आनन्दगिरिटीका (गीताभाष्य)
त्रयोदशोऽध्यायः (१)
प्रथममध्यमयोः षट्कयोः तत्त्वंपदार्थौ उक्तौ । अन्तिमस्तु षट्कः वाक्यार्थनिष्ठः सम्यग्धीप्रधानः अधुना आरभ्यते । तत्र क्षेत्राध्यायम् अन्तिमषट्काद्यम् अवतितारयिषुः व्यवहितं वृत्तं कीर्तयति-
सप्तम इति ।
प्रकृतिद्वयस्य स्वातन्त्र्यं वारयति -
ईश्वरस्येति ।
भूमिरित्यादिना उक्ता सत्वादिरूपा प्रकृतिः अपरा इत्यत्र हेतुमाह -
संसारेति ।
इतस्त्वन्या इत्यादिना उक्तां प्रकृतिम् अनुक्रामति -
परा चेति ।
परत्वे हेतुं मूचयनि -
ईश्वरात्मिकेति ।
किमर्थम् ईश्वरस्य प्रकृतिद्वयम् ? इत्याशङ्क्य, कारणत्वार्थम् इत्याह -
याभ्यामिति ।
वृत्तम् अनूद्य, वर्तिष्यमाणाध्यायारम्भप्रकारम् आह -
तत्रेति ।
व्यवहितेन मवन्धम् उक्त्वा, अव्यवहितेन तं विवक्षुः अव्यवहितम् अनुवदति -
अतीतेति ।
निष्ठा उक्ता इति सम्बन्धः । निष्ठामेव व्याचष्टे -
यथेति ।
वर्तन्ते - धर्मजातम् अनुतिष्ठन्ति, तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तम् इति योजना ।
अव्यवहितमेव अनूद्य तेन उत्तरस्य सम्बन्धं सङ्गिरते -
केनेति ।
तत्वज्ञानोक्तेः उक्तार्थेन समुच्चयार्थः चकारः ।
जीवानां सुखदुःखादि भेदभाजां प्रतिक्षेत्रं भिन्नानां न अक्षरेण ऐक्यम् , इत्याशङ्क्य, संसारस्य आत्मधर्मत्वं निराकृत्य सङ्घातनिष्ठत्वं वक्तुं, सङ्घातोत्पत्तिप्रकारम् आह -
प्रकृतिश्चेति ।
भोगश्च अपवर्गश्च अर्थौ, तयोरेव कर्तव्यतया, इति यावत् ।
ननु अनन्तरश्लाके शरीरनिर्देशात् तस्य उत्पत्तिः वक्तव्या, किमिति सङ्घातस्य उच्यते? तत्राह -
सोऽयमिति ।
उक्तेऽर्थे भगवद्वचनम् अवतारयति -
तदेतदिति ।
तत्र द्र्ष्टृत्वेन सङ्घातदृश्यात् अन्यम् आत्मानं निर्दिशति -
इदमिति ।
उक्तम् - प्रत्यक्षदृश्यविशिष्टं किञ्चित् इति शेषः ।
शरीरस्य आत्मनः अन्यत्वं क्षेत्रनामनिरुक्त्या ब्रूते -
क्षतेति ।
क्षयः - नाशः । क्षरणम् - अपक्षयः ।
यथा क्षेत्रे बीजम् उप्तं फलति, तद्वद् इत्याह -
क्षेत्रवद्वेति ।
क्षेत्रपदात् उपरिस्थितम् इतिपदं क्षेत्रशब्दविषयम् , अन्यथा वैयर्थ्यात् , इत्याह -
इतिशब्द इति ।
क्षेत्रमित्येवम् अनेन क्षेत्रशब्देन इत्यर्थः ।
दृश्यं देहम् उक्त्वा ततः अतिरिक्तं द्रष्टारम् आह -
एतदिति ।
स्वाभाविकं ‘मनुष्योऽहम् ‘ इति ज्ञानम् , अौपदेशिकम् ‘देहो नाऽत्मा दृष्यत्वात् ‘ इत्यादिविभागशः - स्वतोऽतिरिक्तत्वेन इत्यर्थः ।
क्षेत्रमित्यत्र इतिशब्दवत् अत्रापि इतिशब्दस्य क्षेत्रज्ञशब्दविषयत्वम् आह -
इतिशब्द इति ।
क्षेत्रज्ञ इत्येवम् - क्षेत्रज्ञशब्देन तं प्राहुः इति सम्बन्धः । प्रवक्त़ृन् प्रश्नपूर्वकम् आह - क इत्यादिना
॥ १ ॥
दृश्यानां दुःखादीनां भेदकानां यावद्देहभाविनाम् अनात्मधर्मत्वसिद्धये द्रष्टारं देहात् अन्यम् उक्त्वा, साङ्ख्यानामिव तन्मात्रेण मुक्तिनिवृत्तये तस्य सर्वदेहेषु ऐक्योक्तिपूर्वकं स्वेन परमार्थेन अक्षरेण ऐक्यं वृत्तम् अनूद्य प्रश्नद्वारा दर्शयति-
एवमित्यादिना ।
यथोक्त - लक्षणम् - दृश्यात् देहात् निष्कृष्टं द्रष्टारम् इत्यर्थः । च, अपि इति निपातौ जीवस्य अक्षरत्वज्ञानस्य देहात् अन्यत्वज्ञानेन समुच्चयार्थौ भिन्नक्रमौ ; न क्षेत्रज्ञं साङ्ख्यवत् दृशयात् अन्यमेव विद्धि ; किन्तु मां चापि विद्धि इति सम्बध्यते ।
यः सर्वक्षेत्रेषु एकः क्षेत्रज्ञः, तं मामेव विद्धि, इति सम्बन्धं सूचयति -
सर्वेति ।
तत्तत्क्षेत्रोपाधिकभेदभाजः तत्तच्छब्दधीगोचरस्य कथं तद्विपरीतब्रह्मत्वधीः? इत्याशङ्क्य, आह -
ब्रह्मादीति ।
उत्तरार्धं विभजते -
यस्मादिति ।
तदेव विशिनष्टि -
क्षेत्रेति ।
न च भेदविषयत्वात् न सम्यग्ज्ञानं तद् , इति युक्तम् , तस्य विवेकज्ञानस्य वाक्यार्थज्ञानद्वारा मोक्षौपयिकत्वेन सम्यक्त्वसिद्धेः इति भावः । जीवेश्वरयोः एकत्वमुक्तम् आक्षिपति -
नन्विति ।
जीवेश्वरयोः एकत्वे, जीवस्य ईश्वरे वा, तस्य जीवे वा, अन्तर्भावः? नाद्यः, जीवस्य परस्मात् अन्यत्वाभावे संसारस्य निरालम्बनत्वानुपपत्त्या परस्यैव तदाश्रयत्वप्रसङ्गात् इत्यर्थः ।
‘अनश्नन्नन्यो अभिचाकशीति’(श्वे. उ. ४-६) इति श्रुतेः, न तस्य संसारिता, इत्याशङ्क्य, द्वितीयं दूषयति -
ईश्वरेति ।
जीवे चेत् ईश्वरः अन्तर्भवति, तदापि ततः अन्यसंसार्यभावात् तस्य च संसारः अनिंष्टः, इति संसारः जगति अस्तङ्गच्छेत् , इत्यर्थः ।
प्रसङ्गद्वयस्य इष्टत्वं निराचष्टे-
तच्चेति ।
संसाराभावे ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’(श्वे. उ. ४-६) इत्यादिबन्धशास्रस्य तद्धेतु कर्मविषयकर्मकाण्डस्य च आनर्थक्यम् , ईश्वराश्रिते च संसारे तदभाक्तृत्वश्रुतेः ज्ञानकाण्डस्य मोक्षतद्धेतुज्ञानार्थस्य आनर्थक्यम् , अतो न प्रसङ्गयोः इष्टता इत्यर्थः ।
संसाराभावप्रसङ्गस्य अनिष्टत्वे हेत्वन्तरम् आह -
प्रत्यक्षादीति ।
तत्र प्रत्यक्षविरोधं प्रकटयति -
प्रत्यक्षेणेति ।
आदिशब्दोपात्तम् अनुमानविरोधम् आह -
जगदिति ।
विमतं विचित्रहेतुकम् , विचित्रकार्यत्वात् , प्रासादादिवत् , इत्यर्थः ।
प्रत्यक्षानुमानागमविरोधात् अयुक्तम् ऐक्यम् इति उपसंहरति-
सर्वमिति ।
ऐक्येऽपि संसारित्वम् अविद्यातः, विद्यातः असंसारित्वम् , इति विभागात् न अनुपपत्तिः, इति उत्तरम् आह -
नेत्यादिना ।
तयोः स्वरूपतः विलक्षणत्वे श्रुतिम् आह -
दूरमिति ।
अविद्या, या च विद्या इति प्रसिद्धे, एते विद्याविद्ये दूरं विपरीते, अत्यन्तविरुद्धे इत्यर्थः । विषूची नानागती भिन्नफले इत्यर्थः ।
स्वरूपतो विरोधवत् फलतोऽपि सोऽस्ति इत्याह -
तथेति ।
फलभेदोक्तिमेव व्यनक्ति -
विद्येति ।
तयोः द्विधा विलक्षणत्वे वेदव्यासस्यापि सम्मतिम् आह -
तथा चेति ।
उक्ते अर्थे भगवतोपि सम्मतिम् उदाहरति -
इहचेति ।
द्वयोरपि निष्ठयोः तुल्यं उपादेयत्वम् इति शङ्कां शातयति -
अविद्या चेति ।
अविद्या कार्या हातव्या इत्यत्र श्रुतीः उदाहरति -
श्रुतयस्तावदिति ।
इहेति - जीवदवस्था उच्यते, चेच्छब्दः विद्योदयदौर्लभ्यद्योती, अवेदीत् - अहं ब्रह्म इति विदितवान् इत्यर्थः ।
अथ - विद्यानन्तरमेव, सत्यम् - अवितथम् , पुनरावृत्तिवर्जितं कैवल्यं स्यात् इत्याह -
अथेति ।
अविद्यविषयेऽपि श्रुतिम् आह -
न चेदिति ।
जन्ममरणादिरूपा संसृतिः ‘वनष्टिः, तस्य महत्त्वम् - सम्यग्ज्ञानं विना निवर्तयितुम् अश्क्यत्वम् । विद्याविषये श्रुत्यन्तरम् आह -
तमेवमिति ।
परमात्मानं प्रत्यक्त्वेन यः साक्षात्कृतवान् , स देही जीवन्नेव मुक्तो भवति इत्यर्थः ।
विद्यां विनापि हेत्वन्तरतः मुक्तिम् आशङ्क्य, आह -
नेति ।
भयहेतुम् अविद्यां निराकर्वती, तज्जं भयमपि निरस्यति विद्या, इत्यत्र वाक्यान्तरमाह -
विद्वानिति ।
अविद्याविषये वाक्यान्तरमाह -
अविदुष इति ।
प्रतीचि एकरसे स्वल्पमपि भेदं मन्यमानस्य भेददृष्ट्यनन्तरमेव संसारध्रौव्यम् , इत्यर्थः ।
तत्रैव श्रुत्यन्तरम् आह -
अविद्यायामिति ।
तन्मध्ये तत्परवशतया स्थिताः तत्त्वम् अजानन्तः देहाद्यभिमानवन्तः मूढाः संसरन्ति, इत्यर्थः ।
विद्याविषये श्रुत्यन्तरम् आह -
ब्रह्मेति ।
अविद्याविषये श्रुत्यन्तरम् आह -
अन्योसाविति ।
भेददृष्टिम् अनूद्य तन्निदानं अविद्या, इत्याह -
नेति ।
स च मनुष्याणां पशुवत् देवादीनां प्रेष्यतां प्राप्नोति, इत्याह -
यथेति ।
विद्याविषये वाक्यान्तरम् आह -
आत्मविदिति ।
इदं सर्वं प्रत्यग्भूतं पूर्ण व्रह्म, इत्यर्थः ।
‘ज्ञानादेव तु कैवल्यम् ‘ इत्यत्र श्रृत्यन्तरम् आह -
यदेति ।
न खलु आकाशं चर्मवत् मानवो वेष्टयितुम् ईष्टे, तथा परमात्मानां प्रत्यक्त्वेन अननुभूय न मुच्यत इत्यर्थः ।
आदिशब्देन अनुक्ता विद्याविद्याफलभेदार्थाः श्रुतयो गृह्यन्ते । तासां भूयस्त्वेन प्रामाण्यं सूचयति -
सहस्रश इति ।
विद्याविद्याविषये स्मृतीः उदाहरति-
स्मृतयश्चेति ।
तत्र अविद्याविषयं वाक्यम् आह -
अज्ञानेनेति ।
विद्याविषयं वाक्यद्वयं दर्शयति -
इहेत्यादिना ।
विद्याफलम् अनर्थध्वस्तिः, अविद्याफलम् अनर्थाप्तिः, इत्येतद् अन्वयव्यतिरेकाख्यन्यायादपि सिध्यति, इत्याह -
न्यायतश्चेति ।
तत्रैव पुराणसम्मतिम् आह-
सर्पानिति ।
उदपानाम् - कूपम् , यथा आत्मज्ञाने विशिष्टं फलं स्यात् तथा पश्य, इति योजना ।
न्यायतश्च इति अन्वयव्यतिरेकाख्यं न्यायम् उक्तं विवृणोति -
तथा चेति ।
तत्र आदौ अन्वयम् आचष्टे-
देहादिष्विति ।
अनाद्यानिर्वाच्याविद्यावृतः चिदात्मा देहादौ अनात्मनि आत्मबुद्धिम् आदधाति, तद्युक्तः रागादिना प्रेर्यते, तत्प्रयुक्तश्च कर्म अनुतिष्ठति, तत्कर्ता च यथाकर्म नूतनं देहम् आदत्ते, पूरातनं त्यजति ; इत्येवम् अविद्यावत्वे संसारित्वं सिद्धम् , इत्यर्थः ।
व्यतिरेकम् इदानीं दर्शयति -
देहादीति ।
श्रुतियुक्तिभ्यां भेदे ज्ञाते रागादिध्वस्त्या कर्मोपरमात् अशेषसंसारासिद्धिः, इति अविद्याराहित्ये बन्धध्वस्तिः, इत्यर्थः ।
उक्तान्वयादेः अन्यथासिद्धिं शिथिलयति -
इति नेति ।
उक्तम् अन्वयादिवादिना, केनचिदपि न्यायतः न शक्यं प्रत्याख्यातुम् तदन्यथासिद्धिसाधकाभावात् , इत्यर्थः ।
अन्वयादेः अनन्यथासिद्धत्वे चोद्यमपि प्राचीनं प्रतिनीतम् , इत्याह -
तत्रेति ।
ज्ञानाज्ञानयोः उक्तन्यायेन स्वरूपभेदे कार्यभेदे च स्वारस्येन परापरयोः एक्येऽपि बुद्ध्याद्युपाधिभेदात् आविद्यकम् आत्मनः संसारित्वम् आभासरूपं प्रातिभासिकं सिध्यति, इत्यर्थः ।
आत्मनो ब्रह्मता स्वतश्चेद् , अहमिति आत्मभावेन ब्रह्मतापि भायात् , इत्याशह्क्य, आह -
यथेति ।
देहाद्यतिरिक्तत्वस्य आत्मनः वैदिकपक्षे स्वतस्त्वेऽपि, तस्मिन् अहमिति भात्येव, तदतिरिक्तत्वं न भाति, किन्तु अविद्यातः देहाद्यात्मत्वमेव विपरीतं भासते ; तथा आत्मनो ब्रह्मत्वे स्वाभाविकत्वेऽपि तस्मिन् भात्येव, ब्रह्मत्वं न भाति, अविद्यातः अब्रह्मत्वमेव तु अस्य भास्यति, इत्यर्थः ।
आत्मनः देहाद्यात्मत्वम् आविद्यं भाति इत्युक्तम् अनुभवेन स्पष्टयति -
सर्वेति ।
अतस्मिन् तद्बुद्धिः अविद्याकृता इत्यत्र दृष्टान्तम् आह -
यथेति ।
पुरःस्थिते वस्तुनि स्थाणौ अविद्यया पुमानिति निश्चयो जायते, तथा देहादौ अनात्मनि आत्मधीः अविद्यातो निश्चिता, इत्यर्थः ।
देहात्मनोः ऐक्यज्ञाने देहधर्मस्य जरादेः आत्मनि, आत्मधर्मस्य च चैतन्यस्य देहे विनिमयः स्यात् , इत्याशङ्क्य, आह -
न चेति ।
स्थाणौ पुरुषत्वं भ्रान्त्या भाति इति एतावता पुरुषधर्मः - शिरःपाण्यादिः न स्थाणोः भवति, तद्धर्मो वा वक्रत्वादिः न पुंसो दृश्यते, मिथ्याध्यस्ततादात्म्यात् वस्तुतो धर्माव्यतिकरात् , इति । दृष्टान्तम् उक्त्वा दार्ष्टन्तिकम् आह -
तथेति ।
जरादेः अनात्मधर्मत्वेऽपि सुखादेः आत्मधर्मत्वम् इति केचित् , तान्प्रति आह - सुखेति । कामसङ्कल्पादिश्रुतेः अनात्मधर्मत्वज्ञानात् , इत्यर्थः ।
किञ्च, विमतः, न आत्मधर्मः अविद्याकृतत्वात् , जरादिवत् । न च हेत्वसिद्धिः, अतस्मिन् तद् - बुद्धिविषयत्वेन स्थाणौ पुरुषत्ववत् अविद्याकृतत्वस्य उक्तत्वात् , इति मत्वा आह -
अविद्येति ।
स्थाणौ पुरुषत्ववत् आविद्यत्वं देहादेः अयुक्तम् , दृष्टान्तदार्ष्टान्तिकयोः वैषम्यात् , इति शङ्कते -
नेति ।
तदेव प्रपञ्चयति -
स्थाण्वित्यादिना ।
ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिः इत्यर्थः ।
देहात्मबुद्धेः भ्रमत्वाभावे फलितम् आह -
अत इति ।
उपाधिधर्माणां सुखादीनाम् उपहिते जीेवे वस्तुत्वम् अयुक्तम् , अतिप्रसङ्गात् , इति परिहरति -
नेत्यादिना ।
अतिप्रसङ्गमेव प्रकटयति -
यदीति ।
ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिः इत्यर्थः ।
सुखादिः आत्मधर्मो न इति पक्षेऽपि नास्ति विशेषहेतुः, इत्याशङ्क्य, आह -
नेति ।
तदेव अनुमानं साधयति -
अविद्येति ।
विमतम् , न आत्मधर्मः, आगमायित्वात् , संसारवत् , इति अनुमानान्तरम् आह -
हेयत्वादिति ।
आदिशब्दात् दृश्यत्वजडत्वादि गृह्यते ।
सुखादीनां जरादिवद् आत्मधर्मत्वाभावे, तस्य वस्तुतः असंसारिता, इति फलितम् आह -
तत्रेति ।
आरोपितेन अधिष्ठानस्य वस्तुतः अस्पर्शे दृष्टान्तम् आह -
यथेति ।
पराभिन्नस्य आत्मनः संसारित्वम् अध्यस्तम् इति स्थिते, यत् परस्य संसारित्वापादनम् , तत् अयुक्तम् इत्याह -
एवं चेति ।
आत्मनि संसारस्य अारोपितत्वात् तदभिन्ने परस्मिन् न आशङ्का तस्य अयुक्ता इत्येतद् उपपादयति -
न हीति ।
स्याणौ पुरुषनिश्चयवत् आत्मनो देहाद्यात्मत्वनिश्चयस्य अध्यस्तता, इति अयुक्तम् , दृष्टान्तस्य ज्ञेयमात्रविषयत्वात् , इतरस्य ज्ञेयज्ञातृविषयत्वात् , इति उक्तम् अनुवदति -
यत्त्विति ।
वैषम्यं दूषयति -
तदसदिति ।
तर्हि केन साधर्म्यम् , इति पृच्छति -
कथमिति ।
अभीष्टं साधर्म्यं दर्शयति -
अविद्येति ।
तस्य उभयत्र अनुगतिम् आह -
तन्नेति ।
ज्ञेयान्तरे ज्ञेयस्य आरोपनियमात् ज्ञातरि न आरोपः स्यात् , इत्याशङ्क्य आह -
यत्त्विति ।
नायं नियमः, ज्ञातरि जराद्यारोपस्य उक्तत्वात् , इत्याह -
तस्यापीति ।
ज्ञेयस्यैव ज्ञेयान्तरे अध्यासनियमस्य इति यावत् । अतो ज्ञातरि न आरोपव्यभिचारशङ्का, इत्यर्थः ।
आत्मनि अविद्याध्यासे, तत्र अविद्यायाः स्वाभाविकत्वात् तदधीनं संसारित्वमपि तथा स्यात् , इति शङ्कते -
अविद्यावत्त्वादिति ।
का अविद्या? विपरीतग्रहादिर्वा, अनाद्यनिर्वाच्याज्ञानं वा? नाद्यः ; विपरीतग्रहादेः तमश्शब्दितानिर्वाच्याज्ञानकार्यत्वात् तन्निष्ठस्य आत्मधर्मत्वायोगात् , इत्याह -
नेत्यादिना ।
तदेव प्रपञ्चयति -
तामसो हीति ।
आवरणात्मकत्वम् - वस्तुनि सम्यक्प्रकाशप्रतिबन्धकत्वम् । विपरीतग्रहणादेः अविद्याकार्यत्वं विद्यापोह्यत्वेन साधयति -
विवेकेति ।
न च कारणाविद्या अनाद्यनिर्वाच्या आत्मधर्मः स्यात् , इति युक्तम् , अनिर्वाच्यत्वादेव तस्याः तद्धर्मत्वस्य दुर्वचत्वात् , इति भावः ।
किञ्च, विपरीतग्रहादेः अन्वयव्यतिरेकाभ्यां दोषजन्यत्वावगमादपि न आत्मधर्मता, इत्याह -
तामसे चेति ।
तमश्शब्दिताज्ञानोत्थवस्तुप्रकाशप्रतिबन्धकः तिमिरकाचादिदोषः, तस्मिन् सति अज्ञानं मिथ्याधीः संशयश्च इति त्रयस्य उपलम्भात् , असति तस्मिन् अप्रतीतेः, अन्वयव्यतिरेकाभ्यां विपरीतज्ञानादेः दोषाधीनत्वाधिगमात् न केवलात्मधर्मता, इत्यर्थः ।
दोषस्य निमित्तत्वात् भावकार्यस्य उपादाननियमात् अनिर्वाच्याविद्यायाश्च असम्मतेः तस्यैव विपर्ययादेः उपादानत्वम् , इति चोदयति -
अत्राहेति ।
विपरीतग्रहादेः दोषोत्थत्वं सप्तम्यर्थः । अग्रहादित्रितयम् अविद्या । विपर्ययादेः सत्योपादानत्वे सत्यत्वप्रसङ्गात् न आत्मा तदुपादानम् , किन्तु दोषस्य चक्षुरादिधर्मत्वग्रहणात् अग्रहणादेरपि दोषत्वात् करणधर्मत्वे, करणम् अविद्योत्थम् अन्तःकरणम् ।
न च - तद्धेतुः अविद्या असिद्धा इति - वाच्यम् ; अज्ञोऽहमिति अनुभवात् , स्वापे च अज्ञानपरामर्शात् तदवगमात् कार्यलिङ्गकानुमानात् आगमाच्च तत्प्रसिद्धेः, इति परिहरति -
नेत्यादिना ।
सङ्गृहीतचोद्यपरिहारयोः चोद्यं विवृणोति -
यत्त्विति ।
अविद्यावत्त्वेऽपि ज्ञातुः असंसारित्वात् उत्खातदंष्ट्रोरगवत् अविद्या किं करिष्यति? इत्याशङ्क्य, आह -
तदेवेति ।
मिथ्याज्ञानादिमत्वमेव आत्मनः संसारित्वम् इति स्थिते, फलितम् आह -
तत्रेति ।
न करणे चक्षुषि इत्यादिना उक्तमेव परिहारं प्रपञ्चयति -
तन्नेत्यादिना ।
तिमिरादिदोषः तत्कृतो विपरीतग्रहादिश्च न ग्रहीतुः आत्मनः अस्ति इत्यत्र हेतुमाह -
चक्षुष इति ।
तद्गतेन अञ्जनादिसंस्कारेण तिमिरादौ पराकृते देवदत्तस्य ग्रहीतुः दोषाद्यनुपलम्भात् न तस्य तद्धर्मत्वम्ः अतो विमतं तत्वतः न आत्मधर्मः, दोषवत्त्वात् तत्कार्यत्वाद्वा, सम्मतवत् , इत्यर्थः ।
किञ्च विपरीतग्रहादिः, तत्त्वतो न आत्मधर्मः, वेद्यत्वात् , सम्प्रतिपन्नवत् , इत्याह -
संवेद्यत्त्वाच्चेति ।
किञ्च, यत् वेद्यम् , तत् स्वातिरिक्तवेद्यम् , यथा दीपादि, इति व्याप्तेः विपरीतग्रहादीनामपि वेद्यत्वात् अतिरिक्तवेद्यत्वे, संवेदिता न सवेद्यधर्मवान् , वेदितृत्वात् , यथा देवदत्तो न स्वसंवेद्यरूपादिमान् , इति अनुमानान्तरम् आह -
संवेद्यत्वादेवेति ।
किञ्च, विपरीतग्रहादयः, तत्वतो न आत्मधर्माः, व्यभिचारित्वात् , कृशत्वादिवत् , इत्याह -
सर्वेति ।
उक्तमेव विवृण्वन् आत्मनो विपरीतग्रहादिः स्वाभाविको वा? आगन्तुको वा? इति विकल्प्य, आद्यं दूषयति -
आत्मन इति ।
अतो निर्मोक्षः अविद्यात़ज्जध्वस्तेः असद्भावात् , इति भावः ।
आगन्तुकोऽपि स्वतश्चेदमुक्तिः, परतश्चेत् तत्राह -
अविक्रियस्येति ।
विभुत्वाद् अविक्रियत्वाद् अमूर्तत्वाच्च आत्मा व्योमवत् न केनचित् संयोगविभागौ अनूभवति, न हि विक्रियाभावे व्योम्नि वस्तुतः संयोगविभागौ, असङ्गत्वाच्च आत्मनः तदसंयोगात् न परतोऽपि तस्मिन् विपरीतग्रहादि, इत्यर्थः ।
तस्य आत्मधर्मत्वाभावे, फलितम् आह -
सिद्धमिति ।
आत्मनो निर्धर्मकत्वे भगवदनुमतिम् आह -
अनादित्वादिति ।
ईश्वरत्वे सति आत्मनः असंसारित्वे विधिशास्रस्य अध्यक्षादेश्च आनर्थक्यात् तात्त्विकमेव तस्य संसारित्वम् , इति शङ्कते -
नन्विति ।
विद्यावस्थायाम् अविद्यावस्थायां वा शास्त्रानर्थक्यम् , इति विकल्प्य आद्यं प्रत्याह -
न सर्वैरिति ।
विदुषो मुक्तस्य संसारतदाधारत्वयोः अभावस्य सर्ववादिसम्मतत्वात् तत्र शास्त्रानर्थक्यादि चोद्यं मयैव न प्रतिविधेयम् इत्यर्थः ।
सङ्ग्रहवाक्य विवृणोति -
सर्वैरिति ।
अभिप्रायाज्ञानात् प्रश्ने स्वाभिप्रायम् आह -
कथमित्यादिना ।
तर्हि मुक्तान्प्रति विधिशास्त्रस्य अध्यक्षादेश्च आनर्थक्यम् , इत्याशङ्क्य आह -
न चेति ।
नहि व्यवहारातीतेषु तेषु गुणदोषशङ्का, इत्यर्थः ।
द्वेैतिनां मते, मुक्तात्मस्विव अस्मत्पक्षेऽपि क्षेत्रज्ञस्य ईश्वरत्वे, तं प्रति च शास्त्राद्यानर्थक्यम् विद्यावस्थायाम् आस्थितमिति, फलितम् आह -
तथेति ।
द्वितीयं दूषयति -
अविद्येति ।
तदेव दृष्टान्तेन विवृणोति -
यथेति ।
एवम् - अद्वेैतवादिनामपि विद्योदयात् प्राक् अर्थवत्वं शास्त्रादेः, इति शेषः ।
द्वैेतिभिः अद्वैतिनां न साम्यम् , इति शंकते -
नन्विति ।
अवस्थयोः वस्तुत्वे तन्मते शास्त्राद्यर्थवत्त्वं फलितम् आह -
अत इति ।
सिद्धान्ते तु न अवस्थयोः वस्तुता, इति वैषम्यम् आह -
अद्वैतिनामिति ।
व्यावहारिकं द्वैतं तन्मतेऽपि स्वीकृतम् , इत्याशङ्क्य, आह -
अविद्येति ।
कल्पितद्वैतेन व्यवहारात् न तस्य वस्तुता, इत्यर्थः ।
बन्धावस्थायाः वस्तुत्त्वाभावे दोषान्तरम् आह-
बन्धेति ।
आत्मनः तत्वतः अवस्थाभेदः द्वैतिनामपि नास्ति, इति परिहरति -
नेति ।
अनुपपत्तिं दर्शयितं विकल्पयति -
यदीति ।
तत्र अद्यं दूषयति -
युगपदिति ।
द्वितीयेऽपि क्रमभाविन्योः अवस्थयोः निर्निमित्तत्वं सनिमित्तत्वं वा, इति विकल्प्य, अद्ये सदा प्रसङ्गात् बन्धमोक्षयोः अव्यवस्था स्यात् ; इत्याह -
क्रमेति ।
कल्पान्तरं निरस्यति -
अन्येति ।
बन्धमोक्षावस्थे, न परमार्थे, अस्वाभाविकत्वात् , स्फटिकलौहित्यवत् , इति स्थिते, फलितम् आह -
तथा चेति ।
वस्तुत्वम् इच्छता अवस्थयोः वस्तुत्वोपगमात् , इत्यर्थः ।
इतश्च अवस्थयोः न वस्तुत्वम् , इत्याह -
किञ्चेेति ।
अवस्थयोः वस्तुत्त्वम् इच्छता तयोः यौगपद्यायोगात् वाच्ये क्रमे, बन्धस्य पूर्वत्वं मुक्तेश्च पाश्चात्यम् इति स्थिते, बन्धस्य आदित्वकृतं दोषम् आह -
बन्धेति ।
तस्याश्च अकृताभ्यागमकृतविनाशनिवृत्तये अनादित्वं एष्टव्यम् अन्तवत्त्वञ्च मुक्त्यर्थम् आस्थेयम् ; तच्च यत् अनादिभावरूपं तत् नित्यम् , यथा आत्मा, इति व्याप्तिविरुद्धम् , इत्यर्थः ।
मोक्षस्य पाश्चात्यकृतं दोषम् आह -
तथेति ।
सा हि ज्ञानादिसाध्यात्वात् आदिमती, पुनरावृत्त्यनङ्गीकारात् अनन्ता च । तच्च यद् सादिभावरूपम् तद् अन्तवत् , यथा पटादि, इति व्याप्त्यन्तरविरुद्धम् , इत्यर्थः ।
किञ्च, क्रमभाविनीभ्याम् अवस्थाभ्याम् आत्मा सम्बध्यते, न वा, प्रथमे, पूर्वावस्थया सहैव उत्तरावस्थां गच्छति चेद् , उत्तरावस्थायामपि पूर्वावस्थावस्थानाद् अनिर्मोक्षः ; यदि पूर्वावस्थां त्यक्त्वा उत्तरावस्थां गच्छति, तदा पूर्वत्यागोत्तराप्त्योः आत्मनः सातिशयत्वात् नित्यत्वानुपपत्तिः, इत्याह -
न चेति ।
आत्मनः अवस्थाद्वयसम्बन्धो नास्ति इति, द्वितीयम् अनूद्य दूषयति -
अथेत्यादिना ।
तर्हि, पक्षद्वयेऽपि दोषाविशेषात् न अद्वैतमतानुरागे हेतुः, इत्याशङ्क्य, अविद्याविषये च इत्युक्तं विवृणोति -
न चेति ।
तदेव स्फुटयति -
अविदुषां हीति ।
फलम् - भोक्तृत्वम् , कर्तृत्वम् - हेतुः यद्वा फलम् - देहविशेषः. हेतुं - अदृष्टम् ; तयोः अऩात्मनोः ‘भोक्ताहम् ‘ ‘कर्ताहम् ‘ ‘मनुष्योऽहम् ‘ इत्याद्यात्मदर्शनम् अधिकारकारणम् , तेन अविद्बद्विषयं विधिनिषेधशास्त्रम् इत्यर्थः ।
विदुषामपि ‘मनुष्योऽहम् ‘ इत्यादिव्यवहारात् तद्विषयं शास्त्रं किं न स्यात् ? इत्याशङ्क्य, आह -
नेति ।
भोक्तृत्वकर्तृत्वाभ्यां ब्राह्मण्यादिमतः देहात् धर्माधर्माभ्यां च आत्मनः अन्यत्वं पश्यतः न विधिनिषेधाधिकारित्वम् , उक्तफलादौ आत्मीयाभिमानासम्भवात् , इत्यर्थः ।
आत्मनः देहादेः अन्यत्वदर्शिनः न देहादौ आत्मधीः, इत्येतद् उपपादयति -
न हीति ।
विदुषो न विधिनिषेधाकारिता, इत्युक्तम् उपसंहरति -
तस्मादिति ।
शास्त्रस्य अविद्वद्विषयत्वमिव विद्वद्विषयत्वमपि मन्तव्यम् , उभयोरपि शास्त्रथवणाविशेषात् , इत्याशङ्क्य, आह -
न हीति ।
तत्रस्थः - यस्मिन् देशे देवदत्तः स्थितः, तत्रैव वर्तमानः सन् , इत्यर्थः ।
ननु, देवदत्ते नियुक्ते विष्णुमित्रोऽपि कदाचित् नियुक्तोऽस्मि इति प्रतिपद्यते, सत्यम् , नियोगविषयात् नियोज्यात् आत्मनो विवेकाग्रहणात् नियोज्यत्वभ्रान्तेः, इत्याह -
नियोगेति ।
अविवेकिनो नियोगधीः भवति इति दृष्टान्तम् उक्त्वा, फले हेतौ च आत्मदृष्टिविशिष्टस्य अविदुषः सम्भवत्येव विधिनिपेधाधिकारित्वम् इति दार्ष्टान्तिकम् आह -
तथेति ।
विधिनिषेधशास्रम् अविद्वद्विषयम् इति वदता शास्त्रानर्थक्यं समाहितम् , सम्प्रति शास्त्रस्य विद्वद्विषयत्वेनैव अर्थवत्वं शक्यसमर्थनम् इति शङ्कते -
नन्विति ।
प्रकृतिः - अवद्या, ततो जातो यो देहादौ अभिमातात्मा सम्बन्धः विद्योदयात् प्राक् अनुभूतः, तदपेक्षया विधिना प्रवर्तितोऽम्मि, निपेधेन नवर्तितोऽस्मि, इति विधिनिषेधविषया सत्यामपि विद्यायां धीः युक्तैव, इत्यर्थः ।
विदुषोऽपि पूर्वम् आविद्यं सम्बन्धम् अपेक्ष्य विधिनिषेधविषयां धियम् उक्तामेव व्यक्ताकरोति -
इष्टेति ।
ननु, अविदुषः मिथ्याभिमानवत् न विदुषः सोऽनुवर्तते, तथा च अविद्यासम्बन्धापेक्षया न युक्ता विदुषो यथोक्ता धीः इति तत्राह -
यथेति ।
पिता, पुत्रो, भ्राता, इत्यादीनां मिथः अन्यत्वदृष्टावपि अन्योन्यनियोगार्थस्य निषेधार्यस्य च धीः इष्टा, ‘अथानः सम्पत्तिर्यदा पैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोकः’(बृ. उ. १-५-१७) इत्यादिसम्प्रत्तिश्रुत्या अशेषानुष्ठानस्य पुवकार्यता प्रतिपादनात् । पुत्रञ्च अधिकृत्य विधिनिषेध प्रवृत्तौ तस्य तदशक्तौ पितुः तदर्था धोः उपगता । तथा भ्रात्रादिष्वपि द्रष्टव्यम् । एवं विदुषः हेतुफलाभ्याम् अन्यत्वदर्शनेऽपि प्राक्कालीनाविद्यदेहादिसम्बन्धात् अविरुद्धा विधिनिषेधा धीः, इत्यर्थः ।
पुत्रादीनां मिथ्याभिमानात् मिथः नियोगधीः युक्ता, तत्त्वदर्शिनस्तु तदभावात् न देहादिसम्बन्धाधीना नियोगधीः इति परहरति -
नेत्यादिना ।
किञ्च ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ‘ इति सर्वापेक्षाधिकरणे सम्यग्ज्ञानस्य अदृष्टसाध्यत्वोक्तेः विधिनिषेधार्थानुष्ठानं सम्यग्ज्ञानात्पूर्वमिति, कुतो विदुषः तदनुष्ठानम् ? इत्याह -
प्रतिपन्नेति ।
सति अदृष्टे सम्यग्धीदृष्टेः, असति च अशुद्धबुद्धेः तदभावात् , अन्वयव्यतिरेकाभ्याम् , विविदिषावाक्याच्च विधिनिषेधानुष्ठानात् पूर्वं न सम्यग्धीः, इत्याह -
न पूर्वमिति ।
विधिनिषेधयोः विद्वद्विषयत्वायोगे फलितम् आह -
तस्मादिति ।
शास्त्रस्य अविद्वद्विषयत्वेन उक्तम् अर्थवत्त्वम् आक्षेपसमाधिभ्यां प्रपञ्चयितुम् आक्षिपति -
नन्विति ।
चकारात् ऊर्ध्वम् अप्रवृत्तिरिति सम्बध्यते । आत्मनो देहाद्व्यतिरेकं पश्यतां देहाद्यभिमानरूपाधिकारहेत्वभावात् विधितो यागादौ अप्रवृत्तिः, निषेधाच्च अभक्ष्यभक्षणादेः न निवृत्तिः । अतः तेषां प्रवृत्तिनिवृत्त्योः अभावे, देहादौ आत्मत्वम् अनुभवतामपि न ते युक्ते तेषां पारलौकिकभोक्तृप्रतिपत्त्यभावात् , इत्यर्थः ।
विदुषाम् अविदुषां च प्रवृत्तिनिवृत्त्यभावे फलितम् आह-
अत इति ।
आत्मनो देहाद्यतिरेकं परोक्षम् अपरोक्षं च देहाद्यात्मत्वं पश्यतः शास्त्रानुरोधादेव प्रवृत्तिमिवृत्त्युपपत्तेः न शास्त्रानर्थक्यम् , इति उत्तरम् आह -
नेत्यादिना ।
प्रसिद्धिः अत्र शास्त्रीया अभिमता ।
एतदेव विवृण्वन् ब्रह्मविदो वा, नैरात्म्यवादिनो वा, परोक्षज्ञानवतो वा, प्रवृत्तिनिवृत्ती विवक्षसि, इति विकल्प्य, आद्यं दूषयति -
ईश्वरेति ।
न निवर्तते च इत्यपि द्रष्टव्यम् ।
द्वितीयं निरस्यति -
तथेति ।
पूर्ववत् अत्रापि सम्बन्धः ।
तृतीयम् अङ्गीकरोति -
यथेति ।
विधिनिषेधादीनां प्रसिद्धिं अनुरुन्धानः सन् इति यावत् । चकारात् निवर्नते च इति अऩुकृष्यते ।
ब्रह्मविदं नैरात्म्यवादिनं च त्यकत्वा देहाद्यतिरिक्तम् आत्मानां परोक्षम् , अपरोक्षं च देहाद्यात्मत्वं पश्यतः, विधिनिषेधाधिकारित्वे सिद्धे फलम् आह -
अत इति ।
विधान्तरेण शस्रार्थानर्थक्य चोदयति -
विवेकिनामिति ।
दृष्टा हि तेषां विधिनिषेधयोः अप्रवृत्तिः, न हि देहादिभ्यो निष्कृष्टं आत्मानं दृष्टवतां तयोः अधिकारः, तेन तान् प्रति शास्त्रं न अर्थवत् । न च देहाद्यात्मत्वदृशः तत्र अधिक्रियन्ते, तेषां ‘यद्यदाचरति’(भ. गी. ३-२१) इति न्यायेन विवेकिनः अनुगच्छतां विध्यादौ अप्रवृत्तेः ; अतः अधिकार्यभावात् विध्यादिशास्त्रस्य तदनुसारिशिष्टाचारस्य च आनर्तक्यम् , इत्यर्थः ।
किं सर्वेषां विवेकित्वात् अधिकार्यभावात् आनर्थक्यं शास्त्रस्य उच्यते? किं वा कस्यचिदेव विवेकित्वेऽपि तदनुवर्त्तित्वात् अन्येषाम् अप्रवृत्तेः आनर्थक्यं चोद्यते? तत्र प्रथमं प्रत्याह -
न कस्यचिदिति ।
‘मनुष्याणां सहस्रेषु’(भ. गी. ७-३) इति न्यायेन उक्तमेव स्फुटयति -
अनेकेष्विति ।
तत्र अनुभवानुरोधेन दृष्टान्तम् आह -
यथेति ।
द्वितीयं दूषयति -
न चेति ।
किञ्च, विवेकिनाम् अप्रवृत्तौ अन्येषामपि अप्रवृत्तिः, इति आशङ्कां निरसितुम् , श्येनादौ तदप्रवृत्तावपि इतरप्रवृत्तेः, इत्याह -
अभिचरणादौ चेति ।
अविवेकिनां रागादिशरा प्रवृत्त्यास्पदं सर्वं सङ्ग्रहीतुम् आदिपदम् । इतश्च विवेकिनां प्रवृत्त्याभावेऽपि न अज्ञस्य अप्रवृनिः, इत्याह -
स्वाभाव्याच्चेति ।
प्रवृत्तेः स्वभावाख्याज्ञानकार्यत्वे भगवद्वाक्यम् अनुकुलयति -
स्वभावस्त्विति ।
प्रवृत्तेः अज्ञानजत्वे विधिनिषेधाधीन वृत्तिनिवृत्त्यात्मक सन्धम्य अविद्यामात्रत्वात् अविद्वद्विषयत्वं शास्त्रस्य सिद्धम् , इति फलितम् आह -
तस्मादिति ।
दृष्टमेव अनुमरन् अविद्वान् , यथादृष्टः ; तद्विषयः - तदाश्रयः संसारः, तथा च प्रवृत्तिनिवृत्त्यात्मकसंसारस्य अविद्वद्विषयत्वात् तद्धेतुविधिशास्रस्यापि तद्विषयत्वाम् , इत्यर्थः ।
ननु, अविद्या क्षेत्रज्ञं आश्रयन्ती स्वकार्यं संसारमपि तस्मिन् आधत्ते, तेन तस्यैव शास्राध्रिकारित्वम् ; नेत्याह -
नेति ।
अविद्यादेः शुद्घे क्षेत्रज्ञे वस्तुतः असम्बन्धेऽपि, तस्मिन् आरोपितं तमेव दुःखीकरोति, इति, अत्राह -
न चेति ।
तदेव दृष्टान्तेन स्पष्टयति -
न हीति ।
क्षेत्रज्ञस्य वस्तुतः अविद्याऽसम्बन्धे भगववृचोऽपि द्योतकम् , इत्याह -
अत इति ।
क्षेत्रज्ञेश्वरयोः ऐक्ये किमिति असौ आत्मानम् अहमिति बुध्यमानोऽपि स्वस्य ईश्वरत्वम् ईश्वरोऽस्मि इति न बुध्यते, तत्राह -
अज्ञानेनेति ।
आरमनो वस्तुतः संसारासंस्पर्शे विद्वदनुभवविरोधः स्यात् , इति, चोदयति -
अथेति ।
एवमिति - आभिजात्यादिवैशिष्ट्यम् उक्तम् । इदमा क्षेत्रकलत्रादि । पण्डितानामपि प्रतीलं संसारित्वम् इति शेषः ।
किं पाण्डित्यं देहादौ आत्मदर्शनम् ? किं वा कूटस्थात्मदृष्टिः? आहो संसारित्वादिधीः? इति विकल्प्य आद्यं निराकुर्वन् आह -
श्रृण्विति ।
तच्च वस्तुतः असंसारित्वाविरोधि । प्रातिभासिकं तु संसारित्वम् इष्टम् , इति शेषः ।
द्वितीयं दूषयति -
यदीति ।
न हि कूटस्थात्मविषयं संसारित्वं प्रतीयते, येन वस्तुतः असंसारित्वां विरुध्येत ; कूटस्थात्मधीविरुद्धायाः संसारित्वबुद्धेः अनवकाशित्वात् , इत्यर्थः ।
आत्मानम् अक्रियं पश्यतोऽपि कुतो भोगकर्मणी न स्याताम् ? इत्याशङ्क्य, आह -
विक्रियेति ।
अविक्रियात्मबुद्धेः भोगकर्मकाङ्क्षयोः अभावे, कस्य शास्त्रे प्रवृत्तिः, इत्याशङ्क्य आह -
अथेति ।
फलार्थित्वाभावात् विदुषः न कर्मणि प्रवृत्तिः इत्येवं स्थिते सति अनन्तरम् अविद्वान् फलार्थित्वात् तदुपाये कर्मणि प्रवर्त्तते शास्त्राधिकारी, इत्यर्थः ।
विदुषः वैधप्रवृत्त्यभावेऽपि निषेधाधीननिवृत्तेरपि दुर्वचत्वात् तस्य निवृत्तिनिष्ठत्वासिद्धिः, इत्याशङ्क्य, आह -
विदुष इति ।
तृतीयम् उत्थापयति -
इदं चेति ।
सिद्धान्तात् अविशेषम् आशङ्क्य, क्षेत्रस्य क्षेत्रज्ञात् वस्तुतो भिन्नत्वेन तद्विषयत्वाङ्गीकारात् , मैवम् , इत्याह-
क्षेत्रं चेति ।
अहन्धीवेद्यस्य आत्मनो वस्तुतः संसारित्वस्वीकाराच्च सिद्धान्तात् भेदो अस्ति, इत्याह -
अहन्त्विति ।
संसारित्वमेव स्फोरयति -
सुखीति ।
संसारित्वास्य वस्तुत्वे तदनिवृत्त्या पुमर्थासिद्धिः, इत्याशङ्क्य, आह -
संसारेति ।
कथं तदुपरमस्य हेतुं विना कर्तव्यत्वम् ? इत्याशङ्क्य, आह -
क्षेत्रेति ।
क्षेत्रं ज्ञात्वा ततो निष्कृष्टस्य क्षेत्रज्ञस्य ज्ञानं कथं संसारोपरतिम् उत्पादयेत् ? इत्याशङ्क्य, आह -
ध्यानेनेति ।
संसारित्वम् आत्मनो बुध्यमानस्य तद्रहितात् ईश्वरात् अन्यत्वम् इति वक्तुम् इतिशब्दः । तदेव अन्यत्वम् उपपादयति -
यश्चेति ।
मम संसारिणः असंसारीश्वरत्वं कर्तव्यम् इत्येवं यो बुध्यते, यो वा तथाविधं ज्ञानं तव कर्तव्यम् इति उपदिशति ; स क्षेत्रज्ञात् ईश्वरात् अन्यो ज्ञेयः अन्यथा उपदेशानर्थक्यात् , इत्यर्थः ।
आत्मा संसारी परस्मात् आत्मनः अन्यः, तस्य ध्यानाधीनज्ञानेन ईश्वरत्वं कर्तव्यम् , इत्येतद् ज्ञानं पाण्डित्यम् , इति मतं दूषयति -
एवमिति ।
‘अयमात्मा ब्रह्म’(बृ. उ. २-५-१९) इति आत्मनो ब्रह्मत्वश्रुतिविरोधात् , इत्यर्थः ।
ननु, संसारस्य वस्तुत्वाङ्गीकारात् तत्प्रतीत्यवस्थायां कर्मकाण्डस्य अर्थवत्त्वम् , संसारित्वनिरासेन आत्मनो ब्रह्मत्वे ध्यानादिना साधिते, मोक्षावस्थायां ज्ञानकाण्डस्य अर्थवत्त्वम् , तत्कथं यथोक्तज्ञानवान् पण्डितापसदत्वेन आक्षिप्यते? तत्राह -
संसारेति ।
करोमि इति मन्यमानो यः, स पण्डितापसद इति पूर्वेण सम्बन्धः । कर्मकाण्डं हि कल्पितं संसारित्वम् अधिकृत्य साध्यसाधनसम्बन्धं बोधयत् अर्थवत् इष्टम् । ज्ञानकाण्डमपि तथापिधं संसारित्वं पराकृत्य अखण्डैकरसे प्रत्यग्ब्रह्मणि पर्यवस्यदु अर्थवत् भवेत् , इत्यर्थः ।
किं च, आत्मनः शास्त्रसिद्धं ब्रह्मत्वं त्यक्त्वा अब्रह्मत्वं कल्पयन् आत्महा भूत्वा लोकद्वयबहिर्भूतः स्यात् , इत्याह -
आत्महेति ।
ननु, ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्यनेन सर्वत्र अन्तर्यामी परः जीवादन्यः निरुच्यते, न जीवस्य ईश्वरत्वम् अत्र प्रतिपाद्यते । तत् कथम् इत्थम् आक्षिप्यते ? तत्राह -
स्वयमिति ।
किञ्च, तत्वमसीतिवत् प्रसिद्धक्षेत्रज्ञानुवादेन अप्रसिद्धं तस्य ईश्वरत्वम् इह उपदेशतः धृतं तस्य हानिम् , अश्रुतस्य च जीवेश्वेरयोः तात्विकभेदस्य कल्पनां कुर्वन् कथं व्यामूढो न स्यात् ? इत्याह -
श्रुतेति ।
ननु, केचन व्याख्यातारः यथोक्तं पाण्डित्यं पुरस्कृत्य क्षेत्रज्ञे चापि इत्यादिश्लोकं व्याख्यातवन्तः ; तत्कथम् उक्तपाण्डित्यम् आस्थातुः व्यासू़टत्वम् ? तत्राह -
तस्मादिति ।
‘क्षेत्रज्ञं चापि’ इत्यत्र क्षेत्रज्ञेश्वरयोः ऐक्यं स्वाभीष्टं स्पष्टयितुं प्रत्युक्तमेव चोद्यम् अनुद्रवति -
यत्तूक्तमिति ।
तात्त्विकम् एकत्वम् , अतात्त्विकं संसारित्वम् , इत्यङ्गीकृत्य उक्तमेव समाधिं स्मारयति -
एताविति ।
ईश्वरस्य संसारित्वं संमार्यभावेन संसाराभावश्च इत्युक्तौ दोषौ, विद्याविद्ययोः वैलक्षण्येऽपि कथं प्रत्युक्तौ, इति दृच्छति-
कथमिति ।
कल्पितसंसारेण कल्पनाधिष्ठानम् अद्वयं वस्तु वस्तुतो न सम्बद्धम् , इति परिहरति-
अविद्येति ।
तद्विषयम् - कल्पनास्पदम् अधिष्ठानम् , इति यावत् ।
कल्पितेन अधिष्ठानस्य वस्तुतः असंस्पर्शे दृष्टान्तं स्मारयति-
तथा चेति ।
ईश्वरस्य नंसारित्वाप्रसङ्गं प्रकटोकृत्य प्रसङ्गान्तरनिरासम् अनुस्मारयति -
संसारिण इति ।
न तावद् अविद्य संसारं संसारिणं च कल्पयति स्वतन्त्रा, तत्वव्याधातात् ; पारतन्त्र्ये च आश्रयान्तराभावात् क्षेत्रज्ञस्य तद्वत्त्वे संसारित्वम् , इति शङ्कते -
नन्विति ।
न च अविद्यावत्त्वम् अविद्याकृतम् अनवस्थानात् , इति भावः ।
यत्तु - उत्खातर्दष्ट्वोरगवत् अविद्या किं करिष्यति - इति, तत्राह -
तत्कृतं चेति ।
अविद्यातज्जयोः ज्ञेयत्वात् न आत्मधर्मता इति उत्तरम् आह -
नेत्यादिना ।
तदेव प्रपञ्चयति -
यावदिति ।
ज्ञेयस्य क्षेत्रधर्मत्वेऽपि क्षेत्रद्वारा क्षेत्रज्ञस्य तत्कृतदोषवत्ता, इत्याशङ्कय, आह -
न चेति ।
क्षेवस्यापि ज्ञेयत्वात् न तेन चितः वस्तुतः स्पर्शोऽस्ति, इति उपपादयति -
यदीति ।
धर्मर्धामत्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिः? इत्याशङ्क्य, आह -
यदीति ।
आत्मधर्मस्य आत्मना ज्ञेयत्वे, स्वस्यापि ज्ञेयत्वापत्त्या कर्तृकर्मविरोधः स्यात् , इत्यर्थः ।
किं च, विमतम् , न क्षेत्रज्ञाश्रितम् , तद्वेद्यत्वात् , रूपादिवत् , इत्यह -
कथं वेति ।
किं च, ‘महाभूतानि’ इत्यादिना ज्ञेयमात्रस्य क्षेत्रान्तर्भावात् न अविद्यादेः ज्ञातृधर्मता इत्याह -
ज्ञेयं चेति ।
किञ्च, ‘एतद्यो वेत्ति’(भ. गी. १३-१) इत्युक्तत्वात् क्षेत्रज्ञस्य ज्ञातृत्वनिर्णयात् , न नत्र ज्ञेयं किञ्चित् प्रविशति, इत्याह -
ज्ञातैवेति ।
क्षेत्रक्षेत्रज्ञयोः एवंस्वाभाव्ये सिद्धेसिद्धं क्षेवधर्मत्वम् अविद्यादेः, इति फलितम् आह -
इत्यवधारित इति ।
विरोधाच्च न क्षेत्रज्ञधर्मत्वम् अविद्यादेः, इत्याह -
क्षेत्रज्ञेति ।
विरूद्धवादित्वे मूलं दर्शयति -
अविद्येति ।
मात्रपदस्य व्यावर्त्य मानयुक्त्याख्यम् अवष्टम्भान्तरम् इति वक्तुं केवलपदम् । यया अविद्यया विरुद्धमपि निर्वोढुं शक्यते, तस्याः स्वातन्त्र्याभावात् चितः अन्यस्य अविद्यमानत्वेन अतदाश्रयत्वात् , -तस्याः विद्यास्वभावतया तदाश्रयत्वव्याघातात् , आश्रयजिज्ञासया पृच्छति -
अत्राहेति ।
आश्रयमात्रं पृच्छ्यते? तद्विशेषो वा? प्रथमे, प्रश्नस्य अनवकाशत्वं मत्वा आह -
यस्येति ।
अविद्या दृश्या? अदृश्या वा? दृश्यत्वे, पारतन्त्र्यात् किञ्चिन्निष्ठत्वेनैव तदूदृष्टेः न आश्रयमात्रं प्रष्टव्यम् , अदृश्यत्वे वा, अप्रकाशत्वाद् असिद्धिरेव स्यात् , इत्यर्थः ।
द्वीतीयम् आलम्बते -
कस्येति ।
अविद्यायाः दृश्यमानत्वात् आश्रयविशेषस्य आत्मनोऽपि स्वानुभवसिद्धत्वात् प्रश्नस्य निरवकाशता, इति उत्तरम् आह -
अत्रेति ।
प्रश्नानर्थक्यं प्रश्नद्वारा स्फोरयति -
कथमित्यादिना ।
तथापि कथं प्रश्नासिद्धिः? तत्राह -
न चेति ।
तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।
दृष्टान्तदार्ष्टान्तिकयोः वैषम्यं चोदयति -
नन्विति ।
अज्ञानाश्रयस्य परोक्षत्वेऽपि प्रश्ननैरर्थक्यम् , इ्त्याह -
अप्रत्यक्षेणेति ।
अविद्यावतः अप्रत्यक्षत्वेऽपि तेन अविद्यासम्बन्धे सिद्धेप्रष्टुः तव प्रश्नानर्थक्यसमाधिः न कश्चित् , इत्यर्थः ।
अबुद्धपराभिसन्धिः शङ्कते -
अविद्याया इति ।
अविद्यावतः तत्परिहारात् न अन्येन प्रयतितव्यम् , इत्याह -
यस्येति ।
ममैव अविद्यावत्वात् तत्परिहारे मया प्रयतितव्यम् , इति शह्कते -
नन्विति ।
तर्हि प्रश्नानर्थक्यम् , इति सिद्धिान्ती स्वाभिसन्धिम् आह -
जानासीति ।
आत्मानम् अविद्यावन्तं जानन्नपि तद्बिषयाध्यक्षाभावत् पृच्छामि, इति शङ्कते -
जानामीति ।
अविद्यावतः अप्रत्यक्षत्वं वदता - तस्य ‘अहमविद्यावान् ‘ अविद्याकार्यावत्त्वात् , व्यतिरेकेण मुक्तात्मवत, इति अनुमेयत्वं इष्टम् , इति अभ्युपेत्य दूषयति -
अनुमानेनेति ।
आत्मनः अविद्यासम्बन्धग्रहे का अनुपपत्तिः? इति आशङ्क्य, ज्ञातैव आत्मा स्वस्य अविद्यासम्बन्धं बुध्यते? अन्यो वा ज्ञाता? इति विकल्प्य, आद्यं दूषयति -
न हीति ।
तत्काले स्वस्य अविद्यां प्रति ज्ञातृत्वावस्थायाम् , इति यावत् ।
अविद्यां विषयत्वेन गृहेत्वा तज्ज्ञातृत्वेनैव उपयुक्तस्य आत्मनः तस्याः स्वात्मनि कुतः सम्बन्धज्ञातृत्वम् ? एकस्य कर्मकर्तृत्वविरोधात् , इत्याह -
अविद्याया इति ।
दीतीयं निरस्यति -
न चेति ।
यो ग्रहीता, स न सम्भवति, इति सम्बन्धः । तद्विषयमिति । ज्ञातुः अविद्यायाश्च सम्बन्धः तच्छब्दार्थः ।
अनवस्थामेव प्रपञ्चयति -
यदीति ।
आत्मनः स्वपरज्ञेयत्वायोगात् तस्मिन् अविद्यासम्बन्धस्य अप्रामाणिकत्वात् नित्यानुभवगम्यत्वे स्थिते, फलितं आह -
यदि पुनरिति ।
यदा च एवं, तदा इत्यध्याहार्यम् ।
ज्ञातुः आत्मनः न किञ्चिद् - दुष्यति इति, एतद् अमृष्यमाणः शङ्कते -
नन्विति ।
किं ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वम् ? ज्ञानस्वरूपत्वं वा? नाद्यः, तदनभ्युपगमात् तत्प्रयुक्तदोषाभावात् । द्वीतीये ज्ञातृत्वस्य औपचरिकत्वात् न तत्कृतो दोषोऽस्ति, इत्याह -
नेत्यादिना ।
असत्यामपि क्रियायां क्रियोपचारं दृष्टान्तेन स्फुटयति -
यथेति ।
आत्मनि वस्तुतः विक्रियाभावे भगवदनुमतिं दर्शयति -
यथात्रेति ।
गीताशास्त्रं सप्तम्यर्थः । स्वत एव आत्मनि क्रियाद्यात्मत्वाभावः भगवता शास्त्रे यथोक्तः, तथैव व्याख्यातम् अस्माभिः, इति सम्बन्धः ।
कथं तर्हि क्रियादिः आत्मनि भाति? तत्राह -
अविद्येति ।
यथा वस्तुतो नास्ति आत्मनि क्रियादिः, उपचारात्तु भाति, तथा तत्र तत्र अतीतप्रकरणेषु भगवता कृतो यत्नः, इत्याह -
तथेति ।
न केवलम् अतीतेष्वेव प्रकरणेषु वास्तवक्रियाद्यभावात् आत्मनि आद्यासिकी तद्धीः उक्ता, किन्तु वक्ष्यमाणप्रकरणेष्वपि तथैव भगवदभिप्रायदर्शनं भविष्यति, इत्याह -
उत्तरेषु चेति ।
आत्मनि वास्तवक्रियाद्यभावे अध्यासाच्च तत्सिद्धौ, कर्मकाण्डस्य अविद्वदधिकारित्वप्राप्तौ, ‘विद्वान् यजेत’ ‘ज्ञात्वा कर्मारभेत’ इत्यादिशास्रविरोधः स्यात् , इति शङ्क्ते -
हन्तेति ।
शास्रस्य व्यतिरेकविज्ञानाभिप्रायत्वात् अशनायाद्यतीतात्मधीविधरस्यैव कर्मकाण्डाधिकारिता, इति अङ्गीकरोति -
सत्यमिति ।
कथम् अज्ञस्यैैव कर्मधिकारित्वम् उपपन्नम् ? इत्याशङ्क्य, आह -
एतदेव चेति ।
ज्ञानिनः ज्ञाननिष्ठायामेव अधिकारः, निष्ठान्तरे तु अज्ञस्यैव, इति उपसंहारप्रकरणे विशेषतः भविष्यति, इत्याह -
सर्वेति ।
तदेव अनुक्रामति -
समासेनेति ।
जीवब्रह्मणोः ऐक्याभ्युपगमे न किञ्चिद् अवद्यम् , इति उपसंहरति -
अलमिति
॥ २ ॥
एवं श्लोकद्वयं व्याख्याय श्लोकान्तरम् अवतारयति -
इदमिति ।
कुत्र सङ्ग्रहोक्तिः उपयुज्येते? तत्राह -
व्याचिख्यासितस्येति ।
प्रतिपत्तिसौकर्यार्थं सङ्ग्रहेक्तिः अर्थवती, इत्यर्थः ।
वक्ष्यमाणेऽर्थे श्रोतुः मनःसमाधानार्थं सूत्रितवाक्यार्थोपायविवरणप्रतिज्ञाम् अभिप्रेत्य आह -
यन्निर्दिशष्टमिति ।
‘इदं शरीरम् ‘ इति यन्निर्दिष्टं तच्छरीरं तच्छब्देन परामृशति, प्रकृतार्थत्वात् तस्य इति योजना । तत् क्षेत्रं ज्ञातव्यम् इति अध्याहारः । यच्चेति - येन रूपेण रूपवदिति, तदेव क्षेत्रं विषेष्यते । तस्य क्षेत्रस्य स्वकीयाः धर्माः जन्मादयः, तैर्विशिष्टस्य ज्ञेयत्वे हेयत्वं फलति ।
चशब्दपञ्चकस्य इतरेतरसमुच्चयार्थत्वम् आह -
चशब्देति ।
विकारित्वेनापि हेयत्वं सूचयति -
यद्विकारीति ।
यत् कार्यंम् , तत् सर्वं यस्मात् उत्पद्यते, तत् कारणत्वात् ज्ञातव्यम् , इत्याह -
यत इति ।
क्षेत्रमिव क्षेत्रज्ञं ज्ञातव्यं दर्शयति-
स चेति ।
स ज्ञातव्य इति सम्बन्धः ।
चक्षुराद्युपाधिकृतदृष्ट्यादिशक्तिवशात् तस्य ज्ञातव्यत्वं सूचयति -
ये प्रभाव इति ।
तेन उक्तेन प्रभावेण तस्य ज्ञातव्यता इति शेपः ।
कथं यथा विशेषितं क्षेत्रं क्षेत्रज्ञो वा शक्यो ज्ञातुम् ? इत्याशङ्क्य, भगवद्वाक्यात् इत्याह -
तदिति
॥ ३ ॥
श्लोकान्तरस्य तात्पर्यमाह -
तदित्यादिना ।
विवक्षितम् - जिज्ञासितम् इत्यर्थः ।
स्तुतिफलमाह -
श्रोत्रिति ।
न केवलम् आप्तोक्तेरेव क्षेत्रादियाथात्म्यं सम्भावितम् , किन्तु वेदवाक्यादपि, इत्याह -
छन्दोभिश्चेति ।
ऋगादीनां चतुर्णाणपि वेदानां नानाप्रकारत्वं शाखाभेदात् इष्टम् ।
न केवलं श्रुतिस्मृतिसिद्धम् उक्तं याथात्म्यम् , किन्तु यौक्तिकं च, इत्याह -
किञ्चेति ।
कानि तानि सूत्राणि? इत्याशङ्क्य आह -
आत्मेत्येवेति ।
आदिपदेन ‘ब्रह्मविदाप्नोति परम् ‘, ‘अथ योऽन्यां देवताम् ‘ इत्यादीनि विद्याविद्यासूत्राणि उक्तानि । आत्मेति क्षेत्रज्ञोपादानम् , तच्च क्षेत्रोपलक्षणम् , तच्च क्षेत्रज्ञोपादानम् ।
‘अथातो ब्रह्मजिज्ञासा’(ब्र. सू. १-१-१) इत्यादीन्यपि सूत्राणि अत्र गृहीतानि अन्यथा छन्दोभिः इत्यादिना पौनरुक्त्यात् , इति मत्वा विशिनष्टि -
हेतुमद्भिरिति
॥ ४ ॥
क्षेत्रादियाथात्म्यस्तुत्या प्रलोभिताय, किं तत् ? इति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति स्तुत्येति महत्वे हेतुमाह-
सर्वेति ।
भूतशब्देन स्थूलानामपि विशेषाभावात् ग्रहे का हानिः? इत्याशङ्क्य, आह -
स्थूलानीति ।
अहङ्कारः - अहंप्रत्ययलक्षण इति सम्बन्धः ।
भूतानां प्रतीतिकत्वेन अभिमानमात्रात्मत्वं मत्वा अहङ्कारं, विशिनष्टि -
महाभूतेति ।
‘महतः परम् ‘ इत्यादौ प्रसिद्धं महच्छब्दार्थम् अहङ्कारहेतुमाह -
अहङ्कारेति ।
ईश्वरशक्तिः इत्युक्ते चैतन्यमपि शङ्क्येत, तदर्यमाह -
ममेति ।
अवधारणरूपम् अर्थमेव स्फुटयति -
एतावत्येवेति ।
पञ्चतन्मात्राणि अहङ्कारः महत् अव्याकृतम् इति अष्टधा भिन्नत्वम् । मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयः चकारार्थः ।
दश इन्द्रियाण्येव विभज्य व्युत्पादयति -
श्रोत्रेत्यादिना ।
तदेव प्रश्नद्वारा स्फुटयति -
किन्तदिति ।
शब्दादिविषयशब्देन स्थूलानि भूतानि गृह्यन्ते ।
उक्तेषु तन्मात्रादिषु तन्त्रान्तरीयसंमतिमाह -
तानीति ।
‘मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः’ इति पठन्ति
॥ ५ ॥
अव्यक्ताहङ्कारादीनां त्रैगुण्याभिमानादिधर्मकत्वं प्रसिद्धमिति, शब्दादीनामेव ग्रहणे कर्मेन्द्रियाणां विषयानुक्तेः वैरूप्यप्रसङ्गात् , क्षेत्रनिरूपणस्य च प्रकृतत्वात् , स्वरूपनिर्देशेनैव तत्क्षेत्रं ‘यच्च यादृक्चे’ ति व्याख्यातम् । इदानीम् इच्छादीनाम् आत्मविकारत्वनिवृत्तये क्षेत्रविकारत्वनिरूपणेन ‘यद्विकारि’ इत्येतन्निरूपयन् मतान्तरनिवृत्तिपरत्वेन श्लोकमवतारयति -
अथेति ।
सर्वज्ञोक्तिविरोधात् हेयं वैशेषिकं मतम् इति मत्वा उक्तम् -
भगवानिति ।
उपलब्धजातीयस्य उपलभ्यमानस्य आदानेच्छायां हेतुमाह -
सुखेति ।
इतिशब्दः हेत्वर्थः । सुखहेतुत्वात् तस्मिन् इच्छा, इत्यर्थः ।
इच्छां सुखतद्धेतुविषयत्वेन व्याख्याय आत्मधर्मत्वं तस्य व्युदस्यति -
सेयमिति ।
तथापि कथं क्षेत्रान्तर्भूतत्वम् ? तत्राह -
ज्ञेयत्वादिति ।
इच्छावत् द्वेषोऽपि धर्मः बुद्धेः, इत्याह -
तथेति ।
कोऽसौ द्वेषः? यस्य बुद्धिधर्मत्वम् , तत्राह -
यज्जातीयमिति ।
तस्यापि इच्छावत् क्षेत्रान्तर्भावमाह सोऽयिमिति ।
इच्छाद्वेषवत् बुद्धिधर्मः सुखमपि, इत्याह -
तथेति ।
तस्यापि स्वरूपोक्त्या क्षेत्रान्तःपातित्वमाह -
अनुकूलमिति ।
दुःखस्यापि स्वरूपोक्त्या क्षेत्रमध्यवर्तित्वमाह -
दुःखमिति ।
देहेन्द्रियात्मवादौ व्युदसितुं क्षेत्रान्तर्भूतमेव सङ्घातं विभजते -
देहेति ।
विज्ञानवादं प्रत्याह -
तस्यामिति ।
तप्ते लोहपिण्डे वह्रेः अभिव्यक्तिवत् उक्तसंहतौ बुद्धिवृत्तिः अभिव्यज्यते । तत्र च अग्निः अभिव्यक्तः लोहपिण्डमेव अग्निबुद्ध्या ग्राहयति । तथा आत्मचैतन्यं बुद्धिवृत्तौ अभिव्यक्तं तामेव आत्मतया बोधयति । अतः तदाभासानुविद्धा सैव चेतना इत्युच्यते । सा च मुख्यचेतनं प्रति ज्ञेयत्वात् अतद्रूपत्वात् क्षेत्रमेव इत्यर्थः ।
धृतिस्वरूपोक्त्या क्षेत्रत्वं तस्या दर्शयति -
धृतिरित्यादिना ।
ननु - अऩ्येऽपि सङ्कल्पादयो मनोधर्माः सन्ति, ते किमिति अत्र क्षेत्रत्वेन नोच्यन्ते? तत्राह -
सर्वेति ।
तस्य उपलक्षणार्थत्वे हेतुमाह -
यत इति ।
इच्छादिवत् अस्मिन्नवसरे सङ्कल्पादीनामपि दर्शितत्वं सिद्धवत्कृत्य, प्रकरणविभागार्थं यतो भगवदुक्तं क्षेत्रमुपसंहरति, अतः युक्तम् इच्छादिग्रहस्य सर्वानु्क्तबुद्धिधर्मोपलक्षणार्थत्वम् इत्यर्थः ।
विरक्तस्य ज्ञानाधिकाराय वैराग्यार्थं क्षेत्रं व्याख्यातम् , इति अनुवदति -
यस्येति ।
क्षेत्रभेदजातस्य व्यष्टिदेहविभागस्य सर्वस्य इत्यर्थः । संहतिः - समष्टिशरीरम्
॥ ६ ॥
ननु - उक्ते क्षेत्रे, क्षेत्रज्ञो वक्तव्यः, तं हित्वा किमिति अन्यत् उच्यते? तत्राह -
क्षेत्रज्ञ इति ।
‘अनादिमत् ‘ इत्यादिना वक्ष्यमाणविशेषणं क्षेत्रज्ञं स्वयमेव भगवान् विवक्षितविशेषणसहितं ‘ज्ञेयं यत्तत् ‘ इत्यादिना वक्ष्यति, इति सम्बन्धः ।
किमिति क्षेत्रज्ञो वक्ष्यते? तत्राह -
यस्येति ।
‘ज्ञेयं यत्तत् ‘ इत्यतः प्राक्तनग्रन्थस्य तात्पर्यमाह -
अधुनेति ।
अमानित्वादिलक्षणं विदधाति, इति उत्तरत्र सम्बन्धः ।
ज्ञानसाधनसमुदायबोधनं कुत्र उपयुज्यते? तत्राह -
यस्मिन्निति ।
योग्यमविकृतमेव विवृणोति -
यत्पर इति ।
‘एतज्ज्ञान ‘मिति वचनात् कथमिदं ज्ञानसाधनम् इत्याशङ्क्य, आह -
तमिति ।
तद्विधानस्य वक्तृद्वारा दार्ढ्यं सूचयति -
भगवानिति ।
अमानित्वादिनिष्ठस्य अन्तर्धियो ज्ञानम् , इति नियमार्थमाह -
अमानित्वमिति ।
मानः - तिरोहितोऽवलेपः । स च आत्मनि उत्कर्षारोपहेतुः, सोऽस्य इति मानी, न मानी अमानी, तस्य भावः अमानित्वम् , इति व्याकरोति -
अमानित्वमित्यादिना ।
प्रतियोगिमुखेन अदम्भित्वं विवृणोति-
अदम्भित्वमिति ।
वाङ्मनोदेहैः अपीडनं प्राणिनाम् - अहिंसनम् , तदेव अहिंसा इत्याह -
अहिंसेति ।
परापराधस्य चित्तविकारकारणस्य प्राप्तावेव अविकृतचित्तत्वेन अपकारसहिष्णुत्वं क्षान्तिः, इत्याह-
क्षान्तिरिति ।
अवक्रत्वम् - अकौटिल्यम् , यथाहृदयव्यवहारः सदा एकरूपप्रवृत्तिनिमित्तत्वं च, इत्यर्थः ।
‘उपनीय तु यः शिष्यम् ‘ इत्यादिना उक्तम् आचार्यं व्यवच्छिनत्ति -
मोक्षेति ।
शुश्रूषादि, इति आदिपदं नमस्कारादिविषयम् । बाह्यम् आभ्यन्तरं च द्विप्रकारं शौचम् क्रमेण विभजते -
शौचमित्यादिना ।
मनसो रागादि मलानाम् , इति सम्बन्धः ।
तदपनयोपायम् उपदिशति -
प्रतिपक्षेति ।
रागादिप्रतिकूलस्य भावनाविषयेषु दोषदृष्ट्या वृत्तिः, तया इति यावत् ।
स्थिरभावमेव विशदयति -
मोक्षेति ।
आत्मनो नित्यसिद्धस्य अनाधेयातिशयस्य कुतो विनिग्रहः? तत्राह -
आत्मन इति
॥ ७ ॥
न केवलम् अमानित्वादीन्येव ज्ञानस्य अन्तरङ्गसाधनानि, किन्तु वैराग्यादीन्यपि तथाविधानि सन्ति, इत्याह -
किञ्चेति ।
दृष्टादृष्टेषु अनेकार्थेषु रागे तत्प्रतिबद्धं ज्ञानं नोत्पद्येत, इति मत्वा व्याकरोति -
इन्द्रियेति ।
आविर्भूतो गर्वः अहङ्कारः, तदभावोऽपि ज्ञानहेतुः, इत्याह -
अनहङ्कार इति ।
इन्द्रियार्थेषु वैराग्यम् उक्तम् उपपादयति -
जन्मेति ।
प्रत्येकं दोषोनुदर्शनमित्युक्तम् , तत्र जन्मनि दोषानुदर्शनं विशदयति -
जन्मनीति ।
यथा जन्मनि दोषानुसधानम् , तथा मृत्यौ दोषस्य सर्वमर्मनिकृन्तनादेः आलोचनं कार्यम् , इत्याह -
तथेति ।
जन्मनि मृत्यौ च दोषानुसन्धानवत् , जरादिष्वपि दोषानुसन्धानं कर्तव्यम् , इत्याह -
तथेति ।
व्याधिषु दोषस्य असह्यतारूपस्य अनुसन्धानम् , दुःखेषु त्रिविधेष्वपि दोषानुसन्धानं प्रसिद्धम् । व्याख्यानान्तरमाह -
अथवेति ।
यथा जन्मादिषु दुःखान्तेषु दोषदर्शनम् उक्तम् , तथा तेष्वेव दुःखाख्यदोषस्य दर्शनं स्फुटयति -
दुःखमित्यादिना ।
कथं जन्मादीनां बाह्येन्द्रियग्राह्याणां दुःखत्वम् ? तत्राह -
दुःखेति ।
जन्मादिषु दोषानुदर्शनकृतं फलमाह -
एवमिति ।
वैराग्ये सति आत्मदृष्ट्यर्थं करणानां त दाभिमुख्येन प्रवृत्तिरिति, वैराग्यफलमाह -
तत इति ।
जन्मदिदुःखदोषानुदर्शनम् ज्ञानहेतुषु किमिति उपसङ्ख्यातम् ? इत्याशङ्क्य, वैराग्यद्वारा धीहेतुत्वात् इत्याह -
एवमिति
॥ ८ ॥
ज्ञानस्य अन्तरङ्गमेव हेत्वन्तरम् आह -
किञ्चेति ।
ननु - असक्तिरेव अभिष्वङ्गाभावः, तथा च पुनरुक्तिः ‘इत्याशङ्क्य’ अभिष्वङ्गोक्तिद्वारा निरस्याति-
अभिष्वङ्गोनामेति ।
अन्यस्मिन्नेष पुत्रादौ अनन्यत्वधिया तद्गते सुखादौ आत्मनि तद्भावनाख्यं सक्तिविशेषमेव उदाहरति -
यथेति ।
उक्तविशेषणयोः आकाङ्क्षाद्बारा विषयमाह -
क्वेत्यादिना ।
उक्तविशेषणयोः ज्ञानशब्दस्य उपपत्तिमाह -
तच्चेति ।
सदा हर्षविषादशून्यभनस्त्वमपि ज्ञानहेतुः, इत्याह -
नित्यं चेति ।
तदेव विभजते-
इष्टेति ।
तस्य ज्ञानहेतुत्वं निगमयति - तच्तचैदिति
॥ ९ ॥
साधनान्तरमाह -
किञ्चेति
अनन्ययोगमेव सङ्क्षिप्तं व्यनक्ति -
नेत्यादिना ।
उक्तधीद्वारा जाताया भक्तेः भगवति स्थैर्यं दर्शयति -
नेति ।
तत्रापि ज्ञानशब्दः तद्धेतुत्वात् , इत्याह -
सा चेति ।
देशस्य विविक्तत्वं द्विविधमुदाहरति-
विविक्त इति ।
तदेव स्पष्टयति -
अरण्येति ।
उक्तदेशसेवित्वं कथं ज्ञाने हेतुः? तत्राह -
विविक्तेष्विति ।
आत्मादि, इति आदिशब्देन परमात्मा वाक्यार्थश्च उच्यते ।
ननु - अरतिविषयत्वेन अविशेषतो जनसंसन्मात्रं किमिति न गृह्यते? तत्राह -
तस्या इति ।
"सन्तः सङ्गस्य भेषजम्" इति उपलम्भात् इत्यर्थः ॥ १० ॥
साधनान्तरमाह -
किञ्चेति ।
आत्मादि, इति आदिशब्दः अनात्मार्थः । तद्विषयं ज्ञानं विवेकः तन्नित्यत्वम् - तत्रैव निष्ठावत्त्वम् , विवेकनिष्ठो हि वाक्यार्थज्ञानसमर्थो भवति । तेषां भावनापरिपाको नाम यत्नेन साधितानां प्रकर्षपर्यन्तत्वम् । तन्निमित्तं तत्त्वज्ञानम् - ऐक्यसाक्षात्कारः । तत्फलालोचनं किमर्थम् ? इत्याशङ्क्य, आह -
तत्त्वेति ।
प्रवृत्तिः स्यादिति । अतः तत्त्वज्ञानार्थदर्शनम् अर्थवत् , इति शेषः ।
ज्ञानस्य अन्तरङ्गहेतुम् उक्तम् उपसंहरति -
एतदिति ।