अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

चतुर्दशोऽध्यायः

क्षेत्र­क्षे­त्र­ज्ञ­सं­यो­गस्य सर्वो­त्प­त्ति­नि­मि­त्त­त्वम् अज्ञातं ज्ञापयितुम् अध्यायान्तरम् अवतारयन् , अध्याययोः उत्था­प्यो­त्था­प­क­त्व­रूपां सङ्गतिम् आह -
सर्वमिति ।

विधान्तरेण अध्यायारम्भं सूचयति -
अथवेति ।

तदेव वक्तुम् उक्तम् अनुवदति -
ईश्वरेति ।

प्रकृतिस्थत्वम् - पुरुषस्य प्रकृत्या सह ऐक्याध्यासः । तस्यैव गुणेषु - शब्दादिविषयेषु सङ्गः - अभिनिवेशः । षड्विधाम् आकाङ्क्षां निक्षिप्य, तदुत्तरत्वेन अध्यायारम्भे पूर्ववदेव पूर्वा­ध्या­य­स­म्ब­न्ध­सिद्धिः, इत्याह -
कस्मिन्निति ।

पूर्वोक्तेन अर्थेन अस्य अध्यायस्य समुच्चयार्थः चकारः । ‘परम् ‘ इत्यस्य भाविकालार्थत्वं व्यावर्तयितुं सङ्गतिम् आह -
परमिति ।

‘ भूयः’ शब्दस्य अधिकार्थत्वम् इह नास्ति ; इत्याह -
पुनरिति ।

पुनःशब्दार्थमेव विवृणोति -
पूर्वेष्विति ।

पूनरुक्तिः तर्हि ? इत्याशङ्क्य सूक्ष्मत्वेन दुर्बोधत्वात् पुनर्वचनम् अर्थवत् इत्याह -
तच्चेति ।

विशेष्यं प्रश्नद्वारा निर्दिशति -
किं तदिति ।

निर्धारणार्थां षष्ठीम् आदाय तस्य प्रकर्षं दर्शयति -
सर्वेषामिति ।

‘परम् ‘ ‘उत्तमम् ‘ इति पुनरुक्तिम् आशङ्क्य, विषयफलभेदात् मैवम् , इत्याह -
उत्तमेति ।

ज्ञानं ज्ञेयम् इत्यादौ ज्ञानशब्देन अमानित्वादीनाम् उक्तत्वात् , तन्मध्ये च ज्ञानस्य साध्यत्वेन उत्तमत्वात् न तस्य वक्तव्यता, इति आशङ्क्य आह -
ज्ञानानामिति ।
न अमानित्वादीनां, ‘ग्रहणम् ‘ इति शेषः ।

इतिशब्दात् ऊर्ध्वं पूर्ववदेव शेषो द्रष्टव्यः यथो­क्त­ज्ञा­ना­पे­क्षया कुतः तज्ज्ञानस्य प्रकर्षः ? तत्र आह -
तानि इति ।

स्तुतिफलम् आह -
श्रोतृबुद्धीति ।

ज्ञानं ज्ञात्वा - ज्ञानस्य ज्ञेयत्वोपगमात् अनवस्था, इत्याशङ्क्य आह -
प्राप्येति ।

मुनिशब्दस्य चतु­र्था­श्र­म­वि­ष­यत्वे तन्मात्रादेव ज्ञानायोगात् कुतः तेषां मुक्तिः ? इति आशङ्क्य आह -
मननेति ।

सिद्धेः ज्ञानत्वं पराम् इति विशेषणात् व्यावर्त्य, मुक्तित्वम् आह -
मोक्षाख्यामिति ।

देहाख्यस्य बन्धनस्य अध्यक्षत्वम् आह -
अस्मादिति
॥ १ ॥

ज्ञानफलस्य कर्म­फ­ल­वै­ल­क्ष­ण्यम् आह -
अस्याश्चेति ।

कथं ज्ञानाश्रयणम् ? तद्धे­तु­श्र­व­णा­दि­सा­म­ग्री­स­म्प­त्ति­द्वारा, इत्याह -
ज्ञानेति ।

साधर्म्ये गोगवययोरिव, विद्वदीश्वरयोः अपि भेदः स्यात् , इति आशङ्क्य, आह -
मत्स्वरूपतामिति ।

साधर्म्यस्य मुख्यत्वे भेदध्रौव्यात् गीता­शा­स्त्र­वि­रोधः, इत्याह -
न त्विति ।

ज्ञानस्तुतये तत्फलस्य विवक्षितत्वाच्च न अत्र सारूप्यम् इष्टम् , इत्याह -
फलेति ।
सारूप्ये धीफलं हित्वा ध्यानफलम् अप्रस्तुतं प्रसज्येत, इत्यर्थः ।

ईश्वरात्मतां गतानामेव अवान्तरसर्गादौ जन्माद्यभावेऽपि महासर्गादौ तद्भविष्यति, इत्याशङ्क्य, आह-
सर्गेऽपीति
॥ २ ॥

ज्ञानस्तुत्या तदभिमुखाय अवहितचेतसे विवक्षितम् अर्थम् आह -
क्षेत्रेति ।

स्वरूपत्वेन स्वभूतत्वं वारयति -
मदीयेति ।

ईश्वरीं चिच्छक्तिं व्यावर्तयति -
त्रिगु­णा­त्मि­केति ।
साङ्ख्यी­य­प्र­कृ­ति­रपि मदीया, इति व्यावर्तिता ।

योनिशब्देन सर्वाणि भवनयोग्यानि कार्याणि प्रति उपादानत्वम् अभिप्रेतम् , इत्याह -
सर्वभूतानाम् इति ।

प्रकृतेः महत्वं साधयति -
सर्वेति ।
सर्व­का­र्य­व्या­प्तिम् आदाय, योनावेव ब्रह्मशब्दः ।

लिङ्गवैषम्यात् महद्ब्रह्म इति अर्थान्तरं किञ्चित् , इत्याशङ्क्य आह -
योनिरिति ।

तस्मिन्नित्यादि व्याचष्टे -
तस्मिन्निति ।

ईदृशस्य क्षेत्र­क्षे­त्र­ज्ञ­सं­यो­गस्य भूतकारणत्वम् इति वक्तुम् उपक्रम्य, किमिदम् अन्यत् आदर्शितम् , इत्याशङ्क्य आह -
क्षेत्रेति ।

गर्भशब्देन उक्तसंयोगस्य फलं दर्शयति -
सम्भव इति ।

‘आदिकर्ता स भूतानाम् ‘ इति स्मृत्या हिर­ण्य­ग­र्भ­का­र्य­त्वा­व­ग­मात् भूतानां, कथं यथो­क्त­ग­र्भा­धा­न­नि­मि­त्त­त्वम् ? इत्याशङ्क्य आह -
हिरण्यगर्भेति
॥ ३ ॥

ननु, कथम् उक्त­का­र­णा­नु­रो­धेन हिर­ण्य­ग­र्भो­द्भ­वम् अभ्युपेत्य भूतानाम् उत्पत्तिः उच्यते ? देवा­दि­जा­ति­वि­शे­षेषु देहविशेषाणां कारणान्तरस्य सम्भवात् ; तत्र आह -
सर्वयोनिष्विति ।

तत्र तत्र हेत्व­न्त­र­प्र­ति­भासे, कुतोऽस्य हेतुत्वम् ? इत्याशङ्क्य, तद्रूपेण अस्यैव अवस्थानात् , इत्याह -
सर्वावस्थामिति
॥ ४ ॥

एवं क्षेत्र­क्षे­त्र­ज्ञ­सं­यो­गात् जगदुत्पत्तिं दर्शयता ब्रह्मैव अविद्यया संसरति इत्युक्तम् , इदानीम् अध्यायादौ उक्तम् आकाङ्क्षाद्वयं पूर्वम् अनूद्य अनन्तरश्लोकेन उत्तरम् आह -
के गुणा इति ।

सत्त्वादिषु कथं गुण­श­ब्द­प्र­वृत्तिः ? इत्याशङ्क्य, परतन्त्रत्वात् इत्याह -
गुणा इति ।

रूपादिष्विव गुणशब्दः सत्त्वादिषु द्रव्या­श्रि­तत्वं निमित्तीकृत्य किं न स्यात् ? इत्याशङ्क्य, प्रकृ­त्या­त्म­कानां तेषां सर्वाश्रयत्वात् नैवम् इत्याह -
न रूपादिवदिति ।

गुणानां प्रकृतेश्च पृथगुक्तेः अन्यत्वे, कुतः तेषां प्रकृ­त्या­त्म­त्वम् ? इत्याशङ्क्य आह -
न च गुणेति ।
अत्यन्तभेदे गवाश्ववत् तद्भावासम्भवात् , इत्यर्थः ।

भेदाभेदे च तद्भावासम्भावत् , विशेषात् कुतः तेषु गुणपरिभाषा ? इत्याशङ्क्य आह -
तस्मादिति ।

क्षेत्रज्ञं प्रति नित्य­पा­र­तन्त्र्ये हेतुम् आह -
अविद्येति ।

के गुणाः ? इत्यस्य उत्तरम् उक्तम् । कथं बध्नन्ति ? इत्यस्य उत्तरम् आह -
क्षेत्रज्ञम् इति ।

तदेव उपपादयति -
तम् आस्पदीकृत्येति ।

प्राकृतानां गुणानां प्रकृ­त्या­त्म­क­त्वम् आह -
ते चेति ।
सम्भवति अस्मादिति सम्भवः । प्रकृतिः सम्भवो येषां, ते तथा इति ।

साङ्ख्यीयां प्रकृतिं प्रधानाख्यां व्यावर्तयति -
भगवदिति ।

इवकारानुबन्धेन नितरां बध्नन्ति - स्वविकारवत्तया उपदर्शयन्ति इति क्रियापदं व्याख्याय, महाबाहुशब्दं व्याचष्टे -
महान्ताविति ।
देहवन्तम् - देहम् आत्मानं मन्यमानं देहस्वामिनम् इत्यर्थः ।

कूटस्थस्य कथं बध्यमानत्वम् ? इत्याशङ्क्य ‘कुर्या­न्मे­रा­व­णु­धियं’ इति न्यायेन मायामाहात्म्यम् इदम् , इत्याह -
अव्ययमिति ।

स्वतो धर्मतो वा व्ययराहित्यम् ? इत्यपेक्षायाम् आह -
अव्ययत्वं चेति ।

‘लिप्यते न स पापेन’(भ. गी. ५-१०) इत्यनेन विरुद्धम् इदं निबध्नन्ति इति वचनम् , इति शङ्कते -
नन्विति ।

इवकारानुबन्धेन क्रियापदं व्याचक्षाणैः अस्माभिः अस्य चोद्यस्य परिहृतत्वात् नैवम् , इत्याह -
परिहृतमिति
॥ ५ ॥

किंलक्षणो गुणः केन बध्नाति ? इति अपेक्षायाम् , आह -
तत्रेति ।

निर्धारणार्थतया सप्तमीं व्याचष्टे -
तत्र सत्त्वादीनामिति ।
पुनः तत्र इति अनुवादमात्रम् । निर्मलत्वम् - स्वच्छत्वम् , आव­र­ण­वा­र­ण­क्ष­म­त्वम् । तस्मात् प्रकाशकम् - चैत­न्या­भि­व्य­ञ्ज­कम् , निरुपद्रवमिति - निर्मलं सत् सुखस्य अभिव्यञ्जकम् , इत्यर्थः ।

केन द्वारेण तत् आत्मानं निबध्नाति ? इति पृच्छति -
कथमिति ।

सुखसङ्गेन बध्नाति, इति उत्तरम् । तदेव विवृणोति -
सुखी अहम् इत्यादिना ।
मुख्यसुखस्य अभि­व्य­ञ्ज­क­स­त्त्व­प­रि­णामः अत्र विषयसम्भूतं सुखम् उच्यते ।

संश्लेषापादनमेव विशदयति -
मृषैवेति ।

किमिति मृषैवेति विशेषणम् ? सङ्गस्य वस्तु­त्व­स­म्भा­वत् , इत्याशङ्क्य, आह -
सैषेति ।

ननु इच्छा सङ्गो अभिनिवेशश्च इति एकः अर्थः । तत्र इच्छादेः आत्मधर्मत्वात् किम् अविद्यया ? इत्याशङ्क्य, मनोधर्मत्वात् इच्छादेः न आत्मधर्मता, इत्याह -
न हीति ।

इच्छादेः अनात्मधर्मत्वे किं प्रमाणम् ? इत्याशङ्क्य, आह -
इच्छादि चेति ।

तस्य आत्म­ध­र्म­त्वा­स­म्भवे फलितम् आह -
अत इति ।
सञ्जयतीव ; सत्त्वमिति शेषः ।

इवकारप्रयोगे हेतुम् आह -
अविद्ययेति ।

तस्याः वस्तुतः न आत्मसम्बन्धः, तथापि सम्ब­न्ध्य­न्त­रा­भा­वात् , अस्वा­त­न्त्र्याच्च आत्मधर्मत्वम् आपाद्य, दृष्टत्वम् आचष्टे -
स्वकीयेति ।

वृत्ति­म­द­न्तः­क­र­णस्य विषयत्वात् आत्मनः साधकत्वेन तद्विषयत्वेऽपि तद­वि­वे­क­रू­पा­विद्या, इति तस्त्वरूपम् आह -
विषयेति ।

यथो­क्ता­वि­द्या­मा­हा­त्म्यम् इदं यत् अस्वरूपे अतद्धर्मे च सक्तिसम्पादनम् इत्याह -
अस्वेति ।

तदेव स्फुटयति -
सक्तमिवेति ।

प्रकारान्तरेण सत्त्वस्य निबन्धनत्वम् आह -
तथेति ।

ज्ञायते अनेन इति सत्त्वपरिणामो ज्ञानम् । तेन ज्ञानी अहम् इति विपरीताभिमानेन सत्त्वम् आत्मानं निबध्नाति, इत्याह -
ज्ञानमित्यादिना ।

विपक्षे दोषम् आह -
आत्मेति ।
स्वाभाविकत्वेन प्राप्तत्वात् , तत्र स्वतः संयोगात् , तद्द्वारा बन्धे च तन्नि­वृ­त्त्य­नु­प­पत्तेः न आत्मधर्मत्वम् इत्यर्थः ।

ज्ञानै­श्व­र्या­दा­वपि क्षेत्रधर्मे सङ्गस्य पूर्ववत् आविद्यकत्वं सूचयति -
सुख इवेति ।

पापा­दि­दो­ष­ही­न­स्यैव अत्र शास्त्रे अधिकारः, इति द्योतयति -
अनघेति
॥ ६ ॥

रजस्तर्हि किंलक्षणम् ? कथं वा पुरुषं निबध्नाति इति आशङ्क्य, आह -
रज इति ।

रज्यते - संसृज्यते अनेन पुरुषः दृश्यैः, इति रागः, असौ आत्मा अस्य, इति रागात्मकं रजो जानीहि, इत्याह -
रञ्जनादिति ।

समुद्भवति अस्मात् , इति समुद्भवः । तृष्णा च आसङ्गश्च तृष्णासङ्गौ, तयोः समुद्भवः, तम् इति विग्रहं गृहीत्वा, कार्यद्वारा रजोविवक्षुः, तृष्णासङ्गयोः अर्थभेदम् आह -
तृष्णेत्यादिना ।

रजसो लक्षणं उक्त्वा निब­न्धृ­त्व­प्र­का­रम् आह -
तद्रज इति ।

कर्मसङ्गं विभजते -
दृष्टेति ।
अकर्तारमेव पुरुषं करोमि इत्यभिमानेन प्रवर्तयति इत्यर्थः
॥ ७ ॥

तमस्तर्हि किंलक्षणम् ? कथं वा पुरुषं निबध्नाति ? तत्र आह -
तमस्त्विति ।

गुणानां प्रकृ­ति­स­म्भ­व­त्वा­वि­शे­षेऽपि तमसो अज्ञा­न­ज­त्व­वि­शे­षणं, तद्वि­प­री­त­स्व­भा­वा­ना­पत्तेः, इति मत्वा आह -
अज्ञानादिति ।

मुह्यति अनेन, इति मोहनम् ; विवे­क­प्र­ति­ब­न्ध­कम् इति, कार्यद्वारा तमो निर्दिशति -
मोहनमित्यादिना ।

लक्षणम् उक्त्वा तमसो बन्धनकरत्वं दर्शयति -
प्रमादेति ।
कार्या­न्ति­रा­स­क्त­तया चिकीर्षितस्य कर्तव्यस्य अकरणं - प्रमादः, निरीहतया उत्सा­ह­प्र­ति­ब­न्धस्तु - आलस्यम् , स्वापः - निद्रा । ताभिः आत्मानम् अविकारमेव तमोऽपि विकारयति, इत्यर्थः
॥ ८ ॥

उक्तानां मध्ये कस्मिन् मार्गे कस्य गुणस्य उत्कर्षः ? तत्र आह -
पुनरिति ।

सुखे साध्ये विषये समुत्कृष्यते सत्त्वम् , इत्याह -
सत्त्वमिति ।

‘सञ्जयति’ इत्यस्य अर्थम् आह -
संश्लेषयति इति ।

कर्मणि साध्ये रजः समुत्कृष्यते, इत्याह -
रज इति ।

प्रमादे प्राधान्यं तमसो दर्शयति -
ज्ञानमिति
॥ ९ ॥

इतरेतराविरोधेन वा सत्त्वादयो गुणाः युगपत् उत्कृष्यन्ते ? विरोधेन वा ? क्रमेण वा ? इति, सन्देहात् पृच्छति -
उक्तमिति ।

सत्त्वो­त्क­र्षा­र्थि­नाम् इतराभिभवार्थं क्रमपक्षम् आश्रित्य उत्तरम् आह -
उच्यत इति ।

सत्त्वा­भि­वृ­द्धि­मेव विवृणोति -
तदेति ।
रजस्तमसोः तिरोधानदशायाम् , इति यावत् ।

रजसो वृद्धिप्रकारं, तत्कार्यं च कथयति -
तथेति ।

तमसोऽपि विवृद्धिं, तत्कार्यं च निर्दिशति -
तम इति
॥ १० ॥

उत्त­र­श्लो­क­त्र­यस्य आकाङ्क्षां दर्शयति -
यदेति ।

सत्त्वो­द्भ­व­लि­ङ्ग­द­र्श­ना­र्थम् अनन्तरं श्लोकम् उत्थापयति -
उच्यत इति ।
सर्वद्वारेषु इत्यादिसप्तमी निमित्ते नेतव्या । उत्तशब्दो अपि­श­ब्द­प­र्या­योऽपि अतिशयार्थः
॥ ११ ॥

अतिशयेन उद्भूतस्य रजसो लिङ्गम् आह -
रजस इति ।

उपक्रमपर्यायस्य आरम्भस्य विषयं पृच्छति -
कस्येति ।

काम्यानि निषिद्धानि च लौकिकानि कर्माणि विषयत्वेन निर्दिशति -
कर्मणामिति ।
अनुपशमः, बाह्या­न्तः­क­र­णा­नाम् , इति शेषः । लोभा­द्यु­प­ल­म्भात् रजोवृद्धिः बोद्धव्या, इति भावः
॥ १२ ॥

उद्भूतस्य तमसो लिङ्गम् आह -
अप्रकाश इति ।

सर्वथैव ज्ञानकर्मणोः अभावो विशेषणाभ्याम् उक्तः -
तत्कार्यमिति ।
तच्छब्दो दर्शि­ता­वि­वे­कार्थः ।

प्रमादो व्याख्यातः । मोहो वेदितव्यस्य अन्यथा वेदनम् । तस्यैव मौढ्यान्तम्म् आह -
अविवेक इति ।
अवि­वे­का­ति­श­या­दिना प्रवृद्धं तमो ज्ञेयम् , इति भावः
॥ १३ ॥

सात्त्विकादीनां भावानां पारलौकिकं फलविभागम् उदाहरति -
मरणेति ।
सङ्गः - सक्तिः, रागः, तृष्णा, तद्बलात् अनुष्ठानद्वारा लभ्यमानम् ; इत्यर्थः । गौणम् - सत्त्वा­दि­गु­ण­प्र­यु­क्तम् , इति यावत् ।

तत्र सत्त्व­गु­ण­वृ­द्धि­कृ­त­फ­ल­वि­शे­षम् आह -
यदेति ।
मलरहितान् - रजस्तमसोः अन्यतरस्य उद्भवो मलम् , तेन रहितान् , आगमसिद्धान् ब्रह्मलोकादीन् इत्यर्थः
॥ १४ ॥

रजस्समुद्रेके मृतस्य फलविशेषम् दर्शयति -
रजसीति ।
जायते, शरीरं गृह्णाति, इत्यर्थः ।

यथा सत्त्वे रजसि च प्रवृद्धे मृतो ब्रह्मलोकादिषु मनुष्यलोके च, देवादिषु मनुष्येषु च जायते, तथैव इत्याह -
तद्वदिति
॥ १५ ॥

भावानां फलम् उक्त्वा, सात्त्विकादीनां कर्मणां फलम् आह -
अतीतेति ।
सुकृतस्य - शोभनस्य, कृतस्य पुण्यस्य इत्यर्थः । सात्त्विकस्य - अशुद्धिरहितस्य इति यावत् । सात्त्विकं - सत्त्वेन निर्वृत्तं निर्मलं - रज­स्त­म­स्स­मु­द्भ­वात् मलात् निष्क्रान्तम् ।

रजश्शब्दस्य राजसे कर्मणि कुतो वृत्तिः ? तत्र आह -
कर्मेति ।

दुःखमेव - दुःखबहुलम् , कथम् इत्थं व्याख्यायते ? तत्र आह -
कारणेति ।
पापमिश्रस्य पुण्यस्य रजोनिमित्तस्य कारणत्वात् तदनुरोधात् फलमिति रजोनिमित्तं यथोक्तं युक्तम् , इत्यर्थः ।

अज्ञानम् अविवेकप्रायं दुःखं तामसाधर्मफलम् , इत्याह -
तथेति
॥ १६ ॥

विहि­त­प्र­ति­षि­द्ध­ज्ञा­न­क­र्मणि सत्त्वादीनां लक्षणानि सङ्क्षिप्य दर्शयति -
किञ्चेति ।
ज्ञानं सर्वकरणद्वारकम् । अज्ञानं - विवेकाभावः
॥ १७ ॥

सात्त्वि­का­दि­ज्ञा­न­क­र्म­फ­लानि उक्त्वा, अनु­क्त­स­ङ्ग्र­हार्थं सामान्येन उपसंहरति -
किं चेति ।
वक्ष्य­मा­ण­फ­ल­द्वा­रापि सत्त्वा­दि­ज्ञा­नम् , इत्यर्थः । सत्त्वगुणस्य वृत्तं - शोभनं ज्ञानं कर्म वा, तत्र तिष्ठन्ति इति तथा । राजसाः - रजोगुणनिमित्ते ज्ञाने, कर्मणि वा निरताः
॥ १८ ॥

‘कस्मिन् गुणे ? कथम् ? ’इत्या­दि­प्र­श्नान् प्रत्याख्याय, गुणेभ्यो मोक्षणं कथम् ? इति प्रत्या­ख्या­नार्थं, वृत्ता­नु­वा­द­पू­र्वकं मिथ्या­ज्ञा­न­नि­व­र्तकं सम्यग्ज्ञानं प्रस्तौति -
पुरु­ष­स्ये­त्या­दिना ।
पुरुषस्य या गतिः, सा च इति शेषः । मोक्षः - गुणेभ्यो विश्लेषपूर्वको ब्रह्मभावः ।

सम्य­ग्ज्ञा­नो­क्ति­परं श्लोकं व्याख्यातुं प्रतीकम् आदत्ते -
नान्यमिति ।

सत्त्वा­दि­का­र्य­वि­ष­यस्य गुणशब्दस्य विवक्षितम् अर्थम् आह -
कार्येति ।
विद्यानन्तर्यम् अनुशब्दार्थः ।

अक्षरार्थम् उक्त्वा, पूर्वार्धस्य आर्थिकम् अर्थम् आह -
गुणा एवेेति ।
सर्वावस्थाः, तत्त­त्का­र्य­क­र­णा­का­र­प­रि­णताः, इति यावत् । सर्वकर्मणाम् - कायि­क­वा­चि­क­मा­न­सानां, विहि­त­प्र­ति­षि­द्धा­नाम् इत्यर्थः ।

परं - व्यतिरिक्तम् । व्यतिरेकमेव स्फोरयति -
गुणेति ।
निर्गु­ण­ब­ह्मा­त्मा­नम् , इत्यर्थः । मद्भावं - ब्रह्मात्मताम् , असौै प्राप्नोति । ब्रह्मभावो अस्य अभिव्यज्यते, इत्यर्थः
॥ १९ ॥

अनर्थव्रातरूपम् अपोह्य विद्वान् ब्रह्मत्वं प्राप्नोति इत्येतत् प्रश्नद्वारा विवृणोति -
कथमित्यादिना ।

यथोक्तान् इत्येतदेव व्याचष्ठे -
मायेति ।
माया एव उपाधिः, तद्भूतान् - तदात्मनः सत्त्वादीन् अनर्थरूपान् , इत्यर्थः ।

एभ्यः समुद्भवन्ति समुद्भवाः देहस्य समुद्भवाः, तान् इति व्युत्पत्तिं गृहीत्वा व्याचष्टे -
देहोत्पत्तीति ।

यो विद्वान् अविद्यामयान् गुणान् जीवन्नेव अतिक्रम्य स्थितः, तमेव विशिनष्टि -
जन्मेति ।

पुरस्तात् विस्तरेण उक्तस्य प्रसङ्गात् अत्र सङ्क्षिप्तस्य सम्यग्ज्ञानस्य फलम् उपसंहरति -
एवमिति
॥ २० ॥

सम्यग्धीफलं गुणा­ति­क्र­म­पू­र्व­कम् अमृतत्वम् उक्तं श्रुत्वा, मुक्तस्य लक्षणं वक्तव्यम् , इति प्रकृतं विवक्षित्वा, प्रश्नम् उत्थापयति -
जीवन्नेवेति ।

ये व्याख्याताः सत्त्वादयो गुणाः, तत्परिणामभूतान् अध्यासान् अतिक्रान्तः सन् , कैर्लिङ्गैः ज्ञातो भवति, इति तानि वक्तव्यानि सिद्ध्यर्थं पूर्वम् अनुष्ठेयानि, पश्चात् अयत्नलभ्यानि लिङ्गानि, कानि तानि ? इति पृच्छति -
कैरिति ।

यथे­ष्ट­चे­ष्टा­व्या­वृ­त्त्यर्थं प्रश्नान्तरं -
किमाचार इति ।

ज्ञानस्य गुणात्ययोपायस्य उक्तत्वात् उपा­य­प्र­का­र­जि­ज्ञा­सया प्रश्नान्तरं -
कथमिति
॥ २१ ॥

प्रश्नस्वरूपम् अनूद्य, तदुत्तरं दर्शयति -
गुणातीतस्येति ।
पृष्टो भगवान् इति सम्बन्धः ।

किं वृत्तस्य त्रिधा प्रयोगदर्शनात् प्रश्न­द्व­या­र्थम् इत्युपलक्षणं प्रश्न­त्र­या­र्थम् इति द्रष्टव्यम् । उत्तरम् अवतार्य, अन­न्त­र­श्लो­क­ता­त्प­र्यम् आह -
यत्तावदिति ।

तानि सम्यग्दर्शी न द्वेष्टि, इत्युक्तमेव स्पष्टयितुं निषेध्यम् असम्यग्दर्शिनो द्वेषं तेषु प्रकटयति -
ममेत्यादिना ।

सम्यग्दर्शिनः सम्प्रवृत्तेषु प्रकाशादिषु द्वेषाभावम् उपसंहरति -
तदेवमिति ।

न निवृत्तानि इत्यादि व्याचष्टे -
यथा चेति ।
तेषाम् अनात्मीयत्वं सम्यक् पश्यन् आत्मा­नु­कू­ल­प्र­ति­कू­ल­ता­रो­प­णेन न उद्विजते तेभ्यश्च न स्पृहयति, इत्यर्थः ।

स्वानुभवसिद्धं गुणातीतस्य लक्षणम् उक्तम् इत्याह -
एतन्नेति ।

पर­प्र­त्य­क्ष­त्वा­भावं प्रपञ्चयति -
न हीति ।
आश्रयो विषयः
॥ २२ ॥

कैः लिङ्गैः इत्यादि परिहृत्य, द्वितीयं प्रश्नं परिहरति -
अथेति ।

दृष्टान्तं व्याचष्टे -
यथेति ।
उपेक्षकस्य पक्षपाते तत्त्वायोगात् , इत्यर्थः ।

आत्मवित् आत्म­कौ­ट­स्थ्य­ज्ञा­नेन आसीनो निवृ­त्त­क­र्म­त्वा­भि­मानः अप्रयतमानो भवति इति दार्ष्टान्तिकम् आह -
तथेति ।

गुणा­ती­त­त्वो­पा­य­मार्गः ज्ञानमेव । शब्दादिभिः विषयैः अस्य कूट­स्थ­त्व­ज्ञा­नात् प्रच्यवनम् आशङ्क्य आह -
गुणैरिति ।

उपनतानां विषयाणां रागद्वेषद्वारा प्रवर्तकत्वम् इत्येतत् प्रपञ्चयति -
तदेतदिति ।
योऽवतिष्ठति, सः गुणातीतः - इति उत्तरत्र सम्बन्धः ।

अवपूर्वस्य तिष्ठतेः आत्मनेपदे प्रयोक्तव्ये, कथं परस्मैपदम् ? इत्याशङ्क्य आह -
छन्दोभङ्गेति ।
पाठान्तरे तु बाधि­ता­नु­वृ­त्ति­मा­त्रम् अनुष्ठानम् ।

कर­णा­का­र­प­रि­ण­तानां गुणानां विष­या­का­र­प­रि­ण­तेषु तेषु प्रवृत्तिः, न मम - इति पश्यन् अचलतया कूटस्थदृष्टिम् आत्मनो न जहाति इत्याह -
नेङ्गत इति
॥ २३ ॥

गुणातीतस्य लिङ्गान्तरम् आह -
किं चेति ।
तयोः समत्वं राग­द्वे­षा­नु­त्पा­द­क­तया । स्वकी­य­त्वा­भि­मा­ना­ना­स्प­दत्वं प्रसन्नत्वम् । स्वास्थ्यात् अप्रच्युतिः अविक्रियत्वम् ।

विद्वद्दृष्ट्या प्रियाप्रिययोः असम्भवेऽपि लोकदृष्टिम् आश्रित्य आह -
प्रियं चेति ।
प्रिया­प्रि­य­ग्र­ह­णेन गृहीतानां काञ्चनादीनां ब्राह्म­ण­प­रि­व्रा­ज­क­वत् पृथग्ग्रहणम् । निन्दा दोषोक्तिः । आत्मसंस्तुतिः - आत्मनो गुणकीर्तनम्
॥ २४ ॥

इतश्च गुणातीतः शक्यो ज्ञातुम् , इत्याह -
किं चेति ।

मानः - सत्कारः । तिरस्कारः - अपमानः । परदृष्ट्या यौ सखिशत्रू तयोः पक्षयोः निर्विशेषः - न कस्यचित् पक्षे तिष्ठति इत्याह -
तुल्य इति ।

विदुषो मित्रा­दि­बु­द्ध्य­भा­वात् तुल्यो मित्रारिपक्षयोः इति अयुक्तम् , इत्याशङ्क्य आह -
यद्यपीति ।

सर्वकर्मत्यागे देहधारणमपि निमित्ताभावात् न स्यात् , इत्याशङ्क्य आह -
देहेति ।

उक्तविशेषणो गुणातीतो ज्ञातव्यः, इत्याह -
गुणेति ।

यदुक्तम् उपेक्षकत्वादि, तत् विद्योदयात् पूर्वं यत्नसाध्यं विद्याधिकारिणा ज्ञानसाधनत्वेन अनुष्ठेयं, उत्पन्नायां तु विद्यायां जीवन्मुक्तस्य उक्तधर्मजातं स्थिरीभूतं स्वानु­भ­व­सि­द्ध­ल­क्ष­ण­त्वेन तिष्ठति, इति उक्ते धर्मजाते विभागं दर्शयति -
उदा­सी­न­व­दि­त्या­दिना
॥ २५ ॥

प्रश्नद्वयम् एवं परिहृत्य, तृतीयं प्रश्नं परिहरति -
अधुनेति ।

मच्छब्दस्य संसारिविषयत्वं व्यावर्तयति -
ईश्वरमिति ।
तत्रैव नारायणशब्दात् मूर्तिभेदो व्यावर्त्यते ।

तस्य ताटस्थ्यं व्यवच्छिनत्ति -
सर्वेति ।

मुख्या­मु­ख्या­धि­का­रि­भे­देने विकल्पः । भक्तियोगस्य यादृच्छिकत्वं व्यवच्छेत्तुम् ‘अव्यभिचारेण’ इत्युक्तम् । तद्व्याचष्टे -
नेति ।
भजनं - परमप्रेमा । स एव युज्यते अनेन इति योगः । सेवते - पराक्चित्ततां विना सदा अनुसन्दधाति, इत्यर्थः । सः भग­व­द­नु­ग्र­ह­कृ­त­स­म्य­ग्धी­स­म्पन्नो विद्वान् जीवन्नेव इत्यर्थः
॥ २६ ॥

विद्वान् ब्रह्मैव इत्यत्र हेतुं पृच्छति -
कुत इति ।

तत्र उत्तरम् आह -
उच्यत इति ।

ब्रह्मशब्दस्य असति बाधके मुख्या­र्थ­द­ग्र­णम् अभिप्रेत्य आह -
परमात्मन इति ।

तं प्रति प्रत्यगात्मनो यत् प्रतिष्ठात्वं तत् उपपादयति -
प्रतितिष्ठतीति ।

यत् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति, तत् किंविशेषणम् इत्यपेक्षायाम् उक्तम् -
अमृतस्येत्यादि ।

तत्र अमृतशब्देन अव्ययशब्दस्य पुनरुक्तिं परिहरति -
अविकारिण इति ।
नित्यत्वम् - अपक्षयराहित्यम् । तेन पूर्वाभ्याम् अपौनरुक्त्यम् ।

प्रसिद्धार्थस्य धर्मशब्दस्य ब्रह्मणि अनुपपत्तिम् आशङ्क्य, आह -
ज्ञानेति ।

अथ इन्द्रि­य­स­म्ब­न्धोत्थं सुखं व्यावर्तयितुम् ‘ऐकान्तिकस्य’ इत्युक्तम् । अक्षरार्थम् उक्त्वा, वाक्यार्थम् आह -
अमृतादीति ।
प्रतिष्ठा यस्मात् इति पूर्वेण सम्बन्धः । तस्मात् प्रत्यगात्मा परमात्मतया निश्चीयते सम्यग्ज्ञानेन, इति योजना ।

अस्य श्लोकस्य, पूर्वश्लोकेन एकवाक्याताम् आह -
तदेतदिति ।

विवक्षितं वाक्यार्थं प्रपञ्चयति -
ययेति ।

सा शक्तिः ब्रह्मैव, इति कथं सामानाधिकरण्यम् ? तत्र आह -
शक्तीति ।

व्याख्यान्तरम् आह -
अथवेति ।
विशेषणानि पूर्ववत् अपौनरुक्त्यानि नेतव्यानि । तदनेन अध्यायेन क्षेत्र­क्षे­त्र­ज्ञ­सं­यो­गस्य संसारकारणत्वं पञ्च­प्र­श्न­नि­रू­प­ण­द्वा­रेण च सम्यग्ज्ञानस्य सक­ल­सं­सा­र­नि­व­र्त­क­त्वम् , इत्येतत् उपपादयता मुमुक्षोः यत्नसाध्यं गुणैः अचाल्यत्वादि मुक्तस्य अयत्नसिद्धं लक्षणम् इति निर्धारितम्
॥ २७ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विरचिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने चतुर्दशोऽध्यायः
॥ १४ ॥