अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

एकादशोऽध्यायः

तेन तेन आत्मना भग­व­द­नु­स­न्धा­ना­र्थम् उक्ताः विभूतीः अनुवदति-
भगवत इति ।
परस्य सोपाधिकं निरुपाधिकं च चिद्रूपं ध्येयत्वेत ज्ञेयत्वेन च उक्तम् , इत्यर्थः ।

सोपाधिकम् ऐश्वरं रूपम् अशेषजगदात्मकं विश्वरूपाख्यम् अधिकृत्य, अध्यायान्तरम् अवतारयन् अन­न्त­र­प्र­श्नो­प­यो­गि­त्वेन वृत्तं कीर्तपति-
तत्र चेति ।

यदेतत् अशे­ष­प्र­प­ञ्चा­त्म­कम् अखिलस्य एतस्य जगतः कारणं सर्वज्ञं सर्वै­श्व­र्य­व­द्रू­पम् उक्तम् , तदिदं श्रुत्वा तस्य साक्षात्कारं यियाचिषः आदौ पृष्टवान् इत्याह-
श्रुत्वा इति ।
मयि करुणां निमित्तीकृत्य उपकारः - अनुग्रहः । तदर्थम् इति वचसो विशेषणम् । निरतिशयत्वं पर­म­पु­रु­षा­र्थ­सा­ध­न­त्वम् । अशोच्यान् इत्यादि त्वम्प­दा­र्थ­प्र­धा­न­वा­क्यम् । मोहस्यायमिति आत्मसाक्षिकत्वं दर्शयति । अविवेकबुद्धिः - अज्ञा­न­वि­प­र्या­सा­त्मिका
॥ १ ॥

सप्तमादारभ्य तत्प­दा­र्थ­नि­र्ण­या­र्थ­मपि भगवदुक्तं वचः मया श्रुतम् , इत्याह-
किञ्चेति ।
त्वत्तः भूतानाम् उत्पत्तिप्रलयौ, त्वत्तः श्रुतौ इत्याभ्यां सम्बध्यते, महात्मनः तव भावः - माहात्म्यम् । पारमार्थिकं सोपाधिकं वा सर्वा­त्म­त्वा­दि­रूपं श्रुतम् , इति परिणम्य अनुवृत्तिं द्योतयितुम् , अपि च इत्युक्तम्
॥ २ ॥

त्वदुक्ते अर्थे विश्वासाभावात् न तस्य दिदृक्षा । किन्तु कृतार्थीबुभूषया इत्याह-
एवमेतदिति ।
येन प्रकारेण सोपाधिकेन निरुपाधिकेन च इत्यर्थः ।

यदि मम आप्तत्वं निश्चित्य मद्वाक्यं ते मानं तर्हि किमिति मदुक्त दिदृक्षते कृतार्थीबुभूषया इत्युक्तं मत्वा आह-
तथापीति ।

चतु­र्भु­जा­दि­रू­प­नि­वृ­त्त्य­र्थ­माह-
एेश्वरमिति ।
तत् व्याचष्टे ज्ञानेत्यादिना ॥ ३ ॥

द्रष्टुं अयोग्ये कुतो दिदृक्षा इत्याशङ्क्य आह-
मन्यसे इति ।
प्रभवति सृष्टि­स्थि­ति­सं­हा­र­प्र­वे­श­प्र­शा­स­नेभ्यः इति प्रभुः ।

लक्षणया योगशब्दार्थमाह-
योगिन इति ।

ततः इत्यादि व्याचष्टे-
यस्मादिति
॥ ४ ॥

अर्जुनं अतिभक्तं सखायं प्रार्थि­त­प्र­ति­श्र­व­णेन आश्वासयितुमाह-
एवमिति
॥ ५ ॥

दिव्यानि रूपाणि पश्य इत्युक्तम् । तान्येव लेशतः अनुक्रामति-
पश्यादित्यान् इति ।
तान् मरुतः तथा पश्य इति सम्बन्धः ।

नानाविधानि इत्युक्तम् , तदेव स्फुटयति-
बहूनि इति ।

अदृष्टपूर्वाणि - पूर्व अदृष्टानि । नानावर्णाकृतीनि इत्युक्तम् व्यनक्ति-
आश्चर्याणि इति
॥ ६ ॥

न केवलं आदि­त्य­व­स्वा­द्येव मद्रूपं त्वया द्रष्टुं शक्यम् , किन्तु समस्तं जगदपि मद्देहस्थं द्र्ष्टुं इच्छसि इत्याह -
नेत्यादिना ।
सप्तमीद्वयं मिथः सम्बध्यते । समासान्तर्गतापि सप्तमी -तत्रैवान्विता ।यदि इच्छसि तर्हि इहैव पश्य इति सम्बन्धः
॥ ७ ॥

मन्यसे यदि इत्युक्तं अनुवदति-
किन्तु इति ।

सप्रपञ्चं अनवच्छिन्नं मां स्वचक्षुषा न शक्नोषि द्रष्टुं इत्याह-
न तु इति ।

कथं तर्हि त्वां द्रष्टुं शक्नुयाम् इत्याशङ्क्य आह-
येनेति ।

दिव्यस्य चक्षुषः वक्ष्य­मा­ण­यो­ग­श­क्त्य­नि­श­य­द­र्शने विनियोगं दर्शयति-
तेनेति
॥ ८ ॥

इमं वृत्तान्तं धृतराष्ट्राय सञ्जयो निवेदितवात् इत्याह-
सञ्जय इति ।
मदीयं विश्वरूपाख्यं रूपं न प्राकृतेन चक्षुषा निरीक्षितुं क्षमम् । किन्तु दिव्येन इत्यादि यथोक्तप्रकारः । अनन्तरं - दिव्यचक्षुषः प्रदानात् इति शेषः । हरति अविद्यां सकार्यां इति हरिः ।

यत् ईश्वरस्य मायोपहितस्य परमम् उत्कृष्टं रूपम् तत् दर्शयाम्बभूव इत्याह-
परमम् इति
॥ ९ ॥

तदेव रूपं विशिनाष्टि-
अनेकेति ।
दिव्यानि आभरणादीनि - हारकेयूरादीनि भूषणानि, उद्यतानि - उच्छ्रितानि
॥ १० ॥

उक्तरूपवन्तं भगवन्तं प्रकारान्तरेण विशिनष्टि-
किञ्चेति ।
“अर्जुन इति“ अध्याहारेऽपि पद­स­ङ्घ­ट­ना­स­म्भ­वात्
॥ ११ ॥

ननु प्रकृष्टस्य भगवतो रूपस्य दीप्तिः अस्ति ? न वा ? न चेत् काष्ठादिसाम्यम् ; यदि अस्ति, कीदृशी सा ? इति आशङ्क्य, आह-
या पुनरिति ।
सा यदि स्यात् , तद्भासः सदृशी सा, इति योजना । अस­म्भा­वि­ता­भ्यु­प­ग­मार्थो यदिशब्दः । स्याच्छब्दो निश्चयार्थः ।

सा कथञ्चित् सदृशी सम्भवति, न तु भवत्येव, इति विवक्षित्वा आह-
यदि वेति
॥ १२ ॥

न केवलम् उक्तमेव अर्जुनो दृष्टवान् ; किन्तु, तत्रैव - विश्वरूपे सर्वं जगत् , एकस्मिन् अवस्थितम् अनुभूतवान् , इत्याह-
किञ्चेति ।
तदा - विश्वरूपस्य भगवद्रूपस्य दर्शनदशायाम् , इत्यर्थः
॥ १३ ॥

विश्वरूपधरस्य भगवतः, तस्मिन् एकोभूतजगतश्च उक्तविशेषणस्य दर्शनानन्तरं किम् अकरोत् ? इत्यपेक्षायाम् आह-
तत इति ।
आश्च­र्य­बु­द्धि­र्वि­स्मयः, रोम्णां हृष्टत्वं पुलकितत्त्वं, प्रकर्षो भक्ति­श्र­द्ध­यो­र­ति­शयः
॥ १४ ॥

कथं भगवन्तं प्रति अर्जुनो भाषितवान् ? इति पृच्छति-
कथमिति ।

तत्प्रश्नम् अपेक्षितं पूरयन् अवतारयति-
यत् त्वयेति ।

भूतविशेषसङ्घेषु देवानाम् अन्तर्भावेऽपि पृथक् करणम् उत्कर्षात् । ब्रह्मणः सर्व­दे­व­ता­त्म­त्वेऽपि तेभ्यो भेदकथनं तदुत्पादकत्वात् , इति मत्वा आह-
किञ्चेति ।
ऋषीणाम् उरगाणां च किञ्चित् वैषम्यात् पृथक्त्वम् । दिव्यान् इति उभयेषां विशेषणम्
॥ १५ ॥

यत्र भगवद्देहे सर्वम् इदं दृष्टम् , तमेव विशिनष्टि-
अनेकेति ।

आदिशब्देन मूलम् उच्यते । नान्तं न मध्यम् इत्यत्रापि पश्यामि इत्यस्य प्रत्येकं सम्बन्धं सूचयति-
नान्तं पश्यामि इति
॥ १६ ॥

विश्वरूपवन्तं भगवन्तम् एव प्रकारान्तरेण प्रपञ्चयति-
किञ्चेति ।

परिच्छिन्नत्वं व्यावर्तयति-
सर्वत इति ।

दुर्निरीक्ष्यं पश्यामि - इति अधिकारिभेदान् अविरुद्धम् । पुरतो वा पृष्ठतो वा पार्श्वतो वा न अस्य दर्शनम् , किन्तु सर्वत्र, इत्याह-
समन्तत इति ।

दीप्तिमत्वं दृष्टान्तेन स्पष्टयति-
दीप्तेति
॥ १७ ॥

सप्रपञ्चे भगवद्रूपे प्रकृते, प्रकरणविरुद्धं त्वम् अक्षरम् इत्यादि निरुपाधिकवचनम् , इत्याशङ्क्य, आह-
इत एवेति ।
योगशक्तिः - ऐश्वर्यातिशयः । न क्षरति इति निष्प्र­प­ञ्च­त्वम् उच्यते । पर­म­पु­रु­षा­र्थ­त्वात् परमार्थत्वाच्च ज्ञातव्यत्वम् । यस्मिन् द्यौः पृथिवी इत्यादौ प्रप­ञ्चा­य­त­न­स्यैव ततो निकृष्टस्य ज्ञात­व्य­त्व­श्र­व­णात् ।

कुतो ब्रह्मणो ज्ञातव्यत्वम् ? तत्र आह-
त्वमस्य इति ।

निष्प्रपञ्चस्य ब्रह्मणो ज्ञेयत्वे हेत्वन्तरम् आह-
किञ्चेति ।
अविनाशित्वात् , तवैव ज्ञातव्यत्वात् अतिरिक्तस्य नाशित्वेन हेयत्वात् , इत्यर्थः । ज्ञानकर्मात्मनो धर्मस्य नित्यत्वम् - वेदप्रमाणकत्वम् । ‘धर्म­सं­स्था­प­ना­र्थाय सम्भवामि’(भ. गी. ४-८) इत्युक्तत्वात् गोप्ता - रक्षिता
॥ १८ ॥

भगवतो विश्वरूपाख्यं रूपमेव पुनर्विवृणोति-
किञ्चेति ।
हुतम् अश्नाति इति हुताशः - वह्निः
॥ १९ ॥

प्रकृ­त­भ­ग­व­द्रू­पस्य व्याप्तिं व्यनक्ति-
द्यावा­पृ­थि­व्यो­रिति ।

तस्यैव भयङ्करत्वम् आचष्टे -
दृष्ट्वेति
॥ २० ॥

अमी हीत्या­दि­स­म­न­न्त­र­ग्र­न्थस्य तात्पर्यम् आह-
अथेति ।

तं भगवन्तं पाण्डवजयम् ऐकान्तिकं दर्शयन्तं पश्यन् अर्जुनो ब्रवीति, इत्याह-
तं पश्यन् इति ।

विश्वरूपस्यैव प्रपञ्चनार्थम् अन­न्त­र­ग्र­न्थ­जा­तम् , इति दर्शयति-
किञ्चेति ।

असुरसङ्घाः इति पदञ्छित्वा भूभारभूता दुर्योधनादयः त्वां विशन्ति इत्यपि वक्तव्यम् । उभयोरपि सेनयोः अवस्थितेषु योद्धुकामेषु अवान्तरविशेषम् आह-
तत्रेति ।

समरभूमौ समागतानां द्रष्टुकामानां नारदप्रभृतीनां विश्वविनाशम् आशङ्कमानानां तं परिजिहीर्षतां स्तुतिपदेषु भगवद्विषयेषु प्रवृ­त्ति­प्र­कारं दर्शयति-
युद्धे इति
॥ २१ ॥

दृश्यमानस्य भगवद्रूपस्य विस्मयकरत्वे हेत्वन्तरम् आह-
किञ्चेति ।
ते एव - उक्ताः रुद्रादयः सर्वे विस्मयम् आपन्नाः त्वां पश्यन्ति - इति सम्बन्धः
॥ २२ ॥

लोकत्रयं प्रव्यथितम् , इत्युक्तम् उपसंहरति-
यस्मादिति ।
ईदृशं यस्मात् ते रूपम् , तस्मात् तं दृष्ट्वा - इति योजना ।

भयेन लौकिकवत् अहमपि व्यथितः - व्यथाम् पीडाम् देहे­न्द्रि­य­प्र­च­ल­नम् प्राप्तोऽस्मि, इत्याह-
तथेति
॥ २३ ॥

अर्जुनस्य विश्व­रू­प­द­र्श­नेेन व्यथितत्वे हेतुम् आह -
तत्रेति
॥ २४ ॥

दृश्यमानेऽपि भगवद्देहे, परितोषाद्यभावे कारणान्तरं प्रश्नपूर्वकम् आह-
कस्मादिति ।
दृष्ट्वैव - इति एवकारेण प्राप्तिः व्याव­र्त्य­ते­दृ­ष्ट्वैव इति एवकारेण प्राप्तिः व्यावर्त्यते
॥ २५ ॥

अस्माकं जयं परेषां पराजयं च (दिदृक्षन्तं) दिदृक्षुं त्वां पश्यामि इत्याह-
येभ्य इति ।

तत्र हेतुत्वेन श्लोकम् अवतारयति-
यत इति ।

न केवलं दुर्यो­द­ना­दी­ना­मेव पराजयः, किं तु भीष्मादीनामपि, इत्याह-
किं चेति
॥ २६ ॥

भगवद्रूपस्य उग्रत्वे हेत्वन्तरम् आह-
किञ्चेति ।
प्रविष्टानां मध्ये केचित् - इति सम्बन्धः
॥ २७ ॥

उभयोरपि सेनयोः अवस्थितानां राज्ञां भगवन्मुखप्रवेशं निदर्शनेन विशदयति-
कथमित्यादिना
॥ २८ ॥

प्रवेशप्रयोजनम् , तत्प्र­का­र­वि­शे­षञ्च उदाहरणान्तरेण स्फोटयति-
ते किमर्थम् इत्यादिना
॥ २९ ॥

योद्धुकामानां राज्ञां भग­व­न्मु­ख­प्र­वे­श­प्र­कारं प्रदर्श्य तस्यां दशायां भगवतः, तद्भासां च प्रवृ­त्ति­प्र­कारं प्रत्याययति-
त्वं पुनरिति ।

भग­व­त्प्र­वृ­त्ति­मेव प्रत्याय्य, तदीयभासां प्रवृत्तिं प्रकटयति-
किञ्चेति
॥ ३० ॥

भगवद्रूपस्य अर्जुनेन दृष्ट­पू­र्व­त्वात् तस्य तस्मिन् न जिज्ञासा, इत्याशङ्क्य, आह-
यत इति ।

उपदेशं शुश्रूषमाणेन उपदेशकर्तुः प्रह्वीभवनं कर्तव्यम् , इति सूचयति-
नमोऽस्त्विति ।

क्रौर्यत्यागम् अर्थयते -
प्रसादमिति ।

त्वमेव मां जानीषे, किमर्थम् इत्थम् इदानीम् अर्थयसे ? मदीयां चेष्टां दृष्ट्वा तथैव प्रतिपद्यस्व, इत्याशङ्क्य आह-
न हीति
॥ ३१ ॥

स्वयं यदर्था च स्वप्रवृत्तिः, तत्सर्वं भगवान् उक्तवान् , इत्याह-
श्री भगवानिति ।

कालः - क्रिया­श­क्त्यु­प­हितः परमेश्वरः, अस्मिन् इति वर्त­मा­न­यु­द्धो­प­ल­क्षि­तत्वं कालस्य विवक्षितम् - लोकसंहारार्थं त्वत्प्र­वृ­त्ता­वपि न असौ अर्थवती, प्रतिपक्षाणां भीष्मादीनां मत्प्रवृत्तिं विना संहर्तुम् अशक्यत्वात् , इत्याशङ्क्य, आह-
ऋतेऽपीति
॥ ३२ ॥

तव अौदासीन्येऽपि प्रति­कू­ला­नी­कस्थाः मत्प्रा­ति­कू­ल्या­देव न भविष्यन्ति, इत्येवं यस्मान् निश्चितम् , तस्मात् त्वदौदासीन्यम् अकिञ्चित्करम् , इत्याह-
यस्मादिति ।
उत्तिष्ठ - युद्धाय उन्मुखी भव, इत्यर्थः ।

यशोलाभम् अभिनयति-
भीष्मेति ।

किं तेन अपुमर्थेन ? इति आशङ्क्य आह-
पुण्यैरिति ।

राज्यभोेगे अपेक्षिते, किम् अनपेक्षितेन ? इत्याशङ्क्य आह-
जित्वेति ।

भीष्मादिषु अतिरथेषु सत्सु, कुतो जयाशङ्का ? इति आशङ्क्य आह-
मयैवैते इति ।

तर्हि मृतमारणार्थं न मे प्रवृत्तिः, तत्र आह-
निमित्तेति ।

सव्यसाचीपदं विभजते-
वामेनेति
॥ ३३ ॥

‘मया एव’ इत्यादिना उक्तम् प्रपञ्चयति-
द्रोणं चेति ।

किमिति कतिचिदेव अत्र द्रोणादयो गण्यन्ते ? तत्र आह-
येष्विति ।

द्रोणादिषु कुतः शङ्का ? इत्याशङ्क्य, द्वयोः शङ्कानिमित्तम् आह-
तत्रेत्यादिना ।

जयद्रथेऽपि शङ्कानिमित्तम् आह-
तथेति ।
दिव्या­स्त्र­स­म्पन्नः इति सम्बन्धः ।

तत्र शङ्कायां कारणान्तरम् आह-
यस्येति ।

कर्णेऽपि तत्कारणत्वं कथयति-
कर्णेऽपीति ।
पूर्ववदेव सम्बन्धः ।

हेत्वन्तरम् आह-
वासवेति ।

सा खलु अमोघा पुरुषम् एकम् अत्यन्तसमर्थं घातयित्वैव निवर्तते । जन्मनापि तस्य शङ्कनीयत्वम् आह-
सूर्येति ।

कुन्ती हि कन्यावस्थायां मन्त्रप्रभावं ज्ञातुम् आदित्यम् आजुहाव । ततः तस्यामेव अवस्थायाम् अयम् उद् - बभूव, तदाह-
कानीन इति ।

एतदेव अभिप्रेत्य कर्णग्रहणम् इत्याह-
यत इति ।

उक्तेषु अन्युेषु च न त्वया शङ्कितव्यम् , इत्याह-
मयेति
॥ ३४ ॥

पराजयभयात् करिष्यति सन्धिम् , इति बुद्ध्या सञ्जयो राज्ञे वृत्तान्तम् उक्तवान् , इत्याह-
सञ्जय इति ।
पूर्वोक्तवचनम् - कालोऽस्मि, इत्यादि ।

विश्व­रू­प­द­र्श­न­द­शा­याम् अर्जुनस्य भगवता संवादवचनं किमिति सञ्जयो राज्ञे व्यजिज्ञपत् इति आशङ्क्य, तदुक्तेः तात्पर्यम् आह-
अत्रेति ।

तमेव अभिप्रायं प्रश्नद्वारा विशदयति-
कथम् इत्यादिना ।

तर्हि सञ्जयवचनं श्रुत्वा, किमिति राजा सन्धिं न कारयामास ? इति आह-
तदपीति
॥ ३५ ॥

किं तत् अर्जुनो भगवन्तं प्रति सगद्गदं वचनम् उक्तवान् ? इति, तदाह-
अर्जुन इति ।

विषयविशेषणत्वम् एव व्यनक्ति-
युक्त इति ।

भगवतो हर्षादिविषयत्वं युक्तम् इत्यत्र हेतुम् आह-
यत इति ।

तव प्रकीर्त्या हर्षवत् अनुरागं च गच्छति जगत् , इत्याह-
तथेति ।
तच्चेति अनुरागगमनम् ।

रक्षःसु जगदेकदेशभूतेषु प्रतिपक्षेषु, कुतो जगतो भवति हर्षानुरागौ, इत्याशङ्क्य, आह-
किं चेति ।

इतश्च जगतो भगवति हर्षादि युक्तम् , इत्याह-
सर्व इति
॥ ३६ ॥

उक्ते अर्थे हेत्वर्थत्वेन उत्तरश्लोकम् अवतारयति-
भगवत इति ।

महात्मत्वम् - अक्षु­द्र­चे­त­स्त्वम् । गुरुतरत्वात् नम­स्का­रा­दि­यो­ग्य­त्वम् आह-
गुरुतरायेति ।

तत्रैव हेत्वन्तरम् आह-
यत इति ।

महा­त्म­त्वा­दि­हे­तूनांं मुक्तानां फलम् आह-
अत इति ।

तत्रैव हेत्वन्तराणि सूचयति-
हे अनन्तेति ।
अनवच्छिन्नत्वं, सर्व­दे­व­नि­य­न्तृत्वं, सर्व­ज­ग­दा­श्र­यत्वं च तव नम­स्का­रा­दि­यो­ग्यत्वे कारणम् , इत्यर्थः ।

तत्रैव हेत्वन्तरम् आह-
त्वमिति ।

तत्र मानम् आह-
यदिति ।

कथम् एकस्यैव सदसद्रूपत्वम् ? तत्र आह-
ते इति ।

कथं सतोऽसतश्च अक्षरं प्रति उपाधित्वम् ? तदाह-
यद्द्वारेणेति ।

तत्परं यदित्येतत् व्याचष्टे-
पर­मा­र्थ­त­स्त्विति ।
अनन्तत्वादिना भगवतो नम­स्का­रा­दि­यो­ग्य­त्वम् उक्तम्
॥ ३७ ॥

सम्प्रति जग­त्स्र­ष्टृ­त्वा­दि­नापि तद्योग्यत्वम् अस्ति, इति स्तुतिद्वारा दर्शयति-
पुनरपीति ।

जगतः स्रष्टा पुरुषो हिरण्यगर्भः, इति पक्षं प्रत्याह-
पुराण इति ।

स्रष्टृत्वं निमित्तमेव, इति तट­स्थे­श्व­र­वा­दिनः । तान्प्रति उक्तम्-
त्वमेवेति ।
महाप्रलयादौ इति आदिपदम् अवा­न्त­र­प्र­ल­या­र्थम् ।

ईश्वरस्य उभयथा कारणत्वं सर्वज्ञत्वेन साधयति-
किञ्चेति ।

वेद्य­वे­दि­तृ­भा­वेन अद्वै­ता­नु­प­प­त्तिम् आशङ्क्य आह-
यच्चेति ।

मुक्त्या­ल­म्ब­नस्य ब्रह्म­णोऽ­र्था­न्त­र­त्वम् आशङ्कित्वा उक्तम्-
परं चेति ।
यत् परमं पदं, तदपि च त्वमेव, इति सम्बन्धः ।

तस्य पूर्णत्वम् आह-
त्वयेति ।

व्याप्य­व्या­प­क­त्वेन भेदं शङ्कित्वा, कल्पितत्वात् तस्य मैवम् , इत्याह-
अनन्तेति
॥ ३८ ॥

तस्य सर्वात्मत्वे हेत्वन्तरम् आह-
किं चेति ।
कश्यपादिः इति आदिशब्देन विरड्दक्षादयो गृह्यन्ते ।

पितामहः - ब्रह्मा, तस्य पिता सूत्रात्मा अन्तर्यामी च, इत्याह-
ब्रह्मणोऽपीति ।

सर्वदेवताः त्वमेव इत्युक्ते फलितम् आह-
नम इति ।

सहस्रकृत्वः इति कृत्वसुचो विवक्षितम् अर्थम् आह-
बहुश इति ।

पुन­रु­क्ति­ता­त्प­र्यम् आह-
पुनश्चेति ।
श्रद्धाभक्त्योः अतिशयात् कृतेऽपि नमस्कारे परितोषाभावो बुद्धेः - आत्मनो अलं­प्र­त्य­य­रा­हित्यं, तद्दर्शनार्थं पुनरुक्तिः इत्यर्थः
॥ ३९ ॥

विधान्तरेण भगवन्तं स्तुत्या नमस्कुर्वन् अभिमुखीकरोति-
तथेति ।

यस्यां दिशि सविता उदेति, सा पूर्वा दिक् उच्यते । तस्यां व्यवस्थितम् सर्वं त्वमेव । तस्मै ते - तुभ्यं नमो अस्तु, इत्याह-
नम इति ।
अथशब्दः समुच्चये ।

पश्चादपि स्थितं सर्वं त्वमेव । तस्मै ते - तुभ्यं नमो अस्तु इत्याह-
अथेति ।

किं बहुना ? यावन्त्यो दिशः, तत्र सर्वत्र यत् वर्तते तत् अशेषं त्वमेव । तस्मै तुभ्यं प्रह्वीभावः स्यात् इति आह-
नमोऽस्त्विति ।

फलितं सर्वात्मत्वं सूचयति-
हे सर्वेति ।

वीर्यविक्रमयोः न पौनरुक्त्यम् , इत्याह-
वीर्यमित्यादिना ।

वीर्यवतो विक्र­मा­व्य­भि­चा­रात् अर्थ­पौ­न­रु­क्त्यम् आशङ्क्य, आह-
वीर्यवानिति ।

भगवति लोकतो विशेषम् आह-
त्वं त्विति ।

उक्तं सर्वात्मत्वं प्रपञ्चयति-
सर्वमिति ।

सप्रपञ्चत्वं वारयति-
त्वयेति
॥ ४० ॥

अज्ञाननिमित्तम् अपराधं क्षमापयति-
यत इति ।

इदंशब्दार्थम् आह-
विश्वरूपमिति ।

न हि इदमित्यस्य महिमानमित्यस्य च सामानाधिकरण्यम् , लिङ्गव्यत्ययात् , इत्याह-
तवेति ।

पाठा­न्त­र­स­म्भा­व­नायां सामा­ना­धि­क­र­ण्यो­प­प­त्तिम् आह-
तवेत्यादिना ।
‘यदुक्तवान् अस्मि, तद् अहं क्षामये त्वाम् ‘ इति सम्बन्धः
॥ ४१ ॥

यत् अयुक्तम् उक्तम् , तत् क्षन्तव्यम् इत्येव न, किन्तु यत् परिहासार्थं क्रीडादिषु त्वयि तिरस्करणं कृतम् , तदपि सोढव्यम् , इत्याह-
यच्चेति ।
विहरणम् - क्रीडा, व्यायामोवा । शयनम् - तल्पादिकम् । आसनम् - आस्थायिका, सिंहासनादेः उपलक्षणम् । एतेषु विषयभूतेषु, इति यावत् ।

एकशब्दो रहसि स्थितम् एकाकिनं कथयति, इत्याह-
परोक्षः सन् इति ।

प्रत्यक्षम् , परोक्षं वा तदसत्करणं - परिभवनं यथा स्यात् तथा, यत् मया त्वम् असत्कृतोऽसि, तत् सर्वमिति योजनम् अङ्गीकृत्य, आह-
तच्छब्द इति ।

क्षमा कारयितव्या, इत्यत्र अपरिमितत्वं हेतुम् आह-
अप्रमेयमिति
॥ ४२ ॥

वाचनिकं मदीयम् अपराधजातं त्वया क्षन्तव्यम् इत्युक्तम् ; इदानीं मदीयो योऽपराधो न त्वया गृहीतव्यः, गृहीतोऽपि सोढव्यः, इत्याह-
यत इति ।

गुणाधिक्यात् पूजार्हत्वम् । धर्मा­त्म­ज्ञा­न­स­म्प्र­दा­य­प्र­व­र्त­क­त्वेन शिक्षयितृत्वात् गुरुत्वम् । गुरूणामपि - सूत्रादीनां गुरुत्वात् गरीयस्त्वम् । तदेव प्रश्नद्वारा साधयति-
कस्मादिति ।

ईश्वरान्तरं तुल्यं भविष्यति इत्याशङ्क्य, आह-
न हीति ।
ईश्वरभेदे प्रत्येकं स्वातन्त्र्यात् तदैकमत्ये हेत्वभावात् , नानामतित्वे च एकस्य सिसृक्षायाम् अन्यस्य सञ्जि­ही­र्षा­स­म्भ­वात् व्यवहारलोपात् अयुक्तम् ईश्वरनानात्वम् इत्यर्थः ।

अभ्यधिकासत्वं कैमुतिकन्यायेन दर्शयति-
त्वत्सम इति ।

तत्र हेतुम् अवतार्य, व्याकरोति-
अप्र­ति­मे­त्या­दिना
॥ ४३ ॥

निरतिशयप्रभावं हेतूकृत्य अप्र­ति­मे­त्या­दिना, प्रसादये प्रणामपूर्वकं त्वाम् , इत्याह -
यत इति ।

प्रसादनानन्तरं भगवता कर्तव्यं प्रार्थयते-
त्वं पुनरिति ।
प्रिय इव प्रियायाः, इति इवकारोऽनुषज्यते । ‘ प्रियायार्हसि’ इति छान्दसः सन्धिः । क्षन्तुं मदपराधजातम् , इति शेषः
॥ ४४ ॥

हेतूक्तिपूर्वकं विश्व­रू­पो­प­सं­हारं प्रार्थयते-
अदृष्टेति ।
हृषितः - हृष्टः, तुष्टः - इति यावत् । भयेन - तद्दे­तु­वि­कृ­त­द­र्श­नेन, इत्यर्थः ।
॥ ४५ ॥

तदेव दर्शय इत्युक्तम् । किं तत् इत्यापेक्षायाम् आह-
किरीटिनमिति ।

चक्रं हस्ते यस्य, तम् - इति व्युत्पत्तिं गृहीत्वा, आह-
चक्रेति ।

मदीयेच्छा फलपर्यन्ता कर्तव्या, इ्त्याह-
यत इति ।

चतुर्भुजत्वे कथं सहस्रबाहुत्वम् ? तत्र आह-
वार्तमानिकेनेति ।

सति विश्वरूपे, कथं पूर्व­रू­प­भा­क्त्वम् ? तत्र आह-
उपसंहृत्येति
॥ ४६ ॥

अर्जुनेन ‘स्थाने हृषीकेश’(भ. गी. ११-३६) इत्यादिना उक्तस्य भगवतो वचनम् अवतारयति-
अर्जुनमिति ।

भग­व­त्प्र­सा­दै­को­पा­य­लभ्यं तद्दर्शनम् , इत्याशयेन आह-
मयेति
॥ ४७ ॥

तच्छब्देन प्रकृतं दर्शनं परामृश्यते । वेदाध्ययनात् पृथक् यज्ञा­ध्य­य­न­ग्र­हणं पुनरुक्तेः अयुक्तम् , इत्याशङ्क्य, आह-
न वेदेति ।
न च - वेदा­ध्य­य­न­ग्र­ह­णा­देव यज्ञविज्ञानमपि गृहीतम् , अध्ययनस्य अर्था­व­बो­धा­न्त­त्वात् - इति वाच्यम् ; तस्य अक्ष­र­ग्र­ह­णा­न्त­तया वृद्धैः साधितत्वात् , इति भावः । श्लोकपूरणार्थम् असंहितकरणम् । त्वत्तोऽन्येन, मदनुग्रहविहीनेन इति शेषः
॥ ४८ ॥

विश्वरूपदर्शनम् एवं स्तुत्वा, यदि अस्मात् दृश्यमानात् बिभेषि, तर्हि तदुपसंहरामि, इत्याह-
मा ते व्यथेति ।
बहुविधम् अनुभूतत्वम् अभिप्रेत्य ईदृक् , इत्युक्तम् इदमिति प्रत्य­क्ष­यो­ग्य­त्वम् । तदेव इत्युक्तम् इदमिति
॥ ४९ ॥

तदिदं वृत्तं राज्ञे सूतो निवेदितवान् , इत्याह-
सञ्जय इति ।
तथाभूतं वचनं - “ मया प्रसन्नेन “ इत्यादि । चतुर्भुजं रूपम् ।

किं, तस्य रूपस्य परिचितपूर्वस्य प्रदर्शनेन प्रसन्नदेहत्वेन च अर्जुनं प्रति आश्वासनं भगवतो युक्तम् इत्यत्र हेतुम् आह-
महात्मेति ।
॥ ५० ॥

एवं भगवदाश्वासितः सन् अर्जुनः तं प्रति उक्तवान् , इत्याह-
अर्जुन इति
॥ ५१ ॥

उपास्यत्वाय विश्वरूपं स्तोतुं भगवदुक्तिम् उत्थापयति-
भगवानिति ।

त्वद् - व्यतिरिक्तानाम् इदं रूपं द्रष्टुम् अशक्यम् इत्येतत् विशदयति-
देवादयः इति
॥ ५२ ॥

दर्श­नो­पा­या­भा­वात् दुर्दर्शत्वम् इति शङ्क्यते-
कस्मादिति ।

वेदादिषु उपायेषु सत्स्वपि भगवान् उक्तरूपो न शक्यो द्रष्टुम् इत्याह-
नाहमिति ।

तर्हि दर्श­ना­यो­ग्य­त्वात् द्रष्टुम् अशक्यत्वम् इत्याशङ्क्य आह-
दृष्टवान् इति
॥ ५३ ॥

केन उपायेन तर्हि द्रष्टुं शक्यो भगवान् ? इति पृच्छति-
कथमिति ।

शास्त्री­य­ज्ञा­न­द्वारा तद्दर्शनं सफलं सिध्यति, इत्याह-
उच्यत इति ।

न भक्तिमात्रं तत्र हेतुः, इति तुशब्दार्थं स्फुटयति-
किमित्यादिना ।

अनन्यां भक्तिमेव व्यनक्ति-
सर्वैरिति
॥ ५४ ॥

भक्त्या तु इति विशेषणात् अन्येषाम् अहेतुत्वम् आशङ्क्य आह-
अधुनेति ।
समुच्चित्य - सङ्क्षिप्य, पुञ्जीकृत्य इति यावत् ।

मत्क­र्म­कृ­दि­त्युक्ते, मत्परमत्वम् आर्थिकमिति पुनरुक्तिः, इत्याशङ्क्य आह-
करोतीति ।

भगवानेव परमा गतिः इति निश्चयवतः तत्रैव निष्ठा सिध्यति, इत्याह-
तथेति ।

न तत्रैव सर्वप्रकारैः भजनम् , धना­दि­स्ने­हा­कृ­ष्ट­त्वात् , इत्याशङ्क्य आह-
सङ्गेति ।

द्वेष­पू­र्व­का­नि­ष्टा­च­रणं वैरम् , अनपकारिषु तदभावेऽपि भवत्येव अपकारिषु इति शङ्कित्वा आह-
आत्मन इति ।

एतच्च सर्वं सङ्क्षिप्य अनुष्ठानार्थम् उक्तम् । एवम् अनुतिष्ठतो भगवत्प्राप्तिः अवश्यं भाविनी, इत्युपसंहरति-
अयमिति ।
तदेवं भगवतो विश्वरूपस्य सर्वात्मनः सर्वज्ञस्य सर्वेश्वरस्य मत्क­र्म­कृ­दि­त्या­दि­न्या­येन क्रममुक्तिफलम् अभिध्यानम् अभिवदता तत्प­द­वा­च्योऽर्थो व्यवस्थापितः
॥ ५५ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विरचिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने एकादशोऽध्यायः ॥ ११ ॥