आनन्दगिरिटीका (गीताभाष्य)
सप्तदशोऽध्यायः
आस्तिकानां नास्तिकानां च शास्त्रैकचक्षुषां गतिः उक्ता । सम्प्रति आस्तिकानामेव शास्रानभिज्ञानां गतिं जिज्ञासया पृच्छति इति आह -
तस्मादिति ।
यजन्ते इति यागग्रहणं दानादेः उपलक्षणम् । यदि वेदोक्तं विधिम् अपश्यन्तः तम् उत्सृजन्ति, कथं तर्हि श्रद्धघानाः यागादि कुर्वन्ति ? न हि मानं विना श्रद्धया यागादि कर्तुं शक्यम् ? इति आशङ्क्य आह -
श्रुतीति ।
ननु शास्त्रीयं विधिं पश्यन्तोऽपि केचित् तम् उपेक्ष्य स्वोत्प्रेक्षया यागादि कुर्वन्तः दृश्यन्ते, तेषाम् इह ये शास्त्रविधिमुत्सृज्य इति ग्राहः भविष्यति ? न इत्याह -
ये पुनरिति ।
तेषाम् अत्र अपरिग्रहे प्रश्नपूर्वकं हेतुम् आह -
कस्मादिति ।
शास्त्रज्ञानं तदुपेक्षावतां ग्रहेऽपि विशेषणम् अविरुद्धम् इति आशङ्क्य व्याघातात् मा एवम् इति आह -
देवादीति ।
अश्रद्धधानतया तत् उत्सृज्य इति सम्बन्धः ।
शास्त्रोक्तं विधिम् अधिगच्छतामपि, तम् अवधीर्य, स्वेच्छया देवपूजादौ प्रवृत्तानाम् आसुरेष्वेव अन्तर्भावः, यस्मात् अनन्तराध्याये सिद्धः, तस्मात् आस्तिकाधिकारे तेषां प्रसङ्गो नास्ति इति उपसंहरति -
यस्मादिति ।
पूर्वोक्ताः शास्त्रानभिज्ञाः । वृद्धव्यवहारानुसारिणः इति यावत् ।
तैः श्रद्धया क्रियमाणं कर्म कुत्र पर्यवस्यति ? इति पृच्छति -
तेषामिति ।
का निष्ठा ? इति एतत् विवृणोति -
सत्त्वमिति ।
कार्याणां कारणैः व्यपदेशम् आश्रित्य तात्पर्यम् आह -
एतदिति
॥ १ ॥
विशेषनिष्ठम् उत्तरं सामान्येन वक्तुं न शक्यम् , इति आशयेन परिहरति -
सामान्येति ।
किमिति श्रद्धात्रैविध्यं प्रश्नानुपयुक्तम् उच्यते, तत्राह -
यस्यामिति ।
श्राद्धपूर्विकायां क्रियायाम् इति यावत् ।
श्रद्धात्रैविध्ये हेतुम् आह -
सा स्वभावजेति ।
स्वभावशब्दार्थं प्रकृतोपयोगितया कथयति -
जन्मान्तरेति ।
कथं त्रिविधा ? इति अपेक्षायाम् आह -
सात्त्विकीत्यादिना ।
कथम् उक्ता श्रद्धा स्वभावजा ? इति तत्र आह -
तामिति
॥ २ ॥
प्राचीनकर्मोद्बोधिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धायाः निमित्तम् इत्युक्तम् । इदानीम् उपादानं तस्याः दर्शयति -
सत्त्वमिति ।
विशिष्टचित्तोपादाना श्रद्धा तत्त्रैविध्ये त्रिविधा इति पूर्वार्धस्य अर्थः ।
कथं निष्ठायाः सात्त्विकादिप्रश्नद्वारा श्रद्धायाः त्रैविध्यनिरूपणम् उपयुक्तम् इति मन्वानः शङ्कते -
यद्येवमिति ।
श्रद्धेयं विषयम् अभिध्यायन् तया तत्रैव वर्तते इति मन्वानः परिहरति -
उच्यते इति ।
श्रद्धामयत्वं प्रश्नपूर्वकं कथयति -
कथमिति ।
श्रद्धा खलु अधिकृते पुरुषे प्राचुर्येण प्रकृता इति तस्य श्रद्धामयत्वसिद्धिः इत्यर्थः
॥ ३ ॥
तथापि कथं सत्त्वादिनिष्ठा यथोक्तस्य पुरुषस्य ज्ञातुं शक्या इति आशङ्क्य आह -
ततश्चेति ।
अधिकृतस्य पुरुषस्य श्रद्धाप्रधानत्वात् इति यावत् । देवाः - वस्वादयः, यक्षाः - कुबेरादयः, रक्षांसि नैर्ऋतादयः । स्वधर्मात् प्रच्युताः विप्रादयः देहपातात् ऊर्ध्वं वायुदेहम् आपन्नाः प्रेताः । एभ्यश्च यथायथम् आराध्यदेवादयः सात्त्विकराजसतामसान् प्रकामान् प्रयच्छन्तीति सामर्थ्यात् अवगन्तव्यम्
॥ ४ ॥
ननु सत्त्वादिनिष्ठाः शास्त्रेण ज्ञातुं शक्यन्ते, कुतः, कार्यलिङ्गकानुमानेन इति, तत्र आह -
एवमिति ।
सत्त्वादिनिष्ठानां जन्तूताम् अवान्तरविशेषं प्रचुरत्वाप्रचुरत्वरूपं दर्शयति -
तत्रेत्यादिना ।
राजसानां तामसानां च प्राचुर्यं प्रश्नद्वारा विवृणोति -
कथमित्यादिना ।
कामश्च काम्यमानविषयः । रागश्च तद्विषयभोगाभिलाषः । तत्कृतं - तत्प्रयुक्तं तन्निमित्तमिति यावत्
॥ ५ ॥
रजोनिष्ठान् प्राधान्येन प्रदर्श्य, तमोनिष्ठान् प्राधान्येन दर्शयति -
कर्शयन्तः इति ।
कथं शरीरादिसाक्षिणम् ईश्वरं प्रति कृशीकरणं प्राणिनां प्रकल्प्यते ? तत्राह -
मदनुशासनेति ।
तेषां विपर्यासनिश्चयवतां परिज्ञानं कुत्र उपयुज्यते ? तत्राह -
परिहरणार्थमिति
॥ ६ ॥
उत्तरश्लोकपूर्वार्धतात्पर्यम् आह -
आहाराणामिति ।
रस्यादिवर्गस्य सात्त्विकपुरुषप्रियत्वं, कट्वादिवर्गस्य राजसप्रियत्वं, यातयामादिवर्गस्य तामसप्रियत्वमिति दर्शनं कुत्र उपयुज्यते ? तत्र आह -
रस्येति ।
श्लोकोत्तरार्धतात्पर्यम् आह -
तथेति ।
आहारत्रैविध्यवत् इति यावत् ।
कथम् एतेषां प्रत्येकं त्रैविध्यम् ? तत्र आह -
तेषाम् इति
॥ ७ ॥
सात्त्विकप्रीतिविषयम् आहारविशेषम् उदाहरति -
आयुरिति ।
आयुः - जीवनं, सत्त्वं - चित्तस्थैर्यम् , वीर्यं वा, बलं - कार्यकरणसामर्थ्यं, आरोग्यं - नीरोगता, सुखं - अन्तः आह्लादः, प्रीतिः - परेषामपि सम्पन्नानां दर्शनात् परमः हर्षः, तासां विवर्धनाः, विवर्धयन्तीति व्युत्पत्तेः । रसोपेताः - रसयितव्याः सरसाः । देहे चिरकालस्थायित्वं - चिरशरीरोपकारहेतुत्वमु
॥ ८ ॥
राजसप्रीतिविषयम् आहारविशेषं दर्शयति -
कट्विति ।
कटुः - तिक्तः, कटुकस्य तीक्ष्णशब्देन उक्तत्वात् ।
रूक्षः - न स्नेहः, विदाही - सन्तापकः । अतिशब्दस्य सर्वत्र योजनमेव अभिनयति -
अतिकटुरिति ।
दुःखं - तात्कालिकी पीडा, इष्टवियोगजं दुःखं - शोकः, आमयः - रोगः
॥ ९ ॥
तामसप्रियम् आहारम् उदाहरति -
यातयाममिति ।
ननु निर्वीर्यं यातयामम् उच्यते, न पुनः सामिपक्वमिति ? न इत्याह -
निर्वीर्यस्येति
॥ १० ॥
हानादानार्थम् आहारत्रैविध्यम् एवं विभज्य क्रमप्राप्तं यज्ञत्रैविध्यं कथयति -
अथेति ।
तत्र सात्त्विकं यज्ञं ज्ञापयति -
अफलेति ।
फलाभिसन्धिं विना यज्ञस्वरूपमेव भाव्यम् इति बुद्ध्या शास्त्रतः अनुष्ठीयमानः यज्ञः सात्त्विकः इत्यर्थः
॥ ११ ॥
राजसं यज्ञं हानार्थं दर्शयति -
अभिसन्धायेति ।
स्वर्गादि उद्दिश्य, धार्मिकत्वख्यापानार्थं च यत् यजनं क्रियते, तं यज्ञं रजसा निर्वृत्तं त्याज्यम् अवगच्छ इत्यर्थः
॥ १२ ॥
तामसं यज्ञं हानार्थमेव उदाहरति -
विधीति
॥ १३ ॥
सात्त्विकादिभावं निरूपयितुं सर्वस्य तपसः स्वरूपं त्रिविधं निरूपयति -
अथेति ।
तत्र शारीरं तपः निर्दिशति -
देवेति ।
देवाः - ब्रह्मविष्णुशिवादयः, द्विजाः - पूज्यत्वात् द्विजोत्तमाः, गुरवः - पित्रादयः, प्राज्ञाः - पण्डिताः विदितवेदितव्याः, तेषां पूजनं - प्रणामशुश्रूषादि । शौचं - मृज्जलाभ्यां शरीरशोधनम् । आर्जवं - ऋजुत्वं, विहितप्रतिषिद्धयोः एकरूपप्रवृत्तिनिवृत्तिमत्वं, ब्रह्मचर्यं - मैथुनासमाचरणं, अहिंसा - प्राणिनाम् अपीडनम् । शरीरमात्रनिर्वर्त्यत्वम् अस्य तपसः सम्भवति इति मत्वा विशिनष्टि -
शरीरेति ।
कथं कर्त्रादि - साध्यत्वे तपसः शारीरत्वम् ? शारीरत्वे वा कथं कर्त्रादिसाध्यत्वम् ? इति आशङ्क्य आह -
पञ्चेति
॥ १४ ॥
सम्प्रति वाङ्मयं तपो व्यपदिशति -
अनुद्वेगकरमिति ।
सत्यं - यथादृष्टार्थवचनं, प्रियं - श्रुतिसुखं, हितं - परिणामपथ्यम् । प्रियहितयोः विधान्तरेण विभागम् आह -
प्रियेति ।
कथम् अत्र विशेषणविशेष्यत्वम् ? तदाह -
अनुद्वेगेति ।
विशेषणानां धर्माणाम् अनुद्वेगकरत्वादीनां विशेष्येण वाक्येन समुदितानां परस्परमपि समुच्चयद्योती चकारः इत्याह -
विशेषणेति ।
किमिति वाक्यम् एतैः विशेष्यते ? किमिति वा तेषां मिथः समुच्चयः ? तत्र आह -
परेति ।
यद्यपि वाक्यमात्रस्य अविशेषितस्य वाङ्मयतपस्त्वानुपपत्तिः, तथापि सत्यवाक्यस्य वाक्यविशेषणान्तराभावेऽपि वाङ्मयत्वम् इति आशङ्क्य आह -
तथेति ।
तथापि परिणामपथ्यं वक्यमात्रं तथा भविष्यति, न इत्याह -
तथा हितेति ।
कीदृक् तर्हि तपः वाङ्मयमिति प्रश्नपूर्वकं विशदयति -
किं पुनरिति ।
विशिष्टे वाङ्मये तपसि दृष्टान्तम् आह -
यथेति ।
प्राङ्मुखत्वं पवित्रपाणित्वम् इत्यादिविधानम् अनतिक्रम्य स्वाध्यायस्य आवर्तनमपि वाङ्मये तपसि अन्तर्भवति इत्याह -
स्वाध्यायेति ।
वाक् प्राचुर्येण प्रस्तुता अस्मिन् इति वाङ्मयं वाकप्रधानम् इत्यर्थः
॥ १५ ॥
मानसं तपः सङ्क्षिपति -
मनः इति ।
प्रशान्तिफलमेव व्यनक्ति -
स्वच्छतेति ।
मनसः स्वाच्छ्यम् अनाकुलता नैश्चिन्त्यम् इत्यर्थः ।
सौमनस्यं - सर्वेभ्यः हितैषित्वम् अहिताचिन्तनं च । तत् कथं गम्यते ? तत्र आह -
मुखादीति ।
तस्य स्वरूपम् आह -
अन्तःकरणस्येति ।
ननु मौनं वाङ्नियमनं वाङ्मये तपसि अन्तर्भवति । तत् कथं मानसे तपसि व्यपदिश्यते ? तत्र वाचः संयमस्य कार्यत्वात् , मनस्संयमस्य कारणत्वात् , कार्येण कारणग्रहणात् , मानसे तपसि मौनम् उक्तम् इत्याह -
वागिति ।
यद्वा मौनं मुनिभावः, मनसः आत्मनो मनसः विनिग्रहः निरोधः ।
नन्वेवं मौनस्य मनोनिग्रहस्य च मनःसंयमत्वेन एकत्वात् पौनरुक्त्यम् ? नेत्याह -
सर्वत इति ।
भावस्य हृदयस्य संशुद्धिः, रागादिमलविकलता इति व्याचष्टे -
परैरिति ।
मानसं - मनसा प्रधानेन निर्वर्त्यम् इति अर्थः
॥ १६ ॥
त्रिविधस्य तपसः यथासम्भवं सात्त्विकादिभावेन तत् त्रैविध्यम् आकाङ्क्षाद्वारा निक्षिपति -
यथोक्तमिति ।
त्र्यधिष्ठानं - देहवाङ्मनोनिर्वर्त्यम् इत्यर्थः । समाहितैः - सिद्ध्यसिद्ध्योः निर्विकारैः इति यावत्
॥ १७ ॥
राजसं तपः निर्दिशति -
सत्कारेति ।
साधुकारमेव आस्फोरयति । साधुरिति- दम्भेन चैव - नास्तिक्येन, केवलधर्मध्वजित्वेन इत्यर्थः । तत् इह प्रोक्तं - अस्मिन्नेव लोके फलप्रदम् इत्यर्थः । कादाचित्कफलत्वं - क्षणिकफलत्वम् । अध्रुवं - अनियतं, अनैकान्तिकफलम् इति यावत्
॥ १८ ॥
तामसं तपः सङ्गृह्णाति -
मूढेति ।
मूढः अत्यन्ताविवेकी, तस्य ग्राहो नाम आग्रहः - अभिनिवेशः, तेन इत्याह -
अविवेकेति ।
आत्मनः - स्वस्य देहादेः इत्यर्थः
॥ १९ ॥
क्रमप्राप्तं दातस्य गुणनिमित्तभेदम् आह -
इदानाीमिति ।
दातव्यम् इति एवं मनः कृत्वा - ‘दानमेव मया भाव्यं, न फलम् ‘ इति अभिसन्धाय इत्यर्थः
॥ २० ॥
राजसतामसदानविभजनं स्पष्टार्थम्
॥ २१ - २२ ॥
विहितानां कर्मणां प्रमादयुक्ते वैगुण्ये कथं परिहारः स्यात् इति आशङ्क्य आह -
यज्ञेति ।
‘ओमिति ब्रह्म’(तै. उ. १-८-१) इत्यादिश्रुतेः ओमिति तावत् ब्रह्मणः नामनिर्देशः । ‘तत्त्वमसि’(छा. उ. ६-८-७) इति श्रुतेः तत् इत्यपि ब्रह्मणः नामनिर्देशः । ‘सदेव सोम्येदम् ‘ इति श्रुतेः सदित्यपि तस्य नाम इति मत्वा आह -
ओमिति ।
कथं निर्देशेन तेषां विधानम् ? इति आशङ्क्य आह -
निर्दिश्यत इति ।
यज्ञादीनां वैगुण्यप्रतीतिकाले यथोक्तनाम्नाम् अन्यतमोच्चारणात् अवैगुण्यं सिध्यतीति भावः ।
कर्मसाद्गुण्यकारणं त्रिविधनाम स्तौति -
ब्राह्मणाः इति ।
पूर्वं - सर्गादौ निर्माणं च प्रजापतिकर्तृकम्
॥ २३ ॥
यस्मात् ब्राह्मणादीनां कारणं, यस्माच्च ब्रह्मणः निर्देशः, तस्मात् इति उपसंहरति -
तस्मादिति ।
ब्रह्मवादिनाम् इत्यत्र ब्रह्म वेदः
॥ २४ ॥
ओंशब्दस्य विनियोगम् उक्त्वा तच्छब्दस्य विनियोगम् आह -
तदित्यादिना
॥ २५ ॥
वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह -
ओन्तच्छब्दयोरिति
॥ २६ ॥
प्रकारान्तरेण सच्छब्दस्य विनियोगम् आह -
यज्ञे इति ।
नामत्रयोच्चारणेन साद्गुण्यं सिद्ध्यति इति प्रकरणार्थम् उपसंहरति -
तदेतदिति
॥ २७ ॥
अश्रद्धान्वितस्यापि कर्मणः नामत्रयोच्चारणात् अवैगुण्ये श्रद्धाप्राधान्यं न स्यात् इति आशङ्क्य आह -
तत्र चेति ।
सप्तमीभ्यां प्रकृतं यज्ञादि गृह्यते । सर्वं यज्ञादि सगुणम् इति शेषः ।
तस्य असत्त्वं साधयति -
मत्प्राप्तीति ।
ऐहिकामुष्मिकं वा फलम् अश्रद्धितेनापि कर्मणा सम्पत्स्यते । कुतः अस्य असत्त्वमिति आशङ्क्य आह -
न चेति ।
तस्य उभयविधफलाहेतुत्वे हेतुम् आह -
साधुभिरिति ।
निन्दन्ति हि साधवः श्रद्धारहितं कर्म । अतः न एतत् उभयफलौपयिकम् इत्यर्थः । तत् अनेन शास्त्रानभिज्ञानामपि श्रद्धावतां श्रद्धया सात्त्विकत्वादित्रैविध्यभाजां राजसतामसाहारादित्यागेन सात्त्विकाहारादिसेवया सत्त्वैकशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्मनामनिर्देशेन परिहरतां परिशुद्धबुद्धीनां श्रवणादिसामग्रीसञ्जाततत्त्वसाक्षात्कारवतां मोक्षोपपत्तिरिति स्थितम्
॥ २८ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवदुगीताशाङ्करभाष्यव्याख्याने सप्तदशोऽध्यायः
॥ २७ ॥