आनन्दगिरिटीका (गीताभाष्य)
षोडशोऽध्यायः
व्यवहितेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति-
दैवीति ।
दैवी सूचिता, “राक्षसीं आसुरीं चैव प्रकृतिं मोहिनीम्" इत्यादौ इति शेषः ।
प्रकृतीनां विस्तरेण दर्शनं कुत्र उपयोगि इति आशङ्क्य, विभज्य उपयोगं आह -
संसारेति ।
अतीते च अध्याये “कर्मानुबन्धीनि अधश्च मूलानि अनुसन्ततानि" इत्यत्र कर्मव्यङ्ग्याः वासनाः संसारस्य अवान्तरमूलत्वेन उक्ताः । ताः मनुष्यदेहे प्राग्भवीयकर्मानुसारेण व्यज्यमानाः सात्त्विकादिभेदेन दैव्यादिप्रकृतित्रयत्वेन विभक्ताः विस्तितीर्षुः भगवान् उक्तवान् इत्याह -
भगवानिति ।
अभीरुता - शास्त्रोपदिष्टे अर्थे सन्देहं हित्वा अनुष्ठाननिष्ठत्वम् । परवञ्चना - परस्य व्याजेन वशीकरणम् । माया - हृदये अन्यथा कृत्वा बहिः अन्यथा व्यवहरणम् । अनृतं - अयथादृष्टकथनम् । आदिपदेन विप्रलम्भादिग्रहः उक्तं अर्थं सङ्क्षिप्य आह -
शुद्धेति ।
एषा इति अभयाद्या ज्ञानादिस्थित्यन्ता त्रिधा उक्ता इति यावत् ।
तामेव सात्त्विकीं प्रकृतिं प्रकटयति -
यत्रेति ।
ज्ञाने कर्मणि वा अधिकृतानां अभीरुताद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी सम्पत् इत्यर्थः ।
महाभाग्यानां अत्युत्तमा दैवी सम्पत् उक्ता । सम्प्रति सर्वेषां यथासम्भवं सम्पदं व्यपदिशति -
दानमिति ।
बाह्यकरणविशेषे कारणम् आह -
अन्तःकरणस्येति ।
देवयज्ञादिः इति आदिशब्देन पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्च इति त्रयम् उक्तम् । बह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्
॥ १ ॥
दैवीं सम्पदमभिजातस्य विशेषणान्तराणि दर्शयति -
किं चेति ।
त्यागशब्देन दानं कस्मात् न उच्यते ? तत्र आह -
पूर्वमिति ।
लज्जा - अकार्यनिवृत्तिहेतुगर्हानिमित्ता मनोवृत्तिः
॥ २ ॥
दैवी सम्पदं प्राप्तस्य विशेषणान्तराणि अपि सन्ति इति आह -
किञ्चेति ।
व्यावर्त्यं कीर्तयति -
नेति ।
अध्यात्माधिकारात् इति शेषः ।
क्षमाऽक्रोधयोः एकार्थत्वेन पौनरुक्त्यं आशङ्क्य परिहरति -
उत्पन्नायाम् इति ।
तयोः एवं विशेषात् अपौनरुक्त्यं फलति इति आह -
इत्थम् इति ।
वृत्तिविशेषमेव विशदयति -
येनेति ।
शौचस्य द्वैविध्यमेव प्रकटयति -
मृज्जलेत्यादिना ।
नैर्मल्यमेव स्फोरयति -
मायेति ।
उक्तम् उपसंहरति -
एवमिति ।
अतिमानित्वाभावमेव व्यनक्ति -
आत्मनः इति ।
कस्य एतानि विशेषणानि इति अपेक्षायां आह -
भवन्तीति ।
साधकस्य मनुष्यदेहस्थस्यैव कथं दैवीं सम्पदं अभिलक्ष्य जातत्वम् ? इति आशङ्क्य आह -
दैवीति
॥ ३ ॥
आदेयत्वेन दैवीं सम्पदं उक्त्वा हेयत्वेन आसुरीं सम्पदं आह -
अथेति ।
उत्सेकः - मदः महदवधीरणाहेतुः । आत्मनि उत्कृष्टत्वाध्यारोपः अतिमानः । क्रोधस्तु कोपापरपर्यायः स्वपरापकारप्रवृत्तिहेतुः नेत्रादिविकारलिङ्गः अन्तःकरणवृत्तिविशेषः । परुषः निष्ठुरः प्रत्यक्षरूक्षवाक् , तस्य भावः पारुष्यम् । तत् उदाहरति -
यथेति ।
तां अभिजातस्य दम्भादीनि अज्ञानान्तानि भवन्ति इति अनुषज्यते
॥ ४ ॥
कार्यं फलविभागः । आसुरी इति उपलक्षणं राक्षसी चेति द्रष्टव्यं इत्याह -
तथेति ।
फलविभागे सम्पदोः एवं उक्ते, प्रतीत्य अर्जुनस्य अभिप्रायं, भगवतो वचनं इत्याह -
तत्रेति ।
तत्र आभिजात्यं हेतुं करोति -
पाण्डवेति
॥ ५ ॥
निर्दयानां रक्षसां सम्पत् तृतीया अस्ति, सा कस्मात् न उक्ता इति आशङ्क्य आसुर्यां अन्तर्भावात् इत्याह -
द्वाविति ।
भूतानां द्वैविध्ये मानत्वेन उदूगीथब्राह्मणम् उदाहरति -
द्वया हेति ।
सम्पद्द्वययुतेभ्यः अतिरिक्तानां अपि प्राणिभेदानां सम्भवात् कुतः भूतानां द्वित्वनियतिः ? इति आशङ्क्य आह -
सर्वेषामिति
॥ ६ ॥
ननु अध्यायशेषेण आसुरसम्पद्दर्शनं अयुक्तं, तस्याः त्याज्यत्वेनपङ्कप्रक्षालनन्यायावतारात् इति आशङ्क्य आह -
प्रत्यक्षीकरणेनेति ।
वर्जनीयां आसुरीं सम्पदं विवृणोति -
प्रवृत्तिं चेति ।
तां विहितां प्रवृत्तिं न जानन्ति इत्यर्थः । तां च निषिद्धां क्रियां न जानन्ति इति सम्बन्धः ।
न शौचम् इत्यादेः तात्पर्यं आह -
अनाचारा इति ।
शौचसत्ययोः आचारान्तर्भावेऽपि बाह्मणपरिव्राजकन्यायेन पृथक् उपादानम्
॥ ७ ॥
आसुराणां जनानां विशेषणान्तराण्यपि सन्ति इत्याह -
किं चेति ।
विद्यते इत्याहुः इति पूर्वेण सबन्धः ।
शास्त्रैकगम्यम् अदृष्टं निमित्तीकृत्यप्रकृत्यधिष्ठात्रात्मकेन ब्रह्मणा रहितं जगत् इष्यते चेत् , कथं तदुत्पत्तिः इति आशङ्क्य आह -
किं चेति ।
किमन्यत् इत्यादेः आक्षेपस्य तात्पर्यं आह -
न किञ्चिदिति
॥ ८ ॥
यथा उक्ता दृष्टिः ब्रह्मदृष्टिवत् इष्टैव इति आशङ्क्य आह -
एतामिति ।
प्राक् उपदिष्टां एतां लोकायतिकदृष्टिं अवलम्ब्य इति यावत् ।
नष्टस्वभावत्वं एव स्पष्टयति -
विभ्रष्टेति ।
विषयबुद्धेः अल्पत्वं दृष्टमात्रोद्देशेन प्रवृत्तत्वम् । जगतः प्राणिजातस्य इति यावत्
॥ ९ ॥
तानेव दुराचारान् आसुरान् प्रकारान्तरेण विशिनष्टि -
ते चेति
॥ १० ॥
तानेव विधान्तरेण विशिनष्टि -
किं चेति ।
चिन्तां - आत्मीययोगक्षेमोपायालोचनात्मिकां अपरिमेयविषयत्वात् परिमातुं अशक्यां आश्रिताः इति सम्बन्धः ।
एषः कामोपभोगः परं अयनं सुखस्य इति एतावत् , पारत्रिकं तु नास्ति सुखं इति निश्चयवन्तः इत्याह -
एतावदिति
॥ ११ ॥
आसुरानेव पुनः विशिनष्टि -
आशेति ।
अशक्योपायार्थविषयाः अनवगतोपायार्थविषयाः वा प्रार्थनाः आशाः, ताः पाशः इव पाशाः, तेषां शतैः बद्धाः इव, श्रेयसः प्रच्याव्य इतः ततः नीयमानाः इत्याह -
आशा एवेति
॥ १२ ॥
तेषां अभिप्रायोऽपि विवेकविरोधी इत्याह -
ईदृशश्चेति ।
द्रव्यं गोहिरण्यादि । इदं - अन्यत् बुद्धौ प्रार्थ्यमानत्वेन विपरिवर्तमानं इति एतत्
॥ १३ ॥
यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुः अपि न सम्भवति इत्याह -
असाविति ।
त्वत्तो विहीनानां त्वया परिभवेऽपि, त्वत्तुल्यानां शत्रूणां परिभवो निश्चितो न भवति इति आशङ्क्य आह -
सर्वथेति ।
ऐश्वर्यातिरेकेऽपि कुतः तेषां भोगसामर्थ्यम् इति आशङ्क्य आह -
अहमिति ।
सिद्धत्वमेव स्फुटयति -
सम्पन्न इति ।
बलवान् - ओजस्वी । सुखी - रोगरहितः
॥ १४ ॥
विद्यावृत्तधनाभिजनैः मत्तुल्यः नास्ति इत्याह -
आढ्यः इति ।
तथापि यागदानाभ्यां तत्फलेन वा कश्चित् अधिकः भविष्यति इति आशङ्क्य आह -
किञ्चेति ।
न च तेषां एषः अभिप्रायः साधीयान् इत्याह -
इत्येवमिति
॥ १५ ॥
उक्तप्रकारविपर्ययेण कृत्याकृत्यविवेकविकलानां किं स्यात् ? इति अपेक्षायां आह -
अनेकेति ।
कामाः - विषयाः, तेषां भोगेषु - तत्प्रयुक्तेषु उपभोगेषु इति यावत्
॥ १६ ॥
ननु तेषामपि केषाञ्चित् वैदिके कर्मणि यागदानादौ प्रवृत्तिप्रतिपत्तेः अयुक्तं वैतरण्यादौ पतनं इति चेत् , तत्र आह -
आत्मेति
॥ १७ ॥
आसुरीसम्पदं अभिजातैः अधर्मजातमेव सञ्चीयते, प्रवृत्तैरपि वैदिके कर्मणि, नैव पुण्यं इति उक्तम् । ब्रह्मज्ञानात् पुनः आसुराः दूरादेव उद्विजन्ते इति आह -
अहङ्कारमिति ।
अहङ्कारमेव स्फोरयति -
विद्यमानैरिति ।
अध्यारोपितवैशिष्ट्यविषयत्वात् अहङ्कारस्य अविद्यामूलत्वेन अविद्यात्मत्वं आह -
अविद्याख्य इति ।
विवेकिभिः तस्य अतियत्नादेव हेयत्वं सूचयति -
कष्टतम इति ।
तदेव स्पष्टयति -
सर्वेति ।
तं संश्रिताः इति सम्बन्धः ।
कर्याकरणसामर्थ्यं उक्तविशेषणं बलम् । अहङ्कार एव महदवधीरणापर्यन्तत्वेन परिणतः दर्पः । तं व्याकरोति -
नामेत्यादिना ।
अन्यांश्च दोषान् मात्सर्यादीन् । न केवलं उक्तमेव तेषां विशेषणम् , किन्तु कष्टतमं अस्ति विशेषणान्तरं इति आह -
किञ्चेति ।
यद्यपि ईश्वरं प्रति द्वेषः तेषां सम्भाव्यते, तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषः ? न हि तत्र भोक्तारं अन्तरेण ईश्वरस्य अवस्थानम् इति आशङ्क्य आह-
तद्बुद्धीति ।
तेषां ईश्वरं प्रति द्वेषमेव प्रकटयति -
मच्छासनेति ।
ईश्वरस्य शासनं - श्रुतिसमृतिरूपं तदतिवर्तित्वं - तदुक्तार्थज्ञानानुष्ठानपराङ्मुखत्वम्
॥ १८ ॥
तेषां उक्तविशेषणवतां आसुराणां किं स्यात् इति तत् आह -
तानिति ।
भगवतः नैर्घृण्यप्रसङ्गं प्रत्यादिशति -
अधर्मेति
॥ १९ ॥
ननु तेषामपि क्रमेण बहूनां जन्मनां अन्ते श्रेयः भविष्यति ? न इति आह -
आसुरीमिति ।
तेषां ईश्वरप्राप्तिशङ्काभावे कथं तन्निषेधः स्यात् ? इति आशङ्क्य आह -
मामित्यादिना ।
यस्मात् आसुरी सम्पत् अनर्थपरम्परया सर्वपुरुषार्थपरिपन्थिनी, तस्मात् यावत् पुरुषः स्वतन्त्रः न काञ्चित् पारवश्यकरीं योनिम् आपन्नः, तावदेव तेन असौ परिहरणीया इति समुदायार्थः
॥ २० ॥
कथं आसुरी सम्पत् अनन्तभेदवती पुरुषायुषेणापि परिहर्तुं शक्येत इति आशङ्क्य आह -
सर्वस्या इति ।
सङ्क्षेपोक्तिफलं आह -
यस्मिन्निति ।
कामादौ त्रिविधे सर्वस्य आसुरसम्पद्भेदस्य अन्तर्भावेऽपि, कथं असौ परिह्रियते ? तत्र आह -
यत्परिहारेणेति ।
कामादिपरिहारेण आसुरीसम्पद्भेदपरिहारेऽपि कथं सर्वानर्थपरिवर्जनं इति आशङ्क्य आह -
यन्मूलमिति ।
कथं आत्मनः नित्यस्य नाशशङ्का ? इति, तत्र आह -
कस्मैचिदिति ।
त्रिविधमपि सामान्यतः दर्शितं आकाङ्क्षाद्वारा विशेषतः दर्शयति -
किं तदिति ।
तस्मात् इति व्याचष्टे -
यत इति ।
कामादित्यागे सति, अनर्थाचरणश्रेयःप्रतिबन्धनिवृत्ती स्यातां इति भावः
॥ २१ ॥
न केवलं श्रेयः समाचरन् आसुरीं च सम्पदं वर्जयन् मोक्षमेव सम्यग्धीद्वारा लभते किन्तु लौकिकमपि सुखं इतिअपेः अर्थः
॥ २२ ॥
आसुर्याः सम्पदः वर्जने श्रेयसश्च करणे किं कारणम् ? तत् आह -
सर्वस्येति ।
तस्य कारणत्वं साधयति -
शास्त्रेति ।
उक्तं उपजीव्य अनन्तरश्लोकं प्रवर्तयति -
अत इति ।
शिष्यते - अनुशिष्यते बोध्यते अनेन अपूर्वः अर्थः इति शास्त्रम् । तच्च विधिनिषेधात्मकम् इति उपेत्य व्याचष्टे -
कर्तव्येति ।
कामस्य करणं कामकारः, तस्मात् हेतोः इति उपेत्य कामाधीना शास्त्रविमुखस्य प्रवृत्तिः इति आह -
कामेति ।
कामाधीनप्रवृत्तेः सदा पुमर्थयोग्यस्य सर्वपुरुषार्थसिद्धिः इत्याह -
नापीति
॥ २३ ॥
शास्त्रात् ऋते कर्मणः निष्फलत्वे फलितं आह -
तस्मादिति ।
कर्तव्याकर्तव्यौ धर्माधर्मौ तत्र शास्त्रस्य प्रमाणत्वेऽपि मम किं कर्तव्यं इति आशङ्क्य आह -
अत इति ।
स्वकर्म - क्षत्रियस्य युद्धादि । इतिशब्दः अध्यायसमाप्त्यर्थः । तत् अनेन अध्यायेन प्रागभवीयकर्मवासनानुसारेण अभिव्यज्यमानसात्त्विकादिप्रकृतित्रयविभागेन दैवी आसुरी इति सम्पद्द्वयं आदानहानाभ्यां उपदिश्य कामक्रोधलोभान् अपहाय पुरुषर्थिना शास्त्रश्रवणेन तदुक्तकारिणा भवितव्यमिति निर्धारितम्
॥ २४ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - वि रचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने षोडशोऽध्यायः
॥ १६ ॥