अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

त्रयोदशोऽध्यायः (१)

प्रथममध्यमयोः षट्कयोः तत्त्वंपदार्थौ उक्तौ । अन्तिमस्तु षट्कः वाक्यार्थनिष्ठः सम्यग्धीप्रधानः अधुना आरभ्यते । तत्र क्षेत्राध्यायम् अन्ति­म­ष­ट्का­द्यम् अवतितारयिषुः व्यवहितं वृत्तं कीर्तयति-
सप्तम इति ।

प्रकृतिद्वयस्य स्वातन्त्र्यं वारयति -
ईश्वरस्येति ।

भूमिरित्यादिना उक्ता सत्वादिरूपा प्रकृतिः अपरा इत्यत्र हेतुमाह -
संसारेति ।

इतस्त्वन्या इत्यादिना उक्तां प्रकृतिम् अनुक्रामति -
परा चेति ।

परत्वे हेतुं मूचयनि -
ईश्वरात्मिकेति ।

किमर्थम् ईश्वरस्य प्रकृतिद्वयम् ? इत्याशङ्क्य, कारणत्वार्थम् इत्याह -
याभ्यामिति ।

वृत्तम् अनूद्य, वर्ति­ष्य­मा­णा­ध्या­या­र­म्भ­प्र­का­रम् आह -
तत्रेति ।

व्यवहितेन मवन्धम् उक्त्वा, अव्यवहितेन तं विवक्षुः अव्यवहितम् अनुवदति -
अतीतेति ।

निष्ठा उक्ता इति सम्बन्धः । निष्ठामेव व्याचष्टे -
यथेति ।
वर्तन्ते - धर्मजातम् अनुतिष्ठन्ति, तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तम् इति योजना ।

अव्यवहितमेव अनूद्य तेन उत्तरस्य सम्बन्धं सङ्गिरते -
केनेति ।
तत्वज्ञानोक्तेः उक्तार्थेन समुच्चयार्थः चकारः ।

जीवानां सुखदुःखादि भेदभाजां प्रतिक्षेत्रं भिन्नानां न अक्षरेण ऐक्यम् , इत्याशङ्क्य, संसारस्य आत्मधर्मत्वं निराकृत्य सङ्घातनिष्ठत्वं वक्तुं, सङ्घा­तो­त्प­त्ति­प्र­का­रम् आह -
प्रकृतिश्चेति ।
भोगश्च अपवर्गश्च अर्थौ, तयोरेव कर्तव्यतया, इति यावत् ।

ननु अनन्तरश्लाके शरीरनिर्देशात् तस्य उत्पत्तिः वक्तव्या, किमिति सङ्घातस्य उच्यते? तत्राह -
सोऽयमिति ।

उक्तेऽर्थे भगवद्वचनम् अवतारयति -
तदेतदिति ।

तत्र द्र्ष्टृत्वेन सङ्घातदृश्यात् अन्यम् आत्मानं निर्दिशति -
इदमिति ।
उक्तम् - प्रत्य­क्ष­दृ­श्य­वि­शिष्टं किञ्चित् इति शेषः ।

शरीरस्य आत्मनः अन्यत्वं क्षेत्र­ना­म­नि­रुक्त्या ब्रूते -
क्षतेति ।
क्षयः - नाशः । क्षरणम् - अपक्षयः ।

यथा क्षेत्रे बीजम् उप्तं फलति, तद्वद् इत्याह -
क्षेत्रवद्वेति ।

क्षेत्रपदात् उपरिस्थितम् इतिपदं क्षेत्र­श­ब्द­वि­ष­यम् , अन्यथा वैयर्थ्यात् , इत्याह -
इतिशब्द इति ।
क्षेत्र­मि­त्ये­वम् अनेन क्षेत्रशब्देन इत्यर्थः ।

दृश्यं देहम् उक्त्वा ततः अतिरिक्तं द्रष्टारम् आह -
एतदिति ।
स्वाभाविकं ‘मनुष्योऽहम् ‘ इति ज्ञानम् , अौपदेशिकम् ‘देहो नाऽत्मा दृष्यत्वात् ‘ इत्यादिविभागशः - स्वतोऽ­ति­रि­क्त­त्वेन इत्यर्थः ।

क्षेत्रमित्यत्र इतिशब्दवत् अत्रापि इतिशब्दस्य क्षेत्र­ज्ञ­श­ब्द­वि­ष­य­त्वम् आह -
इतिशब्द इति ।
क्षेत्रज्ञ इत्येवम् - क्षेत्र­ज्ञ­श­ब्देन तं प्राहुः इति सम्बन्धः । प्रवक्त़ृन् प्रश्नपूर्वकम् आह - क इत्यादिना
॥ १ ॥

दृश्यानां दुःखादीनां भेदकानां याव­द्दे­ह­भा­वि­नाम् अना­त्म­ध­र्म­त्व­सि­द्धये द्रष्टारं देहात् अन्यम् उक्त्वा, साङ्ख्यानामिव तन्मात्रेण मुक्तिनिवृत्तये तस्य सर्वदेहेषु ऐक्यो­क्ति­पू­र्वकं स्वेन परमार्थेन अक्षरेण ऐक्यं वृत्तम् अनूद्य प्रश्नद्वारा दर्शयति-
एवमित्यादिना ।
यथोक्त - लक्षणम् - दृश्यात् देहात् निष्कृष्टं द्रष्टारम् इत्यर्थः । च, अपि इति निपातौ जीवस्य अक्ष­र­त्व­ज्ञा­नस्य देहात् अन्यत्वज्ञानेन समुच्चयार्थौ भिन्नक्रमौ ; न क्षेत्रज्ञं साङ्ख्यवत् दृशयात् अन्यमेव विद्धि ; किन्तु मां चापि विद्धि इति सम्बध्यते ।

यः सर्वक्षेत्रेषु एकः क्षेत्रज्ञः, तं मामेव विद्धि, इति सम्बन्धं सूचयति -
सर्वेति ।

तत्त­त्क्षे­त्रो­पा­धि­क­भे­द­भाजः तत्त­च्छ­ब्द­धी­गो­च­रस्य कथं तद्वि­प­री­त­ब्र­ह्म­त्वधीः? इत्याशङ्क्य, आह -
ब्रह्मादीति ।

उत्तरार्धं विभजते -
यस्मादिति ।

तदेव विशिनष्टि -
क्षेत्रेति ।

न च भेदविषयत्वात् न सम्यग्ज्ञानं तद् , इति युक्तम् , तस्य विवेकज्ञानस्य वाक्या­र्थ­ज्ञा­न­द्वारा मोक्षौपयिकत्वेन सम्य­क्त्व­सिद्धेः इति भावः । जीवेश्वरयोः एकत्वमुक्तम् आक्षिपति -
नन्विति ।
जीवेश्वरयोः एकत्वे, जीवस्य ईश्वरे वा, तस्य जीवे वा, अन्तर्भावः? नाद्यः, जीवस्य परस्मात् अन्यत्वाभावे संसारस्य निरा­ल­म्ब­न­त्वा­नु­प­पत्त्या परस्यैव तदा­श्र­य­त्व­प्र­स­ङ्गात् इत्यर्थः ।

‘अनश्नन्नन्यो अभिचाकशीति’(श्वे. उ. ४-६) इति श्रुतेः, न तस्य संसारिता, इत्याशङ्क्य, द्वितीयं दूषयति -
ईश्वरेति ।
जीवे चेत् ईश्वरः अन्तर्भवति, तदापि ततः अन्य­सं­सा­र्य­भा­वात् तस्य च संसारः अनिंष्टः, इति संसारः जगति अस्तङ्गच्छेत् , इत्यर्थः ।

प्रसङ्गद्वयस्य इष्टत्वं निराचष्टे-
तच्चेति ।
संसाराभावे ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’(श्वे. उ. ४-६) इत्या­दि­ब­न्ध­शा­स्रस्य तद्धेतु कर्म­वि­ष­य­क­र्म­का­ण्डस्य च आनर्थक्यम् , ईश्वराश्रिते च संसारे तद­भा­क्तृ­त्व­श्रुतेः ज्ञानकाण्डस्य मोक्ष­त­द्धे­तु­ज्ञा­ना­र्थस्य आनर्थक्यम् , अतो न प्रसङ्गयोः इष्टता इत्यर्थः ।

संसा­रा­भा­व­प्र­स­ङ्गस्य अनिष्टत्वे हेत्वन्तरम् आह -
प्रत्यक्षादीति ।

तत्र प्रत्यक्षविरोधं प्रकटयति -
प्रत्यक्षेणेति ।

आदिशब्दोपात्तम् अनुमानविरोधम् आह -
जगदिति ।
विमतं विचित्रहेतुकम् , विचि­त्र­का­र्य­त्वात् , प्रासादादिवत् , इत्यर्थः ।

प्रत्य­क्षा­नु­मा­ना­ग­म­वि­रो­धात् अयुक्तम् ऐक्यम् इति उपसंहरति-
सर्वमिति ।

ऐक्येऽपि संसारित्वम् अविद्यातः, विद्यातः असंसारित्वम् , इति विभागात् न अनुपपत्तिः, इति उत्तरम् आह -
नेत्यादिना ।

तयोः स्वरूपतः विलक्षणत्वे श्रुतिम् आह -
दूरमिति ।
अविद्या, या च विद्या इति प्रसिद्धे, एते विद्याविद्ये दूरं विपरीते, अत्यन्तविरुद्धे इत्यर्थः । विषूची नानागती भिन्नफले इत्यर्थः ।

स्वरूपतो विरोधवत् फलतोऽपि सोऽस्ति इत्याह -
तथेति ।

फलभेदोक्तिमेव व्यनक्ति -
विद्येति ।

तयोः द्विधा विलक्षणत्वे वेदव्यासस्यापि सम्मतिम् आह -
तथा चेति ।

उक्ते अर्थे भगवतोपि सम्मतिम् उदाहरति -
इहचेति ।

द्वयोरपि निष्ठयोः तुल्यं उपादेयत्वम् इति शङ्कां शातयति -
अविद्या चेति ।

अविद्या कार्या हातव्या इत्यत्र श्रुतीः उदाहरति -
श्रुतयस्तावदिति ।
इहेति - जीवदवस्था उच्यते, चेच्छब्दः विद्यो­द­य­दौ­र्ल­भ्य­द्योती, अवेदीत् - अहं ब्रह्म इति विदितवान् इत्यर्थः ।

अथ - विद्यानन्तरमेव, सत्यम् - अवितथम् , पुन­रा­वृ­त्ति­व­र्जितं कैवल्यं स्यात् इत्याह -
अथेति ।

अविद्यविषयेऽपि श्रुतिम् आह -
न चेदिति ।

जन्ममरणादिरूपा संसृतिः ‘वनष्टिः, तस्य महत्त्वम् - सम्यग्ज्ञानं विना निवर्तयितुम् अश्क्यत्वम् । विद्याविषये श्रुत्यन्तरम् आह -
तमेवमिति ।
परमात्मानं प्रत्यक्त्वेन यः साक्षात्कृतवान् , स देही जीवन्नेव मुक्तो भवति इत्यर्थः ।

विद्यां विनापि हेत्वन्तरतः मुक्तिम् आशङ्क्य, आह -
नेति ।

भयहेतुम् अविद्यां निराकर्वती, तज्जं भयमपि निरस्यति विद्या, इत्यत्र वाक्यान्तरमाह -
विद्वानिति ।

अविद्याविषये वाक्यान्तरमाह -
अविदुष इति ।
प्रतीचि एकरसे स्वल्पमपि भेदं मन्यमानस्य भेद­दृ­ष्ट्य­न­न्त­र­मेव संसारध्रौव्यम् , इत्यर्थः ।

तत्रैव श्रुत्यन्तरम् आह -
अविद्यायामिति ।
तन्मध्ये तत्परवशतया स्थिताः तत्त्वम् अजानन्तः देहा­द्य­भि­मा­न­वन्तः मूढाः संसरन्ति, इत्यर्थः ।

विद्याविषये श्रुत्यन्तरम् आह -
ब्रह्मेति ।

अविद्याविषये श्रुत्यन्तरम् आह -
अन्योसाविति ।

भेददृष्टिम् अनूद्य तन्निदानं अविद्या, इत्याह -
नेति ।

स च मनुष्याणां पशुवत् देवादीनां प्रेष्यतां प्राप्नोति, इत्याह -
यथेति ।

विद्याविषये वाक्यान्तरम् आह -
आत्मविदिति ।
इदं सर्वं प्रत्यग्भूतं पूर्ण व्रह्म, इत्यर्थः ।

‘ज्ञानादेव तु कैवल्यम् ‘ इत्यत्र श्रृत्यन्तरम् आह -
यदेति ।
न खलु आकाशं चर्मवत् मानवो वेष्टयितुम् ईष्टे, तथा परमात्मानां प्रत्यक्त्वेन अननुभूय न मुच्यत इत्यर्थः ।

आदिशब्देन अनुक्ता विद्या­वि­द्या­फ­ल­भे­दार्थाः श्रुतयो गृह्यन्ते । तासां भूयस्त्वेन प्रामाण्यं सूचयति -
सहस्रश इति ।

विद्या­वि­द्या­वि­षये स्मृतीः उदाहरति-
स्मृतयश्चेति ।

तत्र अविद्याविषयं वाक्यम् आह -
अज्ञानेनेति ।

विद्याविषयं वाक्यद्वयं दर्शयति -
इहेत्यादिना ।

विद्याफलम् अनर्थध्वस्तिः, अविद्याफलम् अनर्थाप्तिः, इत्येतद् अन्व­य­व्य­ति­रे­का­ख्य­न्या­या­दपि सिध्यति, इत्याह -
न्यायतश्चेति ।

तत्रैव पुराणसम्मतिम् आह-
सर्पानिति ।
उदपानाम् - कूपम् , यथा आत्मज्ञाने विशिष्टं फलं स्यात् तथा पश्य, इति योजना ।

न्यायतश्च इति अन्व­य­व्य­ति­रे­काख्यं न्यायम् उक्तं विवृणोति -
तथा चेति ।

तत्र आदौ अन्वयम् आचष्टे-
देहादिष्विति ।
अना­द्या­नि­र्वा­च्या­वि­द्या­वृतः चिदात्मा देहादौ अनात्मनि आत्मबुद्धिम् आदधाति, तद्युक्तः रागादिना प्रेर्यते, तत्प्रयुक्तश्च कर्म अनुतिष्ठति, तत्कर्ता च यथाकर्म नूतनं देहम् आदत्ते, पूरातनं त्यजति ; इत्येवम् अविद्यावत्वे संसारित्वं सिद्धम् , इत्यर्थः ।

व्यतिरेकम् इदानीं दर्शयति -
देहादीति ।
श्रुति­यु­क्तिभ्यां भेदे ज्ञाते रागादिध्वस्त्या कर्मोपरमात् अशे­ष­सं­सा­रा­सिद्धिः, इति अविद्याराहित्ये बन्धध्वस्तिः, इत्यर्थः ।

उक्तान्वयादेः अन्यथासिद्धिं शिथिलयति -
इति नेति ।
उक्तम् अन्वयादिवादिना, केनचिदपि न्यायतः न शक्यं प्रत्याख्यातुम् तद­न्य­था­सि­द्धि­सा­ध­का­भा­वात् , इत्यर्थः ।

अन्वयादेः अन­न्य­था­सि­द्धत्वे चोद्यमपि प्राचीनं प्रतिनीतम् , इत्याह -
तत्रेति ।
ज्ञानाज्ञानयोः उक्तन्यायेन स्वरूपभेदे कार्यभेदे च स्वारस्येन परापरयोः एक्येऽपि बुद्ध्या­द्यु­पा­धि­भे­दात् आविद्यकम् आत्मनः संसारित्वम् आभासरूपं प्रातिभासिकं सिध्यति, इत्यर्थः ।

आत्मनो ब्रह्मता स्वतश्चेद् , अहमिति आत्मभावेन ब्रह्मतापि भायात् , इत्याशह्क्य, आह -
यथेति ।
देहा­द्य­ति­रि­क्त­त्वस्य आत्मनः वैदिकपक्षे स्वतस्त्वेऽपि, तस्मिन् अहमिति भात्येव, तदतिरिक्तत्वं न भाति, किन्तु अविद्यातः देहा­द्या­त्म­त्व­मेव विपरीतं भासते ; तथा आत्मनो ब्रह्मत्वे स्वाभा­वि­क­त्वेऽपि तस्मिन् भात्येव, ब्रह्मत्वं न भाति, अविद्यातः अब्रह्मत्वमेव तु अस्य भास्यति, इत्यर्थः ।

आत्मनः देहा­द्या­त्म­त्वम् आविद्यं भाति इत्युक्तम् अनुभवेन स्पष्टयति -
सर्वेति ।

अतस्मिन् तद्बुद्धिः अविद्याकृता इत्यत्र दृष्टान्तम् आह -
यथेति ।
पुरःस्थिते वस्तुनि स्थाणौ अविद्यया पुमानिति निश्चयो जायते, तथा देहादौ अनात्मनि आत्मधीः अविद्यातो निश्चिता, इत्यर्थः ।

देहात्मनोः ऐक्यज्ञाने देहधर्मस्य जरादेः आत्मनि, आत्मधर्मस्य च चैतन्यस्य देहे विनिमयः स्यात् , इत्याशङ्क्य, आह -
न चेति ।

स्थाणौ पुरुषत्वं भ्रान्त्या भाति इति एतावता पुरुषधर्मः - शिरःपाण्यादिः न स्थाणोः भवति, तद्धर्मो वा वक्रत्वादिः न पुंसो दृश्यते, मिथ्या­ध्य­स्त­ता­दा­त्म्यात् वस्तुतो धर्माव्यतिकरात् , इति । दृष्टान्तम् उक्त्वा दार्ष्टन्तिकम् आह -
तथेति ।
जरादेः अना­त्म­ध­र्म­त्वेऽपि सुखादेः आत्मधर्मत्वम् इति केचित् , तान्प्रति आह - सुखेति । काम­स­ङ्क­ल्पा­दि­श्रुतेः अना­त्म­ध­र्म­त्व­ज्ञा­नात् , इत्यर्थः ।

किञ्च, विमतः, न आत्मधर्मः अवि­द्या­कृ­त­त्वात् , जरादिवत् । न च हेत्वसिद्धिः, अतस्मिन् तद् - बुद्धिविषयत्वेन स्थाणौ पुरुषत्ववत् अवि­द्या­कृ­त­त्वस्य उक्तत्वात् , इति मत्वा आह -
अविद्येति ।

स्थाणौ पुरुषत्ववत् आविद्यत्वं देहादेः अयुक्तम् , दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः वैषम्यात् , इति शङ्कते -
नेति ।

तदेव प्रपञ्चयति -
स्थाण्वि­त्या­दिना ।
ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्या­ध्या­स­स्यापि व्यावृत्तिः इत्यर्थः ।

देहात्मबुद्धेः भ्रमत्वाभावे फलितम् आह -
अत इति ।

उपाधिधर्माणां सुखादीनाम् उपहिते जीेवे वस्तुत्वम् अयुक्तम् , अतिप्रसङ्गात् , इति परिहरति -
नेत्यादिना ।

अतिप्रसङ्गमेव प्रकटयति -
यदीति ।
ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्या­ध्या­स­स्यापि व्यावृत्तिः इत्यर्थः ।

सुखादिः आत्मधर्मो न इति पक्षेऽपि नास्ति विशेषहेतुः, इत्याशङ्क्य, आह -
नेति ।

तदेव अनुमानं साधयति -
अविद्येति ।

विमतम् , न आत्मधर्मः, आगमायित्वात् , संसारवत् , इति अनुमानान्तरम् आह -
हेयत्वादिति ।
आदिशब्दात् दृश्य­त्व­ज­ड­त्वादि गृह्यते ।

सुखादीनां जरादिवद् आत्म­ध­र्म­त्वा­भावे, तस्य वस्तुतः असंसारिता, इति फलितम् आह -
तत्रेति ।

आरोपितेन अधिष्ठानस्य वस्तुतः अस्पर्शे दृष्टान्तम् आह -
यथेति ।

पराभिन्नस्य आत्मनः संसारित्वम् अध्यस्तम् इति स्थिते, यत् परस्य संसा­रि­त्वा­पा­द­नम् , तत् अयुक्तम् इत्याह -
एवं चेति ।

आत्मनि संसारस्य अारोपितत्वात् तदभिन्ने परस्मिन् न आशङ्का तस्य अयुक्ता इत्येतद् उपपादयति -
न हीति ।

स्याणौ पुरुषनिश्चयवत् आत्मनो देहा­द्या­त्म­त्व­नि­श्च­यस्य अध्यस्तता, इति अयुक्तम् , दृष्टान्तस्य ज्ञेय­मा­त्र­वि­ष­य­त्वात् , इतरस्य ज्ञेय­ज्ञा­तृ­वि­ष­य­त्वात् , इति उक्तम् अनुवदति -
यत्त्विति ।

वैषम्यं दूषयति -
तदसदिति ।

तर्हि केन साधर्म्यम् , इति पृच्छति -
कथमिति ।

अभीष्टं साधर्म्यं दर्शयति -
अविद्येति ।

तस्य उभयत्र अनुगतिम् आह -
तन्नेति ।

ज्ञेयान्तरे ज्ञेयस्य आरोपनियमात् ज्ञातरि न आरोपः स्यात् , इत्याशङ्क्य आह -
यत्त्विति ।

नायं नियमः, ज्ञातरि जराद्यारोपस्य उक्तत्वात् , इत्याह -
तस्यापीति ।
ज्ञेयस्यैव ज्ञेयान्तरे अध्यासनियमस्य इति यावत् । अतो ज्ञातरि न आरो­प­व्य­भि­चा­र­शङ्का, इत्यर्थः ।

आत्मनि अविद्याध्यासे, तत्र अविद्यायाः स्वाभाविकत्वात् तदधीनं संसारित्वमपि तथा स्यात् , इति शङ्कते -
अवि­द्या­व­त्त्वा­दिति ।

का अविद्या? विप­री­त­ग्र­हा­दिर्वा, अना­द्य­नि­र्वा­च्या­ज्ञानं वा? नाद्यः ; विपरीतग्रहादेः तम­श्श­ब्दि­ता­नि­र्वा­च्या­ज्ञा­न­का­र्य­त्वात् तन्निष्ठस्य आत्म­ध­र्म­त्वा­यो­गात् , इत्याह -
नेत्यादिना ।

तदेव प्रपञ्चयति -
तामसो हीति ।

आवरणात्मकत्वम् - वस्तुनि सम्य­क्प्र­का­श­प्र­ति­ब­न्ध­क­त्वम् । विपरीतग्रहणादेः अवि­द्या­का­र्यत्वं विद्या­पो­ह्य­त्वेन साधयति -
विवेकेति ।
न च कारणाविद्या अना­द्य­नि­र्वाच्या आत्मधर्मः स्यात् , इति युक्तम् , अनि­र्वा­च्य­त्वा­देव तस्याः तद्धर्मत्वस्य दुर्वचत्वात् , इति भावः ।

किञ्च, विपरीतग्रहादेः अन्व­य­व्य­ति­रे­काभ्यां दोष­ज­न्य­त्वा­व­ग­मा­दपि न आत्मधर्मता, इत्याह -
तामसे चेति ।
तम­श्श­ब्दि­ता­ज्ञा­नो­त्थ­व­स्तु­प्र­का­श­प्र­ति­ब­न्धकः तिमि­र­का­चा­दि­दोषः, तस्मिन् सति अज्ञानं मिथ्याधीः संशयश्च इति त्रयस्य उपलम्भात् , असति तस्मिन् अप्रतीतेः, अन्व­य­व्य­ति­रे­काभ्यां विपरीतज्ञानादेः दोषा­धी­न­त्वा­धि­ग­मात् न केवलात्मधर्मता, इत्यर्थः ।

दोषस्य निमित्तत्वात् भावकार्यस्य उपादाननियमात् अनि­र्वा­च्या­वि­द्या­याश्च असम्मतेः तस्यैव विपर्ययादेः उपादानत्वम् , इति चोदयति -
अत्राहेति ।
विपरीतग्रहादेः दोषोत्थत्वं सप्तम्यर्थः । अग्र­हा­दि­त्रि­त­यम् अविद्या । विपर्ययादेः सत्योपादानत्वे सत्य­त्व­प्र­स­ङ्गात् न आत्मा तदुपादानम् , किन्तु दोषस्य चक्षु­रा­दि­ध­र्म­त्व­ग्र­ह­णात् अग्रहणादेरपि दोषत्वात् करणधर्मत्वे, करणम् अविद्योत्थम् अन्तःकरणम् ।

न च - तद्धेतुः अविद्या असिद्धा इति - वाच्यम् ; अज्ञोऽहमिति अनुभवात् , स्वापे च अज्ञा­न­प­रा­म­र्शात् तदवगमात् कार्य­लि­ङ्ग­का­नु­मा­नात् आगमाच्च तत्प्रसिद्धेः, इति परिहरति -
नेत्यादिना ।

सङ्गृ­ही­त­चो­द्य­प­रि­हा­रयोः चोद्यं विवृणोति -
यत्त्विति ।

अवि­द्या­व­त्त्वेऽपि ज्ञातुः असंसारित्वात् उत्खा­त­दं­ष्ट्रो­र­ग­वत् अविद्या किं करिष्यति? इत्याशङ्क्य, आह -
तदेवेति ।

मिथ्या­ज्ञा­ना­दि­म­त्व­मेव आत्मनः संसारित्वम् इति स्थिते, फलितम् आह -
तत्रेति ।

न करणे चक्षुषि इत्यादिना उक्तमेव परिहारं प्रपञ्चयति -
तन्नेत्यादिना ।

तिमिरादिदोषः तत्कृतो विप­री­त­ग्र­हा­दिश्च न ग्रहीतुः आत्मनः अस्ति इत्यत्र हेतुमाह -
चक्षुष इति ।
तद्गतेन अञ्ज­ना­दि­सं­स्का­रेण तिमिरादौ पराकृते देवदत्तस्य ग्रहीतुः दोषा­द्य­नु­प­ल­म्भात् न तस्य तद्धर्मत्वम्ः अतो विमतं तत्वतः न आत्मधर्मः, दोषवत्त्वात् तत्का­र्य­त्वाद्वा, सम्मतवत् , इत्यर्थः ।

किञ्च विपरीतग्रहादिः, तत्त्वतो न आत्मधर्मः, वेद्यत्वात् , सम्प्रतिपन्नवत् , इत्याह -
संवे­द्य­त्त्वा­च्चेति ।

किञ्च, यत् वेद्यम् , तत् स्वाति­रि­क्त­वे­द्यम् , यथा दीपादि, इति व्याप्तेः विप­री­त­ग्र­हा­दी­ना­मपि वेद्यत्वात् अति­रि­क्त­वे­द्यत्वे, संवेदिता न सवेद्यधर्मवान् , वेदितृत्वात् , यथा देवदत्तो न स्वसं­वे­द्य­रू­पा­दि­मान् , इति अनुमानान्तरम् आह -
संवे­द्य­त्वा­दे­वेति ।

किञ्च, विपरीतग्रहादयः, तत्वतो न आत्मधर्माः, व्यभिचारित्वात् , कृशत्वादिवत् , इत्याह -
सर्वेति ।

उक्तमेव विवृण्वन् आत्मनो विपरीतग्रहादिः स्वाभाविको वा? आगन्तुको वा? इति विकल्प्य, आद्यं दूषयति -
आत्मन इति ।
अतो निर्मोक्षः अवि­द्या­त़­ज्ज­ध्वस्तेः असद्भावात् , इति भावः ।

आगन्तुकोऽपि स्वत­श्चे­द­मुक्तिः, परतश्चेत् तत्राह -
अविक्रियस्येति ।
विभुत्वाद् अविक्रियत्वाद् अमूर्तत्वाच्च आत्मा व्योमवत् न केनचित् संयोगविभागौ अनूभवति, न हि विक्रियाभावे व्योम्नि वस्तुतः संयोगविभागौ, असङ्गत्वाच्च आत्मनः तदसंयोगात् न परतोऽपि तस्मिन् विपरीतग्रहादि, इत्यर्थः ।

तस्य आत्म­ध­र्म­त्वा­भावे, फलितम् आह -
सिद्धमिति ।

आत्मनो निर्धर्मकत्वे भगवदनुमतिम् आह -
अनादित्वादिति ।

ईश्वरत्वे सति आत्मनः असंसारित्वे विधिशास्रस्य अध्यक्षादेश्च आनर्थक्यात् तात्त्विकमेव तस्य संसारित्वम् , इति शङ्कते -
नन्विति ।

विद्यावस्थायाम् अविद्यावस्थायां वा शास्त्रा­न­र्थ­क्यम् , इति विकल्प्य आद्यं प्रत्याह -
न सर्वैरिति ।
विदुषो मुक्तस्य संसा­र­त­दा­धा­र­त्वयोः अभावस्य सर्व­वा­दि­स­म्म­त­त्वात् तत्र शास्त्रा­न­र्थ­क्यादि चोद्यं मयैव न प्रतिविधेयम् इत्यर्थः ।

सङ्ग्रहवाक्य विवृणोति -
सर्वैरिति ।

अभि­प्रा­या­ज्ञा­नात् प्रश्ने स्वाभिप्रायम् आह -
कथमित्यादिना ।

तर्हि मुक्तान्प्रति विधिशास्त्रस्य अध्यक्षादेश्च आनर्थक्यम् , इत्याशङ्क्य आह -
न चेति ।
नहि व्यवहारातीतेषु तेषु गुणदोषशङ्का, इत्यर्थः ।

द्वेैतिनां मते, मुक्तात्मस्विव अस्मत्पक्षेऽपि क्षेत्रज्ञस्य ईश्वरत्वे, तं प्रति च शास्त्रा­द्या­न­र्थ­क्यम् विद्यावस्थायाम् आस्थितमिति, फलितम् आह -
तथेति ।

द्वितीयं दूषयति -
अविद्येति ।

तदेव दृष्टान्तेन विवृणोति -
यथेति ।
एवम् - अद्वेै­त­वा­दि­ना­मपि विद्योदयात् प्राक् अर्थवत्वं शास्त्रादेः, इति शेषः ।

द्वैेतिभिः अद्वैतिनां न साम्यम् , इति शंकते -
नन्विति ।

अवस्थयोः वस्तुत्वे तन्मते शास्त्रा­द्य­र्थ­वत्त्वं फलितम् आह -
अत इति ।

सिद्धान्ते तु न अवस्थयोः वस्तुता, इति वैषम्यम् आह -
अद्वैतिनामिति ।

व्यावहारिकं द्वैतं तन्मतेऽपि स्वीकृतम् , इत्याशङ्क्य, आह -
अविद्येति ।
कल्पितद्वैतेन व्यवहारात् न तस्य वस्तुता, इत्यर्थः ।

बन्धावस्थायाः वस्तुत्त्वाभावे दोषान्तरम् आह-
बन्धेति ।

आत्मनः तत्वतः अवस्थाभेदः द्वैतिनामपि नास्ति, इति परिहरति -
नेति ।

अनुपपत्तिं दर्शयितं विकल्पयति -
यदीति ।

तत्र अद्यं दूषयति -
युगपदिति ।

द्वितीयेऽपि क्रमभाविन्योः अवस्थयोः निर्निमित्तत्वं सनिमित्तत्वं वा, इति विकल्प्य, अद्ये सदा प्रसङ्गात् बन्धमोक्षयोः अव्यवस्था स्यात् ; इत्याह -
क्रमेति ।

कल्पान्तरं निरस्यति -
अन्येति ।

बन्ध­मो­क्षा­वस्थे, न परमार्थे, अस्वा­भा­वि­क­त्वात् , स्फटि­क­लौ­हि­त्य­वत् , इति स्थिते, फलितम् आह -
तथा चेति ।
वस्तुत्वम् इच्छता अवस्थयोः वस्तुत्वोपगमात् , इत्यर्थः ।

इतश्च अवस्थयोः न वस्तुत्वम् , इत्याह -
किञ्चेेति ।

अवस्थयोः वस्तुत्त्वम् इच्छता तयोः यौगपद्यायोगात् वाच्ये क्रमे, बन्धस्य पूर्वत्वं मुक्तेश्च पाश्चात्यम् इति स्थिते, बन्धस्य आदित्वकृतं दोषम् आह -
बन्धेति ।
तस्याश्च अकृ­ता­भ्या­ग­म­कृ­त­वि­ना­श­नि­वृ­त्तये अनादित्वं एष्टव्यम् अन्तवत्त्वञ्च मुक्त्यर्थम् आस्थेयम् ; तच्च यत् अनादिभावरूपं तत् नित्यम् , यथा आत्मा, इति व्याप्ति­वि­रु­द्धम् , इत्यर्थः ।

मोक्षस्य पाश्चात्यकृतं दोषम् आह -
तथेति ।
सा हि ज्ञाना­दि­सा­ध्या­त्वात् आदिमती, पुन­रा­वृ­त्त्य­न­ङ्गी­का­रात् अनन्ता च । तच्च यद् सादिभावरूपम् तद् अन्तवत् , यथा पटादि, इति व्याप्त्य­न्त­र­वि­रु­द्धम् , इत्यर्थः ।

किञ्च, क्रम­भा­वि­नी­भ्याम् अवस्थाभ्याम् आत्मा सम्बध्यते, न वा, प्रथमे, पूर्वावस्थया सहैव उत्तरावस्थां गच्छति चेद् , उत्त­रा­व­स्था­या­मपि पूर्वा­व­स्था­व­स्था­नाद् अनिर्मोक्षः ; यदि पूर्वावस्थां त्यक्त्वा उत्तरावस्थां गच्छति, तदा पूर्व­त्या­गो­त्त­राप्त्योः आत्मनः सातिशयत्वात् नित्य­त्वा­नु­प­पत्तिः, इत्याह -
न चेति ।

आत्मनः अव­स्था­द्व­य­स­म्बन्धो नास्ति इति, द्वितीयम् अनूद्य दूषयति -
अथेत्यादिना ।

तर्हि, पक्षद्वयेऽपि दोषाविशेषात् न अद्वैतमतानुरागे हेतुः, इत्याशङ्क्य, अविद्याविषये च इत्युक्तं विवृणोति -
न चेति ।

तदेव स्फुटयति -
अविदुषां हीति ।
फलम् - भोक्तृत्वम् , कर्तृत्वम् - हेतुः यद्वा फलम् - देहविशेषः. हेतुं - अदृष्टम् ; तयोः अऩात्मनोः ‘भोक्ताहम् ‘ ‘कर्ताहम् ‘ ‘मनुष्योऽहम् ‘ इत्या­द्या­त्म­द­र्श­नम् अधिकारकारणम् , तेन अविद्बद्विषयं विधि­नि­षे­ध­शा­स्त्रम् इत्यर्थः ।

विदुषामपि ‘मनुष्योऽहम् ‘ इत्या­दि­व्य­व­हा­रात् तद्विषयं शास्त्रं किं न स्यात् ? इत्याशङ्क्य, आह -
नेति ।
भोक्तृ­त्व­क­र्तृ­त्वाभ्यां ब्राह्म­ण्या­दि­मतः देहात् धर्माधर्माभ्यां च आत्मनः अन्यत्वं पश्यतः न विधि­नि­षे­धा­धि­का­रि­त्वम् , उक्तफलादौ आत्मी­या­भि­मा­ना­स­म्भ­वात् , इत्यर्थः ।

आत्मनः देहादेः अन्यत्वदर्शिनः न देहादौ आत्मधीः, इत्येतद् उपपादयति -
न हीति ।

विदुषो न विधि­नि­षे­धा­का­रिता, इत्युक्तम् उपसंहरति -
तस्मादिति ।

शास्त्रस्य अवि­द्व­द्वि­ष­य­त्व­मिव विद्व­द्वि­ष­य­त्व­मपि मन्तव्यम् , उभयोरपि शास्त्र­थ­व­णा­वि­शे­षात् , इत्याशङ्क्य, आह -
न हीति ।
तत्रस्थः - यस्मिन् देशे देवदत्तः स्थितः, तत्रैव वर्तमानः सन् , इत्यर्थः ।

ननु, देवदत्ते नियुक्ते विष्णुमित्रोऽपि कदाचित् नियुक्तोऽस्मि इति प्रतिपद्यते, सत्यम् , नियोगविषयात् नियोज्यात् आत्मनो विवेकाग्रहणात् नियो­ज्य­त्व­भ्रान्तेः, इत्याह -
नियोगेति ।

अविवेकिनो नियोगधीः भवति इति दृष्टान्तम् उक्त्वा, फले हेतौ च आत्म­दृ­ष्टि­वि­शि­ष्टस्य अविदुषः सम्भवत्येव विधि­नि­पे­धा­धि­का­रि­त्वम् इति दार्ष्टान्तिकम् आह -
तथेति ।

विधि­नि­षे­ध­शा­स्रम् अविद्वद्विषयम् इति वदता शास्त्रा­न­र्थक्यं समाहितम् , सम्प्रति शास्त्रस्य विद्व­द्वि­ष­य­त्वे­नैव अर्थवत्वं शक्यसमर्थनम् इति शङ्कते -
नन्विति ।
प्रकृतिः - अवद्या, ततो जातो यो देहादौ अभिमातात्मा सम्बन्धः विद्योदयात् प्राक् अनुभूतः, तदपेक्षया विधिना प्रव­र्ति­तोऽम्मि, निपेधेन नवर्तितोऽस्मि, इति विधिनिषेधविषया सत्यामपि विद्यायां धीः युक्तैव, इत्यर्थः ।

विदुषोऽपि पूर्वम् आविद्यं सम्बन्धम् अपेक्ष्य विधिनिषेधविषयां धियम् उक्तामेव व्यक्ताकरोति -
इष्टेति ।

ननु, अविदुषः मिथ्याभिमानवत् न विदुषः सोऽनुवर्तते, तथा च अवि­द्या­स­म्ब­न्धा­पे­क्षया न युक्ता विदुषो यथोक्ता धीः इति तत्राह -
यथेति ।
पिता, पुत्रो, भ्राता, इत्यादीनां मिथः अन्य­त्व­दृ­ष्टा­वपि अन्यो­न्य­नि­यो­गा­र्थस्य निषेधार्यस्य च धीः इष्टा, ‘अथानः सम्पत्तिर्यदा पैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोकः’(बृ. उ. १-५-१७) इत्या­दि­स­म्प्र­त्ति­श्रुत्या अशेषानुष्ठानस्य पुवकार्यता प्रतिपादनात् । पुत्रञ्च अधिकृत्य विधिनिषेध प्रवृत्तौ तस्य तदशक्तौ पितुः तदर्था धोः उपगता । तथा भ्रात्रादिष्वपि द्रष्टव्यम् । एवं विदुषः हेतुफलाभ्याम् अन्य­त्व­द­र्श­नेऽपि प्राक्का­ली­ना­वि­द्य­दे­हा­दि­स­म्ब­न्धात् अविरुद्धा विधिनिषेधा धीः, इत्यर्थः ।

पुत्रादीनां मिथ्याभिमानात् मिथः नियोगधीः युक्ता, तत्त्व­द­र्शि­नस्तु तदभावात् न देहा­दि­स­म्ब­न्धा­धीना नियोगधीः इति परहरति -
नेत्यादिना ।

किञ्च ‘सर्वापेक्षा च यज्ञा­दि­श्रु­ते­र­श्व­वत् ‘ इति सर्वा­पे­क्षा­धि­क­रणे सम्यग्ज्ञानस्य अदृ­ष्ट­सा­ध्य­त्वोक्तेः विधि­नि­षे­धा­र्था­नु­ष्ठानं सम्य­ग्ज्ञा­ना­त्पू­र्व­मिति, कुतो विदुषः तदनुष्ठानम् ? इत्याह -
प्रतिपन्नेति ।

सति अदृष्टे सम्य­ग्धी­दृष्टेः, असति च अशुद्धबुद्धेः तदभावात् , अन्व­य­व्य­ति­रे­का­भ्याम् , विवि­दि­षा­वा­क्याच्च विधि­नि­षे­धा­नु­ष्ठा­नात् पूर्वं न सम्यग्धीः, इत्याह -
न पूर्वमिति ।

विधिनिषेधयोः विद्व­द्वि­ष­य­त्वा­योगे फलितम् आह -
तस्मादिति ।

शास्त्रस्य अवि­द्व­द्वि­ष­य­त्वेन उक्तम् अर्थवत्त्वम् आक्षे­प­स­मा­धिभ्यां प्रपञ्चयितुम् आक्षिपति -
नन्विति ।
चकारात् ऊर्ध्वम् अप्रवृत्तिरिति सम्बध्यते । आत्मनो देहाद्व्यतिरेकं पश्यतां देहा­द्य­भि­मा­न­रू­पा­धि­का­र­हे­त्व­भा­वात् विधितो यागादौ अप्रवृत्तिः, निषेधाच्च अभ­क्ष्य­भ­क्ष­णादेः न निवृत्तिः । अतः तेषां प्रवृ­त्ति­नि­वृत्त्योः अभावे, देहादौ आत्मत्वम् अनुभवतामपि न ते युक्ते तेषां पार­लौ­कि­क­भो­क्तृ­प्र­ति­प­त्त्य­भा­वात् , इत्यर्थः ।

विदुषाम् अविदुषां च प्रवृ­त्ति­नि­वृ­त्त्य­भावे फलितम् आह-
अत इति ।

आत्मनो देहाद्यतिरेकं परोक्षम् अपरोक्षं च देहाद्यात्मत्वं पश्यतः शास्त्रा­नु­रो­धा­देव प्रवृ­त्ति­मि­वृ­त्त्यु­प­पत्तेः न शास्त्रा­न­र्थ­क्यम् , इति उत्तरम् आह -
नेत्यादिना ।
प्रसिद्धिः अत्र शास्त्रीया अभिमता ।

एतदेव विवृण्वन् ब्रह्मविदो वा, नैरात्म्यवादिनो वा, परोक्षज्ञानवतो वा, प्रवृ­त्ति­नि­वृत्ती विवक्षसि, इति विकल्प्य, आद्यं दूषयति -
ईश्वरेति ।
न निवर्तते च इत्यपि द्रष्टव्यम् ।

द्वितीयं निरस्यति -
तथेति ।
पूर्ववत् अत्रापि सम्बन्धः ।

तृतीयम् अङ्गीकरोति -
यथेति ।
विधिनिषेधादीनां प्रसिद्धिं अनुरुन्धानः सन् इति यावत् । चकारात् निवर्नते च इति अऩुकृष्यते ।

ब्रह्मविदं नैरात्म्यवादिनं च त्यकत्वा देहा­द्य­ति­रि­क्तम् आत्मानां परोक्षम् , अपरोक्षं च देहाद्यात्मत्वं पश्यतः, विधि­नि­षे­धा­धि­का­रित्वे सिद्धे फलम् आह -
अत इति ।

विधान्तरेण शस्रा­र्था­न­र्थक्य चोदयति -
विवेकिनामिति ।
दृष्टा हि तेषां विधिनिषेधयोः अप्रवृत्तिः, न हि देहादिभ्यो निष्कृष्टं आत्मानं दृष्टवतां तयोः अधिकारः, तेन तान् प्रति शास्त्रं न अर्थवत् । न च देहा­द्या­त्म­त्व­दृशः तत्र अधिक्रियन्ते, तेषां ‘यद्यदाचरति’(भ. गी. ३-२१) इति न्यायेन विवेकिनः अनुगच्छतां विध्यादौ अप्रवृत्तेः ; अतः अधिकार्यभावात् विध्या­दि­शा­स्त्रस्य तद­नु­सा­रि­शि­ष्टा­चा­रस्य च आनर्तक्यम् , इत्यर्थः ।

किं सर्वेषां विवेकित्वात् अधिकार्यभावात् आनर्थक्यं शास्त्रस्य उच्यते? किं वा कस्यचिदेव विवेकित्वेऽपि तद­नु­व­र्त्ति­त्वात् अन्येषाम् अप्रवृत्तेः आनर्थक्यं चोद्यते? तत्र प्रथमं प्रत्याह -
न कस्यचिदिति ।

‘मनुष्याणां सहस्रेषु’(भ. गी. ७-३) इति न्यायेन उक्तमेव स्फुटयति -
अनेकेष्विति ।

तत्र अनुभवानुरोधेन दृष्टान्तम् आह -
यथेति ।

द्वितीयं दूषयति -
न चेति ।

किञ्च, विवेकिनाम् अप्रवृत्तौ अन्येषामपि अप्रवृत्तिः, इति आशङ्कां निरसितुम् , श्येनादौ तदप्रवृत्तावपि इतरप्रवृत्तेः, इत्याह -
अभिचरणादौ चेति ।

अविवेकिनां रागादिशरा प्रवृ­त्त्या­स्पदं सर्वं सङ्ग्रहीतुम् आदिपदम् । इतश्च विवेकिनां प्रवृ­त्त्या­भा­वेऽपि न अज्ञस्य अप्रवृनिः, इत्याह -
स्वाभा­व्या­च्चेति ।

प्रवृत्तेः स्वभा­वा­ख्या­ज्ञा­न­का­र्यत्वे भगवद्वाक्यम् अनुकुलयति -
स्वभावस्त्विति ।

प्रवृत्तेः अज्ञानजत्वे विधिनिषेधाधीन वृत्ति­नि­वृ­त्त्या­त्मक सन्धम्य अवि­द्या­मा­त्र­त्वात् अवि­द्व­द्वि­ष­यत्वं शास्त्रस्य सिद्धम् , इति फलितम् आह -
तस्मादिति ।
दृष्टमेव अनुमरन् अविद्वान् , यथादृष्टः ; तद्विषयः - तदाश्रयः संसारः, तथा च प्रवृ­त्ति­नि­वृ­त्त्या­त्म­क­सं­सा­रस्य अवि­द्व­द्वि­ष­य­त्वात् तद्धे­तु­वि­धि­शा­स्र­स्यापि तद्विषयत्वाम् , इत्यर्थः ।

ननु, अविद्या क्षेत्रज्ञं आश्रयन्ती स्वकार्यं संसारमपि तस्मिन् आधत्ते, तेन तस्यैव शास्रा­ध्रि­का­रि­त्वम् ; नेत्याह -
नेति ।

अविद्यादेः शुद्घे क्षेत्रज्ञे वस्तुतः असम्बन्धेऽपि, तस्मिन् आरोपितं तमेव दुःखीकरोति, इति, अत्राह -
न चेति ।

तदेव दृष्टान्तेन स्पष्टयति -
न हीति ।

क्षेत्रज्ञस्य वस्तुतः अवि­द्याऽ­स­म्बन्धे भगववृचोऽपि द्योतकम् , इत्याह -
अत इति ।

क्षेत्र­ज्ञे­श्व­रयोः ऐक्ये किमिति असौ आत्मानम् अहमिति बुध्यमानोऽपि स्वस्य ईश्वरत्वम् ईश्वरोऽस्मि इति न बुध्यते, तत्राह -
अज्ञानेनेति ।

आरमनो वस्तुतः संसारासंस्पर्शे विद्व­द­नु­भ­व­वि­रोधः स्यात् , इति, चोदयति -
अथेति ।
एवमिति - आभि­जा­त्या­दि­वै­शि­ष्ट्यम् उक्तम् । इदमा क्षेत्रकलत्रादि । पण्डितानामपि प्रतीलं संसारित्वम् इति शेषः ।

किं पाण्डित्यं देहादौ आत्मदर्शनम् ? किं वा कूट­स्था­त्म­दृष्टिः? आहो संसा­रि­त्वा­दिधीः? इति विकल्प्य आद्यं निराकुर्वन् आह -
श्रृण्विति ।
तच्च वस्तुतः असं­सा­रि­त्वा­वि­रोधि । प्रातिभासिकं तु संसारित्वम् इष्टम् , इति शेषः ।

द्वितीयं दूषयति -
यदीति ।
न हि कूटस्थात्मविषयं संसारित्वं प्रतीयते, येन वस्तुतः असंसारित्वां विरुध्येत ; कूट­स्था­त्म­धी­वि­रु­द्धायाः संसा­रि­त्व­बुद्धेः अनवकाशित्वात् , इत्यर्थः ।

आत्मानम् अक्रियं पश्यतोऽपि कुतो भोगकर्मणी न स्याताम् ? इत्याशङ्क्य, आह -
विक्रियेति ।

अवि­क्रि­या­त्म­बुद्धेः भोग­क­र्म­का­ङ्क्षयोः अभावे, कस्य शास्त्रे प्रवृत्तिः, इत्याशङ्क्य आह -
अथेति ।
फला­र्थि­त्वा­भा­वात् विदुषः न कर्मणि प्रवृत्तिः इत्येवं स्थिते सति अनन्तरम् अविद्वान् फलार्थित्वात् तदुपाये कर्मणि प्रवर्त्तते शास्त्राधिकारी, इत्यर्थः ।

विदुषः वैध­प्र­वृ­त्त्य­भा­वेऽपि निषे­धा­धी­न­नि­वृ­त्ते­रपि दुर्वचत्वात् तस्य निवृ­त्ति­नि­ष्ठ­त्वा­सिद्धिः, इत्याशङ्क्य, आह -
विदुष इति ।

तृतीयम् उत्थापयति -
इदं चेति ।

सिद्धान्तात् अविशेषम् आशङ्क्य, क्षेत्रस्य क्षेत्रज्ञात् वस्तुतो भिन्नत्वेन तद्वि­ष­य­त्वा­ङ्गी­का­रात् , मैवम् , इत्याह-
क्षेत्रं चेति ।

अहन्धीवेद्यस्य आत्मनो वस्तुतः संसा­रि­त्व­स्वी­का­राच्च सिद्धान्तात् भेदो अस्ति, इत्याह -
अहन्त्विति ।

संसारित्वमेव स्फोरयति -
सुखीति ।

संसारित्वास्य वस्तुत्वे तदनिवृत्त्या पुमर्थासिद्धिः, इत्याशङ्क्य, आह -
संसारेति ।

कथं तदुपरमस्य हेतुं विना कर्तव्यत्वम् ? इत्याशङ्क्य, आह -
क्षेत्रेति ।

क्षेत्रं ज्ञात्वा ततो निष्कृष्टस्य क्षेत्रज्ञस्य ज्ञानं कथं संसारोपरतिम् उत्पादयेत् ? इत्याशङ्क्य, आह -
ध्यानेनेति ।

संसारित्वम् आत्मनो बुध्यमानस्य तद्रहितात् ईश्वरात् अन्यत्वम् इति वक्तुम् इतिशब्दः । तदेव अन्यत्वम् उपपादयति -
यश्चेति ।
मम संसारिणः असंसारीश्वरत्वं कर्तव्यम् इत्येवं यो बुध्यते, यो वा तथाविधं ज्ञानं तव कर्तव्यम् इति उपदिशति ; स क्षेत्रज्ञात् ईश्वरात् अन्यो ज्ञेयः अन्यथा उप­दे­शा­न­र्थ­क्यात् , इत्यर्थः ।

आत्मा संसारी परस्मात् आत्मनः अन्यः, तस्य ध्याना­धी­न­ज्ञा­नेन ईश्वरत्वं कर्तव्यम् , इत्येतद् ज्ञानं पाण्डित्यम् , इति मतं दूषयति -
एवमिति ।
‘अयमात्मा ब्रह्म’(बृ. उ. २-५-१९) इति आत्मनो ब्रह्म­त्व­श्रु­ति­वि­रो­धात् , इत्यर्थः ।

ननु, संसारस्य वस्तु­त्वा­ङ्गी­का­रात् तत्प्र­ती­त्य­व­स्थायां कर्मकाण्डस्य अर्थवत्त्वम् , संसा­रि­त्व­नि­रा­सेन आत्मनो ब्रह्मत्वे ध्यानादिना साधिते, मोक्षावस्थायां ज्ञानकाण्डस्य अर्थवत्त्वम् , तत्कथं यथोक्तज्ञानवान् पण्डितापसदत्वेन आक्षिप्यते? तत्राह -
संसारेति ।
करोमि इति मन्यमानो यः, स पण्डितापसद इति पूर्वेण सम्बन्धः । कर्मकाण्डं हि कल्पितं संसारित्वम् अधिकृत्य साध्य­सा­ध­न­स­म्बन्धं बोधयत् अर्थवत् इष्टम् । ज्ञानकाण्डमपि तथापिधं संसारित्वं पराकृत्य अखण्डैकरसे प्रत्य­ग्ब्र­ह्मणि पर्यवस्यदु अर्थवत् भवेत् , इत्यर्थः ।

किं च, आत्मनः शास्त्रसिद्धं ब्रह्मत्वं त्यक्त्वा अब्रह्मत्वं कल्पयन् आत्महा भूत्वा लोक­द्व­य­ब­हि­र्भूतः स्यात् , इत्याह -
आत्महेति ।

ननु, ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्यनेन सर्वत्र अन्तर्यामी परः जीवादन्यः निरुच्यते, न जीवस्य ईश्वरत्वम् अत्र प्रतिपाद्यते । तत् कथम् इत्थम् आक्षिप्यते ? तत्राह -
स्वयमिति ।

किञ्च, तत्वमसीतिवत् प्रसि­द्ध­क्षे­त्र­ज्ञा­नु­वा­देन अप्रसिद्धं तस्य ईश्वरत्वम् इह उपदेशतः धृतं तस्य हानिम् , अश्रुतस्य च जीवेश्वेरयोः तात्विकभेदस्य कल्पनां कुर्वन् कथं व्यामूढो न स्यात् ? इत्याह -
श्रुतेति ।

ननु, केचन व्याख्यातारः यथोक्तं पाण्डित्यं पुरस्कृत्य क्षेत्रज्ञे चापि इत्यादिश्लोकं व्याख्यातवन्तः ; तत्कथम् उक्तपाण्डित्यम् आस्थातुः व्यासू़टत्वम् ? तत्राह -
तस्मादिति ।

‘क्षेत्रज्ञं चापि’ इत्यत्र क्षेत्र­ज्ञे­श्व­रयोः ऐक्यं स्वाभीष्टं स्पष्टयितुं प्रत्युक्तमेव चोद्यम् अनुद्रवति -
यत्तूक्तमिति ।

तात्त्विकम् एकत्वम् , अतात्त्विकं संसारित्वम् , इत्यङ्गीकृत्य उक्तमेव समाधिं स्मारयति -
एताविति ।

ईश्वरस्य संसारित्वं संमार्यभावेन संसाराभावश्च इत्युक्तौ दोषौ, विद्याविद्ययोः वैलक्षण्येऽपि कथं प्रत्युक्तौ, इति दृच्छति-
कथमिति ।

कल्पितसंसारेण कल्पनाधिष्ठानम् अद्वयं वस्तु वस्तुतो न सम्बद्धम् , इति परिहरति-
अविद्येति ।
तद्विषयम् - कल्पनास्पदम् अधिष्ठानम् , इति यावत् ।

कल्पितेन अधिष्ठानस्य वस्तुतः असंस्पर्शे दृष्टान्तं स्मारयति-
तथा चेति ।

ईश्वरस्य नंसा­रि­त्वा­प्र­सङ्गं प्रकटोकृत्य प्रस­ङ्गा­न्त­र­नि­रा­सम् अनुस्मारयति -
संसारिण इति ।

न तावद् अविद्य संसारं संसारिणं च कल्पयति स्वतन्त्रा, तत्वव्याधातात् ; पारतन्त्र्ये च आश्र­या­न्त­रा­भा­वात् क्षेत्रज्ञस्य तद्वत्त्वे संसारित्वम् , इति शङ्कते -
नन्विति ।
न च अविद्यावत्त्वम् अविद्याकृतम् अनवस्थानात् , इति भावः ।

यत्तु - उत्खा­त­र्द­ष्ट्वो­र­ग­वत् अविद्या किं करिष्यति - इति, तत्राह -
तत्कृतं चेति ।

अविद्यातज्जयोः ज्ञेयत्वात् न आत्मधर्मता इति उत्तरम् आह -
नेत्यादिना ।

तदेव प्रपञ्चयति -
यावदिति ।

ज्ञेयस्य क्षेत्र­ध­र्म­त्वेऽपि क्षेत्रद्वारा क्षेत्रज्ञस्य तत्कृतदोषवत्ता, इत्याशङ्कय, आह -
न चेति ।

क्षेवस्यापि ज्ञेयत्वात् न तेन चितः वस्तुतः स्पर्शोऽस्ति, इति उपपादयति -
यदीति ।

धर्मर्धामत्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिः? इत्याशङ्क्य, आह -
यदीति ।
आत्मधर्मस्य आत्मना ज्ञेयत्वे, स्वस्यापि ज्ञेय­त्वा­पत्त्या कर्तृकर्मविरोधः स्यात् , इत्यर्थः ।

किं च, विमतम् , न क्षेत्र­ज्ञा­श्रि­तम् , तद्वेद्यत्वात् , रूपादिवत् , इत्यह -
कथं वेति ।

किं च, ‘महाभूतानि’ इत्यादिना ज्ञेयमात्रस्य क्षेत्रा­न्त­र्भा­वात् न अविद्यादेः ज्ञातृधर्मता इत्याह -
ज्ञेयं चेति ।

किञ्च, ‘एतद्यो वेत्ति’(भ. गी. १३-१) इत्युक्तत्वात् क्षेत्रज्ञस्य ज्ञातृ­त्व­नि­र्ण­यात् , न नत्र ज्ञेयं किञ्चित् प्रविशति, इत्याह -
ज्ञातैवेति ।

क्षेत्र­क्षे­त्र­ज्ञयोः एवंस्वाभाव्ये सिद्धेसिद्धं क्षेवधर्मत्वम् अविद्यादेः, इति फलितम् आह -
इत्यवधारित इति ।

विरोधाच्च न क्षेत्र­ज्ञ­ध­र्म­त्वम् अविद्यादेः, इत्याह -
क्षेत्रज्ञेति ।

विरूद्धवादित्वे मूलं दर्शयति -
अविद्येति ।

मात्रपदस्य व्यावर्त्य मान­यु­क्त्या­ख्यम् अवष्टम्भान्तरम् इति वक्तुं केवलपदम् । यया अविद्यया विरुद्धमपि निर्वोढुं शक्यते, तस्याः स्वात­न्त्र्या­भा­वात् चितः अन्यस्य अविद्यमानत्वेन अतदाश्रयत्वात् , -तस्याः विद्यास्वभावतया तदा­श्र­य­त्व­व्या­घा­तात् , आश्रयजिज्ञासया पृच्छति -
अत्राहेति ।

आश्रयमात्रं पृच्छ्यते? तद्विशेषो वा? प्रथमे, प्रश्नस्य अनवकाशत्वं मत्वा आह -
यस्येति ।
अविद्या दृश्या? अदृश्या वा? दृश्यत्वे, पारतन्त्र्यात् किञ्चि­न्नि­ष्ठ­त्वे­नैव तदूदृष्टेः न आश्रयमात्रं प्रष्टव्यम् , अदृश्यत्वे वा, अप्रकाशत्वाद् असिद्धिरेव स्यात् , इत्यर्थः ।

द्वीतीयम् आलम्बते -
कस्येति ।

अविद्यायाः दृश्यमानत्वात् आश्रयविशेषस्य आत्मनोऽपि स्वानु­भ­व­सि­द्ध­त्वात् प्रश्नस्य निरवकाशता, इति उत्तरम् आह -
अत्रेति ।

प्रश्नानर्थक्यं प्रश्नद्वारा स्फोरयति -
कथमित्यादिना ।

तथापि कथं प्रश्नासिद्धिः? तत्राह -
न चेति ।

तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः वैषम्यं चोदयति -
नन्विति ।

अज्ञानाश्रयस्य परोक्षत्वेऽपि प्रश्न­नै­र­र्थ­क्यम् , इ्त्याह -
अप्रत्यक्षेणेति ।
अविद्यावतः अप्र­त्य­क्ष­त्वेऽपि तेन अविद्यासम्बन्धे सिद्धेप्रष्टुः तव प्रश्ना­न­र्थ­क्य­स­माधिः न कश्चित् , इत्यर्थः ।

अबु­द्ध­प­रा­भि­सन्धिः शङ्कते -
अविद्याया इति ।

अविद्यावतः तत्परिहारात् न अन्येन प्रयतितव्यम् , इत्याह -
यस्येति ।

ममैव अविद्यावत्वात् तत्परिहारे मया प्रयतितव्यम् , इति शह्कते -
नन्विति ।

तर्हि प्रश्ना­न­र्थ­क्यम् , इति सिद्धिान्ती स्वाभिसन्धिम् आह -
जानासीति ।

आत्मानम् अविद्यावन्तं जानन्नपि तद्बि­ष­या­ध्य­क्षा­भा­वत् पृच्छामि, इति शङ्कते -
जानामीति ।

अविद्यावतः अप्रत्यक्षत्वं वदता - तस्य ‘अहमविद्यावान् ‘ अवि­द्या­का­र्या­व­त्त्वात् , व्यतिरेकेण मुक्तात्मवत, इति अनुमेयत्वं इष्टम् , इति अभ्युपेत्य दूषयति -
अनुमानेनेति ।

आत्मनः अवि­द्या­स­म्ब­न्ध­ग्रहे का अनुपपत्तिः? इति आशङ्क्य, ज्ञातैव आत्मा स्वस्य अविद्यासम्बन्धं बुध्यते? अन्यो वा ज्ञाता? इति विकल्प्य, आद्यं दूषयति -
न हीति ।
तत्काले स्वस्य अविद्यां प्रति ज्ञातृ­त्वा­व­स्था­याम् , इति यावत् ।

अविद्यां विषयत्वेन गृहेत्वा तज्ज्ञा­तृ­त्वे­नैव उपयुक्तस्य आत्मनः तस्याः स्वात्मनि कुतः सम्ब­न्ध­ज्ञा­तृ­त्वम् ? एकस्य कर्म­क­र्तृ­त्व­वि­रो­धात् , इत्याह -
अविद्याया इति ।

दीतीयं निरस्यति -
न चेति ।
यो ग्रहीता, स न सम्भवति, इति सम्बन्धः । तद्विषयमिति । ज्ञातुः अविद्यायाश्च सम्बन्धः तच्छब्दार्थः ।

अनवस्थामेव प्रपञ्चयति -
यदीति ।

आत्मनः स्वप­र­ज्ञे­य­त्वा­यो­गात् तस्मिन् अवि­द्या­स­म्ब­न्धस्य अप्रा­मा­णि­क­त्वात् नित्या­नु­भ­व­ग­म्यत्वे स्थिते, फलितं आह -
यदि पुनरिति ।
यदा च एवं, तदा इत्यध्याहार्यम् ।

ज्ञातुः आत्मनः न किञ्चिद् - दुष्यति इति, एतद् अमृष्यमाणः शङ्कते -
नन्विति ।

किं ज्ञातृत्वं ज्ञान­क्रि­या­क­र्तृ­त्वम् ? ज्ञानस्वरूपत्वं वा? नाद्यः, तदनभ्युपगमात् तत्प्र­यु­क्त­दो­षा­भा­वात् । द्वीतीये ज्ञातृत्वस्य औपचरिकत्वात् न तत्कृतो दोषोऽस्ति, इत्याह -
नेत्यादिना ।

असत्यामपि क्रियायां क्रियोपचारं दृष्टान्तेन स्फुटयति -
यथेति ।

आत्मनि वस्तुतः विक्रियाभावे भगवदनुमतिं दर्शयति -
यथात्रेति ।
गीताशास्त्रं सप्तम्यर्थः । स्वत एव आत्मनि क्रिया­द्या­त्म­त्वा­भावः भगवता शास्त्रे यथोक्तः, तथैव व्याख्यातम् अस्माभिः, इति सम्बन्धः ।

कथं तर्हि क्रियादिः आत्मनि भाति? तत्राह -
अविद्येति ।

यथा वस्तुतो नास्ति आत्मनि क्रियादिः, उपचारात्तु भाति, तथा तत्र तत्र अतीतप्रकरणेषु भगवता कृतो यत्नः, इत्याह -
तथेति ।

न केवलम् अतीतेष्वेव प्रकरणेषु वास्त­व­क्रि­या­द्य­भा­वात् आत्मनि आद्यासिकी तद्धीः उक्ता, किन्तु वक्ष्य­मा­ण­प्र­क­र­णे­ष्वपि तथैव भग­व­द­भि­प्रा­य­द­र्शनं भविष्यति, इत्याह -
उत्तरेषु चेति ।

आत्मनि वास्त­व­क्रि­या­द्य­भावे अध्यासाच्च तत्सिद्धौ, कर्मकाण्डस्य अवि­द्व­द­धि­का­रि­त्व­प्राप्तौ, ‘विद्वान् यजेत’ ‘ज्ञात्वा कर्मारभेत’ इत्या­दि­शा­स्र­वि­रोधः स्यात् , इति शङ्क्ते -
हन्तेति ।

शास्रस्य व्यति­रे­क­वि­ज्ञा­ना­भि­प्रा­य­त्वात् अश­ना­या­द्य­ती­ता­त्म­धी­वि­ध­र­स्यैव कर्म­का­ण्डा­धि­का­रिता, इति अङ्गीकरोति -
सत्यमिति ।

कथम् अज्ञस्यैैव कर्मधिकारित्वम् उपपन्नम् ? इत्याशङ्क्य, आह -
एतदेव चेति ।

ज्ञानिनः ज्ञान­नि­ष्ठा­या­मेव अधिकारः, निष्ठान्तरे तु अज्ञस्यैव, इति उपसंहारप्रकरणे विशेषतः भविष्यति, इत्याह -
सर्वेति ।

तदेव अनुक्रामति -
समासेनेति ।

जीवब्रह्मणोः ऐक्याभ्युपगमे न किञ्चिद् अवद्यम् , इति उपसंहरति -
अलमिति
॥ २ ॥

एवं श्लोकद्वयं व्याख्याय श्लोकान्तरम् अवतारयति -
इदमिति ।

कुत्र सङ्ग्रहोक्तिः उपयुज्येते? तत्राह -
व्याचि­ख्या­सि­त­स्येति ।
प्रति­प­त्ति­सौ­क­र्यार्थं सङ्ग्रहेक्तिः अर्थवती, इत्यर्थः ।

वक्ष्यमाणेऽर्थे श्रोतुः मनःसमाधानार्थं सूत्रि­त­वा­क्या­र्थो­पा­य­वि­व­र­ण­प्र­ति­ज्ञाम् अभिप्रेत्य आह -
यन्नि­र्दि­श­ष्ट­मिति ।
‘इदं शरीरम् ‘ इति यन्निर्दिष्टं तच्छरीरं तच्छब्देन परामृशति, प्रकृ­ता­र्थ­त्वात् तस्य इति योजना । तत् क्षेत्रं ज्ञातव्यम् इति अध्याहारः । यच्चेति - येन रूपेण रूपवदिति, तदेव क्षेत्रं विषेष्यते । तस्य क्षेत्रस्य स्वकीयाः धर्माः जन्मादयः, तैर्विशिष्टस्य ज्ञेयत्वे हेयत्वं फलति ।

चशब्दपञ्चकस्य इत­रे­त­र­स­मु­च्च­या­र्थ­त्वम् आह -
चशब्देति ।

विकारित्वेनापि हेयत्वं सूचयति -
यद्विकारीति ।

यत् कार्यंम् , तत् सर्वं यस्मात् उत्पद्यते, तत् कारणत्वात् ज्ञातव्यम् , इत्याह -
यत इति ।

क्षेत्रमिव क्षेत्रज्ञं ज्ञातव्यं दर्शयति-
स चेति ।
स ज्ञातव्य इति सम्बन्धः ।

चक्षु­रा­द्यु­पा­धि­कृ­त­दृ­ष्ट्या­दि­श­क्ति­व­शात् तस्य ज्ञातव्यत्वं सूचयति -
ये प्रभाव इति ।
तेन उक्तेन प्रभावेण तस्य ज्ञातव्यता इति शेपः ।

कथं यथा विशेषितं क्षेत्रं क्षेत्रज्ञो वा शक्यो ज्ञातुम् ? इत्याशङ्क्य, भगवद्वाक्यात् इत्याह -
तदिति
॥ ३ ॥

श्लोकान्तरस्य तात्पर्यमाह -
तदित्यादिना ।
विवक्षितम् - जिज्ञासितम् इत्यर्थः ।

स्तुतिफलमाह -
श्रोत्रिति ।

न केवलम् आप्तोक्तेरेव क्षेत्रा­दि­या­थात्म्यं सम्भावितम् , किन्तु वेदवाक्यादपि, इत्याह -
छन्दोभिश्चेति ।
ऋगादीनां चतुर्णाणपि वेदानां नानाप्रकारत्वं शाखाभेदात् इष्टम् ।

न केवलं श्रुति­स्मृ­ति­सि­द्धम् उक्तं याथात्म्यम् , किन्तु यौक्तिकं च, इत्याह -
किञ्चेति ।

कानि तानि सूत्राणि? इत्याशङ्क्य आह -
आत्मेत्येवेति ।
आदिपदेन ‘ब्रह्म­वि­दा­प्नोति परम् ‘, ‘अथ योऽन्यां देवताम् ‘ इत्यादीनि विद्या­वि­द्या­सू­त्राणि उक्तानि । आत्मेति क्षेत्र­ज्ञो­पा­दा­नम् , तच्च क्षेत्रो­प­ल­क्ष­णम् , तच्च क्षेत्र­ज्ञो­पा­दा­नम् ।

‘अथातो ब्रह्मजिज्ञासा’(ब्र. सू. १-१-१) इत्यादीन्यपि सूत्राणि अत्र गृहीतानि अन्यथा छन्दोभिः इत्यादिना पौनरुक्त्यात् , इति मत्वा विशिनष्टि -
हेतुमद्भिरिति
॥ ४ ॥

क्षेत्रा­दि­या­था­त्म्य­स्तुत्या प्रलोभिताय, किं तत् ? इति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति स्तुत्येति महत्वे हेतुमाह-
सर्वेति ।

भूतशब्देन स्थूलानामपि विशेषाभावात् ग्रहे का हानिः? इत्याशङ्क्य, आह -
स्थूलानीति ।
अहङ्कारः - अहंप्रत्ययलक्षण इति सम्बन्धः ।

भूतानां प्रतीतिकत्वेन अभि­मा­न­मा­त्रा­त्मत्वं मत्वा अहङ्कारं, विशिनष्टि -
महाभूतेति ।

‘महतः परम् ‘ इत्यादौ प्रसिद्धं महच्छब्दार्थम् अहङ्कारहेतुमाह -
अहङ्कारेति ।

ईश्वरशक्तिः इत्युक्ते चैतन्यमपि शङ्क्येत, तदर्यमाह -
ममेति ।

अवधारणरूपम् अर्थमेव स्फुटयति -
एतावत्येवेति ।
पञ्चतन्मात्राणि अहङ्कारः महत् अव्याकृतम् इति अष्टधा भिन्नत्वम् । मूलप्रकृत्या सह तन्मा­त्रा­दि­भे­दानां समुच्चयः चकारार्थः ।

दश इन्द्रियाण्येव विभज्य व्युत्पादयति -
श्रोत्रे­त्या­दिना ।

तदेव प्रश्नद्वारा स्फुटयति -
किन्तदिति ।
शब्दा­दि­वि­ष­य­श­ब्देन स्थूलानि भूतानि गृह्यन्ते ।

उक्तेषु तन्मात्रादिषु तन्त्रा­न्त­री­य­सं­म­ति­माह -
तानीति ।
‘मूल­प्र­कृ­ति­र­वि­कृतिः महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः’ इति पठन्ति
॥ ५ ॥

अव्य­क्ता­ह­ङ्का­रा­दीनां त्रैगु­ण्या­भि­मा­ना­दि­ध­र्म­कत्वं प्रसिद्धमिति, शब्दादीनामेव ग्रहणे कर्मे­न्द्रि­याणां विषयानुक्तेः वैरू­प्य­प्र­स­ङ्गात् , क्षेत्र­नि­रू­प­णस्य च प्रकृतत्वात् , स्वरू­प­नि­र्दे­शे­नैव तत्क्षेत्रं ‘यच्च यादृक्चे’ ति व्याख्यातम् । इदानीम् इच्छादीनाम् आत्म­वि­का­र­त्व­नि­वृ­त्तये क्षेत्र­वि­का­र­त्व­नि­रू­प­णेन ‘यद्विकारि’ इत्ये­त­न्नि­रू­प­यन् मता­न्त­र­नि­वृ­त्ति­प­र­त्वेन श्लोकमवतारयति -
अथेति ।

सर्व­ज्ञो­क्ति­वि­रो­धात् हेयं वैशेषिकं मतम् इति मत्वा उक्तम् -
भगवानिति ।

उपलब्धजातीयस्य उपलभ्यमानस्य आदानेच्छायां हेतुमाह -
सुखेति ।
इतिशब्दः हेत्वर्थः । सुखहेतुत्वात् तस्मिन् इच्छा, इत्यर्थः ।

इच्छां सुख­त­द्धे­तु­वि­ष­य­त्वेन व्याख्याय आत्मधर्मत्वं तस्य व्युदस्यति -
सेयमिति ।

तथापि कथं क्षेत्रा­न्त­र्भू­त­त्वम् ? तत्राह -
ज्ञेयत्वादिति ।

इच्छावत् द्वेषोऽपि धर्मः बुद्धेः, इत्याह -
तथेति ।

कोऽसौ द्वेषः? यस्य बुद्धिधर्मत्वम् , तत्राह -
यज्जातीयमिति ।
तस्यापि इच्छावत् क्षेत्रा­न्त­र्भा­व­माह सोऽयिमिति ।

इच्छाद्वेषवत् बुद्धिधर्मः सुखमपि, इत्याह -
तथेति ।

तस्यापि स्वरूपोक्त्या क्षेत्रा­न्तः­पा­ति­त्व­माह -
अनुकूलमिति ।

दुःखस्यापि स्वरूपोक्त्या क्षेत्र­म­ध्य­व­र्ति­त्व­माह -
दुःखमिति ।

देहे­न्द्रि­या­त्म­वादौ व्युदसितुं क्षेत्रा­न्त­र्भू­त­मेव सङ्घातं विभजते -
देहेति ।

विज्ञानवादं प्रत्याह -
तस्यामिति ।
तप्ते लोहपिण्डे वह्रेः अभिव्यक्तिवत् उक्तसंहतौ बुद्धिवृत्तिः अभिव्यज्यते । तत्र च अग्निः अभिव्यक्तः लोहपिण्डमेव अग्निबुद्ध्या ग्राहयति । तथा आत्मचैतन्यं बुद्धिवृत्तौ अभिव्यक्तं तामेव आत्मतया बोधयति । अतः तदाभासानुविद्धा सैव चेतना इत्युच्यते । सा च मुख्यचेतनं प्रति ज्ञेयत्वात् अतद्रूपत्वात् क्षेत्रमेव इत्यर्थः ।

धृति­स्व­रू­पोक्त्या क्षेत्रत्वं तस्या दर्शयति -
धृतिरित्यादिना ।

ननु - अऩ्येऽपि सङ्कल्पादयो मनोधर्माः सन्ति, ते किमिति अत्र क्षेत्रत्वेन नोच्यन्ते? तत्राह -
सर्वेति ।

तस्य उपलक्षणार्थत्वे हेतुमाह -
यत इति ।
इच्छादिवत् अस्मिन्नवसरे सङ्कल्पादीनामपि दर्शितत्वं सिद्धवत्कृत्य, प्रक­र­ण­वि­भा­गार्थं यतो भगवदुक्तं क्षेत्र­मु­प­सं­ह­रति, अतः युक्तम् इच्छादिग्रहस्य सर्वा­नु्क्त­बु­द्धि­ध­र्मो­प­ल­क्ष­णा­र्थ­त्वम् इत्यर्थः ।

विरक्तस्य ज्ञानाधिकाराय वैराग्यार्थं क्षेत्रं व्याख्यातम् , इति अनुवदति -
यस्येति ।
क्षेत्र­भे­द­जा­तस्य व्यष्टि­दे­ह­वि­भा­गस्य सर्वस्य इत्यर्थः । संहतिः - समष्टिशरीरम्
॥ ६ ॥

ननु - उक्ते क्षेत्रे, क्षेत्रज्ञो वक्तव्यः, तं हित्वा किमिति अन्यत् उच्यते? तत्राह -
क्षेत्रज्ञ इति ।
‘अनादिमत् ‘ इत्यादिना वक्ष्य­मा­ण­वि­शे­षणं क्षेत्रज्ञं स्वयमेव भगवान् विव­क्षि­त­वि­शे­ष­ण­स­हितं ‘ज्ञेयं यत्तत् ‘ इत्यादिना वक्ष्यति, इति सम्बन्धः ।

किमिति क्षेत्रज्ञो वक्ष्यते? तत्राह -
यस्येति ।

‘ज्ञेयं यत्तत् ‘ इत्यतः प्राक्त­न­ग्र­न्थस्य तात्पर्यमाह -
अधुनेति ।
अमा­नि­त्वा­दि­ल­क्षणं विदधाति, इति उत्तरत्र सम्बन्धः ।

ज्ञान­सा­ध­न­स­मु­दा­य­बो­धनं कुत्र उपयुज्यते? तत्राह -
यस्मिन्निति ।

योग्यमविकृतमेव विवृणोति -
यत्पर इति ।

‘एतज्ज्ञान ‘मिति वचनात् कथमिदं ज्ञानसाधनम् इत्याशङ्क्य, आह -
तमिति ।

तद्विधानस्य वक्तृद्वारा दार्ढ्यं सूचयति -
भगवानिति ।

अमा­नि­त्वा­दि­नि­ष्ठस्य अन्तर्धियो ज्ञानम् , इति नियमार्थमाह -
अमानित्वमिति ।

मानः - तिरोहितोऽवलेपः । स च आत्मनि उत्क­र्षा­रो­प­हेतुः, सोऽस्य इति मानी, न मानी अमानी, तस्य भावः अमानित्वम् , इति व्याकरोति -
अमा­नि­त्व­मि­त्या­दिना ।

प्रतियोगिमुखेन अदम्भित्वं विवृणोति-
अदम्भित्वमिति ।

वाङ्मनोदेहैः अपीडनं प्राणिनाम् - अहिंसनम् , तदेव अहिंसा इत्याह -
अहिंसेति ।

परापराधस्य चित्त­वि­का­र­का­र­णस्य प्राप्तावेव अवि­कृ­त­चि­त्त­त्वेन अप­का­र­स­हि­ष्णुत्वं क्षान्तिः, इत्याह-
क्षान्तिरिति ।
अवक्रत्वम् - अकौटिल्यम् , यथाहृदयव्यवहारः सदा एक­रू­प­प्र­वृ­त्ति­नि­मि­त्तत्वं च, इत्यर्थः ।

‘उपनीय तु यः शिष्यम् ‘ इत्यादिना उक्तम् आचार्यं व्यवच्छिनत्ति -
मोक्षेति ।

शुश्रूषादि, इति आदिपदं नम­स्का­रा­दि­वि­ष­यम् । बाह्यम् आभ्यन्तरं च द्विप्रकारं शौचम् क्रमेण विभजते -
शौचमित्यादिना ।
मनसो रागादि मलानाम् , इति सम्बन्धः ।

तदपनयोपायम् उपदिशति -
प्रतिपक्षेति ।
रागा­दि­प्र­ति­कू­लस्य भावनाविषयेषु दोषदृष्ट्या वृत्तिः, तया इति यावत् ।

स्थिरभावमेव विशदयति -
मोक्षेति ।

आत्मनो नित्यसिद्धस्य अनाधेयातिशयस्य कुतो विनिग्रहः? तत्राह -
आत्मन इति
॥ ७ ॥

न केवलम् अमा­नि­त्वा­दी­न्येव ज्ञानस्य अन्त­र­ङ्ग­सा­ध­नानि, किन्तु वैराग्यादीन्यपि तथाविधानि सन्ति, इत्याह -
किञ्चेति ।

दृष्टादृष्टेषु अनेकार्थेषु रागे तत्प्रतिबद्धं ज्ञानं नोत्पद्येत, इति मत्वा व्याकरोति -
इन्द्रियेति ।

आविर्भूतो गर्वः अहङ्कारः, तदभावोऽपि ज्ञानहेतुः, इत्याह -
अनहङ्कार इति ।

इन्द्रियार्थेषु वैराग्यम् उक्तम् उपपादयति -
जन्मेति ।

प्रत्येकं दोषो­नु­द­र्श­न­मि­त्यु­क्तम् , तत्र जन्मनि दोषानुदर्शनं विशदयति -
जन्मनीति ।

यथा जन्मनि दोषानुसधानम् , तथा मृत्यौ दोषस्य सर्व­म­र्म­नि­कृ­न्त­नादेः आलोचनं कार्यम् , इत्याह -
तथेति ।

जन्मनि मृत्यौ च दोषानुसन्धानवत् , जरादिष्वपि दोषानुसन्धानं कर्तव्यम् , इत्याह -
तथेति ।

व्याधिषु दोषस्य असह्यतारूपस्य अनुसन्धानम् , दुःखेषु त्रिविधेष्वपि दोषानुसन्धानं प्रसिद्धम् । व्याख्या­ना­न्त­र­माह -
अथवेति ।

यथा जन्मादिषु दुःखान्तेषु दोषदर्शनम् उक्तम् , तथा तेष्वेव दुःखाख्यदोषस्य दर्शनं स्फुटयति -
दुःखमित्यादिना ।

कथं जन्मादीनां बाह्ये­न्द्रि­य­ग्रा­ह्याणां दुःखत्वम् ? तत्राह -
दुःखेति ।

जन्मादिषु दोषानुदर्शनकृतं फलमाह -
एवमिति ।

वैराग्ये सति आत्मदृष्ट्यर्थं करणानां त दाभिमुख्येन प्रवृत्तिरिति, वैराग्यफलमाह -
तत इति ।

जन्म­दि­दुः­ख­दो­षा­नु­द­र्श­नम् ज्ञानहेतुषु किमिति उपसङ्ख्यातम् ? इत्याशङ्क्य, वैराग्यद्वारा धीहेतुत्वात् इत्याह -
एवमिति
॥ ८ ॥

ज्ञानस्य अन्तरङ्गमेव हेत्वन्तरम् आह -
किञ्चेति ।

ननु - असक्तिरेव अभिष्वङ्गाभावः, तथा च पुनरुक्तिः ‘इत्याशङ्क्य’ अभि­ष्व­ङ्गो­क्ति­द्वारा निरस्याति-
अभि­ष्व­ङ्गो­ना­मेति ।

अन्यस्मिन्नेष पुत्रादौ अनन्यत्वधिया तद्गते सुखादौ आत्मनि तद्भावनाख्यं सक्तिविशेषमेव उदाहरति -
यथेति ।

उक्तविशेषणयोः आकाङ्क्षाद्बारा विषयमाह -
क्वेत्यादिना ।

उक्तविशेषणयोः ज्ञानशब्दस्य उपपत्तिमाह -
तच्चेति ।

सदा हर्ष­वि­षा­द­शू­न्य­भ­न­स्त्व­मपि ज्ञानहेतुः, इत्याह -
नित्यं चेति ।

तदेव विभजते-
इष्टेति ।
तस्य ज्ञानहेतुत्वं निगमयति - तच्तचैदिति
॥ ९ ॥

साधनान्तरमाह -
किञ्चेति

अनन्ययोगमेव सङ्क्षिप्तं व्यनक्ति -
नेत्यादिना ।

उक्तधीद्वारा जाताया भक्तेः भगवति स्थैर्यं दर्शयति -
नेति ।

तत्रापि ज्ञानशब्दः तद्धेतुत्वात् , इत्याह -
सा चेति ।

देशस्य विविक्तत्वं द्विवि­ध­मु­दा­ह­रति-
विविक्त इति ।

तदेव स्पष्टयति -
अरण्येति ।

उक्तदेशसेवित्वं कथं ज्ञाने हेतुः? तत्राह -
विविक्तेष्विति ।
आत्मादि, इति आदिशब्देन परमात्मा वाक्यार्थश्च उच्यते ।

ननु - अरतिविषयत्वेन अविशेषतो जनसंसन्मात्रं किमिति न गृह्यते? तत्राह -
तस्या इति ।
"सन्तः सङ्गस्य भेषजम्" इति उपलम्भात् इत्यर्थः ॥ १० ॥

साधनान्तरमाह -
किञ्चेति ।

आत्मादि, इति आदिशब्दः अनात्मार्थः । तद्विषयं ज्ञानं विवेकः तन्नित्यत्वम् - तत्रैव निष्ठावत्त्वम् , विवेकनिष्ठो हि वाक्या­र्थ­ज्ञा­न­स­मर्थो भवति । तेषां भावनापरिपाको नाम यत्नेन साधितानां प्रक­र्ष­प­र्य­न्त­त्वम् । तन्निमित्तं तत्त्वज्ञानम् - ऐक्य­सा­क्षा­त्कारः । तत्फलालोचनं किमर्थम् ? इत्याशङ्क्य, आह -
तत्त्वेति ।
प्रवृत्तिः स्यादिति । अतः तत्त्व­ज्ञा­ना­र्थ­द­र्श­नम् अर्थवत् , इति शेषः ।

ज्ञानस्य अन्तरङ्गहेतुम् उक्तम् उपसंहरति -
एतदिति ।