपाधिकमस्मत्प्रतियोगित्वमुपपन्नमित्यर्थः ॥ २३ ॥
एवमर्जुनेन प्रेरितो भगवान् अहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात् तं निवर्तयिष्यतीति धृतराष्ट्रस्य मनीषां दुदूषयिषुः सञ्जयो राजानं प्रत्युक्तवानित्याह -
सञ्जय इति ।
भगवतोऽपि भूभारापहारार्थं प्रवृत्तस्य अर्जुनाभिप्रायप्रतिपत्तिद्वारेण स्वाभिसन्धिं प्रतिलभमानस्य परोक्तिमनुसृत्य स्वाभिप्रायानुकूलमनुष्ठानमादर्शयति -
एवमिति ।
॥ २४ ॥
भीष्मद्रोणादीनामन्येषां च राज्ञामन्तिके रथं स्थापयित्वा भगवान् किं कृतवानिति तदाह -
उवाचेति ।
एतान् - अभ्याशे वर्तमानान् , कुरून् - कुरुवंशप्रसूतान् भवद्भिः सार्धं युद्धार्थं सङ्गतान् पश्य । दृष्ट्वा च यैः सहात्र युयुत्सा तवोपावर्तते तैः साकं युद्धं कुरु । नो खल्वेतेषां शस्त्रास्त्रशिक्षावतां महीक्षितामुपेक्षोपपद्यते, सारथ्ये तु न मनः खेदनीयमित्यर्थः ॥ २५ ॥
एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य सम्प्रवृत्तेति कथयति -
तत्रेत्यादिना ।
सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय सम्प्रवृत्ते सतीत्येतदुच्यते । सेनयोरुभयोरपि स्थितान् पार्थोऽपश्यदिति सम्बन्धः । अथशब्दः तथाशब्दपर्यायः । श्वशुराः भार्याणां जनयितारः । सुहृदो मित्राणि कृतवर्मप्रभृतयः ॥ २६ ॥
सेनाद्वये व्यवस्थितान् यथोक्तान् पितृपितामहादीन् आलोच्य परमकृपापरवशः सन्नर्जुनो भगवन्तमुक्तवानित्याह -
तानिति ।
विषीदन् - यथोक्तानां पित्रादीनां हिंसासंरम्भनिबन्धनं विषादमुपतापं कुर्वन्नित्यर्थः ॥ २७ ॥
तदेव इदंशब्दवाच्यं वचनमुदाहरति -
दृष्ट्वेति ।
॥ २८ ॥
आत्मीयं बन्धुवर्गं युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्तिं दर्शयति -
सीदन्तीति ।
देवांशस्यैवार्जुनस्यानात्मविदः स्वपरदेहेष्वात्मात्मीयाभिमानवतः तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसङ्गदर्शिनः शोको महानासीदित्यर्थः ।
अङ्गेषु व्यथा मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तम् । सम्प्रति वेपथुप्रभृतीनि भीतिलिङ्गान्युपन्यस्यति -
वेपथुश्चेति ।
रोमहर्षः - रोम्णां गात्रेषु पुलकितत्वम् ॥ २९ ॥
किञ्च अधैर्यमपि संवृत्तमित्याह -
न चेति ।
मोहोऽपि महान् भवतीत्याह -
भ्रमतीवेति ।
॥ ३० ॥
विपरीतनिमित्तप्रतीतेरपि मोहो भवतीत्याह –
निमित्तानीति ।
तानि विपरीतानि निमित्तानि यानि वामनेत्रस्फुरणादीनि ।
युद्धे स्वजनहिंसया फलानुपलम्भादपि तस्मादुपरिरंसा जायते इत्याह -
न चेति ।
॥ ३१ ॥
प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धादुपरतिरित्याशङ्क्याह -
न काङ्क्ष इति
किमिति राज्यादिकं सर्वाकाङ्क्षितत्वान्न काङ्क्ष्यते तेन हि पुत्रभ्रात्रादीनां स्वास्थ्यमाधातुं शक्यमित्याशङ्क्याह –
किमिति ।
॥ ३२ ॥
राज्यादीनामाक्षेपे हेतुमाह -
येषामिति
॥३३ ॥
तानेव विशिनष्टि -
आचार्या इति ।
स्यालाः - भार्याणां भ्रातरो धृष्टद्युम्नप्रभृतयः ॥ ३४ ॥
वध्येष्वपि स्वराज्यपरिपन्थिष्वाततायिषु कृपाबुद्ध्या स्वधर्माद्युद्धात् पूर्वोक्तमोहादिवशात् प्रच्युतिं प्रदर्शयति -
एतानिति ।
जिघांसन्तं जिघांसीयात्’ (वसिष्ठधर्मसूत्रम् ३.१७) इति न्यायादेतेषां हिंसा न दोषायेत्याशङ्क्याह –
घ्नतोऽपीति ।
पृथिवीप्राप्त्यर्थं हि हननमेतेषामिष्यते ।
न च तत्प्राप्तिः समीहितेति कैमुतिकन्यायेन दर्शयति -
अपीति ।
न हि महदपि त्रैलोक्यलक्षणं राज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति । पृथिवीप्राप्त्यर्थं पुनर्बन्धुवधं न श्रद्दधामीति किं वक्तव्यमित्यर्थः ॥ ३५ ॥
दुर्योधनादीनां शत्रूणां निग्रहे प्रीतिप्राप्तिसम्भवाद्युद्धं कर्तव्यमित्याशङ्क्याह –
निहत्येति ।
यदि पुनरमी दुर्योधनादयो न निगृह्येरन् भवन्तस्तर्हि तैर्निगृहीता दुःखिताः स्युरित्याशङ्क्याह -
पापमेवेति ।
यदीमे दुर्योधनादयो निर्दोषानेवास्मान् अकस्माद्युद्धभूमौ हन्युः, तदैतान् ‘अग्निदो गरदश्च’(मनुः ८.३५०) इत्यादिलक्षणोपेतानाततायिनो निर्दोषस्वजनहिंसाप्रयुक्तं पापं पूर्वमेव पापिनः समाश्रयेदित्यर्थः । अथवा - यद्यप्येते भवन्त्याततायिनः, तथाप्येतान् अतिशोच्यान् दुर्योधनादीन् हिंसित्वा हिंसाकृतं पापमस्मानेवाश्रयेत् , अतो नास्माभिरेते हन्तव्या इत्यर्थः । अथवा - गुरुभ्रातृसुहृत्प्रभृतीनेतान् हत्वा वयमाततायिनः स्याम, ततश्चैतान् हत्वा हिंसाकृतं पापमाततायिनोऽस्मानेव समाश्रयेत् इति युद्धात् उपरमणमस्माकं श्रेयस्करमित्यर्थः ॥ ३६ ॥
फलाभावादनर्थसम्भवाच्च परहिंसा न कर्तव्येत्युपसंहरति -
तस्मादिति ।
किञ्च राज्यसुखमुद्दिश्य युद्धमुपक्रम्यते, न च स्वजनपरिक्षये सुखमुपपद्यते, तेन न कर्तव्यं युद्धमित्याह -
स्वजनं हीति
॥ ३७ ॥
कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृत्तिस्तत्राह –
यद्यपीति ।
लोभोपहतबुद्धित्वात् तेषां कुलक्षयादिप्रयुक्तदोषप्रतीत्यभावात् प्रवृत्तिविस्रम्भः सम्भवतीत्यर्थः ॥ ३८ ॥
परेषामिव अस्माकमपि प्रवृत्तिविस्रम्भः सम्भवेदिति चेत् , नेत्याह –
कथमिति ।
कुलक्षये मित्रद्रोहे च दोषं प्रपश्यद्भिरस्माभिः तद्दोषशब्दितं पापं कथं न ज्ञातव्यम् ? तदज्ञाने तत्परिहारासम्भवात् । अतोऽस्मात् पापान्निवृत्त्यर्थं तज्ज्ञानमपेक्षितमिति पापपरिहारार्थिनामस्माकं न युक्ता युद्धे प्रवृत्तिरित्यर्थः ॥ ३९ ॥
कोऽसौ कुलक्षये दोषो यद्दर्शनाद्युष्माकं युद्धादुपरतिरपेक्ष्यते ? तत्राह –
कुलेति ।
कुलस्य हि क्षये कुलसम्बन्धिनः चिरन्तना धर्माः तत्तदग्निहोत्रादिक्रियासाध्या नाशमुपयान्ति । कर्तुरभावादित्यर्थः ।
धर्मनाशेऽपि किं स्यात् इति चेत् , तत्राह -
धर्म इति ।
कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलं परिशिष्टमखिलमपि तदीयोऽधर्मोऽभिभवति । अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः ॥ ४० ॥
कुलक्षये कृते अवशिष्टकुलस्य अधर्मप्रवणत्वे को दोषः स्यात् ? इति तत्राह –
अधर्मेति ।
पापप्रचुरे कुले प्रसूतानां स्त्रीणां प्रदुष्टत्वे किं दुष्यति ? तत्राह -
स्त्रीष्विति
॥ ४१ ॥
वर्णसङ्करस्य दोषपर्यवसायितामादर्शयति -
सङ्कर इति ।
कुलक्षयकराणां दोषान्तरं समुच्चिनोति -
पतन्तीति ।
कुलक्षयकृतां पितरो निरयगामिनो सम्भवन्तीत्यत्र हेतुमाह –
लुप्तेति ।
पुत्रादीनां कर्तॄणामभावात् लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा । ततश्च प्रेतत्वपरावृत्तिकारणाभावात् नरकपतनमेव आवश्यकमापतेदित्यर्थः ॥ ४२ ॥
कुलक्षयकृतामेतैरुदाहृतैर्दोषैर्वर्णसङ्करहेतुभिर्जातिप्रयुक्ता वंशप्रयुक्ताश्च धर्माः सर्वे समुत्साद्यन्ते । तेन कुलक्षयकारणाद् युद्धादुपरतिरेव श्रेयसीत्याह -
दोषैरिति
॥ ४३ ॥
किञ्च जातिधर्मेषु कुलधर्मेषु चोत्सन्नेषु तत्तद्धर्मवर्जितानां मनुष्याणामनधिकृतानां नरकपतनध्रौव्यात् अनर्थकरमिदमेव हेयमित्याह –
उत्सन्नेति ।
यथोक्तानां मनुष्याणां नरकपातस्य आवश्यकत्वे प्रमाणमाह -
इत्यनुशुश्रुमेति
॥ ४४ ॥
राज्यप्राप्तिप्रयुक्तसुखोपभोगलुब्धतया स्वजनहिंसायां प्रवृत्तिरस्माकं गुणदोषविभागविज्ञानवतामतिकष्टेति परिभ्रष्टहृदयः सन्नाह -
अहो बतेति
॥ ४५ ॥
यद्येवं युद्धे विमुखः सन् परपरिभवप्रतीकाररहितो वर्तेथाः, तर्हि त्वां शस्त्रपरिग्रहरहितं शत्रुं शस्रपाणयो धार्तराष्ट्रा निगृह्णीयुरित्याशङ्क्याह –
यदीति ।
प्राणत्राणादपि प्रकृष्टो धर्मः प्राणभृतामहिंसेति भावः ॥ ४६ ॥
यथोक्तमर्जुनस्य वृत्तान्तं सञ्जयो धृतराष्ट्रं राजानं प्रति प्रवेदितवान् । तमेव प्रवेदनप्रकारं दर्शयति -
एवमिति ।
प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमोहाभ्यां परिभूतमानसः सन् अर्जुनः सङ्ख्ये - युद्धमध्ये शरेण सहितं गाण्डीवं त्यक्त्वा ‘न योत्स्येऽहम्’(भ. भ. गी. २-९) इति ब्रुवन् , मध्ये रथस्य, संन्यासमेव श्रेयस्करं मत्वोपविष्टवानित्यर्थः ॥ ४७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने प्रथमोऽध्यायः ॥ १ ॥