अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

षोडशोऽध्यायः

व्यवहितेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति-
दैवीति ।
दैवी सूचिता, “राक्षसीं आसुरीं चैव प्रकृतिं मोहिनीम्" इत्यादौ इति शेषः ।

प्रकृतीनां विस्तरेण दर्शनं कुत्र उपयोगि इति आशङ्क्य, विभज्य उपयोगं आह -
संसारेति ।

अतीते च अध्याये “कर्मानुबन्धीनि अधश्च मूलानि अनु­स­न्त­तानि" इत्यत्र कर्मव्यङ्ग्याः वासनाः संसारस्य अवान्तरमूलत्वेन उक्ताः । ताः मनुष्यदेहे प्राग्भ­वी­य­क­र्मा­नु­सा­रेण व्यज्यमानाः सात्त्वि­का­दि­भे­देन दैव्या­दि­प्र­कृ­ति­त्र­य­त्वेन विभक्ताः विस्तितीर्षुः भगवान् उक्तवान् इत्याह -
भगवानिति ।

अभीरुता - शास्त्रोपदिष्टे अर्थे सन्देहं हित्वा अनु­ष्ठा­न­नि­ष्ठ­त्वम् । परवञ्चना - परस्य व्याजेन वशीकरणम् । माया - हृदये अन्यथा कृत्वा बहिः अन्यथा व्यवहरणम् । अनृतं - अयथादृष्टकथनम् । आदिपदेन विप्र­ल­म्भा­दि­ग्रहः उक्तं अर्थं सङ्क्षिप्य आह -
शुद्धेति ।
एषा इति अभयाद्या ज्ञाना­दि­स्थि­त्यन्ता त्रिधा उक्ता इति यावत् ।

तामेव सात्त्विकीं प्रकृतिं प्रकटयति -
यत्रेति ।
ज्ञाने कर्मणि वा अधिकृतानां अभीरुताद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी सम्पत् इत्यर्थः ।

महाभाग्यानां अत्युत्तमा दैवी सम्पत् उक्ता । सम्प्रति सर्वेषां यथासम्भवं सम्पदं व्यपदिशति -
दानमिति ।

बाह्यकरणविशेषे कारणम् आह -
अन्तःकरणस्येति ।
देवयज्ञादिः इति आदिशब्देन पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्च इति त्रयम् उक्तम् । बह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्
॥ १ ॥

दैवीं सम्पदमभिजातस्य विशेषणान्तराणि दर्शयति -
किं चेति ।

त्यागशब्देन दानं कस्मात् न उच्यते ? तत्र आह -
पूर्वमिति ।
लज्जा - अका­र्य­नि­वृ­त्ति­हे­तु­ग­र्हा­नि­मित्ता मनोवृत्तिः
॥ २ ॥

दैवी सम्पदं प्राप्तस्य विशेषणान्तराणि अपि सन्ति इति आह -
किञ्चेति ।

व्यावर्त्यं कीर्तयति -
नेति ।
अध्या­त्मा­धि­का­रात् इति शेषः ।

क्षमाऽक्रोधयोः एकार्थत्वेन पौनरुक्त्यं आशङ्क्य परिहरति -
उत्पन्नायाम् इति ।

तयोः एवं विशेषात् अपौनरुक्त्यं फलति इति आह -
इत्थम् इति ।

वृत्तिविशेषमेव विशदयति -
येनेति ।

शौचस्य द्वैविध्यमेव प्रकटयति -
मृज्जलेत्यादिना ।

नैर्मल्यमेव स्फोरयति -
मायेति ।

उक्तम् उपसंहरति -
एवमिति ।

अति­मा­नि­त्वा­भा­व­मेव व्यनक्ति -
आत्मनः इति ।

कस्य एतानि विशेषणानि इति अपेक्षायां आह -
भवन्तीति ।

साधकस्य मनु­ष्य­दे­ह­स्थ­स्यैव कथं दैवीं सम्पदं अभिलक्ष्य जातत्वम् ? इति आशङ्क्य आह -
दैवीति
॥ ३ ॥

आदेयत्वेन दैवीं सम्पदं उक्त्वा हेयत्वेन आसुरीं सम्पदं आह -
अथेति ।

उत्सेकः - मदः महदवधीरणाहेतुः । आत्मनि उत्कृ­ष्ट­त्वा­ध्या­रोपः अतिमानः । क्रोधस्तु कोपापरपर्यायः स्वप­रा­प­का­र­प्र­वृ­त्ति­हेतुः नेत्रा­दि­वि­का­र­लिङ्गः अन्तः­क­र­ण­वृ­त्ति­वि­शेषः । परुषः निष्ठुरः प्रत्य­क्ष­रू­क्ष­वाक् , तस्य भावः पारुष्यम् । तत् उदाहरति -
यथेति ।
तां अभिजातस्य दम्भादीनि अज्ञानान्तानि भवन्ति इति अनुषज्यते
॥ ४ ॥

कार्यं फलविभागः । आसुरी इति उपलक्षणं राक्षसी चेति द्रष्टव्यं इत्याह -
तथेति ।

फलविभागे सम्पदोः एवं उक्ते, प्रतीत्य अर्जुनस्य अभिप्रायं, भगवतो वचनं इत्याह -
तत्रेति ।

तत्र आभिजात्यं हेतुं करोति -
पाण्डवेति
॥ ५ ॥

निर्दयानां रक्षसां सम्पत् तृतीया अस्ति, सा कस्मात् न उक्ता इति आशङ्क्य आसुर्यां अन्तर्भावात् इत्याह -
द्वाविति ।

भूतानां द्वैविध्ये मानत्वेन उदू­गी­थ­ब्रा­ह्म­णम् उदाहरति -
द्वया हेति ।

सम्प­द्द्व­य­यु­तेभ्यः अतिरिक्तानां अपि प्राणिभेदानां सम्भवात् कुतः भूतानां द्वित्वनियतिः ? इति आशङ्क्य आह -
सर्वेषामिति
॥ ६ ॥

ननु अध्यायशेषेण आसु­र­स­म्प­द्द­र्शनं अयुक्तं, तस्याः त्याज्य­त्वे­न­प­ङ्क­प्र­क्षा­ल­न­न्या­या­व­ता­रात् इति आशङ्क्य आह -
प्रत्य­क्षी­क­र­णे­नेति ।

वर्जनीयां आसुरीं सम्पदं विवृणोति -
प्रवृत्तिं चेति ।
तां विहितां प्रवृत्तिं न जानन्ति इत्यर्थः । तां च निषिद्धां क्रियां न जानन्ति इति सम्बन्धः ।

न शौचम् इत्यादेः तात्पर्यं आह -
अनाचारा इति ।
शौचसत्ययोः आचा­रा­न्त­र्भा­वेऽपि बाह्म­ण­प­रि­व्रा­ज­क­न्या­येन पृथक् उपादानम्
॥ ७ ॥

आसुराणां जनानां विशे­ष­णा­न्त­रा­ण्यपि सन्ति इत्याह -
किं चेति ।
विद्यते इत्याहुः इति पूर्वेण सबन्धः ।

शास्त्रैकगम्यम् अदृष्टं निमि­त्ती­कृ­त्य­प्र­कृ­त्य­धि­ष्ठा­त्रा­त्म­केन ब्रह्मणा रहितं जगत् इष्यते चेत् , कथं तदुत्पत्तिः इति आशङ्क्य आह -
किं चेति ।

किमन्यत् इत्यादेः आक्षेपस्य तात्पर्यं आह -
न किञ्चिदिति
॥ ८ ॥

यथा उक्ता दृष्टिः ब्रह्मदृष्टिवत् इष्टैव इति आशङ्क्य आह -
एतामिति ।
प्राक् उपदिष्टां एतां लोकायतिकदृष्टिं अवलम्ब्य इति यावत् ।

नष्टस्वभावत्वं एव स्पष्टयति -
विभ्रष्टेति ।
विषयबुद्धेः अल्पत्वं दृष्ट­मा­त्रो­द्दे­शेन प्रवृत्तत्वम् । जगतः प्राणिजातस्य इति यावत्
॥ ९ ॥

तानेव दुराचारान् आसुरान् प्रकारान्तरेण विशिनष्टि -
ते चेति
॥ १० ॥

तानेव विधान्तरेण विशिनष्टि -
किं चेति ।
चिन्तां - आत्मी­य­यो­ग­क्षे­मो­पा­या­लो­च­ना­त्मिकां अप­रि­मे­य­वि­ष­य­त्वात् परिमातुं अशक्यां आश्रिताः इति सम्बन्धः ।

एषः कामोपभोगः परं अयनं सुखस्य इति एतावत् , पारत्रिकं तु नास्ति सुखं इति निश्चयवन्तः इत्याह -
एतावदिति
॥ ११ ॥

आसुरानेव पुनः विशिनष्टि -
आशेति ।

अश­क्यो­पा­या­र्थ­वि­षयाः अन­व­ग­तो­पा­या­र्थ­वि­षयाः वा प्रार्थनाः आशाः, ताः पाशः इव पाशाः, तेषां शतैः बद्धाः इव, श्रेयसः प्रच्याव्य इतः ततः नीयमानाः इत्याह -
आशा एवेति
॥ १२ ॥

तेषां अभिप्रायोऽपि विवेकविरोधी इत्याह -
ईदृशश्चेति ।
द्रव्यं गोहिरण्यादि । इदं - अन्यत् बुद्धौ प्रार्थ्य­मा­न­त्वेन विपरिवर्तमानं इति एतत्
॥ १३ ॥

यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुः अपि न सम्भवति इत्याह -
असाविति ।

त्वत्तो विहीनानां त्वया परिभवेऽपि, त्वत्तुल्यानां शत्रूणां परिभवो निश्चितो न भवति इति आशङ्क्य आह -
सर्वथेति ।

ऐश्व­र्या­ति­रे­केऽपि कुतः तेषां भोगसामर्थ्यम् इति आशङ्क्य आह -
अहमिति ।

सिद्धत्वमेव स्फुटयति -
सम्पन्न इति ।
बलवान् - ओजस्वी । सुखी - रोगरहितः
॥ १४ ॥

विद्या­वृ­त्त­ध­ना­भि­जनैः मत्तुल्यः नास्ति इत्याह -
आढ्यः इति ।

तथापि यागदानाभ्यां तत्फलेन वा कश्चित् अधिकः भविष्यति इति आशङ्क्य आह -
किञ्चेति ।

न च तेषां एषः अभिप्रायः साधीयान् इत्याह -
इत्येवमिति
॥ १५ ॥

उक्त­प्र­का­र­वि­प­र्य­येण कृत्या­कृ­त्य­वि­वे­क­वि­क­लानां किं स्यात् ? इति अपेक्षायां आह -
अनेकेति ।
कामाः - विषयाः, तेषां भोगेषु - तत्प्रयुक्तेषु उपभोगेषु इति यावत्
॥ १६ ॥

ननु तेषामपि केषाञ्चित् वैदिके कर्मणि यागदानादौ प्रवृ­त्ति­प्र­ति­पत्तेः अयुक्तं वैतरण्यादौ पतनं इति चेत् , तत्र आह -
आत्मेति
॥ १७ ॥

आसुरीसम्पदं अभिजातैः अधर्मजातमेव सञ्चीयते, प्रवृत्तैरपि वैदिके कर्मणि, नैव पुण्यं इति उक्तम् । ब्रह्मज्ञानात् पुनः आसुराः दूरादेव उद्विजन्ते इति आह -
अहङ्कारमिति ।

अहङ्कारमेव स्फोरयति -
विद्यमानैरिति ।

अध्या­रो­पि­त­वै­शि­ष्ट्य­वि­ष­य­त्वात् अहङ्कारस्य अविद्यामूलत्वेन अविद्यात्मत्वं आह -
अविद्याख्य इति ।

विवेकिभिः तस्य अतियत्नादेव हेयत्वं सूचयति -
कष्टतम इति ।

तदेव स्पष्टयति -
सर्वेति ।
तं संश्रिताः इति सम्बन्धः ।

कर्या­क­र­ण­सा­मर्थ्यं उक्तविशेषणं बलम् । अहङ्कार एव मह­द­व­धी­र­णा­प­र्य­न्त­त्वेन परिणतः दर्पः । तं व्याकरोति -
नामेत्यादिना ।

अन्यांश्च दोषान् मात्सर्यादीन् । न केवलं उक्तमेव तेषां विशेषणम् , किन्तु कष्टतमं अस्ति विशेषणान्तरं इति आह -
किञ्चेति ।

यद्यपि ईश्वरं प्रति द्वेषः तेषां सम्भाव्यते, तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषः ? न हि तत्र भोक्तारं अन्तरेण ईश्वरस्य अवस्थानम् इति आशङ्क्य आह-
तद्बुद्धीति ।

तेषां ईश्वरं प्रति द्वेषमेव प्रकटयति -
मच्छासनेति ।
ईश्वरस्य शासनं - श्रुतिसमृतिरूपं तदतिवर्तित्वं - तदु­क्ता­र्थ­ज्ञा­ना­नु­ष्ठा­न­प­रा­ङ्मु­ख­त्वम्
॥ १८ ॥

तेषां उक्तविशेषणवतां आसुराणां किं स्यात् इति तत् आह -
तानिति ।

भगवतः नैर्घृ­ण्य­प्र­सङ्गं प्रत्यादिशति -
अधर्मेति
॥ १९ ॥

ननु तेषामपि क्रमेण बहूनां जन्मनां अन्ते श्रेयः भविष्यति ? न इति आह -
आसुरीमिति ।

तेषां ईश्व­र­प्रा­प्ति­श­ङ्का­भावे कथं तन्निषेधः स्यात् ? इति आशङ्क्य आह -
मामित्यादिना ।
यस्मात् आसुरी सम्पत् अनर्थपरम्परया सर्व­पु­रु­षा­र्थ­प­रि­प­न्थिनी, तस्मात् यावत् पुरुषः स्वतन्त्रः न काञ्चित् पारवश्यकरीं योनिम् आपन्नः, तावदेव तेन असौ परिहरणीया इति समुदायार्थः
॥ २० ॥

कथं आसुरी सम्पत् अनन्तभेदवती पुरुषायुषेणापि परिहर्तुं शक्येत इति आशङ्क्य आह -
सर्वस्या इति ।

सङ्क्षे­पो­क्ति­फलं आह -
यस्मिन्निति ।

कामादौ त्रिविधे सर्वस्य आसु­र­स­म्प­द्भे­दस्य अन्तर्भावेऽपि, कथं असौ परिह्रियते ? तत्र आह -
यत्परिहारेणेति ।

कामादिपरिहारेण आसु­री­स­म्प­द्भे­द­प­रि­हा­रेऽपि कथं सर्वा­न­र्थ­प­रि­व­र्जनं इति आशङ्क्य आह -
यन्मूलमिति ।

कथं आत्मनः नित्यस्य नाशशङ्का ? इति, तत्र आह -
कस्मैचिदिति ।

त्रिविधमपि सामान्यतः दर्शितं आकाङ्क्षाद्वारा विशेषतः दर्शयति -
किं तदिति ।

तस्मात् इति व्याचष्टे -
यत इति ।
कामादित्यागे सति, अन­र्था­च­र­ण­श्रे­यः­प्र­ति­ब­न्ध­नि­वृत्ती स्यातां इति भावः
॥ २१ ॥

न केवलं श्रेयः समाचरन् आसुरीं च सम्पदं वर्जयन् मोक्षमेव सम्यग्धीद्वारा लभते किन्तु लौकिकमपि सुखं इतिअपेः अर्थः
॥ २२ ॥

आसुर्याः सम्पदः वर्जने श्रेयसश्च करणे किं कारणम् ? तत् आह -
सर्वस्येति ।

तस्य कारणत्वं साधयति -
शास्त्रेति ।

उक्तं उपजीव्य अनन्तरश्लोकं प्रवर्तयति -
अत इति ।

शिष्यते - अनुशिष्यते बोध्यते अनेन अपूर्वः अर्थः इति शास्त्रम् । तच्च विधि­नि­षे­धा­त्म­कम् इति उपेत्य व्याचष्टे -
कर्तव्येति ।

कामस्य करणं कामकारः, तस्मात् हेतोः इति उपेत्य कामाधीना शास्त्रविमुखस्य प्रवृत्तिः इति आह -
कामेति ।

कामा­धी­न­प्र­वृत्तेः सदा पुमर्थयोग्यस्य सर्व­पु­रु­षा­र्थ­सिद्धिः इत्याह -
नापीति
॥ २३ ॥

शास्त्रात् ऋते कर्मणः निष्फलत्वे फलितं आह -
तस्मादिति ।

कर्त­व्या­क­र्तव्यौ धर्माधर्मौ तत्र शास्त्रस्य प्रमाणत्वेऽपि मम किं कर्तव्यं इति आशङ्क्य आह -
अत इति ।
स्वकर्म - क्षत्रियस्य युद्धादि । इतिशब्दः अध्या­य­स­मा­प्त्यर्थः । तत् अनेन अध्यायेन प्राग­भ­वी­य­क­र्म­वा­स­ना­नु­सा­रेण अभि­व्य­ज्य­मा­न­सा­त्त्वि­का­दि­प्र­कृ­ति­त्र­य­वि­भा­गेन दैवी आसुरी इति सम्पद्द्वयं आदानहानाभ्यां उपदिश्य कामक्रोधलोभान् अपहाय पुरुषर्थिना शास्त्रश्रवणेन तदुक्तकारिणा भवितव्यमिति निर्धारितम्
॥ २४ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - वि रचिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने षोडशोऽध्यायः
॥ १६ ॥