आनन्दगिरिटीका (गीताभाष्य)
चतुर्दशोऽध्यायः
क्षेत्रक्षेत्रज्ञसंयोगस्य सर्वोत्पत्तिनिमित्तत्वम् अज्ञातं ज्ञापयितुम् अध्यायान्तरम् अवतारयन् , अध्याययोः उत्थाप्योत्थापकत्वरूपां सङ्गतिम् आह -
सर्वमिति ।
विधान्तरेण अध्यायारम्भं सूचयति -
अथवेति ।
तदेव वक्तुम् उक्तम् अनुवदति -
ईश्वरेति ।
प्रकृतिस्थत्वम् - पुरुषस्य प्रकृत्या सह ऐक्याध्यासः । तस्यैव गुणेषु - शब्दादिविषयेषु सङ्गः - अभिनिवेशः । षड्विधाम् आकाङ्क्षां निक्षिप्य, तदुत्तरत्वेन अध्यायारम्भे पूर्ववदेव पूर्वाध्यायसम्बन्धसिद्धिः, इत्याह -
कस्मिन्निति ।
पूर्वोक्तेन अर्थेन अस्य अध्यायस्य समुच्चयार्थः चकारः । ‘परम् ‘ इत्यस्य भाविकालार्थत्वं व्यावर्तयितुं सङ्गतिम् आह -
परमिति ।
‘ भूयः’ शब्दस्य अधिकार्थत्वम् इह नास्ति ; इत्याह -
पुनरिति ।
पुनःशब्दार्थमेव विवृणोति -
पूर्वेष्विति ।
पूनरुक्तिः तर्हि ? इत्याशङ्क्य सूक्ष्मत्वेन दुर्बोधत्वात् पुनर्वचनम् अर्थवत् इत्याह -
तच्चेति ।
विशेष्यं प्रश्नद्वारा निर्दिशति -
किं तदिति ।
निर्धारणार्थां षष्ठीम् आदाय तस्य प्रकर्षं दर्शयति -
सर्वेषामिति ।
‘परम् ‘ ‘उत्तमम् ‘ इति पुनरुक्तिम् आशङ्क्य, विषयफलभेदात् मैवम् , इत्याह -
उत्तमेति ।
ज्ञानं ज्ञेयम् इत्यादौ ज्ञानशब्देन अमानित्वादीनाम् उक्तत्वात् , तन्मध्ये च ज्ञानस्य साध्यत्वेन उत्तमत्वात् न तस्य वक्तव्यता, इति आशङ्क्य आह -
ज्ञानानामिति ।
न अमानित्वादीनां, ‘ग्रहणम् ‘ इति शेषः ।
इतिशब्दात् ऊर्ध्वं पूर्ववदेव शेषो द्रष्टव्यः यथोक्तज्ञानापेक्षया कुतः तज्ज्ञानस्य प्रकर्षः ? तत्र आह -
तानि इति ।
स्तुतिफलम् आह -
श्रोतृबुद्धीति ।
ज्ञानं ज्ञात्वा - ज्ञानस्य ज्ञेयत्वोपगमात् अनवस्था, इत्याशङ्क्य आह -
प्राप्येति ।
मुनिशब्दस्य चतुर्थाश्रमविषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतः तेषां मुक्तिः ? इति आशङ्क्य आह -
मननेति ।
सिद्धेः ज्ञानत्वं पराम् इति विशेषणात् व्यावर्त्य, मुक्तित्वम् आह -
मोक्षाख्यामिति ।
देहाख्यस्य बन्धनस्य अध्यक्षत्वम् आह -
अस्मादिति
॥ १ ॥
ज्ञानफलस्य कर्मफलवैलक्षण्यम् आह -
अस्याश्चेति ।
कथं ज्ञानाश्रयणम् ? तद्धेतुश्रवणादिसामग्रीसम्पत्तिद्वारा, इत्याह -
ज्ञानेति ।
साधर्म्ये गोगवययोरिव, विद्वदीश्वरयोः अपि भेदः स्यात् , इति आशङ्क्य, आह -
मत्स्वरूपतामिति ।
साधर्म्यस्य मुख्यत्वे भेदध्रौव्यात् गीताशास्त्रविरोधः, इत्याह -
न त्विति ।
ज्ञानस्तुतये तत्फलस्य विवक्षितत्वाच्च न अत्र सारूप्यम् इष्टम् , इत्याह -
फलेति ।
सारूप्ये धीफलं हित्वा ध्यानफलम् अप्रस्तुतं प्रसज्येत, इत्यर्थः ।
ईश्वरात्मतां गतानामेव अवान्तरसर्गादौ जन्माद्यभावेऽपि महासर्गादौ तद्भविष्यति, इत्याशङ्क्य, आह-
सर्गेऽपीति
॥ २ ॥
ज्ञानस्तुत्या तदभिमुखाय अवहितचेतसे विवक्षितम् अर्थम् आह -
क्षेत्रेति ।
स्वरूपत्वेन स्वभूतत्वं वारयति -
मदीयेति ।
ईश्वरीं चिच्छक्तिं व्यावर्तयति -
त्रिगुणात्मिकेति ।
साङ्ख्यीयप्रकृतिरपि मदीया, इति व्यावर्तिता ।
योनिशब्देन सर्वाणि भवनयोग्यानि कार्याणि प्रति उपादानत्वम् अभिप्रेतम् , इत्याह -
सर्वभूतानाम् इति ।
प्रकृतेः महत्वं साधयति -
सर्वेति ।
सर्वकार्यव्याप्तिम् आदाय, योनावेव ब्रह्मशब्दः ।
लिङ्गवैषम्यात् महद्ब्रह्म इति अर्थान्तरं किञ्चित् , इत्याशङ्क्य आह -
योनिरिति ।
तस्मिन्नित्यादि व्याचष्टे -
तस्मिन्निति ।
ईदृशस्य क्षेत्रक्षेत्रज्ञसंयोगस्य भूतकारणत्वम् इति वक्तुम् उपक्रम्य, किमिदम् अन्यत् आदर्शितम् , इत्याशङ्क्य आह -
क्षेत्रेति ।
गर्भशब्देन उक्तसंयोगस्य फलं दर्शयति -
सम्भव इति ।
‘आदिकर्ता स भूतानाम् ‘ इति स्मृत्या हिरण्यगर्भकार्यत्वावगमात् भूतानां, कथं यथोक्तगर्भाधाननिमित्तत्वम् ? इत्याशङ्क्य आह -
हिरण्यगर्भेति
॥ ३ ॥
ननु, कथम् उक्तकारणानुरोधेन हिरण्यगर्भोद्भवम् अभ्युपेत्य भूतानाम् उत्पत्तिः उच्यते ? देवादिजातिविशेषेषु देहविशेषाणां कारणान्तरस्य सम्भवात् ; तत्र आह -
सर्वयोनिष्विति ।
तत्र तत्र हेत्वन्तरप्रतिभासे, कुतोऽस्य हेतुत्वम् ? इत्याशङ्क्य, तद्रूपेण अस्यैव अवस्थानात् , इत्याह -
सर्वावस्थामिति
॥ ४ ॥
एवं क्षेत्रक्षेत्रज्ञसंयोगात् जगदुत्पत्तिं दर्शयता ब्रह्मैव अविद्यया संसरति इत्युक्तम् , इदानीम् अध्यायादौ उक्तम् आकाङ्क्षाद्वयं पूर्वम् अनूद्य अनन्तरश्लोकेन उत्तरम् आह -
के गुणा इति ।
सत्त्वादिषु कथं गुणशब्दप्रवृत्तिः ? इत्याशङ्क्य, परतन्त्रत्वात् इत्याह -
गुणा इति ।
रूपादिष्विव गुणशब्दः सत्त्वादिषु द्रव्याश्रितत्वं निमित्तीकृत्य किं न स्यात् ? इत्याशङ्क्य, प्रकृत्यात्मकानां तेषां सर्वाश्रयत्वात् नैवम् इत्याह -
न रूपादिवदिति ।
गुणानां प्रकृतेश्च पृथगुक्तेः अन्यत्वे, कुतः तेषां प्रकृत्यात्मत्वम् ? इत्याशङ्क्य आह -
न च गुणेति ।
अत्यन्तभेदे गवाश्ववत् तद्भावासम्भवात् , इत्यर्थः ।
भेदाभेदे च तद्भावासम्भावत् , विशेषात् कुतः तेषु गुणपरिभाषा ? इत्याशङ्क्य आह -
तस्मादिति ।
क्षेत्रज्ञं प्रति नित्यपारतन्त्र्ये हेतुम् आह -
अविद्येति ।
के गुणाः ? इत्यस्य उत्तरम् उक्तम् । कथं बध्नन्ति ? इत्यस्य उत्तरम् आह -
क्षेत्रज्ञम् इति ।
तदेव उपपादयति -
तम् आस्पदीकृत्येति ।
प्राकृतानां गुणानां प्रकृत्यात्मकत्वम् आह -
ते चेति ।
सम्भवति अस्मादिति सम्भवः । प्रकृतिः सम्भवो येषां, ते तथा इति ।
साङ्ख्यीयां प्रकृतिं प्रधानाख्यां व्यावर्तयति -
भगवदिति ।
इवकारानुबन्धेन नितरां बध्नन्ति - स्वविकारवत्तया उपदर्शयन्ति इति क्रियापदं व्याख्याय, महाबाहुशब्दं व्याचष्टे -
महान्ताविति ।
देहवन्तम् - देहम् आत्मानं मन्यमानं देहस्वामिनम् इत्यर्थः ।
कूटस्थस्य कथं बध्यमानत्वम् ? इत्याशङ्क्य ‘कुर्यान्मेरावणुधियं’ इति न्यायेन मायामाहात्म्यम् इदम् , इत्याह -
अव्ययमिति ।
स्वतो धर्मतो वा व्ययराहित्यम् ? इत्यपेक्षायाम् आह -
अव्ययत्वं चेति ।
‘लिप्यते न स पापेन’(भ. गी. ५-१०) इत्यनेन विरुद्धम् इदं निबध्नन्ति इति वचनम् , इति शङ्कते -
नन्विति ।
इवकारानुबन्धेन क्रियापदं व्याचक्षाणैः अस्माभिः अस्य चोद्यस्य परिहृतत्वात् नैवम् , इत्याह -
परिहृतमिति
॥ ५ ॥
किंलक्षणो गुणः केन बध्नाति ? इति अपेक्षायाम् , आह -
तत्रेति ।
निर्धारणार्थतया सप्तमीं व्याचष्टे -
तत्र सत्त्वादीनामिति ।
पुनः तत्र इति अनुवादमात्रम् । निर्मलत्वम् - स्वच्छत्वम् , आवरणवारणक्षमत्वम् । तस्मात् प्रकाशकम् - चैतन्याभिव्यञ्जकम् , निरुपद्रवमिति - निर्मलं सत् सुखस्य अभिव्यञ्जकम् , इत्यर्थः ।
केन द्वारेण तत् आत्मानं निबध्नाति ? इति पृच्छति -
कथमिति ।
सुखसङ्गेन बध्नाति, इति उत्तरम् । तदेव विवृणोति -
सुखी अहम् इत्यादिना ।
मुख्यसुखस्य अभिव्यञ्जकसत्त्वपरिणामः अत्र विषयसम्भूतं सुखम् उच्यते ।
संश्लेषापादनमेव विशदयति -
मृषैवेति ।
किमिति मृषैवेति विशेषणम् ? सङ्गस्य वस्तुत्वसम्भावत् , इत्याशङ्क्य, आह -
सैषेति ।
ननु इच्छा सङ्गो अभिनिवेशश्च इति एकः अर्थः । तत्र इच्छादेः आत्मधर्मत्वात् किम् अविद्यया ? इत्याशङ्क्य, मनोधर्मत्वात् इच्छादेः न आत्मधर्मता, इत्याह -
न हीति ।
इच्छादेः अनात्मधर्मत्वे किं प्रमाणम् ? इत्याशङ्क्य, आह -
इच्छादि चेति ।
तस्य आत्मधर्मत्वासम्भवे फलितम् आह -
अत इति ।
सञ्जयतीव ; सत्त्वमिति शेषः ।
इवकारप्रयोगे हेतुम् आह -
अविद्ययेति ।
तस्याः वस्तुतः न आत्मसम्बन्धः, तथापि सम्बन्ध्यन्तराभावात् , अस्वातन्त्र्याच्च आत्मधर्मत्वम् आपाद्य, दृष्टत्वम् आचष्टे -
स्वकीयेति ।
वृत्तिमदन्तःकरणस्य विषयत्वात् आत्मनः साधकत्वेन तद्विषयत्वेऽपि तदविवेकरूपाविद्या, इति तस्त्वरूपम् आह -
विषयेति ।
यथोक्ताविद्यामाहात्म्यम् इदं यत् अस्वरूपे अतद्धर्मे च सक्तिसम्पादनम् इत्याह -
अस्वेति ।
तदेव स्फुटयति -
सक्तमिवेति ।
प्रकारान्तरेण सत्त्वस्य निबन्धनत्वम् आह -
तथेति ।
ज्ञायते अनेन इति सत्त्वपरिणामो ज्ञानम् । तेन ज्ञानी अहम् इति विपरीताभिमानेन सत्त्वम् आत्मानं निबध्नाति, इत्याह -
ज्ञानमित्यादिना ।
विपक्षे दोषम् आह -
आत्मेति ।
स्वाभाविकत्वेन प्राप्तत्वात् , तत्र स्वतः संयोगात् , तद्द्वारा बन्धे च तन्निवृत्त्यनुपपत्तेः न आत्मधर्मत्वम् इत्यर्थः ।
ज्ञानैश्वर्यादावपि क्षेत्रधर्मे सङ्गस्य पूर्ववत् आविद्यकत्वं सूचयति -
सुख इवेति ।
पापादिदोषहीनस्यैव अत्र शास्त्रे अधिकारः, इति द्योतयति -
अनघेति
॥ ६ ॥
रजस्तर्हि किंलक्षणम् ? कथं वा पुरुषं निबध्नाति इति आशङ्क्य, आह -
रज इति ।
रज्यते - संसृज्यते अनेन पुरुषः दृश्यैः, इति रागः, असौ आत्मा अस्य, इति रागात्मकं रजो जानीहि, इत्याह -
रञ्जनादिति ।
समुद्भवति अस्मात् , इति समुद्भवः । तृष्णा च आसङ्गश्च तृष्णासङ्गौ, तयोः समुद्भवः, तम् इति विग्रहं गृहीत्वा, कार्यद्वारा रजोविवक्षुः, तृष्णासङ्गयोः अर्थभेदम् आह -
तृष्णेत्यादिना ।
रजसो लक्षणं उक्त्वा निबन्धृत्वप्रकारम् आह -
तद्रज इति ।
कर्मसङ्गं विभजते -
दृष्टेति ।
अकर्तारमेव पुरुषं करोमि इत्यभिमानेन प्रवर्तयति इत्यर्थः
॥ ७ ॥
तमस्तर्हि किंलक्षणम् ? कथं वा पुरुषं निबध्नाति ? तत्र आह -
तमस्त्विति ।
गुणानां प्रकृतिसम्भवत्वाविशेषेऽपि तमसो अज्ञानजत्वविशेषणं, तद्विपरीतस्वभावानापत्तेः, इति मत्वा आह -
अज्ञानादिति ।
मुह्यति अनेन, इति मोहनम् ; विवेकप्रतिबन्धकम् इति, कार्यद्वारा तमो निर्दिशति -
मोहनमित्यादिना ।
लक्षणम् उक्त्वा तमसो बन्धनकरत्वं दर्शयति -
प्रमादेति ।
कार्यान्तिरासक्ततया चिकीर्षितस्य कर्तव्यस्य अकरणं - प्रमादः, निरीहतया उत्साहप्रतिबन्धस्तु - आलस्यम् , स्वापः - निद्रा । ताभिः आत्मानम् अविकारमेव तमोऽपि विकारयति, इत्यर्थः
॥ ८ ॥
उक्तानां मध्ये कस्मिन् मार्गे कस्य गुणस्य उत्कर्षः ? तत्र आह -
पुनरिति ।
सुखे साध्ये विषये समुत्कृष्यते सत्त्वम् , इत्याह -
सत्त्वमिति ।
‘सञ्जयति’ इत्यस्य अर्थम् आह -
संश्लेषयति इति ।
कर्मणि साध्ये रजः समुत्कृष्यते, इत्याह -
रज इति ।
प्रमादे प्राधान्यं तमसो दर्शयति -
ज्ञानमिति
॥ ९ ॥
इतरेतराविरोधेन वा सत्त्वादयो गुणाः युगपत् उत्कृष्यन्ते ? विरोधेन वा ? क्रमेण वा ? इति, सन्देहात् पृच्छति -
उक्तमिति ।
सत्त्वोत्कर्षार्थिनाम् इतराभिभवार्थं क्रमपक्षम् आश्रित्य उत्तरम् आह -
उच्यत इति ।
सत्त्वाभिवृद्धिमेव विवृणोति -
तदेति ।
रजस्तमसोः तिरोधानदशायाम् , इति यावत् ।
रजसो वृद्धिप्रकारं, तत्कार्यं च कथयति -
तथेति ।
तमसोऽपि विवृद्धिं, तत्कार्यं च निर्दिशति -
तम इति
॥ १० ॥
उत्तरश्लोकत्रयस्य आकाङ्क्षां दर्शयति -
यदेति ।
सत्त्वोद्भवलिङ्गदर्शनार्थम् अनन्तरं श्लोकम् उत्थापयति -
उच्यत इति ।
सर्वद्वारेषु इत्यादिसप्तमी निमित्ते नेतव्या । उत्तशब्दो अपिशब्दपर्यायोऽपि अतिशयार्थः
॥ ११ ॥
अतिशयेन उद्भूतस्य रजसो लिङ्गम् आह -
रजस इति ।
उपक्रमपर्यायस्य आरम्भस्य विषयं पृच्छति -
कस्येति ।
काम्यानि निषिद्धानि च लौकिकानि कर्माणि विषयत्वेन निर्दिशति -
कर्मणामिति ।
अनुपशमः, बाह्यान्तःकरणानाम् , इति शेषः । लोभाद्युपलम्भात् रजोवृद्धिः बोद्धव्या, इति भावः
॥ १२ ॥
उद्भूतस्य तमसो लिङ्गम् आह -
अप्रकाश इति ।
सर्वथैव ज्ञानकर्मणोः अभावो विशेषणाभ्याम् उक्तः -
तत्कार्यमिति ।
तच्छब्दो दर्शिताविवेकार्थः ।
प्रमादो व्याख्यातः । मोहो वेदितव्यस्य अन्यथा वेदनम् । तस्यैव मौढ्यान्तम्म् आह -
अविवेक इति ।
अविवेकातिशयादिना प्रवृद्धं तमो ज्ञेयम् , इति भावः
॥ १३ ॥
सात्त्विकादीनां भावानां पारलौकिकं फलविभागम् उदाहरति -
मरणेति ।
सङ्गः - सक्तिः, रागः, तृष्णा, तद्बलात् अनुष्ठानद्वारा लभ्यमानम् ; इत्यर्थः । गौणम् - सत्त्वादिगुणप्रयुक्तम् , इति यावत् ।
तत्र सत्त्वगुणवृद्धिकृतफलविशेषम् आह -
यदेति ।
मलरहितान् - रजस्तमसोः अन्यतरस्य उद्भवो मलम् , तेन रहितान् , आगमसिद्धान् ब्रह्मलोकादीन् इत्यर्थः
॥ १४ ॥
रजस्समुद्रेके मृतस्य फलविशेषम् दर्शयति -
रजसीति ।
जायते, शरीरं गृह्णाति, इत्यर्थः ।
यथा सत्त्वे रजसि च प्रवृद्धे मृतो ब्रह्मलोकादिषु मनुष्यलोके च, देवादिषु मनुष्येषु च जायते, तथैव इत्याह -
तद्वदिति
॥ १५ ॥
भावानां फलम् उक्त्वा, सात्त्विकादीनां कर्मणां फलम् आह -
अतीतेति ।
सुकृतस्य - शोभनस्य, कृतस्य पुण्यस्य इत्यर्थः । सात्त्विकस्य - अशुद्धिरहितस्य इति यावत् । सात्त्विकं - सत्त्वेन निर्वृत्तं निर्मलं - रजस्तमस्समुद्भवात् मलात् निष्क्रान्तम् ।
रजश्शब्दस्य राजसे कर्मणि कुतो वृत्तिः ? तत्र आह -
कर्मेति ।
दुःखमेव - दुःखबहुलम् , कथम् इत्थं व्याख्यायते ? तत्र आह -
कारणेति ।
पापमिश्रस्य पुण्यस्य रजोनिमित्तस्य कारणत्वात् तदनुरोधात् फलमिति रजोनिमित्तं यथोक्तं युक्तम् , इत्यर्थः ।
अज्ञानम् अविवेकप्रायं दुःखं तामसाधर्मफलम् , इत्याह -
तथेति
॥ १६ ॥
विहितप्रतिषिद्धज्ञानकर्मणि सत्त्वादीनां लक्षणानि सङ्क्षिप्य दर्शयति -
किञ्चेति ।
ज्ञानं सर्वकरणद्वारकम् । अज्ञानं - विवेकाभावः
॥ १७ ॥
सात्त्विकादिज्ञानकर्मफलानि उक्त्वा, अनुक्तसङ्ग्रहार्थं सामान्येन उपसंहरति -
किं चेति ।
वक्ष्यमाणफलद्वारापि सत्त्वादिज्ञानम् , इत्यर्थः । सत्त्वगुणस्य वृत्तं - शोभनं ज्ञानं कर्म वा, तत्र तिष्ठन्ति इति तथा । राजसाः - रजोगुणनिमित्ते ज्ञाने, कर्मणि वा निरताः
॥ १८ ॥
‘कस्मिन् गुणे ? कथम् ? ’इत्यादिप्रश्नान् प्रत्याख्याय, गुणेभ्यो मोक्षणं कथम् ? इति प्रत्याख्यानार्थं, वृत्तानुवादपूर्वकं मिथ्याज्ञाननिवर्तकं सम्यग्ज्ञानं प्रस्तौति -
पुरुषस्येत्यादिना ।
पुरुषस्य या गतिः, सा च इति शेषः । मोक्षः - गुणेभ्यो विश्लेषपूर्वको ब्रह्मभावः ।
सम्यग्ज्ञानोक्तिपरं श्लोकं व्याख्यातुं प्रतीकम् आदत्ते -
नान्यमिति ।
सत्त्वादिकार्यविषयस्य गुणशब्दस्य विवक्षितम् अर्थम् आह -
कार्येति ।
विद्यानन्तर्यम् अनुशब्दार्थः ।
अक्षरार्थम् उक्त्वा, पूर्वार्धस्य आर्थिकम् अर्थम् आह -
गुणा एवेेति ।
सर्वावस्थाः, तत्तत्कार्यकरणाकारपरिणताः, इति यावत् । सर्वकर्मणाम् - कायिकवाचिकमानसानां, विहितप्रतिषिद्धानाम् इत्यर्थः ।
परं - व्यतिरिक्तम् । व्यतिरेकमेव स्फोरयति -
गुणेति ।
निर्गुणबह्मात्मानम् , इत्यर्थः । मद्भावं - ब्रह्मात्मताम् , असौै प्राप्नोति । ब्रह्मभावो अस्य अभिव्यज्यते, इत्यर्थः
॥ १९ ॥
अनर्थव्रातरूपम् अपोह्य विद्वान् ब्रह्मत्वं प्राप्नोति इत्येतत् प्रश्नद्वारा विवृणोति -
कथमित्यादिना ।
यथोक्तान् इत्येतदेव व्याचष्ठे -
मायेति ।
माया एव उपाधिः, तद्भूतान् - तदात्मनः सत्त्वादीन् अनर्थरूपान् , इत्यर्थः ।
एभ्यः समुद्भवन्ति समुद्भवाः देहस्य समुद्भवाः, तान् इति व्युत्पत्तिं गृहीत्वा व्याचष्टे -
देहोत्पत्तीति ।
यो विद्वान् अविद्यामयान् गुणान् जीवन्नेव अतिक्रम्य स्थितः, तमेव विशिनष्टि -
जन्मेति ।
पुरस्तात् विस्तरेण उक्तस्य प्रसङ्गात् अत्र सङ्क्षिप्तस्य सम्यग्ज्ञानस्य फलम् उपसंहरति -
एवमिति
॥ २० ॥
सम्यग्धीफलं गुणातिक्रमपूर्वकम् अमृतत्वम् उक्तं श्रुत्वा, मुक्तस्य लक्षणं वक्तव्यम् , इति प्रकृतं विवक्षित्वा, प्रश्नम् उत्थापयति -
जीवन्नेवेति ।
ये व्याख्याताः सत्त्वादयो गुणाः, तत्परिणामभूतान् अध्यासान् अतिक्रान्तः सन् , कैर्लिङ्गैः ज्ञातो भवति, इति तानि वक्तव्यानि सिद्ध्यर्थं पूर्वम् अनुष्ठेयानि, पश्चात् अयत्नलभ्यानि लिङ्गानि, कानि तानि ? इति पृच्छति -
कैरिति ।
यथेष्टचेष्टाव्यावृत्त्यर्थं प्रश्नान्तरं -
किमाचार इति ।
ज्ञानस्य गुणात्ययोपायस्य उक्तत्वात् उपायप्रकारजिज्ञासया प्रश्नान्तरं -
कथमिति
॥ २१ ॥
प्रश्नस्वरूपम् अनूद्य, तदुत्तरं दर्शयति -
गुणातीतस्येति ।
पृष्टो भगवान् इति सम्बन्धः ।
किं वृत्तस्य त्रिधा प्रयोगदर्शनात् प्रश्नद्वयार्थम् इत्युपलक्षणं प्रश्नत्रयार्थम् इति द्रष्टव्यम् । उत्तरम् अवतार्य, अनन्तरश्लोकतात्पर्यम् आह -
यत्तावदिति ।
तानि सम्यग्दर्शी न द्वेष्टि, इत्युक्तमेव स्पष्टयितुं निषेध्यम् असम्यग्दर्शिनो द्वेषं तेषु प्रकटयति -
ममेत्यादिना ।
सम्यग्दर्शिनः सम्प्रवृत्तेषु प्रकाशादिषु द्वेषाभावम् उपसंहरति -
तदेवमिति ।
न निवृत्तानि इत्यादि व्याचष्टे -
यथा चेति ।
तेषाम् अनात्मीयत्वं सम्यक् पश्यन् आत्मानुकूलप्रतिकूलतारोपणेन न उद्विजते तेभ्यश्च न स्पृहयति, इत्यर्थः ।
स्वानुभवसिद्धं गुणातीतस्य लक्षणम् उक्तम् इत्याह -
एतन्नेति ।
परप्रत्यक्षत्वाभावं प्रपञ्चयति -
न हीति ।
आश्रयो विषयः
॥ २२ ॥
कैः लिङ्गैः इत्यादि परिहृत्य, द्वितीयं प्रश्नं परिहरति -
अथेति ।
दृष्टान्तं व्याचष्टे -
यथेति ।
उपेक्षकस्य पक्षपाते तत्त्वायोगात् , इत्यर्थः ।
आत्मवित् आत्मकौटस्थ्यज्ञानेन आसीनो निवृत्तकर्मत्वाभिमानः अप्रयतमानो भवति इति दार्ष्टान्तिकम् आह -
तथेति ।
गुणातीतत्वोपायमार्गः ज्ञानमेव । शब्दादिभिः विषयैः अस्य कूटस्थत्वज्ञानात् प्रच्यवनम् आशङ्क्य आह -
गुणैरिति ।
उपनतानां विषयाणां रागद्वेषद्वारा प्रवर्तकत्वम् इत्येतत् प्रपञ्चयति -
तदेतदिति ।
योऽवतिष्ठति, सः गुणातीतः - इति उत्तरत्र सम्बन्धः ।
अवपूर्वस्य तिष्ठतेः आत्मनेपदे प्रयोक्तव्ये, कथं परस्मैपदम् ? इत्याशङ्क्य आह -
छन्दोभङ्गेति ।
पाठान्तरे तु बाधितानुवृत्तिमात्रम् अनुष्ठानम् ।
करणाकारपरिणतानां गुणानां विषयाकारपरिणतेषु तेषु प्रवृत्तिः, न मम - इति पश्यन् अचलतया कूटस्थदृष्टिम् आत्मनो न जहाति इत्याह -
नेङ्गत इति
॥ २३ ॥
गुणातीतस्य लिङ्गान्तरम् आह -
किं चेति ।
तयोः समत्वं रागद्वेषानुत्पादकतया । स्वकीयत्वाभिमानानास्पदत्वं प्रसन्नत्वम् । स्वास्थ्यात् अप्रच्युतिः अविक्रियत्वम् ।
विद्वद्दृष्ट्या प्रियाप्रिययोः असम्भवेऽपि लोकदृष्टिम् आश्रित्य आह -
प्रियं चेति ।
प्रियाप्रियग्रहणेन गृहीतानां काञ्चनादीनां ब्राह्मणपरिव्राजकवत् पृथग्ग्रहणम् । निन्दा दोषोक्तिः । आत्मसंस्तुतिः - आत्मनो गुणकीर्तनम्
॥ २४ ॥
इतश्च गुणातीतः शक्यो ज्ञातुम् , इत्याह -
किं चेति ।
मानः - सत्कारः । तिरस्कारः - अपमानः । परदृष्ट्या यौ सखिशत्रू तयोः पक्षयोः निर्विशेषः - न कस्यचित् पक्षे तिष्ठति इत्याह -
तुल्य इति ।
विदुषो मित्रादिबुद्ध्यभावात् तुल्यो मित्रारिपक्षयोः इति अयुक्तम् , इत्याशङ्क्य आह -
यद्यपीति ।
सर्वकर्मत्यागे देहधारणमपि निमित्ताभावात् न स्यात् , इत्याशङ्क्य आह -
देहेति ।
उक्तविशेषणो गुणातीतो ज्ञातव्यः, इत्याह -
गुणेति ।
यदुक्तम् उपेक्षकत्वादि, तत् विद्योदयात् पूर्वं यत्नसाध्यं विद्याधिकारिणा ज्ञानसाधनत्वेन अनुष्ठेयं, उत्पन्नायां तु विद्यायां जीवन्मुक्तस्य उक्तधर्मजातं स्थिरीभूतं स्वानुभवसिद्धलक्षणत्वेन तिष्ठति, इति उक्ते धर्मजाते विभागं दर्शयति -
उदासीनवदित्यादिना
॥ २५ ॥
प्रश्नद्वयम् एवं परिहृत्य, तृतीयं प्रश्नं परिहरति -
अधुनेति ।
मच्छब्दस्य संसारिविषयत्वं व्यावर्तयति -
ईश्वरमिति ।
तत्रैव नारायणशब्दात् मूर्तिभेदो व्यावर्त्यते ।
तस्य ताटस्थ्यं व्यवच्छिनत्ति -
सर्वेति ।
मुख्यामुख्याधिकारिभेदेने विकल्पः । भक्तियोगस्य यादृच्छिकत्वं व्यवच्छेत्तुम् ‘अव्यभिचारेण’ इत्युक्तम् । तद्व्याचष्टे -
नेति ।
भजनं - परमप्रेमा । स एव युज्यते अनेन इति योगः । सेवते - पराक्चित्ततां विना सदा अनुसन्दधाति, इत्यर्थः । सः भगवदनुग्रहकृतसम्यग्धीसम्पन्नो विद्वान् जीवन्नेव इत्यर्थः
॥ २६ ॥
विद्वान् ब्रह्मैव इत्यत्र हेतुं पृच्छति -
कुत इति ।
तत्र उत्तरम् आह -
उच्यत इति ।
ब्रह्मशब्दस्य असति बाधके मुख्यार्थदग्रणम् अभिप्रेत्य आह -
परमात्मन इति ।
तं प्रति प्रत्यगात्मनो यत् प्रतिष्ठात्वं तत् उपपादयति -
प्रतितिष्ठतीति ।
यत् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति, तत् किंविशेषणम् इत्यपेक्षायाम् उक्तम् -
अमृतस्येत्यादि ।
तत्र अमृतशब्देन अव्ययशब्दस्य पुनरुक्तिं परिहरति -
अविकारिण इति ।
नित्यत्वम् - अपक्षयराहित्यम् । तेन पूर्वाभ्याम् अपौनरुक्त्यम् ।
प्रसिद्धार्थस्य धर्मशब्दस्य ब्रह्मणि अनुपपत्तिम् आशङ्क्य, आह -
ज्ञानेति ।
अथ इन्द्रियसम्बन्धोत्थं सुखं व्यावर्तयितुम् ‘ऐकान्तिकस्य’ इत्युक्तम् । अक्षरार्थम् उक्त्वा, वाक्यार्थम् आह -
अमृतादीति ।
प्रतिष्ठा यस्मात् इति पूर्वेण सम्बन्धः । तस्मात् प्रत्यगात्मा परमात्मतया निश्चीयते सम्यग्ज्ञानेन, इति योजना ।
अस्य श्लोकस्य, पूर्वश्लोकेन एकवाक्याताम् आह -
तदेतदिति ।
विवक्षितं वाक्यार्थं प्रपञ्चयति -
ययेति ।
सा शक्तिः ब्रह्मैव, इति कथं सामानाधिकरण्यम् ? तत्र आह -
शक्तीति ।
व्याख्यान्तरम् आह -
अथवेति ।
विशेषणानि पूर्ववत् अपौनरुक्त्यानि नेतव्यानि । तदनेन अध्यायेन क्षेत्रक्षेत्रज्ञसंयोगस्य संसारकारणत्वं पञ्चप्रश्ननिरूपणद्वारेण च सम्यग्ज्ञानस्य सकलसंसारनिवर्तकत्वम् , इत्येतत् उपपादयता मुमुक्षोः यत्नसाध्यं गुणैः अचाल्यत्वादि मुक्तस्य अयत्नसिद्धं लक्षणम् इति निर्धारितम्
॥ २७ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने चतुर्दशोऽध्यायः
॥ १४ ॥