आनन्दगिरिटीका (गीताभाष्य)
पञ्चदशोऽध्यायः
भक्तियोगेन गुणात्यये दर्शिते, नाशित्वे तेषां,विना ज्ञानेन अनत्ययात् अनाशित्वेन,तेनापि तदयोग्यत्वात् न ज्ञानं गुणात्ययहेतुः इति आशङ्कां निरस्य, साक्षादेव श्रवणादिहेतुं संन्यासं विधित्सुः ब्रह्मत्वस्य परमपुरुषार्थतां विवक्षुः अध्यायान्तरमारभते -
यस्मादिति ।
कर्मिणो ज्ञानिनश्च शास्त्रे अधिकृताः । तत्र कर्मिणां कर्मानुकूलं फलं ईश्वरायत्तम् , “फलमत उपपत्तेः“(ब्र. सू. ३ - २ - ३७) इति न्यायात् । ज्ञानिनामपि तत् फलम् ईश्वरायत्तमेव, “ततो ह्यस्य बन्धविपर्ययौ “(ब्र. सू.३ - २ - ५) इत्युक्तत्वात् । यस्मात् एवं, तस्मात् , ये भक्त्याख्येन योगेन मामेव सेवंते, ते मत्प्रसादद्वारा ज्ञानं प्राप्य तेन गुणातीताः मुक्ताः भवन्तीति स्थितम् , इत्यर्थः ।
ये तु आत्मनः तत्त्वमेव सन्देहाद्यपोहेन जानन्ति ते तेन ज्ञानेन गुणातीताः सन्तः मुक्तिं गच्छन्तीति किमु वक्तव्यम् , इति अर्थसिद्धमर्थम् आह -
किमुवक्तव्यमिति ।
आत्मतत्त्वाज्ञानं यतः संसारहेतुः, ज्ञानं मोक्षानुुकूलम् , अतः अर्जुनेन किं तत् ? इति अपृष्टमपि तत्त्वं भगवान् उक्तवान् , प्रश्नाभावेऽपि तस्य तद्व्युत्पादनाभिमानात् इत्याह -
अत इति ।
तत्त्वे विवक्षिते किमिति संसारो वर्ण्यते ? तत्र आह -
तत्रेति ।
अध्यायादिः सप्तम्यर्थः ।
वैराग्यमपि किमिति मृग्यते? तत्र आह -
विरक्तस्येति ।
इति वैराग्याय संसारवर्णनम् , इति शेषः ।
नाशसम्भावनायै वृक्षरूपकं बन्धहेतोः दर्शयति -
ऊर्ध्वमूलमिति ।
कथं कालतः सूक्ष्यत्वम् ? तदाह -
कारणत्वादिति ।
तदेव कथं? कार्यापेक्षया नियतपूर्वभावित्वात् , इत्याह -
नित्यत्वादिति ।
सर्वव्यापित्वाच्च उत्कर्षं सम्भावयति -
महत्वाच्चेति ।
ऊर्ध्वं - उच्छ्रितं - उत्कृष्टम् इति यावत् ।
तस्य कूटस्थस्य कथं मूलत्वम् इत्याशङ्क्य, आह -
अव्यक्तेति ।
स्मृतिमूलत्वेन श्रुतिमुदाहरति -
श्रुतेश्चेति ।
अवाञ्च्यः - निकृष्टाः, शाखा इव महादाद्या यस्य, सः, तथा प्रकृते संसारवृक्षे पुराणसंमतिम् आह -
पुराणे चेति ।
अव्यक्तं - अव्याकृतं, तदेव मूलं, तस्मात् प्रभवनं - प्रभवः यस्य, स तथा । तस्यैव मूलस्य अव्यक्तस्य अनुग्रहात् - अतिदृढत्वात् ,उत्थितः - संवर्धितः । तस्य लौकिकवृक्षसाधर्म्यम् आह -
बुद्धीत्यादिना ।
वृक्षस्य हि शाखाः स्कन्धात् उद्भवन्ति, संसारस्य च बुद्धेः सकाशात् नानापरिणामा जायन्ते । तेन बुद्धिरेव स्कन्धः तन्मयः - तत्प्रचुरः, अयं संसारतरुः । इन्द्रियाणामन्तराणि - छिद्राणि कोटराणि यस्य, स तथा । महान्ति भूतानि - पृथिव्यादीनि आकाशान्तानि, विशाखाः स्तम्भा यस्य स तथा । आजीव्यत्वं उपजीव्यत्वम् । ब्रह्मणा अधिष्ठितो वृक्षः ब्रह्मवृक्षः ॥ तथापि ज्ञानं विना छेत्तुं अशक्यतया सनातनः - चिरन्तनः एतच्च ब्रह्मणः परस्य आत्मनः, वनं - वननीयं, सम्भजनीयम् । अत्र हि ब्रह्म प्रतिष्ठितम् , तस्य वृक्षस्य संसाराख्यस्य तदेव ब्रह्म सारभूतम् ।अथवा अस्य ब्रह्मवृक्षस्य अनवच्छिन्नस्य संसारमण्डलस्य तदेतत् ब्रह्म, वनमिव वनं - वननीयं - सम्भजनीयम् । न हि ब्रह्मातिरिक्तं संसारस्य आस्पदम् अस्ति ब्रह्मैव अविद्यया संसराति इति अभ्युपगमात् इत्यर्थः ।
“अहं ब्रह्म“ इति दृढज्ञानेन उक्तं संसारवृक्षं छित्वा प्रतिबन्धकाभावात् आत्मनिष्ठो भूत्वा, पुनरावृत्तिरहितं कैवल्यं प्राप्नोति, इत्याह -
एतदिति ।
अधःशाखम् , इत्येतद् व्याचष्टे -
महदिति ।
आदिशब्देन इन्द्रियादिसङ्ग्रहः ।
संसारवृक्षस्य अतिचञ्चलत्वे प्रमाणमाह -
प्राहुरिति ।
क्षणध्वंसिनः अव्ययत्वं विरुद्धम् इत्याशङ्क्य, आह -
संसारेति ।
तदेवोपपादयति -
अनादीति ।
छादनं - रक्षणम् , प्रावरणं वा । कर्मकाण्डानि खलु आरोहावरोहफलानि नानाविधार्थवादयुक्तानि संसारवृक्षं रक्षन्ति, तन्निष्ठं दोषं च आवृण्वन्ति । ते तानि छन्दांसि पर्णानीव भवन्ति इति अर्थः ।
तदेव प्रपञ्चयति -
यथेति ।
उक्तेऽर्थे हेतुमाह -
धर्मेति ।
कर्मकाण्डानां वेदानां इति शेषः ।
कर्मब्रह्माख्यसर्ववेदार्थस्य तत्र अन्तर्भावम् उपेत्य व्याचष्टे -
वेदार्थेति ।
समूलसंसारवृक्षज्ञाने अमूलं हित्वा मूलमेव निष्कृष्य ज्ञातुं शक्यमिति तज्ज्ञानार्थं प्रयतितव्यं इति मत्वा तज्ज्ञानस्तुतिः अत्र विवक्षिता इत्याह -
न हीति
॥ १ ॥
अवयवसम्बन्धिनी अपरा - प्रागुक्तात् अतिरिक्ता कल्पना इति यावत् । आमनुष्यलोकात्आविरिञ्चेेः इति अधश्शब्दार्थमाह -
मनुष्यादिभ्य इति ।
तस्मादेव आरभ्य आसत्यलोकात् इति ऊर्ध्वशब्दार्थम् आह -
यावदिति ।
शाखाशब्दार्थं दर्शयति -
ज्ञानेति ।
तेषां हेत्वनुगुणत्वेन बहुविधत्वं सूचयति -
यथेति ।
प्रत्यक्षाणां शब्दादिविषयाणां प्रवालत्वं शाखासु पल्लवत्वम् । अङ्कुरत्वं स्फोरयति -
देहादीति ।
“ऊर्ध्वमूलम्“ इत्यत्र संसारवृक्षस्य मूलमुक्तं, किमिदानीम् “अधश्च मूलानि“ इति उच्यते ? तत्र आह -
संसारेति ।
अनुप्रविष्टत्वम् - सर्वेषु लिङ्गेषु अनुगततया सन्ततत्वम् , अविच्छिन्नत्वम् ।
रागादीनां कर्मफलजन्यत्वं प्रकटयति -
कर्मेति ।
कर्मणां रागादीनां मिथो हेतुहेतुमत्त्वम् । तेषां तथात्वेनअनवच्छिन्नतया प्रवृत्तिः विशेषतो मनुष्यलोेके भवति इत्यत्र हेतुमाह -
अत्र हीति ।
कर्मव्युत्पत्त्या प्राणिनिकायो लोकः । मनुष्यश्चासौ लोकश्च इति अधिकृतो ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकः
॥ २ ॥
पुनः पुनः रागादिना प्रवृत्तत्वेन अनादित्वात् न संसारवृक्षः स्वयम् उच्छिद्यते, न च उच्छेत्तुं शक्यते केनापि, इत्याशङ्क्य, आह -
यस्त्विति ।
यथा पूर्वं वर्णितं, यथा च लोके प्रसिद्धम् तथा अस्य रूपमिह शास्त्रात् अनुमीयते । तथा च अस्य ज्ञानापनोद्यत्वं युक्तम् इत्याह -
यथेति ।
तस्य अप्रमितत्वे हेतुं आह -
स्वप्नेति ।
तस्य स्वप्नदिसमत्वे दृष्टनष्टस्वरूपत्वं हेतुं करोति -
दृष्टेति ।
इति अमेयता इति शेषः ।
तमेव अमेयत्वं हेतुं कृत्वा अवसानमपि तस्य न भाति इत्याह -
अत एवेति ।
ज्ञानं विना भ्रान्तिवासनाकर्मणाम् अन्योन्यनिमित्तत्वात् न अवसानमस्ति इत्यर्थः ।
इदम्प्रथमत्वमपि नास्य परिच्छेत्तुं शक्यम् इत्याह -
तथेति ।
आद्यन्तवत् मध्यमपि नास्य प्रामाणिकम् इत्याह -
मध्यमिति ।
संसारवृक्षस्य अश्वत्थशब्दितस्य क्षणभङ्गुरस्य स्वयमेव उच्छेदसम्भवात् तदुच्छेदार्थं न प्रयतितव्यम् , इत्याशङ्क्य आह -
अश्वत्थमिति ।
व्युत्थानं - वैराग्यपूर्वकं पारिव्राज्यम् । दृढीकृतत्वमेव विवेकपूर्वकत्वेन स्फुटयति -
पुनः पुनरिति
॥ ३ ॥
उद्धृत्य किं कर्तव्यम् ? तदाह -
तत इति ।
पश्चात् - अश्वत्थात् ऊर्ध्वं व्यवस्थितम् इत्यर्थः ।
किं तत्पदम् ? यदन्विष्य ज्ञातव्यम् , तदाह -
यस्मिन्निति ।
येन सर्वं पूर्णं पूर्षु वा शयानं पुरुषं, प्रपद्ये - शरणं गतोऽस्मि, इत्यर्थः ।
विवर्तवादानुरोधिनं दृष्टान्तम् आह -
ऐन्द्रेति
॥ ४ ॥
परिमार्गणपूर्वकं वैष्णवं पदं गच्छताम् अङ्गान्तराणि आकाङ्क्षापूर्वकं कथयति -
कथमित्यादिना ।
मानः - अहङ्कारः, मोहस्तु अविवेकः, जितसङ्गदोषाः - शत्रुमित्रसन्निधावपि द्वेषप्रीतिवर्जिताः इत्यर्थः । तत्परत्वं - श्रवणादिनिष्ठत्वम् । संन्यासिनः - वैराग्यद्वारा त्यक्तसर्वकर्माण इत्यर्थः । आदिशब्देन तद्धेतुपरिग्रहः ।मोहवर्जितत्वं - उक्तहेतुतः सञ्जातसम्यग्धीत्वम्
॥ ५ ॥
तच्चेत्पदं वेद्यं, कुर्तुः अन्यत्कर्म इति द्वैतापातः, अवेद्यं चेत् अपुमर्थत्वात् प्रेप्सितत्वासिद्धिः इत्याशङ्क्य आह -
तदेवेति
॥ ६ ॥
उक्तमनूद्य आक्षिपति -
यद्गत्वेति ।
तत्र प्रसिद्धिं प्रमाणयति -
संयोगा इति ।
गमनस्य आगमनान्तत्वप्रसिद्धेः अयुक्तंयद्गत्वेत्यादि, इत्युपसंहरति -
कथमिति ।
आक्षेपं परिहरति -
श्रृण्विति ।
भगवत्प्राप्तेः निवृत्यन्तत्वाभावःसप्तम्यर्थः ।
जीवस्य परांशत्वेऽपि कथं उक्तदोषसमाधिः? इत्याशङ्क्य, प्रतिबिम्बपक्षमादाय दृष्टान्तेन प्रत्याचष्टे-
यथेति ।
अवच्छेदपक्षमाश्रित्य दृष्टान्तान्तरेण उक्तदोषसमाधिं दर्शयति -
यथावेति ।
आक्षेपसमाधिमुपसंहरति -
अत इति ।
परस्य निरवयवत्वात् तदंशत्वं जीवस्यायुक्तमिति शङ्कते -
नन्विति ।
तस्य निरवयवत्वं साधयति -
सावयवत्वे चेति ।
वस्तुतो निरंशस्यापि परस्य कल्पनया जीवः अंशः भविष्यति इति परिहरति -
नैष दोष इति ।
वस्तुतस्तु जीवस्य न अंशत्वं परमात्मना तावन्मात्रतायाः दर्शितत्वात् इत्याह -
दर्शितश्चेति ।
यदि परस्य अंशत्वेन कल्पितो जीवः वस्तुतः तदात्मैव, न तर्हि तस्य संसारित्वं उत्क्रान्तिर्वेति शङ्कते -
कथमिति ।
जीवस्य संसरणम् उत्क्रमणञ्च उपपादयितुं उपक्रमते -
उच्यत इति
॥ ७ ॥
स्वस्थाने स्थितानां इन्द्रियाणां जीवेन आकर्षणस्य कालं पृच्छति -
कस्मिन्निति ।
जीवस्य उत्क्रान्तिः न ईश्वरस्य इत्याशङ्क्य, ईश्वरशब्दार्थमाह -
देहादीति ।
उत्क्रान्त्यनन्तरभाविनी गतिः इत्येतत् अर्थवशात् इत्युक्तम् ।
अवशिष्टानि श्लोकाक्षराणि आचष्टे -
यदाचेति
॥ ८ ॥
मनःषष्ठानि इन्द्रियाण्येव प्रश्नद्वारा विशेषतो दर्शयति -
कानीति
॥ ९ ॥
शरीरमित्यादिश्लोके देहात् आत्मनः अतिरेकं उक्त्वा, श्रोत्रं चक्षुः इत्यादौ स्वाभिलषिते विषये यथायथं करणानां प्रवर्तकत्वात् तेभ्यः अतिरिक्तश्च आत्मा इत्युक्तम् । तर्हि तं उत्क्रान्त्यादि कुर्वन्तं स्वरूपत्वात् किमिति सर्वे न पश्यन्ति? इत्याशङ्क्य, आह -
एवमिति ।
सन्निहिततमत्वेन दर्शनयोग्यमपि विषयपारवशात् आत्मानं सर्वे न पश्यन्ति, इति भगवतोऽनुक्रोशं दर्शयति -
एवंभूतमिति ।
तर्हि केषाम् आत्मदर्शनम् ? तदाह -
ये तु पुनरिति
॥ १० ॥
ज्ञानचक्षुश्शब्देन न्यायानुगृहीतं शास्त्रं ज्ञानसाधनमुक्तम् । तत् किं इदानीं शास्त्रमात्रेण न्यायानुगृहीतेन आत्मानं पश्यन्ति? नेत्याह -
केचित्विति ।
प्रयत्नः - श्रवणमननात्मकः । शास्त्रादिप्रमाणैः यतन्तोऽपि, इति सम्बन्धः ।
असंस्कृतात्मत्वं प्रकटयति -
तपसेति ।
दुश्चरितात् अविरतिफलं कथयति -
अशान्तेति ।
अशुद्धबुद्धीनां - अविवेकिनां सदपि श्रवणादि न फलवत् , इति मत्वा आह -
प्रयत्नमिति
॥ ११ ॥
अनन्तरश्लोकचतुष्टयस्य वृ्त्तानुवादद्वारा तात्पर्यार्थमाह -
यत्पदमिति ।
जीवात्मत्वे न चिद्रूपत्वं उक्त्वा तदीयचैतन्येन आदित्यादीनां अवभासकत्वाच्च ब्रह्मणः चिद्रूपत्वं इत्याह -
यदादित्येति ।
चिद्रूपस्यैव ब्रह्मणः सर्वात्मकत्वप्रतिपादकत्वेन श्लोकं व्याचष्टे -
यदित्यादिना ।
आदित्यादौ तत्र तत्र स्थितं ब्रह्मचैतन्यज्योतिः सर्वावभासकं इत्यर्थः ।
ब्रह्मण सर्वज्ञत्वेन चिद्रूपत्वं अत्र विवक्षितम् , इति व्याख्यान्तरं आह -
अथवेति ।
चैतन्यज्योतिषः सर्वत्र अविशेषात् आदित्यादिगतत्वविशेषणं अयुक्तमिति शङ्कते -
नन्विति ।
सर्वत्र सत्वेऽपि क्वचिदेव अभिव्यक्तिविशेषात् विशेषणमिति परिहरति -
नैष दोष इति ।
तदेव प्रपञ्चयति -
आदित्यादिष्विति ।
सर्वत्र चैतन्यज्योतिषः तुल्यत्वेऽपि क्वचिदेव अभिव्यक्त्या विशेषणोपपत्तिं दृष्टान्तेन स्पष्टयति -
यथाहीति
॥ १२ ॥
इतश्च सर्वात्मत्वंप्रकृतपदस्य युक्तम् इत्याह -
किञ्चेति ।
ईश्वरो हि पृथिवीदेवतारूपेण पृथिवीं प्रविश्य भूतशब्दितं जगत् ऐश्वरेणैव बलेन बिभर्ति । ततो गुर्वी अपि पृथिवी विदीर्य न अधो निपतति इत्यत्र प्रमाणमाह -
तथा चेति ।
परस्यैव हिरण्यगर्भात्मना अवस्थानात् न मन्त्रयोः अन्यपरता इति भावः । देवतात्मना द्यावापृथिव्योः उग्रत्वम् उद्धरणसामर्थ्यम् , तथापि ईश्वरायत्तमेव स्वरूपधारणं, तदपेक्षया दुर्बलत्वात् इति द्रष्टव्यम् ।
ईश्वरस्य सर्वात्मत्वे हेत्वन्तरमाह -
किञ्चेति ।
रसात्मकसोमरूपतापत्तावपि, कथं ओषधीः ईश्वरः सर्वाः पुष्णाति? इत्याशङ्क्य आह -
सर्वेति
॥ १३ ॥
भगवतः सर्वात्मत्वे हेत्वन्तरमाह -
किञ्चेति ।
अहमेवेति अहंशब्देन परो लक्ष्यते, भूत्वा पचामि इति सम्बन्धः ।
परस्यैव जाठरात्मना स्थितौ श्रुतिं प्रमाणयति -
अयमिति ।
बाह्यं भौमं अग्निं व्यावर्तयति -
योऽयमिति ।
देहान्तरारम्भकं तृतीयं भूतं व्यवच्छिनत्ति -
येनेति ।
जाठरात्मना परः स्थितश्चेत् तस्य देहाश्रितत्वं सिद्धम् इति न पृथक् वक्तव्यम् इत्याशङ्क्य, “पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद“ इति श्रुतिमाश्रित्य आह -
प्रविष्ट इति ।
परस्य जाठरात्मनः अन्नपाके सहकारिकारणमाह -
प्राणेति ।
संयुक्तत्वं - सन्धुक्षितत्वम् । अन्नस्य चातुर्विध्यं प्रकटयति -
भोज्यमिति ।
भोक्तरि वैश्वानरदृष्टिः, भोज्ये सोमदृष्टिः एवं भोक्तृभोज्यरूपं सर्वं जगत् अग्नीषोमात्मना भुक्तिकाले ध्यायतो भोक्तुः अन्नकृतो दोषो न इति प्रासङ्गिकं सफलं ध्यानं दर्शयति -
भोक्तेति
॥ १४ ॥
इतश्च सर्वात्मत्वेन सर्वव्यवहारास्पदत्वम् ईश्वरस्य इत्याह -
किञ्चेति ।
प्राणिजातं ब्रह्मादिपुत्तिकान्तम् । आत्मतया बुद्धौ संनिविष्टत्वं - तद्गुणदोषाणाम् अशेषेण - द्रष्टृत्वम् । अतः बुद्धिमध्यस्थस्य गुणदोषद्रष्टृत्वात् इति यावत् । मत्तः - सर्वकर्माध्यक्षात् जगद्यन्त्रसूत्रधारात् इत्यर्थः ।
प्राणिनां स्मृतिज्ञानयोः तदुपायस्य च भगवदधीनत्वे भगवतो वैषम्यं स्यात् इत्याशङ्क्याह -
येषामिति ।
स्मृतिः जन्मान्तरादौ अनुभूतस्य परामर्शः । देशकालस्वभावविप्रकृष्टस्यापि ज्ञानम् अनुभवः । धर्माधर्माभ्यां विचित्रं कुर्वतः न ईश्वरस्य वैषम्यम् इति भावः ।
वेदवेद्यं परं ब्रह्म भगवतः अन्यदिति शङ्कां वारयति -
वेदैरिति ।
वेदान्तानां पौरुषेयत्वं परिहरति -
वेदेति ।
तदर्थसम्प्रदायप्रवर्तकत्वार्थं तदर्थयाथातथ्यज्ञानवत्वमाह -
वेदार्थेति
॥ १५ ॥
उत्तरश्लोकानां तात्पर्यं वक्तुं वृत्तं कीर्तयति -
भगवत इति ।
विशिष्टोपाधिः आदित्यादिः ।
सम्प्रति अध्यायसमप्तेः उत्तरसन्दर्भस्य तात्पर्यमाह -
अथेति ।
न केवलं निरुपाधिकात्मस्वरूपनिर्धारणाय उत्तरग्रन्थः, किन्तु सर्वस्यैव गीताशास्त्रस्य अर्थनिर्णयार्थमित्याह -
तत्रेति ।
क्षराक्षरोपाधिभ्यां परमात्मना चराशित्रयम् । उक्तेन सर्वात्मत्वेन अशुद्ध्यादिदोषप्रसक्तौ उक्तम् -
द्वाविमाविति ।
पुरुषोपाधित्वात् पुरुषत्वं न साक्षात् इति विवक्षितत्वात् आह -
पुरुषाविति ।
परं पुरुषं व्यावर्तयति -
भगवत इति ।
तत्र कार्यलिङ्गकम् अनुमानं सूचयति -
क्षराख्यस्येति ।
मायाशक्तिं विना भोक्तॄणां कर्मादिसंस्कारादेव उक्तकार्योत्पत्तिः इत्याशङ्क्य, तस्य निमित्तत्वेऽपि मायाशक्तिः उपादानम् इति मत्वा आह -
अनेकेति ।
कामकर्मादीति आदिशब्देन ज्ञानं गृह्यते ।
प्रकृतिं पुरुषं चैवेति प्रकृतयोः इह ग्रहणम् इति शङ्काम् आकाङ्क्षाद्वारा वारयति -
कौ ताविति ।
कूटशब्दार्थमुक्त्वा तेन स्थितस्य कूटस्थतेति सम्पिण्डितार्थमाह -
अनेकेति ।
तस्य कथम् अक्षरत्वं विना ब्रह्मज्ञानं अनाशादित्याह -
संसारेति
॥ १६ ॥
कार्यकारणाख्यौ राशी दर्शयित्वा राश्यन्तरं दर्शयति -
आभ्यामिति ।
वैलक्षण्यफलमाह -
क्षरेति ।
उपाधिद्वयकृतगुणदोषास्पर्शे फलितमाह -
नित्येति ।
आभ्यां क्षराक्षराभ्यामिति यावत् । उत्तमः, अन्यः इति पदद्वयं वस्तुतः सर्वथैव क्षराक्षरात्मत्वाभावदृष्ट्यर्थम् ।
जडवर्गस्य अन्यत्वकृतं स्वातन्त्र्यं निरस्यति -
स एवेति ।
लोकत्रयं इति उपलक्षणम् , सर्वं जगदपि विवक्षितम् । चैतन्यमेव बलं तत्र - शक्तिः - माया तयेति यावत् ।
जगद्धारणे परस्य व्यापारान्तरं वारयति -
स्वरूपेति ।
न च अस्य अन्यो धारयिता, स्वतः अचलत्वात् इत्याह -
अव्यय इति ।
“संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः“ इति श्रुत्यर्थं गृहीत्वा आह -
ईश्वर इति
॥ १७ ॥
किञ्च लोकवेदयोः भगवतो नामप्रसिद्ध्या सिद्धम्अप्रपञ्चत्वं इत्याह -
यथेति ।
अश्वकर्णादिवत् अस्य नाम्नः रूढत्वात् अर्थविशेषाभावात् भगवतोऽपिलौकिकेश्वरवत् ईश्वरत्वं सातिशयम् इति, नेत्याह -
तस्येति ।
यस्मादित्यस्य अपेक्षितं निक्षिपति -
अत इति ।
उत्तमः पुरुषः इति वाक्यशेषः
॥ १८ ॥
आत्मनः अप्रपञ्चत्वं ज्ञानफलोक्त्या स्तौति -
अथेति ।
यथोक्तविशेषणं सर्वात्मत्वादिविशेषणोपेतमिति यावत् । क्षराक्षरातीतत्वं यथोक्तप्रकारः । संमोहवर्जितः - संमोहेन देहादिषु आत्मात्मीयत्वबुद्ध्या रहितः इत्यर्थः ।
भगवन्तं जानतः सर्ववित्त्वं, तस्यैव सर्वात्मना मेयत्वादित्याह -
स सर्वविदिति ।
सर्वात्मनि मय्येव आसक्तचित्तत्वेन इत्यर्थः
॥ १९ ॥
अध्यायार्थमनूद्य उपसंहारश्लोकं अवतारयति -
अस्मिन्निति ।
सर्वस्यां गीतायां शास्त्रशब्दे वक्तव्ये कथमस्मिन् अध्याये तत्प्रयोगः स्यात् इत्याशङ्क्य, आह -
यद्यपीति ।
संनिहितम् अध्यायं स्तोतुमपि कुतः तत्र शास्त्रशब्दः? तदर्थाभावात् । तत्राह -
सर्वो हीति ।
गीताशास्रार्थस्य सर्वस्य अत्र सङ्क्षिप्तत्वादेव केवलं शास्त्रशब्दो न भवति, किन्तु वेदार्थस्यापि सर्वस्य अत्र समाप्तेः युक्तं शास्त्रपदं इत्याह -
नेति ।
तत्र गमकमाह -
यस्तमिति ।
भगवत्तत्त्वज्ञाने कृतकृत्यता इत्येतत् उपपादयति -
विशिष्टेति ।
“नान्यथा“ इत्युक्तं प्रपञ्चयति -
न चेति ।
सत्यपि तत्त्वज्ञाने कर्मणां कर्तव्यत्वात् न कर्तव्यसमाप्तिः इति आशङ्क्याह -
सर्वमिति ।
तत्त्वज्ञाने कृतार्थतेति तत्र मनोरपि संमतिमाह -
एतद्धीति ।
भारतेति सम्बोधनतात्पर्यमाह -
यत इति ।
तदनेन आत्मनो देहाद्यतिरिक्तत्वं चिद्रूपत्वं सर्वात्मत्वं कार्यकारणविनिर्मुक्तत्वेन अप्रपञ्चत्वं तस्य अखण्डैकरसब्रह्मात्मत्वज्ञानात् अशेषपुरुषार्थपरिसमाप्तिरित्युक्तम्
॥ २० ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने पञ्चदशोऽध्यायः
॥ १५ ॥