अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

पञ्चदशोऽध्यायः

भक्तियोगेन गुणात्यये दर्शिते, नाशित्वे तेषां,विना ज्ञानेन अनत्ययात् अना­शि­त्वे­न,ते­नापि तदयोग्यत्वात् न ज्ञानं गुणात्ययहेतुः इति आशङ्कां निरस्य, साक्षादेव श्रवणादिहेतुं संन्यासं विधित्सुः ब्रह्मत्वस्य परमपुरुषार्थतां विवक्षुः अध्या­या­न्त­र­मा­र­भते -
यस्मादिति ।
कर्मिणो ज्ञानिनश्च शास्त्रे अधिकृताः । तत्र कर्मिणां कर्मानुकूलं फलं ईश्वरायत्तम् , “फलमत उपपत्तेः“(ब्र. सू. ३ - २ - ३७) इति न्यायात् । ज्ञानिनामपि तत् फलम् ईश्वरायत्तमेव, “ततो ह्यस्य बन्धविपर्ययौ “(ब्र. सू.३ - २ - ५) इत्युक्तत्वात् । यस्मात् एवं, तस्मात् , ये भक्त्याख्येन योगेन मामेव सेवंते, ते मत्प्रसादद्वारा ज्ञानं प्राप्य तेन गुणातीताः मुक्ताः भवन्तीति स्थितम् , इत्यर्थः ।

ये तु आत्मनः तत्त्वमेव सन्देहाद्यपोहेन जानन्ति ते तेन ज्ञानेन गुणातीताः सन्तः मुक्तिं गच्छन्तीति किमु वक्तव्यम् , इति अर्थसिद्धमर्थम् आह -
किमुवक्तव्यमिति ।

आत्म­त­त्त्वा­ज्ञानं यतः संसारहेतुः, ज्ञानं मोक्षानुुकूलम् , अतः अर्जुनेन किं तत् ? इति अपृष्टमपि तत्त्वं भगवान् उक्तवान् , प्रश्नाभावेऽपि तस्य तद्व्यु­त्पा­द­ना­भि­मा­नात् इत्याह -
अत इति ।

तत्त्वे विवक्षिते किमिति संसारो वर्ण्यते ? तत्र आह -
तत्रेति ।
अध्यायादिः सप्तम्यर्थः ।

वैराग्यमपि किमिति मृग्यते? तत्र आह -
विरक्तस्येति ।
इति वैराग्याय संसारवर्णनम् , इति शेषः ।

नाशसम्भावनायै वृक्षरूपकं बन्धहेतोः दर्शयति -
ऊर्ध्वमूलमिति ।

कथं कालतः सूक्ष्यत्वम् ? तदाह -
कारणत्वादिति ।

तदेव कथं? कार्यापेक्षया निय­त­पू­र्व­भा­वि­त्वात् , इत्याह -
नित्यत्वादिति ।

सर्व­व्या­पि­त्वाच्च उत्कर्षं सम्भावयति -
महत्वाच्चेति ।
ऊर्ध्वं - उच्छ्रितं - उत्कृष्टम् इति यावत् ।

तस्य कूटस्थस्य कथं मूलत्वम् इत्याशङ्क्य, आह -
अव्यक्तेति ।

स्मृतिमूलत्वेन श्रुतिमुदाहरति -
श्रुतेश्चेति ।

अवाञ्च्यः - निकृष्टाः, शाखा इव महादाद्या यस्य, सः, तथा प्रकृते संसारवृक्षे पुराणसंमतिम् आह -
पुराणे चेति ।

अव्यक्तं - अव्याकृतं, तदेव मूलं, तस्मात् प्रभवनं - प्रभवः यस्य, स तथा । तस्यैव मूलस्य अव्यक्तस्य अनुग्रहात् - अतिदृढत्वात् ,उत्थितः - संवर्धितः । तस्य लौकि­क­वृ­क्ष­सा­ध­र्म्यम् आह -
बुद्धीत्यादिना ।
वृक्षस्य हि शाखाः स्कन्धात् उद्भवन्ति, संसारस्य च बुद्धेः सकाशात् नानापरिणामा जायन्ते । तेन बुद्धिरेव स्कन्धः तन्मयः - तत्प्रचुरः, अयं संसारतरुः । इन्द्रि­या­णा­म­न्त­राणि - छिद्राणि कोटराणि यस्य, स तथा । महान्ति भूतानि - पृथिव्यादीनि आकाशान्तानि, विशाखाः स्तम्भा यस्य स तथा । आजीव्यत्वं उपजीव्यत्वम् । ब्रह्मणा अधिष्ठितो वृक्षः ब्रह्मवृक्षः ॥ तथापि ज्ञानं विना छेत्तुं अशक्यतया सनातनः - चिरन्तनः एतच्च ब्रह्मणः परस्य आत्मनः, वनं - वननीयं, सम्भजनीयम् । अत्र हि ब्रह्म प्रतिष्ठितम् , तस्य वृक्षस्य संसाराख्यस्य तदेव ब्रह्म सारभूतम् ।अथवा अस्य ब्रह्मवृक्षस्य अनवच्छिन्नस्य संसारमण्डलस्य तदेतत् ब्रह्म, वनमिव वनं - वननीयं - सम्भजनीयम् । न हि ब्रह्मातिरिक्तं संसारस्य आस्पदम् अस्ति ब्रह्मैव अविद्यया संसराति इति अभ्युपगमात् इत्यर्थः ।

“अहं ब्रह्म“ इति दृढज्ञानेन उक्तं संसारवृक्षं छित्वा प्रति­ब­न्ध­का­भा­वात् आत्मनिष्ठो भूत्वा, पुन­रा­वृ­त्ति­र­हितं कैवल्यं प्राप्नोति, इत्याह -
एतदिति ।

अधःशाखम् , इत्येतद् व्याचष्टे -
महदिति ।
आदिशब्देन इन्द्रि­या­दि­स­ङ्ग्रहः ।

संसारवृक्षस्य अतिचञ्चलत्वे प्रमाणमाह -
प्राहुरिति ।

क्षणध्वंसिनः अव्ययत्वं विरुद्धम् इत्याशङ्क्य, आह -
संसारेति ।

तदेवोपपादयति -
अनादीति ।
छादनं - रक्षणम् , प्रावरणं वा । कर्मकाण्डानि खलु आरोहावरोहफलानि नाना­वि­धा­र्थ­वा­द­यु­क्तानि संसारवृक्षं रक्षन्ति, तन्निष्ठं दोषं च आवृण्वन्ति । ते तानि छन्दांसि पर्णानीव भवन्ति इति अर्थः ।

तदेव प्रपञ्चयति -
यथेति ।

उक्तेऽर्थे हेतुमाह -
धर्मेति ।
कर्मकाण्डानां वेदानां इति शेषः ।

कर्म­ब्र­ह्मा­ख्य­स­र्व­वे­दा­र्थस्य तत्र अन्तर्भावम् उपेत्य व्याचष्टे -
वेदार्थेति ।

समू­ल­सं­सा­र­वृ­क्ष­ज्ञाने अमूलं हित्वा मूलमेव निष्कृष्य ज्ञातुं शक्यमिति तज्ज्ञानार्थं प्रयतितव्यं इति मत्वा तज्ज्ञानस्तुतिः अत्र विवक्षिता इत्याह -
न हीति
॥ १ ॥

अवयवसम्बन्धिनी अपरा - प्रागुक्तात् अतिरिक्ता कल्पना इति यावत् । आम­नु­ष्य­लो­का­त्आ­वि­रिञ्चेेः इति अधश्शब्दार्थमाह -
मनुष्यादिभ्य इति ।

तस्मादेव आरभ्य आसत्यलोकात् इति ऊर्ध्व­श­ब्दा­र्थम् आह -
यावदिति ।

शाखाशब्दार्थं दर्शयति -
ज्ञानेति ।

तेषां हेत्वनुगुणत्वेन बहुविधत्वं सूचयति -
यथेति ।

प्रत्यक्षाणां शब्दादिविषयाणां प्रवालत्वं शाखासु पल्लवत्वम् । अङ्कुरत्वं स्फोरयति -
देहादीति ।

“ऊर्ध्वमूलम्“ इत्यत्र संसारवृक्षस्य मूलमुक्तं, किमिदानीम् “अधश्च मूलानि“ इति उच्यते ? तत्र आह -
संसारेति ।
अनु­प्र­वि­ष्ट­त्वम् - सर्वेषु लिङ्गेषु अनुगततया सन्ततत्वम् , अविच्छिन्नत्वम् ।

रागादीनां कर्मफलजन्यत्वं प्रकटयति -
कर्मेति ।

कर्मणां रागादीनां मिथो हेतु­हे­तु­म­त्त्वम् । तेषां तथा­त्वे­न­अ­न­व­च्छि­न्न­तया प्रवृत्तिः विशेषतो मनुष्यलोेके भवति इत्यत्र हेतुमाह -
अत्र हीति ।
कर्म­व्यु­त्पत्त्या प्राणिनिकायो लोकः । मनुष्यश्चासौ लोकश्च इति अधिकृतो ब्राह्म­ण्या­दि­वि­शिष्टो देहो मनुष्यलोकः
॥ २ ॥

पुनः पुनः रागादिना प्रवृत्तत्वेन अनादित्वात् न संसारवृक्षः स्वयम् उच्छिद्यते, न च उच्छेत्तुं शक्यते केनापि, इत्याशङ्क्य, आह -
यस्त्विति ।

यथा पूर्वं वर्णितं, यथा च लोके प्रसिद्धम् तथा अस्य रूपमिह शास्त्रात् अनुमीयते । तथा च अस्य ज्ञाना­प­नो­द्यत्वं युक्तम् इत्याह -
यथेति ।

तस्य अप्रमितत्वे हेतुं आह -
स्वप्नेति ।

तस्य स्वप्नदिसमत्वे दृष्ट­न­ष्ट­स्व­रू­पत्वं हेतुं करोति -
दृष्टेति ।
इति अमेयता इति शेषः ।

तमेव अमेयत्वं हेतुं कृत्वा अवसानमपि तस्य न भाति इत्याह -
अत एवेति ।
ज्ञानं विना भ्रान्ति­वा­स­ना­क­र्म­णाम् अन्यो­न्य­नि­मि­त्त­त्वात् न अवसानमस्ति इत्यर्थः ।

इदम्प्रथमत्वमपि नास्य परिच्छेत्तुं शक्यम् इत्याह -
तथेति ।

आद्यन्तवत् मध्यमपि नास्य प्रामाणिकम् इत्याह -
मध्यमिति ।

संसारवृक्षस्य अश्व­त्थ­श­ब्दि­तस्य क्षणभङ्गुरस्य स्वयमेव उच्छेदसम्भवात् तदुच्छेदार्थं न प्रयतितव्यम् , इत्याशङ्क्य आह -
अश्वत्थमिति ।

व्युत्थानं - वैराग्यपूर्वकं पारिव्राज्यम् । दृढीकृतत्वमेव विवे­क­पू­र्व­क­त्वेन स्फुटयति -
पुनः पुनरिति
॥ ३ ॥

उद्धृत्य किं कर्तव्यम् ? तदाह -
तत इति ।
पश्चात् - अश्वत्थात् ऊर्ध्वं व्यवस्थितम् इत्यर्थः ।

किं तत्पदम् ? यदन्विष्य ज्ञातव्यम् , तदाह -
यस्मिन्निति ।
येन सर्वं पूर्णं पूर्षु वा शयानं पुरुषं, प्रपद्ये - शरणं गतोऽस्मि, इत्यर्थः ।

विव­र्त­वा­दा­नु­रो­धिनं दृष्टान्तम् आह -
ऐन्द्रेति
॥ ४ ॥

परि­मा­र्ग­ण­पू­र्वकं वैष्णवं पदं गच्छताम् अङ्गान्तराणि आका­ङ्क्षा­पू­र्वकं कथयति -
कथमित्यादिना ।
मानः - अहङ्कारः, मोहस्तु अविवेकः, जितसङ्गदोषाः - शत्रु­मि­त्र­स­न्नि­धा­वपि द्वेष­प्री­ति­व­र्जिताः इत्यर्थः । तत्परत्वं - श्रव­णा­दि­नि­ष्ठ­त्वम् । संन्यासिनः - वैराग्यद्वारा त्यक्त­स­र्व­क­र्माण इत्यर्थः । आदिशब्देन तद्धेतुपरिग्रहः ।मोहवर्जितत्वं - उक्तहेतुतः सञ्जा­त­स­म्य­ग्धी­त्वम्
॥ ५ ॥

तच्चेत्पदं वेद्यं, कुर्तुः अन्यत्कर्म इति द्वैतापातः, अवेद्यं चेत् अपुमर्थत्वात् प्रेप्सि­त­त्वा­सिद्धिः इत्याशङ्क्य आह -
तदेवेति
॥ ६ ॥

उक्तमनूद्य आक्षिपति -
यद्गत्वेति ।

तत्र प्रसिद्धिं प्रमाणयति -
संयोगा इति ।

गमनस्य आग­म­ना­न्त­त्व­प्र­सिद्धेः अयु­क्तं­य­द्ग­त्वे­त्यादि, इत्युपसंहरति -
कथमिति ।

आक्षेपं परिहरति -
श्रृण्विति ।
भगवत्प्राप्तेः निवृ­त्य­न्त­त्वा­भा­वः­स­प्त­म्यर्थः ।

जीवस्य परांशत्वेऽपि कथं उक्तदोषसमाधिः? इत्याशङ्क्य, प्रति­बि­म्ब­प­क्ष­मा­दाय दृष्टान्तेन प्रत्याचष्टे-
यथेति ।

अव­च्छे­द­प­क्ष­मा­श्रित्य दृष्टा­न्ता­न्त­रेण उक्तदोषसमाधिं दर्शयति -
यथावेति ।

आक्षे­प­स­मा­धि­मु­प­सं­ह­रति -
अत इति ।

परस्य निरवयवत्वात् तदंशत्वं जीव­स्या­यु­क्त­मिति शङ्कते -
नन्विति ।

तस्य निरवयवत्वं साधयति -
सावयवत्वे चेति ।

वस्तुतो निरंशस्यापि परस्य कल्पनया जीवः अंशः भविष्यति इति परिहरति -
नैष दोष इति ।

वस्तुतस्तु जीवस्य न अंशत्वं परमात्मना तावन्मात्रतायाः दर्शितत्वात् इत्याह -
दर्शितश्चेति ।

यदि परस्य अंशत्वेन कल्पितो जीवः वस्तुतः तदात्मैव, न तर्हि तस्य संसारित्वं उत्क्रा­न्ति­र्वेति शङ्कते -
कथमिति ।

जीवस्य संसरणम् उत्क्रमणञ्च उपपादयितुं उपक्रमते -
उच्यत इति
॥ ७ ॥

स्वस्थाने स्थितानां इन्द्रियाणां जीवेन आकर्षणस्य कालं पृच्छति -
कस्मिन्निति ।

जीवस्य उत्क्रान्तिः न ईश्वरस्य इत्याशङ्क्य, ईश्व­र­श­ब्दा­र्थ­माह -
देहादीति ।
उत्क्रा­न्त्य­न­न्त­र­भा­विनी गतिः इत्येतत् अर्थवशात् इत्युक्तम् ।

अवशिष्टानि श्लोकाक्षराणि आचष्टे -
यदाचेति
॥ ८ ॥

मनःषष्ठानि इन्द्रियाण्येव प्रश्नद्वारा विशेषतो दर्शयति -
कानीति
॥ ९ ॥

शरी­र­मि­त्या­दि­श्लोके देहात् आत्मनः अतिरेकं उक्त्वा, श्रोत्रं चक्षुः इत्यादौ स्वाभिलषिते विषये यथायथं करणानां प्रवर्तकत्वात् तेभ्यः अतिरिक्तश्च आत्मा इत्युक्तम् । तर्हि तं उत्क्रान्त्यादि कुर्वन्तं स्वरूपत्वात् किमिति सर्वे न पश्यन्ति? इत्याशङ्क्य, आह -
एवमिति ।

सन्निहिततमत्वेन दर्शनयोग्यमपि विषयपारवशात् आत्मानं सर्वे न पश्यन्ति, इति भगवतोऽनुक्रोशं दर्शयति -
एवंभूतमिति ।

तर्हि केषाम् आत्मदर्शनम् ? तदाह -
ये तु पुनरिति
॥ १० ॥

ज्ञान­च­क्षु­श्श­ब्देन न्यायानुगृहीतं शास्त्रं ज्ञान­सा­ध­न­मु­क्तम् । तत् किं इदानीं शास्त्रमात्रेण न्यायानुगृहीतेन आत्मानं पश्यन्ति? नेत्याह -
केचित्विति ।
प्रयत्नः - श्रवणमननात्मकः । शास्त्रा­दि­प्र­माणैः यतन्तोऽपि, इति सम्बन्धः ।

असं­स्कृ­ता­त्मत्वं प्रकटयति -
तपसेति ।

दुश्चरितात् अविरतिफलं कथयति -
अशान्तेति ।

अशुद्धबुद्धीनां - अविवेकिनां सदपि श्रवणादि न फलवत् , इति मत्वा आह -
प्रयत्नमिति
॥ ११ ॥

अन­न्त­र­श्लो­क­च­तु­ष्ट­यस्य वृ्त्तानु­वा­द­द्वारा तात्पर्यार्थमाह -
यत्पदमिति ।

जीवात्मत्वे न चिद्रूपत्वं उक्त्वा तदीयचैतन्येन आदित्यादीनां अवभासकत्वाच्च ब्रह्मणः चिद्रूपत्वं इत्याह -
यदादित्येति ।

चिद्रूपस्यैव ब्रह्मणः सर्वा­त्म­क­त्व­प्र­ति­पा­द­क­त्वेन श्लोकं व्याचष्टे -
यदित्यादिना ।
आदित्यादौ तत्र तत्र स्थितं ब्रह्म­चै­त­न्य­ज्योतिः सर्वावभासकं इत्यर्थः ।

ब्रह्मण सर्वज्ञत्वेन चिद्रूपत्वं अत्र विवक्षितम् , इति व्याख्यान्तरं आह -
अथवेति ।

चैतन्यज्योतिषः सर्वत्र अविशेषात् आदि­त्या­दि­ग­त­त्व­वि­शे­षणं अयुक्तमिति शङ्कते -
नन्विति ।

सर्वत्र सत्वेऽपि क्वचिदेव अभि­व्य­क्ति­वि­शे­षात् विशेषणमिति परिहरति -
नैष दोष इति ।

तदेव प्रपञ्चयति -
आदित्यादिष्विति ।

सर्वत्र चैतन्यज्योतिषः तुल्यत्वेऽपि क्वचिदेव अभिव्यक्त्या विशेषणोपपत्तिं दृष्टान्तेन स्पष्टयति -
यथाहीति
॥ १२ ॥

इतश्च सर्वा­त्म­त्वं­प्र­कृ­त­प­दस्य युक्तम् इत्याह -
किञ्चेति ।

ईश्वरो हि पृथि­वी­दे­व­ता­रू­पेण पृथिवीं प्रविश्य भूतशब्दितं जगत् ऐश्वरेणैव बलेन बिभर्ति । ततो गुर्वी अपि पृथिवी विदीर्य न अधो निपतति इत्यत्र प्रमाणमाह -
तथा चेति ।
परस्यैव हिर­ण्य­ग­र्भा­त्मना अवस्थानात् न मन्त्रयोः अन्यपरता इति भावः । देवतात्मना द्यावापृथिव्योः उग्रत्वम् उद्ध­र­ण­सा­म­र्थ्यम् , तथापि ईश्वरायत्तमेव स्वरूपधारणं, तदपेक्षया दुर्बलत्वात् इति द्रष्टव्यम् ।

ईश्वरस्य सर्वात्मत्वे हेत्वन्तरमाह -
किञ्चेति ।

रसा­त्म­क­सो­म­रू­प­ता­प­त्ता­वपि, कथं ओषधीः ईश्वरः सर्वाः पुष्णाति? इत्याशङ्क्य आह -
सर्वेति
॥ १३ ॥

भगवतः सर्वात्मत्वे हेत्वन्तरमाह -
किञ्चेति ।
अहमेवेति अहंशब्देन परो लक्ष्यते, भूत्वा पचामि इति सम्बन्धः ।

परस्यैव जाठरात्मना स्थितौ श्रुतिं प्रमाणयति -
अयमिति ।

बाह्यं भौमं अग्निं व्यावर्तयति -
योऽयमिति ।

देहान्तरारम्भकं तृतीयं भूतं व्यवच्छिनत्ति -
येनेति ।

जाठरात्मना परः स्थितश्चेत् तस्य देहाश्रितत्वं सिद्धम् इति न पृथक् वक्तव्यम् इत्याशङ्क्य, “पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद“ इति श्रुतिमाश्रित्य आह -
प्रविष्ट इति ।

परस्य जाठरात्मनः अन्नपाके सहकारिकारणमाह -
प्राणेति ।

संयुक्तत्वं - सन्धुक्षितत्वम् । अन्नस्य चातुर्विध्यं प्रकटयति -
भोज्यमिति ।

भोक्तरि वैश्वा­न­र­दृष्टिः, भोज्ये सोमदृष्टिः एवं भोक्तृभोज्यरूपं सर्वं जगत् अग्नीषोमात्मना भुक्तिकाले ध्यायतो भोक्तुः अन्नकृतो दोषो न इति प्रासङ्गिकं सफलं ध्यानं दर्शयति -
भोक्तेति
॥ १४ ॥

इतश्च सर्वात्मत्वेन सर्व­व्य­व­हा­रा­स्प­द­त्वम् ईश्वरस्य इत्याह -
किञ्चेति ।
प्राणिजातं ब्रह्मा­दि­पु­त्ति­का­न्तम् । आत्मतया बुद्धौ संनिविष्टत्वं - तद्गुणदोषाणाम् अशेषेण - द्रष्टृत्वम् । अतः बुद्धि­म­ध्य­स्थस्य गुण­दो­ष­द्र­ष्टृ­त्वात् इति यावत् । मत्तः - सर्व­क­र्मा­ध्य­क्षात् जग­द्य­न्त्र­सू­त्र­धा­रात् इत्यर्थः ।

प्राणिनां स्मृतिज्ञानयोः तदुपायस्य च भगवदधीनत्वे भगवतो वैषम्यं स्यात् इत्याशङ्क्याह -
येषामिति ।
स्मृतिः जन्मान्तरादौ अनुभूतस्य परामर्शः । देश­का­ल­स्व­भा­व­वि­प्र­कृ­ष्ट­स्यापि ज्ञानम् अनुभवः । धर्माधर्माभ्यां विचित्रं कुर्वतः न ईश्वरस्य वैषम्यम् इति भावः ।

वेदवेद्यं परं ब्रह्म भगवतः अन्यदिति शङ्कां वारयति -
वेदैरिति ।

वेदान्तानां पौरुषेयत्वं परिहरति -
वेदेति ।

तद­र्थ­स­म्प्र­दा­य­प्र­व­र्त­क­त्वार्थं तद­र्थ­या­था­त­थ्य­ज्ञा­न­व­त्व­माह -
वेदार्थेति
॥ १५ ॥

उत्तरश्लोकानां तात्पर्यं वक्तुं वृत्तं कीर्तयति -
भगवत इति ।
विशिष्टोपाधिः आदित्यादिः ।

सम्प्रति अध्यायसमप्तेः उत्तरसन्दर्भस्य तात्पर्यमाह -
अथेति ।

न केवलं निरु­पा­धि­का­त्म­स्व­रू­प­नि­र्धा­र­णाय उत्तरग्रन्थः, किन्तु सर्वस्यैव गीताशास्त्रस्य अर्थ­नि­र्ण­या­र्थ­मि­त्याह -
तत्रेति ।

क्षरा­क्ष­रो­पा­धिभ्यां परमात्मना चराशित्रयम् । उक्तेन सर्वात्मत्वेन अशु­द्ध्या­दि­दो­ष­प्र­सक्तौ उक्तम् -
द्वाविमाविति ।

पुरु­षो­पा­धि­त्वात् पुरुषत्वं न साक्षात् इति विवक्षितत्वात् आह -
पुरुषाविति ।

परं पुरुषं व्यावर्तयति -
भगवत इति ।

तत्र कार्यलिङ्गकम् अनुमानं सूचयति -
क्षराख्यस्येति ।

मायाशक्तिं विना भोक्तॄणां कर्मा­दि­सं­स्का­रा­देव उक्त­का­र्यो­त्पत्तिः इत्याशङ्क्य, तस्य निमित्तत्वेऽपि मायाशक्तिः उपादानम् इति मत्वा आह -
अनेकेति ।
कामकर्मादीति आदिशब्देन ज्ञानं गृह्यते ।

प्रकृतिं पुरुषं चैवेति प्रकृतयोः इह ग्रहणम् इति शङ्काम् आकाङ्क्षाद्वारा वारयति -
कौ ताविति ।

कूट­श­ब्दा­र्थ­मुक्त्वा तेन स्थितस्य कूटस्थतेति सम्पि­ण्डि­ता­र्थ­माह -
अनेकेति ।

तस्य कथम् अक्षरत्वं विना ब्रह्मज्ञानं अनाशादित्याह -
संसारेति
॥ १६ ॥

कार्यकारणाख्यौ राशी दर्शयित्वा राश्यन्तरं दर्शयति -
आभ्यामिति ।

वैलक्षण्यफलमाह -
क्षरेति ।

उपा­धि­द्व­य­कृ­त­गु­ण­दो­षा­स्पर्शे फलितमाह -
नित्येति ।
आभ्यां क्षरा­क्ष­रा­भ्या­मिति यावत् । उत्तमः, अन्यः इति पदद्वयं वस्तुतः सर्वथैव क्षरा­क्ष­रा­त्म­त्वा­भा­व­दृ­ष्ट्य­र्थम् ।

जडवर्गस्य अन्यत्वकृतं स्वातन्त्र्यं निरस्यति -
स एवेति ।
लोकत्रयं इति उपलक्षणम् , सर्वं जगदपि विवक्षितम् । चैतन्यमेव बलं तत्र - शक्तिः - माया तयेति यावत् ।

जगद्धारणे परस्य व्यापारान्तरं वारयति -
स्वरूपेति ।

न च अस्य अन्यो धारयिता, स्वतः अचलत्वात् इत्याह -
अव्यय इति ।

“संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः“ इति श्रुत्यर्थं गृहीत्वा आह -
ईश्वर इति
॥ १७ ॥

किञ्च लोकवेदयोः भगवतो नामप्रसिद्ध्या सिद्ध­म्अ­प्र­प­ञ्चत्वं इत्याह -
यथेति ।

अश्वकर्णादिवत् अस्य नाम्नः रूढत्वात् अर्थ­वि­शे­षा­भा­वात् भग­व­तोऽ­पि­लौ­कि­के­श्व­र­वत् ईश्वरत्वं सातिशयम् इति, नेत्याह -
तस्येति ।

यस्मादित्यस्य अपेक्षितं निक्षिपति -
अत इति ।
उत्तमः पुरुषः इति वाक्यशेषः
॥ १८ ॥

आत्मनः अप्रपञ्चत्वं ज्ञानफलोक्त्या स्तौति -
अथेति ।
यथोक्तविशेषणं सर्वा­त्म­त्वा­दि­वि­शे­ष­णो­पे­त­मिति यावत् । क्षरा­क्ष­रा­ती­तत्वं यथोक्तप्रकारः । संमोहवर्जितः - संमोहेन देहादिषु आत्मा­त्मी­य­त्व­बुद्ध्या रहितः इत्यर्थः ।

भगवन्तं जानतः सर्ववित्त्वं, तस्यैव सर्वात्मना मेयत्वादित्याह -
स सर्वविदिति ।
सर्वात्मनि मय्येव आसक्तचित्तत्वेन इत्यर्थः
॥ १९ ॥

अध्या­या­र्थ­म­नूद्य उपसंहारश्लोकं अवतारयति -
अस्मिन्निति ।

सर्वस्यां गीतायां शास्त्रशब्दे वक्तव्ये कथमस्मिन् अध्याये तत्प्रयोगः स्यात् इत्याशङ्क्य, आह -
यद्यपीति ।

संनिहितम् अध्यायं स्तोतुमपि कुतः तत्र शास्त्रशब्दः? तदर्थाभावात् । तत्राह -
सर्वो हीति ।

गीता­शा­स्रा­र्थस्य सर्वस्य अत्र सङ्क्षि­प्त­त्वा­देव केवलं शास्त्रशब्दो न भवति, किन्तु वेदार्थस्यापि सर्वस्य अत्र समाप्तेः युक्तं शास्त्रपदं इत्याह -
नेति ।

तत्र गमकमाह -
यस्तमिति ।

भग­व­त्त­त्त्व­ज्ञाने कृतकृत्यता इत्येतत् उपपादयति -
विशिष्टेति ।

“नान्यथा“ इत्युक्तं प्रपञ्चयति -
न चेति ।

सत्यपि तत्त्वज्ञाने कर्मणां कर्तव्यत्वात् न कर्तव्यसमाप्तिः इति आशङ्क्याह -
सर्वमिति ।

तत्त्वज्ञाने कृतार्थतेति तत्र मनोरपि संमतिमाह -
एतद्धीति ।

भारतेति सम्बो­ध­न­ता­त्प­र्य­माह -
यत इति ।
तदनेन आत्मनो देहा­द्य­ति­रि­क्तत्वं चिद्रूपत्वं सर्वात्मत्वं कार्य­का­र­ण­वि­नि­र्मु­क्त­त्वेन अप्रपञ्चत्वं तस्य अख­ण्डै­क­र­स­ब्र­ह्मा­त्म­त्व­ज्ञा­नात् अशे­ष­पु­रु­षा­र्थ­प­रि­स­मा­प्ति­रि­त्यु­क्तम्
॥ २० ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विरचिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने पञ्चदशोऽध्यायः
॥ १५ ॥