आनन्दगिरिटीका (गीताभाष्य)
त्रयोदशोऽध्यायः (२)
किमिति तस्य विज्ञेयत्वम् ? इत्याशङ्क्य, आह -
परिहरणायेति ।
तत्र हेतुः -
संसारेति ।
तस्य प्रवृत्तिः - उत्पत्तिः, तद्धेतुत्वात् मानित्वादि त्याज्यम् , ज्ञाते च त्याज्यत्वे तेन तस्य ज्ञेयता, इत्यर्थः । इतिशब्दः साधनाधिकारसमसाप्त्यर्थः
॥ ११ ॥
उत्तरग्रन्थमवतारयति -
यथोक्तेति ।
अमानित्वादीनां ज्ञानत्वम् आक्षिपति -
नन्विति ।
वस्तुपरिच्छेदकत्वात् ज्ञानत्वम् आशङ्क्य, आह -
नहीति ।
परिच्छेदकत्वात् ज्ञानत्वम् , ज्ञानत्वात् परिच्छेदकत्वम् , इति अन्योन्याश्रयात् , इत्यभिप्रेत्य, आह -
सर्वत्रेति ।
स्वार्थस्यैव ज्ञानं परिच्छेदकम् , इत्येतत् व्यतिरेकद्वारा विशदयति -
नहीति ।
त्र्यतिरेकदृष्टान्तमाह -
यथेति ।
अमानित्वादीनां ज्ञानत्वमाक्षिप्तं प्रतिक्षिपति -
नैष दोष इति ।
तत्र हेतुत्वेन उक्तं स्मारयति -
ज्ञानेति ।
तेषु ज्ञानशब्दे हेत्वन्तरमाहृ -
ज्ञानेति ।
अमानित्वादोनां ज्ञानत्वमुक्त्वा ज्ञातव्यमवतारयति -
ज्ञेयमिति ।
प्रश्नद्वारा ज्ञेयप्रवचनस्य फलमुक्त्वा प्ररोचनं कृत्वा तेन श्रोतुः आभिमुख्यमापादयितुं प्ररोचनफलोक्तिपरम् अनन्तरवाक्यम् , इत्याह -
किमित्यादिना ।
तदेव विशिनष्टि -
अनादिमदिति ।
आदिमत्वराहित्यम् अव्याकृतस्याप्यस्ति, अतो विशेषं दर्शयति -
किं तदिति ।
भोक्तुरपि भोग्यात् परत्वम् , इत्यतो विशिनष्टि -
ब्रह्मेति ।
‘अनादि’ इत्येकं पदम् , ‘मत्परम् ‘ इति चापरम् , इति पदच्छेदात् न पुनरुक्तिरिति मतान्तरम् उत्थापयति -
अत्रेति ।
एकपदत्वसम्भवे किमिति पदद्वयम् ? इत्याशङ्क्य आह -
बहुव्रीहिणेति ।
आदिः अस्य नास्तीति यो बहुव्रीहिणा उक्तः अर्थः, तस्मिन् आदिमत्वनिषेधे, नास्ति मतुपः अर्थवत्वमिति । मतुबानर्थक्यम् अनिष्टं स्यात् , इति मत्वा पदं छिन्दन्ति, इति पूर्वेण सम्बन्धः ।
आदिः अस्य नास्तीति, ‘अनादि’ इत्युक्त्वा ‘प्तत्परम् ‘ इति उच्यमाने कोऽर्थः स्यात् ? इत्याशङ्क्य, आह -
अर्थेति ।
उक्तव्याख्यानस्य अयुक्तत्वात् नायं पुनरुक्तिसमाधिः, इत्याह -
सत्यमिति ।
अर्थासम्भवं समर्थयते -
ब्रह्मण इति ।
तथापि विशिष्टशक्तिमत्वं किं न स्यात् ? इत्याशङ्क्य, आह -
विशिष्टेति ।
तथापि मतुपो बहुव्रीहिणा तुल्यस्यार्थस्य कथं नान र्थक्यम् ? तत्राह -
तस्मादिति ।
अनादिमत्परं ब्रह्म, इत्यत्र पक्षान्तरं प्रतिक्षिप्य स्वपक्षः समर्थितः, सम्प्रति ब्रह्मणो ब्रह्मत्वादेव कार्यकारणात्मकत्वप्राप्तौ उक्तानुवादद्वारा ‘न सत् ‘ इत्यादि अवतारयति -
अमृतत्वेति ।
सत् - कार्यम् , अभिव्यक्तनामरूपत्वात् , असत् - कारणम् , तद्विपर्ययात् , इति विभागः ।
ज्ञेयप्रवचनम् अनिर्वाच्यविषयत्वात् प्रक्रमप्रतिकूलम् , इति आक्षिपति -
नन्विति ।
निर्विशेषस्य वस्तुनो ज्ञेयत्वात् तद्विषयं प्रवचनं प्रक्रमानुकूलम् इति, उत्तरमाह -
नेत्यादिना ।
अनिर्वाच्यत्वेन ‘न सत्तन्नासत् ‘ इति उच्यमाने कथमिदम् अनुरूपम् ? इति पृच्छति -
कथमिति ।
ब्रह्मात्मप्रकाशस्य सिद्धत्वात् तदर्थं विधिमुखेन उपदेशायोगात् अध्यस्ततद्धर्मनिवृत्तये निषेधद्वारा उपदेशस्य वेदान्तेषु प्रसिद्धेः आरोपितविशेषनिषेधरूपम् इदं प्रवचनमुचितम् , इति परिहरति -
सर्वास्विति ।
ज्ञेयस्य ब्रह्मणो विधिमुखोपदेशायोगे हेतुमाह -
वाच इति ।
ब्रह्मणः अस्तिशब्दावाच्यत्वे नरविषाणवत् नास्तित्वम् , इति अऩिष्टमाशङ्कते -
ननु इति ।
एवम् उक्तेऽपि ब्रह्मणि किमायातम् ? इत्याशङ्क्या, आह -
अथेति ।
ज्ञेयस्य अस्तिशब्दावाच्यत्वे व्याघातश्च, इत्याह -
विप्रतिषिद्धं चेति ।
अस्तिशब्दावाचयत्वात् अवस्तु ब्रह्म इत्यत्र अप्रयोजकत्वम् आह -
न तावदिति ।
नास्तिबुद्धिविषयत्वमेव अवस्तुत्वे निमित्तम् । अतः तदभावात् ब्रह्मणः नावस्तुता, इत्येतदेव व्यक्तीकर्तुं चोदयति -
नन्विति ।
सर्वासां धियां अस्तिधीत्वेन नास्तिधीत्वेन वा अऩुगतत्वे अन्यतरधीगोचरत्वाभावे ब्रह्मणोऽनिर्वाच्यत्वम् दुर्वारम् , इति फलितमाह -
तत्रेति ।
ब्रह्मणो घटादिवैलक्षण्यात् - उभयबुद्ध्यविषयत्वेऽपि न अनिर्वाच्यता, इत्याह -
नेत्यादिना ।
घटादेः । इन्द्रियग्राह्यस्य उभयबुद्धिविषयत्वेऽपि ब्रह्मणः तदग्राह्यस्य ऩोभयधीविषयत्वम् तथाऽपि नानिर्वाच्यत्वम् , सच्चिदेकतानस्य शब्दप्रमाणात् अविषयत्वेन दृष्टत्वात् , इति उक्तमेव प्रपञ्चयति -
यद्धीति ।
परीक्तं विरोधम् अनुवदति -
यत्त्विति ।
श्रुत्यवष्टम्भेन निराचष्टे -
न विरुद्धमिति ।
सापि विरुद्धार्थत्वात् न मानम् , बोधकस्य अविरोधापेक्षत्वात् , इति शङ्कते -
श्रुतिरिति ।
तस्या विरुद्धार्थत्वेन अप्रामाण्ये दृष्टान्तमाह -
यथेति ।
प्राचीनवंशं करोति, इति पारलौकिकफलयज्ञानुष्ठानार्थं शालानिर्माणं प्रस्तुत्य, ‘को हि तद्वेद’ इत्याद्या परलोकसत्वे सन्दिहाना यथा वि्रुद्धार्था श्रुतिरप्रमाणम् , एवं विदिताविदितान्यत्वश्रुतिरपि इत्यर्थः ।
नेयं श्रुतिः विरुद्धत्वेन अमानतया हातव्या, ब्रह्मणि अद्वितीये प्रत्यक्ताप्रतिपादनेन मानत्वात् , इति उत्तरमाह -
न विदितेति ।
यत्तु विरुद्धार्थत्वे ‘को हि’ इति िउदाहृतम् ; तदसत् , अर्थवादस्य विधिशेषस्य स्वार्ते अतात्पर्यात् , इत्याह -
यदीति ।
यत्र जात्यादिमत्वं तत्र वाच्यत्वं यथा गवादौ, न ब्रह्मणि जतिमत्वम् , अतः तस्यावाच्यत्वात् निषेधेनैव बोध्यत्वम् , इत्याह-
उपपत्तेश्चेति ।
नीच्यत इति निषेधेनैव तस्य उपदेश इति शेषः ।
जात्यादिमतोऽर्थस्यैव वाच्यत्वम् तत्रैव सङ्गतिग्रहात् इति प्रपञ्चयति -
सर्वो हीति ।
अश्रुतस्य, जात्यादिद्वारेण अज्ञातसङ्गतेर्वा शब्दस्य न बोधकत्वम् , अदृष्टेः, इत्याह -
नान्यथेति ।
जात्यादेः सच्छब्दविषयत्वम् उदाहरति -
तद्यथेत्यादिना ।
ब्रह्मणस्तु ‘अगोत्रमवर्णम् ‘ इत्यादिश्रुतेः जात्यादिमत्वाम्भावात् न शब्दवाच्यता, इत्याह-
नत्विति ।
‘केवलो निर्गुणश्च’(श्वे. उ. ६-११) इति श्रुतेः गुणद्वारा ब्रह्मणो न वाच्यता, इत्याह -
नापीति ।
निष्क्रियत्वे मानमाह -
निष्कलमिति ।
ब्रह्मणः अद्वितीयत्वस्य अशेषोपनिषत्सु सिद्धत्वात् द्विनिष्ठस्य सम्बन्धस्य तस्मिन्नसिद्धेः न तद् - द्वारापि तस्य वाच्यता, इत्याह-
न चेति ।
ब्रह्मणि अभिधावृत्या शब्दाप्रवृत्तौ हेत्वन्तराण्याह -
अद्वयत्वादिति ।
ब्रह्मणोऽवाच्यत्वे श्रुतिमपि संवादयति-
यत इति
॥ १२ ॥
सर्वविशेषरहितस्य अवाङ्मनसगोचरस्य अदृष्टेः दृष्टेश्च विपरीतस्य, प्रप्ते बह्मणः शून्यत्वे, प्रत्यक्त्वेन इन्द्रियप्रवृत्त्यादिहेतुत्वेन कल्पितद्वैतस्यत्तास्फूर्तिप्रदत्वेन, ईश्वरत्वेन च सत्त्वं दर्शयन् आदौ देहादीनां प्रवृत्तिमतां स्थादिवत् अचेतनानां प्रेक्षापूर्वकप्रवृत्तिमत्वात् चेतनाधिष्ठितत्त्वम् अनुमिमानः, तत्प्रत्यक्चेतनं ब्रह्म, इत्याह -
सच्छब्देति ।
तदस्तित्वमिति तच्छब्दः ज्ञेयब्रह्मार्थः । तदाशङ्केति । तच्छब्देन असत्वमुच्यते ।
ननु - सर्वदेहेषु पाणिपादम् अस्येति, कथं पाणीनां च पादानां च देहस्थत्वेन आत्मधर्मत्वम् ? तत्राह -
सर्वेति ।
करणप्रवृत्तिः रथादिप्रवृत्तिवत् प्रेक्षापूर्वकप्रवृत्तित्वात् चेतनाधिष्ठातृपूर्विका, इत्यर्थः ।
उक्तप्रवृत्या चेतनास्तित्वसिद्धावपि कथं क्षेत्रज्ञास्तित्वम् ? इत्याशङ्क्य, चेतनस्यैव क्षेत्रोपाधिना क्षेत्रज्ञत्वात् चेतनास्तित्वं तदस्तित्वमेव, इत्याह -
क्षेत्रज्ञश्चेति ।
तस्य क्षेत्रोपाधित्वेऽपि कथं पाणिपादाक्षिशिरोमुखादिमत्वम् ? इत्याशङ्क्य आह -
क्षेत्रं चेति ।
अतश्च उपाधितः तस्मिन् विशेषोक्तः, इति शेषः ।
कथं तर्हि ‘न सत्तन्नासन् ‘ इति निर्विशेषोक्ति? इत्याशङ्क्य, आह -
क्षेत्रेति ।
पाणिपादादिमत्वम् औपाधिकं मिथ्या चेत् , ज्ञेयप्रवचनाधिकारे कथं तदुक्तिः? इत्याशङ्क्य, आह -
उपाधीति ।
मिथ्यारूपमपि ज्ञेयवस्तुज्ञानोपयोगि इत्यत्र वृद्धसंमतिमाह -
तथा हीति ।
पाणिपादादीनाम् अन्यगतानाम् आत्मधर्मत्वेन आरोप्य व्यपदेशे को हेतुः? इति, चेत् , तत्राह -
सर्वत्रेति ।
ज्ञेयस्य ब्रह्मणः, शक्तिः - सन्निधिमात्रेण प्रवर्तनसामर्थ्यम् , तत् सत्त्वं निमित्तीकृत्य स्वकार्यवन्तो भवन्ति पाण्यादयः इति कृत्वा, इति योजना ।
‘सर्वतोऽक्षि’(भ. गी. ३-१३) इत्यादौ उक्तमतिदिशति -
तथेति ।
तत् ज्ञेयं यथा सर्वतः पाणिपादम् इति व्याख्यातं तथा, इति उक्तमेव स्फुटयति -
सर्वत इति ।
‘सर्वतोऽक्षि’ इत्यादेः अक्षरार्थमाह -
सर्वतोऽक्षीति ।
अक्षिश्रवणवत्वम् अवशिष्टज्ञानेन्द्रियवत्त्वस्य, पाणिपादमुखवत्वं च अविशिष्टकर्मेन्द्रयवत्त्वस्य मनोबुद्ध्यादिमत्त्वस्य च उपलक्षणम् । एकस्य सर्वत्र पाण्यादिमत्वं साधयति -
सर्वमिति
॥ १३ ॥
आरोपादृते साक्षादेव ज्ञेयस्य पाण्यादिमत्त्वमाशङ्क्य, आह -
उपाधीति ।
इन्द्रियविशेषणीभूतसर्वशब्दात् ज्ञेयोपाधित्वन्यायाविशेषाच्च अत्र बुद्ध्यादेरपि ग्रहणम् , इत्याह -
अन्तःकरणे चेति ।
श्रोत्रादीनां ज्ञेयोपाधित्वस्य मनोबुद्धिद्वारात्वादपि तयोः इह ग्रहणम् , इत्याह -
अपि चेति ।
तयोरपि इह उपादाने फलितमाह -
इत्यत इति ।
अक्षरार्थमुक्त्वा वाक्यार्थमाह -
सर्वेति ।
उपाधिद्वारा कल्पितव्यापारवत्वे मानमाह-
ध्यायतीति ।
कल्पितमेव अस्य व्यापारवत्वम् , न वास्तवम् , इत्यत्र भगवतोऽपि संमतिम् आकाङ्क्षाद्वारा दर्शयति -
कस्मादित्यादिना ।
सर्वकरणराहित्ये फलमाह -
अत इति ।
साक्षादेव ज्ञेयस्य वेगवद्विहरणादिक्रियावत्ताया मान्त्रवर्णिकत्वात् , कुतोऽस्य करणव्यापारैः अव्यापृतत्वम् ? इत्याशङ्क्य, अनुवादपूर्वकं मन्त्रस्य प्रकृतानुगुणत्वमाह -
यस्त्विति ।
करणगुणानुगुण्यभजनमन्तरेण साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनपरत्वे मन्त्रस्य मुख्यार्थत्वं स्यात् , इत्याशङ्क्य, तदसम्भावत् नैवम् इत्याह -
अन्ध इति ।
अर्थवादस्य श्रुते अर्थे तात्पर्याभावात् न प्रकृतप्रतिकूलता, इत्यर्थः ।
सर्वकरणराहित्यं तद्व्यापारराहित्यस्य उपलक्षणम् , इत्यङ्गीकृत्य, उक्तमेव हेतुं कृत्वा वस्तुतः सर्वसङ्गविवर्जितत्वम् आह -
यस्मादिति ।
वस्तुतः सर्वसङ्गाभावेऽपि सर्वाधिष्ठानत्वम् आह -
यद्यपीति ।
स्वसत्तामात्रेण अधिष्ठानतया सर्वं पुष्णाति, इत्येतत् उपपादयति -
सदिति ।
विमतम् , सति कल्पितम् , प्रत्येकं सदनुविद्धधीबोध्यत्वात् , प्रत्येकं चन्द्रभेदानुविद्धधीबोध्यचन्द्रभेदवत् , इत्यर्थः ।
सर्वं सदास्पदम् , इत्ययुक्तम् , मृगतृष्णिकादीनां तदभावात् , इत्याशङ्क्य, आह -
नहीति ।
तेषामपि कल्पितत्वे निरधिष्ठानत्वायोगात् निरूप्यमाणे तदधिष्ठानं सदेवेति, सर्वस्य सति कल्पितत्वम् अविरुद्धम् , इत्यर्थः ।
सर्वाधिष्ठानत्वेन, ज्ञेयस्य ब्रह्मणः अस्तित्वमुक्तम् उपसंहरति -
अत इति ।
इतश्च ज्ञेयं ब्रह्मास्ति, इत्याह -
स्यादिदं चेति ।
नहि तस्य उपलब्धृत्वं असत्वे सिध्यति, इत्यर्थः
॥ १४ ॥
इतोपि ज्ञेयं ब्रह्मास्ति, इत्याह-
किञ्चेति ।
‘बहिः’ इति व्याख्येयमादाय व्याचष्टे -
त्वगिति ।
भूतेभ्यो बहिः - बाह्यविषयाद्यात्मकम् , इत्यर्थः ।
कथम् अनात्मन एव आत्मत्वम् ? कल्पनया इत्याह -
आत्मत्वेनेति ।
अन्तःशब्दार्थमाह -
तथेति ।
भूतानां - चराचराणाम् , अन्तः मध्ये, प्रत्यग्भूतमित्यर्थः ।
द्वितीयं पादमवतार्थ व्याचष्टे -
बहिरित्यादिना ।
यत् मध्ये भूतात्मकं नानाविधदेहात्मना भासमानम् , तदपि ज्ञेयान्तर्भूतं तत्त्वं सत् , इत्यर्थः ।
कथं चराचरात्मनो भूतजातस्य ज्ञेयत्वम् ? तत्राह -
यथेति ।
अधिष्ठाने रजज्वां कल्पितसर्पादेः अन्तर्भाववत् देहाभासस्यापि ज्ञेयान्तर्भावात् , नासत्त्वं मध्येज्ञेयस्य शङ्कितव्यम् , इत्यर्थः ।
सर्वात्मकं चेत् ज्ञेयम् , सर्वैः इदमिति । किमिति । न गृह्येत? इति शङ्कते -
यदीति ।
इदमिति । ग्राह्यत्वयोग्यत्वाभावात् , नेत्याह -
उच्यतइति ।
सर्ववस्त्वात्मना भासते, तदयोग्यत्वं कथम् ? इत्याशङ्क्य आह -
सत्यमिति ।
सूक्ष्मत्वेऽपि किं स्यात् ? इत्याशङ्क्य, आह -
अत इति ।
सूक्ष्मत्वम् - अतीन्द्रियत्वम् । तस्य अविज्ञेयत्वे कुतः तज्ज्ञानान्मुक्तः? तत्राह -
अविदुषामिति ।
विशेषणफलमाह-
विदुषां त्विति ।
तेषामात्मत्वेन ज्ञातं चेत् , तथं दूरस्थत्वम् ? इत्याशङ्क्य, आह -
अविज्ञाततयेति ।
कथं तर्हि तस्य प्रत्यक्त्वम् ? तत्राह -
अन्तिके चेति ।
विद्वदविद्वदूभेदापेक्षया ‘दूरात्सुदूरे तदिहान्तिके च’(मु. उ. ३-१-७) इति श्रुतिः । तदर्थः अत्र प्रसङ्गात् अनूदित इत्यर्थः
॥ १५ ॥
ज्ञेयस्यास्तित्वे हेत्वन्तरमाह-
किञ्चेति ।
तद्धि प्रतिदेहं नभोवत् एकम् , तद् - भेदेमानाभावात् , भिन्नत्वे च घटवत् अनात्मत्वापातात् अतः अद्वितीयम् , सर्वत्र प्रत्यग्भूतं ज्ञेयं नास्तीति अतिसाहसम् इत्याह -
अविभक्तं चेति ।
कथं तर्हि देहादेः भेदधीः? इत्याशङ्क्य कल्पनया इत्याह - भूतेष्विति । तत्र हेतुः-
देहेष्विति ।
कार्याणां स्थितिहेतुत्वाच्च ज्ञेयमस्ति, इत्याह -
भूतेति ।
निमित्तोपादानतया तेषां प्रलये प्रभवे च कारणत्वाच्च तदस्ति, इत्याह -
प्रलयेति ।
तहि कार्यकारणत्वस्य वस्तुत्वात् नाद्वैतम् , इत्याशङ्क्य, आह - यथेति
॥ १६ ॥
इतोऽपि ज्ञेयस्यास्तित्वम् , इत्याह -
किञ्चेति ।
हेत्वन्तरमेव स्फोरयितुं शङ्कते -
सर्वत्रेति ।
न तत् तमो मन्तव्यम् , इत्याह -
नेति ।
तर्हि किं तस्य रूपम् ? इति पृच्छति - किं तर्हीति । तत्रोत्तरम् -
ज्योतिषामिति ।
सूर्यादीनां च प्रकाशकत्वात् अस्ति ज्ञेयं ब्रह्म, इत्याह -
ज्योतिषामिति ।
तदेव उपपादयति -
आत्मेति ।
तत्र श्रुतिद्वयं प्रमाणयति -
येनेति ।
उक्तेऽर्थे वाक्यशेषमपि दर्शयति -
स्मृतेश्चेति ।
ज्ञेयस्य अतमस्त्वेपि तमःस्पृष्टत्वम् आशङ्क्य उक्तम् -
तमस इति ।
उत्तरार्धस्य तात्पर्यमाह -
ज्ञानादेरिति ।
उत्तम्भनम् - उद्दीपनम् - प्रकटीकरणम् , इति यावत् । ज्ञानम् अमानित्वादि, करणव्युत्पत्त्या, इति शेषः ।
ज्ञानगम्यम् - ज्ञेयमिति पुनरुक्तिं शङ्कित्वा उक्तम् -
ज्ञेयमिति ।
उक्तत्रयस्य बुद्धिस्थतया प्राकट्यं प्रकटयति -
तदेतदिति ।
तत्र अनुभवं अनुकूलयति -
तत्रैवेति
॥ १७ ॥
त्वमर्थशुद्ध्यर्थं सविकारं क्षेत्रम् , पदवाक्यार्थविवेकसाधनं च अमानित्वादि, तत्पदार्थ च शुद्धम् , तद्भावोक्त्यर्थं उक्त्वा तेषां फलम् उपसंहरति-
यथोक्तेति ।
पूर्वाधं विभजते -
इत्येवमिति ।
वक्तव्यान्तरे सति, किमिति त्रितयमेव सङ्क्षिप्य उपसंहृतम् , तत्राह -
एतावानिति ।
उत्तरार्धम् आकाङ्क्षाद्वारा अवतारयति -
अस्मिन्निति ।
ईश्वरे समर्पित सर्वात्मभावमेव अभिनयति -
यत्पश्यतीति ।
विज्ञाय - लब्ध्वा, इत्यर्थः
॥ १८ ॥
‘प्रकृतिम् ‘इत्यादि वक्ष्यमाणम् अनन्तरपूर्वग्रन्थसम्बन्धि, इत्याशङ्क्य व्यवहितेन सम्बन्धर्थं व्यवहितमनुवदति -
तत्रेति ।
तयोश्च प्रकृत्योः उक्तं भूतकारणत्वम् इत्याह -
एतदिति ।
भूतानामिव प्रकृत्योरपि प्रकृत्यन्तरापेक्षया अनवस्थानात् , न भूतयोनिता, इति शङ्क्ते -
क्षेत्रेति ।
तत्र अकृताभ्यागमादिवारणाय बन्धस्य निदानज्ञानार्थम् आत्मनो विक्रियावत्वादिदोषनिरासार्थं च प्रकृतिपुरुषयोः अनादित्वं क्षेत्रत्वेनोक्तानां प्रकृतिं प्रति विकारभावं च दर्शयति -
अयमर्थ इति ।
‘स च यो यत्स्वभावश्च’ इति उद्दिष्टं व्याचष्टे -
प्रकृतिमिति ।
ईश्वरस्य अपरा प्रकृतिः अत्र प्रकृतिशब्देन उक्ता, परा तु प्रकृतिः जीवाख्या पुरुषशब्देन विवक्षिता, इति व्याकरोति -
ईश्वरस्येति ।
तयोरनादित्वं व्युत्पादयति -
नेत्यादिना ।
तत्र युक्तिमाह -
नित्यत्वादीश्वरस्येति ।
ईश्वरस्य उक्तप्रकृतिद्वयवत्वं कथम् ? इत्याशङ्क्य, आह -
प्रकृतीति ।
तस्य जगज्जन्मादौ स्वातन्त्र्यमेव ईश्वरत्वम् , न प्रकृतिद्वयवत्वम् , इत्याशङ्क्य, आह -
याभ्यामिति ।
प्रकृत्योः अनादित्वं कुत्रोपयुक्तम् ? इत्याशङ्क्य, आह -
ते इति ।
मतान्तरमाह -
नेत्यादिना ।
तयोर्मूलकारणत्वाभावे कस्य तदेष्टव्यम् ? इत्याशङ्क्या, आह -
तेन हीति ।
प्रकृत्योरेव मूलकारणत्वे श्रुतिस्मृतिसिद्धम् ईश्वरस्य तथात्वं न स्यात् , इत्याह -
यदीति ।
प्रकृतिद्बयस्य कार्यत्वपक्षं प्रत्याह -
तदसदिति ।
किं च प्रकृतिद्वयमनपेक्ष्य ईश्वरस्य संसारहेतुत्वे स्वातन्त्र्यात् मुक्तानामपि ततः संसाराप्तेः अनिषेधात् मोक्षशास्त्राप्रामाण्यात् न तस्यैव संसारहेतुता, इत्याह -
संसारस्येति ।
निर्निमित्तत्वं प्रकृतिद्वयापेक्षामृते परस्यैव निमित्तत्वम् , इति यावत् ।
किं च कार्यत्वे प्रकृत्योः तदुदयात्पूर्वं बन्धाभावे तद्विश्लेषात्मनो मोक्षस्याभावात् कदाचित् उभयाभावे पुनस्तदप्रसङ्गात् न प्रकृतिद्वयस्य कार्यता, इत्याह -
बन्धेति ।
प्रकृत्योः मूलकारणत्वे नानुपपत्तिः, इत्याह -
नित्यत्व इति ।
स्वपक्षे दोषाभावं प्रश्नपूर्वकं प्रपञ्चयति -
कथमित्यादिना ।
सङ्क्षवः - सत्ताप्रापको हेतुः । प्रकृतेरनादित्वे विकाराणां गुणानां च तस्कार्यत्वात् आत्मनो निर्विकारत्वं निर्गुणत्वं च सिध्यति, इति भावः
॥ १९ ॥
विकाराणां गुणानां प्रकृतेश्च स्वरूपम् आकाङ्क्षाद्वारा निर्णेतुम् उत्तरश्लोकपूर्वार्धं पातयति -
के पुनरिति ।
पुरुषस्य अनादित्वकृतं बन्धहेतुत्वमाह -
पुरुष इति ।
पूर्वार्धं व्याचष्टे - कार्यमित्यादिना । ज्ञानेन्द्रियपञ्चकम् , कर्मेन्द्रियपञ्चकम् , मनः, बुद्धिः, अहङ्कारश्च इति त्रयोदश करणानि । तथापि, भूतानां विषयाणां च ग्रहणात् कथं तेषां प्रकृतिकार्यता? इत्याशङ्क्य, आह -
देहेति ।
तथापि, गुणानां इहाग्रहणात् न प्रकृतिकार्यत्वम् , तत्राह -
गुणाश्चेति ।
उक्तरीत्या निष्पन्नमर्थमाह -
एवमिति ।
पाठान्तरमनूद्य व्याख्यापूर्वकम् अर्थाभेदमाह -
कार्येत्यादिना ।
व्याख्यान्तरमाह -
अथवेति ।
एकादश इन्द्रियाणि, पञ्चविषया इति षोडशसङ्ख्याकविकारः अत्र कार्यशब्दार्थः, महान् , अहङ्कारः, भूततन्मात्राणीति प्रकृतिविकृतयः सप्त कारणम्, तेषामारम्भकत्वेन कर्तृत्वेन हेतुराश्रयो मूलप्रकृतिरित्यर्थः।
उत्तरार्धस्य तात्पर्यम् आह -
पुरुषश्चेति ।
तस्य परमात्मत्वं व्यवच्छिनत्ति -
जीव इति ।
तस्य प्राणधारणनिमित्तस्य तदर्थं चेतनत्वमाह -
क्षेत्रज्ञ इति ।
तस्य अनौपाधिकत्वं वारयति - -
भोक्तेति ।
तयोः संसारकारण्त्वम् उपपादयितुं शङ्कते -
कथमिति ।
अन्वयव्यतिरेकाभ्यां तयो तथात्वम् इत्याह -
अत्रेति
। तत्र व्यतिरेकं दर्शयति-
कार्येति ।
न हि नित्यमुक्तस्यात्मनः स्वतः संसारोऽस्ति, इत्यर्थः ।
इदानीम् अन्वयमाह -
यदेति ।
अन्वयादिफलम् उपसंहरति-
अत इति ।
आत्मनोऽविक्रियस्य संसरणं नोचितम् , इत्याक्षिपति -
कः पुनरिति ।
सुखदःखान्यतरसाक्षात्कारो भोगः, स च अविक्रियस्यैव द्रष्टुः संसारः, तथाविधभोक्तृत्वम् अस्य संसारित्वम् , इति उत्तरमाह -
सुखेति ।
श्लोकव्याख्यासमाप्तौ इति शब्दः
॥ २० ॥
श्लोकान्तरं प्रश्नोत्तरत्वेन अवतारयति-
यदिति ।
निमित्तं वक्तुम् आदौ संसारित्वमस्य अविद्यौक्याध्यासात् , इत्याह -
पुरुष इति ।
यस्मात् प्रकृतिम् आत्मत्वेन गतः, तस्मात् भुङ्कते, इति योजना ।
गुणविषयं भोगम् अभिनयति -
सुखीति ।
अविद्यायाः भोगहेतुत्वात् किं कारणान्वेषणया, इत्याशङ्क्य, आह -
सत्यामपीति ।
सङ्गस्य जन्मादौ संसारे प्रधानहेतुत्वे मानमाह -
स यथेति ।
उक्ते अर्थे द्वितीयार्धमवतार्य व्याचष्टे -
तदेतदित्यादिना ।
साध्याहारं योजनान्तारमाह -
अथवेति ।
सदसद्योनीः विविच्य व्याचष्टे -
सद्योनय इति ।
योनिद्वयनिर्देशात् मध्यमवर्तिन्यो मनुष्ययोनयोऽपि ध्वनिता इत्याह -
सामर्थ्यादिति ।
सङ्गस्य संसारकारणत्वे, ऩ अविद्यायाः तत्कारणत्वम् , एकस्मादेव हेतोः तदुपपत्तेः, इत्याशङ्क्य, आह -
एतदिति ।
अविद्या उपादानम् , सङ्गो निमित्तम् , इति उभयोरपि कारणत्वं सिध्यति, इत्यर्थः ।
द्विविधहेतूक्तेः विवक्षितं फलमाह -
तच्चेति ।
सासङ्गस्य अज्ञानस्य स्वतोऽनिवृत्तेः तन्निवर्तकं वाच्यम् , इत्याशङ्क्य, आह -
अस्येति ।
वैराग्ये सति संन्यासः, तत्पूर्वकं च ज्ञानं सासङ्गाज्ञाननिवर्तकम् ; इत्यर्थः ।
उक्ते ज्ञाने मानमाह -
गीतेति ।
अध्यायादौ च उक्तं ज्ञानम् , उदाहृतम् , इत्याह-
तच्चेति ।
तदेव ज्ञानं ‘यज्ज्ञात्वा’ इत्यादिना ‘न सत्तन्नासत् ‘ इत्यन्तेन अन्यनिषेधेऩ, ‘सर्वतः पाणिपादम् ‘ इत्यादिना च अतद्धर्माध्यासेन उक्तम् , इत्याह -
यज्ज्ञात्वेति
॥ २१ ॥
प्रकृतस्यैव मोक्षहेतोर्ज्ञानस्य साक्षान्निर्देशाय उत्तरश्लोकम् उत्थापयति -
तस्येति ।
कार्यकारणानां व्यापारवतां समीपे स्थितः सन्निधिमात्रेण तेषां साक्षी इत्येवमर्थत्वेन उपद्रष्टा इति पदं व्याचष्टे -
समीपस्थ इति ।
लोकिकस्येव द्रष्टुः अस्यापि स्वव्यापारविशिष्टतया निष्क्रियत्वविरोधमाशङ्क्य, आह -
स्वयमिति ।
स्वाव्यापारादृते सन्निधिरेव द्रष्ट्रत्वम् ।
दृष्टान्तेन स्पष्टयति -
यथेति ।
उपद्रष्टा इत्यस्य अर्थान्तरमाह -
अथवेति ।
बहूनां द्रष्टृत्वेऽपि कस्य उपद्रष्ट्वत्वम् ? तत्राह -
तेषामिति ।
उपोपसर्गस्य सामीप्यार्थत्वेन प्रत्यगर्थत्वात् , तत्रैव सामीप्यावसानात् , प्रत्यगात्मा च द्रष्टा च इति, उपद्रष्टा सर्वसाक्षी, प्रत्यगात्मा इत्यर्थः ।
उक्तमेव व्यनक्ति -
यत इति ।
यथा यजमानस्य ऋत्विजां च यज्ञकर्मणि गुणं दोषं वा सर्वयज्ञाभिज्ञः सन् उपद्रष्टा विषयीकरोति, तथा अयमात्मा चिन्मात्रस्वभावः सर्वं गोचरयतीति, उपद्रष्टेति पक्षान्तरमाह –
यज्ञेति ।
‘अनुमन्ता च’ इत्येतत् व्याकरोति -
अनुमन्तेति ।
ये स्वयं कुर्वन्तो व्यापारयन्तो भवन्ति. तेषु कुर्वत्सु सत्सु, याः तेपां क्रियाः, तासु पार्श्वस्थस्य परितोषः अनुमननम् । तच्च अनुमोदनं, तस्य सन्निधिमात्रेण कर्ता यः, सोऽनुमन्ता इत्यर्थः ।
व्याख्यान्तरमाह -
अथवेति ।
तदेव स्फुटयति -
कार्येति ।
अर्थान्तरमाह -
अथवेत्यादि ।
भर्ता इति पदमादाय, किं भरणं नाम? इति पृच्छति -
भर्तेति ।
तद्रूपं निरूपयन् आत्मनो भर्तृत्वं साधयति -
देहेति ।
भोक्ता इत्युक्ते क्रियावत्वे प्राप्ते, भोगः चिदवसानता इति न्यायेन विभजते -
अग्नीति ।
विशेषणान्तरमादाय व्याचष्टे -
महेश्वर इति ।
परमात्मत्वम् उपपादयति -
देहादीनामिति ।
अविद्यया कल्पितानाम् , इति सम्बन्धः ।
परमत्वम् - प्रकृष्टत्वम् , सः पूर्वेक्तविशेषणवान् , इति यावत् परमात्मशब्दस्य प्रकृतात्मविषयत्वे श्रुतिमनुकूलयति -
अन्त इति ।
तस्य ताटस्थ्यं प्रश्नद्वारा प्रत्याचष्टे-
क्वेति ।
कस्मात् परत्वम् ? तदाह -
अव्यक्तादिति ।
तत्रैव वाक्यशेषानुकूल्यम् आह -
उत्तम इति ।
सोऽस्मिन् देहे परः पुरुषः, इति सम्बन्धः ।
शोधितार्थयोः ऐक्यज्ञानं प्रागुक्तं फलोक्त्या स्तौति -
क्षेत्रज्ञं चेति
॥ २२ ॥
यथोक्तप्रकारेण - जीवेश्वरादि सर्वकल्पनाधिष्ठानत्वेन, इत्यर्थः, साक्षादपरोक्षत्वेन, इति यावत् । यथोक्ताम् - अनादिं अनिर्वाच्यां, सर्वानर्थोपाधिभूताम् , इत्यर्थः । विद्ययाप्रागुक्तैकत्वगोचरया प्रकृतिम् अविद्यारूपां सकार्याम् अभावमापादितां यो वेत्ति, इति सम्बन्धः सर्वप्रकारेण - विहितेन निषिद्धेन च इत्यर्थः । पुनर्नकारः अन्वयार्थः । निपातसूचितं न्यायमाह -
अपीति ।
‘न स भूयोऽभिजायते’ इत्युक्तमाक्षिपति-
नन्विति ।
ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात् पुनर्देहारम्भमुपेत्य नाक्षेपः स्यात् , इत्याशङ्क्य, आह -
यद्यपीति ।
तथापि स्युस्त्रीणि जन्मामि इति सम्बन्धः ।
वर्तमानदेहे ज्ञानात्पूर्वोत्तरकालानां कर्मणआं फलमदत्वा नाशायोगात् जन्मद्वयमावश्यकम् । अतीतानेकदेहेष्वपि कृतकर्मणां ‘नाभुक्तं क्षीयते कर्म’ इत्येव स्मृतेः अदत्वा फलमनाशात् अस्ति तृतीयमपिजन्म, इत्याह -
प्रागिति ।
फलदानं विनापि कर्मनाशे दोषमाह-
कृतेति ।
न युक्त इति कृत्वा फलमदत्वा कर्मनाशो न, इति शेषः ।
विमतानि कर्माणि, फलमदत्वा न क्षीयन्ते, वैदिककर्मत्वात् , आरब्धकर्मवत् , इति मत्वा आह-
यथेति ।
नाशो न ज्ञानात् इति शेषः ।
ननु अनारब्धकर्मणां ज्ञानात् नाशो युक्तः अप्रवृत्तफलत्वात् । आरब्धकर्मणां तु प्रवृत्तफलत्वेन बलवत्वात् न ज्ञानात् तन्निवृत्तिः इति । नेत्याह -
न चेति ।
अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात् प्रवृत्ताप्रवृत्तफलत्वम् अनुपयुक्तम् इति भावः ।
कर्मणां फलमदत्वा नाशाभावे फलितमाह -
तस्मादिति ।
ननु - कर्मणां बुहुत्वात् तत्फलेषु जन्मसु कुतः त्रित्वम् ? आरम्भककर्मणां त्रिप्रकारकत्वात् इति चेत् , न, अनारब्धत्वेन एक प्ररारत्वसम्भवात् , तत्राह -
संहतानीति ।
नास्ति ज्ञानस्य ऐकान्तिकफलत्वम् इति शेषः ।
उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषम् अनुभाष्य, तस्य अतिप्रसञ्जकत्वमाह -
अन्यथेति ।
सर्वत्रेति - आरब्धकर्मस्वपि, इति यावत् । फलजनकत्वानिश्चयः अनाश्वासः ।
कर्मणां जन्मानारम्भकत्वे कर्मकाण्डानर्थक्यं दोषान्तरमाह -
शास्रेति ।
अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्तरारम्भकत्वध्रौव्ये फलितमाह-
इत्यत इति ।
श्रुत्यवष्टभेन परिहरति -
नेत्यादिना ।
ज्ञानात् अनारब्धकर्मदाहे भगवतोऽपि संमतिमाह -
इहापीति ।
ज्ञानाधीनसर्वकर्मदाहे ‘सर्वधर्मान् परित्यज्य’(भ. गी. १८-६६) इति वाक्यशेषोऽपि प्रमाणीभवति, इत्याह -
वक्ष्यति चेति ।
ज्ञानात् अनारब्धाशेषकर्मक्षये युक्तिरपि वक्तुं शक्या इत्याह -
उपपत्तेश्चेति ।
तामेव विवृणोति -
अविद्येति ।
अज्ञस्य अविद्यास्मितारागद्वेषाभिनिवेशाख्यक्लेशात्मकानि सर्वानर्थबीजानि, तानि निमित्तीकृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि । यानि तु विदुषो विद्यादग्धक्लेशबीजस्य प्रतिभासमात्रशरीराणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवत् अर्थक्रियासामर्थ्याभावात् इत्यर्थः ।
प्रतीतमात्रदेहानां कर्माभासानां न फलारम्भकता, इत्यस्मिन्नर्थे भगवतोऽपि संमतिमाह -
इहापीति ।
तत्त्वज्ञानादूर्ध्वं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति -
बीजानीति ।
ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गीकरोति -
अस्त्विति ।
विरोधिग्रस्तानामेव उत्पत्तिः इति हेतुमाह -
ज्ञानेति ।
अस्मिन् जन्मनि जन्मान्तरे वा ज्ञानात् पूर्वभाविकर्मणां न ततो दाहः, विगेधिन विना प्रवृत्तेः, इत्याह -
नत्विति ।
श्रुतिस्मृतिविरोधात् नैवमिति परिहरति -
नेत्यादिना ।
सर्वशब्दश्रुतेः सङ्कोचं शङ्कते -
ज्ञानेति ।
प्रकारणादिसङ्कोचकाभावान् नैवमित्याह -
नेति ।
आक्षेपदशायाम् उक्तमनुमानम् अनुवदति -
यत्त्विति ।
आभासात्वात् इदमसाधकम् इति दूषयति -
तदसदिति ।
व्याप्त्यादिसत्वे कथम् आभाप्तत्वम् ? इति पृच्छति -
कथमिति ।
प्रवृत्तफलत्वोपाधिना हेतोर्व्याप्तिभङ्गात् आभासत्वधीः इत्याह -
तेषामिति ।
तदेव प्रपञ्चयति -
यथेत्यादिना ।
धनुपः सकाशात् इषुर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये नं पतति । तथा प्रबलप्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयः । न च तत्त्वज्ञानं तादृक् प्रतिबन्धकम् , उत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिबद्धशक्तित्वात् इत्यर्थः ।
यत्र ज्ञानेन अदाह्यत्वम् , तत्र प्रवृत्तफलत्वम् , इत्यन्दयेऽपि, यत्र अप्रवृत्तफलत्वम् , तत्र ज्ञानदाह्यत्वम् , इति न व्यतिरेकसिद्धिः, इत्याशङ्क्य आह -
स एवेति ।
प्रवृत्तौ निमित्तभूतोऽनारब्धो वेगोऽनेनेति विग्रहः । स्वाश्रयस्थानि - साभासान्तःकरणानष्ठानि, इति यावत् । विमतानि, तत्त्वधीनिमित्तनिवृत्तीनि, तत्कृतकारणनिवृत्तित्वात् रज्जुसर्पदिवत् , इति व्यतिरेकसिद्धिः, इति भावः ।
विदुषो वर्तमानदेहपाते देहहेत्वभावात् तत्त्वधीः ऐकान्तिकफला, इति उपसंहरति -
पतित इति
॥ २३ ॥
‘ज्ञेयं यत्तत्‘(भ. गी. १३-१२) इत्यादिना तत्पदार्थः त्वम्पदार्थश्च अनन्तरमेव शोधितौ, तयोरैक्यं च ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३-२) इत्युक्तम् । इदानीं तद् - दृष्टिहेतून् यथाधिकारं कथयति -
अत्रेति ।
घ्यानाख्यं साधनं किं रूपम् ? इति पृच्छति-
ध्यानं नामेति ।
तद्रूपं वदन् उत्तरमाह -
शब्दादिभ्य इति ।
एकाग्रतया उपसहृत्य, इति सम्बन्धः ।
यच्चिन्तनं प्रत्यक्चेतयितरि, इति पूर्वेणान्वयः । किं तच्चिन्तनम् ? इत्युक्ते दृष्टान्तद्वारा श्रुत्यवष्टम्भेन ध्यानं प्रपञ्चयति -
तथेति ।
विवक्षितध्यानानुरोधेन इति यावत् , आत्मानं पश्यन्ति परमात्मतया इति शेषः ।
केचिदिति उत्तमाधिकारिणो गृह्यन्ते । मध्यमाधिकारिणो निर्दिशति -
अन्य इति ।
साख्यशब्दितं साधनं किन्नाम? इत्युक्ते, विचारजन्यं ज्ञानम् , तदेव ज्ञानं हेतुतया योगतुल्यत्वात् योगशब्दितम् , इत्याह -
साङ्ख्यमिति ।
अधमान् अधिकारिणः सङ्गिरते -
कर्मेति ।
चित्तैकाग्रा्यं योगः, तादर्थ्यं कर्मणः शुद्धिहेतोरस्ति । तेन गौण्या वृत्त्या योगशब्दितं कर्म, इत्याह -
गुणत इति ।
अपरे ‘पश्यन्त्यात्मानमात्मना’ इति पूर्ववत् अनुषङ्गमङ्गीकृत्य आह -
तेनेति
॥ २४ ॥
अधमतमान् अधिकारिणो मोक्षमार्गे प्रवृत्तिं प्रतिलम्भयति -
अन्ये त्विति ।
आचार्याधीनां श्रुतिमेव अभिनयति -
इदमिति ।
उपासनमेव विवृणोति -
श्रद्दधाना इति ।
परोपदेशात् प्रवृत्तानामपि प्रवृत्तेः साफल्यमाह-
तेऽपीति ।
तेषां मुख्याधिकारित्वं व्यावर्तयति -
श्रुतीति ।
‘तेऽपि’ इति अपिना सूचितमर्थम् आह -
किमिति
॥ २५ ॥
ऐक्यधीः मुक्तिगेतुः, इति प्रागुक्तमनूद्य प्रश्नपूर्वक जिज्ञासितहेतुपरत्वेन श्लोकमवतारयति -
क्षेत्रेति ।
सर्वस्य प्राणिजातस्य क्षेत्रक्षेत्रज्ञसम्बन्धाधीना यस्मादुत्पत्तिः, तस्मात् क्षेत्रज्ञात्मकपरमात्मातिरेकेण प्राणिनिकायस्याभावात् , ऐक्यज्ञानादेव मुक्तिः, इत्याह -
कस्मादिति ।
क्षेत्रक्षेत्रज्ञसम्बन्धमुक्तम् आक्षिपति-
कः पुनरिति ।
क्षेत्रज्ञस्य क्षेत्रण सम्बन्धः संयोगो वा समवायो वा? इति विकल्प्य, आद्यं दूषयति -
न तावदिति ।
द्वितीयं निरस्यति -
नापीति ।
वास्तवसम्बन्धाभावेऽपि तयोरध्यासस्वरूपः सोऽस्ति, इति परिहरति -
उच्यत इति ।
भिन्नस्वभावत्वे हेतुमाह -
विषयेति ।
इतरेतरवत् , क्षेत्रे क्षेत्रज्ञे वा तद्धर्मस्य क्षेत्रानधिकरणस्य क्षेत्रज्ञगतस्य चैतन्यस्य क्षेत्रज्ञानाधारस्य च क्षेत्रनिष्ठस्य जाड्यादेः आरोपरूपो योगस्तयोः, इत्याह -
इतरेति ।
तढु निमित्तमाह -
क्षेत्रेति ।
अविवेकात् आरोपितसंयोगे दृष्टान्तमाह -
रज्ज्विति ।
उक्तं सम्बन्धं निगमयति -
सोऽयमिति ।
तस्य निवृत्तियोग्यत्वं सूचयति-
मिथ्येति ।
कथं तर्हि मिथ्याज्ञानस्य निवृत्तिः? इत्याशङ्क्य, आह -
यथेति ।
योऽयं विज्ञानमयः प्राणेषु इत्यादि त्वम्पदार्थविषयं शास्त्रमनुसृत्य विवेकज्ञानमापाद्य महाभूतादिधृत्यन्तात् क्षेत्रात् उफद्रष्ट्टत्वादिलक्षणं प्रागुक्तं क्षेत्रज्ञं मुञ्जेषीकान्यायेन विविच्य सर्वोपाधिविनिर्मुक्तं ब्रह्म स्वरूपेण ज्ञेयं योऽनुभवति, तस्य मिथ्याज्ञानमपगच्छति, इति सम्बन्धः ।
कथमस्य निर्विशेषत्वम् ? क्षेत्रज्ञस्य सविशेषत्वहेतोः सत्त्वात् , इत्याशङ्क्य, आह -
क्षेत्रं चेति ।
बहुदृष्टान्तोक्तेः बहुविधत्वं क्षेत्रस्यद्योत्यते ।
उक्तज्ञानात् मिथ्याज्ञानापगमे हेतुमाह-
यथोक्तेति ।
तथापि कथं पुरुषार्थसिद्धिः? कालान्तरे तुल्यजातीयमिथ्याज्ञानोदयसं भवात् , इत्याशङ्क्य, आह-
तस्येति ।
सम्यग्ज्ञानात् अज्ञानतत्कार्यनिवृत्त्या मुक्तिः, इति स्थिते, फलितमाह-
य एवमिति
॥ २६ ॥
उत्तरग्रन्थमवतारयितुं व्यवहितम् वृत्तं कीर्तयति -
नेत्यादिना ।
अविद्या अनाद्यनिर्वाच्यमज्ञानम् , मिथ्याज्ञानं तत्संस्कारश्च आदिशब्दार्थः ।
व्यवहितमनूद्य अव्यवहितमनुवदति -
जन्मेति ।
व्यवधानाव्यवधानाभ्यां सर्वानर्थमूलत्वात् अज्ञानस्य, तन्निवर्तकं सम्यग्ज्ञानं वक्तव्यम् , इत्याह -
अत इति ।
तस्य असकृदुक्तत्वात् उक्तार्थप्रवृत्तिः वृथा, इत्याशङ्क्य अतिसूक्ष्मार्थस्य शब्दभेदेन पुनः पुनर्वचनम् अधिकारिभेदानुग्रहाय, इति मत्वा आह -
उक्तमिति ।
सर्वत्र परस्य एकत्वात् न उत्कर्षापकर्षवत्वम् , इत्याह -
सममिति ।
परमत्वम् ईश्वरत्वं च उपपादयति-
देहेति ।
आत्मा - जीवः, तमित्यादिना अन्वयोक्तिः आश्रयनाशात् आश्रितस्यापि नाशमाशङ्क्य, आह -
तं चेति ।
अविनश्यन्तमिति विशिनष्टि, इति सम्बन्धः ।
उभयत्र विशेषणद्वयस्य तात्पर्यमाह -
भूतानामिति ।
नाशानाशाभ्यां वैलक्ष्ण्येऽपि कथमत्यन्तवैलक्षण्यम् ? सविशेषत्वभिन्नत्वयोः तुल्यत्वात् , इति शङ्कते -
कथमिति ।
भूतानां संविशेषत्वादिभावेऽपि परस्य तदभावात् आत्यन्तवैलक्षण्यम् , इति वक्तुं जन्मनो भावविकारेषु आदित्वमाह -
सर्वेषामिति ।
तत्र हेतुमाह -
जन्मेति ।
न हि जन्म अन्तरेण उत्तरे विकारा युज्यन्ते, जन्मवतः तदुपलम्भात् , इत्यर्थः ।
विनाशानन्तरभाविनोऽपि विकारस्य कस्यचिदुपपत्तेः न तस्य अन्त्यविकारत्वम् , इत्याशङ्क्य आह -
विनाशादिति ।
तस्य अन्त्यविकारत्वे सिद्धे फलितमाह -
अत इति ।
तेषां जन्मादीनां कार्याणि कादाचित्कमत्वानि तदधिकरणानि, तैः सह इति यावत् ।
परमेश्वरस्य भूतेभ्यः अत्यन्तवैलक्षण्यमुक्तम् उपसंहरति -
तस्मादिति ।
निर्विशेषत्वम् - सर्व भावविकारविरहितत्वं कूटस्थात्वम् । एकत्वम् - अद्वितीयत्वम् । ‘यः पश्यति’ इत्यादि व्याचष्टे -
य एवमिति ।
उक्तविशेषणम् ईश्वरं ‘पश्यन्नेव पश्यति’ इत्युक्तमाक्षिपति -
नन्विति ।
ईश्व रपराडमुखस्य अनात्मनिष्ठस्य तद्दर्शित्वेऽपि विपरीतदर्शित्वात् ईश्वरप्रवणस्यैव यसम्क् दर्शित्वम् , इति विवक्षित्वा विशेषणम् इति परिहरति-
सत्यमिति ।
उक्तमेव दृष्टान्तेन विवृणोति -
थथेत्यादिना ।
‘यः पश्यति’ इत्यादेः अर्थमुपसंहरति -
इतरे इति ।
परवस्तु निष्ठेभ्यः व्यतिरिक्ता इत्यर्थः
॥ २७ ॥
प्रकृतसम्यग्ज्ञानेन किम् ? इत्यपेक्षायां तत्फलोक्त्या तस्यैव स्तुत्या तद्धेतौ पुरुषं प्रवर्तयितुं श्लोकान्तरम् इत्याह -
यथोक्तस्येति ।
यस्मादित्यस्य ततःशब्देन सम्बन्धः । सर्वभूतेषु तुल्यतयावस्थितं पूर्वोक्तलक्षणमीश्वरं निर्विशेषं पश्यन् आत्मानमात्मना यस्मात् न हिनस्ति, ततः - तस्मात् , मोक्षाख्यां परां गतिं याति, इति योजना । तत्र पादत्रयेण ज्ञानात् अज्ञानध्वस्त्या ध्वस्तिरनर्थस्य उक्ता । अज्ञानमिथ्याज्ञानयोः आवरणयोर्नाशे सर्वोत्कृष्टां गतिं परमपुरुषार्थं परमानन्दमनुभवति विद्वान् , इति चतुर्थपादार्थः ।
‘न हिनस्त्यात्मनात्मानम् ‘ इति यथाश्रुतमादाय चोदयति -
नन्विति ।
‘न पृथिव्याम् ‘ इति प्रप्तिद्वारा निषेधवत् ‘नान्तरिक्षे न दिवि’ इति प्राप्त्यभावाच्च अयं निषेधो मुख्यो नेष्यते, तथा इहापि प्राप्तिं विना निषेधो न युक्तिमान् , इत्याह -
यथेति ।
अज्ञानाम् आत्मनैव आत्महिसासम्भवात् विदुषां तदभावोक्तिः युक्ता, इति समादत्ते -
नैष दोष इति ।
सङ्ग्राहवाक्यं विवृणोति -
सर्वो हीति ।
अनात्मशब्दो देहादिविषयः अविदुषाम् आरोपितात्महन्तृत्वं निगमयति -
इत्यात्महेति ।
तथापि पारमार्थिकस्य आत्मनो हननाभावात् न तेषां सर्वेषाम् आत्महन्तृत्वम् , इत्याशङ्क्य आह -
यस्त्विति ।
उक्तरीत्या सर्वेषाम् अविदुषाम् आत्महन्तृत्वं सिद्धम् , इति उपसंहरति -
सर्व इति ।
आत्मनैव आत्महननम् अविदुषां दृष्टम् , तदिह विद्वद्विषये शक्यं निषेद् - धुम् , इत्याह -
यस्त्वितर इति ।
आरोपानारोपाभ्याम् , इत्यर्थः ।
उभयथापीति ।
आरोपानारोपाभ्याम् , इत्यर्थः ।
ज्ञानात् अनर्थभ्रंशे पूर्वोक्तपरमानन्दप्राप्त्या परितृप्तत्वं युक्तम् , इत्याह -
तत इति
॥ २८ ॥
श्लोकान्तरं शङ्कोत्तरत्वेन अवतारयितुं अनुवदति -
सर्वेति ।
प्रतिदेहं धर्माधर्मादिमत्वेन आत्मनो भेदभानात् न सम्यग्दर्शनम् , इति शङ्कते -
तदिति ।
स्वगुणैः - सुखदुःखादिभिः, स्वकर्मभिश्च - धर्माधर्माख्यैः वैलक्षण्यात् प्रतिदेहं भेदे, तद्विशिष्टेषु आत्मसु कथं साम्येन दर्शनम् ? इत्येतदाशङ्क्य, परिहरति इत्याह -
एतदिति ।
प्रकृतिशब्दस्य स्वभाववाचित्वं व्यावर्तयति -
प्रकृतिरिति ।
मायाशब्दस्य संवित्पर्यायत्वं प्रत्याह -
त्रिगुणेति ।
उक्ता परस्य शक्तिः - माया, इत्यत्र श्रुतिसंमतिमाह -
मायां त्विति ।
अन्येन केनचित् क्रियमाणानि न भवन्ति कर्माणि, इति एवकारार्थमाह -
नान्येनेति ।
किं तत् अन्यत् निषेध्यम् ? इत्युक्ते, साङ्ख्याभिप्रेता प्रधानाख्या प्रकृतिः, इत्याह -
महदादीति ।
सर्वप्रकारत्वम् - काम्यत्वनिषिद्धत्वादिना प्रकारबाहुल्यम् । आत्मानम् उक्तविशेषणं यः पश्यति, इति पूर्वेण सम्बन्धः ।
‘स पश्यति’(भ. गी. १३-२७) इति अयुक्तम् , पुनरुक्तेः, इत्याशङ्क्य, आह -
स परमार्थेति ।
आत्मनां प्रतिदेहं भिन्नत्वे तेषु समदर्शनम् अयु्क्तम् , इत्युक्तस्य कः समाधिः? इत्याशङ्क्य, आह -
निर्गुणस्येति
॥ २९ ॥
प्रकृतेर्विकाराणां च साङ्ख्यवत् पुरुषात् अन्यत्वप्रसक्तौ प्रत्याह -
पुनरपीति ।
उपदेशजनितं प्रत्यक्षदर्शनमनुवदति -
आत्मैवेति ।
भूतानां विकाराणां नानात्वं प्रकृत्या सह आत्ममात्रतया प्रलीनं पश्यति । नहि भूतपृथक्त्वं सत्यां प्रकृतौ, केवले परस्मिन् विलापयितुं शक्यत इत्यर्थः ।
परिपूर्णात् आत्मन एव प्रकृत्यादेः विशेषान्तस्य स्वरूपलाभम् उपलभ्य तन्मात्रतां पश्यति, इत्याह -
तत एवेति ।
उक्तमेव विस्तारं श्रत्यवष्टम्भेन स्पष्टयति -
आत्मत इति ।
ब्रह्मसम्पत्तिर्नाम पूर्णत्वेन अभिव्यक्तिः, अपूर्णत्वहेतोः सर्वस्य आत्मसाकृतत्वात् , इत्याह -
ब्रह्मैवेति ।
ज्ञानसमानकालैव मुक्तिः, इति सूचयति -
तदेति
॥ ३० ॥
परिपूर्णत्वेन सर्वात्मत्वे प्राप्तम् आत्मनो देहादि, तेन कर्तृत्वादिना तद्वत्त्वम् , दृष्टं हि यवित्रस्यापि पञ्चगव्यादेः अववित्रसंसहीत् तद्दोषेण दुष्टत्वभ् , इत्याशङ्कामनूद्य, उत्तरत्वेत श्लोक्मवतारयति -
एकस्येति ।
अनादित्वमेव साधयति -
आदिरिति ।
तधापि किं स्यात् ? इत्याशङ्क्य, कार्यवत्वकृतव्ययाभावः सिध्यति, इत्याह -
यद्धीति ।
तथापि गुणापकर्षद्वारको व्ययो भविष्यति, नेत्याह -
तथेति ।
निरवयवत्वादेव सावयवद्वारकस्य निर्गुणत्वात् गुणद्वारकस्य च व्ययस्याभावेऽपि स्वभावतो व्ययः स्यात् , इत्याशङ्क्य, आह -
परमात्मेति ।
परमात्मनः स्वतः परतो वा व्ययाभावे फलितमाह -
यत इति ।
स्वमहिमप्रतिष्ठस्य कथं शरीरस्थत्वम् ? तत्राह -
शरीरेष्विति ।
सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहाद्यात्मना वा न करोति कूटस्थत्वात् , देहादेश्च कल्पितत्वात् इत्यर्थः ।
कर्तृत्वाभावेऽपि भोक्तृत्वं स्यात् , इत्याशह्क्य, आह -
तदकरणादिति ।
तदेव उपपादयति -
यो हीति ।
परस्य कर्तृत्वादेरभावे कस्य तदिष्टम् ? इति पृच्छति -
कः पुनरिति ।
परस्मात् अन्यस्य कस्यचित् जीवस्य कर्तृत्वादि, इति आशङ्कामनुवदति -
यदीति ।
तस्मिन् पक्षे प्रक्रमभङ्गः स्यात् , इति दूषयति -
तत इति ।
ईश्वरातिरिक्तजीवानङ्गीकारात् नोपक्रमविरोधोऽस्ति, इति शङ्कते -
अथेति ।
तर्हि प्रतीतकर्तृत्वादेः अधिकरणं वक्तव्यम् ; इति पूर्ववादी आह -
क इति ।
परस्यैव कर्तृत्वाद्याधारत्वात् नास्तिं वक्तव्यम् , इत्याशङ्क्य, आह -
परो वेति ।
नास्तीति वाच्यम् , इति पूर्वेण सम्बन्धः । नहि कर्तृत्वादिभावत्वे परस्य अस्मदादिवत् ईश्वरत्वम् , इति भावः ।
परस्य अन्यस्य वा कर्तृत्वादौ अविशिष्टे ‘शरीरस्थोऽपि’ इत्यादि श्रुतिमूलमपि ज्ञातुं वक्तुं च अशक्यत्वात् त्याज्यमेवेति परीक्षकसंमत्या उपसंहरति -
सर्वथेति ।
परस्य वस्तुनः अकर्तुः अभोक्तुश्च अविद्यया तदारोपात् आदेयमेव भगवन्मतम् , इति परिहरति -
तत्रेति ।
तमेव परिहारं प्रपञ्चयति -
अविद्येति ।
व्यावहारिके कर्तृत्वादौ इष्टे परमार्थिकमेव किं नेष्यते? तत्राह -
नत्विति ।
वास्तवकर्तृत्वाद्यभावे लिङ्गम् उपन्यस्यति -
अत इति
॥ ३१ ॥
सूक्ष्मभावात् - अप्रतिहतस्वभावात् , इत्यर्थः । न सम्बध्यते, पङ्कादिभिः इति शेषः ॥ कर्तृत्वाभावात् न लिप्यत इत्युक्तम् , तत्र दृष्टान्तमाह -
यथेति ।
सर्वत्र - देहादौमतम् - स्थितमपि, आकाशम् - खम् , यथा सौक्ष्मत्वात् असङ्गस्वभावत्वात् , देहादिगतकर्तृत्वादिभिः न लिप्यते - न सम्बध्यते तथा सर्वत्र - सर्वस्मिन् , अवस्थित आत्मा देहे देहधर्मैः न लिप्यते, इत्यर्थः
॥ ३२ ॥
‘न करोति न लिप्यते च’(भ. गी. १३-३१) इत्यत्र द्रष्टृत्वेन दृश्यधर्मशून्यत्वं हेतुमाह -
किं चेति ।
दृष्टान्तेन विवक्षितमर्थं दर्शयति -
रवीति ।
उभयविधमर्थमेव स्फुटयति-
रविवदिति
॥ ३३ ॥
अध्यायार्थं सकलम् उपसंहरति -
समस्तेति ।
विशेषं - कौटस्थ्यपरिणामादिलक्षणम् । तदेवम् अमानित्वादिनिष्ठतया क्षेत्रक्षेत्रज्ञयाथात्म्यविज्ञानवतः सर्वानर्थनिवृत्या परिपूर्णपरमानन्दाविर्भावलक्षणपुरुषार्थसिद्धिः, इति सिद्धम्
॥ ३४ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने त्रयोशोऽध्यायः ॥ १३ ॥