अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

प्रथमोऽध्यायः

आनन्दगिरिटीका

दृष्टिं मयि विशिष्टार्थां कृपा­पी­यू­ष­व­र्षि­णीम् ।
हेरम्ब देहि प्रत्यू­ह­क्ष्वे­ड­व्यू­ह­नि­वा­रि­णीम् ॥ १ ॥ यद्व­क्त्र­प­ङ्के­रु­ह­स­म्प्र­सूतं निष्ठामृतं विश्व­वि­भा­ग­नि­ष्ठम् ।
साध्येतराभ्यां परिनिष्टितान्तं तं वासुदेवं सततं नतोऽस्मि ॥ २ ॥ प्रत्य­ञ्च­म­च्युतं नत्वा गुरूनपि गरीयसः ।
क्रियते शिष्यशिक्षायै गीता­भा­ष्य­वि­वे­च­नम् ॥ ३ ॥

कर्म­नि­ष्ठा­ज्ञा­न­नि­ष्ठे­त्यु­पा­यो­पे­य­भूतं निष्ठा­द्व­य­म­धि­कृत्य प्रवृत्त गीताशास्त्रं व्याचि­ख्या­सु­र्भ­ग­वान् भाष्यकारो विघ्नो­प­प्ल­वो­प­श­म­ना­दि­प्र­यो­ज­न­प्र­सि­द्धये प्रामा­णि­क­व्य­व­हा­र­प्र­मा­ण­क­मि­ष्ट­दे­व­ता­त­त्त्वा­नु­स्म­रणं मङ्गलाचरणं सम्पादयन् अन­व­शे­षे­णे­ति­हा­स­पु­रा­ण­यो­र्व्या­चि­ख्या­सि­त­गी­ता­शा­स्त्रे­णै­क­वा­क्य­ता­म­भि­प्रेत्य पौरा­णि­क­श्लो­क­मे­वा­न्त­र्या­मि­वि­ष­य­मु­दा­ह­रति –
नारायण इति ।
‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ’ [मनुः १.१०] इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः । सूक्ष्मदर्शिनः पुनराचक्षते – नरशब्देन चराचरात्मकं शरीरजातमुच्यते । तत्र नित्य­स­न्नि­हि­ता­श्चि­दा­भासा जीवा नारा इति निरुच्यन्ते । तेषामयनमाश्रयो निया­म­कोऽ­न्त­र्यामी नारायण इति । यम­धि­कृ­त्या­न्त­र्या­मि­ब्रा­ह्मणं श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते । तदनेन शास्त्र­प्र­ति­पाद्यं विशिष्टं तत्त्वमादिष्टं भवति ।

ननु परस्याऽऽत्मनो माया­स­म्ब­न्धा­द­न्त­र्या­मित्वं शास्त्र­प्र­ति­पा­द्यत्वं च वक्तव्यम् । अन्यथा कूट­स्था­स­ङ्गा­वि­ष­या­द्वि­ती­यस्य तदयोगात् । तथा च शुद्धतासिद्धौ कथं यथोक्ता परदेवता शास्त्रा­दा­व­नु­स्म­र्यते ? शुद्धस्य हि तत्त्व­स्या­नु­स्म­र­ण­म­भी­ष्ट­फ­ल­व­द­भी­ष्टम् । तत्राह –
परोऽव्यक्तादिति ।
अव्यक्तम् अव्याकृतं माये­त्य­न­र्था­न्त­रम् । तस्मात् परो – व्यतिरिक्त स्तेना­सं­स्पृ­ष्टोऽयं परः, ‘अक्षरात् परतः परः’(मु. उ. २-१-२) इति श्रुतेर्गृहीतः । तत्त्वतो माया­स­म्ब­न्धा­भा­वेऽपि कल्पनया तदी­य­स­ङ्ग­ति­म­ङ्गी­कृ­त्या­न्त­र्या­मि­त्वा­दि­क­मु­न्ने­यम् ।

यस्मादीश्वरस्य व्यतिरेको विव­क्षि­त­स्त­स्मि­न्न­व्यक्ते साक्षि­सि­द्धेऽपि, कार्य­लि­ङ्ग­क­म­नु­मा­न­मु­प­न्य­स्यति –
अण्डमिति ।
अप­ञ्ची­कृ­त­प­ञ्च­म­हा­भू­ता­त्मकं हैरण्यगर्भं तत्त्व­म­ण्ड­मि­त्य­भि­ल­प्यते । तदव्यक्तात् पूर्वो­क्ता­दु­त्प­द्यते । प्रसिद्धा हि श्रुति­स्मृ­ति­वा­देषु हिरण्यगर्भस्य मूल­का­र­णा­दु­त्पत्तिः । तथा च कार्य­लि­ङ्गा­द­व्य­क्ता­द­भि­व्य­क्ति­रि­त्यर्थः ।

हिरण्यगर्भे श्रुति­स्मृ­ति­स­म­धि­ग­तेऽपि कार्य­लि­ङ्ग­क­म­नु­मा­न­म­स्तीति मन्वानो विरा­डु­त्प­त्ति­मु­प­द­र्श­यति –
अण्डस्येति ।
उक्तस्याण्डस्य हिर­ण्य­ग­र्भा­भि­धा­नी­य­स्या­न्त­रिमे भूरादयो लोका विराडात्मका वर्तन्ते । कार्यं हि कार­ण­स्या­न्त­र्भ­वति । तेन हिर­ण्य­ग­र्भा­न्त­र्भूता भूरादयो लोका विरा­डा­त्मा­न­स्तेन सृष्टा इति तल्लि­ङ्गा­द्धि­र­ण्य­ग­र्भ­सि­द्धि­रि­त्यर्थः ।

लोकानेव पञ्ची­कृ­त­प­ञ्च­म­हा­भू­ता­त्म­क­वि­रा­डा­त्म­त्वेन व्युत्पादयति –
सप्तद्वीपेति ।
‘सा पृथिव्यभवत्’ [बृ.उ. १.२.२] इति श्रुतौ विराजो जन्म सङ्की­र्ति­त­मि­त्य­ङ्गी­का­रा­द­शे­ष­द्वी­पो­पेता पृथिवीत्यनेन सर्वलोकात्मको विराडेवोच्यते । चशब्देन विराजो हि हिरण्यगर्भे पूर्वो­क्ता­ण्डा­त्म­न्य­न्त­र्भा­वात् , ततः सम्भ­वोऽ­नु­कृ­ष्यते । परमात्मा हि स्वाज्ञानद्वारा जगदशेषमुत्पाद्य स्वात्म­न्ये­वा­न्त­र्भा­व्या­ख­ण्डै­क­र­स­स­च्चि­दा­न­न्दा­त्मना स्वे महिम्नि तिष्ठतीत्यर्थः । अत्र च नारा­य­ण­श­ब्दे­ना­भि­धे­य­मु­क्तम् । नरा एव नारा जीवाः, त्वम्पदवाच्याः, तेषा­म­य­न­म­धि­ष्ठानं तत्पदवाच्यं परं ब्रह्म । तथा च कल्पि­त­स्या­धि­ष्ठा­ना­ति­रि­क्त­स्व­रू­पा­भा­वा­द्वा­च्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्म­मा­त्र­त्वा­द्ब्र­ह्मा­त्मैक्यं विषयोऽत्र सूच्यते । तेना­र्था­द्वि­ष­य­वि­ष­यि­भावः सम्बन्धोऽपि ध्वनितः । परोऽ­व्य­क्ता­दि­त्य­नेन माया­सं­स्प­र्शा­भा­वोक्त्या सर्वा­न­र्थ­नि­वृत्त्या पर­मा­न­न्दा­वि­र्भा­व­ल­क्षणो मोक्षो विवक्षितः । तेन च तत्का­म­स्या­धि­कारो द्योतितः । परिशिष्टेन तु, शब्देन वस्तुनो वास्त­व­म­द्वि­ती­य­त्व­मा­वे­दि­तम् । तेन च वस्तुद्वारा परमविषयत्वं तज्ज्ञा­न­नि­ष्ठा­या­स्त­दु­पा­य­भू­त­क­र्म­नि­ष्ठा­या­श्चा­वा­न्त­र­वि­ष­य­त्व­मि­त्य­र्था­दु­क्त­मि­त्य­व­धे­यम् ॥ १ ॥

ननु नैवं साध्यसाधनभूतं निष्ठाद्वयमत्र भगवता प्रतिपाद्यते, भूमिप्रार्थितेन ब्रह्म­णाऽ­भ्य­र्थि­तस्य भगवतो भूमि­भा­रा­प­हा­रार्थं वसुदेवेन देव­क्या­मा­वि­र्भू­तस्य तादर्थ्येन मध्यमं पृथासुतं प्रथितमहिमानं प्रेरयितुं धर्म­यो­रि­हा­नू­द्य­मा­न­त्वात् , अतो नास्य शास्त्रस्य निष्ठाद्वयं परा­प­र­वि­ष­य­भा­व­म­नु­भ­वि­तु­म­ल­मिति । तन्न । भगवतो धर्म­सं­स्था­प­न­स्वा­भा­व्य­ध्रौ­व्याद् धर्म­द्व­य­स्था­प­ना­र्थ­मेव प्रादु­र्भा­वा­भ्यु­प­ग­मा­द्भू­भा­र­प­रि­हा­रस्य चाऽऽर्थिकत्वात् , अर्जुनं निमि­त्ती­कृ­त्या­धि­का­रिणं स्वध­र्म­प्र­व­र्त­न­द्वारा ज्ञान­नि­ष्ठा­या­म­व­ता­र­यितुं गीताशास्त्रस्य प्रणीतत्वात् , उचितमस्य निष्ठा­द्व­य­वि­ष­य­त्व­मिति परिहरति –
स भगवान् इत्यादिना धर्म­द्व­य­म­र्जु­ना­यो­प­दि­देश इत्यन्तेन भाष्येण ।

तत्र, नेदं गीताशास्त्रं व्याख्या­तु­मु­चि­त­मा­प्त­प्र­णी­त­त्वा­नि­र्धा­र­णात् तथा­वि­ध­शा­स्त्रा­न्त­र­व­दि­त्या­शङ्क्य, मङ्ग­ला­च­र­ण­स्यो­द्देश्यं दर्शयन् आदौ शास्त्र­प्र­णे­तु­रा­प्त­त्व­नि­र्धा­र­णार्थं सर्व­ज्ञ­त्वा­दि­प्र­ति­ज्ञा­पू­र्वकं सर्व­ज­ग­ज्ज­न­यि­तृ­त्व­माह –
स भगवानिति ।
प्रकृतो नारायणाख्यो देवः सर्वज्ञः सर्वेश्वरः समस्तमपि प्रप­ञ्च­मु­त्पाद्य व्यवस्थितः । न च तस्यानाप्तत्वम् , ईश्व­रा­नु­गृ­ही­ता­ना­मा­प्त­त्व­प्र­सिद्ध्या तस्य पर­मा­प्त­त्व­प्र­सि­द्धे­रि­त्यर्थः ।

ननु भगवता सृष्टमपि चातु­र्व­र्ण्या­दि­वि­शिष्टं हिर­ण्य­ग­र्भा­दि­ल­क्षणं जगत् न व्यव­स्थि­ति­मा­स्थातुं शक्यते व्यव­स्था­प­का­भा­वात् , न च परस्यैवेश्वरस्य व्यवस्थापकत्वं वैष­म्या­दि­प्र­स­ङ्गात् , तत्राह –
तस्य चेति ।
सृष्टस्य जगतो मर्या­दा­वि­र­हि­तत्वे शङ्किते तदीयां व्यवस्थां कर्तुमिच्छन् व्यव­स्था­प­क­मा­लोच्य क्षत्रस्यापि क्षत्रत्वेन प्रसिद्धं धर्मं तथाविधमधिगम्य सृष्ट­वा­नि­त्यर्थः ।

सृष्टस्य धर्मस्य साध्यस्वभावतया साध­यि­ता­र­म­न्त­रे­णा­स­म्भा­वत् तस्यैव तद­नु­ष्ठा­तृ­त्वा­न­भ्यु­प­ग­मात् प्राणि­प्र­भे­दा­ना­म­ध­र्म­प्रा­याणां तदयोगात् कुतस्तदीया सृष्टि­रि­त्या­श­ङ्क्याह –
मरीच्यादीनिति ।
तेषां भगवता सृष्टानां प्रजा­सृ­ष्टि­हे­तूनां याग­दा­ना­दि­प्र­वृ­त्ति­साध्यं धर्म­म­नु­ष्ठा­तु­म­धि­कृ­तानां स्वकीयत्वेन तदु­पा­दा­न­मु­प­प­न्न­मि­त्यर्थः ।

चैत्य­व­न्द­ना­दिभ्यो विशेषार्थं धर्मं विशिनष्टि –
वेदोक्तमिति ।

ननु नैतावता जगदशेषमपि व्यवस्थापयितुं शक्यते, प्रवृ­त्ति­मा­र्गस्य पूर्वोक्तधर्मं प्रति नियतत्वेऽपि निवृ­त्ति­मा­र्गस्य तेन व्यव­स्था­प­ना­यो­ग्य­त्वात् , तत्राह –
ततोऽन्यांश्चेति ।

निवृत्तिरूपस्य धर्मस्य शमदमाद्यात्मनो गमकमाह –
ज्ञानेति ।
विवे­क­वै­रा­ग्या­ति­शये शमाद्यतिशयो गम्यते । ततो विवेकादि तस्य गमकमित्यर्थः ।

धर्मे बहुविदां विवा­द­द­र्श­ना­ज्ज­गतः स्थेम्ने कार­णी­भू­त­ध­र्मा­न्त­र­मपि स्रष्ट­व्य­म­स्ती­त्या­श­ङ्क्याह –
द्विविधो हीति ।

अति­प्र­स­ङ्गा­प्र­स­ङ्ग­व्या­वृ­त्तये प्रकृतं धर्मं लक्षयति –
प्राणिनामिति ।
प्रवृत्तिलक्षणो धर्मोऽ­भ्यु­द­या­र्थिनां साक्षा­द­भ्यु­द­य­हेतुः, निश्रे­य­सा­र्थिनां परम्परया निःश्रेयसहेतुः । निवृ­त्ति­ल­क्ष­णस्तु धर्मः साक्षादेव निःश्रे­य­स­हे­तु­रिति विभागः । ज्ञानस्यैव निःश्रे­य­स­हे­तु­त्वेऽपि शमादीनां ज्ञानद्वारा मोक्षहेतुत्वं, ज्ञाना­ति­रि­क्त­व्य­व­धा­ना­भा­वाच्च साक्षा­दि­त्यु­क्तम् ।

यद्येवं धर्मो लक्ष्यते, तर्हि वर्णि­त्व­मा­श्र­मित्वं चोपेक्ष्य सर्वैरेव पुरु­षा­र्था­र्थि­भि­र्द्वा­वपि धर्मौ यथा­यो­ग्य­म­नु­ष्ठे­या­वि­त्या­नु­ष्ठा­तृ­नि­य­मा­सि­द्धि­रि­त्या­श­ङ्क्याह –
ब्राह्म­णा­द्यै­रिति ।
अर्थि­त्वा­वि­शे­षेऽपि श्रुति­स्मृ­ति­प­र्या­लो­च­न­याऽ­नु­ष्ठा­ना­न्नि­य­म­सि­द्धि­रि­त्यर्थः ।

नित्य­नै­मि­त्ति­केषु याव­ज्जी­व­म­नु­ष्ठानं काम्येषु करणांशे रागाधीना प्रवृत्तिः इतिकर्तव्यतांशे वैधीति विभागेऽपि कदा­चि­दे­वा­नु­ष्ठा­न­मिति विभा­ग­म­भि­प्रे­त्याह –
दीर्घेणेति ।

अथ यथो­क्त­ध­र्म­व­शा­देव जगतो विव­क्षि­त­स्थि­ति­सि­द्धे­र्भ­ग­वतो नारा­य­ण­स्या­दि­क­र्तु­र­ने­का­न­र्थ­क­लु­षि­त­श­री­र­प­रि­ग्र­हा­स­म्भ­वा­द­न्य­स्यैव कस्यचिदनाप्तस्य वैष­म्य­नै­र्घृ­ण्य­वतो निग्र­ह­प­रि­ग्र­ह­द्वा­रेण गीता­शा­स्त्र­प्र­ण­य­न­मिति कुतोऽस्य आप्तप्रणीतत्वम् , तत्राह –
अनुष्ठातॄणामिति ।
अथवा यथोक्तशङ्कायां दीर्घे­णे­त्या­र­भ्यो­त्त­रम् । महता कालेन कृतत्रेतात्यये द्वापरावसाने साधकानां काम­क्रो­धा­दि­पू­र्व­का­द­वि­वे­का­द­ध­र्म­बा­हु­ल्या­द्ध­र्मा­भि­भ­वा­द­ध­र्मा­भि­वृ­द्धेश्च जगतो मर्यादाभेदे तदीयां मर्या­दा­मा­त्म­नि­र्मितां पालयितुमिच्छन् प्रकृतो भगवान् एतदर्थेन चातु­र्व­र्ण्या­दि­सं­र­क्ष­णार्थं लीलामयं माया­श­क्ति­प्र­युक्तं स्वेच्छाविग्रहं जग्राहेत्यर्थः ।

‘भौमस्य ब्रह्मणो गुप्त्यै वसुदेवादजीजनत्’ [म.भा.शां. ४७.२९] इति स्मृतिमनुसृत्य पदद्वयमनूद्य व्याचष्टे –
भौमस्येति ।

अंशेनेति ।
स्वेच्छा­नि­र्मि­तेन मायामयेन स्वरू­पे­णे­त्यर्थः ।

किल इति
किले­त्य­स्मि­न्नर्थे पौराणिकी प्रसि­द्धि­र­नू­द्यते । न हि भगवतो व्यति­रि­क्त­स्येदं जन्मेति युज्यते, बहु­वि­धा­ग­म­वि­रो­धा­दिति भावः ।

ननु वैदि­क­ध­र्म­सं­र­क्ष­णार्थं भगवतो जन्म, ‘यदा यदा हि धर्मस्य’ [भ. गी. ४.७] इत्यादिदर्शनात् । किमिदं ब्राह्मणत्वस्य रक्षणार्थमिति तत्राह –
ब्राह्मणत्वस्य हीति ।

तथापि वर्णा­श्र­म­भे­द­व्य­व­स्था­पनं विना कथं यथो­क्त­ध­र्म­र­क्ष­ण­मि­त्या­श­ङ्क्याह –
तदधीनत्वादिति ।
ब्राह्मणं हि पुरोधाय क्षत्रादिः प्रतिष्ठां प्रतिपद्यते, याज­ना­ध्या­प­न­यो­स्त­द्ध­र्म­त्वात् तद्द्वारा च वर्णा­श्र­म­भे­द­व्य­व­स्था­प­नात् । अतो ब्राह्मण्ये रक्षिते सर्वमपि सुरक्षितं भवतीत्यर्थः ।

नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्त्वे सत्य­स्म­दा­दि­भि­र­वि­शे­षा­द­नी­श्व­र­त्व­प्र­स­क्ति­रि­त्या­शङ्क्य ज्ञानादिकृतं विशेषमाह –
स चेति ।
ज्ञानं – ज्ञप्तिः – अर्थ­प­रि­च्छित्तिः, ऐश्वर्यम् – ईश्वरत्वं स्वातन्त्र्यम्, शक्तिः – तद­र्थ­नि­र्व­र्त­न­सा­म­र्थ्यम् , बलम् – सहायसम्पत्तिः, वीर्यम् – पराक्रमवत्त्वम् , तेजस्तु प्राग­ल्भ्य­म­धृ­ष्य­त्वम् , एते च षड्गुणाः सर्वविषयाः सर्वदा भगवति वर्तन्ते । तथा च तस्य शरी­रा­दि­म­त्त्वेऽपि नास्म­दा­दि­सा­म्य­मि­त्यर्थः ।

अथैवमपि कथ­मी­श्व­र­स्या­ना­दि­नि­ध­नस्य नित्य­शु­द्ध­बु­द्व­मु­क्त­स्व­भा­वस्य स्वभावविपरीतं जन्मादि सम्भवति ? न हि भूतानामीशिता स्वतन्त्रः स्वात्मनोऽनर्थं स्वयमेव सम्पा­द­यि­तु­म­र्हति, न चास्य देहादिग्रहे किमपि फलमुपलभ्यते, तत्राह –
त्रिगु­णा­त्मि­का­मिति ।
सिसृ­क्षि­त­दे­हा­दि­ग­त­वै­रू­प्य­सि­द्ध्य­र्थ­मिदं विशेषणम् । तस्या व्यापकत्वं वक्तुं वैष्ण­वी­मि­त्यु­क्तम् ।

ईश्वरपारवश्यं तस्या दर्शयति –
स्वामिति ।

तस्याश्च प्रति­भा­स­मा­त्र­श­री­र­त्व­मेव न तु वस्तुत्वमित्याह –
मायामिति ।

तस्या नाना­वि­ध­का­र्या­का­रेण परिणामित्वं सूचयति –
मूलप्रकृतिमिति ।

ईश्वरस्य प्रकृत्यधीनत्वं वारयति –
वशीकृत्येति ।

नित्य­शु­द्ध­बु­द्ध­मुक्त
नित्यत्वं कार्या­का­र­वि­र­हि­त­त्वम् , शुद्ध­त्व­म­का­र­ण­त्वम् , बुद्धत्वं अजडत्वम् , मुक्तत्वं अवि­द्या­का­म­क­र्म­पा­र­त­न्त्र्य­रा­हि­त्यम् ।

न च नित्यत्वादयः संसा­रा­व­स्था­या­म­सन्तो मोक्षावस्थायां सम्भवन्तीति युक्तमित्याह –
स्वभाव इति ।

स्वमायया ।
देहग्रहे प्राधान्यं मायाया दर्शयितुं पुनः स्वमा­य­ये­त्यु­क्तम् ।

‘स वा अयं पुरुषो जायमानः शरी­र­म­भि­स­म्प­द्य­मानः’(बृ. उ. १४-३-८) इति श्रुति­मा­श्रि­त्याह –
देहवानिति ।

इव जात इव
इवकाराभ्यां देहा­दे­र­व­स्तु­त्वेन कल्पितत्वं द्योत्यते ।

लोकानुग्रहमिति
धर्म­द्व­यो­प­दे­श­द्वारा प्राणि­व­र्ग­स्या­भ्यु­द­य­निः­श्रे­य­स­त­त्प­र­त्वा­पा­दनं लोकानुग्रहः । यद्यपि कूटस्थः स्वतन्त्रो नित्य­त्वा­दि­ल­क्ष­ण­श्चा­य­मी­श्वरः स्वतो दृश्यते, तथापि यथो­क्त­मा­या­शक्त्या देहादि गृहीत्वा प्राणि­ना­म­नु­ग्र­ह­मा­द­धानो न स्वभावविपर्ययं पर्येतीत्यर्थः ।

ननु ‘प्रयो­ज­न­म­नु­द्दिश्य न मन्दोऽपि प्रवर्तते ‘ इति न्याया­दी­श्व­र­स्याऽऽ­प्त­का­म­तया कृतकृत्यस्य प्रयो­ज­ना­भा­वा­द­नु­ग्रा­ह्याणां चाद्वैतवादे व्यति­रि­क्ता­ना­म­स­त्त्वान्न धर्म­द्व­य­मु­प­दे­ष्टु­मु­चि­त­मिति, तत्राह –
स्वप्रयोजनेति ।
कल्पितभेदभाञ्जि भूतान्युपादाय तदनुग्रहेच्छया चैत्य­व­न्द­ना­दि­वि­ल­क्षणं धर्मद्वयमर्जुनं निमि­त्ती­कृ­त्याऽऽ­प्त­का­मोऽपि भग­वा­नु­प­दि­ष्ट­वा­नि­त्यर्थः ।

अर्जु­न­स्यो­प­दे­शा­पे­क्षा­स्तीति दर्शयितुं विशिनष्टि –
शोकेति ।

ननु भूतानुग्रहे कर्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते, तत्राह –
गुणाधिकैरिति ।
प्रचयं गमिष्यतीति मत्वा धर्म­द्व­य­म­र्जु­ना­यो­प­दि­दे­शेति सम्बन्धः ।

अथ तथापि सुग­तो­प­दि­ष्ट­ध­र्म­व­द­य­मपि भगवदुपदिष्टो धर्मो न प्रामा­णि­को­पा­दे­य­ता­मु­प­ग­च्छे­दि­त्या­शङ्क्य वेदो­क्त­त्वा­न्नास्य तत्तु­ल्य­त्व­मि­त्यु­क्त­मि­त्य­भि­प्रत्य शिष्ट­प­रि­गृ­ही­त­त्वाच्च मैवमित्याह –
तं धर्ममिति ।

अधर्मे धर्म­बु­द्धि­र्वे­द­व्या­सस्य जाते­त्या­श­ङ्क्याह –
सर्वज्ञ इति ।

‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्’ [वि.पु. ३.४.५] इति स्मृतेः सज्ज­नो­प­का­र­क­भ­ग­व­द­व­ता­र­त्वाच्च व्यासस्य नान्य­था­बु­द्धि­रि­त्याह –
भगवानिति ।

गीता­शा­स्त्र­स्या­ना­प्त­प्र­णी­त­त्व­म­पा­कृत्य व्याख्ये­य­त्व­मु­प­पा­दि­त­मु­प­सं­ह­रति –
तदिदमिति ।

पौरुषेयस्य वचसो मूल­प्र­मा­णा­भा­वे­ना­प्रा­मा­ण्य­मिति मत्वा विशिनष्टि –
समस्तेति ।

शास्त्रा­क्ष­रै­रेव तद­र्थ­प्र­ति­प­त्ति­स­म्भवे किमिति व्याख्या­न­मि­त्या­श­ङ्क्याह –
दुर्वि­ज्ञे­या­र्थ­मिति ।

‘पदच्छेदः पदा­र्थो­क्ति­र्वि­ग्रहो वाक्ययोजना ।
आक्षेपस्य समाधानं व्याक्यानं पञ्चलक्षणम् ॥' इत्या­दि­क्र­मे­णास्य शास्त्रस्य पूर्वा­चा­र्यै­र्व्या­ख्या­त­त्वात् किम­र्थ­मि­द­मा­र­भ्यते गतार्थत्वात् , तत्राह –
तदर्थेति ।
गीता­शा­स्त्रा­र्थस्य प्रकटीकरणार्थं पद­वि­भा­ग­स्त­द­र्थोक्तिः समासद्वारा वाक्या­र्थ­नि­र्देशः, तत्रापेक्षितो न्याय­श्चा­क्षे­प­स­मा­धा­न­ल­क्षणो वृत्ति­का­रै­र्द­र्शितः तथापि तथाविधमेव शास्त्रं शास्त्र­प­रि­च­य­शून्यैः समु­च्च­य­वा­दि­भि­र्वि­रु­द्धा­र्थ­त्वे­ना­ने­का­र्थ­त्वेन च गृहीतमालक्ष्य तद्बु­द्धि­म­नु­रो­द्धु­मि­द­मा­र­ब्ध­व्य­मि­त्यर्थः ।

येषां प्राचीने व्याख्याने बुद्धि­र­प्र­विष्टा तेषां सम्प्रतितने एतस्मिन्नसौ प्रवेक्ष्यतीति कुतो नियमस्तत्राह –
विवेकत इति ।

पूर्वव्याख्याने तत्त­द­र्थ­नि­र्धा­र­णा­र्थो­प­न्यासः सङ्की­र्ण­व­द्भा­तीति न तत्र केषाञ्चिन्मनीषा समुन्मिषति, प्रकृते त्वस­म्प्र­की­र्ण­तया तत्त­त्प­दा­र्थ­नि­र्ण­यो­प­यो­गि­न्यायो विव्रियते, तेनात्र मन्दमध्यमयोरपि बुद्धि­र­व­त­र­ती­त्यर्थः । किञ्च अन­पे­क्षि­ता­धि­क­ग्र­न्थ­स­द्भा­वान्न प्राचीने व्याख्याने श्रोतॄणां प्रवृत्तिः । अत्र त्वपे­क्षि­ता­ल्प­ग्रन्थे विवरणे प्रायशः सर्वेषां प्रवृत्तिः स्यादिति मत्वाह –
सङ्क्षेपत इति ।

ननु अना­प्त­प्र­णी­त­त्वा­द्य­भा­वेऽपि नेदं शास्त्रं व्याख्येयं विष­या­द्य­नु­ब­न्ध­स्या­न­भि­हि­त­त्वेन शास्त्र­त्वा­भा­वा­दि­त्या­शङ्क्य सर्वव्यापाराणां प्रयो­ज­ना­र्थ­त्वा­दादौ प्रयोजनमाह –
तस्येति ।
प्रसा­धि­त­प्रा­मा­ण्यस्य, व्याख्येयत्वेन मनसि संनिहितस्य गीताशास्त्रस्य सङ्क्षेपतः सङ्ग्रहः सम्पि­ण्डि­त­त्व­मे­क­वा­क्यत्वं, तेनेदं परमं फलं यन्निश्चितं श्रेयो निःश्रेयसं कैवल्यम् । अवान्तरफलं तु तत्र­त­त्रा­वा­न्त­र­वा­क्य­भे­देन मनोनिग्रहादि विवक्ष्यते ।

निःश्रेयसं च द्विविधम् – निर­ति­श­य­सु­खा­वि­र्भावो निःशे­षा­न­र्थो­च्छि­त्तिश्च । तत्रा­द्य­मु­दा­ह­रति –
परमिति ।

द्वितीयं दर्शयति –
सहेतुकस्येति ।
संसा­रो­प­र­म­स्या­त्य­न्ति­कत्वं प्रतियोगिनः संसारस्य पुन­रु­त्प­त्त्य­यो­ग्य­त्वम् । तच्च स्वाप­मू­र्च्छा­दि­व्य­व­च्छे­दार्थं विशेषणम् । तदेव साधयितुं सहे­तु­क­स्ये­त्यु­क्तम् ।

उक्तं फलं समु­च्चि­ता­दे­का­किनो वा कर्मणः स्यादिति तस्यैव शास्त्र­प्र­ति­पा­द्य­ते­त्या­श­ङ्क्या­भि­धे­य­म­भि­धि­त्स­मानः समाधत्ते –
तच्चेति ।
आत्म­ज्ञा­न­नि­ष्ठा­शे­ष­त्वेन कर्मनिष्ठा अत्रोच्यते । प्राधान्येन त्वात्म­ज्ञा­न­नि­ष्ठै­वात्र प्रतिपाद्यत इत्यर्थः ।

ननु शेषिणी निष्ठा कुतो भवति संन्यासात् ? न कर्मनिष्ठायाः शेषत्वात् तत्राह –
सर्वेति ।
संन्या­स­द्वा­रे­णा­स­कृ­द­नु­ष्ठि­त­श्र­व­णादेः शेषिणी निष्ठा सिद्ध्यति, शेषत्वं च कर्मणः, तत्र पर­स्प­रा­श्र­य­त्व­मि­त्यर्थः ।

ननु ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ’ [भ. गी. १८.५] इति वाक्यशेषात् समु­च्चि­त­मा­त्म­ज्ञा­न­मत्र प्रतिपाद्यते, नेत्याह –
तथेति ।

सर्व­क­र्म­सं­न्या­स­पू­र्व­क­मा­त्म­ज्ञा­न­नि­ष्ठा­रूपं धर्मं निःश्रे­य­स­प्र­यो­जनं प्रागुक्तं परामृशति –
इममेवेति ।

वक्तृ­भे­दा­द­भि­प्रा­य­भे­दा­शङ्कां वारयति –
भगवतैवेति ।
उक्त­म­नु­गी­ता­स्विति सम्बन्धः ।

ब्रह्मणः पदं
ब्रह्मणः पदं – पूर्वोक्तं निःश्रेयसम् । तस्य वेदनं लाभः । तत्र विशिष्टो ज्ञाननिष्ठारूपो धर्मः समर्थो भवतीत्यर्थः । यज्ञ­दा­ना­दि­वा­क्यस्य तु तद्व­या­ख्या­ना­व­सरे तात्पर्यं वक्ष्यते ।

कर्मत्यागस्य भग­व­तोऽ­भि­प्रे­तत्वे वाक्या­न्त­र­म­नु­गी­ता­ग­त­मे­वो­दा­ह­रति –
तत्रैवेति ।

धर्मा­ध­र्मा­पू­र्वा­सं­स­र्गित्वे हेतुमाह –
नैवेति ।

क्रिया­द्व­य­स­म्ब­न्धा­भा­वात् तन्नि­र्व­र्त्त्या­पू­र्वा­भ्या­म­स­म्बन्धे प्राप्तमर्थमाह –
यः स्यादिति ।
वागा­दि­बा­ह्य­क­र­ण­व्या­पा­र­वि­र­हि­तत्वं तूष्णी­मि­त्यु­च्यते । किञ्चिदचिन्तयन् इत्य­न्तः­क­र­ण­व्या­पा­रा­भा­वोऽ­भि­प्रेतः । द्विवि­ध­क­र­ण­व्या­पा­र­वि­र­हितः सन् प्रागुक्तो योऽधिकारी केवलमेकस्मिन् – अद्वितीये ब्रह्मणि आसनमवस्थानम् , तत्र लीनः, तस्मिन्नेव समाप्तिभागी स्यात् , तस्या­स­म्प्र­ज्ञा­त­स­मा­धि­नि­ष्ठस्य सर्व­क­र्म­त्या­ग­हे­तुकं ज्ञानं मुक्ति­हे­तु­र्भ­व­ती­त्यर्थः ।

न केव­ल­म­नु­गी­ता­स्वेव यथोक्तं ज्ञानमुक्तम् । किन्तु प्रकृतेऽपि शास्त्रे समाप्त्यवसरे दर्शितमित्याह –
इहापीति ।

नन्वत्र निवृ­त्ति­ल­क्ष­ण­ध­र्मा­त्मकं ससं­न्य­स­मा­त्म­ज्ञा­न­मेव न प्रतिपाद्यते, ‘कुरु कर्मैव तस्मात् त्वम् ’ [भ. गी. ४.१५] इत्यादौ प्रवृ­त्ति­ल­क्ष­ण­स्यापि धर्मस्य वक्ष्यमाणत्वात् , धर्मयोश्च प्रकृ­त­त्वा­वि­शे­षात् , तत्राह –
अभ्यु­द­या­र्थोऽ­पीति ।

ननु वर्णि­भि­रा­श्र­मि­भि­श्चा­नु­ष्ठे­य­त्वे­ना­न्यत्र विहितस्यापि तस्य न युक्तं मोक्ष­सा­ध­न­त्वा­धि­कारे विधानम् , देवा­दि­स्था­न­प्रा­प्ति­हे­तु­त्वेन मोक्षं प्रति प्रतिपक्षत्वात् । सत्यम् , तथापि फला­भि­ला­ष­म­न्त­रे­णे­श्व­रा­र्प­ण­धिया कृतस्य बुद्धि­शु­द्धि­हे­तु­त्वात् तस्येह वचनमित्याह –
स देवादीति ।
फला­भि­स­न्धि­द्वारा कृतः सन्निति शेषः ।

प्रवृ­त्ति­ल­क्ष­ण­ध­र्म­स्यो­क्त­रीत्या चित्त­शु­द्धि­हे­तु­त्वेऽपि मोक्षहेतुत्वेन कुतो मोक्षाधिकारे निर्देशः स्यादि­त्या­श­ङ्क्याह –
शुद्धेति ।
प्रतिपद्यते प्रागुक्तो धर्म इति शेषः ।

यदुक्तं फला­भि­स­न्धि­व­र्जि­त­मी­श्व­रा­र्प­ण­बु­द्ध्याऽ­नु­ष्ठितं कर्म बुद्धिशुद्धये भवतीति, तत्र वाक्य­षे­ष­म­नु­कू­ल­यति –
तथा चेति ।

शास्त्रस्य प्रयोजनं ससा­ध­न­मु­क्त­म­नूद्य विषयं दर्शयति –
इममिति ।

दर्शितेन फलेन शास्त्रस्य निष्ठा­द्व­य­द्वारा साध्यसाधनभावः सम्बन्धो विषयेण विष­य­वि­ष­यि­त्व­मिति विवक्षित्वाह –
विशेषत इति ।

एव­म­नु­ब­न्ध­त्र­य­वि­शिष्टं शास्त्रं व्याख्या­ना­र्ह­मि­त्यु­प­सं­ह­रति –
विशिष्टेति ।

सिद्धे व्याख्या­न­यो­ग्यत्वे व्याख्येयत्वं फलितमाह –
यत इति ।

तत्रै­षाऽ­क्ष­र­यो­जना -
धृतराष्ट्र उवाचेति ।

धृतराष्ट्रो हि प्रज्ञा­च­क्षु­र्बा­ह्य­च­क्षु­र­भा­वा­द्बा­ह्य­मर्थं प्रत्य­क्ष­यि­तु­म­नीशः सन् अभ्याशवर्तिनं सञ्जयमात्मनो हितोपदेष्टारं पृच्छति -
धर्मक्षेत्र इति ।
धर्मस्य तद्बुद्धेश्च क्षेत्र­म­भि­वृ­द्धि­का­रणं यदुच्यते कुरु­क्षे­त्र­मिति, तत्र समवेताः सङ्गताः, युयुत्सवो योद्धुकामास्ते च केचिन्मदीया दुर्यो­ध­न­प्र­भृ­तयः पाण्डवाश्चापरे युधिष्ठिरादयः, ते च सर्वे युद्धभूमौ सङ्गता भूत्वा किं कृतवन्तः ॥ १ ॥

‘किमस्मदीयं प्रबलं बलं प्रतिलभ्य धीर­पु­रु­षै­र्भी­ष्मा­दि­भि­र­धि­ष्ठितं परेषां भयमाविरभूत् , यद्वा पक्ष­द्व­य­हिं­सा­नि­मि­त्ता­ध­र्म­भ­य­मा­सीत् , येनैते युद्धादुपरमेरन् ? ‘ इत्येवं पुत्रपरवशस्य पुत्र­स्ने­हा­भि­नि­वि­ष्टस्य धृतराष्ट्रस्य प्रश्ने सञ्जयस्य प्रतिवचनम् -
दृष्ट्वेत्यादि ।
पाण्डवानां भयप्रसङ्गो नास्तीत्येतत् तुशब्देन द्योत्यते । प्रत्युत दुर्योधनस्यैव राज्ञो भयं प्रभूतं प्रादुर्बभूव । पाण्डवानां - पाण्डुसुतानां युधि­ष्ठि­रा­दी­ना­म­नीकं - सैन्यं धृष्ट­द्यु­म्ना­दि­भि­र­ति­धृ­ष्टै­र्व्यू­हा­धि­ष्ठितं दृष्ट्वा प्रत्यक्षेण प्रतीत्य त्रस्तहृदयो दुर्योधनो राजा तदा - तस्यां सङ्ग्रा­मो­द्यो­गा­व­स्था­याम् , आचार्यं द्रोण­ना­मा­न­मा­त्मनः शिक्षितारं रक्षितारं च श्लाघ­य­न्नु­प­स­ङ्गम्य - तदीयं समीपं विनयेन प्राप्य भयो­द्वि­ग्न­हृ­द­य­त्वेऽपि तेजस्वित्वादेव वचनमर्थसहितं वाक्य­मु­क्त­वा­नि­त्यर्थः ॥ २ ॥

तदेव वचनमुदाहरति -
पश्येति ।
एतामस्मदभ्याशे महापुरुषानपि भव­त्प्र­मु­खा­न­प­रि­ग­णय्य भय­ले­श­शू­न्या­म­व­स्थितां चमूमिमां सेनां पाण्डु­पु­त्रै­र्यु­धि­ष्ठि­रा­दि­भि­रा­नीतां मह­ती­म­ने­का­क्षौ­हि­णी­स­हि­ता­म­क्षोभ्यां, पश्येत्याचार्यं दुर्योधनो नियुङ्क्ते । नियोगद्वारा च तस्मिन् परेषामवज्ञां विज्ञापयन् क्रोधा­ति­रे­क­मु­त्पा­द­यि­तु­मु­त्स­हते ।

परकीयसेनाया वैशि­ष्ट्या­भि­धा­न­द्वारा परपक्षेऽपि त्वदीयमेव बलमिति सूचयन् आचार्यस्य तन्निरसनं सुकरमिति मन्वानः सन्नाह -
व्यूढामिति ।
राज्ञो द्रुपदस्य पुत्रः तव च शिष्यो धृष्टद्युम्नो लोके ख्यातिमुपगतः, स्वयं च शस्त्रा­स्त्र­वि­द्या­स­म्पन्नो महामहिमा तेन व्यूह­मा­पा­द्या­धि­ष्ठि­ता­मिमां चमूं किमिति न प्रतिपद्यसे किमिति वा मृष्यसीत्यर्थः ॥ ३ ॥

अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहवः सन्ती­त्य­नु­पे­क्ष­णी­यत्वं परपक्षस्य विवक्षयन्नाह -
अत्रेति ।
अस्यां हि प्रति­प­क्ष­भू­तायां सेनायां शूराः - स्वयमभीरवः शस्त्रा­स्त्र­कु­शलाः भीमार्जुनाभ्यां सर्व­स­म्प्र­ति­प­न्न­वी­र्याभ्यां तुल्याः युद्ध­भू­मा­वु­प­ल­भ्यन्ते ।

तेषां युद्धशौण्डीर्यं विशदीकर्तुं विशिनष्टि -
महेष्वासा इति ।
इषु­र­स्य­तेऽ­स्मि­न्निति व्युत्पत्त्या धनुस्तदुच्यते । तच्च महत् अन्यैरप्रधृष्यं तद् येषां ते राजानस्तथा विवक्ष्यन्ते ।

तानेव पर­से­ना­म­ध्य­म­ध्या­सी­नान् परपक्षानुरागिणो राज्ञो विज्ञापयति -
युयुधान इत्यादिना सौभद्रो द्रौप­दे­या­श्चे­त्य­न्तेन ।

तेषां सर्वेषामपि महा­ब­ल­प­रा­क्र­म­भा­क्त्वा­द­नु­पे­क्ष्यत्वं पुनर्विवक्षति -
सर्व एवेति
॥ ४, ५, ६ ॥

यद्येवं परकीयं बलमतिप्रभूतं प्रती­त्या­ति­भी­त­व­द­भि­द­धासि, हन्त सन्धिरेव परैरिष्यताम् , अलं विग्रहाग्रहेण इत्या­चा­र्या­भि­प्रा­य­मा­शङ्क्य ब्रवीति -
अस्माकमिति ।
तुश­ब्दे­ना­न्त­रु­त्प­न्न­मपि स्वकीयं भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । ये खल्वस्मत्पक्षे व्यवस्थिताः सर्वेभ्यः समुत्कर्षजुषः तान् मयोच्यमानान् निबोध - निश्चयेन मद्व­च­ना­द­व­धा­र­ये­त्यर्थः ।

यद्यपि त्वमेव त्रैवर्णिकेषु त्रैवि­द्य­वृ­द्धेषु प्रधानत्वात् प्रतिपत्तुं प्रभवसि, तथापि मदीयसैन्यस्य ये मुख्यास्तानहं ते तुभ्यं संज्ञा­र्थ­म­स­ङ्ख्येषु तेषु मध्ये कति­चि­न्ना­म­भि­र्गृ­हीत्वा परि­शि­ष्टा­नु­प­ल­क्ष­यितुं विज्ञापनं करोमि, न त्वज्ञातं किञ्चित् तव ज्ञापयामीति मत्वाह -
द्विजोत्तमेति
॥ ७ ॥

तानेव स्वसे­ना­नि­वि­ष्टान् पुरुषधौरेयान् आत्मी­य­भ­य­प­रि­हा­रार्थं परिगणयति -
भवानित्यादिना
॥ ८ ॥

द्रोणा­दि­प­रि­ग­ण­नस्य परि­शि­ष्ट­प­रि­स­ङ्ख्या­र्थत्वं व्यावर्तयति -
अन्ये चेति ।

सर्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वजीवितादपि मह्यं स्पृहयन्तीत्याह -
मदर्थ इति ।

यत्तु तेषां शूरत्वमुक्तं तदिदानीं विशदयति -
नानेति ।
नानाविधानि अनेकप्रकाराणि शस्त्राणि - आयुधानि प्रहरणानि - प्रहरणसाधनानि येषां ते तथा ।

बहु­वि­धा­यु­ध­स­म्प­त्ता­वपि तत्प्रयोगे नैपुण्याभावे तद्वैफल्यमिति चेत् , नेत्याह -
सर्व इति
॥ ९ ॥

राजा पुनरपि स्वकीयभयाभावे हेत्व­न्त­र­मा­चार्यं प्रत्यावेदयति -
अपर्याप्तमिति ।
अस्माकं खल्विदं एका­द­श­स­ङ्ख्या­का­क्षौ­हि­णी­प­रि­ग­णि­त­म­प­रि­मितं बलं भीष्मेण च प्रथि­त­म­हा­म­हिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं पर्याप्तं - परोषां परिभवे समर्थम् । एतेषां पुनस्तदल्पं - सप्त­स­ङ्ख्या­का­क्षौ­हि­णी­प­रि­मितं बलं भीमेन चपलबुद्धिना कुशलताविकलेन परिपालितं अपर्याप्तम् - अस्मा­न­भि­भ­वि­तु­म­स­म­र्थ­मि­त्यर्थः । अथवा - तदिदमस्माकं बलं भीष्मा­धि­ष्ठि­त­म­प­र्याप्तं - अपरिमितं अधृष्यं - अक्षोभ्यम् । एतेषां तु पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं - अपरिमितम् सोढुं शक्यमित्यर्थः । अथवा - तत् पाण्डवानां बलमपर्याप्तं - नालम् , अस्माकं - अस्मभ्यं भीष्माभिरक्षितं भीष्मोऽ­भि­र­क्षि­तोऽस्मै पर­ब­ल­नि­वृ­त्त्य­र्थ­मिति तदेव तथोच्यते । इदं पुनरस्मदीयं बलमेतेषां - पाण्डवानां पर्याप्तं - परिभवे समर्थम् , भीमाभिरक्षितं भीमो दुर्बलहृदयो यस्मादस्मै पर­ब­ल­नि­वृ­त्त्य­र्थ­म­भि­र­क्षितः । तस्मादस्माकं न किञ्चिदपि भय­का­र­ण­म­स्ती­त्यर्थः ॥ १० ॥

स्वकीयबलस्य भीष्मा­धि­ष्ठि­त­त्वेन बलि­ष्ठ­त्व­मुक्त्वा भीष्मशेषत्वेन तदनुगुणत्वं द्रोणादीनां प्रार्थयते -
अयनेष्विति ।
कर्त­व्य­वि­शे­ष­द्योती चशब्दः । समरसमारम्भसमये योधानां यथाप्रधानं युद्धभूमौ पूर्वा­प­रा­दि­दि­ग्वि­भा­गे­ना­व­स्थि­ति­स्था­नानि नियम्यन्ते । तान्यत्र अयनान्युच्यन्ते । सेनापतिश्च सर्व­सै­न्य­म­धि­ष्ठाय मध्ये तिष्ठति । तेषु सर्वेषु प्रक्लृप्तं प्रवि­भा­ग­म­प्र­त्या­ख्याय भवान् अश्वत्थामा कर्ण­श्चे­त्ये­व­मा­दयो भवन्तः सर्वेऽवस्थिताः सन्तो भीष्ममेव सेनापतिं सर्वतो रक्षन्तु । तस्य हि रक्षणे सर्वमस्मदीयं बलं रक्षितं स्यात् , पर­ब­ल­नि­वृ­त्त्य­र्थ­त्वेन तस्यास्माभी रक्षि­त­त्वा­दि­त्यर्थः ॥ ११ ॥

तमेवमाचार्यं प्रति संवादं कुर्वन्तं भयाविष्टं राजानं दृष्ट्वा तदभ्याशवर्ती पितामहस्तद् - बुद्ध्य­नु­रो­धा­र्थ­मित्थं कृतवानित्याह -
तस्येति ।
राज्ञो दुर्योधनस्य हर्षं - बुद्धि­ग­त­मु­ल्ला­स­वि­शेषं परपरिभवद्वारा स्वकी­य­वि­ज­य­द्वा­रकं सम्यगुत्पादयन् भयं तदी­य­म­प­नि­नी­षु­रुच्चैः सिंहनादं कृत्वा शङ्खमापूरितवान् । किमिति दुर्योधनस्य हर्ष­मु­त्पा­द­यितुं पितामहो यतते, कुरुवृद्धत्वात् तस्य कुरुराजत्वात् पिता­म­ह­त्वा­च्चास्य दुर्यो­ध­न­भ­या­प­न­य­नार्था प्रवृ­त्ति­रु­चिता, तदुपजीवितया तद्वशत्वाच्च । तस्य च सिंहनादे शङ्खशब्दे च परेषां हृदयव्यथा सम्भाव्यते, दूरादेव अरिनिवहं प्रति भय­ज­न­न­ल­क्ष­ण­प्र­ता­प­त्वा­दि­त्यर्थः ॥ १२ ॥

राजाभिप्रायं प्रतीत्य भीष्म­प्र­वृ­त्त्य­न­न्तरं तत्प­क्षै­स्तैस्तै राजभिः शङ्खादयो वाद्यविशेषा झटिति शब्दवन्तः सम्पादिताः । स च शङ्खा­दि­प्र­यु­क्त­श­ब्द­स्तु­मुलो बहुलं भयं परेषां परि­द्यो­त­य­न्ना­सी­दि­त्याह -
तत इति
॥१३ ॥

एवं दुर्योधनपक्षे प्रवृ­त्ति­मा­लक्ष्य परिसरवर्तिनौ केशवार्जुनौ श्वेतै­र्ह­यै­र­ति­ब­ल­प­रा­क्र­मै­र्युक्ते महति - अप्रधृष्ये रथे व्यवस्थितौ अप्राकृतौ शङ्खौ पूरि­त­व­न्ता­वि­त्याह -
ततः श्वेतैर्हयैरिति
॥ १४ ॥

तयोः शङ्ख­यो­र्दि­व्य­त्व­मे­वा­वे­द­यति -
पाञ्चजन्यमिति ।

केश­वा­र्जु­न­यो­र्यु­द्धा­भि­मुख्यं दृष्ट्वा संहृष्टः स्वारस्येन समररसिको भीमसेनोऽपि युद्धा­भि­मु­खोऽ­भू­दि­त्याह -
पौण्ड्रमिति
॥ १५ ॥

एतेषामीदृशीं प्रवृत्तिं प्रतीत्य परि­पा­ल­ना­व­का­श­मा­साद्य राज्ञो युधिष्ठिरस्यापि प्रवृत्तिं दर्शयति -
अनन्तेति ।

ज्यायसां भ्रातॄ­णा­म­नु­स­र­ण­मा­व­श्य­क­मिति मत्वा तयो­र्य­वी­य­सो­र्भ्रा­त्रो­रपि प्रवृत्तिमाह -
नकुल इति
॥ १६ ॥

अन्येषामपि तत्पक्षीयाणां राज्ञामैकमत्यं विज्ञापयन् धृतराष्ट्रस्य दुराशां सञ्जयो व्युदस्यति -
काश्य­श्चे­त्या­दिना
॥ १७ ॥

द्रुपद इति ।
पर­मे­ष्वा­सा­दि­वि­शे­ष­ण­च­तु­ष्टयं प्रत्येकं सम्बध्यते ॥ १८ ॥

तैस्तै राजभिः शङ्खा­ना­पू­र­य­द्भि­रा­पा­दितो महान् घोषः तुमुलः - अतिभैरवो नभश्च - अन्तरिक्षं पृथिवीं च - भुवनं लोकत्रयं सर्वमेव विशे­षे­णा­नु­क्र­मेण नादयन् - नादयुक्तं कुर्वन् धार्त­रा­ष्ट्राणां दुर्योधनादीनां हृदयानि अन्तःकरणानि व्यदारयत् - विदारितवान् । युज्यते हि तत्प्रे­रि­त­श­ङ्ख­घो­ष­श्र­व­णात् त्रैंलो­क्या­क्रोशे तमुपश्रृण्वतां तेषां हृदयेषु दोधूयमानत्वम् । तदाह -
स घोष इति
॥ १९ ॥

दुर्योधनादीनां धार्त­रा­ष्ट्रा­णा­मेवं भयप्राप्तिं प्रदर्श्य पार्थादीनां पाण्डवानां तद्वै­प­री­त्य­मि­दा­नी­मु­दा­ह­रति -
अथेत्यादिना ।
भीति­प्र­त्यु­प­स्थि­ते­र­न­न्तरं पलायने प्राप्तेऽपि वैपरीत्याद् व्यवस्थितान् अप्रचलितानेव परान् प्रत्य­क्षे­णो­प­लभ्य हनुमन्तं वानरवरं ध्वजलक्षणत्वेन आदा­या­व­स्थि­तोऽ­र्जुनो भगवन्तमाहेति सम्बन्धः ।

किमा­हे­त्य­पे­क्षा­या­मिदं - वक्ष्यमाणं हेतु­म­द्व­च­न­मि­त्याह -
वाक्यमिदमिति ।

कस्या­म­व­स्था­या­मि­द­मु­क्त­वा­निति तत्राह -
प्रवृत्त इति ।
शस्त्राणां - इषु­प्रा­स­प्र­भृ­तीनां सम्पातः - समुदायः तस्मिन् प्रवृत्ते - प्रयोगाभिमुखे सतीति यावत् ।

किं कृत्वा भगवन्तं प्रत्यु­क्त­वा­निति तदाह –
धनुरिति ।
महीपतिशब्देन राजा प्रज्ञाचक्षुः सञ्जयेन सम्बोध्यते ॥ २० ॥

तदेव गाण्डीवधन्वनो वाक्यमनुक्रामति -
सेनयोरिति ।
उभयोरपि सेनयोः संनि­हि­त­यो­र्मध्ये मदीयं रथं स्थाप­ये­त्य­र्जु­नेन सारथ्ये सर्वेश्वरो नियुज्यते । किं हि भक्तानामशक्यं यद्भगवानपि तन्नि­यो­ग­म­नु­ति­ष्ठति ? युक्तं हि भगवतो भक्तपारवश्यम् । अच्युतेति सम्बोधनतया भगवतः स्वरूपं न कदाचिदपि प्रच्युतिं प्राप्नो­ती­त्यु­च्यते ॥ २१ ॥

मध्ये रथं स्थाप­ये­त्यु­क्तम् । तदेव रथस्थापनस्थानं निर्धारयति -
यावदिति ।
एतान् - प्रतिपक्षे प्रतिष्ठितान् भीष्मद्रोणादीन् अस्माभिः सार्धं योद्धु­म­पे­क्षा­वतो यावद् - गत्वा निरीक्षितुमहं क्षमः स्याम् , तावति प्रदेशे रथस्य स्थापनम् कर्त­व्य­मि­त्यर्थः ।

किञ्च, प्रवृृत्ते युद्धप्रारम्भे बहवो राजानोऽमुष्यां युद्ध­भू­मा­वु­प­ल­भ्यन्ते, तेषां मध्ये कैः सह मया योद्धव्यम् ? न हि क्वचिदपि मम गति­प्र­ति­ह­ति­र­स्ती­त्याह -
कैर्मयेति
॥ २२ ॥

प्रति­यो­गि­ना­म­भावे कथं तव युद्धौत्सुक्यं फलवद् भवेदिति तत्राह –
योत्स्यमानानिति ।
ये केचिदेते राजानो नाना­दे­शे­भ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान् - परि­गृ­ही­त­प्र­ह­र­णो­पा­यान् अतितरां सङ्ग्रा­म­स­मु­त्सु­का­नु­प­लभे । तेन प्रतियोगिनां बाहु­ल्य­मि­त्यर्थः ।

तेषामस्माभिः सह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्पते ? तत्राह -
धार्त­रा­ष्ट्र­स्येति ।
धृत­रा­ष्ट्र­पु­त्रस्य दुर्योधनस्य दुर्बुद्धेः - स्वर­क्ष­णो­पा­य­म­प्र­ति­प­द्य­मा­नस्य युद्धाय संरम्भं कुर्वतो युद्धे - युद्धभूमौ स्थित्वा प्रियं कर्तुमिच्छवो राजानः समागता दृश्यन्ते, तेन तेषा­मौ­पा­धि­क­म­स्म­त्प्र­ति­यो­गि­त्व­मु­प­प­न्न­मि­त्यर्थः ॥ २३ ॥

एवमर्जुनेन प्रेरितो भगवान् अहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात् तं निवर्तयिष्यतीति धृतराष्ट्रस्य मनीषां दुदूषयिषुः सञ्जयो राजानं प्रत्यु­क्त­वा­नि­त्याह -
सञ्जय इति ।

भगवतोऽपि भूभारापहारार्थं प्रवृत्तस्य अर्जु­ना­भि­प्रा­य­प्र­ति­प­त्ति­द्वा­रेण स्वाभिसन्धिं प्रतिलभमानस्य परोक्तिमनुसृत्य स्वाभि­प्रा­या­नु­कू­ल­म­नु­ष्ठा­न­मा­द­र्श­यति -
एवमिति ।
॥ २४ ॥

भीष्म­द्रो­णा­दी­ना­म­न्येषां च राज्ञामन्तिके रथं स्थापयित्वा भगवान् किं कृतवानिति तदाह -
उवाचेति ।
एतान् - अभ्याशे वर्तमानान् , कुरून् - कुरु­वं­श­प्र­सू­तान् भवद्भिः सार्धं युद्धार्थं सङ्गतान् पश्य । दृष्ट्वा च यैः सहात्र युयुत्सा तवोपावर्तते तैः साकं युद्धं कुरु । नो खल्वेतेषां शस्त्रा­स्त्र­शि­क्षा­वतां मही­क्षि­ता­मु­पे­क्षो­प­प­द्यते, सारथ्ये तु न मनः खेदनीयमित्यर्थः ॥ २५ ॥

एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्ध्या युद्धादुपरिरंसा पार्थस्य सम्प्रवृत्तेति कथयति -
तत्रेत्यादिना ।
सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय सम्प्रवृत्ते सतीत्येतदुच्यते । सेनयोरुभयोरपि स्थितान् पार्थोऽपश्यदिति सम्बन्धः । अथशब्दः तथाशब्दपर्यायः । श्वशुराः भार्याणां जनयितारः । सुहृदो मित्राणि कृतवर्मप्रभृतयः ॥ २६ ॥

सेनाद्वये व्यवस्थितान् यथोक्तान् पितृपितामहादीन् आलोच्य परमकृपापरवशः सन्नर्जुनो भग­व­न्त­मु­क्त­वा­नि­त्याह -
तानिति ।
विषीदन् - यथोक्तानां पित्रादीनां हिंसा­सं­र­म्भ­नि­ब­न्धनं विषादमुपतापं कुर्व­न्नि­त्यर्थः ॥ २७ ॥

तदेव इदंशब्दवाच्यं वचनमुदाहरति -
दृष्ट्वेति ।
॥ २८ ॥

आत्मीयं बन्धुवर्गं युद्धेच्छया युद्ध­भू­मा­वु­प­स्थि­त­मु­प­लभ्य शोकप्रवृत्तिं दर्शयति -
सीदन्तीति ।
देवां­श­स्यै­वा­र्जु­न­स्या­ना­त्म­विदः स्वप­र­दे­हे­ष्वा­त्मा­त्मी­या­भि­मा­न­वतः तत्प्रियस्य युद्धारम्भे तन्मृ­त्यु­प्र­स­ङ्ग­द­र्शिनः शोको महा­ना­सी­दि­त्यर्थः ।

अङ्गेषु व्यथा मुखे परि­शो­ष­श्चे­त्यु­भयं शोकलिङ्गमुक्तम् । सम्प्रति वेपथुप्रभृतीनि भीति­लि­ङ्गा­न्यु­प­न्य­स्यति -
वेपथुश्चेति ।
रोमहर्षः - रोम्णां गात्रेषु पुलकितत्वम् ॥ २९ ॥

किञ्च अधैर्यमपि संवृत्तमित्याह -
न चेति ।

मोहोऽपि महान् भवतीत्याह -
भ्रमतीवेति ।
॥ ३० ॥

विप­री­त­नि­मि­त्त­प्र­ती­ते­रपि मोहो भवतीत्याह –
निमित्तानीति ।
तानि विपरीतानि निमित्तानि यानि वाम­ने­त्र­स्फु­र­णा­दीनि ।

युद्धे स्वजनहिंसया फलानुपलम्भादपि तस्मादुपरिरंसा जायते इत्याह -
न चेति ।
॥ ३१ ॥

प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धा­दु­प­र­ति­रि­त्या­श­ङ्क्याह -
न काङ्क्ष इति

किमिति राज्यादिकं सर्वा­का­ङ्क्षि­त­त्वान्न काङ्क्ष्यते तेन हि पुत्र­भ्रा­त्रा­दीनां स्वास्थ्य­मा­धातुं शक्य­मि­त्या­श­ङ्क्याह –
किमिति ।
॥ ३२ ॥

राज्या­दी­ना­मा­क्षेपे हेतुमाह -
येषामिति
॥३३ ॥

तानेव विशिनष्टि -
आचार्या इति ।
स्यालाः - भार्याणां भ्रातरो धृष्ट­द्यु­म्न­प्र­भृ­तयः ॥ ३४ ॥

वध्येष्वपि स्वरा­ज्य­प­रि­प­न्थि­ष्वा­त­ता­यिषु कृपाबुद्ध्या स्वध­र्मा­द्यु­द्धात् पूर्वो­क्त­मो­हा­दि­व­शात् प्रच्युतिं प्रदर्शयति -
एतानिति ।

जिघांसन्तं जिघांसीयात्’ (वसि­ष्ठ­ध­र्म­सू­त्रम् ३.१७) इति न्यायादेतेषां हिंसा न दोषा­ये­त्या­श­ङ्क्याह –
घ्नतोऽपीति ।
पृथि­वी­प्रा­प्त्यर्थं हि हन­न­मे­ते­षा­मि­ष्यते ।

न च तत्प्राप्तिः समीहितेति कैमुतिकन्यायेन दर्शयति -
अपीति ।
न हि महदपि त्रैलोक्यलक्षणं राज्यं लब्धुं स्वजनहिंसायै मनो मदीयं स्पृहयति । पृथि­वी­प्रा­प्त्यर्थं पुनर्बन्धुवधं न श्रद्दधामीति किं वक्त­व्य­मि­त्यर्थः ॥ ३५ ॥

दुर्योधनादीनां शत्रूणां निग्रहे प्रीति­प्रा­प्ति­स­म्भ­वा­द्युद्धं कर्त­व्य­मि­त्या­श­ङ्क्याह –
निहत्येति ।

यदि पुनरमी दुर्योधनादयो न निगृह्येरन् भवन्तस्तर्हि तैर्निगृहीता दुःखिताः स्युरि­त्या­श­ङ्क्याह -
पापमेवेति ।
यदीमे दुर्योधनादयो निर्दो­षा­ने­वा­स्मान् अक­स्मा­द्यु­द्ध­भूमौ हन्युः, तदैतान् ‘अग्निदो गरदश्च’(मनुः ८.३५०) इत्या­दि­ल­क्ष­णो­पे­ता­ना­त­ता­यिनो निर्दो­ष­स्व­ज­न­हिं­सा­प्र­युक्तं पापं पूर्वमेव पापिनः समा­श्र­ये­दि­त्यर्थः । अथवा - यद्यप्येते भव­न्त्या­त­ता­यिनः, तथाप्येतान् अतिशोच्यान् दुर्योधनादीन् हिंसित्वा हिंसाकृतं पाप­म­स्मा­ने­वा­श्र­येत् , अतो नास्माभिरेते हन्तव्या इत्यर्थः । अथवा - गुरु­भ्रा­तृ­सु­हृ­त्प्र­भृ­ती­ने­तान् हत्वा वयमाततायिनः स्याम, ततश्चैतान् हत्वा हिंसाकृतं पाप­मा­त­ता­यि­नोऽ­स्मा­नेव समाश्रयेत् इति युद्धात् उपरमणमस्माकं श्रेय­स्क­र­मि­त्यर्थः ॥ ३६ ॥

फला­भा­वा­द­न­र्थ­स­म्भ­वाच्च परहिंसा न कर्त­व्ये­त्यु­प­सं­ह­रति -
तस्मादिति ।

किञ्च राज्य­सु­ख­मु­द्दिश्य युद्ध­मु­प­क्र­म्यते, न च स्वजनपरिक्षये सुखमुपपद्यते, तेन न कर्तव्यं युद्धमित्याह -
स्वजनं हीति
॥ ३७ ॥

कथं तर्हि परेषां कुलक्षये स्वजनहिंसायां च प्रवृ­त्ति­स्त­त्राह –
यद्यपीति ।
लोभो­प­ह­त­बु­द्धि­त्वात् तेषां कुल­क्ष­या­दि­प्र­यु­क्त­दो­ष­प्र­ती­त्य­भा­वात् प्रवृ­त्ति­वि­स्रम्भः सम्भवतीत्यर्थः ॥ ३८ ॥

परेषामिव अस्माकमपि प्रवृ­त्ति­वि­स्रम्भः सम्भवेदिति चेत् , नेत्याह –
कथमिति ।
कुलक्षये मित्रद्रोहे च दोषं प्रप­श्य­द्भि­र­स्माभिः तद्दोषशब्दितं पापं कथं न ज्ञातव्यम् ? तदज्ञाने तत्प­रि­हा­रा­स­म्भ­वात् । अतोऽस्मात् पापा­न्नि­वृ­त्त्यर्थं तज्ज्ञा­न­म­पे­क्षि­त­मिति पाप­प­रि­हा­रा­र्थि­ना­म­स्माकं न युक्ता युद्धे प्रवृ­त्ति­रि­त्यर्थः ॥ ३९ ॥

कोऽसौ कुलक्षये दोषो यद्द­र्श­ना­द्यु­ष्माकं युद्धा­दु­प­र­ति­र­पे­क्ष्यते ? तत्राह –
कुलेति ।
कुलस्य हि क्षये कुलसम्बन्धिनः चिरन्तना धर्माः तत्त­द­ग्नि­हो­त्रा­दि­क्रि­या­साध्या नाशमुपयान्ति । कर्तु­र­भा­वा­दि­त्यर्थः ।

धर्मनाशेऽपि किं स्यात् इति चेत् , तत्राह -
धर्म इति ।
कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलं परिशिष्टमखिलमपि तदी­योऽ­ध­र्मोऽ­भि­भ­वति । अधर्मभूयिष्ठं तस्य कुलं भवतीत्यर्थः ॥ ४० ॥

कुलक्षये कृते अवशिष्टकुलस्य अधर्मप्रवणत्वे को दोषः स्यात् ? इति तत्राह –
अधर्मेति ।

पापप्रचुरे कुले प्रसूतानां स्त्रीणां प्रदुष्टत्वे किं दुष्यति ? तत्राह -
स्त्रीष्विति
॥ ४१ ॥

वर्णसङ्करस्य दोष­प­र्य­व­सा­यि­ता­मा­द­र्श­यति -
सङ्कर इति ।

कुलक्षयकराणां दोषान्तरं समुच्चिनोति -
पतन्तीति ।

कुलक्षयकृतां पितरो निरयगामिनो सम्भवन्तीत्यत्र हेतुमाह –
लुप्तेति ।
पुत्रादीनां कर्तॄणामभावात् लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा । ततश्च प्रेत­त्व­प­रा­वृ­त्ति­का­र­णा­भा­वात् नरकपतनमेव आव­श्य­क­मा­प­ते­दि­त्यर्थः ॥ ४२ ॥

कुल­क्ष­य­कृ­ता­मे­तै­रु­दा­हृ­तै­र्दो­षै­र्व­र्ण­स­ङ्क­र­हे­तु­भि­र्जा­ति­प्र­युक्ता वंशप्रयुक्ताश्च धर्माः सर्वे समुत्साद्यन्ते । तेन कुलक्षयकारणाद् युद्धादुपरतिरेव श्रेयसीत्याह -
दोषैरिति
॥ ४३ ॥

किञ्च जातिधर्मेषु कुलधर्मेषु चोत्सन्नेषु तत्त­द्ध­र्म­व­र्जि­तानां मनु­ष्या­णा­म­न­धि­कृ­तानां नर­क­प­त­न­ध्रौ­व्यात् अनर्थकरमिदमेव हेयमित्याह –
उत्सन्नेति ।

यथोक्तानां मनुष्याणां नरकपातस्य आवश्यकत्वे प्रमाणमाह -
इत्य­नु­शु­श्रु­मेति
॥ ४४ ॥

राज्य­प्रा­प्ति­प्र­यु­क्त­सु­खो­प­भो­ग­लु­ब्ध­तया स्वजनहिंसायां प्रवृ­त्ति­र­स्माकं गुण­दो­ष­वि­भा­ग­वि­ज्ञा­न­व­ता­म­ति­क­ष्टेति परिभ्रष्टहृदयः सन्नाह -
अहो बतेति
॥ ४५ ॥

यद्येवं युद्धे विमुखः सन् पर­प­रि­भ­व­प्र­ती­का­र­र­हितो वर्तेथाः, तर्हि त्वां शस्त्र­प­रि­ग्र­ह­र­हितं शत्रुं शस्रपाणयो धार्तराष्ट्रा निगृ­ह्णी­यु­रि­त्या­श­ङ्क्याह –
यदीति ।
प्राणत्राणादपि प्रकृष्टो धर्मः प्राण­भृ­ता­म­हिं­सेति भावः ॥ ४६ ॥

यथोक्तमर्जुनस्य वृत्तान्तं सञ्जयो धृतराष्ट्रं राजानं प्रति प्रवेदितवान् । तमेव प्रवेदनप्रकारं दर्शयति -
एवमिति ।
प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमोहाभ्यां परिभूतमानसः सन् अर्जुनः सङ्ख्ये - युद्धमध्ये शरेण सहितं गाण्डीवं त्यक्त्वा ‘न योत्स्येऽहम्’(भ. भ. गी. २-९) इति ब्रुवन् , मध्ये रथस्य, संन्यासमेव श्रेयस्करं मत्वो­प­वि­ष्ट­वा­नि­त्यर्थः ॥ ४७ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने प्रथमोऽध्यायः ॥ १ ॥