अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

सप्तदशोऽध्यायः

आस्तिकानां नास्तिकानां च शास्त्रै­क­च­क्षुषां गतिः उक्ता । सम्प्रति आस्तिकानामेव शास्रा­न­भि­ज्ञानां गतिं जिज्ञासया पृच्छति इति आह -
तस्मादिति ।

यजन्ते इति यागग्रहणं दानादेः उपलक्षणम् । यदि वेदोक्तं विधिम् अपश्यन्तः तम् उत्सृजन्ति, कथं तर्हि श्रद्धघानाः यागादि कुर्वन्ति ? न हि मानं विना श्रद्धया यागादि कर्तुं शक्यम् ? इति आशङ्क्य आह -
श्रुतीति ।

ननु शास्त्रीयं विधिं पश्यन्तोऽपि केचित् तम् उपेक्ष्य स्वोत्प्रेक्षया यागादि कुर्वन्तः दृश्यन्ते, तेषाम् इह ये शास्त्र­वि­धि­मु­त्सृज्य इति ग्राहः भविष्यति ? न इत्याह -
ये पुनरिति ।

तेषाम् अत्र अपरिग्रहे प्रश्नपूर्वकं हेतुम् आह -
कस्मादिति ।

शास्त्रज्ञानं तदुपेक्षावतां ग्रहेऽपि विशेषणम् अविरुद्धम् इति आशङ्क्य व्याघातात् मा एवम् इति आह -
देवादीति ।
अश्रद्धधानतया तत् उत्सृज्य इति सम्बन्धः ।

शास्त्रोक्तं विधिम् अधिगच्छतामपि, तम् अवधीर्य, स्वेच्छया देवपूजादौ प्रवृत्तानाम् आसुरेष्वेव अन्तर्भावः, यस्मात् अनन्तराध्याये सिद्धः, तस्मात् आस्तिकाधिकारे तेषां प्रसङ्गो नास्ति इति उपसंहरति -
यस्मादिति ।
पूर्वोक्ताः शास्त्रा­न­भिज्ञाः । वृद्ध­व्य­व­हा­रा­नु­सा­रिणः इति यावत् ।

तैः श्रद्धया क्रियमाणं कर्म कुत्र पर्यवस्यति ? इति पृच्छति -
तेषामिति ।

का निष्ठा ? इति एतत् विवृणोति -
सत्त्वमिति ।

कार्याणां कारणैः व्यपदेशम् आश्रित्य तात्पर्यम् आह -
एतदिति
॥ १ ॥

विशेषनिष्ठम् उत्तरं सामान्येन वक्तुं न शक्यम् , इति आशयेन परिहरति -
सामान्येति ।

किमिति श्रद्धा­त्रै­विध्यं प्रश्ना­नु­प­यु­क्तम् उच्यते, तत्राह -
यस्यामिति ।
श्राद्ध­पू­र्वि­कायां क्रियायाम् इति यावत् ।

श्रद्धा­त्रै­विध्ये हेतुम् आह -
सा स्वभावजेति ।

स्वभावशब्दार्थं प्रकृतोपयोगितया कथयति -
जन्मान्तरेति ।

कथं त्रिविधा ? इति अपेक्षायाम् आह -
सात्त्वि­की­त्या­दिना ।

कथम् उक्ता श्रद्धा स्वभावजा ? इति तत्र आह -
तामिति
॥ २ ॥

प्राची­न­क­र्मो­द्बो­धिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धायाः निमित्तम् इत्युक्तम् । इदानीम् उपादानं तस्याः दर्शयति -
सत्त्वमिति ।
विशि­ष्ट­चि­त्तो­पा­दाना श्रद्धा तत्त्रैविध्ये त्रिविधा इति पूर्वार्धस्य अर्थः ।

कथं निष्ठायाः सात्त्वि­का­दि­प्र­श्न­द्वारा श्रद्धायाः त्रैवि­ध्य­नि­रू­प­णम् उपयुक्तम् इति मन्वानः शङ्कते -
यद्येवमिति ।

श्रद्धेयं विषयम् अभिध्यायन् तया तत्रैव वर्तते इति मन्वानः परिहरति -
उच्यते इति ।

श्रद्धामयत्वं प्रश्नपूर्वकं कथयति -
कथमिति ।
श्रद्धा खलु अधिकृते पुरुषे प्राचुर्येण प्रकृता इति तस्य श्रद्धा­म­य­त्व­सिद्धिः इत्यर्थः
॥ ३ ॥

तथापि कथं सत्त्वादिनिष्ठा यथोक्तस्य पुरुषस्य ज्ञातुं शक्या इति आशङ्क्य आह -
ततश्चेति ।
अधिकृतस्य पुरुषस्य श्रद्धा­प्र­धा­न­त्वात् इति यावत् । देवाः - वस्वादयः, यक्षाः - कुबेरादयः, रक्षांसि नैर्ऋतादयः । स्वधर्मात् प्रच्युताः विप्रादयः देहपातात् ऊर्ध्वं वायुदेहम् आपन्नाः प्रेताः । एभ्यश्च यथायथम् आराध्यदेवादयः सात्त्वि­क­रा­ज­स­ता­म­सान् प्रकामान् प्रयच्छन्तीति सामर्थ्यात् अवगन्तव्यम्
॥ ४ ॥

ननु सत्त्वा­दि­निष्ठाः शास्त्रेण ज्ञातुं शक्यन्ते, कुतः, कार्य­लि­ङ्ग­का­नु­मा­नेन इति, तत्र आह -
एवमिति ।

सत्त्वा­दि­नि­ष्ठानां जन्तूताम् अवान्तरविशेषं प्रचु­र­त्वा­प्र­चु­र­त्व­रूपं दर्शयति -
तत्रेत्यादिना ।

राजसानां तामसानां च प्राचुर्यं प्रश्नद्वारा विवृणोति -
कथमित्यादिना ।
कामश्च काम्यमानविषयः । रागश्च तद्वि­ष­य­भो­गा­भि­लाषः । तत्कृतं - तत्प्रयुक्तं तन्निमित्तमिति यावत्
॥ ५ ॥

रजोनिष्ठान् प्राधान्येन प्रदर्श्य, तमोनिष्ठान् प्राधान्येन दर्शयति -
कर्शयन्तः इति ।

कथं शरी­रा­दि­सा­क्षि­णम् ईश्वरं प्रति कृशीकरणं प्राणिनां प्रकल्प्यते ? तत्राह -
मदनुशासनेति ।

तेषां विप­र्या­स­नि­श्च­य­वतां परिज्ञानं कुत्र उपयुज्यते ? तत्राह -
परिहरणार्थमिति
॥ ६ ॥

उत्त­र­श्लो­क­पू­र्वा­र्ध­ता­त्प­र्यम् आह -
आहाराणामिति ।

रस्यादिवर्गस्य सात्त्वि­क­पु­रु­ष­प्रि­यत्वं, कट्वादिवर्गस्य राजसप्रियत्वं, यात­या­मा­दि­व­र्गस्य ताम­स­प्रि­य­त्व­मिति दर्शनं कुत्र उपयुज्यते ? तत्र आह -
रस्येति ।

श्लोको­त्त­रा­र्ध­ता­त्प­र्यम् आह -
तथेति ।
आहा­र­त्रै­वि­ध्य­वत् इति यावत् ।

कथम् एतेषां प्रत्येकं त्रैविध्यम् ? तत्र आह -
तेषाम् इति
॥ ७ ॥

सात्त्वि­क­प्री­ति­वि­ष­यम् आहारविशेषम् उदाहरति -
आयुरिति ।
आयुः - जीवनं, सत्त्वं - चित्तस्थैर्यम् , वीर्यं वा, बलं - कार्य­क­र­ण­सा­मर्थ्यं, आरोग्यं - नीरोगता, सुखं - अन्तः आह्लादः, प्रीतिः - परेषामपि सम्पन्नानां दर्शनात् परमः हर्षः, तासां विवर्धनाः, विवर्धयन्तीति व्युत्पत्तेः । रसोपेताः - रसयितव्याः सरसाः । देहे चिर­का­ल­स्था­यित्वं - चिर­श­री­रो­प­का­र­हे­तु­त्वमु
॥ ८ ॥

राज­स­प्री­ति­वि­ष­यम् आहारविशेषं दर्शयति -
कट्विति ।
कटुः - तिक्तः, कटुकस्य तीक्ष्णशब्देन उक्तत्वात् ।

रूक्षः - न स्नेहः, विदाही - सन्तापकः । अतिशब्दस्य सर्वत्र योजनमेव अभिनयति -
अतिकटुरिति ।
दुःखं - तात्कालिकी पीडा, इष्टवियोगजं दुःखं - शोकः, आमयः - रोगः
॥ ९ ॥

तामसप्रियम् आहारम् उदाहरति -
यातयाममिति ।

ननु निर्वीर्यं यातयामम् उच्यते, न पुनः सामिपक्वमिति ? न इत्याह -
निर्वीर्यस्येति
॥ १० ॥

हानादानार्थम् आहारत्रैविध्यम् एवं विभज्य क्रमप्राप्तं यज्ञत्रैविध्यं कथयति -
अथेति ।

तत्र सात्त्विकं यज्ञं ज्ञापयति -
अफलेति ।
फलाभिसन्धिं विना यज्ञस्वरूपमेव भाव्यम् इति बुद्ध्या शास्त्रतः अनुष्ठीयमानः यज्ञः सात्त्विकः इत्यर्थः
॥ ११ ॥

राजसं यज्ञं हानार्थं दर्शयति -
अभिसन्धायेति ।
स्वर्गादि उद्दिश्य, धार्मि­क­त्व­ख्या­पा­नार्थं च यत् यजनं क्रियते, तं यज्ञं रजसा निर्वृत्तं त्याज्यम् अवगच्छ इत्यर्थः
॥ १२ ॥

तामसं यज्ञं हानार्थमेव उदाहरति -
विधीति
॥ १३ ॥

सात्त्वि­का­दि­भावं निरूपयितुं सर्वस्य तपसः स्वरूपं त्रिविधं निरूपयति -
अथेति ।

तत्र शारीरं तपः निर्दिशति -
देवेति ।

देवाः - ब्रह्म­वि­ष्णु­शि­वा­दयः, द्विजाः - पूज्यत्वात् द्विजोत्तमाः, गुरवः - पित्रादयः, प्राज्ञाः - पण्डिताः विदि­त­वे­दि­तव्याः, तेषां पूजनं - प्रणा­म­शु­श्रू­षादि । शौचं - मृज्जलाभ्यां शरीरशोधनम् । आर्जवं - ऋजुत्वं, विहि­त­प्र­ति­षि­द्धयोः एक­रू­प­प्र­वृ­त्ति­नि­वृ­त्ति­मत्वं, ब्रह्मचर्यं - मैथुनासमाचरणं, अहिंसा - प्राणिनाम् अपीडनम् । शरी­र­मा­त्र­नि­र्व­र्त्य­त्वम् अस्य तपसः सम्भवति इति मत्वा विशिनष्टि -
शरीरेति ।

कथं कर्त्रादि - साध्यत्वे तपसः शारीरत्वम् ? शारीरत्वे वा कथं कर्त्रा­दि­सा­ध्य­त्वम् ? इति आशङ्क्य आह -
पञ्चेति
॥ १४ ॥

सम्प्रति वाङ्मयं तपो व्यपदिशति -
अनुद्वेगकरमिति ।

सत्यं - यथा­दृ­ष्टा­र्थ­व­चनं, प्रियं - श्रुतिसुखं, हितं - परिणामपथ्यम् । प्रियहितयोः विधान्तरेण विभागम् आह -
प्रियेति ।

कथम् अत्र विशे­ष­ण­वि­शे­ष्य­त्वम् ? तदाह -
अनुद्वेगेति ।

विशेषणानां धर्माणाम् अनु­द्वे­ग­क­र­त्वा­दीनां विशेष्येण वाक्येन समुदितानां परस्परमपि समुच्चयद्योती चकारः इत्याह -
विशेषणेति ।

किमिति वाक्यम् एतैः विशेष्यते ? किमिति वा तेषां मिथः समुच्चयः ? तत्र आह -
परेति ।

यद्यपि वाक्यमात्रस्य अविशेषितस्य वाङ्म­य­त­प­स्त्वा­नु­प­पत्तिः, तथापि सत्यवाक्यस्य वाक्य­वि­शे­ष­णा­न्त­रा­भा­वेऽपि वाङ्मयत्वम् इति आशङ्क्य आह -
तथेति ।

तथापि परिणामपथ्यं वक्यमात्रं तथा भविष्यति, न इत्याह -
तथा हितेति ।

कीदृक् तर्हि तपः वाङ्मयमिति प्रश्नपूर्वकं विशदयति -
किं पुनरिति ।

विशिष्टे वाङ्मये तपसि दृष्टान्तम् आह -
यथेति ।

प्राङ्मुखत्वं पवित्रपाणित्वम् इत्यादिविधानम् अनतिक्रम्य स्वाध्यायस्य आवर्तनमपि वाङ्मये तपसि अन्तर्भवति इत्याह -
स्वाध्यायेति ।
वाक् प्राचुर्येण प्रस्तुता अस्मिन् इति वाङ्मयं वाकप्रधानम् इत्यर्थः
॥ १५ ॥

मानसं तपः सङ्क्षिपति -
मनः इति ।

प्रशान्तिफलमेव व्यनक्ति -
स्वच्छतेति ।
मनसः स्वाच्छ्यम् अनाकुलता नैश्चिन्त्यम् इत्यर्थः ।

सौमनस्यं - सर्वेभ्यः हितैषित्वम् अहिताचिन्तनं च । तत् कथं गम्यते ? तत्र आह -
मुखादीति ।

तस्य स्वरूपम् आह -
अन्तःकरणस्येति ।

ननु मौनं वाङ्नियमनं वाङ्मये तपसि अन्तर्भवति । तत् कथं मानसे तपसि व्यपदिश्यते ? तत्र वाचः संयमस्य कार्यत्वात् , मनस्संयमस्य कारणत्वात् , कार्येण कारणग्रहणात् , मानसे तपसि मौनम् उक्तम् इत्याह -
वागिति ।
यद्वा मौनं मुनिभावः, मनसः आत्मनो मनसः विनिग्रहः निरोधः ।

नन्वेवं मौनस्य मनोनिग्रहस्य च मनःसंयमत्वेन एकत्वात् पौनरुक्त्यम् ? नेत्याह -
सर्वत इति ।

भावस्य हृदयस्य संशुद्धिः, रागादिमलविकलता इति व्याचष्टे -
परैरिति ।
मानसं - मनसा प्रधानेन निर्वर्त्यम् इति अर्थः
॥ १६ ॥

त्रिविधस्य तपसः यथासम्भवं सात्त्वि­का­दि­भा­वेन तत् त्रैविध्यम् आकाङ्क्षाद्वारा निक्षिपति -
यथोक्तमिति ।
त्र्यधिष्ठानं - देह­वा­ङ्म­नो­नि­र्व­र्त्यम् इत्यर्थः । समाहितैः - सिद्ध्य­सिद्ध्योः निर्विकारैः इति यावत्
॥ १७ ॥

राजसं तपः निर्दिशति -
सत्कारेति ।
साधुकारमेव आस्फोरयति । साधुरिति- दम्भेन चैव - नास्तिक्येन, केव­ल­ध­र्म­ध्व­जि­त्वेन इत्यर्थः । तत् इह प्रोक्तं - अस्मिन्नेव लोके फलप्रदम् इत्यर्थः । कादाचित्कफलत्वं - क्षणिकफलत्वम् । अध्रुवं - अनियतं, अनैकान्तिकफलम् इति यावत्
॥ १८ ॥

तामसं तपः सङ्गृह्णाति -
मूढेति ।

मूढः अत्यन्ताविवेकी, तस्य ग्राहो नाम आग्रहः - अभिनिवेशः, तेन इत्याह -
अविवेकेति ।
आत्मनः - स्वस्य देहादेः इत्यर्थः
॥ १९ ॥

क्रमप्राप्तं दातस्य गुणनिमित्तभेदम् आह -
इदानाीमिति ।
दातव्यम् इति एवं मनः कृत्वा - ‘दानमेव मया भाव्यं, न फलम् ‘ इति अभिसन्धाय इत्यर्थः
॥ २० ॥

राज­स­ता­म­स­दा­न­वि­भ­जनं स्पष्टार्थम्
॥ २१ - २२ ॥

विहितानां कर्मणां प्रमादयुक्ते वैगुण्ये कथं परिहारः स्यात् इति आशङ्क्य आह -
यज्ञेति ।

‘ओमिति ब्रह्म’(तै. उ. १-८-१) इत्यादिश्रुतेः ओमिति तावत् ब्रह्मणः नामनिर्देशः । ‘तत्त्वमसि’(छा. उ. ६-८-७) इति श्रुतेः तत् इत्यपि ब्रह्मणः नामनिर्देशः । ‘सदेव सोम्येदम् ‘ इति श्रुतेः सदित्यपि तस्य नाम इति मत्वा आह -
ओमिति ।

कथं निर्देशेन तेषां विधानम् ? इति आशङ्क्य आह -
निर्दिश्यत इति ।
यज्ञादीनां वैगु­ण्य­प्र­ती­ति­काले यथोक्तनाम्नाम् अन्य­त­मो­च्चा­र­णात् अवैगुण्यं सिध्यतीति भावः ।

कर्म­सा­द्गु­ण्य­का­रणं त्रिविधनाम स्तौति -
ब्राह्मणाः इति ।
पूर्वं - सर्गादौ निर्माणं च प्रजा­प­ति­क­र्तृ­कम्
॥ २३ ॥

यस्मात् ब्राह्मणादीनां कारणं, यस्माच्च ब्रह्मणः निर्देशः, तस्मात् इति उपसंहरति -
तस्मादिति ।
ब्रह्मवादिनाम् इत्यत्र ब्रह्म वेदः
॥ २४ ॥

ओंशब्दस्य विनियोगम् उक्त्वा तच्छब्दस्य विनियोगम् आह -
तदित्यादिना
॥ २५ ॥

वृत्तम् अनूद्य अन­न्त­र­श्लो­क­ता­त्प­र्यम् आह -
ओन्त­च्छ­ब्द­यो­रिति
॥ २६ ॥

प्रकारान्तरेण सच्छब्दस्य विनियोगम् आह -
यज्ञे इति ।

नाम­त्र­यो­च्चा­र­णेन साद्गुण्यं सिद्ध्यति इति प्रकरणार्थम् उपसंहरति -
तदेतदिति
॥ २७ ॥

अश्र­द्धा­न्वि­त­स्यापि कर्मणः नाम­त्र­यो­च्चा­र­णात् अवैगुण्ये श्रद्धा­प्रा­धान्यं न स्यात् इति आशङ्क्य आह -
तत्र चेति ।
सप्तमीभ्यां प्रकृतं यज्ञादि गृह्यते । सर्वं यज्ञादि सगुणम् इति शेषः ।

तस्य असत्त्वं साधयति -
मत्प्राप्तीति ।

ऐहिकामुष्मिकं वा फलम् अश्रद्धितेनापि कर्मणा सम्पत्स्यते । कुतः अस्य असत्त्वमिति आशङ्क्य आह -
न चेति ।

तस्य उभ­य­वि­ध­फ­ला­हे­तुत्वे हेतुम् आह -
साधुभिरिति ।
निन्दन्ति हि साधवः श्रद्धारहितं कर्म । अतः न एतत् उभयफलौपयिकम् इत्यर्थः । तत् अनेन शास्त्रा­न­भि­ज्ञा­ना­मपि श्रद्धावतां श्रद्धया सात्त्वि­क­त्वा­दि­त्रै­वि­ध्य­भाजां राज­स­ता­म­सा­हा­रा­दि­त्या­गेन सात्त्वि­का­हा­रा­दि­से­वया सत्त्वैकशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्म­ना­म­नि­र्दे­शेन परिहरतां परि­शु­द्ध­बु­द्धीनां श्रव­णा­दि­सा­म­ग्री­स­ञ्जा­त­त­त्त्व­सा­क्षा­त्का­र­वतां मोक्षो­प­प­त्ति­रिति स्थितम्
॥ २८ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विरचिते श्रीम­द्भ­ग­व­दु­गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने सप्तदशोऽध्यायः
॥ २७ ॥