अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

दशमोऽध्यायः

अध्यायद्वये सिद्धम् अर्थ सङ्क्षे­प­तोऽ­नु­भा­षते -
सप्तमेति ।
तत्त्वं सोपाधिकं निरुपाधिकञ्च । विभूतयः - सवि­शे­ष­नि­र्वि­शे­ष­रू­प­प्र­ति­प­त्त्यु­प­यो­गिन्यः ।

उत्तराध्यायस्य अध्यायद्वयेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति -
अथेति ।
वक्तव्याः सविशेषध्याने निर्वि­शे­ष­प्र­ति­पत्तौ च शेषत्वेन, इति शेषः ।

ननु सविशेषं निर्विशेषं च भगवतो रूपं प्रागेव तत्र तत्र उक्तम् । तत्किमिति पुनः उच्यते, तत्र आह -
उक्तमपीति ।
तद्यदि तत्र तत्र तत्त्वम् उक्तम् , तयापि पुनर्वक्तव्यं दुर्ज्ञेयत्वात् , इति यतः मन्यते, अतः इति योजना ।

प्रकृष्टत्वं वचसः स्पष्टयति -
निरतिशयेति ।

तदेव वचः विशिनष्टि -
यत्परममिति ।

सकृदुक्तेः अर्थसिद्धेः सकृदुक्तिः अनर्थिका, इत्याशङ्क्य, आह -
प्रीयमाणायेति ।
ततो वक्ष्यामि तुभ्यम् , इति पूर्वेण सम्बन्धः । हितम् - दुर्विज्ञेयं तत्त्वज्ञानम्
॥ १ ॥

कश्चित् अन्योऽपि परमं वचः मह्यं वक्ष्यति । तेन च मम तत्त्वज्ञानं भविष्यति । अतः भगवद्वचनम् अकिञ्चित्करम् , इति शङ्कित्वा परिहरति -
किम­र्थ­मि­त्या­दिना ।

इन्द्रादयः भृग्वादयश्च भगवत्प्रभावं न विन्दन्ति इत्यत्र प्रश्नपूर्वकं हेतुम् आह -
कस्मादिति ।
निमित्तत्वेन उपादानत्वेन च यतः देवानां भगवानेव हेतुः, ततः तद्विकाराः ते न तस्य प्रभावं विदुः इत्यर्थः
॥ २ ॥

इतश्च कश्चिदेव भगवत्प्रभावं वेत्ति इत्याह -
किञ्चेति ।

कोऽसौ प्रभावः भगवतः ? यं बहवो न विदुः, इत्यपेक्षायां पारमार्थिकं प्रभावं तदधीनफलं च कथयति -
यो मामिति ।

पद­द्व­या­पौ­न­रु­क्त्यम् आह -
अनादित्वमिति
॥ ३ ॥

भगवतो लोकमहेश्वरत्वे हेत्वन्तरम् आह -
अतश्चेति ।

इतश्चाहं मुमुक्षुभिः आरा­ध्य­त्व­सि­द्धये बन्धमोक्षसाधनं पुरस्कृत्य अशेषं जग­त्प्र­कृ­त्य­धि­ष्ठा­तृ­त्व­ल­क्षणं सोपाधिकं भगवत्प्रभावम् अभिधत्ते-
बुद्धिरिति ।
सूक्ष्मादि इत्यादिशब्देन सूक्ष्मतरः सूक्ष्मतमश्च अर्थो गृह्यते ।

उक्तं सामर्थ्यं बुद्धिः, इत्यस्मिन् अर्थे प्रसिद्धिं प्रमाणयति -
तद्वन्तमिति ।
आत्मादीति । तदवबोधवन्तं हि ज्ञानिनं वदन्ति । अन्तः करणस्य उपशमः विषयेभ्यो व्यावृत्तिः इति शेषः
॥ ४ ॥

यथाशक्तीति । पात्रे श्रद्धया स्वशक्तिं अनतिक्रम्य अर्थानां देश­का­ला­नु­गु­ण्येन प्रतिपादनम् इत्यर्थः । उक्तानां बुद्ध्यादीनां साश्रयाणां ईश्वरात् उत्पत्तिं प्रतिजानीते -
भवन्तीति ।

नानाविधत्वे हेतुमाह -
स्वकर्मेति ।
कथञ्चिदपि तेषाम् आत्मव्यतिरेकेण अभावात् मत्त एव इ्त्युक्तम्
॥ ५ ॥

न केवलं भगवतः सर्व प्रकृतित्वमेव, किन्तु सर्वज्ञत्व - सर्वे­श्व­र­त्व­रू­पम् अधिष्ठातृत्वम् अपि, इत्याह -
किञ्चेति ।
आद्या भृग्वादयो वसिष्ठान्ताः सर्वज्ञाः विद्या­स­म्प्र­दा­य­प्र­व­र्तकाः ।

तथेति मनूनामपि पूर्वत्वेन आद्यत्वम् अनुकृष्यते । के ते मनवः? तत्र आह-
सावर्णा इतीति ।
प्रसिद्धाः पुराणेषु, प्रजानां पालकाः, स्वयम् ईश्वराश्च इति शेषः ।

महर्षीणां मनूनां च तुल्यं विशेषणम् -
ते चेति ।

मयि - सर्वज्ञे सर्वेश्वरे, गता - भावना येषां, ते तथा । भावनाफलम् आह -
वैष्णवेनेति ।
वैष्णव्या शक्त्या अधिष्ठितत्वेन ज्ञानै­श्व­र्य­वन्तः, इत्यर्थः ।

तेषां जन्मनो वैशिष्ट्यम् आचष्टे -
मानसा इति ।

मन्वादीनेव विशिनष्टि-
येषामिति ।
विद्यया जन्मना च सन्ततिभूता मन्वादीनाम् अस्मिन् लोके सर्वाः प्रजाः, इत्यर्थः
॥ ६ ॥

सोपाधिकं प्रभावं भगवतो दर्शयित्वा तज्ज्ञानफलम् आह -
एतामिति ।

बुद्ध्या­द्यु­पा­दा­न­त्वेन विविधा भूतिः - भवनम् वैभवम् सर्वात्मकत्वम् , तदाह -
विस्तारमिति ।

ईश्वरस्य तत्त­द­र्थ­स­म्पा­द­न­सा­मर्थ्यं योगः, तदाह -
आत्मन इति ।

योगः - तत्फलम् ऐश्वर्यं सर्वज्ञत्वं सर्वेश्वरत्वं च मदीयं शक्तिज्ञानलेशम् आश्रित्य मन्वादयो भृग्वादयश्च ईशते जानते च तदाह -
अथवेति ।

यथा तौ विभूतियोगौ तथा वेदनस्य निरङ्कुशत्वं दर्शयति -
यथावदिति ।

सोपाधिकं ज्ञानं निरूपाधिकज्ञाने द्वारम् , इत्याह -
सोऽविकम्पेनेति ।

उक्ते अर्थे प्रतिबन्धाभावम् आह -
नास्मिन् इति
॥ ७ ॥

कथं तावक विभू­त्त्यै­श्व­र्य­ज्ञा­नम् उक्तयोगस्य हेतुः? इति मत्वा पृच्छति -
कीदृशेनेति ।

उक्त­ज्ञा­न­मा­हा­त्म्यात् प्रतिष्ठिता भगवन्निष्ठा सिध्यति, इत्याह -
उच्यत इति ।

प्रभवति अस्मात् , इति प्रभवः सर्वप्रकृतिः सर्वात्मा, इत्याह -
उत्पत्तिरिति ।
सर्वज्ञात् सर्वेश्वरात् मत्तो निमित्तात् , सर्वम् - स्थितिनाशादि भवति ।

मया च अन्तर्यामिना प्रेर्यमाणं सर्वं यथास्वं मर्यादाम् अनतिक्रम्य चेष्टते । तदाह -
मत्त इति ।

इत्थं मम सर्वात्मत्वं सर्वप्रकृतित्वं सर्वेश्वरत्वं सर्वज्ञत्वं च महिमानं ज्ञात्वा मय्येव निष्ठावन्तो भवन्ति, इत्याह -
इत्येवमिति ।

संसा­रा­सा­र­ता­ज्ञा­न­वतां भगवद्भजने अधिकारं द्योतयति -
अवगतेति ।
परमार्थतत्त्वे पूर्वोक्तरीत्या ज्ञाते प्रेमादरौ अभिनिवेशाख्यौ भवतः ।

तेन संयुक्तत्वं च भगवद्भजने भवति हेतुः, इत्याह -
भावेति
॥ ८ ॥

न केवलम् उक्तमेव भगवद्भजने साधनम् , साधनान्तरं च अस्ति, इत्याह -
किञ्चेति ।

ईश्वरात् प्रतीचः प्रगुक्तात् अन्यत्र चित्त­प्र­चा­र­रा­हित्यं भगवद्भजनोपायम् आह -
मयीति ।

चक्षुरादीनां भगवति अप्राप्तिः, तदगोचरत्वात् तस्य, इत्याशङ्क्य, आह -
मय्युपसंहृतेति ।

भगवदतिरेकेण जीवनेऽपि न आदरः । तदपि मय्येव अर्पितं भक्तानाम् , इत्याह -
अथवेति ।

आचार्येभ्यः श्रुत्वा, वादकथया परस्परं भगवन्तं सब्रह्मचारिणो बोधयन्ति । तदपि भगवद्भजनसाधनम् , इत्याह -
बोधयन्त इति ।

आगमोपपत्तिभ्यां भगवन्तमेव विशिष्टधर्माणं शिष्येभ्यो गुरवो व्युपदिशन्ति । तदपि भगवद्भजनमेव, इत्याह -
कथयन्त इति ।

भक्तानां तुष्टिरती स्वरसतः स्याताम् इत्याह -
तुष्यन्तीति ।

मनोरथपूर्त्या रतिप्राप्तौ कामुकसम्मतम् उदाहरणम् आह -
प्रियेति
॥ ९ ॥

यदुक्तं ‘सोऽविकम्पेन’(भ. गी. १०-७) इत्यादि, तदर्थं भूमिकां कृत्वा, तद् इदानीम् उदाहरति -
ये यथोक्तेति ।
नित्या­भि­यु­क्ता­नाम् - अनवरतं भगवति ऐका­ग्र्य­स­म्प­न्ना­नाम् , इत्यर्थः ।

पुत्रा­दि­लो­क­त्र­य­हे­त्व­र्थि­त्वेन वा गर्भदासत्वेन वा, प्रत्यहं जीवनोपायसिद्धये वा, भजनम् इति शङ्कित्वा दूषयति -
किमित्यादिना ।
प्रागुक्तां ज्ञानाख्यां भक्तिं स्नेहेन कुर्वताम् इत्यर्थः ।

तेभ्योऽहं तत्त्वज्ञानं प्रयच्छामि, इत्याह -
ददामीति ।

उक्त­बु­द्धि­स­ब­न्धस्य फलम् आह -
येनेति ।

ध्यान­ज­न्य­प्र­क­र्ष­का­ष्ठा­ग­ता­न्तः­क­र­ण­प­रि­णामे निर­स्ता­शे­प­वि­शे­ष­भ­ग­व­द्रू­प­प्रा­प्ति­हेतौ बुद्धियोगे प्रश्नपूर्वकम् उक्तान् अधिकारिणो दर्शयति -
के ते इति ॥ १० ॥

भगवत्प्राप्तेः बुद्धिसाध्यत्वे सति अनि­त्य­त्वा­पत्तेः त्वमपि भक्तेभ्यः बुद्धियोगं ददासि इत्ययुक्तम् , इति शङ्कते -
किमर्थमिति ।
तेषां बुद्धियोगं किमर्थं ददासि इति सम्बन्धः ।

भग­व­त्प्रा­प्ति­प्र­ति­ब­न्ध­क­ना­शको बुद्धियोगः, तेन नास्ति तत्प्राप्तेः अनित्यत्वम् , इत्याशङ्क्य आह -
कस्येति ।

भक्तानां तत्प्रा­प्ति­प्र­ति­ब­न्धकं विविच्य दर्शयति -
इत्या­का­ङ्क्षा­या­मिति ।
अविवेको नाम अज्ञानम् । ततो जातं मिथ्याज्ञानम् । तदुभयम् एकीकृत्य तमो विवक्ष्यते । न च तन्नाशकत्वं जडस्य कस्यचित् तदन्तर्भूतस्य युक्तम् । तेन अहं नाशयामि, इत्युक्तम् ।

केवलचैतन्यस्य जड­बु­द्धि­वृ­त्ते­रिव अज्ञा­ना­द्य­ना­श­क­त्वम् आशङ्क्य, विशिनष्टि -
आत्मेति ।
तस्य आशयः - तन्निष्ठो वृत्तिविशेषः । वाक्यो­त्थ­बु­द्धि­वृ­त्त्य­भि­व्यक्तः चिदात्मा सहायसामर्थ्यात् अज्ञा­ना­दि­नि­वृ­त्ति­हेतुः, इत्यर्थः ।

बुद्धीद्धबोधस्य अज्ञा­ना­दि­नि­व­र्त­क­त्वम् उक्त्वा, बोधेद्धबुद्धेः तन्निवर्तकत्वम् , इति पक्षान्तरम् आह -
ज्ञानेति ।

देहा­द्य­व्य­क्ता­न्ता­ना­त्म­व­र्गा­ति­रि­क्त­वस्तु आह -
विवेकेति ।

भगवति सदा विहितया भक्त्या, तस्य प्रसादः - अनुग्रहः, स एव स्नेहः, तेन आसेचनद्वारा अस्य उत्पत्तिम् आह -
भक्तीति ।

मय्येव भावनायाम् अभिनिवेशो वातः, तेन प्रेरितोऽयं जायते । न हि वातप्रेरणम् अन्तरेण दीपस्य उत्पत्तिः, इत्याह -
मद्भावनेति ।

ब्रह्मचर्यम् अष्टाङ्गम् । आदिशब्देन शमादिग्रहः । तेन हेतुना आहितसंस्कारवति या प्रज्ञा, तथा­वि­ध­व­र्ति­नि­ष्ठश्च अयम् , न हि वर्त्यतिरेकेण निर्वर्त्यते, तदाह –
ब्रह्मचर्येति ।

न च आधाराद् ऋते दीपस्य उत्पत्तिः, अदृष्टत्वात् , इत्याह -
विरक्तेति ।

यद् विषयेभ्यो व्यावृत्तं चित्तं रागाद्यकलुषितम् , तदेव निवातम् अपवरकम् । तत्र स्थितत्वम् अस्य दर्शयति -
विषयेति ।

भास्वतेति विशेषणं विशदयति -
नित्येति ।
सदातनं चित्तैकाग्र्यम् , तत्पू­र्व­क­न्ध्या­नम् , तेन जनितं सम्यग्दर्शनं फलम् , तदेव भाः तद्वता तत्पर्यन्तेन, इत्यर्थः ।

तेन अज्ञाने सकार्ये निवृत्ते, भगवद्भावः स्वयमेव प्रकाशीभवति इति मत्वा, व्याख्यातममेव पदम् अनुवदति -
ज्ञानेति
॥ ११ ॥

निर­स्ता­शे­ष­वि­शेषं निरूपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपम् , तद्धीफलं च श्रुत्वा, निरुपाधिकरूपस्य प्राकृ­त­बु­द्ध्य­न­व­गा­ह्यो­क्ति­पू­र्वकं मन्दा­नु­ग्र­हार्थं सर्वदा सर्व­बु­द्धि­ग्राह्य सोपाधिकं रूपं विस्तरेण श्रोतुम् इच्छन् पृच्छति, इत्याह -
यथोक्तामिति ।
परं ब्रह्म भवान् लक्ष्यनिर्देशः । तस्य लक्षणार्थं परं धाम इत्यादि विशेषणत्रयम् ।

धामशब्दस्य स्थानवाचित्वं व्यावर्तयन् व्याचष्टे -
तेज इति ।
तस्य चैतन्यस्य परमत्वं जन्मा­दि­रा­हि­त्येन कौटस्थ्यम् । प्रकृष्टम् पावनम् - अत्य­न्त­शु­द्ध­त्वम् उच्यते । यदेवंलक्षणं पर ब्रह्म, तद्भवानेव, नान्यः इत्यर्थः ।

कुतः त्वम् एवम् अज्ञासीः? इत्याशङ्क्य, आप्तवाक्यात् , इत्याह -
पुरुषमिति ।
दिवि - परमे व्योम्नि भवतीति दिव्यः, तं सर्व­प्र­प­ञ्चा­ती­तम् दीव्यति - द्योतते इति देवः, स चादिः सर्वमूलत्वात् , अत एव अजः, तं त्वां सर्वगतम् आहुः इति सम्बन्धः
॥ १२ ॥

उक्तविशेषणं त्वाम् ऋषयः सर्वे यस्मात् आहुः, तस्मात् तद्वचनात् तवोक्तं ब्रह्मत्वम् युक्तम् , इत्याह -
ईदृशमिति ।

ऋषिग्रहणेन गृहीतानामपि नारदादीनां विशिष्टत्वात् पृथक् ग्रहणम् । असितो देवलस्य पिता । किम् अन्यैः । त्वं स्वयमेव आत्मानम् उक्तरूपं मह्यम् उक्तवान् इत्याह -
स्वयञ्चेति
॥ १३ ॥

ऋषिभिः त्वया च उक्तत्वात् उक्तम् सर्वं सत्यमेव इति मम मनीषा इत्याह -
सर्वमिति ।

किं तत् इत्याशङ्क्य आत्मरूपं इत्याह -
यन्मां इति ।

देवादिभिः सर्वैः उच्यमानतया त्वद्रूपे विशि­ष्ट­व­क्तृ­ग्र­हणं अनर्थकम् इत्याशङ्क्य आह -
नहीति ।
प्रभवो नाम प्रभावः निरू­पा­धि­क­स्व­भावः, यदा देवादीनामपि दुर्विज्ञेयं तव रूप, तदा का कथा मनुष्याणां इत्यर्थः
॥ १४ ॥

कश्चिदेव महता कष्टेन अने­क­ज­न्म­सं­सिद्धः जानाति त्वदनुगृहीतः त्वद्रूपम् इत्यभिप्रेत्य आह -
यतः इति ।
स्वयमेव - उपदेशम् अन्तरेण इत्यर्थः । आत्मना प्रत्यक्त्वेन अविषयतया इति यावत् ।

आत्मानं निरुपाधिकं रूपम् । न च तव सोपाधिकमपि रूपं अन्यस्य गोचरे तिष्ठति इत्याह -
निरतिशयेति ।
पुरुषश्चासौ उत्तमश्च इति क्षरा­क्ष­रा­ती­त­पू­र्ण­चै­त­न्य­रू­प­त्वम्‌ सम्बोधनेन बोध्यते ।

सर्व­प्र­कृ­ति­त्वम् सर्वकर्तृत्वञ्च कथयति -
भूतानि इति ।

सर्वेश्वरत्वं आह -
भूतानाम् इति ।

उक्तं ते सोपाधिकं रूपं देवादीनाम् आराध्यताम् अधिगच्छति इत्याह -
देवेति ।

जगतः सर्वस्य स्वामित्वेन पालयितृत्वम् आह -
जगदिति
॥ १५ ॥

यस्मात् अस्मादृशां अगोचरः तव आत्मा जिज्ञासितश्च, तस्मात् त्वयैव तद्रूपं वक्तव्यं इत्याह -
वक्तुमिति ।

दिव्यत्वं अप्राकृतत्वम् । सम्प्रति अन्वयं अन्वाचष्टे -
आत्मन इति ।

वक्तव्याः विभूतीः विशिनष्टि -
याभिरिति ।
यद्द्वारा लोकान् पूरयित्वा वर्तसे ताः विभूतीः अशेषेण वक्तुं अर्हसि इत्यर्थः
॥ १६ ॥

किमर्थं विभूतीः श्रोतुं इच्छसि इत्याशङ्क्य, ध्यान­सौ­क­र्य­प्र­का­र­प्र­श्नेन फलं कथयति -
कथमिति ।
योगः नाम ऐश्वर्यं तत् अस्य अस्तीति योगो हे योगिन् , अहं स्थविष्टमातिः त्वां केन प्रकारेण सततं अनुसन्दधानः विशु­द्ध­बु­द्धि­र्भूत्वा निरूपाधिकं त्वां विजानीयां इति प्रश्नः ।

प्रश्नानन्तरं प्रस्तौति -
केषु केषु इति ।
चेतनाचेतनभेदात् उपाधिबहुत्वाच्च बहुवचनम्
॥ १७ ॥

प्रकृतं प्रशनं उपसंहरति -
विस्तरेणेति ।

अर्दतेः गतिकर्मणः जनार्दनेति रूपम् , तत् व्युत्पादयति -
असुराणाम् इति ।

प्रकारान्तरेण शब्दार्थं व्युत्पादयति -
अभ्युदयेति ।

ननु पूर्वमेव सप्तमे नवमे च विभूतिः ऐश्वर्यञ्च ईश्वरस्य दर्शितम् , तत्किमिति श्रोतुं इष्यते तत्राह -
भूय इति ।
अमृतम् - अमृ­त­प्र­ख्य­मि­त्यर्थः
॥ १८ ॥

प्रष्टारं विस्रम्भयितुं भगवान् उक्तवान् इत्याह -
श्री भगवानिति ।

हन्त इति अनुमतिं व्यावर्त्य जिज्ञासावच्छिनं कालं दर्शयति-
इदानीम् इति ।
दिवि भवत्वम् - अप्राकृतत्वं - अस्मदगोचरत्वम् ।

वाक्यान्वयं द्योतयति -
यास्ता इति ।

सर्वविभूतीनां वक्त­व्य­त्व­प्राप्तौ उक्तम् -
यत्रेति ।

किमिति अनवशेषतः विभूतयः न उच्यन्ते तत्राह -
अशेषतस्त्विति ।
तत्र हेतुः यतः इति
॥ १९ ॥

विभूतिप्रदर्शने प्रस्तुते सति आदावेव पारमार्थिकं पारमेश्वरं रूपं दर्शयितुं श्रोतुः अर्जुनस्य मनस्समाधानार्थं यतते -
तत्रेति ।

सोपाधिकमपि काल्पनिकं परस्य रूपं पश्चात् वक्ष्यमाणं श्रोतुं चित्तसमाधानं कर्तव्यम् एव, इत्याह -
तावदिति ।

आशेरते अस्मिन् विद्या­क­र्म­पू­र्व­प्रज्ञा इति आशयः - हृदयम् , सर्वेषां भूतानां हृदये अन्तःस्थितो यः प्रत्यगात्मा सः अहमेव इति वाक्यार्थम् आह -
सर्वेषाम् इति ।

यस्तु मन्दो मध्यमो वा परमात्मानम् आत्मत्वेन ध्यातुं नालम् , तं प्रति आह -
तदशक्तेनेति ।

वक्ष्य­मा­णा­दि­त्या­दिषु परस्य न ध्येयत्वम् अन्यदेव कारणं किञ्चित् तत्र तत्र ध्येयम् इत्याशङ्क्य आह -
यस्मात् इति ।
सर्वकारणत्वेन सर्वज्ञत्वेन सर्वेश्वरत्वेन च परस्य ध्येयत्वम् अत्र ईप्सितम् , नान्यस्य कस्यचित् कारणस्य आदित्यादिषु ध्येयता, इत्यर्थः
॥ २० ॥

उक्त­ध्या­ना­श­क्तेभ्यो वक्तव्यं विभूतियोगम् उपदिशति -
एवञ्चेति ।

तत्र तत्र प्रधानत्वेन परस्य ध्येयत्वम् । एवंशब्दार्थमेव दर्शयति -
आदित्यानाम् इत्यादिना
॥ २१ ॥

मन्त्र­ब्रा­ह्म­ण­स­मु­दा­या­नाम् ऋगादीनां मध्ये सामवेदोऽस्मि इति ध्यानान्तरम् उदाहरति -
वेदानामिति ।
सङ्घाते जीवधिष्ठिते यावत् पञ्चत्वं सर्वत्र व्यापिनी चैत­न्या­भि­व्य­ञ्जिका, इति शेषः
॥ २२ ॥

पुरोहितेषु बृहस्पतेः मुख्यत्वे हेतुम् आह -
स हीति
॥ २४ ॥

एकम् इति । ओङ्कारस्य ब्रह्म­प्र­ती­क­त्वेन तदभिधानत्वेन च प्रधानत्वम् उच्यते । जपयज्ञस्य यज्ञान्तरेभ्यो हिंसा­दि­रा­हि­त्येन प्राधान्यम् उपेत्य आह -
यज्ञानामिति ।

शिखरवताम् - उच्छ्रितानां पर्वतानां मध्ये, मेरुः अहं इत्युक्तेऽपि, स्थितिशीलानां तेषामेव हिमवान् - पर्वतराजोऽस्मि, इति अर्थभेदं गृहीत्वा आह -
स्थितिमतामिति
॥ २५ ॥

“ सर्ववृक्षाणाम् " इत्यत्र सर्वशब्देन वनस्पतयो गृह्यन्ते
॥ २६, २७ ॥

प्रजनयतीति व्युत्पत्तिम् आश्रित्य आह -
प्रजनयितेति ।
सर्पा नागाश्च जातिभेदात् भिद्यन्ते
॥ २८, २९, ३०, ३१ ॥

अहमादिश्च इति आदौ उक्तमेव पुनः इह उच्यते । तथा च न पुनरुक्तिः इत्याशङ्क्य, आह -
भूतानां इति ।

सर्गशब्देन सृज्यन्त इति सर्वाणि कार्याणि गृह्यन्ते ।
अध्या­त्म­वि­द्येति ।
आत्मनि अन्तःकरणपरिणतिः अवि­द्या­नि­व­र्तिका गृहीता ।

प्रवदतां सम्बन्धो वादः - वीतरागकथा तत्त्व­नि­र्ण­या­व­साना । यदा प्रवदतामिति लक्षणया कथाभेदोपादानं तदा निर्धारणे षष्ठी इत्याह -
प्रवक्तृ इति
॥ ३२ ॥

सर्वहरशब्दस्य मुख्यं अर्थान्तरं आह -
अथवेति ।

भाविकल्याणानां इत्यु­क्त­मे­व­स्प­ष्ट­यति -
उत्कर्षेति ।

कीर्तिः - धार्मि­क­त्व­नि­मित्ता ख्यातिः । श्रीः - लक्ष्मीः, कान्तिः - शोभा । वाक् - वाणी सर्वस्य प्रकाशिका, स्मृतिः - चिरा­नु­भू­त­स्म­र­ण­शक्तिः, मेधा - ग्रन्थ­धा­र­ण­शक्तिः, धृतिः - धैर्यम् , क्षमा - मानापमानयोः अविकृतचित्तता - स्त्रीषु कीर्त्यादीनां उत्तमत्वं उपपादयति -
यासामिति
॥ ३४ ॥

वेदानां सामवेदोऽस्मि इत्युक्तम् । तत्रा­वा­न्त­र­वि­शे­ष­माह-
बृहदिति ।

छन्दसां मध्ये गायत्री नाम यच्छन्दः तदहम् इति अयुक्तम् , छन्दसां ऋग्भ्यः अतिरेकेण स्वरूपासम्भावत् । इत्याशह्क्य, आह -
गायत्र्यादि इति ।
द्विजातेः द्विती­य­ज­न्म­ज­न­नी­त्वात् इत्यर्थः ।

मार्गशीर्षः - मृगशीर्षेण युक्ता पौर्णमासी अस्मिन् इति मार्गशीर्षः मासः सोऽहम् पक्व­स­स्या­ढ्य­त्वात् इत्याह -
मासानामिति ।
वसन्तः रमणीयत्वादिति शेषः ।
॥ ३५ ॥

द्यूतं उक्तलक्षणम् सर्व­स्वा­प­हा­र­का­र­णम् अन्यायापदेशेन पराभिप्रेतम् निघ्नताम् , स्वाभिप्रेतं वा सम्पादयतां इत्याह -
छलस्येति ।
तेजः अप्रतिहताज्ञा, उत्कर्षः जयः, व्यवसायः फलहेतुः उद्यमः, धर्म­ज्ञा­न­वै­रा­ग्यादि सत्त्वकार्यं सत्त्वम्
॥ ३६ ॥

उशना - शुक्रः, कविशब्दोेऽत्र योगिकः न रूढः पौनरुक्त्यात्
॥ ३७ ॥

अदान्तान् उत्पथान् पथि प्रवर्तयतां दण्डः अहं उत्पथप्रवृत्तौ निग्रहे हेतुः इत्यर्थः । नीतिः न्यायः धर्मस्य जयोपायस्य प्रकाशकः । मौनं वाचं यमत्वम् उत्तमा वा चतु­र्था­श्र­म­वृत्तिः । श्रवणादिद्वारा परि­प­क्व­स­मा­धि­जन्यं सम्यक् ज्ञानं ज्ञानम्
॥ ३८ ॥

जाड्य­मा­त्र­प्र­ति­बि­म्बितं चैतन्यं बीजम् । किमिति स्थावरं जङ्गमं वा त्वदतिरेकेण न भवतीति तत्राह -
मयेति ।

तस्यापि स्वरूपेण सत्त्वमाशङ्क्य उक्तम् -
शून्यं हीति ।
आत्मनः अपकर्षात् इत्यर्थः । मयैव सच्चि­दा­न­न्द­स्व­रू­पेण सर्वस्य सिद्धेः । इति अतश्शब्दार्थः
॥ ३९ ॥

दिव्यानां विभूतीनां परिमितत्वशङ्कां वारयति -
नेत्यादिना ।

तदेव उपपादयति -
न हि इति ।

कथं तर्हि विभूतेः विस्तरो दर्शितः तत्राह-
एष त्विति
॥ ४० ॥

अनुक्त अपि परस्य विभूतीः सङ्ग्रहीतुं लक्षणमाह -
यद्यदिति ।

वस्तु - प्राणिजातं, श्रीमत् - समृद्धिमद्वा कान्तिमद्वा सप्राणं बलवदूर्जितं तदाह -
उत्साहेति ।

सम्भवति अस्मादिति सम्भवः तेजसः चैतन्यस्य ईश्वरशक्तेर्वा अंशः तेजोंशः सम्भवः अस्य इति तेजोंश सम्भवात् । तदाह -
तेजस इति
॥ ४१ ॥

सर्वेषां सुगमत्वाय अवयवशः विभूतिमुक्त्वा भक्ता­नु­ग्र­हार्थं साकल्येन तमाह -
अथवेति ।

पक्षा­न्त­र­प­रि­ग्र­हार्थं अथवेत्युक्तम् । बहुधा विस्तीर्णेन एतेन संज्ञातेन सावशेषेण तव शक्तस्य न किञ्चित् फलं स्यात् इत्याह -
बहुनेति ।
न हि विभूतिषु उक्तासु ज्ञातासु सर्वं ज्ञायते कासाञ्चिदेव विभूतीनां उक्तत्वात् इत्यर्थः ।

तर्हि केनोपदेशेन अल्पाक्षरेण सर्वोऽर्थो ज्ञातुं शक्यते । तत्राह -
अशेषत इति ।

विशेषतः स्तम्भनं विधरणं सर्वभूतस्वरूपेण सर्व­प्र­प­ञ्चो­पा­दा­न­श­क्त्यु­पा­धि­केन एकेन पादेन कृत्स्नं जगत् विधृत्य स्थितोऽस्मि इति सम्बन्धः । तत्रैव श्रुतिं प्रमाणयति -
तथा चेति ।
तदनेन भगवतः नानाविधाः विभूतीः ध्येयत्वेन ज्ञेयत्वेन च उपदिश्यन्ते । सर्व­प्र­प­ञ्चा­त्मकं ध्ये रूपं दर्शयित्वा “त्रिपा­द­स्या­मृतं दिवि“ इति प्रपञ्चाधिकं निरुपाधिकं तत्त्वं उपदिशता परि­पू­र्ण­स­च्चि­दा­न­न्दै­क­तानः तत्प­द­ल­क्ष्योऽर्थो निर्धारितः
॥ ४२ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विरचिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने दशमोऽध्यायः