अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

त्रयोदशोऽध्यायः (२)

किमिति तस्य विज्ञेयत्वम् ? इत्याशङ्क्य, आह -
परिहरणायेति ।

तत्र हेतुः -
संसारेति ।
तस्य प्रवृत्तिः - उत्पत्तिः, तद्धेतुत्वात् मानित्वादि त्याज्यम् , ज्ञाते च त्याज्यत्वे तेन तस्य ज्ञेयता, इत्यर्थः । इतिशब्दः साध­ना­धि­का­र­स­म­सा­प्त्यर्थः
॥ ११ ॥

उत्त­र­ग्र­न्थ­म­व­ता­र­यति -
यथोक्तेति ।

अमानित्वादीनां ज्ञानत्वम् आक्षिपति -
नन्विति ।

वस्तु­प­रि­च्छे­द­क­त्वात् ज्ञानत्वम् आशङ्क्य, आह -
नहीति ।

परिच्छेदकत्वात् ज्ञानत्वम् , ज्ञानत्वात् परिच्छेदकत्वम् , इति अन्यो­न्या­श्र­यात् , इत्यभिप्रेत्य, आह -
सर्वत्रेति ।

स्वार्थस्यैव ज्ञानं परिच्छेदकम् , इत्येतत् व्यतिरेकद्वारा विशदयति -
नहीति ।

त्र्यति­रे­क­दृ­ष्टा­न्त­माह -
यथेति ।

अमानित्वादीनां ज्ञान­त्व­मा­क्षिप्तं प्रतिक्षिपति -
नैष दोष इति ।

तत्र हेतुत्वेन उक्तं स्मारयति -
ज्ञानेति ।

तेषु ज्ञानशब्दे हेत्वन्तरमाहृ -
ज्ञानेति ।

अमानित्वादोनां ज्ञान­त्व­मुक्त्वा ज्ञात­व्य­म­व­ता­र­यति -
ज्ञेयमिति ।

प्रश्नद्वारा ज्ञेयप्रवचनस्य फलमुक्त्वा प्ररोचनं कृत्वा तेन श्रोतुः आभि­मु­ख्य­मा­पा­द­यितुं प्ररो­च­न­फ­लो­क्ति­प­रम् अनन्तरवाक्यम् , इत्याह -
किमित्यादिना ।

तदेव विशिनष्टि -
अनादिमदिति ।

आदि­म­त्व­रा­हि­त्यम् अव्या­कृ­त­स्या­प्यस्ति, अतो विशेषं दर्शयति -
किं तदिति ।

भोक्तुरपि भोग्यात् परत्वम् , इत्यतो विशिनष्टि -
ब्रह्मेति ।

‘अनादि’ इत्येकं पदम् , ‘मत्परम् ‘ इति चापरम् , इति पदच्छेदात् न पुनरुक्तिरिति मतान्तरम् उत्थापयति -
अत्रेति ।

एकपदत्वसम्भवे किमिति पदद्वयम् ? इत्याशङ्क्य आह -
बहुव्रीहिणेति ।
आदिः अस्य नास्तीति यो बहुव्रीहिणा उक्तः अर्थः, तस्मिन् आदिमत्वनिषेधे, नास्ति मतुपः अर्थवत्वमिति । मतुबानर्थक्यम् अनिष्टं स्यात् , इति मत्वा पदं छिन्दन्ति, इति पूर्वेण सम्बन्धः ।

आदिः अस्य नास्तीति, ‘अनादि’ इत्युक्त्वा ‘प्तत्परम् ‘ इति उच्यमाने कोऽर्थः स्यात् ? इत्याशङ्क्य, आह -
अर्थेति ।

उक्त­व्या­ख्या­नस्य अयुक्तत्वात् नायं पुन­रु­क्ति­स­माधिः, इत्याह -
सत्यमिति ।

अर्थासम्भवं समर्थयते -
ब्रह्मण इति ।

तथापि विशि­ष्ट­श­क्ति­मत्वं किं न स्यात् ? इत्याशङ्क्य, आह -
विशिष्टेति ।

तथापि मतुपो बहुव्रीहिणा तुल्यस्यार्थस्य कथं नान र्थक्यम् ? तत्राह -
तस्मादिति ।

अनादिमत्परं ब्रह्म, इत्यत्र पक्षान्तरं प्रतिक्षिप्य स्वपक्षः समर्थितः, सम्प्रति ब्रह्मणो ब्रह्मत्वादेव कार्य­का­र­णा­त्म­क­त्व­प्राप्तौ उक्ता­नु­वा­द­द्वारा ‘न सत् ‘ इत्यादि अवतारयति -
अमृतत्वेति ।
सत् - कार्यम् , अभि­व्य­क्त­ना­म­रू­प­त्वात् , असत् - कारणम् , तद्विपर्ययात् , इति विभागः ।

ज्ञेयप्रवचनम् अनि­र्वा­च्य­वि­ष­य­त्वात् प्रक्र­म­प्र­ति­कू­लम् , इति आक्षिपति -
नन्विति ।

निर्विशेषस्य वस्तुनो ज्ञेयत्वात् तद्विषयं प्रवचनं प्रक्रमानुकूलम् इति, उत्तरमाह -
नेत्यादिना ।

अनिर्वाच्यत्वेन ‘न सत्तन्नासत् ‘ इति उच्यमाने कथमिदम् अनुरूपम् ? इति पृच्छति -
कथमिति ।

ब्रह्मा­त्म­प्र­का­शस्य सिद्धत्वात् तदर्थं विधिमुखेन उपदेशायोगात् अध्य­स्त­त­द्ध­र्म­नि­वृ­त्तये निषेधद्वारा उपदेशस्य वेदान्तेषु प्रसिद्धेः आरो­पि­त­वि­शे­ष­नि­षे­ध­रू­पम् इदं प्रवचनमुचितम् , इति परिहरति -
सर्वास्विति ।

ज्ञेयस्य ब्रह्मणो विधि­मु­खो­प­दे­शा­योगे हेतुमाह -
वाच इति ।

ब्रह्मणः अस्ति­श­ब्दा­वा­च्यत्वे नरविषाणवत् नास्तित्वम् , इति अऩिष्टमाशङ्कते -
ननु इति ।

एवम् उक्तेऽपि ब्रह्मणि किमायातम् ? इत्याशङ्क्या, आह -
अथेति ।

ज्ञेयस्य अस्ति­श­ब्दा­वा­च्यत्वे व्याघातश्च, इत्याह -
विप्रतिषिद्धं चेति ।

अस्ति­श­ब्दा­वा­च­य­त्वात् अवस्तु ब्रह्म इत्यत्र अप्रयोजकत्वम् आह -
न तावदिति ।

नास्ति­बु­द्धि­वि­ष­य­त्व­मेव अवस्तुत्वे निमित्तम् । अतः तदभावात् ब्रह्मणः नावस्तुता, इत्येतदेव व्यक्तीकर्तुं चोदयति -
नन्विति ।

सर्वासां धियां अस्तिधीत्वेन नास्तिधीत्वेन वा अऩुगतत्वे अन्य­त­र­धी­गो­च­र­त्वा­भावे ब्रह्म­णोऽ­नि­र्वा­च्य­त्वम् दुर्वारम् , इति फलितमाह -
तत्रेति ।

ब्रह्मणो घटा­दि­वै­ल­क्ष­ण्यात् - उभ­य­बु­द्ध्य­वि­ष­य­त्वेऽपि न अनिर्वाच्यता, इत्याह -
नेत्यादिना ।

घटादेः । इन्द्रि­य­ग्रा­ह्यस्य उभ­य­बु­द्धि­वि­ष­य­त्वेऽपि ब्रह्मणः तदग्राह्यस्य ऩोभयधीविषयत्वम् तथाऽपि नानि­र्वा­च्य­त्वम् , सच्चिदेकतानस्य शब्दप्रमाणात् अविषयत्वेन दृष्टत्वात् , इति उक्तमेव प्रपञ्चयति -
यद्धीति ।

परीक्तं विरोधम् अनुवदति -
यत्त्विति ।

श्रुत्य­व­ष्ट­म्भेन निराचष्टे -
न विरुद्धमिति ।

सापि विरु­द्धा­र्थ­त्वात् न मानम् , बोधकस्य अवि­रो­धा­पे­क्ष­त्वात् , इति शङ्कते -
श्रुतिरिति ।

तस्या विरु­द्धा­र्थ­त्वेन अप्रामाण्ये दृष्टान्तमाह -
यथेति ।
प्राचीनवंशं करोति, इति पार­लौ­कि­क­फ­ल­य­ज्ञा­नु­ष्ठा­नार्थं शालानिर्माणं प्रस्तुत्य, ‘को हि तद्वेद’ इत्याद्या परलोकसत्वे सन्दिहाना यथा वि्रुद्धार्था श्रुतिरप्रमाणम् , एवं विदि­ता­वि­दि­ता­न्य­त्व­श्रु­ति­रपि इत्यर्थः ।

नेयं श्रुतिः विरुद्धत्वेन अमानतया हातव्या, ब्रह्मणि अद्वितीये प्रत्य­क्ता­प्र­ति­पा­द­नेन मानत्वात् , इति उत्तरमाह -
न विदितेति ।

यत्तु विरुद्धार्थत्वे ‘को हि’ इति िउदाहृतम् ; तदसत् , अर्थवादस्य विधिशेषस्य स्वार्ते अतात्पर्यात् , इत्याह -
यदीति ।

यत्र जात्यादिमत्वं तत्र वाच्यत्वं यथा गवादौ, न ब्रह्मणि जतिमत्वम् , अतः तस्या­वा­च्य­त्वात् निषेधेनैव बोध्यत्वम् , इत्याह-
उपपत्तेश्चेति ।
नीच्यत इति निषेधेनैव तस्य उपदेश इति शेषः ।

जात्या­दि­म­तोऽ­र्थ­स्यैव वाच्यत्वम् तत्रैव सङ्गतिग्रहात् इति प्रपञ्चयति -
सर्वो हीति ।

अश्रुतस्य, जात्यादिद्वारेण अज्ञा­त­स­ङ्ग­तेर्वा शब्दस्य न बोधकत्वम् , अदृष्टेः, इत्याह -
नान्यथेति ।

जात्यादेः सच्छ­ब्द­वि­ष­य­त्वम् उदाहरति -
तद्यथेत्यादिना ।

ब्रह्मणस्तु ‘अगोत्रमवर्णम् ‘ इत्यादिश्रुतेः जात्या­दि­म­त्वा­म्भा­वात् न शब्दवाच्यता, इत्याह-
नत्विति ।

‘केवलो निर्गुणश्च’(श्वे. उ. ६-११) इति श्रुतेः गुणद्वारा ब्रह्मणो न वाच्यता, इत्याह -
नापीति ।

निष्क्रियत्वे मानमाह -
निष्कलमिति ।

ब्रह्मणः अद्वितीयत्वस्य अशेषोपनिषत्सु सिद्धत्वात् द्विनिष्ठस्य सम्बन्धस्य तस्मिन्नसिद्धेः न तद् - द्वारापि तस्य वाच्यता, इत्याह-
न चेति ।

ब्रह्मणि अभिधावृत्या शब्दाप्रवृत्तौ हेत्वन्तराण्याह -
अद्वयत्वादिति ।

ब्रह्म­णोऽ­वा­च्यत्वे श्रुतिमपि संवादयति-
यत इति
॥ १२ ॥

सर्व­वि­शे­ष­र­हि­तस्य अवाङ्मनसगोचरस्य अदृष्टेः दृष्टेश्च विपरीतस्य, प्रप्ते बह्मणः शून्यत्वे, प्रत्यक्त्वेन इन्द्रि­य­प्र­वृ­त्त्या­दि­हे­तु­त्वेन कल्पि­त­द्वै­त­स्य­त्ता­स्फू­र्ति­प्र­द­त्वेन, ईश्वरत्वेन च सत्त्वं दर्शयन् आदौ देहादीनां प्रवृत्तिमतां स्थादिवत् अचेतनानां प्रेक्षा­पू­र्व­क­प्र­वृ­त्ति­म­त्वात् चेत­ना­धि­ष्ठि­त­त्त्वम् अनुमिमानः, तत्प्र­त्य­क्चे­तनं ब्रह्म, इत्याह -
सच्छब्देति ।
तदस्तित्वमिति तच्छब्दः ज्ञेय­ब्र­ह्मार्थः । तदाशङ्केति । तच्छब्देन असत्वमुच्यते ।

ननु - सर्वदेहेषु पाणिपादम् अस्येति, कथं पाणीनां च पादानां च देहस्थत्वेन आत्मधर्मत्वम् ? तत्राह -
सर्वेति ।
करणप्रवृत्तिः रथा­दि­प्र­वृ­त्ति­वत् प्रेक्षा­पू­र्व­क­प्र­वृ­त्ति­त्वात् चेत­ना­धि­ष्ठा­तृ­पू­र्विका, इत्यर्थः ।

उक्तप्रवृत्या चेत­ना­स्ति­त्व­सि­द्धा­वपि कथं क्षेत्र­ज्ञा­स्ति­त्वम् ? इत्याशङ्क्य, चेतनस्यैव क्षेत्रोपाधिना क्षेत्र­ज्ञ­त्वात् चेतनास्तित्वं तदस्तित्वमेव, इत्याह -
क्षेत्र­ज्ञ­श्चेति ।

तस्य क्षेत्रो­पा­धि­त्वेऽपि कथं पाणि­पा­दा­क्षि­शि­रो­मु­खा­दि­म­त्वम् ? इत्याशङ्क्य आह -
क्षेत्रं चेति ।
अतश्च उपाधितः तस्मिन् विशेषोक्तः, इति शेषः ।

कथं तर्हि ‘न सत्तन्नासन् ‘ इति निर्विशेषोक्ति? इत्याशङ्क्य, आह -
क्षेत्रेति ।

पाणि­पा­दा­दि­म­त्वम् औपाधिकं मिथ्या चेत् , ज्ञेय­प्र­व­च­ना­धि­कारे कथं तदुक्तिः? इत्याशङ्क्य, आह -
उपाधीति ।

मिथ्यारूपमपि ज्ञेय­व­स्तु­ज्ञा­नो­प­योगि इत्यत्र वृद्धसंमतिमाह -
तथा हीति ।

पाणिपादादीनाम् अन्यगतानाम् आत्मधर्मत्वेन आरोप्य व्यपदेशे को हेतुः? इति, चेत् , तत्राह -
सर्वत्रेति ।
ज्ञेयस्य ब्रह्मणः, शक्तिः - सन्निधिमात्रेण प्रव­र्त­न­सा­म­र्थ्यम् , तत् सत्त्वं निमित्तीकृत्य स्वकार्यवन्तो भवन्ति पाण्यादयः इति कृत्वा, इति योजना ।

‘सर्वतोऽक्षि’(भ. गी. ३-१३) इत्यादौ उक्तमतिदिशति -
तथेति ।

तत् ज्ञेयं यथा सर्वतः पाणिपादम् इति व्याख्यातं तथा, इति उक्तमेव स्फुटयति -
सर्वत इति ।

‘सर्वतोऽक्षि’ इत्यादेः अक्षरार्थमाह -
सर्वतोऽक्षीति ।

अक्षि­श्र­व­ण­व­त्वम् अव­शि­ष्ट­ज्ञा­ने­न्द्रि­य­व­त्त्वस्य, पाणिपादमुखवत्वं च अवि­शि­ष्ट­क­र्मे­न्द्र­य­व­त्त्वस्य मनो­बु­द्ध्या­दि­म­त्त्वस्य च उपलक्षणम् । एकस्य सर्वत्र पाण्यादिमत्वं साधयति -
सर्वमिति
॥ १३ ॥

आरोपादृते साक्षादेव ज्ञेयस्य पाण्या­दि­म­त्त्व­मा­शङ्क्य, आह -
उपाधीति ।

इन्द्रि­य­वि­शे­ष­णी­भू­त­स­र्व­श­ब्दात् ज्ञेयो­पा­धि­त्व­न्या­या­वि­शे­षाच्च अत्र बुद्ध्यादेरपि ग्रहणम् , इत्याह -
अन्तःकरणे चेति ।

श्रोत्रादीनां ज्ञेयो­पा­धि­त्वस्य मनो­बु­द्धि­द्वा­रा­त्वा­दपि तयोः इह ग्रहणम् , इत्याह -
अपि चेति ।

तयोरपि इह उपादाने फलितमाह -
इत्यत इति ।

अक्ष­रा­र्थ­मुक्त्वा वाक्यार्थमाह -
सर्वेति ।

उपाधिद्वारा कल्पि­त­व्या­पा­र­वत्वे मानमाह-
ध्यायतीति ।

कल्पितमेव अस्य व्यापारवत्वम् , न वास्तवम् , इत्यत्र भगवतोऽपि संमतिम् आकाङ्क्षाद्वारा दर्शयति -
कस्मादित्यादिना ।

सर्वकरणराहित्ये फलमाह -
अत इति ।

साक्षादेव ज्ञेयस्य वेग­व­द्वि­ह­र­णा­दि­क्रि­या­व­त्ताया मान्त्र­व­र्णि­क­त्वात् , कुतोऽस्य करणव्यापारैः अव्यापृतत्वम् ? इत्याशङ्क्य, अनुवादपूर्वकं मन्त्रस्य प्रकृ­ता­नु­गु­ण­त्व­माह -
यस्त्विति ।

कर­ण­गु­णा­नु­गु­ण्य­भ­ज­न­म­न्त­रेण साक्षादेव जव­ना­दि­क्रि­या­व­त्त्व­प्र­द­र्श­न­प­रत्वे मन्त्रस्य मुख्यार्थत्वं स्यात् , इत्याशङ्क्य, तदसम्भावत् नैवम् इत्याह -
अन्ध इति ।
अर्थवादस्य श्रुते अर्थे तात्पर्याभावात् न प्रकृ­त­प्र­ति­कू­लता, इत्यर्थः ।

सर्वकरणराहित्यं तद्व्या­पा­र­रा­हि­त्यस्य उपलक्षणम् , इत्यङ्गीकृत्य, उक्तमेव हेतुं कृत्वा वस्तुतः सर्व­स­ङ्ग­वि­व­र्जि­त­त्वम् आह -
यस्मादिति ।

वस्तुतः सर्व­स­ङ्गा­भा­वेऽपि सर्वा­धि­ष्ठा­न­त्वम् आह -
यद्यपीति ।

स्वसत्तामात्रेण अधिष्ठानतया सर्वं पुष्णाति, इत्येतत् उपपादयति -
सदिति ।
विमतम् , सति कल्पितम् , प्रत्येकं सद­नु­वि­द्ध­धी­बो­ध्य­त्वात् , प्रत्येकं चन्द्र­भे­दा­नु­वि­द्ध­धी­बो­ध्य­च­न्द्र­भे­द­वत् , इत्यर्थः ।

सर्वं सदास्पदम् , इत्ययुक्तम् , मृग­तृ­ष्णि­का­दीनां तदभावात् , इत्याशङ्क्य, आह -
नहीति ।
तेषामपि कल्पितत्वे निर­धि­ष्ठा­न­त्वा­यो­गात् निरूप्यमाणे तदधिष्ठानं सदेवेति, सर्वस्य सति कल्पितत्वम् अविरुद्धम् , इत्यर्थः ।

सर्वा­धि­ष्ठा­न­त्वेन, ज्ञेयस्य ब्रह्मणः अस्तित्वमुक्तम् उपसंहरति -
अत इति ।

इतश्च ज्ञेयं ब्रह्मास्ति, इत्याह -
स्यादिदं चेति ।
नहि तस्य उपलब्धृत्वं असत्वे सिध्यति, इत्यर्थः
॥ १४ ॥

इतोपि ज्ञेयं ब्रह्मास्ति, इत्याह-
किञ्चेति ।

‘बहिः’ इति व्याख्येयमादाय व्याचष्टे -
त्वगिति ।
भूतेभ्यो बहिः - बाह्य­वि­ष­या­द्या­त्म­कम् , इत्यर्थः ।

कथम् अनात्मन एव आत्मत्वम् ? कल्पनया इत्याह -
आत्मत्वेनेति ।

अन्तः­श­ब्दा­र्थ­माह -
तथेति ।
भूतानां - चराचराणाम् , अन्तः मध्ये, प्रत्य­ग्भू­त­मि­त्यर्थः ।

द्वितीयं पादमवतार्थ व्याचष्टे -
बहिरित्यादिना ।
यत् मध्ये भूतात्मकं नाना­वि­ध­दे­हा­त्मना भासमानम् , तदपि ज्ञेयान्तर्भूतं तत्त्वं सत् , इत्यर्थः ।

कथं चराचरात्मनो भूतजातस्य ज्ञेयत्वम् ? तत्राह -
यथेति ।
अधिष्ठाने रजज्वां कल्पितसर्पादेः अन्तर्भाववत् देहाभासस्यापि ज्ञेया­न्त­र्भा­वात् , नासत्त्वं मध्येज्ञेयस्य शङ्कितव्यम् , इत्यर्थः ।

सर्वात्मकं चेत् ज्ञेयम् , सर्वैः इदमिति । किमिति । न गृह्येत? इति शङ्कते -
यदीति ।

इदमिति । ग्राह्य­त्व­यो­ग्य­त्वा­भा­वात् , नेत्याह -
उच्यतइति ।

सर्व­व­स्त्वा­त्मना भासते, तदयोग्यत्वं कथम् ? इत्याशङ्क्य आह -
सत्यमिति ।

सूक्ष्मत्वेऽपि किं स्यात् ? इत्याशङ्क्य, आह -
अत इति ।

सूक्ष्मत्वम् - अतीन्द्रियत्वम् । तस्य अविज्ञेयत्वे कुतः तज्ज्ञा­ना­न्मुक्तः? तत्राह -
अविदुषामिति ।

विशेषणफलमाह-
विदुषां त्विति ।

तेषामात्मत्वेन ज्ञातं चेत् , तथं दूरस्थत्वम् ? इत्याशङ्क्य, आह -
अविज्ञाततयेति ।

कथं तर्हि तस्य प्रत्यक्त्वम् ? तत्राह -
अन्तिके चेति ।
विद्व­द­वि­द्व­दू­भे­दा­पे­क्षया ‘दूरात्सुदूरे तदिहान्तिके च’(मु. उ. ३-१-७) इति श्रुतिः । तदर्थः अत्र प्रसङ्गात् अनूदित इत्यर्थः
॥ १५ ॥

ज्ञेय­स्या­स्तित्वे हेत्वन्तरमाह-
किञ्चेति ।

तद्धि प्रतिदेहं नभोवत् एकम् , तद् - भेदेमानाभावात् , भिन्नत्वे च घटवत् अना­त्म­त्वा­पा­तात् अतः अद्वितीयम् , सर्वत्र प्रत्यग्भूतं ज्ञेयं नास्तीति अतिसाहसम् इत्याह -
अविभक्तं चेति ।

कथं तर्हि देहादेः भेदधीः? इत्याशङ्क्य कल्पनया इत्याह - भूतेष्विति । तत्र हेतुः-
देहेष्विति ।

कार्याणां स्थिति­हे­तु­त्वाच्च ज्ञेयमस्ति, इत्याह -
भूतेति ।

निमि­त्तो­पा­दा­न­तया तेषां प्रलये प्रभवे च कारणत्वाच्च तदस्ति, इत्याह -
प्रलयेति ।
तहि कार्यकारणत्वस्य वस्तुत्वात् नाद्वैतम् , इत्याशङ्क्य, आह - यथेति
॥ १६ ॥

इतोऽपि ज्ञेय­स्या­स्ति­त्वम् , इत्याह -
किञ्चेति ।

हेत्वन्तरमेव स्फोरयितुं शङ्कते -
सर्वत्रेति ।

न तत् तमो मन्तव्यम् , इत्याह -
नेति ।

तर्हि किं तस्य रूपम् ? इति पृच्छति - किं तर्हीति । तत्रोत्तरम् -
ज्योतिषामिति ।

सूर्यादीनां च प्रकाशकत्वात् अस्ति ज्ञेयं ब्रह्म, इत्याह -
ज्योतिषामिति ।

तदेव उपपादयति -
आत्मेति ।

तत्र श्रुतिद्वयं प्रमाणयति -
येनेति ।

उक्तेऽर्थे वाक्यशेषमपि दर्शयति -
स्मृतेश्चेति ।

ज्ञेयस्य अतमस्त्वेपि तमःस्पृष्टत्वम् आशङ्क्य उक्तम् -
तमस इति ।

उत्तरार्धस्य तात्पर्यमाह -
ज्ञानादेरिति ।
उत्तम्भनम् - उद्दीपनम् - प्रकटीकरणम् , इति यावत् । ज्ञानम् अमानित्वादि, कर­ण­व्यु­त्पत्त्या, इति शेषः ।

ज्ञानगम्यम् - ज्ञेयमिति पुनरुक्तिं शङ्कित्वा उक्तम् -
ज्ञेयमिति ।

उक्तत्रयस्य बुद्धिस्थतया प्राकट्यं प्रकटयति -
तदेतदिति ।

तत्र अनुभवं अनुकूलयति -
तत्रैवेति
॥ १७ ॥

त्वम­र्थ­शु­द्ध्यर्थं सविकारं क्षेत्रम् , पद­वा­क्या­र्थ­वि­वे­क­सा­धनं च अमानित्वादि, तत्पदार्थ च शुद्धम् , तद्भा­वो­क्त्यर्थं उक्त्वा तेषां फलम् उपसंहरति-
यथोक्तेति ।

पूर्वाधं विभजते -
इत्येवमिति ।

वक्तव्यान्तरे सति, किमिति त्रितयमेव सङ्क्षिप्य उपसंहृतम् , तत्राह -
एतावानिति ।

उत्तरार्धम् आकाङ्क्षाद्वारा अवतारयति -
अस्मिन्निति ।

ईश्वरे समर्पित सर्वात्मभावमेव अभिनयति -
यत्पश्यतीति ।
विज्ञाय - लब्ध्वा, इत्यर्थः
॥ १८ ॥

‘प्रकृतिम् ‘इत्यादि वक्ष्यमाणम् अन­न्त­र­पू­र्व­ग्र­न्थ­स­म्बन्धि, इत्याशङ्क्य व्यवहितेन सम्बन्धर्थं व्यवहितमनुवदति -
तत्रेति ।

तयोश्च प्रकृत्योः उक्तं भूतकारणत्वम् इत्याह -
एतदिति ।

भूतानामिव प्रकृत्योरपि प्रकृ­त्य­न्त­रा­पे­क्षया अनवस्थानात् , न भूतयोनिता, इति शङ्क्ते -
क्षेत्रेति ।

तत्र अकृ­ता­भ्या­ग­मा­दि­वा­र­णाय बन्धस्य निदा­न­ज्ञा­ना­र्थम् आत्मनो विक्रि­या­व­त्वा­दि­दो­ष­नि­रा­सार्थं च प्रकृतिपुरुषयोः अनादित्वं क्षेत्र­त्वे­नो­क्तानां प्रकृतिं प्रति विकारभावं च दर्शयति -
अयमर्थ इति ।

‘स च यो यत्स्वभावश्च’ इति उद्दिष्टं व्याचष्टे -
प्रकृतिमिति ।

ईश्वरस्य अपरा प्रकृतिः अत्र प्रकृतिशब्देन उक्ता, परा तु प्रकृतिः जीवाख्या पुरुषशब्देन विवक्षिता, इति व्याकरोति -
ईश्वरस्येति ।

तयोरनादित्वं व्युत्पादयति -
नेत्यादिना ।

तत्र युक्तिमाह -
नित्य­त्वा­दी­श्व­र­स्येति ।

ईश्वरस्य उक्त­प्र­कृ­ति­द्व­य­वत्वं कथम् ? इत्याशङ्क्य, आह -
प्रकृतीति ।

तस्य जगज्जन्मादौ स्वातन्त्र्यमेव ईश्वरत्वम् , न प्रकृ­ति­द्व­य­व­त्वम् , इत्याशङ्क्य, आह -
याभ्यामिति ।

प्रकृत्योः अनादित्वं कुत्रोपयुक्तम् ? इत्याशङ्क्य, आह -
ते इति ।

मतान्तरमाह -
नेत्यादिना ।

तयो­र्मू­ल­का­र­ण­त्वा­भावे कस्य तदेष्टव्यम् ? इत्याशङ्क्या, आह -
तेन हीति ।

प्रकृत्योरेव मूलकारणत्वे श्रुति­स्मृ­ति­सि­द्धम् ईश्वरस्य तथात्वं न स्यात् , इत्याह -
यदीति ।

प्रकृतिद्बयस्य कार्यत्वपक्षं प्रत्याह -
तदसदिति ।

किं च प्रकृ­ति­द्व­य­म­न­पेक्ष्य ईश्वरस्य संसारहेतुत्वे स्वातन्त्र्यात् मुक्तानामपि ततः संसाराप्तेः अनिषेधात् मोक्ष­शा­स्त्रा­प्रा­मा­ण्यात् न तस्यैव संसारहेतुता, इत्याह -
संसारस्येति ।
निर्निमित्तत्वं प्रकृ­ति­द्व­या­पे­क्षा­मृते परस्यैव निमित्तत्वम् , इति यावत् ।

किं च कार्यत्वे प्रकृत्योः तदुदयात्पूर्वं बन्धाभावे तद्वि­श्ले­षा­त्मनो मोक्षस्याभावात् कदाचित् उभयाभावे पुन­स्त­द­प्र­स­ङ्गात् न प्रकृतिद्वयस्य कार्यता, इत्याह -
बन्धेति ।

प्रकृत्योः मूलकारणत्वे नानुपपत्तिः, इत्याह -
नित्यत्व इति ।

स्वपक्षे दोषाभावं प्रश्नपूर्वकं प्रपञ्चयति -
कथमित्यादिना ।
सङ्क्षवः - सत्ताप्रापको हेतुः । प्रकृ­ते­र­ना­दित्वे विकाराणां गुणानां च तस्कार्यत्वात् आत्मनो निर्विकारत्वं निर्गुणत्वं च सिध्यति, इति भावः
॥ १९ ॥

विकाराणां गुणानां प्रकृतेश्च स्वरूपम् आकाङ्क्षाद्वारा निर्णेतुम् उत्त­र­श्लो­क­पू­र्वार्धं पातयति -
के पुनरिति ।

पुरुषस्य अनादित्वकृतं बन्धहेतुत्वमाह -
पुरुष इति ।

पूर्वार्धं व्याचष्टे - कार्यमित्यादिना । ज्ञाने­न्द्रि­य­प­ञ्च­कम् , कर्मे­न्द्रि­य­प­ञ्च­कम् , मनः, बुद्धिः, अहङ्कारश्च इति त्रयोदश करणानि । तथापि, भूतानां विषयाणां च ग्रहणात् कथं तेषां प्रकृतिकार्यता? इत्याशङ्क्य, आह -
देहेति ।

तथापि, गुणानां इहाग्रहणात् न प्रकृ­ति­का­र्य­त्वम् , तत्राह -
गुणाश्चेति ।

उक्तरीत्या निष्पन्नमर्थमाह -
एवमिति ।

पाठान्तरमनूद्य व्याख्या­पू­र्व­कम् अर्थाभेदमाह -
कार्येत्यादिना ।

व्याख्यान्तरमाह -
अथवेति ।
एकादश इन्द्रियाणि, पञ्चविषया इति षोड­श­स­ङ्ख्या­क­वि­कारः अत्र कार्यशब्दार्थः, महान् , अहङ्कारः, भूत­त­न्मा­त्रा­णीति प्रकृतिविकृतयः सप्त कारणम्, तेषा­मा­र­म्भ­क­त्वेन कर्तृत्वेन हेतुराश्रयो मूल­प्र­कृ­ति­रि­त्यर्थः।

उत्तरार्धस्य तात्पर्यम् आह -
पुरुषश्चेति ।

तस्य परमात्मत्वं व्यवच्छिनत्ति -
जीव इति ।

तस्य प्राण­धा­र­ण­नि­मि­त्तस्य तदर्थं चेतनत्वमाह -
क्षेत्रज्ञ इति ।

तस्य अनौपाधिकत्वं वारयति - -
भोक्तेति ।

तयोः संसारकारण्त्वम् उपपादयितुं शङ्कते -
कथमिति ।

अन्व­य­व्य­ति­रे­काभ्यां तयो तथात्वम् इत्याह -
अत्रेति

। तत्र व्यतिरेकं दर्शयति-
कार्येति ।
न हि नित्य­मु­क्त­स्या­त्मनः स्वतः संसारोऽस्ति, इत्यर्थः ।

इदानीम् अन्वयमाह -
यदेति ।

अन्वयादिफलम् उपसंहरति-
अत इति ।

आत्म­नोऽ­वि­क्रि­यस्य संसरणं नोचितम् , इत्याक्षिपति -
कः पुनरिति ।

सुख­दः­खा­न्य­त­र­सा­क्षा­त्कारो भोगः, स च अविक्रियस्यैव द्रष्टुः संसारः, तथा­वि­ध­भो­क्तृ­त्वम् अस्य संसारित्वम् , इति उत्तरमाह -
सुखेति ।
श्लोक­व्या­ख्या­स­माप्तौ इति शब्दः
॥ २० ॥

श्लोकान्तरं प्रश्नो­त्त­र­त्वेन अवतारयति-
यदिति ।

निमित्तं वक्तुम् आदौ संसारित्वमस्य अवि­द्यौ­क्या­ध्या­सात् , इत्याह -
पुरुष इति ।
यस्मात् प्रकृतिम् आत्मत्वेन गतः, तस्मात् भुङ्कते, इति योजना ।

गुणविषयं भोगम् अभिनयति -
सुखीति ।

अविद्यायाः भोगहेतुत्वात् किं कारणान्वेषणया, इत्याशङ्क्य, आह -
सत्यामपीति ।

सङ्गस्य जन्मादौ संसारे प्रधानहेतुत्वे मानमाह -
स यथेति ।

उक्ते अर्थे द्विती­या­र्ध­म­व­तार्य व्याचष्टे -
तदेतदित्यादिना ।

साध्याहारं योजनान्तारमाह -
अथवेति ।

सदसद्योनीः विविच्य व्याचष्टे -
सद्योनय इति ।

योनि­द्व­य­नि­र्दे­शात् मध्यमवर्तिन्यो मनुष्ययोनयोऽपि ध्वनिता इत्याह -
सामर्थ्यादिति ।

सङ्गस्य संसारकारणत्वे, ऩ अविद्यायाः तत्कारणत्वम् , एकस्मादेव हेतोः तदुपपत्तेः, इत्याशङ्क्य, आह -
एतदिति ।
अविद्या उपादानम् , सङ्गो निमित्तम् , इति उभयोरपि कारणत्वं सिध्यति, इत्यर्थः ।

द्विवि­ध­हे­तूक्तेः विवक्षितं फलमाह -
तच्चेति ।

सासङ्गस्य अज्ञानस्य स्वतोऽनिवृत्तेः तन्निवर्तकं वाच्यम् , इत्याशङ्क्य, आह -
अस्येति ।
वैराग्ये सति संन्यासः, तत्पूर्वकं च ज्ञानं सास­ङ्गा­ज्ञा­न­नि­व­र्त­कम् ; इत्यर्थः ।

उक्ते ज्ञाने मानमाह -
गीतेति ।

अध्यायादौ च उक्तं ज्ञानम् , उदाहृतम् , इत्याह-
तच्चेति ।

तदेव ज्ञानं ‘यज्ज्ञात्वा’ इत्यादिना ‘न सत्तन्नासत् ‘ इत्यन्तेन अन्यनिषेधेऩ, ‘सर्वतः पाणिपादम् ‘ इत्यादिना च अत­द्ध­र्मा­ध्या­सेन उक्तम् , इत्याह -
यज्ज्ञात्वेति
॥ २१ ॥

प्रकृतस्यैव मोक्ष­हे­तो­र्ज्ञा­नस्य साक्षा­न्नि­र्दे­शाय उत्तरश्लोकम् उत्थापयति -
तस्येति ।

कार्यकारणानां व्यापारवतां समीपे स्थितः सन्निधिमात्रेण तेषां साक्षी इत्येवमर्थत्वेन उपद्रष्टा इति पदं व्याचष्टे -
समीपस्थ इति ।

लोकिकस्येव द्रष्टुः अस्यापि स्वव्या­पा­र­वि­शि­ष्ट­तया निष्क्रि­य­त्व­वि­रो­ध­मा­शङ्क्य, आह -
स्वयमिति ।
स्वाव्या­पा­रा­दृते सन्निधिरेव द्रष्ट्रत्वम् ।

दृष्टान्तेन स्पष्टयति -
यथेति ।

उपद्रष्टा इत्यस्य अर्थान्तरमाह -
अथवेति ।

बहूनां द्रष्टृत्वेऽपि कस्य उपद्रष्ट्वत्वम् ? तत्राह -
तेषामिति ।
उपोपसर्गस्य सामी­प्या­र्थ­त्वेन प्रत्य­ग­र्थ­त्वात् , तत्रैव सामीप्यावसानात् , प्रत्यगात्मा च द्रष्टा च इति, उपद्रष्टा सर्वसाक्षी, प्रत्यगात्मा इत्यर्थः ।

उक्तमेव व्यनक्ति -
यत इति ।

यथा यजमानस्य ऋत्विजां च यज्ञकर्मणि गुणं दोषं वा सर्वयज्ञाभिज्ञः सन् उपद्रष्टा विषयीकरोति, तथा अयमात्मा चिन्मा­त्र­स्व­भावः सर्वं गोचरयतीति, उपद्रष्टेति पक्षान्तरमाह –
यज्ञेति ।

‘अनुमन्ता च’ इत्येतत् व्याकरोति -
अनुमन्तेति ।
ये स्वयं कुर्वन्तो व्यापारयन्तो भवन्ति. तेषु कुर्वत्सु सत्सु, याः तेपां क्रियाः, तासु पार्श्वस्थस्य परितोषः अनुमननम् । तच्च अनुमोदनं, तस्य सन्निधिमात्रेण कर्ता यः, सोऽनुमन्ता इत्यर्थः ।

व्याख्यान्तरमाह -
अथवेति ।

तदेव स्फुटयति -
कार्येति ।

अर्थान्तरमाह -
अथवेत्यादि ।

भर्ता इति पदमादाय, किं भरणं नाम? इति पृच्छति -
भर्तेति ।

तद्रूपं निरूपयन् आत्मनो भर्तृत्वं साधयति -
देहेति ।

भोक्ता इत्युक्ते क्रियावत्वे प्राप्ते, भोगः चिदवसानता इति न्यायेन विभजते -
अग्नीति ।

विशे­ष­णा­न्त­र­मा­दाय व्याचष्टे -
महेश्वर इति ।

परमात्मत्वम् उपपादयति -
देहादीनामिति ।
अविद्यया कल्पितानाम् , इति सम्बन्धः ।

परमत्वम् - प्रकृष्टत्वम् , सः पूर्वे­क्त­वि­शे­ष­ण­वान् , इति यावत् परमात्मशब्दस्य प्रकृ­ता­त्म­वि­ष­यत्वे श्रुतिमनुकूलयति -
अन्त इति ।

तस्य ताटस्थ्यं प्रश्नद्वारा प्रत्याचष्टे-
क्वेति ।

कस्मात् परत्वम् ? तदाह -
अव्यक्तादिति ।

तत्रैव वाक्य­शे­षा­नु­कू­ल्यम् आह -
उत्तम इति ।
सोऽस्मिन् देहे परः पुरुषः, इति सम्बन्धः ।

शोधितार्थयोः ऐक्यज्ञानं प्रागुक्तं फलोक्त्या स्तौति -
क्षेत्रज्ञं चेति
॥ २२ ॥

यथोक्तप्रकारेण - जीवेश्वरादि सर्व­क­ल्प­ना­धि­ष्ठा­न­त्वेन, इत्यर्थः, साक्षा­द­प­रो­क्ष­त्वेन, इति यावत् । यथोक्ताम् - अनादिं अनिर्वाच्यां, सर्वा­न­र्थो­पा­धि­भू­ताम् , इत्यर्थः । विद्य­या­प्रा­गु­क्तै­क­त्व­गो­च­रया प्रकृतिम् अविद्यारूपां सकार्याम् अभावमापादितां यो वेत्ति, इति सम्बन्धः सर्वप्रकारेण - विहितेन निषिद्धेन च इत्यर्थः । पुनर्नकारः अन्वयार्थः । निपातसूचितं न्यायमाह -
अपीति ।

‘न स भूयोऽभिजायते’ इत्यु­क्त­मा­क्षि­पति-
नन्विति ।

ज्ञानो­त्प­त्त्य­न­न्तरं जन्मा­भा­व­स्यो­क्त­त्वात् पुन­र्दे­हा­र­म्भ­मु­पेत्य नाक्षेपः स्यात् , इत्याशङ्क्य, आह -
यद्यपीति ।
तथापि स्युस्त्रीणि जन्मामि इति सम्बन्धः ।

वर्तमानदेहे ज्ञाना­त्पू­र्वो­त्त­र­का­लानां कर्मणआं फलमदत्वा नाशायोगात् जन्म­द्व­य­मा­व­श्य­कम् । अती­ता­ने­क­दे­हे­ष्वपि कृतकर्मणां ‘नाभुक्तं क्षीयते कर्म’ इत्येव स्मृतेः अदत्वा फलमनाशात् अस्ति तृतीयमपिजन्म, इत्याह -
प्रागिति ।

फलदानं विनापि कर्मनाशे दोषमाह-
कृतेति ।
न युक्त इति कृत्वा फलमदत्वा कर्मनाशो न, इति शेषः ।

विमतानि कर्माणि, फलमदत्वा न क्षीयन्ते, वैदिककर्मत्वात् , आरब्धकर्मवत् , इति मत्वा आह-
यथेति ।
नाशो न ज्ञानात् इति शेषः ।

ननु अनारब्धकर्मणां ज्ञानात् नाशो युक्तः अप्र­वृ­त्त­फ­ल­त्वात् । आरब्धकर्मणां तु प्रवृत्तफलत्वेन बलवत्वात् न ज्ञानात् तन्निवृत्तिः इति । नेत्याह -
न चेति ।
अज्ञानोत्थत्वेन ज्ञान­वि­रो­धि­त्वा­वि­शे­षात् प्रवृ­त्ता­प्र­वृ­त्त­फ­ल­त्वम् अनुपयुक्तम् इति भावः ।

कर्मणां फलमदत्वा नाशाभावे फलितमाह -
तस्मादिति ।

ननु - कर्मणां बुहुत्वात् तत्फलेषु जन्मसु कुतः त्रित्वम् ? आरम्भककर्मणां त्रिप्र­का­र­क­त्वात् इति चेत् , न, अनारब्धत्वेन एक प्ररा­र­त्व­स­म्भ­वात् , तत्राह -
संहतानीति ।
नास्ति ज्ञानस्य ऐकान्तिकफलत्वम् इति शेषः ।

उक्तकर्मणां जन्मा­ना­र­म्भ­कत्वे प्रागुक्तं दोषम् अनुभाष्य, तस्य अति­प्र­स­ञ्ज­क­त्व­माह -
अन्यथेति ।
सर्वत्रेति - आरब्धकर्मस्वपि, इति यावत् । फल­ज­न­क­त्वा­नि­श्चयः अनाश्वासः ।

कर्मणां जन्मा­ना­र­म्भ­कत्वे कर्म­का­ण्डा­न­र्थक्यं दोषान्तरमाह -
शास्रेति ।

अनारब्धकर्मणां सत्यपि ज्ञाने जन्मा­न्त­रा­र­म्भ­क­त्व­ध्रौव्ये फलितमाह-
इत्यत इति ।

श्रुत्यवष्टभेन परिहरति -
नेत्यादिना ।

ज्ञानात् अनारब्धकर्मदाहे भगवतोऽपि संमतिमाह -
इहापीति ।

ज्ञाना­धी­न­स­र्व­क­र्म­दाहे ‘सर्वधर्मान् परित्यज्य’(भ. गी. १८-६६) इति वाक्यशेषोऽपि प्रमाणीभवति, इत्याह -
वक्ष्यति चेति ।

ज्ञानात् अना­र­ब्धा­शे­ष­क­र्म­क्षये युक्तिरपि वक्तुं शक्या इत्याह -
उपपत्तेश्चेति ।

तामेव विवृणोति -
अविद्येति ।
अज्ञस्य अवि­द्या­स्मि­ता­रा­ग­द्वे­षा­भि­नि­वे­शा­ख्य­क्ले­शा­त्म­कानि सर्वा­न­र्थ­बी­जानि, तानि निमित्तीकृत्य यानि धर्मा­ध­र्म­क­र्माणि तानि जन्मा­न्त­रा­र­म्भ­काणि । यानि तु विदुषो विद्या­द­ग्ध­क्ले­श­बी­जस्य प्रति­भा­स­मा­त्र­श­री­राणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवत् अर्थ­क्रि­या­सा­म­र्थ्या­भा­वात् इत्यर्थः ।

प्रती­त­मा­त्र­दे­हानां कर्माभासानां न फलारम्भकता, इत्यस्मिन्नर्थे भगवतोऽपि संमतिमाह -
इहापीति ।

तत्त्व­ज्ञा­ना­दूर्ध्वं प्राती­ति­क­क्ले­शानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति -
बीजानीति ।

ज्ञाना­न­न्त­र­भा­वि­क­र्मणां ज्ञानेन दाहमङ्गीकरोति -
अस्त्विति ।

विरो­धि­ग्र­स्ता­ना­मेव उत्पत्तिः इति हेतुमाह -
ज्ञानेति ।

अस्मिन् जन्मनि जन्मान्तरे वा ज्ञानात् पूर्व­भा­वि­क­र्मणां न ततो दाहः, विगेधिन विना प्रवृत्तेः, इत्याह -
नत्विति ।

श्रुति­स्मृ­ति­वि­रो­धात् नैवमिति परिहरति -
नेत्यादिना ।

सर्वशब्दश्रुतेः सङ्कोचं शङ्कते -
ज्ञानेति ।

प्रका­र­णा­दि­स­ङ्को­च­का­भा­वान् नैवमित्याह -
नेति ।

आक्षेपदशायाम् उक्तमनुमानम् अनुवदति -
यत्त्विति ।

आभासात्वात् इदमसाधकम् इति दूषयति -
तदसदिति ।

व्याप्त्या­दि­सत्वे कथम् आभाप्तत्वम् ? इति पृच्छति -
कथमिति ।

प्रवृ­त्त­फ­ल­त्वो­पा­धिना हेतो­र्व्या­प्ति­भ­ङ्गात् आभासत्वधीः इत्याह -
तेषामिति ।

तदेव प्रपञ्चयति -
यथेत्यादिना ।
धनुपः सकाशात् इषुर्मुक्तो बल­व­त्प्र­ति­ब­न्ध­का­भावे मध्ये नं पतति । तथा प्रब­ल­प्र­ति­ब­न्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयः । न च तत्त्वज्ञानं तादृक् प्रतिबन्धकम् , उत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रति­ब­द्ध­श­क्ति­त्वात् इत्यर्थः ।

यत्र ज्ञानेन अदाह्यत्वम् , तत्र प्रवृत्तफलत्वम् , इत्यन्दयेऽपि, यत्र अप्र­वृ­त्त­फ­ल­त्वम् , तत्र ज्ञानदाह्यत्वम् , इति न व्यति­रे­क­सिद्धिः, इत्याशङ्क्य आह -
स एवेति ।
प्रवृत्तौ निमि­त्त­भू­तोऽ­ना­रब्धो वेगोऽनेनेति विग्रहः । स्वाश्रयस्थानि - साभा­सा­न्तः­क­र­णा­न­ष्ठानि, इति यावत् । विमतानि, तत्त्व­धी­नि­मि­त्त­नि­वृ­त्तीनि, तत्कृ­त­का­र­ण­नि­वृ­त्ति­त्वात् रज्जुसर्पदिवत् , इति व्यति­रे­क­सिद्धिः, इति भावः ।

विदुषो वर्तमानदेहपाते देहहेत्वभावात् तत्त्वधीः ऐकान्तिकफला, इति उपसंहरति -
पतित इति
॥ २३ ॥

‘ज्ञेयं यत्तत्‘(भ. गी. १३-१२) इत्यादिना तत्पदार्थः त्वम्पदार्थश्च अनन्तरमेव शोधितौ, तयोरैक्यं च ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३-२) इत्युक्तम् । इदानीं तद् - दृष्टिहेतून् यथाधिकारं कथयति -
अत्रेति ।

घ्यानाख्यं साधनं किं रूपम् ? इति पृच्छति-
ध्यानं नामेति ।

तद्रूपं वदन् उत्तरमाह -
शब्दादिभ्य इति ।
एकाग्रतया उपसहृत्य, इति सम्बन्धः ।

यच्चिन्तनं प्रत्य­क्चे­त­यि­तरि, इति पूर्वेणान्वयः । किं तच्चिन्तनम् ? इत्युक्ते दृष्टान्तद्वारा श्रुत्य­व­ष्ट­म्भेन ध्यानं प्रपञ्चयति -
तथेति ।
विव­क्षि­त­ध्या­ना­नु­रो­धेन इति यावत् , आत्मानं पश्यन्ति परमात्मतया इति शेषः ।

केचिदिति उत्तमाधिकारिणो गृह्यन्ते । मध्यमाधिकारिणो निर्दिशति -
अन्य इति ।

साख्यशब्दितं साधनं किन्नाम? इत्युक्ते, विचारजन्यं ज्ञानम् , तदेव ज्ञानं हेतुतया योगतुल्यत्वात् योगशब्दितम् , इत्याह -
साङ्ख्यमिति ।

अधमान् अधिकारिणः सङ्गिरते -
कर्मेति ।

चित्तैकाग्रा्यं योगः, तादर्थ्यं कर्मणः शुद्धिहेतोरस्ति । तेन गौण्या वृत्त्या योगशब्दितं कर्म, इत्याह -
गुणत इति ।

अपरे ‘पश्य­न्त्या­त्मा­न­मा­त्मना’ इति पूर्ववत् अनु­ष­ङ्ग­म­ङ्गी­कृत्य आह -
तेनेति
॥ २४ ॥

अधमतमान् अधिकारिणो मोक्षमार्गे प्रवृत्तिं प्रतिलम्भयति -
अन्ये त्विति ।

आचार्याधीनां श्रुतिमेव अभिनयति -
इदमिति ।

उपासनमेव विवृणोति -
श्रद्दधाना इति ।

परोपदेशात् प्रवृत्तानामपि प्रवृत्तेः साफल्यमाह-
तेऽपीति ।

तेषां मुख्या­धि­का­रित्वं व्यावर्तयति -
श्रुतीति ।

‘तेऽपि’ इति अपिना सूचितमर्थम् आह -
किमिति
॥ २५ ॥

ऐक्यधीः मुक्तिगेतुः, इति प्रागुक्तमनूद्य प्रश्नपूर्वक जिज्ञा­सि­त­हे­तु­प­र­त्वेन श्लोकमवतारयति -
क्षेत्रेति ।

सर्वस्य प्राणिजातस्य क्षेत्र­क्षे­त्र­ज्ञ­स­म्ब­न्धा­धीना यस्मा­दु­त्पत्तिः, तस्मात् क्षेत्र­ज्ञा­त्म­क­प­र­मा­त्मा­ति­रे­केण प्राणि­नि­का­य­स्या­भा­वात् , ऐक्यज्ञानादेव मुक्तिः, इत्याह -
कस्मादिति ।

क्षेत्र­क्षे­त्र­ज्ञ­स­म्ब­न्ध­मु­क्तम् आक्षिपति-
कः पुनरिति ।

क्षेत्रज्ञस्य क्षेत्रण सम्बन्धः संयोगो वा समवायो वा? इति विकल्प्य, आद्यं दूषयति -
न तावदिति ।

द्वितीयं निरस्यति -
नापीति ।

वास्त­व­स­म्ब­न्धा­भा­वेऽपि तयो­र­ध्या­स­स्व­रूपः सोऽस्ति, इति परिहरति -
उच्यत इति ।

भिन्नस्वभावत्वे हेतुमाह -
विषयेति ।

इतरेतरवत् , क्षेत्रे क्षेत्रज्ञे वा तद्धर्मस्य क्षेत्रा­न­धि­क­र­णस्य क्षेत्रज्ञगतस्य चैतन्यस्य क्षेत्र­ज्ञा­ना­धा­रस्य च क्षेत्रनिष्ठस्य जाड्यादेः आरोपरूपो योगस्तयोः, इत्याह -
इतरेति ।

तढु निमित्तमाह -
क्षेत्रेति ।

अविवेकात् आरोपितसंयोगे दृष्टान्तमाह -
रज्ज्विति ।

उक्तं सम्बन्धं निगमयति -
सोऽयमिति ।

तस्य निवृ­त्ति­यो­ग्यत्वं सूचयति-
मिथ्येति ।

कथं तर्हि मिथ्याज्ञानस्य निवृत्तिः? इत्याशङ्क्य, आह -
यथेति ।
योऽयं विज्ञानमयः प्राणेषु इत्यादि त्वम्प­दा­र्थ­वि­षयं शास्त्रमनुसृत्य विवे­क­ज्ञा­न­मा­पाद्य महा­भू­ता­दि­धृ­त्य­न्तात् क्षेत्रात् उफ­द्र­ष्ट्ट­त्वा­दि­ल­क्षणं प्रागुक्तं क्षेत्रज्ञं मुञ्जे­षी­का­न्या­येन विविच्य सर्वो­पा­धि­वि­नि­र्मुक्तं ब्रह्म स्वरूपेण ज्ञेयं योऽनुभवति, तस्य मिथ्या­ज्ञा­न­म­प­ग­च्छति, इति सम्बन्धः ।

कथमस्य निर्विशेषत्वम् ? क्षेत्रज्ञस्य सविशेषत्वहेतोः सत्त्वात् , इत्याशङ्क्य, आह -
क्षेत्रं चेति ।
बहु­दृ­ष्टा­न्तोक्तेः बहुविधत्वं क्षेत्र­स्य­द्यो­त्यते ।

उक्तज्ञानात् मिथ्या­ज्ञा­ना­प­गमे हेतुमाह-
यथोक्तेति ।

तथापि कथं पुरु­षा­र्थ­सिद्धिः? कालान्तरे तुल्य­जा­ती­य­मि­थ्या­ज्ञा­नो­द­यसं भवात् , इत्याशङ्क्य, आह-
तस्येति ।

सम्यग्ज्ञानात् अज्ञा­न­त­त्का­र्य­नि­वृत्त्या मुक्तिः, इति स्थिते, फलितमाह-
य एवमिति
॥ २६ ॥

उत्त­र­ग्र­न्थ­म­व­ता­र­यितुं व्यवहितम् वृत्तं कीर्तयति -
नेत्यादिना ।
अविद्या अना­द्य­नि­र्वा­च्य­म­ज्ञा­नम् , मिथ्याज्ञानं तत्संस्कारश्च आदिशब्दार्थः ।

व्यवहितमनूद्य अव्यवहितमनुवदति -
जन्मेति ।

व्यव­धा­ना­व्य­व­धा­नाभ्यां सर्वा­न­र्थ­मू­ल­त्वात् अज्ञानस्य, तन्निवर्तकं सम्यग्ज्ञानं वक्तव्यम् , इत्याह -
अत इति ।

तस्य असकृदुक्तत्वात् उक्ता­र्थ­प्र­वृत्तिः वृथा, इत्याशङ्क्य अति­सू­क्ष्मा­र्थस्य शब्दभेदेन पुनः पुनर्वचनम् अधि­का­रि­भे­दा­नु­ग्र­हाय, इति मत्वा आह -
उक्तमिति ।

सर्वत्र परस्य एकत्वात् न उत्क­र्षा­प­क­र्ष­व­त्वम् , इत्याह -
सममिति ।

परमत्वम् ईश्वरत्वं च उपपादयति-
देहेति ।

आत्मा - जीवः, तमित्यादिना अन्वयोक्तिः आश्रयनाशात् आश्रितस्यापि नाशमाशङ्क्य, आह -
तं चेति ।
अविनश्यन्तमिति विशिनष्टि, इति सम्बन्धः ।

उभयत्र विशेषणद्वयस्य तात्पर्यमाह -
भूतानामिति ।

नाशानाशाभ्यां वैलक्ष्ण्येऽपि कथ­म­त्य­न्त­वै­ल­क्ष­ण्यम् ? सवि­शे­ष­त्व­भि­न्न­त्वयोः तुल्यत्वात् , इति शङ्कते -
कथमिति ।

भूतानां संवि­शे­ष­त्वा­दि­भा­वेऽपि परस्य तदभावात् आत्य­न्त­वै­ल­क्ष­ण्यम् , इति वक्तुं जन्मनो भावविकारेषु आदित्वमाह -
सर्वेषामिति ।

तत्र हेतुमाह -
जन्मेति ।
न हि जन्म अन्तरेण उत्तरे विकारा युज्यन्ते, जन्मवतः तदुपलम्भात् , इत्यर्थः ।

विना­शा­न­न्त­र­भा­वि­नोऽपि विकारस्य कस्यचिदुपपत्तेः न तस्य अन्त्य­वि­का­र­त्वम् , इत्याशङ्क्य आह -
विनाशादिति ।

तस्य अन्त्यविकारत्वे सिद्धे फलितमाह -
अत इति ।
तेषां जन्मादीनां कार्याणि कादा­चि­त्क­म­त्वानि तदधिकरणानि, तैः सह इति यावत् ।

परमेश्वरस्य भूतेभ्यः अत्य­न्त­वै­ल­क्ष­ण्य­मु­क्तम् उपसंहरति -
तस्मादिति ।

निर्विशेषत्वम् - सर्व भाव­वि­का­र­वि­र­हि­तत्वं कूटस्थात्वम् । एकत्वम् - अद्वितीयत्वम् । ‘यः पश्यति’ इत्यादि व्याचष्टे -
य एवमिति ।

उक्तविशेषणम् ईश्वरं ‘पश्यन्नेव पश्यति’ इत्यु­क्त­मा­क्षि­पति -
नन्विति ।

ईश्व रपराडमुखस्य अनात्मनिष्ठस्य तद्दर्शित्वेऽपि विप­री­त­द­र्शि­त्वात् ईश्वरप्रवणस्यैव यसम्क् दर्शित्वम् , इति विवक्षित्वा विशेषणम् इति परिहरति-
सत्यमिति ।

उक्तमेव दृष्टान्तेन विवृणोति -
थथेत्यादिना ।

‘यः पश्यति’ इत्यादेः अर्थमुपसंहरति -
इतरे इति ।
परवस्तु निष्ठेभ्यः व्यतिरिक्ता इत्यर्थः
॥ २७ ॥

प्रकृ­त­स­म्य­ग्ज्ञा­नेन किम् ? इत्यपेक्षायां तत्फलोक्त्या तस्यैव स्तुत्या तद्धेतौ पुरुषं प्रवर्तयितुं श्लोकान्तरम् इत्याह -
यथोक्तस्येति ।
यस्मादित्यस्य ततःशब्देन सम्बन्धः । सर्वभूतेषु तुल्यतयावस्थितं पूर्वो­क्त­ल­क्ष­ण­मी­श्वरं निर्विशेषं पश्यन् आत्मानमात्मना यस्मात् न हिनस्ति, ततः - तस्मात् , मोक्षाख्यां परां गतिं याति, इति योजना । तत्र पादत्रयेण ज्ञानात् अज्ञानध्वस्त्या ध्वस्तिरनर्थस्य उक्ता । अज्ञा­न­मि­थ्या­ज्ञा­नयोः आवरणयोर्नाशे सर्वोत्कृष्टां गतिं परमपुरुषार्थं परमानन्दमनुभवति विद्वान् , इति चतुर्थपादार्थः ।

‘न हिन­स्त्या­त्म­ना­त्मा­नम् ‘ इति यथाश्रुतमादाय चोदयति -
नन्विति ।

‘न पृथिव्याम् ‘ इति प्रप्तिद्वारा निषेधवत् ‘नान्तरिक्षे न दिवि’ इति प्राप्त्य­भा­वाच्च अयं निषेधो मुख्यो नेष्यते, तथा इहापि प्राप्तिं विना निषेधो न युक्तिमान् , इत्याह -
यथेति ।

अज्ञानाम् आत्मनैव आत्म­हि­सा­स­म्भ­वात् विदुषां तदभावोक्तिः युक्ता, इति समादत्ते -
नैष दोष इति ।

सङ्ग्राहवाक्यं विवृणोति -
सर्वो हीति ।

अनात्मशब्दो देहादिविषयः अविदुषाम् आरो­पि­ता­त्म­ह­न्तृत्वं निगमयति -
इत्यात्महेति ।

तथापि पारमार्थिकस्य आत्मनो हननाभावात् न तेषां सर्वेषाम् आत्महन्तृत्वम् , इत्याशङ्क्य आह -
यस्त्विति ।

उक्तरीत्या सर्वेषाम् अविदुषाम् आत्महन्तृत्वं सिद्धम् , इति उपसंहरति -
सर्व इति ।

आत्मनैव आत्महननम् अविदुषां दृष्टम् , तदिह विद्वद्विषये शक्यं निषेद् - धुम् , इत्याह -
यस्त्वितर इति ।
आरो­पा­ना­रो­पा­भ्याम् , इत्यर्थः ।

उभयथापीति ।
आरो­पा­ना­रो­पा­भ्याम् , इत्यर्थः ।

ज्ञानात् अनर्थभ्रंशे पूर्वो­क्त­प­र­मा­न­न्द­प्राप्त्या परितृप्तत्वं युक्तम् , इत्याह -
तत इति
॥ २८ ॥

श्लोकान्तरं शङ्कोत्तरत्वेन अवतारयितुं अनुवदति -
सर्वेति ।

प्रतिदेहं धर्मा­ध­र्मा­दि­म­त्वेन आत्मनो भेदभानात् न सम्यग्दर्शनम् , इति शङ्कते -
तदिति ।

स्वगुणैः - सुखदुःखादिभिः, स्वकर्मभिश्च - धर्माधर्माख्यैः वैलक्षण्यात् प्रतिदेहं भेदे, तद्विशिष्टेषु आत्मसु कथं साम्येन दर्शनम् ? इत्येतदाशङ्क्य, परिहरति इत्याह -
एतदिति ।

प्रकृतिशब्दस्य स्वभाववाचित्वं व्यावर्तयति -
प्रकृतिरिति ।

मायाशब्दस्य संवि­त्प­र्या­यत्वं प्रत्याह -
त्रिगुणेति ।

उक्ता परस्य शक्तिः - माया, इत्यत्र श्रुतिसंमतिमाह -
मायां त्विति ।

अन्येन केनचित् क्रियमाणानि न भवन्ति कर्माणि, इति एवकारार्थमाह -
नान्येनेति ।

किं तत् अन्यत् निषेध्यम् ? इत्युक्ते, साङ्ख्या­भि­प्रेता प्रधानाख्या प्रकृतिः, इत्याह -
महदादीति ।
सर्वप्रकारत्वम् - काम्य­त्व­नि­षि­द्ध­त्वा­दिना प्रकारबाहुल्यम् । आत्मानम् उक्तविशेषणं यः पश्यति, इति पूर्वेण सम्बन्धः ।

‘स पश्यति’(भ. गी. १३-२७) इति अयुक्तम् , पुनरुक्तेः, इत्याशङ्क्य, आह -
स परमार्थेति ।

आत्मनां प्रतिदेहं भिन्नत्वे तेषु समदर्शनम् अयु्क्तम् , इत्युक्तस्य कः समाधिः? इत्याशङ्क्य, आह -
निर्गुणस्येति
॥ २९ ॥

प्रकृ­ते­र्वि­का­राणां च साङ्ख्यवत् पुरुषात् अन्यत्वप्रसक्तौ प्रत्याह -
पुनरपीति ।

उपदेशजनितं प्रत्य­क्ष­द­र्श­न­म­नु­व­दति -
आत्मैवेति ।
भूतानां विकाराणां नानात्वं प्रकृत्या सह आत्ममात्रतया प्रलीनं पश्यति । नहि भूतपृथक्त्वं सत्यां प्रकृतौ, केवले परस्मिन् विलापयितुं शक्यत इत्यर्थः ।

परिपूर्णात् आत्मन एव प्रकृत्यादेः विशेषान्तस्य स्वरूपलाभम् उपलभ्य तन्मात्रतां पश्यति, इत्याह -
तत एवेति ।

उक्तमेव विस्तारं श्रत्यवष्टम्भेन स्पष्टयति -
आत्मत इति ।

ब्रह्म­स­म्प­त्ति­र्नाम पूर्णत्वेन अभिव्यक्तिः, अपूर्णत्वहेतोः सर्वस्य आत्मसाकृतत्वात् , इत्याह -
ब्रह्मैवेति ।

ज्ञानसमानकालैव मुक्तिः, इति सूचयति -
तदेति
॥ ३० ॥

परिपूर्णत्वेन सर्वात्मत्वे प्राप्तम् आत्मनो देहादि, तेन कर्तृत्वादिना तद्वत्त्वम् , दृष्टं हि यवित्रस्यापि पञ्चगव्यादेः अववित्रसंसहीत् तद्दोषेण दुष्टत्वभ् , इत्या­श­ङ्का­म­नूद्य, उत्तरत्वेत श्लोक्मवतारयति -
एकस्येति ।

अनादित्वमेव साधयति -
आदिरिति ।

तधापि किं स्यात् ? इत्याशङ्क्य, कार्य­व­त्व­कृ­त­व्य­या­भावः सिध्यति, इत्याह -
यद्धीति ।

तथापि गुणा­प­क­र्ष­द्वा­रको व्ययो भविष्यति, नेत्याह -
तथेति ।

निरवयवत्वादेव सावयवद्वारकस्य निर्गुणत्वात् गुणद्वारकस्य च व्ययस्याभावेऽपि स्वभावतो व्ययः स्यात् , इत्याशङ्क्य, आह -
परमात्मेति ।

परमात्मनः स्वतः परतो वा व्ययाभावे फलितमाह -
यत इति ।

स्वम­हि­म­प्र­ति­ष्ठस्य कथं शरीरस्थत्वम् ? तत्राह -
शरीरेष्विति ।
सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहाद्यात्मना वा न करोति कूटस्थत्वात् , देहादेश्च कल्पितत्वात् इत्यर्थः ।

कर्तृ­त्वा­भा­वेऽपि भोक्तृत्वं स्यात् , इत्याशह्क्य, आह -
तदकरणादिति ।

तदेव उपपादयति -
यो हीति ।

परस्य कर्तृ­त्वा­दे­र­भावे कस्य तदिष्टम् ? इति पृच्छति -
कः पुनरिति ।

परस्मात् अन्यस्य कस्यचित् जीवस्य कर्तृत्वादि, इति आशङ्कामनुवदति -
यदीति ।

तस्मिन् पक्षे प्रक्रमभङ्गः स्यात् , इति दूषयति -
तत इति ।

ईश्व­रा­ति­रि­क्त­जी­वा­न­ङ्गी­का­रात् नोप­क्र­म­वि­रो­धोऽस्ति, इति शङ्कते -
अथेति ।

तर्हि प्रती­त­क­र्तृ­त्वादेः अधिकरणं वक्तव्यम् ; इति पूर्ववादी आह -
क इति ।

परस्यैव कर्तृ­त्वा­द्या­धा­र­त्वात् नास्तिं वक्तव्यम् , इत्याशङ्क्य, आह -
परो वेति ।
नास्तीति वाच्यम् , इति पूर्वेण सम्बन्धः । नहि कर्तृ­त्वा­दि­भा­वत्वे परस्य अस्मदादिवत् ईश्वरत्वम् , इति भावः ।

परस्य अन्यस्य वा कर्तृत्वादौ अविशिष्टे ‘शरीरस्थोऽपि’ इत्यादि श्रुतिमूलमपि ज्ञातुं वक्तुं च अशक्यत्वात् त्याज्यमेवेति परीक्षकसंमत्या उपसंहरति -
सर्वथेति ।

परस्य वस्तुनः अकर्तुः अभोक्तुश्च अविद्यया तदारोपात् आदेयमेव भगवन्मतम् , इति परिहरति -
तत्रेति ।

तमेव परिहारं प्रपञ्चयति -
अविद्येति ।

व्यावहारिके कर्तृत्वादौ इष्टे परमार्थिकमेव किं नेष्यते? तत्राह -
नत्विति ।

वास्त­व­क­र्तृ­त्वा­द्य­भावे लिङ्गम् उपन्यस्यति -
अत इति
॥ ३१ ॥

सूक्ष्मभावात् - अप्र­ति­ह­त­स्व­भा­वात् , इत्यर्थः । न सम्बध्यते, पङ्कादिभिः इति शेषः ॥ कर्तृत्वाभावात् न लिप्यत इत्युक्तम् , तत्र दृष्टान्तमाह -
यथेति ।
सर्वत्र - देहादौमतम् - स्थितमपि, आकाशम् - खम् , यथा सौक्ष्मत्वात् अस­ङ्ग­स्व­भा­व­त्वात् , देहा­दि­ग­त­क­र्तृ­त्वा­दिभिः न लिप्यते - न सम्बध्यते तथा सर्वत्र - सर्वस्मिन् , अवस्थित आत्मा देहे देहधर्मैः न लिप्यते, इत्यर्थः
॥ ३२ ॥

‘न करोति न लिप्यते च’(भ. गी. १३-३१) इत्यत्र द्रष्टृत्वेन दृश्य­ध­र्म­शू­न्यत्वं हेतुमाह -
किं चेति ।

दृष्टान्तेन विवक्षितमर्थं दर्शयति -
रवीति ।

उभयविधमर्थमेव स्फुटयति-
रविवदिति
॥ ३३ ॥

अध्यायार्थं सकलम् उपसंहरति -
समस्तेति ।
विशेषं - कौट­स्थ्य­प­रि­णा­मा­दि­ल­क्ष­णम् । तदेवम् अमा­नि­त्वा­दि­नि­ष्ठ­तया क्षेत्र­क्षे­त्र­ज्ञ­या­था­त्म्य­वि­ज्ञा­न­वतः सर्वा­न­र्थ­नि­वृत्या परि­पू­र्ण­प­र­मा­न­न्दा­वि­र्भा­व­ल­क्ष­ण­पु­रु­षा­र्थ­सिद्धिः, इति सिद्धम्
॥ ३४ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विरचिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने त्रयोशोऽध्यायः ॥ १३ ॥