आनन्दगिरिटीका (गीताभाष्य)
द्वादशोऽध्यायः
अशोच्यान् इत्यादिषु विभूत्यध्यायावसानेषु अध्यायेषु निरुपाधिकस्य ब्रह्मणो ज्ञेयत्वेन अनुसन्धानम् उक्तम् इति, वृत्तं कीर्तयति -
द्वितीयेति ।
अतिक्रान्तेषु तत्तदध्यायेषु सोपाधिकस्यापि ब्रह्मणो ध्येयत्वेन प्रतिपादनम् कृतम् इत्याह -
सर्वेति ।
सर्वस्यापि प्रपञ्चस्य योगः - घटना जन्मस्थितिभङ्गप्रवेशनियमनाख्या, तत्र ऐश्वर्यम् - सामर्थ्यम् , तेन सर्वत्र ज्ञेये प्रतिबन्धविधुरया ज्ञानशक्त्या विशिष्टस्य सत्वाद्युपहितस्य भगवतो ध्यानम् तत्र तत्र पसङ्गमापाद्य, मन्दमध्यमयोः अनुग्रहार्थम् उक्तम् , इत्यर्थः ।
एकादशे वृत्तम् अनुवदति -
विश्वरूपेति ।
अध्यायान्ते भगवदुपदेशम् अनुवदति -
तच्चेति ।
अतीतानन्तरश्लोकेन उक्तम् अर्थं परामृशति -
मत्कर्मकृदिति ।
यथाधिकारं तारतम्योपेतानि साधनानि नियन्तुम् अध्यायान्तरम् अवतारयन् आदौ प्रश्नम् उत्थापयति -
अत इति ।
सोपाधिकध्यानस्य निरुपाधिकज्ञानस्य च उक्तत्वात् इत्यर्थः ।
एवं शब्दार्थम् उक्त्वा तम् अनूद्य सततयुक्ताः इति भागं विभजते-
एवमिति ।
ये भक्ताः इति अनूद्य व्याचष्टे-
अनन्येति ।
मन्दमध्यमाधिकारिणः सगुणशरणान् उक्त्वा निर्गुणनिष्ठान् उत्तमाधिकारिणो निर्दिशति -
ये चेति ।
यथा विशेषितम् - अनिर्देश्यम् सर्वत्रगम् अचिन्त्यम् कूटस्थम् इत्यादिवक्ष्यमाणविशेषणविशिष्टम् , इत्यर्थः ।
न क्षरति, अश्नुते वा, इति अक्षरम् अव्यक्तम् इत्येतत् व्याचष्टे -
निरस्तेति ।
करणागोचरत्वं व्यतिरेकद्वारा स्फोरयति -
यद्धीति ।
यथाविशेषितम् इत्युक्तं स्पष्टयति -
शिष्टैश्चेति ।
पूर्वार्धगतक्रियापदस्य अनुषङ्गम् सूचयति -
तदिति ।
सर्वे तावत् एते योगम् - समाधिम् विन्दन्ति, इति योगविदः । के पुनः अतिशयेन एषां मध्ये योगविदो योगिनः? इति पृच्छति -
के अतिशयेनेति
॥ १ ॥
किम् अनयोः योगयोर्मध्ये सुशक्यो योगो वा पृच्छ्यते? किं वा साक्षात् मोक्षहेतुः? इति विकल्प्य क्रमेण उत्तरं भगवान् उक्तवान् इत्याह -
श्रीभगवानिति ।
यदि द्वितीयाः, तथाविधयोगस्य वक्ष्यमाणत्वात् न प्रष्टव्यता, इत्याह-
ये त्वक्षरेति ।
यदि आद्यः, तत्र आह -
ये त्विति ।
सर्वयोगेश्वराणां - सर्वेपां योगम् अधितिष्ठतां योगिनाम् , इत्यर्थः ।
विमुक्ता - त्यक्ता रागाद्याख्या क्लेशनिमित्तभूता तिमिरशब्दितानाद्यज्ञानकृता दृष्टिः अविद्या मिथ्याधीः यस्य, तम् , इति विशिनष्टि -
विमुक्तेति ।
नित्ययुक्तत्वं माधयति -
अतीतेति ।
तत्र उक्तो योऽर्थः ‘मत्कर्मकृदि’ त्यादि, तस्मिन् निश्चयेन अयनम् - आयः, गमनम् , तस्य नियमेन अनुष्ठानम् , तेन, इत्यर्थः । उपासते - मयि स्मृतिं सदा कुर्वन्ति इत्यर्थः ।
उक्तोपासकानां युक्ततमत्वं व्यनक्ति -
नैरन्तर्येणेति ।
तदेव स्फुटयति -
अहोरात्रमिति ।
अह्नि च - रात्रौ च अतिमात्रम् - अतिशयेन मामेव विषयान्तरविमुक्ताः चिन्तयन्ति, इत्यर्थः
॥ २ ॥
वक्ष्यामः तदुपरिष्टात् - इत्युक्तं प्रश्नपूर्वकं प्रकटयति -
किमित्यादिना ।
पूर्वेभ्यः फलतो विशेषार्थः तुशब्दः ।
अव्यक्तत्वम् अनिर्देश्यत्वे हेतुः, इत्याह -
अव्यक्तत्वादिति ।
यतोऽव्यक्तम् , अतः अनिर्देश्यम् , इति योजना ।
निरुपाधिकेऽक्षरे कथम् उपासना? इति पृच्छति -
उपासनमिति ।
शास्रतोऽक्षरं ज्ञात्वा, तदुपेत्य, आत्मत्वेन उपगम्य, आसते तथैव तिष्ठन्ति - पूर्णचिदेकतानम् अक्षरम् आत्मनामेव सदा भावयन्ति, इत्येतत् इह विवक्षितम् , इत्याह -
यथेति ।
अव्यक्तत्वम् एव अचिन्त्यत्वेऽपि हेतुः, इत्याह -
यद्धि इति ।
कूटस्थशब्दस्य उक्तार्थत्वं वृद्धप्रयोगतः साधयति -
कूटरूपमिति ।
आदिपदम् अनृतार्थम् । प्रकृते किं तद् अनृतं कूटशब्दितम् , इत्याशङ्क्य, आह -
तथा चेति ।
उक्तरीत्या कूटशब्दस्य अनृतार्थत्वे सिद्धे, यदू अनेकस्य संसारस्य बीजं निरूप्यमाणं नानाविधदोषोपेतम् , ‘तद्धेदं तर्ह्यव्याकृतम्',(बृ. उ. १-४-७) , ‘मायां तु प्रकृतिम्’(श्वे.उ. ४ - १०) ‘मम माया’(भ. गी. ७-१४) , इत्यादौ मायाशब्दिततया प्रसिद्धम् अविद्यादि, तदिह कूटशब्दितम् इत्यर्थः ।
तत्र अवस्थानं केन रूपेण? इत्याशङ्कायाम् आह -
तदध्यक्षतया इति ।
कूटस्थशब्दस्य निष्क्रियत्वम् अर्थान्तरम् आह -
अथवेति ।
पूर्वम् उपजीव्य अनन्तरविषेषणद्वयप्रवृत्तिम् आह-
अत एवेति
॥ ३ ॥
कथम् अक्षरम् उपासते? तदुपासने वा किं स्यात् ? इति तदाह -
सन्नियम्येति ।
तुल्या हर्षविषादरागद्धेषादिरहिता सम्यग्ज्ञानेन अज्ञानस्य अपनीतत्वात् ।
क्रमपरम्परापेक्षयोः असम्भवं विवक्षित्वा, आह -
ते य इति ।
सर्वेभ्यो भूतेभ्यो हिते रताः - सर्वेभ्यो भूतेभ्यो हितमेव चिन्तयन्तः, तदेव आचरन्ति ।
ज्ञानवतां यथाज्ञानं भगवत्प्राप्तेः अर्थसिद्धत्वात् अनुवादमात्रम् , इत्याह -
न त्विति ।
ज्ञानिनो भगवत्प्राप्तिः सिद्धा एव, इत्यत्र प्रमाणम् आह -
ज्ञानी त्विति ।
ज्ञानवतां भगवत्प्राप्तौ त एव युक्ततमाः वक्तव्याः, कथं सगुणब्रह्मोपासकान् युक्ततमान् उक्तवान् असि? इति आशङ्क्य, आह -
न हीति
॥ ४ ॥
सगुणोपासकेष्वपि कथम् इत्याह -
किं त्विति ।
अक्षरोपासनस्य दुष्करत्वात् , उपासनान्तरस्य सुकरत्वात् , इत्यभिप्रेत्य आह -
क्लेश इति ।
अधिक एव इतरेभ्यो द्वैतदर्शिभ्यः कामिभ्यः, इति शेषः ।
तेषां क्लेशस्य अधिकतरत्वे हेतुम् मत्वा, विशिनष्टि -
देहेति ।
अव्यक्तम् - अत्यन्तसूक्ष्मम् , निर्विशेषम् अक्षरम् , तस्मिन् आसक्तम् - अभिनिविष्टं चेतो येषां, तेषाम् - इति यावत् ।
अक्षरोपासकानां क्लेशस्य अधिकतरत्वे भगवानेव हेतुम् आह -
अव्यक्तेति ।
दुःखम् - दुःखेन, कृच्छ्रेण इति यावत् ।
अतः देहाभिमानत्यागात् , इत्यर्थः । ते कथं वर्तन्ते? तत्र आह -
अक्षरेति
॥ ५ ॥
यदि अक्षरोपासकाः माम् एव आप्नुवन्ति इति विशिष्यन्ते, तत् किं सगुणोपासकाः त्वां न आप्नुवन्ति? न, तेषामपि क्रमेण मत्प्राप्तेः इत्याह -
ये त्विति ।
तुशब्द शङ्कानिवृत्त्यर्थः
॥ ६ ॥
तेषां भगवद्ध्यायिनां किं फलति? इति शङ्काम् अनुभाष्य, फलम् आह -
तेषां इत्यादिना ।
समुद्धर्ता - सम्यक् ऊर्ध्वं नेता, ज्ञानावष्टम्भदानेन इत्यर्थः । मृत्युः - अज्ञानम् मरणाद्यनर्थहेतुत्वात् । तेन कार्यतया युक्तः संसारः
॥ ७ ॥
भगवदुपासना विशिष्टफला इत्येवं यतः सिद्धम् , अतो भगवन्निष्ठायां प्रयतितव्यम् , इत्याह-
यत इति ।
असंहिताकरणं श्लोकपूरणार्थम् ।
मनोबुद्ध्योः भगवति अवस्थापने प्रश्नपूर्वकं फलम् आह-
तत इति ।
भगवन्निष्ठस्य तत्प्राप्तौ प्रतिबन्धाभावं सूचयति-
संशयोऽत्रेति
॥ ८ ॥
मतप्रदर्शनपूर्वकं भगवत्प्राप्तौ उपायान्तरम् आह -
अथेत्यादिना ।
एकम् आलम्बनं - स्थूलं प्रतिमादि । समाधानं ततः अभ्यन्तरे विश्वरूपे चित्तैकाग्र्यम्
॥ ९ ॥
द्वैताभिनिवेशात् अभ्यासाधीने योगेऽपि सामर्थ्याभावे पुनः, उपायान्तरम् आह -
अभ्यासेऽपीति ।
अभ्यासयोगेन विना, भगवदर्थं कर्माणि कुर्वाणस्य किं स्यात् ? इति आशङ्क्य आह -
अभ्यासेनेति ।
सिद्धिः - ब्रह्मभावः । अपिः उक्तव्यवधिसूचनार्थः
॥ १० ॥
भगवत्कर्मपरत्वम् अपि अशक्यम् , इति शङ्कते -
अथेति ।
बहिर्विषयाकृष्टचेतस्त्वात् , इत्यर्थः ।
तर्हि भगवत्प्राप्त्युपायत्वेन, संयतचित्तो, भूत्वा कर्मफलसंन्यासं कुरु, इत्याह-
मद्योगमिति
॥ ११ ॥
उत्तरश्लोकतात्पर्यम् आह -
इदानीमिति ।
ज्ञानं - शब्दयुक्तिभ्याम् आत्मनिश्चयः अभ्यासः - ज्ञानार्थश्रवणाभ्यासः, निश्चयपूर्वकः ध्यानाभ्यासो वा । तस्य विशिष्यमाणत्वे साक्षात्कारहेतुत्वं हेतुः ।
त्यागस्य विशिष्टत्वे हेतुम् आह -
एवमिति ।
प्रीणातु भगवान् , इति तस्मिन् कर्मसंन्यासपूर्वकम् , इत्यर्थः । पूर्वविशेषणवतः - नियतचित्तस्य पुंसः यथोक्तत्यागात् , इत्यर्थः ।
‘अनन्तरमेव’ इत्युक्तं व्यनक्ति -
न त्विति ।
ननु, कर्मफलत्यागस्य सद्यः शान्तिकरत्वे, सम्यग्धीरेव तथा इति श्रुतिस्मृतिप्रसिद्धिः विरुध्येत, तत्र आह -
अज्ञस्येति
दीर्घेण कालेन आदरनैरन्तर्यानुष्ठितात् ध्यानात् वस्तुसाक्षात्कारद्वारा संसारदुःखोपशान्तेः तथाविधात् ध्यानात् त्यागस्य विशिष्टत्वोक्तेः तदीयस्तुतिः अत्र इष्टा, इत्याह -
अतश्चेति ।
तत्र हेतुम् आह -
सम्पन्नेति ।
सम्पन्नानि प्राप्तानि साधनानि अक्षरोपासनादीनि । तेषां मध्ये पूर्वपूर्वस्य अनुष्ठानाशक्तौ उत्तरोत्तरस्य अनुष्ठेयत्वेन उपदेशातु, त्यागे च उपदेशपर्यवसानात् , इत्यर्थः ।
त्यागे विशिष्टत्ववचनस्य केन साधर्म्येण तं प्रति स्तुतित्वम् ? इति पृच्छति -
केनेति ।
उत्तरम् आह -
यदेति ।
अमृतत्वम् उक्तम् ‘अथ मर्त्योऽमृतो भवति’ (बृ.उ. ४ - ४ - ७), इति शेषात् , इति शेषः ।
कामप्रहाणस्य अमृतत्वार्थत्वम् ‘अथाकामयमानः’(बृ.उ. ४-४-६) इत्यादावपि सिद्धम् , इत्याह -
तदिति ।
कामत्यागस्य अमृतत्वहेतुत्वेऽपि, कथं कर्मफलत्यागस्य तद्धेतुत्वम् ? इत्याशङ्क्य आह -
कामाश्चेति ।
कर्मफलत्यागादेव शान्तिश्चेत् , ज्ञाननिष्ठा उपेक्षिता, इत्याशङ्क्य आह -
तत्त्यागे चेति ।
तथापि कथम् अज्ञस्य कर्मफलत्यागस्तुतिः? इत्याशङ्क्य आह -
इति सर्वेति ।
विद्यावतः त्यागवत् , अविद्वत्त्यागस्यापि त्यागत्वाविशेषात् विशिष्टत्वोक्तिः युक्ता, इति स्तुतिम् उपसंहरति -
इति तत्सामान्यादिति ।
किमर्था स्तुतिः? इत्याशङ्क्य, त्यागे रूचिम् उत्पाद्य प्रवर्तयितुम् इत्याह -
प्ररोचनार्थेति ।
त्यागस्तुतिं दृष्टान्तेन स्पष्टयति -
यथेति ।
फलत्यागः श्रेयोहेतुश्चेत् , कर्मत्यागादपि फलत्यागसिद्धेः, अलं कर्मानुष्ठानेनः इत्याशङ्क्य आह -
एवं कर्मेति ।
फलाभिलाषं त्यक्त्वा कर्मानुष्ठानस्य अर्पितस्य ईश्वरे, श्रेयोहेतुतया विवक्षितत्वात् न अनुष्ठानानर्थक्यम् , इत्यर्थः
॥ १२ ॥
सम्प्रति ‘अद्वेष्टा’ इत्याद्यवतारयितुं वृत्तं कीर्तयति -
अत्र चेति ।
आत्यन्तिकोऽभेदः, न तर्हि ईश्वरे मनःसमाधानरूपो योगः अत्यन्ताभेदे ध्या भावात् , न च अत्यन्ताभेदे कर्मानुष्ठानं, तत्फलत्यागो वा, परस्परं तदयागात् , इत्यर्थः भगवदुक्तिसामर्थ्यादपि कर्मयोगादि न अभेददृष्टिमतो भवति, इत्याह -
अथेति ।
अक्षरोपासकस्य कर्मयोगायोगवत् कर्मयोगिनोऽक्षरोपासनानुपपत्तिरपि दर्शिता, इत्याह -
तथेति ।
अक्षरोपासकाः सम्यग्धीनिष्ठाः यथाज्ञानं भगवन्तमेव आप्नुवन्ति । न तथा कर्मिणः साक्षात् तदाप्तौ उचिताः । तथा च कर्मिणो न अक्षरोपासनसिद्धिः, इत्यर्थः ।
इतश्च अक्षरोपासनं कर्मानुष्ठानं च न एकत्र युक्तम् , इत्याह -
अक्षरेति ।
ननु अक्षरोपासकव अन्येषामपि ईश्वरात्मत्वाविशेषात् कतुः तदधीनत्वम् ? तत्र आह -
यदीति ।
कर्मयोगस्य अक्षरोपास्तेश्च युगपत् एकत्र अयोगे हेत्वन्तरम् आह -
यस्माच्चेति ।
‘कुरु कर्मैव’ इत्यादौ इति शेषः ।
किं च अक्षरोपासको वाक्यात् ईश्वरम् आत्मानं वेति । नासौ क्रियायां गुणत्वेन कर्तृत्वम् अनुभवति । गुणत्वेश्वरत्वयोः एकत्र व्याघातात् , अतोऽपि न अक्षरोपासनं कर्मानुष्ठानं च एकत्र युक्तम् , इत्याह -
न चेति ।
अक्षरोपास्तिकर्मयोगयोः एकत्र पर्यायायोगे फलितम् आह-
तस्मादिति ।
अज्ञानां कर्मिणां वक्ष्यमाणधर्मजातस्य साकल्येन अयोगात् अक्षरनिष्ठानामिव इदम् उच्यते, अविरुद्धांशस्य तु सर्वार्थत्वम् इष्टमेव, इत्यर्थः ।
सर्वेषां भूतानां मध्ये यो दुःखहेतुः, तं विद्वानपि द्वेष्ट्येव, इत्याशङ्क्य आह –
आत्मनः इति ।
तत्र हेतुः -
सर्वाणीति ।
‘सर्वभूतानाम् ‘ इति उभयतः सम्बध्यते । मम - प्रत्ययर्जितः, देहेऽपि इति शेषः ।
वृत्तस्वाध्यायकृताहङ्कारात् निष्क्रान्तत्वम् आह -
निर्गतेति
॥ १३ ॥
अक्षरोपासकस्य ज्ञानवतो विशेषणान्तराणि आह -
सन्तुष्ट इति ।
सततम् इति सर्वत्र सम्बध्यते । कार्यकरणसङ्घातः स्वभावशब्दार्थः । स्थिरत्वं कृतर्कादिना अनभिभवनीयत्वम् । मद्भक्तः - मद्भजनपरः ज्ञानवान् इति यावत् ।
ज्ञानवतो भगवत्प्रियत्वे प्रमाणम् आह -
प्रियो हीति ।
किमर्थं तर्हि पुनरुच्यते? तत्र आह-
तदिहेति
॥ १४ ॥
उद्वेगादिराहित्यमपि ज्ञानवतो विशेषणम् , इत्याह -
यस्मादिति ।
न केवलम् उद्वेगं प्रति अपादानत्वमेव संन्यासिनोऽनुपपन्नम् , किं तु तत्कर्तृत्वमपि, इत्याह -
तथेति ।
असहिष्णुता, परकीयप्रकर्षस्य इति शेषः । त्रासः तस्करादिदर्शनाधीनः उद्धिग्नत्वम् अचेतनात् , चेतनाधीनस्य लोकादिति गतत्वात् , इति यावत्
॥ १५ ॥
निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणम् इत्याह -
अनपेक्ष इति ।
आदिपदम् अपेक्षणीयसर्वसङ्ग्रहार्थम् , प्रतिपत्तव्येषु प्रतिपत्तुं, कर्तव्येषु कर्तुं च इत्यर्थः ।
परैः ताडितस्यापि गता व्यथा - भयम् अस्य, इति व्युत्पत्तिम् आश्रित्य आह -
गतेति ।
न च क्षमी इत्यनेनैव पौनरुक्त्यम् ; प्रत्युत्पन्नायामपि व्यथायाम् अपकर्तृषु अनपकर्तृत्वं क्षमित्वम् , इति अभ्युपगमात्
॥ १६ ॥
द्वेषहर्षादिराहित्यमपि ज्ञानिनो लक्षणम् इत्याह -
किञ्चेति ।
‘सर्वारम्भपरित्यागी’ इत्यनेन विहितकाम्यत्यागस्य उक्तत्वात् , विहितात् अन्यत्र मा सङ्कोचीति विशिनष्टि -
शुभाशुभेति
॥ १७ ॥
सम इति ।
अद्वेष्टेत्यादिना द्वेषादिविशेषाभावः उक्तः, सम्प्रति सर्वत्रैव अविकृतचित्तत्वम् उच्यते । सर्वत्र - चेतने स्त्र्यादौ, अचेतने च चन्दनादौ, इत्यर्थः
॥ १८ ॥
वाग्यतत्वादिविशेषणमपि ज्ञाननिष्ठस्य अस्ति, इत्याह -
किञ्चेति ।
निन्दा - दोपसङ्कीर्तनम् । स्तुतिः - गुणगणनम् ।
देहस्थितिमात्रफलेन अन्नादिना ज्ञानिनः सन्तुष्टत्वे स्मृतिं प्रमाणयति -
तथा चेति ।
नियतनिवासराहित्यमपि ज्ञानवतो विशेषणम् , इत्याह -
किञ्चेति
‘न कुड्यां नोदके सङ्गो न चैले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥ ‘ इति स्मृतिम् उक्तेऽर्थे प्रमाणयति -
नेत्यादिना ।
पुनः पुनः भक्तेः ग्रहणम् अपवर्गमार्गस्य परमार्थज्ञानस्य उपायत्वार्थम्
॥ १९ ॥
‘अद्वेष्टा’ इत्यादिधर्मजातं ज्ञानवतो लक्षणम् उक्तम् तत् उपपादितम् अनूद्य, उपसंहारश्लोकम् अवतारयति -
अद्वेष्टेत्यादिना ।
चतुर्थपारदस्य तात्पर्यम् आह -
प्रियो हीति ।
यद्यपि यथोक्तं धर्मजातं ज्ञानवतो लक्षणम् , तथापि जिज्ञासूनां ज्ञानोपायत्वेन यत्नात् अनुष्ठेयम् , इति वाक्यार्थम् उपसंहरति
यस्मादिति ।
तदेवं सोपाधिकाभिध्यानपरिपाकात् निरुपाधिकम् अनुसन्दधानस्य ‘अद्वेष्टा सर्वभूतानाम् ‘ इत्यादिधर्मविशिष्टस्य मुख्यस्य अधिकारिणः श्रवणाद्यावर्तयतः तत्वसाक्षात्कारसम्भवात् , ततो मुक्त्युपपत्तेः, तद्धेतुवाक्यार्थधोविष(योऽन्व) ययोग्यः तत्पदार्थो अनुसन्धेयः, इति सिद्धम्
॥ २० ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचितेश्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने द्वादशोऽध्यायः ॥ १२ ॥