अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

द्वादशोऽध्यायः

अशोच्यान् इत्यादिषु विभू­त्य­ध्या­या­व­सा­नेषु अध्यायेषु निरुपाधिकस्य ब्रह्मणो ज्ञेयत्वेन अनुसन्धानम् उक्तम् इति, वृत्तं कीर्तयति -
द्वितीयेति ।

अतिक्रान्तेषु तत्तदध्यायेषु सोपाधिकस्यापि ब्रह्मणो ध्येयत्वेन प्रतिपादनम् कृतम् इत्याह -
सर्वेति ।
सर्वस्यापि प्रपञ्चस्य योगः - घटना जन्म­स्थि­ति­भ­ङ्ग­प्र­वे­श­नि­य­म­नाख्या, तत्र ऐश्वर्यम् - सामर्थ्यम् , तेन सर्वत्र ज्ञेये प्रति­ब­न्ध­वि­धु­रया ज्ञानशक्त्या विशिष्टस्य सत्वा­द्यु­प­हि­तस्य भगवतो ध्यानम् तत्र तत्र पसङ्गमापाद्य, मन्दमध्यमयोः अनुग्रहार्थम् उक्तम् , इत्यर्थः ।

एकादशे वृत्तम् अनुवदति -
विश्वरूपेति ।

अध्यायान्ते भगवदुपदेशम् अनुवदति -
तच्चेति ।

अती­ता­न­न्त­र­श्लो­केन उक्तम् अर्थं परामृशति -
मत्कर्मकृदिति ।

यथाधिकारं तारतम्योपेतानि साधनानि नियन्तुम् अध्यायान्तरम् अवतारयन् आदौ प्रश्नम् उत्थापयति -
अत इति ।
सोपाधिकध्यानस्य निरु­पा­धि­क­ज्ञा­नस्य च उक्तत्वात् इत्यर्थः ।

एवं शब्दार्थम् उक्त्वा तम् अनूद्य सततयुक्ताः इति भागं विभजते-
एवमिति ।

ये भक्ताः इति अनूद्य व्याचष्टे-
अनन्येति ।

मन्द­म­ध्य­मा­धि­का­रिणः सगुणशरणान् उक्त्वा निर्गुणनिष्ठान् उत्तमाधिकारिणो निर्दिशति -
ये चेति ।
यथा विशेषितम् - अनिर्देश्यम् सर्वत्रगम् अचिन्त्यम् कूटस्थम् इत्या­दि­व­क्ष्य­मा­ण­वि­शे­ष­ण­वि­शि­ष्टम् , इत्यर्थः ।

न क्षरति, अश्नुते वा, इति अक्षरम् अव्यक्तम् इत्येतत् व्याचष्टे -
निरस्तेति ।

करणागोचरत्वं व्यतिरेकद्वारा स्फोरयति -
यद्धीति ।

यथाविशेषितम् इत्युक्तं स्पष्टयति -
शिष्टैश्चेति ।

पूर्वा­र्ध­ग­त­क्रि­या­प­दस्य अनुषङ्गम् सूचयति -
तदिति ।

सर्वे तावत् एते योगम् - समाधिम् विन्दन्ति, इति योगविदः । के पुनः अतिशयेन एषां मध्ये योगविदो योगिनः? इति पृच्छति -
के अतिशयेनेति
॥ १ ॥

किम् अनयोः योगयोर्मध्ये सुशक्यो योगो वा पृच्छ्यते? किं वा साक्षात् मोक्षहेतुः? इति विकल्प्य क्रमेण उत्तरं भगवान् उक्तवान् इत्याह -
श्रीभगवानिति ।

यदि द्वितीयाः, तथाविधयोगस्य वक्ष्यमाणत्वात् न प्रष्टव्यता, इत्याह-
ये त्वक्षरेति ।

यदि आद्यः, तत्र आह -
ये त्विति ।
सर्व­यो­गे­श्व­राणां - सर्वेपां योगम् अधितिष्ठतां योगिनाम् , इत्यर्थः ।

विमुक्ता - त्यक्ता रागाद्याख्या क्लेश­नि­मि­त्त­भूता तिमि­र­श­ब्दि­ता­ना­द्य­ज्ञा­न­कृता दृष्टिः अविद्या मिथ्याधीः यस्य, तम् , इति विशिनष्टि -
विमुक्तेति ।

नित्ययुक्तत्वं माधयति -
अतीतेति ।
तत्र उक्तो योऽर्थः ‘मत्कर्मकृदि’ त्यादि, तस्मिन् निश्चयेन अयनम् - आयः, गमनम् , तस्य नियमेन अनुष्ठानम् , तेन, इत्यर्थः । उपासते - मयि स्मृतिं सदा कुर्वन्ति इत्यर्थः ।

उक्तोपासकानां युक्ततमत्वं व्यनक्ति -
नैरन्तर्येणेति ।

तदेव स्फुटयति -
अहोरात्रमिति ।
अह्नि च - रात्रौ च अतिमात्रम् - अतिशयेन मामेव विष­या­न्त­र­वि­मुक्ताः चिन्तयन्ति, इत्यर्थः
॥ २ ॥

वक्ष्यामः तदुपरिष्टात् - इत्युक्तं प्रश्नपूर्वकं प्रकटयति -
किमित्यादिना ।
पूर्वेभ्यः फलतो विशेषार्थः तुशब्दः ।

अव्यक्तत्वम् अनिर्देश्यत्वे हेतुः, इत्याह -
अव्यक्तत्वादिति ।
यतोऽव्यक्तम् , अतः अनिर्देश्यम् , इति योजना ।

निरु­पा­धि­केऽ­क्षरे कथम् उपासना? इति पृच्छति -
उपासनमिति ।

शास्रतोऽक्षरं ज्ञात्वा, तदुपेत्य, आत्मत्वेन उपगम्य, आसते तथैव तिष्ठन्ति - पूर्णचिदेकतानम् अक्षरम् आत्मनामेव सदा भावयन्ति, इत्येतत् इह विवक्षितम् , इत्याह -
यथेति ।

अव्यक्तत्वम् एव अचिन्त्यत्वेऽपि हेतुः, इत्याह -
यद्धि इति ।

कूटस्थशब्दस्य उक्तार्थत्वं वृद्धप्रयोगतः साधयति -
कूटरूपमिति ।

आदिपदम् अनृतार्थम् । प्रकृते किं तद् अनृतं कूटशब्दितम् , इत्याशङ्क्य, आह -
तथा चेति ।
उक्तरीत्या कूटशब्दस्य अनृतार्थत्वे सिद्धे, यदू अनेकस्य संसारस्य बीजं निरूप्यमाणं नाना­वि­ध­दो­षो­पे­तम् , ‘तद्धेदं तर्ह्य­व्या­कृ­तम्',(बृ. उ. १-४-७) , ‘मायां तु प्रकृतिम्’(श्वे.उ. ४ - १०) ‘मम माया’(भ. गी. ७-१४) , इत्यादौ मायाशब्दिततया प्रसिद्धम् अविद्यादि, तदिह कूटशब्दितम् इत्यर्थः ।

तत्र अवस्थानं केन रूपेण? इत्याशङ्कायाम् आह -
तदध्यक्षतया इति ।

कूटस्थशब्दस्य निष्क्रियत्वम् अर्थान्तरम् आह -
अथवेति ।

पूर्वम् उपजीव्य अन­न्त­र­वि­षे­ष­ण­द्व­य­प्र­वृ­त्तिम् आह-
अत एवेति
॥ ३ ॥

कथम् अक्षरम् उपासते? तदुपासने वा किं स्यात् ? इति तदाह -
सन्नियम्येति ।
तुल्या हर्ष­वि­षा­द­रा­ग­द्धे­षा­दि­र­हिता सम्यग्ज्ञानेन अज्ञानस्य अपनीतत्वात् ।

क्रम­प­र­म्प­रा­पे­क्षयोः असम्भवं विवक्षित्वा, आह -
ते य इति ।
सर्वेभ्यो भूतेभ्यो हिते रताः - सर्वेभ्यो भूतेभ्यो हितमेव चिन्तयन्तः, तदेव आचरन्ति ।

ज्ञानवतां यथाज्ञानं भगवत्प्राप्तेः अर्थसिद्धत्वात् अनुवादमात्रम् , इत्याह -
न त्विति ।

ज्ञानिनो भगवत्प्राप्तिः सिद्धा एव, इत्यत्र प्रमाणम् आह -
ज्ञानी त्विति ।

ज्ञानवतां भगवत्प्राप्तौ त एव युक्ततमाः वक्तव्याः, कथं सगु­ण­ब्र­ह्मो­पा­स­कान् युक्ततमान् उक्तवान् असि? इति आशङ्क्य, आह -
न हीति
॥ ४ ॥

सगुणोपासकेष्वपि कथम् इत्याह -
किं त्विति ।

अक्षरोपासनस्य दुष्करत्वात् , उपासनान्तरस्य सुकरत्वात् , इत्यभिप्रेत्य आह -
क्लेश इति ।
अधिक एव इतरेभ्यो द्वैतदर्शिभ्यः कामिभ्यः, इति शेषः ।

तेषां क्लेशस्य अधिकतरत्वे हेतुम् मत्वा, विशिनष्टि -
देहेति ।
अव्यक्तम् - अत्य­न्त­सू­क्ष्मम् , निर्विशेषम् अक्षरम् , तस्मिन् आसक्तम् - अभिनिविष्टं चेतो येषां, तेषाम् - इति यावत् ।

अक्षरोपासकानां क्लेशस्य अधिकतरत्वे भगवानेव हेतुम् आह -
अव्यक्तेति ।
दुःखम् - दुःखेन, कृच्छ्रेण इति यावत् ।

अतः देहा­भि­मा­न­त्या­गात् , इत्यर्थः । ते कथं वर्तन्ते? तत्र आह -
अक्षरेति
॥ ५ ॥

यदि अक्षरोपासकाः माम् एव आप्नुवन्ति इति विशिष्यन्ते, तत् किं सगुणोपासकाः त्वां न आप्नुवन्ति? न, तेषामपि क्रमेण मत्प्राप्तेः इत्याह -
ये त्विति ।
तुशब्द शङ्का­नि­वृ­त्त्यर्थः
॥ ६ ॥

तेषां भगवद्ध्यायिनां किं फलति? इति शङ्काम् अनुभाष्य, फलम् आह -
तेषां इत्यादिना ।
समुद्धर्ता - सम्यक् ऊर्ध्वं नेता, ज्ञाना­व­ष्ट­म्भ­दा­नेन इत्यर्थः । मृत्युः - अज्ञानम् मर­णा­द्य­न­र्थ­हे­तु­त्वात् । तेन कार्यतया युक्तः संसारः
॥ ७ ॥

भगवदुपासना विशिष्टफला इत्येवं यतः सिद्धम् , अतो भगवन्निष्ठायां प्रयतितव्यम् , इत्याह-
यत इति ।
असंहिताकरणं श्लोकपूरणार्थम् ।

मनोबुद्ध्योः भगवति अवस्थापने प्रश्नपूर्वकं फलम् आह-
तत इति ।

भगवन्निष्ठस्य तत्प्राप्तौ प्रतिबन्धाभावं सूचयति-
संशयोऽत्रेति
॥ ८ ॥

मत­प्र­द­र्श­न­पू­र्वकं भगवत्प्राप्तौ उपायान्तरम् आह -
अथेत्यादिना ।
एकम् आलम्बनं - स्थूलं प्रतिमादि । समाधानं ततः अभ्यन्तरे विश्वरूपे चित्तैकाग्र्यम्
॥ ९ ॥

द्वैता­भि­नि­वे­शात् अभ्यासाधीने योगेऽपि सामर्थ्याभावे पुनः, उपायान्तरम् आह -
अभ्यासेऽपीति ।

अभ्यासयोगेन विना, भगवदर्थं कर्माणि कुर्वाणस्य किं स्यात् ? इति आशङ्क्य आह -
अभ्यासेनेति ।
सिद्धिः - ब्रह्मभावः । अपिः उक्त­व्य­व­धि­सू­च­नार्थः
॥ १० ॥

भग­व­त्क­र्म­प­र­त्वम् अपि अशक्यम् , इति शङ्कते -
अथेति ।
बहि­र्वि­ष­या­कृ­ष्ट­चे­त­स्त्वात् , इत्यर्थः ।

तर्हि भग­व­त्प्रा­प्त्यु­पा­य­त्वेन, संयतचित्तो, भूत्वा कर्मफलसंन्यासं कुरु, इत्याह-
मद्योगमिति
॥ ११ ॥

उत्त­र­श्लो­क­ता­त्प­र्यम् आह -
इदानीमिति ।
ज्ञानं - शब्द­यु­क्ति­भ्याम् आत्मनिश्चयः अभ्यासः - ज्ञाना­र्थ­श्र­व­णा­भ्यासः, निश्चयपूर्वकः ध्यानाभ्यासो वा । तस्य विशिष्यमाणत्वे साक्षा­त्का­र­हे­तुत्वं हेतुः ।

त्यागस्य विशिष्टत्वे हेतुम् आह -
एवमिति ।
प्रीणातु भगवान् , इति तस्मिन् कर्म­सं­न्या­स­पू­र्व­कम् , इत्यर्थः । पूर्वविशेषणवतः - नियतचित्तस्य पुंसः यथोक्तत्यागात् , इत्यर्थः ।

‘अनन्तरमेव’ इत्युक्तं व्यनक्ति -
न त्विति ।

ननु, कर्मफलत्यागस्य सद्यः शान्तिकरत्वे, सम्यग्धीरेव तथा इति श्रुति­स्मृ­ति­प्र­सिद्धिः विरुध्येत, तत्र आह -
अज्ञस्येति

दीर्घेण कालेन आद­र­नै­र­न्त­र्या­नु­ष्ठि­तात् ध्यानात् वस्तु­सा­क्षा­त्का­र­द्वारा संसा­र­दुः­खो­प­शान्तेः तथाविधात् ध्यानात् त्यागस्य विशि­ष्ट­त्वोक्तेः तदीयस्तुतिः अत्र इष्टा, इत्याह -
अतश्चेति ।

तत्र हेतुम् आह -
सम्पन्नेति ।
सम्पन्नानि प्राप्तानि साधनानि अक्षरोपासनादीनि । तेषां मध्ये पूर्वपूर्वस्य अनुष्ठानाशक्तौ उत्तरोत्तरस्य अनुष्ठेयत्वेन उपदेशातु, त्यागे च उप­दे­श­प­र्य­व­सा­नात् , इत्यर्थः ।

त्यागे विशि­ष्ट­त्व­व­च­नस्य केन साधर्म्येण तं प्रति स्तुतित्वम् ? इति पृच्छति -
केनेति ।

उत्तरम् आह -
यदेति ।
अमृतत्वम् उक्तम् ‘अथ मर्त्योऽमृतो भवति’ (बृ.उ. ४ - ४ - ७), इति शेषात् , इति शेषः ।

कामप्रहाणस्य अमृ­त­त्वा­र्थ­त्वम् ‘अथाकामयमानः’(बृ.उ. ४-४-६) इत्यादावपि सिद्धम् , इत्याह -
तदिति ।

कामत्यागस्य अमृ­त­त्व­हे­तु­त्वेऽपि, कथं कर्मफलत्यागस्य तद्धेतुत्वम् ? इत्याशङ्क्य आह -
कामाश्चेति ।

कर्मफलत्यागादेव शान्तिश्चेत् , ज्ञाननिष्ठा उपेक्षिता, इत्याशङ्क्य आह -
तत्त्यागे चेति ।

तथापि कथम् अज्ञस्य कर्म­फ­ल­त्या­ग­स्तुतिः? इत्याशङ्क्य आह -
इति सर्वेति ।

विद्यावतः त्यागवत् , अवि­द्व­त्त्या­ग­स्यापि त्याग­त्वा­वि­शे­षात् विशि­ष्ट­त्वोक्तिः युक्ता, इति स्तुतिम् उपसंहरति -
इति तत्सामान्यादिति ।

किमर्था स्तुतिः? इत्याशङ्क्य, त्यागे रूचिम् उत्पाद्य प्रवर्तयितुम् इत्याह -
प्ररोचनार्थेति ।

त्यागस्तुतिं दृष्टान्तेन स्पष्टयति -
यथेति ।

फलत्यागः श्रेयो­हे­तु­श्चेत् , कर्मत्यागादपि फलत्यागसिद्धेः, अलं कर्मानुष्ठानेनः इत्याशङ्क्य आह -
एवं कर्मेति ।
फलाभिलाषं त्यक्त्वा कर्मानुष्ठानस्य अर्पितस्य ईश्वरे, श्रेयोहेतुतया विवक्षितत्वात् न अनु­ष्ठा­ना­न­र्थ­क्यम् , इत्यर्थः
॥ १२ ॥

सम्प्रति ‘अद्वेष्टा’ इत्या­द्य­व­ता­र­यितुं वृत्तं कीर्तयति -
अत्र चेति ।

आत्य­न्ति­कोऽ­भेदः, न तर्हि ईश्वरे मनःसमाधानरूपो योगः अत्यन्ताभेदे ध्या भावात् , न च अत्यन्ताभेदे कर्मानुष्ठानं, तत्फलत्यागो वा, परस्परं तदयागात् , इत्यर्थः भग­व­दु­क्ति­सा­म­र्थ्या­दपि कर्मयोगादि न अभेददृष्टिमतो भवति, इत्याह -
अथेति ।

अक्षरोपासकस्य कर्मयोगायोगवत् कर्म­यो­गि­नोऽ­क्ष­रो­पा­स­ना­नु­प­प­त्ति­रपि दर्शिता, इत्याह -
तथेति ।
अक्षरोपासकाः सम्यग्धीनिष्ठाः यथाज्ञानं भगवन्तमेव आप्नुवन्ति । न तथा कर्मिणः साक्षात् तदाप्तौ उचिताः । तथा च कर्मिणो न अक्ष­रो­पा­स­न­सिद्धिः, इत्यर्थः ।

इतश्च अक्षरोपासनं कर्मानुष्ठानं च न एकत्र युक्तम् , इत्याह -
अक्षरेति ।

ननु अक्षरोपासकव अन्येषामपि ईश्व­रा­त्म­त्वा­वि­शे­षात् कतुः तदधीनत्वम् ? तत्र आह -
यदीति ।

कर्मयोगस्य अक्षरोपास्तेश्च युगपत् एकत्र अयोगे हेत्वन्तरम् आह -
यस्माच्चेति ।
‘कुरु कर्मैव’ इत्यादौ इति शेषः ।

किं च अक्षरोपासको वाक्यात् ईश्वरम् आत्मानं वेति । नासौ क्रियायां गुणत्वेन कर्तृत्वम् अनुभवति । गुण­त्वे­श्व­र­त्वयोः एकत्र व्याघातात् , अतोऽपि न अक्षरोपासनं कर्मानुष्ठानं च एकत्र युक्तम् , इत्याह -
न चेति ।

अक्ष­रो­पा­स्ति­क­र्म­यो­गयोः एकत्र पर्यायायोगे फलितम् आह-
तस्मादिति ।
अज्ञानां कर्मिणां वक्ष्य­मा­ण­ध­र्म­जा­तस्य साकल्येन अयोगात् अक्ष­र­नि­ष्ठा­ना­मिव इदम् उच्यते, अविरुद्धांशस्य तु सर्वार्थत्वम् इष्टमेव, इत्यर्थः ।

सर्वेषां भूतानां मध्ये यो दुःखहेतुः, तं विद्वानपि द्वेष्ट्येव, इत्याशङ्क्य आह –
आत्मनः इति ।

तत्र हेतुः -
सर्वाणीति ।
‘सर्वभूतानाम् ‘ इति उभयतः सम्बध्यते । मम - प्रत्ययर्जितः, देहेऽपि इति शेषः ।

वृत्त­स्वा­ध्या­य­कृ­ता­ह­ङ्का­रात् निष्क्रा­न्त­त्वम् आह -
निर्गतेति
॥ १३ ॥

अक्षरोपासकस्य ज्ञानवतो विशेषणान्तराणि आह -
सन्तुष्ट इति ।
सततम् इति सर्वत्र सम्बध्यते । कार्यकरणसङ्घातः स्वभावशब्दार्थः । स्थिरत्वं कृतर्कादिना अनभिभवनीयत्वम् । मद्भक्तः - मद्भजनपरः ज्ञानवान् इति यावत् ।

ज्ञानवतो भगवत्प्रियत्वे प्रमाणम् आह -
प्रियो हीति ।

किमर्थं तर्हि पुनरुच्यते? तत्र आह-
तदिहेति
॥ १४ ॥

उद्वे­गा­दि­रा­हि­त्य­मपि ज्ञानवतो विशेषणम् , इत्याह -
यस्मादिति ।

न केवलम् उद्वेगं प्रति अपादानत्वमेव संन्या­सि­नोऽ­नु­प­प­न्नम् , किं तु तत्कर्तृत्वमपि, इत्याह -
तथेति ।
असहिष्णुता, परकीयप्रकर्षस्य इति शेषः । त्रासः तस्क­रा­दि­द­र्श­ना­धीनः उद्धिग्नत्वम् अचेतनात् , चेतनाधीनस्य लोकादिति गतत्वात् , इति यावत्
॥ १५ ॥

निर­पे­क्ष­त्वा­दि­क­मपि ज्ञानिनो विशेषणम् इत्याह -
अनपेक्ष इति ।
आदिपदम् अपे­क्ष­णी­य­स­र्व­स­ङ्ग्र­हा­र्थम् , प्रतिपत्तव्येषु प्रतिपत्तुं, कर्तव्येषु कर्तुं च इत्यर्थः ।

परैः ताडितस्यापि गता व्यथा - भयम् अस्य, इति व्युत्पत्तिम् आश्रित्य आह -
गतेति ।
न च क्षमी इत्यनेनैव पौनरुक्त्यम् ; प्रत्यु­त्प­न्ना­या­मपि व्यथायाम् अपकर्तृषु अनपकर्तृत्वं क्षमित्वम् , इति अभ्युपगमात्
॥ १६ ॥

द्वेष­ह­र्षा­दि­रा­हि­त्य­मपि ज्ञानिनो लक्षणम् इत्याह -
किञ्चेति ।

‘सर्वा­र­म्भ­प­रि­त्यागी’ इत्यनेन विहि­त­का­म्य­त्या­गस्य उक्तत्वात् , विहितात् अन्यत्र मा सङ्कोचीति विशिनष्टि -
शुभाशुभेति
॥ १७ ॥

सम इति ।
अद्वे­ष्टे­त्या­दिना द्वेषा­दि­वि­शे­षा­भावः उक्तः, सम्प्रति सर्वत्रैव अवि­कृ­त­चि­त्त­त्वम् उच्यते । सर्वत्र - चेतने स्त्र्यादौ, अचेतने च चन्दनादौ, इत्यर्थः
॥ १८ ॥

वाग्य­त­त्वा­दि­वि­शे­ष­ण­मपि ज्ञाननिष्ठस्य अस्ति, इत्याह -
किञ्चेति ।
निन्दा - दोपसङ्कीर्तनम् । स्तुतिः - गुणगणनम् ।

देह­स्थि­ति­मा­त्र­फ­लेन अन्नादिना ज्ञानिनः सन्तुष्टत्वे स्मृतिं प्रमाणयति -
तथा चेति ।

निय­त­नि­वा­स­रा­हि­त्य­मपि ज्ञानवतो विशेषणम् , इत्याह -
किञ्चेति

‘न कुड्यां नोदके सङ्गो न चैले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥ ‘ इति स्मृतिम् उक्तेऽर्थे प्रमाणयति -
नेत्यादिना ।
पुनः पुनः भक्तेः ग्रहणम् अपवर्गमार्गस्य परमार्थज्ञानस्य उपायत्वार्थम्
॥ १९ ॥

‘अद्वेष्टा’ इत्यादिधर्मजातं ज्ञानवतो लक्षणम् उक्तम् तत् उपपादितम् अनूद्य, उपसंहारश्लोकम् अवतारयति -
अद्वे­ष्टे­त्या­दिना ।

चतुर्थपारदस्य तात्पर्यम् आह -
प्रियो हीति ।

यद्यपि यथोक्तं धर्मजातं ज्ञानवतो लक्षणम् , तथापि जिज्ञासूनां ज्ञानोपायत्वेन यत्नात् अनुष्ठेयम् , इति वाक्यार्थम् उपसंहरति
यस्मादिति ।
तदेवं सोपा­धि­का­भि­ध्या­न­प­रि­पा­कात् निरुपाधिकम् अनुसन्दधानस्य ‘अद्वेष्टा सर्वभूतानाम् ‘ इत्या­दि­ध­र्म­वि­शि­ष्टस्य मुख्यस्य अधिकारिणः श्रव­णा­द्या­व­र्त­यतः तत्व­सा­क्षा­त्का­र­स­म्भ­वात् , ततो मुक्त्यु­प­पत्तेः, तद्धे­तु­वा­क्या­र्थ­धो­वि­ष(योऽन्व) ययोग्यः तत्पदार्थो अनुसन्धेयः, इति सिद्धम्
॥ २० ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विर­चि­ते­श्री­म­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने द्वादशोऽध्यायः ॥ १२ ॥