आनन्दगिरिटीका (गीताभाष्य)
दशमोऽध्यायः
अध्यायद्वये सिद्धम् अर्थ सङ्क्षेपतोऽनुभाषते -
सप्तमेति ।
तत्त्वं सोपाधिकं निरुपाधिकञ्च । विभूतयः - सविशेषनिर्विशेषरूपप्रतिपत्त्युपयोगिन्यः ।
उत्तराध्यायस्य अध्यायद्वयेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति -
अथेति ।
वक्तव्याः सविशेषध्याने निर्विशेषप्रतिपत्तौ च शेषत्वेन, इति शेषः ।
ननु सविशेषं निर्विशेषं च भगवतो रूपं प्रागेव तत्र तत्र उक्तम् । तत्किमिति पुनः उच्यते, तत्र आह -
उक्तमपीति ।
तद्यदि तत्र तत्र तत्त्वम् उक्तम् , तयापि पुनर्वक्तव्यं दुर्ज्ञेयत्वात् , इति यतः मन्यते, अतः इति योजना ।
प्रकृष्टत्वं वचसः स्पष्टयति -
निरतिशयेति ।
तदेव वचः विशिनष्टि -
यत्परममिति ।
सकृदुक्तेः अर्थसिद्धेः सकृदुक्तिः अनर्थिका, इत्याशङ्क्य, आह -
प्रीयमाणायेति ।
ततो वक्ष्यामि तुभ्यम् , इति पूर्वेण सम्बन्धः । हितम् - दुर्विज्ञेयं तत्त्वज्ञानम्
॥ १ ॥
कश्चित् अन्योऽपि परमं वचः मह्यं वक्ष्यति । तेन च मम तत्त्वज्ञानं भविष्यति । अतः भगवद्वचनम् अकिञ्चित्करम् , इति शङ्कित्वा परिहरति -
किमर्थमित्यादिना ।
इन्द्रादयः भृग्वादयश्च भगवत्प्रभावं न विन्दन्ति इत्यत्र प्रश्नपूर्वकं हेतुम् आह -
कस्मादिति ।
निमित्तत्वेन उपादानत्वेन च यतः देवानां भगवानेव हेतुः, ततः तद्विकाराः ते न तस्य प्रभावं विदुः इत्यर्थः
॥ २ ॥
इतश्च कश्चिदेव भगवत्प्रभावं वेत्ति इत्याह -
किञ्चेति ।
कोऽसौ प्रभावः भगवतः ? यं बहवो न विदुः, इत्यपेक्षायां पारमार्थिकं प्रभावं तदधीनफलं च कथयति -
यो मामिति ।
पदद्वयापौनरुक्त्यम् आह -
अनादित्वमिति
॥ ३ ॥
भगवतो लोकमहेश्वरत्वे हेत्वन्तरम् आह -
अतश्चेति ।
इतश्चाहं मुमुक्षुभिः आराध्यत्वसिद्धये बन्धमोक्षसाधनं पुरस्कृत्य अशेषं जगत्प्रकृत्यधिष्ठातृत्वलक्षणं सोपाधिकं भगवत्प्रभावम् अभिधत्ते-
बुद्धिरिति ।
सूक्ष्मादि इत्यादिशब्देन सूक्ष्मतरः सूक्ष्मतमश्च अर्थो गृह्यते ।
उक्तं सामर्थ्यं बुद्धिः, इत्यस्मिन् अर्थे प्रसिद्धिं प्रमाणयति -
तद्वन्तमिति ।
आत्मादीति । तदवबोधवन्तं हि ज्ञानिनं वदन्ति । अन्तः करणस्य उपशमः विषयेभ्यो व्यावृत्तिः इति शेषः
॥ ४ ॥
यथाशक्तीति । पात्रे श्रद्धया स्वशक्तिं अनतिक्रम्य अर्थानां देशकालानुगुण्येन प्रतिपादनम् इत्यर्थः । उक्तानां बुद्ध्यादीनां साश्रयाणां ईश्वरात् उत्पत्तिं प्रतिजानीते -
भवन्तीति ।
नानाविधत्वे हेतुमाह -
स्वकर्मेति ।
कथञ्चिदपि तेषाम् आत्मव्यतिरेकेण अभावात् मत्त एव इ्त्युक्तम्
॥ ५ ॥
न केवलं भगवतः सर्व प्रकृतित्वमेव, किन्तु सर्वज्ञत्व - सर्वेश्वरत्वरूपम् अधिष्ठातृत्वम् अपि, इत्याह -
किञ्चेति ।
आद्या भृग्वादयो वसिष्ठान्ताः सर्वज्ञाः विद्यासम्प्रदायप्रवर्तकाः ।
तथेति मनूनामपि पूर्वत्वेन आद्यत्वम् अनुकृष्यते । के ते मनवः? तत्र आह-
सावर्णा इतीति ।
प्रसिद्धाः पुराणेषु, प्रजानां पालकाः, स्वयम् ईश्वराश्च इति शेषः ।
महर्षीणां मनूनां च तुल्यं विशेषणम् -
ते चेति ।
मयि - सर्वज्ञे सर्वेश्वरे, गता - भावना येषां, ते तथा । भावनाफलम् आह -
वैष्णवेनेति ।
वैष्णव्या शक्त्या अधिष्ठितत्वेन ज्ञानैश्वर्यवन्तः, इत्यर्थः ।
तेषां जन्मनो वैशिष्ट्यम् आचष्टे -
मानसा इति ।
मन्वादीनेव विशिनष्टि-
येषामिति ।
विद्यया जन्मना च सन्ततिभूता मन्वादीनाम् अस्मिन् लोके सर्वाः प्रजाः, इत्यर्थः
॥ ६ ॥
सोपाधिकं प्रभावं भगवतो दर्शयित्वा तज्ज्ञानफलम् आह -
एतामिति ।
बुद्ध्याद्युपादानत्वेन विविधा भूतिः - भवनम् वैभवम् सर्वात्मकत्वम् , तदाह -
विस्तारमिति ।
ईश्वरस्य तत्तदर्थसम्पादनसामर्थ्यं योगः, तदाह -
आत्मन इति ।
योगः - तत्फलम् ऐश्वर्यं सर्वज्ञत्वं सर्वेश्वरत्वं च मदीयं शक्तिज्ञानलेशम् आश्रित्य मन्वादयो भृग्वादयश्च ईशते जानते च तदाह -
अथवेति ।
यथा तौ विभूतियोगौ तथा वेदनस्य निरङ्कुशत्वं दर्शयति -
यथावदिति ।
सोपाधिकं ज्ञानं निरूपाधिकज्ञाने द्वारम् , इत्याह -
सोऽविकम्पेनेति ।
उक्ते अर्थे प्रतिबन्धाभावम् आह -
नास्मिन् इति
॥ ७ ॥
कथं तावक विभूत्त्यैश्वर्यज्ञानम् उक्तयोगस्य हेतुः? इति मत्वा पृच्छति -
कीदृशेनेति ।
उक्तज्ञानमाहात्म्यात् प्रतिष्ठिता भगवन्निष्ठा सिध्यति, इत्याह -
उच्यत इति ।
प्रभवति अस्मात् , इति प्रभवः सर्वप्रकृतिः सर्वात्मा, इत्याह -
उत्पत्तिरिति ।
सर्वज्ञात् सर्वेश्वरात् मत्तो निमित्तात् , सर्वम् - स्थितिनाशादि भवति ।
मया च अन्तर्यामिना प्रेर्यमाणं सर्वं यथास्वं मर्यादाम् अनतिक्रम्य चेष्टते । तदाह -
मत्त इति ।
इत्थं मम सर्वात्मत्वं सर्वप्रकृतित्वं सर्वेश्वरत्वं सर्वज्ञत्वं च महिमानं ज्ञात्वा मय्येव निष्ठावन्तो भवन्ति, इत्याह -
इत्येवमिति ।
संसारासारताज्ञानवतां भगवद्भजने अधिकारं द्योतयति -
अवगतेति ।
परमार्थतत्त्वे पूर्वोक्तरीत्या ज्ञाते प्रेमादरौ अभिनिवेशाख्यौ भवतः ।
तेन संयुक्तत्वं च भगवद्भजने भवति हेतुः, इत्याह -
भावेति
॥ ८ ॥
न केवलम् उक्तमेव भगवद्भजने साधनम् , साधनान्तरं च अस्ति, इत्याह -
किञ्चेति ।
ईश्वरात् प्रतीचः प्रगुक्तात् अन्यत्र चित्तप्रचारराहित्यं भगवद्भजनोपायम् आह -
मयीति ।
चक्षुरादीनां भगवति अप्राप्तिः, तदगोचरत्वात् तस्य, इत्याशङ्क्य, आह -
मय्युपसंहृतेति ।
भगवदतिरेकेण जीवनेऽपि न आदरः । तदपि मय्येव अर्पितं भक्तानाम् , इत्याह -
अथवेति ।
आचार्येभ्यः श्रुत्वा, वादकथया परस्परं भगवन्तं सब्रह्मचारिणो बोधयन्ति । तदपि भगवद्भजनसाधनम् , इत्याह -
बोधयन्त इति ।
आगमोपपत्तिभ्यां भगवन्तमेव विशिष्टधर्माणं शिष्येभ्यो गुरवो व्युपदिशन्ति । तदपि भगवद्भजनमेव, इत्याह -
कथयन्त इति ।
भक्तानां तुष्टिरती स्वरसतः स्याताम् इत्याह -
तुष्यन्तीति ।
मनोरथपूर्त्या रतिप्राप्तौ कामुकसम्मतम् उदाहरणम् आह -
प्रियेति
॥ ९ ॥
यदुक्तं ‘सोऽविकम्पेन’(भ. गी. १०-७) इत्यादि, तदर्थं भूमिकां कृत्वा, तद् इदानीम् उदाहरति -
ये यथोक्तेति ।
नित्याभियुक्तानाम् - अनवरतं भगवति ऐकाग्र्यसम्पन्नानाम् , इत्यर्थः ।
पुत्रादिलोकत्रयहेत्वर्थित्वेन वा गर्भदासत्वेन वा, प्रत्यहं जीवनोपायसिद्धये वा, भजनम् इति शङ्कित्वा दूषयति -
किमित्यादिना ।
प्रागुक्तां ज्ञानाख्यां भक्तिं स्नेहेन कुर्वताम् इत्यर्थः ।
तेभ्योऽहं तत्त्वज्ञानं प्रयच्छामि, इत्याह -
ददामीति ।
उक्तबुद्धिसबन्धस्य फलम् आह -
येनेति ।
ध्यानजन्यप्रकर्षकाष्ठागतान्तःकरणपरिणामे निरस्ताशेपविशेषभगवद्रूपप्राप्तिहेतौ बुद्धियोगे प्रश्नपूर्वकम् उक्तान् अधिकारिणो दर्शयति -
के ते इति ॥ १० ॥
भगवत्प्राप्तेः बुद्धिसाध्यत्वे सति अनित्यत्वापत्तेः त्वमपि भक्तेभ्यः बुद्धियोगं ददासि इत्ययुक्तम् , इति शङ्कते -
किमर्थमिति ।
तेषां बुद्धियोगं किमर्थं ददासि इति सम्बन्धः ।
भगवत्प्राप्तिप्रतिबन्धकनाशको बुद्धियोगः, तेन नास्ति तत्प्राप्तेः अनित्यत्वम् , इत्याशङ्क्य आह -
कस्येति ।
भक्तानां तत्प्राप्तिप्रतिबन्धकं विविच्य दर्शयति -
इत्याकाङ्क्षायामिति ।
अविवेको नाम अज्ञानम् । ततो जातं मिथ्याज्ञानम् । तदुभयम् एकीकृत्य तमो विवक्ष्यते । न च तन्नाशकत्वं जडस्य कस्यचित् तदन्तर्भूतस्य युक्तम् । तेन अहं नाशयामि, इत्युक्तम् ।
केवलचैतन्यस्य जडबुद्धिवृत्तेरिव अज्ञानाद्यनाशकत्वम् आशङ्क्य, विशिनष्टि -
आत्मेति ।
तस्य आशयः - तन्निष्ठो वृत्तिविशेषः । वाक्योत्थबुद्धिवृत्त्यभिव्यक्तः चिदात्मा सहायसामर्थ्यात् अज्ञानादिनिवृत्तिहेतुः, इत्यर्थः ।
बुद्धीद्धबोधस्य अज्ञानादिनिवर्तकत्वम् उक्त्वा, बोधेद्धबुद्धेः तन्निवर्तकत्वम् , इति पक्षान्तरम् आह -
ज्ञानेति ।
देहाद्यव्यक्तान्तानात्मवर्गातिरिक्तवस्तु आह -
विवेकेति ।
भगवति सदा विहितया भक्त्या, तस्य प्रसादः - अनुग्रहः, स एव स्नेहः, तेन आसेचनद्वारा अस्य उत्पत्तिम् आह -
भक्तीति ।
मय्येव भावनायाम् अभिनिवेशो वातः, तेन प्रेरितोऽयं जायते । न हि वातप्रेरणम् अन्तरेण दीपस्य उत्पत्तिः, इत्याह -
मद्भावनेति ।
ब्रह्मचर्यम् अष्टाङ्गम् । आदिशब्देन शमादिग्रहः । तेन हेतुना आहितसंस्कारवति या प्रज्ञा, तथाविधवर्तिनिष्ठश्च अयम् , न हि वर्त्यतिरेकेण निर्वर्त्यते, तदाह –
ब्रह्मचर्येति ।
न च आधाराद् ऋते दीपस्य उत्पत्तिः, अदृष्टत्वात् , इत्याह -
विरक्तेति ।
यद् विषयेभ्यो व्यावृत्तं चित्तं रागाद्यकलुषितम् , तदेव निवातम् अपवरकम् । तत्र स्थितत्वम् अस्य दर्शयति -
विषयेति ।
भास्वतेति विशेषणं विशदयति -
नित्येति ।
सदातनं चित्तैकाग्र्यम् , तत्पूर्वकन्ध्यानम् , तेन जनितं सम्यग्दर्शनं फलम् , तदेव भाः तद्वता तत्पर्यन्तेन, इत्यर्थः ।
तेन अज्ञाने सकार्ये निवृत्ते, भगवद्भावः स्वयमेव प्रकाशीभवति इति मत्वा, व्याख्यातममेव पदम् अनुवदति -
ज्ञानेति
॥ ११ ॥
निरस्ताशेषविशेषं निरूपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपम् , तद्धीफलं च श्रुत्वा, निरुपाधिकरूपस्य प्राकृतबुद्ध्यनवगाह्योक्तिपूर्वकं मन्दानुग्रहार्थं सर्वदा सर्वबुद्धिग्राह्य सोपाधिकं रूपं विस्तरेण श्रोतुम् इच्छन् पृच्छति, इत्याह -
यथोक्तामिति ।
परं ब्रह्म भवान् लक्ष्यनिर्देशः । तस्य लक्षणार्थं परं धाम इत्यादि विशेषणत्रयम् ।
धामशब्दस्य स्थानवाचित्वं व्यावर्तयन् व्याचष्टे -
तेज इति ।
तस्य चैतन्यस्य परमत्वं जन्मादिराहित्येन कौटस्थ्यम् । प्रकृष्टम् पावनम् - अत्यन्तशुद्धत्वम् उच्यते । यदेवंलक्षणं पर ब्रह्म, तद्भवानेव, नान्यः इत्यर्थः ।
कुतः त्वम् एवम् अज्ञासीः? इत्याशङ्क्य, आप्तवाक्यात् , इत्याह -
पुरुषमिति ।
दिवि - परमे व्योम्नि भवतीति दिव्यः, तं सर्वप्रपञ्चातीतम् दीव्यति - द्योतते इति देवः, स चादिः सर्वमूलत्वात् , अत एव अजः, तं त्वां सर्वगतम् आहुः इति सम्बन्धः
॥ १२ ॥
उक्तविशेषणं त्वाम् ऋषयः सर्वे यस्मात् आहुः, तस्मात् तद्वचनात् तवोक्तं ब्रह्मत्वम् युक्तम् , इत्याह -
ईदृशमिति ।
ऋषिग्रहणेन गृहीतानामपि नारदादीनां विशिष्टत्वात् पृथक् ग्रहणम् । असितो देवलस्य पिता । किम् अन्यैः । त्वं स्वयमेव आत्मानम् उक्तरूपं मह्यम् उक्तवान् इत्याह -
स्वयञ्चेति
॥ १३ ॥
ऋषिभिः त्वया च उक्तत्वात् उक्तम् सर्वं सत्यमेव इति मम मनीषा इत्याह -
सर्वमिति ।
किं तत् इत्याशङ्क्य आत्मरूपं इत्याह -
यन्मां इति ।
देवादिभिः सर्वैः उच्यमानतया त्वद्रूपे विशिष्टवक्तृग्रहणं अनर्थकम् इत्याशङ्क्य आह -
नहीति ।
प्रभवो नाम प्रभावः निरूपाधिकस्वभावः, यदा देवादीनामपि दुर्विज्ञेयं तव रूप, तदा का कथा मनुष्याणां इत्यर्थः
॥ १४ ॥
कश्चिदेव महता कष्टेन अनेकजन्मसंसिद्धः जानाति त्वदनुगृहीतः त्वद्रूपम् इत्यभिप्रेत्य आह -
यतः इति ।
स्वयमेव - उपदेशम् अन्तरेण इत्यर्थः । आत्मना प्रत्यक्त्वेन अविषयतया इति यावत् ।
आत्मानं निरुपाधिकं रूपम् । न च तव सोपाधिकमपि रूपं अन्यस्य गोचरे तिष्ठति इत्याह -
निरतिशयेति ।
पुरुषश्चासौ उत्तमश्च इति क्षराक्षरातीतपूर्णचैतन्यरूपत्वम् सम्बोधनेन बोध्यते ।
सर्वप्रकृतित्वम् सर्वकर्तृत्वञ्च कथयति -
भूतानि इति ।
सर्वेश्वरत्वं आह -
भूतानाम् इति ।
उक्तं ते सोपाधिकं रूपं देवादीनाम् आराध्यताम् अधिगच्छति इत्याह -
देवेति ।
जगतः सर्वस्य स्वामित्वेन पालयितृत्वम् आह -
जगदिति
॥ १५ ॥
यस्मात् अस्मादृशां अगोचरः तव आत्मा जिज्ञासितश्च, तस्मात् त्वयैव तद्रूपं वक्तव्यं इत्याह -
वक्तुमिति ।
दिव्यत्वं अप्राकृतत्वम् । सम्प्रति अन्वयं अन्वाचष्टे -
आत्मन इति ।
वक्तव्याः विभूतीः विशिनष्टि -
याभिरिति ।
यद्द्वारा लोकान् पूरयित्वा वर्तसे ताः विभूतीः अशेषेण वक्तुं अर्हसि इत्यर्थः
॥ १६ ॥
किमर्थं विभूतीः श्रोतुं इच्छसि इत्याशङ्क्य, ध्यानसौकर्यप्रकारप्रश्नेन फलं कथयति -
कथमिति ।
योगः नाम ऐश्वर्यं तत् अस्य अस्तीति योगो हे योगिन् , अहं स्थविष्टमातिः त्वां केन प्रकारेण सततं अनुसन्दधानः विशुद्धबुद्धिर्भूत्वा निरूपाधिकं त्वां विजानीयां इति प्रश्नः ।
प्रश्नानन्तरं प्रस्तौति -
केषु केषु इति ।
चेतनाचेतनभेदात् उपाधिबहुत्वाच्च बहुवचनम्
॥ १७ ॥
प्रकृतं प्रशनं उपसंहरति -
विस्तरेणेति ।
अर्दतेः गतिकर्मणः जनार्दनेति रूपम् , तत् व्युत्पादयति -
असुराणाम् इति ।
प्रकारान्तरेण शब्दार्थं व्युत्पादयति -
अभ्युदयेति ।
ननु पूर्वमेव सप्तमे नवमे च विभूतिः ऐश्वर्यञ्च ईश्वरस्य दर्शितम् , तत्किमिति श्रोतुं इष्यते तत्राह -
भूय इति ।
अमृतम् - अमृतप्रख्यमित्यर्थः
॥ १८ ॥
प्रष्टारं विस्रम्भयितुं भगवान् उक्तवान् इत्याह -
श्री भगवानिति ।
हन्त इति अनुमतिं व्यावर्त्य जिज्ञासावच्छिनं कालं दर्शयति-
इदानीम् इति ।
दिवि भवत्वम् - अप्राकृतत्वं - अस्मदगोचरत्वम् ।
वाक्यान्वयं द्योतयति -
यास्ता इति ।
सर्वविभूतीनां वक्तव्यत्वप्राप्तौ उक्तम् -
यत्रेति ।
किमिति अनवशेषतः विभूतयः न उच्यन्ते तत्राह -
अशेषतस्त्विति ।
तत्र हेतुः यतः इति
॥ १९ ॥
विभूतिप्रदर्शने प्रस्तुते सति आदावेव पारमार्थिकं पारमेश्वरं रूपं दर्शयितुं श्रोतुः अर्जुनस्य मनस्समाधानार्थं यतते -
तत्रेति ।
सोपाधिकमपि काल्पनिकं परस्य रूपं पश्चात् वक्ष्यमाणं श्रोतुं चित्तसमाधानं कर्तव्यम् एव, इत्याह -
तावदिति ।
आशेरते अस्मिन् विद्याकर्मपूर्वप्रज्ञा इति आशयः - हृदयम् , सर्वेषां भूतानां हृदये अन्तःस्थितो यः प्रत्यगात्मा सः अहमेव इति वाक्यार्थम् आह -
सर्वेषाम् इति ।
यस्तु मन्दो मध्यमो वा परमात्मानम् आत्मत्वेन ध्यातुं नालम् , तं प्रति आह -
तदशक्तेनेति ।
वक्ष्यमाणादित्यादिषु परस्य न ध्येयत्वम् अन्यदेव कारणं किञ्चित् तत्र तत्र ध्येयम् इत्याशङ्क्य आह -
यस्मात् इति ।
सर्वकारणत्वेन सर्वज्ञत्वेन सर्वेश्वरत्वेन च परस्य ध्येयत्वम् अत्र ईप्सितम् , नान्यस्य कस्यचित् कारणस्य आदित्यादिषु ध्येयता, इत्यर्थः
॥ २० ॥
उक्तध्यानाशक्तेभ्यो वक्तव्यं विभूतियोगम् उपदिशति -
एवञ्चेति ।
तत्र तत्र प्रधानत्वेन परस्य ध्येयत्वम् । एवंशब्दार्थमेव दर्शयति -
आदित्यानाम् इत्यादिना
॥ २१ ॥
मन्त्रब्राह्मणसमुदायानाम् ऋगादीनां मध्ये सामवेदोऽस्मि इति ध्यानान्तरम् उदाहरति -
वेदानामिति ।
सङ्घाते जीवधिष्ठिते यावत् पञ्चत्वं सर्वत्र व्यापिनी चैतन्याभिव्यञ्जिका, इति शेषः
॥ २२ ॥
पुरोहितेषु बृहस्पतेः मुख्यत्वे हेतुम् आह -
स हीति
॥ २४ ॥
एकम् इति । ओङ्कारस्य ब्रह्मप्रतीकत्वेन तदभिधानत्वेन च प्रधानत्वम् उच्यते । जपयज्ञस्य यज्ञान्तरेभ्यो हिंसादिराहित्येन प्राधान्यम् उपेत्य आह -
यज्ञानामिति ।
शिखरवताम् - उच्छ्रितानां पर्वतानां मध्ये, मेरुः अहं इत्युक्तेऽपि, स्थितिशीलानां तेषामेव हिमवान् - पर्वतराजोऽस्मि, इति अर्थभेदं गृहीत्वा आह -
स्थितिमतामिति
॥ २५ ॥
“ सर्ववृक्षाणाम् " इत्यत्र सर्वशब्देन वनस्पतयो गृह्यन्ते
॥ २६, २७ ॥
प्रजनयतीति व्युत्पत्तिम् आश्रित्य आह -
प्रजनयितेति ।
सर्पा नागाश्च जातिभेदात् भिद्यन्ते
॥ २८, २९, ३०, ३१ ॥
अहमादिश्च इति आदौ उक्तमेव पुनः इह उच्यते । तथा च न पुनरुक्तिः इत्याशङ्क्य, आह -
भूतानां इति ।
सर्गशब्देन सृज्यन्त इति सर्वाणि कार्याणि गृह्यन्ते ।
अध्यात्मविद्येति ।
आत्मनि अन्तःकरणपरिणतिः अविद्यानिवर्तिका गृहीता ।
प्रवदतां सम्बन्धो वादः - वीतरागकथा तत्त्वनिर्णयावसाना । यदा प्रवदतामिति लक्षणया कथाभेदोपादानं तदा निर्धारणे षष्ठी इत्याह -
प्रवक्तृ इति
॥ ३२ ॥
सर्वहरशब्दस्य मुख्यं अर्थान्तरं आह -
अथवेति ।
भाविकल्याणानां इत्युक्तमेवस्पष्टयति -
उत्कर्षेति ।
कीर्तिः - धार्मिकत्वनिमित्ता ख्यातिः । श्रीः - लक्ष्मीः, कान्तिः - शोभा । वाक् - वाणी सर्वस्य प्रकाशिका, स्मृतिः - चिरानुभूतस्मरणशक्तिः, मेधा - ग्रन्थधारणशक्तिः, धृतिः - धैर्यम् , क्षमा - मानापमानयोः अविकृतचित्तता - स्त्रीषु कीर्त्यादीनां उत्तमत्वं उपपादयति -
यासामिति
॥ ३४ ॥
वेदानां सामवेदोऽस्मि इत्युक्तम् । तत्रावान्तरविशेषमाह-
बृहदिति ।
छन्दसां मध्ये गायत्री नाम यच्छन्दः तदहम् इति अयुक्तम् , छन्दसां ऋग्भ्यः अतिरेकेण स्वरूपासम्भावत् । इत्याशह्क्य, आह -
गायत्र्यादि इति ।
द्विजातेः द्वितीयजन्मजननीत्वात् इत्यर्थः ।
मार्गशीर्षः - मृगशीर्षेण युक्ता पौर्णमासी अस्मिन् इति मार्गशीर्षः मासः सोऽहम् पक्वसस्याढ्यत्वात् इत्याह -
मासानामिति ।
वसन्तः रमणीयत्वादिति शेषः ।
॥ ३५ ॥
द्यूतं उक्तलक्षणम् सर्वस्वापहारकारणम् अन्यायापदेशेन पराभिप्रेतम् निघ्नताम् , स्वाभिप्रेतं वा सम्पादयतां इत्याह -
छलस्येति ।
तेजः अप्रतिहताज्ञा, उत्कर्षः जयः, व्यवसायः फलहेतुः उद्यमः, धर्मज्ञानवैराग्यादि सत्त्वकार्यं सत्त्वम्
॥ ३६ ॥
उशना - शुक्रः, कविशब्दोेऽत्र योगिकः न रूढः पौनरुक्त्यात्
॥ ३७ ॥
अदान्तान् उत्पथान् पथि प्रवर्तयतां दण्डः अहं उत्पथप्रवृत्तौ निग्रहे हेतुः इत्यर्थः । नीतिः न्यायः धर्मस्य जयोपायस्य प्रकाशकः । मौनं वाचं यमत्वम् उत्तमा वा चतुर्थाश्रमवृत्तिः । श्रवणादिद्वारा परिपक्वसमाधिजन्यं सम्यक् ज्ञानं ज्ञानम्
॥ ३८ ॥
जाड्यमात्रप्रतिबिम्बितं चैतन्यं बीजम् । किमिति स्थावरं जङ्गमं वा त्वदतिरेकेण न भवतीति तत्राह -
मयेति ।
तस्यापि स्वरूपेण सत्त्वमाशङ्क्य उक्तम् -
शून्यं हीति ।
आत्मनः अपकर्षात् इत्यर्थः । मयैव सच्चिदानन्दस्वरूपेण सर्वस्य सिद्धेः । इति अतश्शब्दार्थः
॥ ३९ ॥
दिव्यानां विभूतीनां परिमितत्वशङ्कां वारयति -
नेत्यादिना ।
तदेव उपपादयति -
न हि इति ।
कथं तर्हि विभूतेः विस्तरो दर्शितः तत्राह-
एष त्विति
॥ ४० ॥
अनुक्त अपि परस्य विभूतीः सङ्ग्रहीतुं लक्षणमाह -
यद्यदिति ।
वस्तु - प्राणिजातं, श्रीमत् - समृद्धिमद्वा कान्तिमद्वा सप्राणं बलवदूर्जितं तदाह -
उत्साहेति ।
सम्भवति अस्मादिति सम्भवः तेजसः चैतन्यस्य ईश्वरशक्तेर्वा अंशः तेजोंशः सम्भवः अस्य इति तेजोंश सम्भवात् । तदाह -
तेजस इति
॥ ४१ ॥
सर्वेषां सुगमत्वाय अवयवशः विभूतिमुक्त्वा भक्तानुग्रहार्थं साकल्येन तमाह -
अथवेति ।
पक्षान्तरपरिग्रहार्थं अथवेत्युक्तम् । बहुधा विस्तीर्णेन एतेन संज्ञातेन सावशेषेण तव शक्तस्य न किञ्चित् फलं स्यात् इत्याह -
बहुनेति ।
न हि विभूतिषु उक्तासु ज्ञातासु सर्वं ज्ञायते कासाञ्चिदेव विभूतीनां उक्तत्वात् इत्यर्थः ।
तर्हि केनोपदेशेन अल्पाक्षरेण सर्वोऽर्थो ज्ञातुं शक्यते । तत्राह -
अशेषत इति ।
विशेषतः स्तम्भनं विधरणं सर्वभूतस्वरूपेण सर्वप्रपञ्चोपादानशक्त्युपाधिकेन एकेन पादेन कृत्स्नं जगत् विधृत्य स्थितोऽस्मि इति सम्बन्धः । तत्रैव श्रुतिं प्रमाणयति -
तथा चेति ।
तदनेन भगवतः नानाविधाः विभूतीः ध्येयत्वेन ज्ञेयत्वेन च उपदिश्यन्ते । सर्वप्रपञ्चात्मकं ध्ये रूपं दर्शयित्वा “त्रिपादस्यामृतं दिवि“ इति प्रपञ्चाधिकं निरुपाधिकं तत्त्वं उपदिशता परिपूर्णसच्चिदानन्दैकतानः तत्पदलक्ष्योऽर्थो निर्धारितः
॥ ४२ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने दशमोऽध्यायः