अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

अष्टादशोऽध्यायः (१)

पूर्वैः अध्यायैः विस्तरेण यतस्ततः विक्षिप्ततया उक्तम् अर्थं सुख­प्र­ति­प­त्त्यर्थं सङ्क्षेपेण उपसंहृत्य अभिधातुम् अध्यायान्तरम् अवतारयति -
सर्वस्यैवेति ।
उपसंहृत्य वक्तव्यः इति सम्बन्धः ।

किञ्च उपनिषत्सु यतस्ततः विस्तृतस्य अर्थस्य बुद्धि­सौ­क­र्या­र्थम् अस्मिन् अध्याये सङ्क्षि­प्ता­भि­धानं कर्तव्यम् , उपनिषदां गीतानां च एकार्थत्वात् इत्याह -
सर्वश्चेति ।

कथं सर्वोऽपि शास्त्रार्थः अस्मिन् अध्याये सङ्क्षिप्य उपसंह्रियते ? तत्र आह -
सर्वेषु हीति ।

ननु वेदार्थश्चेत् अशेषतः अत्र उप­स­ञ्जि­ही­र्षितः, तर्हि किमिति ‘त्यागेनैके’ ‘संन्यासयोगात् ‘ इति वेदा­र्थै­क­दे­श­वि­षयं प्रश्न­प्र­ति­व­च­नम् ? तत्र आह -
अर्जुनस्त्विति ।
पृथक् अनयोः तत्त्वं वेदितुम् इच्छामि इति विशेषणात् अपृथगर्थः तयोः अस्तीति गम्यते । बुभुत्सितस्य प्रष्टव्यत्वात् एकदेशे तद्भावात् उक्त­प्र­श्नो­प­पत्तिः इति भावः
॥ १ ॥

ननु पूर्वेषु अध्यायेषु तत्र तत्र संन्यासत्यागयोः उक्तत्वात् किमिति पुनः तौ पृचछ्यते ? ज्ञाते तदयोगात् । तत्राह -
तत्र तत्रेति ।
न निर्लु­ण्ठि­तार्थौ - न निष्कृष्टार्थौ न विविक्तार्थौ इत्यर्थः ।

बुभुत्सया प्रश्नस्य प्रवृत्तत्वात् , प्रष्टुः अभिपायं प्रश्नेन प्रतिपद्य भगवान् उत्तरम् उक्तवान् इत्याह -
अत इति ।

पक्ष­द्व­यो­प­न्या­सेन संन्या­स­त्या­ग­श­ब्दयोः अर्थभेदं कथयति -
काम्यानाम् इति ।

तत् किम् इदानीं संन्या­स­त्या­ग­श­ब्दयोः आत्यन्तिकं भिन्नार्थत्वम् ? तदा प्रसिद्धिविरोधः स्यात् इति अशङ्क्य अवान्तरभेदेऽपि न आत्यन्तिकभेदः अस्ति इत्याह -
यदीति ।

पुत्राभावात् वन्ध्यायाः तत्त्यागायोगवत् , नित्य­नै­मि­त्ति­क­क­र्म­णाम् अफलानां फल­त्या­गा­नु­प­पत्तेः उक्तः त्यागशब्दार्थः न सिद्ध्यति इति शङ्कते -
नन्विति ।

नित्य­नै­मि­त्ति­क­क­र्म­फ­लस्य वन्ध्या­पु­त्र­सा­दृ­श्या­भा­वात् तत्त्या­ग­स­म्भ­वात् उक्तः त्यागशब्दार्थः सम्भवति इति समाधत्ते -
नैष दोष इति ।

भगवता तेषां फलवत्त्वम् इष्टम् इत्यत्र वाक्यशेषम् अनुकूलयति -
वक्ष्यतीति ।

तर्हि संन्यासिनाम् असंन्यासिनां च नित्या­द्य­नु­ष्ठा­यि­नाम् अविशेषेण तत्फलं स्यात् इति चेत् , नैव इत्याह -
न त्विति ।
वक्ष्यति इति अनुकर्षणं चकारार्थः ।

प्रसक्तस्य वचसः अर्थं प्रकृ­तो­प­यो­गि­त्वेन सङ्गृह्य स्मारयति -
संन्यासिनाम् इति
॥ २ ॥

काम्यानि वर्जयित्वा नित्य­नै­मि­त्ति­कानि फलाभिलापात् ऋते, कर्तव्यानि इति अक्तं पक्षं प्रति­प­क्ष­नि­रा­सेन द्रढयितुं विप्रतिपत्तिम् आह -
त्याज्यमिति ।

कर्मणः सर्वस्य दोषवत्त्वे हेतुम् आह -
बन्धेति ।

दोषवत् इत्येतत् दृष्टान्तत्वेन व्याचष्टे -
अथवेति ।

कर्मणि अनधिकृतानाम् अकर्मिणामेव कर्म त्याज्यं, कर्मिणां तत्त्यागे प्रत्यवायात् , इति आशङ्क्य आह -
अधिकृतानामिति ।
न हि तेषामपि कर्म त्यजतां प्रत्यवायः, हिंसादियुक्तस्य कर्मणः अनुष्ठाने परं प्रत्यवायात् इति भावः । साङ्ख्या­दि­प­क्ष­स­माप्तौ इतिशब्दः ।

मीमांसकपक्षमाह -
तत्रैवेति ।
कर्मा­धि­कृ­ते­ष्वेव इति यावत् ।

कर्म नित्यं नैमित्तिकं च । काम्पानां कर्मणाम् इति आरभ्य श्लोकाभ्यां कर्मिणः अकर्मिणः अधिकृतान् अनधिकृतांश्च अपेक्ष्य दर्शि­त­वि­क­ल्पानां प्रवृत्तिः इति आशङ्क्य आह -
कर्मिणः इति ।

एव­का­र­व्य­व­च्छे­द्यम् आह -
न त्विति ।

तदेव स्फुटयति -
ज्ञानेति ।

कर्माधिकृतानां ज्ञाननिष्ठातः विभ­क्त­नि­ष्ठा­व­त्त्वेन पूर्वोक्तानामपि शास्त्रा­र्थो­प­सं­हारे पुनः विचार्यत्ववत् ज्ञाननिष्ठानाम् अपि विचार्यत्वम् अत्र अविरुद्धम् इति शङ्कते -
नन्विति ।

साङ्ख्यानां - पर­मा­र्थ­ज्ञा­न­नि­ष्ठानां, न अत्र विचार्यता इति उत्तरम् आह -
न तेषामिति ।

ननु तेषामपि स्वात्मनि क्लेशदुःखादि पश्यतां तदनुरोधेन राज­स­क­र्म­त्या­ग­सिद्धेः विचार्यत्वम् ? न इत्याह -
न कायेति ।

तत्र क्षेत्रा­ध्या­योक्तं हेतूकरोति -
इच्छादीनामिति ।

स्वात्मनि साङ्ख्यादीनां क्लेशा­द्य­प्र­ति­पत्तौ फलितम् आह -
अत इति ।

ननु तेषां क्लेशा­द्य­द­र्श­नेऽपि स्वात्मनि कर्माणि पश्यतां तत्त्यागः युक्तः, तेषां काय­क्ले­शा­दि­क­र­त्वात् । न इत्याह-
नापीति ।

अज्ञानां मोहमाहात्म्यात् नियतमपि कर्म त्यक्तुं शक्यं, न तत्त्वविदां, स्वात्मनि कर्मादर्शनेन तत्त्यागे हेत्वभावात् , इति मत्वा आह -
मोहादिति ।

कथं तर्हि तेषाम् आत्मनि कर्माणि अपश्यतां प्राप्त्यभावे तत्त्यागः संन्यासः ? तत्र आह -
गुणानामिति ।

अवि­वे­क­प्रा­प्तानां कर्मणां, त्यागः तत्त्वविदाम् इत्युक्तं स्मारयन् , अप्रा­प्त­प्र­ति­षेधं प्रत्यादिशति -
सर्वेति ।

तत्त्वविदाम् अत्र अविचार्यत्वे फलितम् आह -
तस्मादिति ।
ये अनात्मविदः, ते एव इति उत्तरत्र सम्बन्धः ।

कर्मणि अधिकृतानाम् अनात्मविदां कर्म­त्या­ग­स­म्भा­वनां दर्शयति -
येषां चेति ।

तन्निन्दा कुत्र उपयुक्ता ? इति आशङ्क्य आह -
कर्मिणामिति ।

किञ्च पर­मा­र्थ­सं­न्या­सिनां प्रश­स्य­त्वो­प­ल­म्भात् न निन्दाविषयत्वम् इत्याह -
सर्वेति ।

किञ्च अत्रापि ‘सिद्धिं प्राप्तो यथा’(भ. गी. १८-५०) इत्यादिना ज्ञाननिष्ठायाः वक्ष्यमाणत्वात् तद्वतां न इह विचार्यत इत्याह -
वक्ष्यतीति ।

कर्मा­धि­कृ­ता­ना­मेव अत्र विवक्षितत्वं, न ज्ञाननिष्ठानाम् , इति उपसंहरति -
तस्मादिति ।

ननु संन्यासशब्देन सर्व­क­र्म­सं­न्या­सस्य ग्राह्यत्वात् तथा­वि­ध­सं­न्या­सि­नाम् इह विवक्षितत्वं प्रतिभाति ? तत्र आह -
कर्मेति ।

संन्यासशब्देन मुख्यस्यैव संन्यासस्य ग्रहणम् , गौणमुख्ययोः मुख्ये कार्य­सं­प्र­त्य­यात् , अन्यथा तदसम्भवे हेतू­क्ति­वै­य­र्थ्येति, अप्रा­प्त­ति­षे­धात् , इति शङ्कते -
सर्वेति ।

नेदं हेतुवचनं सर्व­क­र्म­स­न्यां­स­स­म्भ­व­सा­धकं, कर्म­फ­ल­त्या­ग­स्तु­ति­प­र­त्वात् इति परिहरति -
नेत्यादिना ।

एतदेव दृष्टान्तेन स्पष्टयति -
यथेति ।

दृष्टान्तेऽपि यथा­श्रु­ता­र्थत्वं किं न स्यात् ? इति आशङ्क्य आह -
यथोक्तेति ।

न हि फलत्यागादेव ज्ञानं विना मुक्तिः युक्ता, मुक्तेः ज्ञानै­का­धी­न­त्वा­सा­ध­क­श्रु­ति­स्मृ­ति­वि­रो­धात् , ‘अद्वेष्टा’(भ. गी. १२-१३) इत्यादिना च अनन्तरमेव ज्ञान­सा­ध­न­वि­धा­ना­न­र्थ­क्यात् । अतः त्यागस्तुतिरेव अत्र ग्राह्या इत्यर्थः । दृष्टान्तगतम् अर्थं दार्ष्टान्तिके योजयति -
तथेति ।

प्रागु­क्त­प­क्षा­प­वा­द­वि­व­क्षया हेतूक्तेः मुख्यार्थत्वमेव किं न स्यात् ? इति आशङ्क्य तदपवादे हेत्वभावात् मैवम् इत्याह -
न सर्वेति ।
न च इयमेव हेतूक्तिः तदपवादिका, अन्यथासिद्धेः उक्तत्वात् इति भावः ।

मुख्य­सं­न्या­सा­प­वा­दा­स­म्भवे संन्या­स­त्या­ग­वि­क­ल्पस्य कथं सावकाशता ? इति आशङ्क्य आह -
तस्मादिति ।

ज्ञाननिष्ठान् प्रति उक्त­वि­क­ल्पा­नु­प­पत्तौ, कुत्र तेषाम् अधिकारः ? तत्र आह -
ये त्विति ।

संन्यासिनां विक­ल्पा­न­र्ह­त्वेन ज्ञाननिष्ठयाम् एव अधिकारस्य भूयस्सु प्रदेशेषु साधितत्वात् न साध­ती­य­त्वा­पेक्षा इत्याह -
तथेति
॥ ३ ॥

कर्माधिकतान् प्रत्येव उक्त­वि­क­ल्प­प्र­वृ­त्ता­वपि कुतो निर्धारणसिद्धिः ? तत्र आह -
तत्रेति ।

तमेव निश्चयं दर्शयितुम् आदौ त्यागगतम् अवान्तरविभागम् आह -
त्यागो हीति ।

ननु त्यागसंन्यासयोः उभयोरपि प्रकृ­त­त्वा­वि­शेषे त्यागस्यैव अवा­न्त­र­वि­भा­गा­भि­धाने संन्यासस्य उपेक्षितत्वम् आपद्येत ? न इत्याह -
त्यागेति ।

सात्विकः राजसः तामसश्च इति उक्ते अर्थे त्रैविध्येऽपि स्वयमेव निश्चयसम्भवात् किम् अत्र भागवतेन निश्चयेन इति आशङ्क्य आह -
यस्मादिति ।

भगवतः अन्येन उक्तविभागे तत्त्वा­नि­श्च­यात् भागवतनिश्चयस्य श्रोतव्यता इति निगमयति -
तस्मादिति
॥ ४ ॥

तमेव भगवतः निश्चयं विशेषतः निर्धारयितुं प्रश्नपूर्वकम् अन­न्त­र­श्लो­क­प्र­वृत्तिं दर्शयति -
कः पुनरिति ।

यज्ञादीनां कर्तव्यत्वे हेतुम् आह -
यज्ञ इति ।

न केवलम् अत्याज्यं, किन्तु कर्तव्यमेव इत्याह -
कार्यमिति ।

प्रतिज्ञातम् एवं विभज्य हेतुं विभजते -
कस्मादिति ।
॥ ५ ॥

प्रतिज्ञातम् अर्थम् उपसंहरति -
एतान्यपीति ।

उप­सं­हा­र­श्लो­का­क्ष­राणि व्याकरोति - एतानीत्यादिना । अक्षरार्थम् उक्त्वा तात्पर्यार्थमाह -
निश्चयमिति ।

प्रकृ­ता­र्थो­प­सं­हारे गमकमाह -
एतान्यपीति ।

अपिशब्दस्य विवक्षितम् अर्थं दर्शयति -
सासङ्गस्येति ।

व्यावर्त्यं कीर्तयति -
न त्विति ।

एतान्यपि इत्यादिवाक्यं न नित्यकर्मविषयम् इति मतम् उपन्यस्यति -
अन्य इति ।

न चेत् इदं नित्यकर्मविषयं, किंविषयं तर्हि ? इत्याशङ्क्य, वाक्यमवतार्य व्याकरोति-
एतानीत्यादिना ।

नित्यानाम् अफलत्वम् उपेत्य यत् चोद्यं तत् अयुक्तम् इति दूषयति-
तदसदिति ।

यत्तु काम्यान्यपि कर्तव्यानि इति तत् निरस्यति-
नित्यान्यपीति ।

किञ्च काम्यानां भगवता निन्दितत्वात् न तेषु मुमुक्षोः अनुष्ठानम् इति आह -
दूरेणेति ।

किञ्च मुमुक्षोः अपे­क्षि­त­मो­क्षा­पे­क्षया विरुद्धफलत्वात् काम्यकर्मणां न तेषु तस्य अनुष्ठानम् इत्याह -
यज्ञार्थादिति ।

काम्यानां बधहेतुत्वं निश्चितम् इति अत्रैव पूर्वो­त्त­र­वा­क्या­नु­कूल्यं दर्शयति -
त्रैगुण्येति ।

किञ्च पूर्वश्लोके यज्ञादिनित्य कर्मणां प्रकृतत्वात् एतच्छब्देन सन्निहितवाचिना परामर्शात् काम्यकर्मणां च ‘काम्यानां कर्मणां’ इति व्यवहितानां सन्नि­हि­त­प­रा­म­र्श­कै­त­च्छ­ब्दा­वि­ष­य­त्वात् न काम्यक्रर्माणि ‘एतान्यपि’ इति व्यपदेशम् अर्हन्ति इत्याह-
दूरेति
॥ ६ ॥

नित्यकर्मणाम् अव­श्य­क­र्त­व्य­त्वम् उक्तम् उपजीव्य अपेक्षितं पूरयन् अनन्तरश्लोकम् अवतारयति -
तस्मादिति ।

ननु कश्चित् नियतमपि कर्म त्यजन् उपलभ्यते ? तत्र आह -
मोहादिति ।

अज्ञानं - पाव­न­त्वा­प­रि­ज्ञा­नम् । अज्ञस्य नित्य­क­र्म­प­रि­त्यागः मोहात् , इति एतत् उपपादयति -
नियतं चेति ।

नित्य­क­र्म­त्या­गस्य मोहकृतत्वे कुतः तामसत्वम् ? इति आशङ्क्य आह -
मोहश्चेति
॥ ७ ॥

इतश्च नित्यकर्मत्यागः न अज्ञस्य सम्भवति इत्याह -
किं चेति ।

ननु मोहं विनैव दुःखात्मकं कर्म कायक्लेशभयात् त्यजति । करणानि हि कार्यं जनयन्ति च । तथा च न तत्त्यागः तामसो युक्तः । तत्र आह -
दुःखमित्येवेति ।

यत् कर्म दुःखात्मकम् अशक्यम् असाध्यम् इत्येव आलोच्य ततो निवर्तते, देहस्य इन्द्रियाणां च क्लेशात्मनो भयात् त्यजति, सः तत् त्यक्त्वा - रजोनिमित्तं त्यागं कृत्वापि, न तत्फलं मोक्षं लभते, किन्तु कृतेनैव राजसेन त्यागेन तदनुरूपं नरकं प्रतिपद्यते इत्याह -
दुःख­मि­त्ये­वे­त्या­दिना
॥ ८ ॥

कर्मत्यागः तामसः राजसश्च इति द्विविधः दर्शितः । सम्प्रति सात्त्विकं त्यागं प्रश्नपूर्वकं वर्णयति -
कः पुनरिति ।

कर्तव्यम् इत्येव इति एवकारेण नित्यस्य भाव्यान्तरं निषिध्यते । नित्यानां विध्युद्देशे फलाश्रवणात् , तेषां फलं त्यक्त्वा इति अयुक्तम् , इति आशङ्क्य आह-
नित्यानामिति ।

फलं त्यकत्वा इत्यस्य विधान्तरेण तात्पर्यम् आह -
अथवेति ।
न हि विधिना कृतं कर्म अनर्थकं, विध्या­न­र्थ­क्यात् । तेन श्रौतफलाभावेऽपि नित्यं कर्म विधितः अनुतिष्ठन् , आत्मानम् अजानन् अनु­प­ह­त­म­न­स्त्वोक्त्या तस्मिन् कर्मणि आत्मसंस्कारं फलं कल्पयति, तदकरणे प्रत्य­वा­य­स्मृत्या तत्करणं, कर्तुः आत्मनः तन्निवृत्तिं करोति इति वा नित्ये कर्मणि उक्तां कल्पनाम् अनु निष्पा­दि­त­फ­ल­क­ल्पनां च ‘फलं त्यक्त्वा’ इति अस्य भगवान् निवारयति इत्यर्थः ।

नित्यकर्मसु फलत्यागोक्तेः सम्भवे फलितमाह -
अत इति ।

कर्म­त­त्फ­ल­त्या­गस्य त्याग­सं­न्या­स­श­ब्दाभ्यां प्रकृतस्य, ‘त्यागो हि’(भ. गी. १८-४) इति त्रैविध्यं प्रतिज्ञाय, प्रतिज्ञानुरोधे द्वे विधे व्युत्पाद्य, तृतीयां विधां तद्विरोधेन त्र्युत्पादयतः भगवतः अकौशलम् आपतितम् इति शङ्कते -
नन्विति ।

प्रक्र­म­प्र­ति­कू­लम् उपसंहारवचनम् अनुचितम् इति अत्र दृष्टान्तम् आह-
यथेति ।

पूर्वो­त्त­र­वि­रो­धेन प्रप्तम् अकौशलं प्रत्यादिशति -
नैष दोष इति ।

कर्म­त्य­ग­फ­ल­त्या­गयोः त्यागत्वेन सादृश्यात् , कर्म­त्या­ग­नि­न्दया तत्फ­ल­त्या­ग­स्तु­त्य­र्थम् इदं वचनम् इति उपगमात् न विरोधः अस्ति इति उक्तमेव व्यक्तीकुर्वन् आदौ त्यगसामान्यं विशदयति -
अस्तीति ।

सति सामान्ये निर्देशस्य स्तुत्यर्थत्वं समर्थयते -
तत्रेति
॥ ९ ॥

एवं पूर्वापरविरोधं पराकृत्य अन­न्त­र­श्लो­क­ता­त्प­र्यम् आह -
यस्त्विति ।
फलरागादिना इति आदिशब्देन कर्म­स्व­रू­पा­सङ्गः गृह्यते ।

अन्तःकरणं अक­लु­षी­क्रि­य­मा­णम् इति छेदः । विशुद्धे अन्तःकरणे किं स्यात् इति आशङ्क्य आह-
विशुद्धमिति ।
मलविकलत्वं विशुद्धत्वं, संस्क्रि­य­मा­णत्वं - प्रसन्नत्वम् इति भेदः । क्रमेण - श्रव­णा­द्या­वृ­त्ति­द्वा­रेण इत्यर्थः । तन्निष्ठा इति आत्मज्ञाननिष्ठा उक्ता ।

काम्यकर्मणि त्याज्यत्वेन द्वेषम् अभिनयति -
किमिति ।

उभयत्र द्वेषं प्रीतिं च न करोति इति सामान्येन उक्तं कर्तारं प्रश्नपूर्वकं विशेषतः निर्दिशति -
कः पुनरिति ।

त्यागी इति उक्तं त्यागिनम् अभिव्यनक्ति -
पूर्वोक्तेनेति ।
कर्मणि सङ्गस्य तत्फलस्य च त्यागेन इति यावत् ।

उक्तमेव त्यागिनं विवृणोति -
यः कर्मणि इति ।
तत्फलं त्यक्त्वा इति सम्बन्धः । काम्ये निषिद्धे च कर्मणि बन्धहेतुः इति न द्वेष्टि, नित्ये नैमित्तिके च मोक्षहेतुः इति न प्रीयते ।

तत्र कालविशेषं पृच्छति -
कदेति ।

नित्यादिकर्मणा फला­भि­स­न्धि­व­र्जि­तेन क्षपितकल्मषस्य सत्त्वं - यथा­र्थ­ग्र­ह­ण­सा­म­र्थ्यम् उद्बुध्यते, तेन समावेशदशायाम् उक्त­प्री­ति­द्वे­षयोः अभावः भवति इत्याह -
उच्यते इति ।

अत एवेति -
समु­द्बु­द्ध­य­था­र्य­ग्र­ह­ण­स­म­र्थ­स­मा­वि­ष्ट­त्वात् इत्यर्थः ।

छिन्नसंशयत्वमेव विशदयति -
आत्मेति ।
परं निःश्रेयसं तस्य च साधनं सम्यग्ज्ञानमेव इति योजना ।

न द्वेष्टि इत्यादिना श्लोकेन उक्तम् अर्थं सङ्क्षिप्य अनुवदति -
योऽधिकृत इति ।
पूर्वो­क्त­प्र­का­रेण इति कर्मणि तत्फले च सङ्गत्यागेन इत्यर्थः । कर्मात्मयोगस्य अनुष्ठानेन संस्कृतात्मा सन् क्रमेण श्रव­णा­द्य­नु­ष्ठा­न­द्वा­रेण कूटस्थं ब्रह्म प्रत्यक्त्वेन सम्बुद्धः इति सम्बन्धः ।

परस्य निष्क्रियत्वे हेतुम् आह -
जन्मादीति ।

उक्तज्ञानवतः सर्व­क­र्म­त्या­ग­द्वारा मुक्तिभाक्त्वं दर्शयति -
स सर्वेति
॥ १० ॥

आत्मज्ञानवतः सर्व­क­र्म­त्या­ग­स­म्भा­व­नाम् उक्त्वा तद्धीनस्य तदसम्भवे हेतुवचनत्वेन अनन्तरश्लोकम् अवतारयति -
यः पुनरिति ।
न बाधितम् आत्मनि कर्तृ­त्व­वि­ज्ञा­नम् अस्य इति अज्ञः, तथा तस्य भावः तत्ता, तयेति यावत् । एवम् अर्थं दर्शयितुम् अज्ञस्य सर्व­क­र्म­सं­न्या­सा­स­म्भवे हेतुम् आह इति योजना । यस्मात् इत्यस्य तस्मात् इत्युत्तरेण सम्बन्धः ।

विवेकिनोऽपि देहधारितया देह­भृ­त्त्वा­वि­शेषे कर्माधिकारः स्यात् इति आशङ्क्य आह -
न हीति ।
कर्तृत्वाधिकारः तत्पूर्वकं कर्मानुष्ठानं तस्मात् इति यावत् । ज्ञानवतः देहधारणेऽपि तद­भि­मा­नि­त्वा­भावः अतःशब्दार्थः ।

अज्ञस्य सर्व­क­र्म­त्या­गा­यो­गम् उक्तं हेतूकृत्य फलितमाह -
तस्मादिति ।

कर्मानुष्ठायिनः त्यागित्वोक्तिः अयुक्ता इति आशङ्क्य आह -
कर्म्यपीति ।
कर्मिणापि फलत्यागेन त्यागित्ववचनं फल­त्या­ग­स्तु­त्य­र्थम् इत्यर्थः ।

कस्य तर्हि सर्वकर्मत्यागः सम्भवति ? इति आशङ्क्य विवे­क­वै­रा­ग्या­दि­मतः देहाभिमानहीनस्य इत्युक्तं निगमयति -
तस्मादिति
॥ ११ ॥

उक्ताधिकारिणः सर्व­क­र्म­सं­न्या­सा­स­म्भ­वेऽपि फलाभावे कुतः तस्य कर्तव्यता इति शङ्कते -
किं पुनरिति ।

गौणस्य मुख्यस्य वा संन्यासस्य फलं पिपृच्छिषितम् ? इति विकल्पयति -
उच्यत इति ।

सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फ­ला­भि­स­न्धि­त्यागः स च अमुख्यसंन्यासः । तस्य फलम् आह -
अनिष्टमिति ।

मुख्ये तु संन्यासे सर्वकर्मत्यागे सम्यग्धीद्वारा सर्व­सं­सा­रो­च्छि­त्ति­रेव फलम् इत्याह -
न त्विति ।

पादत्रयं व्याकरोति -
अनि­ष्ट­मि­त्या­दिना ।
तिर्य­गा­दी­त्या­दि­प­दम् अव­शि­ष्ट­नि­कृ­ष्ट­यो­नि­स­ङ्ग्र­हार्थं, देवा­दी­त्या­दि­प­दम् अव­शि­ष्टो­त्कृ­ष्ट­यो­नि­ग्र­ह­णाय इति विभागः ।

फलशब्दं व्युत्पादयति-
बाह्येति ।

करणद्वारकम् अनेकविधत्वम् उकत्वा मिथ्यात्वम् आह -
अविद्येति ।

तत्कृतत्वेन दृष्टि­मा­त्र­दे­हत्वे दृष्टान्तमाह -
इन्द्रेति ।

प्रतीतितः रमणीयत्वं सूचयति -
महामोहेति ।

अविद्योत्थस्य अवि­द्या­श्रि­त­त्वात् आत्माश्रितत्वं वस्तुतः नास्ति इति आह -
प्रत्यगिति ।

उक्तं फलं कर्मिणाम् इष्यते चेत् अमु­ख्य­सं­न्या­स­फ­लो­क्ति­प­रत्वं पादत्रयस्य कथम् इष्टम् ? इति आशङ्क्य आह -
अपरमार्थेति ।
फला­भि­स­न्धि­वि­क­लानां कर्मिणां देहपातात् ऊर्ध्वं कर्मानुरोधिफलम् आवश्यकम् इत्यर्थः ।

कर्मिणामेव सताम् अफलाभिसन्धीनाम् अमु­ख्य­सं­न्या­सि­त्वात् तदी­या­मु­ख्य­सं­न्या­सस्य फलम् उक्त्वा चतुर्थपादं व्याचष्टे-
न त्विति ।

अमुख्यसंन्यासम् अनन्तरप्रकृतं व्यवच्छिनत्ति -
परमार्थेति ।

तेषां प्रधानं धर्मम् उपदिशति -
केवलेति ।
क्वचित् देशे काले वा नास्ति यथोक्तं फलं तेषामिति सम्बन्धः ।

तर्हि परमार्थसंन्यासः अफलत्वात् न अनुष्ठीयेत इति आशङ्क्य तस्य मोक्षा­व­सा­यि­त्वात् मैवम् इत्याह -
न हीति
॥ १२ ॥

ननु अप­र­मा­र्थ­सं­न्या­स­वत् अविशेषात् अज्ञानां पर­मा­र्थ­सं­न्या­सोऽपि किं न स्यात् ? त्यागस्य सुकरत्वात् । तत्र आह -
अतः परमार्थेति ।
तस्य सम्यग्दर्शनात् अविद्यानिवृत्तौ तदा­रो­पि­त­क्रि­या­का­र­का­दि­नि­वृत्तेः इति हेत्वर्थः ।

विद्यावतः सर्व­क­र्म­सं­न्या­सि­त्व­स­म्भा­व­नाम् उक्त्वा एव­का­र­व्या­वर्त्यं दर्शयति -
न त्विति ।

अविदुषः अशेषकर्मणां तद्धेतूनां च रागादीनां त्यागायोगे कारकेषु अधिष्ठानादिषु आत्मत्वदर्शनं हेतुम् आह -
क्रियेति ।

कथम् अधिष्ठानादीनां क्रिया­क­र्तृ­त­त्वम् ? कथं वा अविदुषः तेषु आत्मत्वधीः ? इति आशङ्क्य अन­न्त­र­श्लो­क­च­तु­ष्ट­यस्य तात्पर्यम् आह -
तदेतदिति ।

कर्मार्थानाम् अधिष्ठानादीनाम् अप्रा­मा­णि­क­त्वा­श­ङ्काम् आदौ उद्धरति-
पञ्चेति ।
उत्तरत्र इति अधिष्ठानादिषु वक्ष्यमाणेषु इत्यर्थः ।

वस्तूनां तेषामेव वैषम्यं दिदर्शयिषितं न हि चेतस्समाधानात् ऋते ज्ञातुं शक्यते । साङ्ख्यशब्दं व्युत्पादयति -
ज्ञातव्या इति ।
आत्मा त्वम्पदार्थः, तत्पदार्थः ब्रह्म, तयोः ऐक्यधीः तदुपयोगिनश्च श्रवणादयः पदार्थाः, ते सङ्ख्यायन्ते - व्युत्पाद्यन्ते ।

कृतान्तशब्दस्य वेदान्तविषयत्वं विभजते -
कृतमित्यादिना ।

वेदान्तस्य तत्त्वधीद्वारा कर्मा­व­सा­न­भू­मित्वे वाक्यो­प­क्र­मा­नु­कूल्यं दर्शयति -
यावानिति ।
उदपाने - कूपादौ यावान् अर्थः - स्नानादिः, तावान् अर्थः समुद्रे सम्पद्यते । अतः यथा कुपादिकृतं कार्य सर्वं समुद्रे अन्तर्भवति तथा सर्वेषु वेदेषु कर्मार्थेषु यावत् फलं तावत् ज्ञातवतः ब्राह्मणस्य ज्ञाने अन्तर्भवति । ज्ञानं प्राप्तस्य कर्त­व्या­न­व­शे­षात् इत्यर्थः ।

तत्रैव वाक्यान्तरम् अनुक्रामति -
सर्वमिति ।

उदाहृतवाक्ययोः तात्पर्यम् आह-
आत्मेति ।

आत्मज्ञाने सति सर्व­क­र्म­नि­वृ­त्ता­वपि कथं वेदान्तस्य कृतान्तत्वम् इति आशङ्क्य आह -
अत इति ।
तानि मद्वचनतः निबोध इति पूर्वेण सम्बन्धः
॥ १३ ॥

कर्मार्थानि अधिष्ठानादीनि मानमूलत्वात् ज्ञेयानि, इति उक्तम् इदानीं प्रश्नपूर्वकं विशेषतः तानि निर्दिशति -
कानीत्यादिना ।

प्रतीकम् आदाय व्याकरोति -
अधिष्ठानमिति ।
उपाधिलक्षणः - बुद्ध्यादिः उपाधिः, तल्लक्षणः - तत्स्वभावः, बुद्ध्या­द्य­नु­वि­धायी - तद्धर्मान् आत्मनि पश्यन् उपहितः तत्प्रधानः इत्यर्थः ।

तत्र कार्यलिङ्गकम् अनुमानं सूचयति -
शब्दादीति ।

ज्ञाने­न्द्रि­याणि पञ्च, पञ्च कर्मे­न्द्रि­याणि, मनः, बुद्धिश्च, इति द्वाद­श­स­ङ्ख्य­त्वम् । चेष्टायाः विविधत्वात् नाना­प्र­का­र­क­त्वम् । तदेव स्पष्टयति -
वायवीया इति ।

पृथक्त्वं - असङ्कीर्णत्वम् । न हि प्राणा­पा­ना­दि­चे­ष्टानां मिथः सङ्करः अस्ति । दैवमेव इति विशदयति -
आदित्यादीति
॥ १४ ॥

पञ्चानाम् अधिष्ठानादीनाम् उक्तानां सर्व­क­र्म­सि­द्ध्य­र्थत्वं स्फुटयति -
शरीरेति ।

ननु जीवनकृतं निमोषोन्मेपादि कर्मान्तरं साधारणम् अस्ति । तत् कथं राशिद्वयकारणम् ? इति, तत्र आह -
यच्चेति ।

अधिष्ठानादीनां कर्म­मा­त्र­हे­तुत्वं प्रतिज्ञाय, शरी­रा­दि­त्रि­वि­ध­क­र्म­हे­तु­त्वोक्तिः अयुक्ता इति शङ्कते -
नन्विति ।

पूर्वापरविरोधं परिहरति -
नैष दोषः इति ।

ननु जीवनकृतानि स्वाभाविकानि कर्माणि दर्शनादीनि विधि­नि­षे­ध­बा­ह्य­त्वात् न देहा­दि­नि­र्व­र्त्यानि इति आशङ्क्य आह -
तदङ्गतयेति ।
तस्य देहादित्रयस्य प्रधानस्य अङ्गं चक्षुरादि, तन्नि­ष्पा­द्य­त्वेन जावनकृतं दर्शनादि प्रधानकर्मणि अन्तर्भूतम् इति त्रैविध्यम् अविरुद्धम् इत्यर्थः ।

देहाद्यारभ्ये त्रिविधे कर्मणि सर्व­क­र्मा­न्त­र्भा­वेऽपि कथं पञ्चानामेव अधिष्ठानादीनां तत्र हेतुत्वम् , फलोपभोगकाले कार­णा­न्त­रा­पे­क्षा­स­म्भ­वात् ? इति आशङ्क्य, जन्मकालभाविनः भोगकालभावितश्च सर्वस्य कारणस्य तेष्वेव अन्तर्भावात् मैव इत्याह -
फलेति
॥ १५ ॥

क्रिया­क­र्तृ­त्वम् अधिष्ठानादीनाम् आपाद्य, अविदुषः तेषु आत्मदृष्टिम् अनुवदति -
तत्रेति ।
तत्प­द­प­रा­म­र्श­योग्यं प्रकृतं सर्वं कर्म ।

प्रतीकम् आदाय पूर्वेण सह अक्षरार्थं कथयति -
एवमिति ।

अधिष्ठानादीनाम् उक्तरीत्या कर्तृत्वे सति अन्यगतं कर्तृत्वम् आन्मनः, यत अध्यारोप्य पश्यति, अतः दुर्मतिरिति आत्मनि कर्तृत्वं पश्यन् इत्याह-
तत्रैवमिति ।

कर्तारम् इत्यादि व्याचष्टे -
तत्रेत्यादिना ।
तेषु अधिष्ठानादिषु, तैः अधिष्ठानादिभिः आरोपितात्मभावैः इत्यर्थः ।

अकर्तारम् आत्मानं कर्तारं पश्यति इत्यत्र प्रश्नद्वारा हेतुम् आह -
कस्मादिति ।

ननु शास्त्र­सं­स्कृ­त­बु­द्धि­रेव अति­रि­क्ता­त्म­वादी कर्तृत्वं तस्य अनुमन्यते । नासौ कर्तृत्वम् आत्मनि पश्यन्नपि भवति अकृतबुद्धिः । तत्र आह -
योऽपीति ।
तस्यापि शास्त्री­पू­र्व­कम् आचार्योपदेेशेन तद­नु­सा­रि­न्या­यैश्च अना­हि­त­बु­द्धि­त्वात् अकृतबुद्धित्वं सिद्धम् इत्यर्थः ।

कौटस्थ्यम् आत्मनः तत्त्वं - याथात्म्यं कर्मणोऽपि तत्त्वं - अवि­द्या­कृ­ता­धि­ष्ठा­ना­दि­कृ­त­त्वेन आत्मा­स्प­र्शि­त्वम् । आत्मकर्मणोः तत्त्व­द­र्श­ना­भावः अतःशब्दर्थः । दुष्टत्वं स्पष्टीकर्तुं दुर्मतित्वं विवृणोति -
जननेति ।

अहं कर्ता इति आत्मदर्शनवतोऽपि न अविदुषः तद्दर्शनम् अस्तीति, अत्र दृष्टान्तम् आह -
यथेति ।
तिमिरोपहतचक्षुः अनेकं चन्द्रं पश्यन्नपि, तत्त्वतः न तं पश्यति । एवम् अविद्वान् आत्मानं कर्तारं पश्यन्नपि तत्त्वतः न तं पश्यति इत्यर्थः ।

अधिष्ठानादिषु अविद्यया सम्बद्धात्मनः स्वात्मनि तद्गतक्रियारोपे दृष्टान्तमाह -
यथा वेति ।
अन्येषु - वाहकेषु पुरुषेषु धावनकर्तृषु वाहने स्थितः स्वात्मानं प्रधावनकर्तारम् अविवेकात् अभिमन्यते । तथा अधिष्ठानादिषु क्रियाकर्तृषु तद्गतं स्वात्मानं कर्तारं मन्यमानः दुर्मतिः इत्यर्थः
॥ १६ ॥

विपरीतदृष्टेः दुर्मतित्वं शिष्ट्वा सम्यग्दृष्टेः सुमतित्वं प्रश्नपूर्वकम् आह -
कः पुनरित्यादिना ।

अहं कर्ता इति आत्मनि कर्तृ­त्व­प्र­त्य­या­भावे कुत्र कर्तृत्वधीः इति आशङ्क्य आह-
एते इति ।

कथं तर्हि कर्तृत्वधीः आत्मनि ? इति आशङ्क्य, अधिष्ठानादीनां तद्व्यापाराणां च साक्षित्वात् इति आह -
अहं त्विति ।

आत्मनः न स्वतः अस्ति क्रिया­श­क्ति­म­त्त्वम् इति अत्र प्रमाणम् आह -
अप्राणो हीति ।

नापि तस्य स्वतः ज्ञान­श­क्ति­म­त्त्वम् इति आह -
अमना इति ।

उपा­धि­द्व­या­स­म्बन्धे शुद्धत्वं फलितम् आह -
शुभ्र इति ।

कारणसम्बन्धात् अशुद्धिम् आशङ्क्य उक्तं -
अक्षरादिति ।

कार्यकारणयोः आत्मा­स्प­र्शि­त्वेन पार्थक्ये, सद्वितीयत्वम् आशङ्क्य, तयोः अवस्तुत्वात् मैवम् इत्याह -
केवल इति ।

जन्मादि सर्व­वि­क्रि­या­र­हि­त­त्वेन कौटस्थ्यम् आह -
अविक्रिय इति ।

बुद्धि­र्य­स्ये­त्यादि व्याचष्टे -
बुद्धिरिति ।
न अनुशायिनी - न अनुशयवती, न क्लेशशालिनी इत्यर्थः ।

द्वितीयपादस्य अक्षरार्थम् उक्तवा वाक्यार्थमाह -
इदमिति ।
पापं कर्म इदमा परामृश्यते ।

लोकानां प्राण­स­म्ब­न्धा­भावे कुतः हिंसा इति आशङ्क्य आह -
प्राणिनः इति ।

विरु­द्धा­र्थोक्त्या स्तुतिरपि न युक्ता इति शङ्कते -
नन्विति ।

विरोधं परिहरति -
न एषः दोष इति ।

लौकि­क­दृ­ष्टि­म­व­ष्टभ्य हत्वापीति निर्देशं विशदयति -
देहादीति ।

तात्त्विकीं दृष्टि आस्थाय न हन्ति इत्या­दि­नि­र्दे­शम् उपपादयति -
यथेति ।
नाहं कर्ता, किन्तु कर्तृ­त­द्व्या­पा­रयोः साक्षी क्रिया­ज्ञा­न­श­क्ति­म­दु­पा­धि­द्व­य­वि­नि­र्मुक्तः शुद्धः सन् कार्य­का­र­णा­स­म्बद्धः अद्वितीयः अविक्रियः इत्येवं पार­मा­र्थि­क­दृष्टेः यथादर्शितत्वं द्रष्टव्यम् ।

‘हत्वापि’ इत्येतत् ‘न हन्ति’ इत्यादि च उभयं दृष्टि­द्व­या­व­ष्ट­म्भात् उपपन्नम् इति उपसंहरति -
तदुभयमिति ।

केवलमेव आत्मानं कर्तारं पश्यन् दुर्मतिः इत्यत्र आत्म­वि­शे­ष­ण­स­म­र्प­क­के­व­ल­श­ब्द­सा­म­र्थ्यात् आत्मनः विशिष्टस्य कर्तृत्वम् इति शङ्कते -
नन्विति ।

आत्मनः वैशि­ष्ट्या­यो­गात् न विशिष्टस्यापि कर्तृत्वम् इति दूषयति-
नैष दोष इति ।

अवि­क्रि­य­स्वा­भा­व्येऽपि कथम् आत्मनः असंहतत्वम् इति आशङ्क्य आह -
विक्रियेति ।

अधिष्ठानादिभिः आत्मनः संहननेऽपि न कर्तृत्वम् अविक्रियस्य क्रिया­न्व­य­व्या­घा­तात् इत्याह-
संहत्येति ।

संह­त­त्वा­नु­प­पत्तिं व्यक्तीकरोति -
न त्विति ।

असंहतत्वे फलितम् आह -
इति नेति ।

कथं तर्हि केवलत्वम् आत्मनि केवलशब्दात् उक्तम् ? तदाह -
अत इति ।

अकर्तृत्वम् आत्मनः अभ्युपपन्नं, न अस्य अविक्रियत्वम् उपैति इति आशङ्क्य आह -
अविक्रियत्वं चेति ।

तत्र स्मृतिवाक्यानि उदाहरति -
अविकार्योऽयमिति ।
‘नायं हन्ति न हन्यते’(भ. गी. २-१९) इत्यादिवाक्यम् आदिशब्दार्थः ।

उक्तवाक्यानाम् आत्मा­वि­क्रि­यत्वे तात्पर्यं सूचयति -
असकृदिति ।
‘निष्कलं निष्क्रियं शान्तम् इत्यादिवाक्यं श्रुतौ आदिशब्दार्थः । यानि वाक्यानि तैः आत्मनः अविक्रियत्वं दर्शितम् इति योजना ।

न्यायतश्च तत् दर्शितम् इति पूर्वेण सम्बन्धः न्यायमेव दर्शयति -
निरवयवमिति ।
न तावत् आत्मा स्वतः विक्रियते निरवयवत्वात् आकाशवत् , नापि परतः असङ्गस्य अकार्यस्य परा­धी­न­त्वा­यो­गात् इत्यर्थः ।

किं च आत्मनः स्वनिष्ठा वा विक्रिया ? अधि­ष्ठा­ना­दि­निष्ठा वा ? न आद्यः । स्वनि­ष्ठ­वि­क्रि­या­नु­प­पत्तेः आत्मनः दर्शितत्वात् इति आशयेन आह -
विक्रि­या­व­त्त्वेति ।
सा च अयुक्ता इति उक्तम् इति शेषः ।

द्वितीयं दूषयति -
नेत्यादिना ।

अधि­ष्ठा­ना­दि­कृ­त­मपि कर्म तद्योगात् आत्मनि आगच्छति इति आशङ्क्य, तदागमनं वास्तवम् आविद्यं वा इति विकल्प्य आद्यं दूषयति -
नहीति ।

द्वितीयं निरस्यति -
यत्त्विति ।

आत्मनि अविद्याप्रापितं कर्म न आत्मीयम् इति एतत् दृष्टा­न्ता­भ्याम् उपपादयति -
यथेत्यादिना ।

आत्मनः अविक्रियत्वेन कर्तृत्वाभावे फलितम् आह -
तस्मादिति ।

ननु प्रागेव आत्मनः अविक्रियत्वं प्रतिपादितम् । तत् इह कस्मात् उच्यते ? तत्र आह -
नायमिति ।
शास्त्रादौ प्रतिज्ञातं हेतुपूर्वकं सङ्क्षिप्य उक्त्वा मध्ये तत्र तत्र प्रसङ्गं कृत्वा प्रसारितां कर्मा­धि­का­र­नि­वृ­त्तिम् इह उपसंहरति इति सम्बन्धः ।

प्रतिज्ञातस्य हेतुना उपपादितस्य अन्ते निगमनं किमर्थम् इति आशङ्क्य आह-
शास्त्रार्थेति ।

कर्माधिकारो विदुषः न, इति स्थिते, तस्य देहाभिमानाभावे सति, अवि­द्यो­त्थ­स­र्व­क­र्म­त्या­ग­सिद्धेः अनिष्टम् इष्टं मिश्रं चेति त्रिविधं कर्मफलं संन्यासिनां न, इति प्रागुक्तं युक्तमेव, इति परमप्रकृतम् उपसंहरति -
एवं चेति ।

ये पुनः अविद्वासंः देहाभिमानिनः, तेषां त्रिविधं कर्मफलं सम्भवत्येव, इति हेतुवचनसिद्धम् अर्थं निगमयति -
तद्विपर्ययाच्च इति ।

अधिष्ठानादिकृतं कर्म न आत्मकृतम् , अविदुषामेव कर्माधिकारः, देहाभिमानित्वेन तत्त्यागायोगात् , देहा­भि­मा­ना­भा­वात्तु विदुषां कर्मा­धि­का­र­नि­वृत्तिः, इति उपसंहृतम् अर्थं सङ्क्षिप्य आह -
इत्येष इति ।

उक्तश्च गीतार्थः वेदार्थत्वात् उपादेयः इत्याह -
स एष इति ।

कथम् अयम् अर्थः वेदार्थोऽपि प्रतिपत्तुं शक्यते ? तत्र आह -
निपुणेति ।

भाष्यकृता मानयुक्तिभ्यां विभज्य अनुक्तत्वात् न अस्य अर्थस्य उपादेयत्वम् इति आशङ्क्य आह -
तत्रेति
॥ १७ ॥

शास्त्रा­र्थो­प­सं­हा­रा­न­न्त­र्यम् अथ इत्युक्तम् । इदानीमिति प्रव­र्त­को­प­दे­शा­पे­क्षा­वस्था उक्ता । कर्मणां येषु विदुषां न अधिकारः, अविदुषां च अधिकारः, तेषाम् इत्यर्थः । ज्ञानशब्दस्य कर­ण­व्यु­त्पत्त्या ज्ञान­मा­त्रा­र्थ­त्वम् आह -
ज्ञानमिति ।

ज्ञेयशब्दस्यापि तद्वदेव ज्ञात­व्य­मा­त्रा­र्थ­त्वम् आह-
तथेति ।

उपाधिलक्षणत्वं - तत्प्रधानत्वम् उपहितत्वम् । तस्य अवस्तुत्वार्थं अवि­द्या­क­ल्पि­त­वि­शे­प­णम् । एतदेव त्रयं सर्व­क­र्म­प्र­व­र्त­कम् इत्याह -
इत्येतदिति ।
सर्वकर्मणां प्रवर्तकम् इति अध्याहर्तव्यम् ।

चोदनेति क्रियायाः प्रवर्तकं वचनम् इति भाष्यानुसारेण चोदनाशब्दार्थम् आह -
प्रवर्तिकेति ।
सर्वकर्मणाम् इति पूर्वेणसम्बन्धः । त्रैविध्यं ज्ञानादिना प्राक् उक्तम् । कर्मणां चोदना इति विग्रहः ।

तेषां सर्व­क­र्म­प्र­व­र्त­क­त्वम् अनुभवेन साधयति -
ज्ञानादीनामिति ।
हानोपादानादि इति आदिपदेन उपेक्षा विवक्षिता ।

करणम् इत्यादेः तात्पर्यम् आह -
तत इति ।
ज्ञानादीनां प्रवर्तकत्वात् इत्यर्थः ।

उक्तेऽर्थे श्लोकभागम् अवतारयति -
इत्येतदिति ।

बाह्यम् अन्तस्थं च द्विविधं करणं कर­ण­व्यु­त्पत्त्या कथयति -
करणमिति ।

उक्तलक्षणं कर्मैव स्फुटयति -
कर्तुरिति ।
स्वतन्त्रो हि कर्ता ।

स्वातन्त्र्यं च कार­का­प्र­यो­ज्यस्य तत्प्र­यो­क्तृ­त्वम् इत्याह -
कर्तेति ।

कथम् उक्ते त्रिविधे कर्म सङ्गृह्यते ? तत्राह -
कर्मेति ।
कर्मणो हि प्रसिद्धं कारकाश्रयत्वम् इति भावः
॥ १८ ॥

अन­न्त­र­श्लो­क­द­श­क­ता­त्प­र्य­माह -
अथेति ।
ज्ञाना­दि­प्र­स्ता­वा­न­न्त­र्यम् अथशब्दार्थः । इदानीं - प्रस्तु­त­ज्ञा­ना­द्य­वा­न्त­र­भे­दा­पे­क्षा­याम् इत्यर्थः ।

तेषां गुणभेदात् त्रैविध्ये हेतुम् आह -
गुणात्मकत्वात् इति ।
वक्तव्यः - वक्ष्य­मा­ण­श्लो­क­न­व­केन इति शेषः ।

एवं स्थिते प्रथमम् अवा­न्त­र­भे­द­प्र­तिज्ञा क्रियते इत्याह -
इत्यारभ्यत इति ।

कर्तुः ईप्सिततमं कर्म इति यत् तत् परिभाष्यते, तत् न अत्र कर्मशब्दवाच्यम् इति आह -
नेति ।

गुणातिरेकेण विधान्तरं ज्ञानादिषु न इति निर्धारयितुम् अवधारणम् इति आह -
गुणेति ।

ज्ञानादीनां प्रत्येकं गुणभेदप्रयुक्ते त्रैविध्ये प्रमाणम् आह -
प्रोच्यत इति ।

न तु कापिलं पातञ्जलम् इत्यादि शास्त्रीं विरु­द्धा­र्थ­त्वात् अप्रमाणं, कथम् इह प्रमणीक्रियते ? तत्र आह -
तदपीति ।
विषयविशेषे विरोधेऽपि प्रकृते अर्थे प्रामाण्यम् अविरुद्धम् इत्यर्थः ।

यद्यपि कापिलादयः गुणवृत्तिविचारे गौणव्यापारस्य भोगादेः निरूपणे च निपुणाः, तथापि कथं तदीयं शास्त्रम् अत्र प्रमाणीकृतं इति आशङ्क्य आह -
ते हीति ।
ज्ञानादिषु प्रत्येकम् अवान्तरभेदः वक्ष्यमाणः अर्थः तस्य तन्त्रान्तरेऽपि प्रसिद्धिकथनं स्तुतिः, तादर्थ्येन कापि­ला­दि­म­तो­पा­दा­नम् इह उपयोगि इत्यर्थः ।

तृतीयपादस्य अवि­रु­द्धा­र्थत्वं निगमयति-
नेति ।

यथावत् इत्यादि व्याचष्टे -
यथान्यायमिति
॥ १९ ॥

ज्ञानादीनां प्रत्येकं ज्ञातव्यं प्रतिज्ञाय, ज्ञान­त्रै­वि­ध्यार्थं श्लोकत्रयम् अवतारयति -
ज्ञानस्येति ।

तत्र सात्त्विकं ज्ञानम् उपन्यस्यति -
सर्वेति ।
भूतानि - कार्य­का­र­णा­त्म­कानि उपाधिजातानि ।

अद्वितीयम् अखण्डैकरसं प्रत्य­गा­त्म­भू­तम् अबाधितं तत्त्वं ज्ञेयत्वेन विवक्षितम् इत्याह -
एकमिति ।

विवक्षितम् अव्ययत्वं सङ्क्षिपति -
कूटस्थेति ।

प्रतिदेहम् अविभक्तम् इति उक्तं व्यनक्ति -
विभक्तेष्विति ।

तत् ज्ञानम् इत्यादि व्याकरोति -
अद्वैतेति
॥ २० ॥

द्वैत­द­र्श­ना­न्यपि कानिचित् भवन्ति सत्व­नि­र्वृ­त्तानि सम्यञ्चि, इति आशङ्क्य आह -
यानीति ।

तेषाम् असम्यक्त्वे हेतुम् आह -
राजसानीति ।

प्रतिदेहम् अन्यत्वेन भिन्नात्मनः येन ज्ञानेन जानाति, तत् ज्ञानं राजसम् इति व्याचष्टे -
भेदेनेति ।

पृथक्त्वं पृथग्विधत्वं च पुनरुक्तम् इति आशङ्क्य, हेतु­हे­तु­म­त्त्वेन विभागं विवक्षित्वा आह -
भिन्नेति ।

ज्ञानस्य ज्ञानकर्तृत्वम् अयुक्तम् इति आशङ्क्य, आह -
येनेति
॥ २१ ॥

सक्तत्वमेव व्यनक्ति -
एतावानिति ।

एकस्मिन् कार्ये ज्ञानस्य सक्तत्वमेव दृष्टान्तेन साधयति -
यथेत्यादिना ।

यत् निर्यु­क्ति­कत्वं, तदेव ज्ञानस्य आभासत्वे कारणम् इत्याह -
अहैतुकत्वादिति ।

स्वरूपतो विषयतश्च आभासत्वं फलतो वा इत्याह -
अल्पेति ।

तामसं ज्ञानम् उक्तलक्षणम् इत्यत्र अनुभवं प्रमाणयति -
तामसानां हीति
॥ २२ ॥

त्रिविधं कर्म वक्तुम् अन­न्त­र­श्लो­क­त्र­यम् इत्याह -
अथेति ।

तत्र सात्त्विकं कर्म निरूपयति -
नियतमिति
॥ २३ ॥

राजसं कर्म निर्दिशति -
यत्त्विति ।
फलप्रेप्सुना कर्त्रा यत् कर्म क्रियते, तत् राजसम् इति उत्तरत्र सम्बन्धः ।

तत्त्वज्ञानवता निरंहङ्कारेण, साहङ्कारेण तु अज्ञेन क्रियते कर्म इति विवक्षां वारयति -
साहङ्कारेणेति ।

तत्त्वाज्ञानवता निरहङ्कारेण कृतं कर्म अपेक्ष्य, साहङ्कारेण अज्ञेन कृतम् एतत् कर्म इति न विवक्ष्यते चेत् तर्हि किम् अत्र विवक्षितम् ? इति पृच्छति -
किं तर्हि इति ।

यो हि दुरितरहितः श्रोत्रियः लोकात् अनपेतः तस्य यत् अहङ्कारवर्जितं कर्म, तदपेक्षया इदं साहङ्कारेण कृतं कर्म इति उक्तम् इत्याह -
लौकिकेति ।

ननु तत्त्वज्ञानवतः निरहङ्कारस्य कर्मकर्तृत्वम् अपेक्ष्य साहङ्कारेण इत्यादि किं न इष्यते ? तत्र आह -
यो हीति ।
विशे­ष­णा­न्त­र­व­शा­देव तत्त्वविदः निवारितत्वात् न तदपेक्षं इदं विशेषणम् इत्यर्थः ।

साहङ्कारस्यैव राजसे कर्मणि कर्तृत्वम् इत्येतत् कैमुतिकन्यायेन साधयति -
सात्त्विकस्येति ।

ननु आत्मविदः अन्यस्य निर­ह­ङ्का­र­त्वा­यो­गात् कथं तदपेक्षया साहङ्कारेण इति उक्तम् ? तत्र आह -
लोक इति
॥ २४ ॥

सम्प्रति तापसं कर्म उदाहरति-
अनु­ब­न्ध­मि­त्या­दिना
॥ २५ ॥

इदानीं कर्तृत्रैविध्यं ब्रुवन् आदौ सात्त्विकं कर्तारं दर्शयति -
मुक्तेति ।
साङ्गो नाम फलाभिसन्धिर्वा कर्तृत्वाभिमानो वा । नाहं वदनशीलः - कर्ता अहमिति वदनशीलः न भवति इत्यर्थः ।

धारणं - धैर्यम् । क्रियमाणस्य कर्मणः यदि फलानभिसन्धिः, तर्हि न अनु­ष्ठा­न­वि­श्रम्भः सम्भवेत् , इति आशङ्क्य आह -
केवलमिति ।
फलरागादिना इति आदिशब्देन कर्मरागः गृह्यते । अयुक्तः इति छेदः
॥ २६ ॥

राजसं कर्तारं कथयति -
रागीति ।
कर्मविषयः रागः, कर्म­फ­ल­प्रे­प्सु­रिति फलरागस्य पृथक् कथनात् । स्वाभि­प्रा­या­प्र­क­टी­क­र­ण­पू­र्वकं परपीडनं परविच्छेदनं तेन स्वार्थपरः इत्यर्थः
॥ २७ ॥

दीर्घं सूत्रयितुं शीलम् अस्य इति व्युत्पत्तिं गृहीत्वा विवक्षितम् अर्थ आह -
कर्तव्यानामिति ।
एवं क्रियमाणे सति अनिष्टम् इदं कथञ्चित् आपद्येत ; यदा पुनः एवं क्रियते तदा तु अनिष्टमेव सम्भावनोपनीतम् इति चिन्ता­प­र­म्प­रायां मन्थरप्रवृत्तिः इत्यर्थः ।

तदेव स्पष्टयति -
यदद्येति
॥ २८ ॥

ज्ञानादीनां प्रत्येकं त्रैविध्यम् उक्त्वा, वृत्तिमत्त्याः बुद्धेः तद्वृत्तेश्च धृत्याख्यायाः त्रैविध्यं सूचयति -
बुद्धेरिति ।

सूत्रविवरणं प्रतिजानीते-
प्रोच्यमानमिति ।

अर्जुनस्य धनञ्जयत्वं व्युत्पादयति -
दिगिति
॥ २९ ॥

तत्रादौ सात्त्विकीं बुद्धिं निर्दिशति -
प्रवृत्तिं चेति ।

प्रवृत्तिः आचरणमात्रम् अनाचरणमात्रं च निवृत्तिः इति किं न इष्यते ? तत्र आह -
बन्धेति ।
यस्मिन् वाक्ये बन्धमोक्षौ उच्यते, तस्मिन्नेव प्रवृ­त्ति­नि­वृत्त्याोः उक्तत्वात् , कर्ममार्गस्य बन्धहेतुत्वात् , मोक्ष­हे­तु­त्वाच्च संन्या­स­मा­र्गस्य, तावेव अत्र ग्राह्यौ इत्यर्थः ।

करणाकरणयोः निर्वि­ष­य­त्वा­यो­गात् विषयापेक्षाम् अवतार्य योग्यं विषयं निर्दिशति-
कस्येति ।

अनिष्टसाधनं भयम् , इष्टसाधनम् अभयम् इति विभजते -
भयेति ।
बन्धा­दि­मा­त्र­ज्ञा­नस्य बुद्ध्यन्तरेऽपि सम्भवात् विशेषणम् ।

ननु बुद्दिशब्दितस्य ज्ञानस्य प्रागेव त्रैवि­ध्य­प्र­ति­पा­द­नात् किमिति बुद्धेः इदानीं त्रैविध्यं प्रतिज्ञाय व्युत्पाद्यते ? तत्र आह -
ज्ञानमिति ।

तर्हि ज्ञानेन गतत्वात् न पुनः धृतिः व्युत्पादनीया इति आशङ्क्य आह -
धृतिरपीति ।
विशेषशब्देन ज्ञानात् व्यावृत्तिः इष्टा
॥ ३० ॥

कार्याकार्ययोः धर्माघर्माभ्यां पौनरुक्त्यं परिहरति -
पूर्वोक्ते इति ।
पूर्वश्लोके कार्या­का­र्य­श­ब्दाभ्यां दृष्टा­दृ­ष्टा­र्थानां कर्मणां करणाकरणे निर्दिष्टे । तयोरेव अत्र ग्रहणात् न धर्माधर्माभ्यां पूर्व­प­र्या­याभ्यां गतार्थता इति अर्थः । या (सा) बुद्धिः, यया बुद्ध्या बोद्धा निर्णयेन न जानाति इत्यर्थः
॥ ३१ ॥

धर्मशब्दो नपु­म्स­क­लि­ङ्गोऽपि इति अभिप्रेत्य धर्मम् इति उक्तम् । तमसावृता - अविवेकेन वेष्टिता इत्यर्थः । कार्या­का­र्या­दीन् उक्तान् अनुक्तांश्च सङ्ग्रहीतुं सर्वार्थान् इत्युक्तम् । तत् व्याचष्टे -
सर्वानेवेति ।
विपरीतांश्चेति चकारम् अवधारणे गृहीत्वा विपरीतानेव इत्युक्तम्
॥ ३२ ॥

इदनीं धृतित्रैविध्यं व्युत्पि­पा­द­यिषुः आदौ सात्विकीं धृतिं व्युत्पादयति -
धृत्येति ।

निर्दिष्टानां चेष्टानां कथं धृत्या धारणम् ? तत्र आह-
ताः इति ।

तदेव अनुभवेन साधयति -
धृत्या हीति ।
ध्रियते अनया इति धृतिः - यत्नविशेषः तया धृत्या धार्यमाणाः मिथोपदिष्टाः चेष्टाः शास्त्रम् अतिक्रम्य न अर्था­न्त­रा­व­गा­हिन्यः भवन्ति इति अर्थः ।

धृतिमेव समा­ध्य­वि­ना­भू­त­त्वेन विशिनष्टि -
योगेनेति ।

ननु धृतेः नियमेन समाध्यनुगतत्वं कथम् उक्त­क्रि­या­धा­र­णो­प­योगी ? इति आशङ्क्य आह -
एतदिति ।
उक्तक्रियाः धारयमाणो योगेन ब्रह्मणि समाधानेन ऐकाग्र्येण अव्यभिचारिण्या अविनाभूतया धृत्या धारयति । अन्यथा तदविनाभावाभावे नियमेन तद्धारणासिद्धेः इत्यर्थः
॥ ३३ ॥

राजसीं धृतिं दर्शयति -
यया त्विति ।

तेषां धारणप्रकारम् अभिनयति -
मनसीति ।

फलाकाङ्क्षीति कस्य विशेषणम् ? तत्र आह -
यः पुरुष इति
॥ ३४ ॥

तमासीं धृतिं व्याचष्टे -
ययेति ।
शोकं - प्रिय­वि­यो­ग­नि­मित्तं सन्तापम् । विषण्णतां - इन्द्रियाणां ग्लानिम् । विषयसेवा कुमा­र्ग­प्र­वृत्तेः उपलक्षणम् उक्तम् । स्वप्नादि मदान्तं सर्वमेव कर्तव्यतया आत्मनः बहु मन्यमानः - मनसि नित्यमेव कुर्वन् दुर्मेधाः न विमुञ्चति, किन्तु धारयत्येव इति योजना
॥ ३५ ॥

वृत्तम् अनूद्य अन­न्त­र­श्लो­क­ता­त्प­र्यम् आह -
गुणेत्यादिना ।

क्रियाकारकाणां गुणतः त्रैवि­ध्यो­क्त्य­न­न्तरं फलस्य सुखस्य त्रैवि­ध्यो­क्त्य­व­सरे सति, इति आह -
इदानीमिति ।
हेयो­पा­दे­य­भे­दार्थं त्रैविध्यम् । समाधानं - ऐकाग्र्यं मम वचनात् इति शेषः । यत्र इति उभयत्र सम्बध्यते । तत् त्रिविधं सुखमिति पूर्वेण सम्बन्धः
॥ ३६ ॥

तत्र सात्त्विकं सुखम् आदेयत्वेन दर्शयति -
यत्तदिति ।

प्रथमसन्निपातं विभजते -
ज्ञानेति ।

कुतः तस्य दुःखात्मकत्वम् ? तत्र आह -
अत्यन्तेति ।

दुःखात्मकत्वे दृष्टान्तम् आह -
विषमिवेति ।
ज्ञाना­दि­प­रि­पा­का­वस्था परिणामः, तस्मिन् सति ततो जातम् इति योजना ।

तत्रैव हेत्वन्तरम् आह -
आत्मन इति ।

आत्म­बु­द्धि­श­ब्दस्य अर्थान्तरम् आह -
आत्मविषयेति ।
अन्तः­क­र­ण­नै­र्म­ल्याद्वा सम्य­ग्ज्ञा­न­प्र­क­र्षाद्वा जातत्वात् इति तच्छब्दार्थः
॥ ३७ ॥

राजसं सुखं हेयत्वाय कथयति -
विषयेति ।
बलं - सङ्घा­त­सा­मर्थ्यं, वीर्यं - पराक्रमकृतं यशः, रूपं - शरीरसौन्दर्यं, प्रज्ञा - श्रुता­र्थ­ग्र­ह­ण­सा­मर्थ्यं, मेधा - गृहीतार्थस्य अविस्मरणेन घारणशक्तिः, धनं - गोहिरण्यादि, उत्साहस्तु - कार्यं प्रति उपक्रमादिः, एतेषां नाशकत्वात् वैषयिकं सुखं विषसमम् इति अर्थः ।

तत्रैव हेत्वन्तरम् आह -
अधर्मेति
॥ ३८ ॥

तामसं सुखं त्यागार्थमेव उदाहरति -
यदग्रे चेति ।

अनु­ब­न्ध­श­ब्दा­र्थम् आह -
अवसानेति ।
मोहनं - मोहकरम् ।

तदु­त्प­त्ति­हे­तुम् आह -
निद्रेति
॥ ३९ ॥

क्रिया­का­र­क­फ­ला­त्मनः संसारस्य प्रत्येकं सात्त्वि­का­दि­भे­देन त्रैविध्यम् उक्त्वा संसा­रा­न्त­र्भू­त­मेव किञ्चित् गुण­त्र­या­स्पृ­ष्ट­मपि क्वचित् भविष्यति इति आशङ्क्य आह -
अथेति ।
संसारस्य सर्वस्यैव गुण­त्र­य­सं­स्पृ­ष्टत्वं प्रकरणम् । अन्यद्वा अप्राणि इत्यत्र अप्राणिशब्देन प्रसिद्ध्या स्थावरादि गृह्यते
॥ ४० ॥

प्रकरणार्थम् उपसंहृतम् अनुवदति -
सर्व इति ।

तस्य अनेकात्मत्वेन हेयत्वं सूचयति -
क्रियेति ।

निर्गुणात् आत्मनः वैलक्षण्याच्च तस्या हेयता, इति आह -
सत्त्वेति ।

अनर्थत्वाच्च तस्य त्याज्यत्वम् , अनर्थत्वं च अवि­द्या­क­ल्पि­त­त्वेन, अवस्तुनो वस्तुवत् भानात् इत्याह -
अविद्येति ।

न केवलम् अष्टादशे संसारो दर्शितः, किन्तु पञ्चदशेऽपीत्याह -
वृक्षेति ।
चकारात् उक्तः संसारः अनुकृष्यते ।

संसा­र­ध्व­स्ति­सा­धनं सम्यक् ज्ञानं च तत्रैव उक्तम् इत्याह -
असङ्गेति ।

वृत्तम् अनूद्य अन­न्त­र­स­न्द­र्भ­ता­त्प­र्यम् आह -
तत्र चेति ।
उक्तः निवर्तयिषितः संसारः सतिसप्तम्या परामृश्यते । सर्वो हि संसारो गुणत्रयात्मकः । न च गुणानां प्रकृ­त्या­त्म­कानां संसा­र­का­र­णी­भू­तानां निवृत्तिः युक्ता, प्रकृतेः नित्यत्वात् इति आशङ्कायां, स्वध­र्मा­नु­ष्ठा­नात् तत्त्व­ज्ञा­नो­त्पत्त्या गुणानाम् अज्ञानात्मकानां निवृत्तिर्यथा भवति, तथा स्वधर्मजातं वक्तव्यम् इति उत्त­र­ग्र­न्थ­प्र­वृत्तिः इत्यर्थः ।

तत्त­द्व­र्ण­प्र­यु­क्त­ध­र्म­जा­ता­नु­प­देशे च उप­सं­हा­र­प्र­क­र­ण­प्र­कोपः स्यात् , इति आह -
सर्वश्चेति ।

उपसंहृते गीताशास्त्रे यद्यपि सर्वो वेदार्थः स्मृत्यर्थश्च सर्वः उपसंहृतः, तथापि मुमुक्षुभिः अनुष्ठेयम् अस्ति वक्तवयम् अवशिष्टम् इति आशङ्क्य आह -
एतावानिति ।
अनु­ष्ठे­य­प­रि­मा­ण­नि­र्धा­र­ण­वत् उक्त­श­ङ्का­नि­व­र्तनं शास्त्रा­र्थो­प­सं­हा­रश्च इति एतत् उभयं चकारार्थः ।

सम्प्रति वर्णचतुष्टयस्य अनुष्ठेयं धर्मजातम् असङ्कीर्णम् इति सूत्रम् उपन्यस्यति-
ब्राह्मणेति ।
उप­न­य­न­सं­स्का­र­वत्त्वे सति वेदाधिकारित्वं समानम् इति त्रयाणां समासकरणम् ।

इतरेषाम् असमासे हेतुम् आह -
शूद्राणाम् इति ।
एकजातित्वम् उप­न­य­न­व­र्जि­त­त्वम् ।

कर्मणाम् असङ्कीर्णत्वेन व्यवस्थापकं प्रश्नपूर्वकं प्रकटयति -
केन इत्यादिना ।

स्वभावप्रभवैः गुणैः इत्यस्य अर्थान्तरम् आह -
अथवेति ।

उक्तव्यवस्थायां कार्यदर्शनं प्रमाणयति -
प्रशान्तीति ।

स्वभावशब्दस्य अर्थान्तरम् आह -
अथवेति ।

किमिति गुणाभिव्यक्तेः उक्त­वा­स­ना­धी­न­त्वम् ? तत्र आह -
गुणेति ।

ननु ऩास्ति गुण­प्रा­दु­र्भा­वस्य निष्कारणत्वं, प्रकृतिजैः गुणैः इति प्रकृतेः गुण­का­र­ण­त्वा­भि­धा­नात् , अतः आह -
स्वभाव इति ।
वासना कारणम् इति गुणव्यक्तेः निमित्तकारणत्वं विवक्षितम् । प्रकृतिस्तु उपादान इति भावः ।

उक्तम् उपसंहरति -
एवमिति ।

स्वभावप्रभवैः सत्त्वादिगुणैः ब्राह्मणादीनां कर्माणि प्रविभक्तानि इति उक्तम् आक्षिपति-
नन्विति ।

शास्त्रस्य धर्मविभागहेतोः सत्त्वा­दि­वि­शे­षा­पे­क्ष­यैव विभा­ग­ज्ञा­प­क­त्वात् उभयत्र विभा­ग­हे­तु­त्वोक्तिः अविरुद्धा इति परिहरति -
नैष दोष इति
॥ ४१ ॥

प्रविभक्तानि कर्माण्येव प्रश्नद्वारा विविच्य दर्शयति -
कानीत्यादिना ।

‘अन्तःकरणोपशमः - शमः', दमः - बाह्यकरणोपरतिः इत्यक्तं स्मारयति-
यथेति ।
त्रिविधं तपः सप्तदशे दर्शितम् इत्याह - तप इति ।

शौचमपि बाह्यान्तरभेदेन प्रागेव उक्तम् इत्याह -
शौचमिति ।
क्षमा नाम आक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यम् । ज्ञानं - शास्त्री­य­प­दा­र्थ­ज्ञा­नम् । विज्ञानं शास्त्रार्थस्य स्वानु­भ­वा­य­त्त­त्वा­पा­द­नम् ।

त्रिधा व्याख्यातं स्वभा­व­श­ब्दा­र्थम् उपेत्य आह -
यदुक्तमिति
॥ ४२ ॥

शौर्यमिति ।
शूरस्य भावः विक्रमः - बलवत्तरानपि प्रहर्तुम् प्रवृत्तिः । प्रागल्भ्यं - परैः अघर्षणीयत्वम् ।

महत्यामपि विपदि देहे­न्द्रि­यो­त्त­म्भनी चित्तवृत्तिः धृतिः इति व्याचष्टे -
सर्वा­व­स्था­स्विति ।

दक्षस्य भावमेव विभजते-
सहसेति ।
स्वभावस्तु पूर्ववत्
॥ ४३ ॥

वैश्यशूद्रयोः कर्म विवक्षया अनुवदति -
कृषीति ।
स्पष्टार्थः
॥ ४४ ॥

शमा­दि­प­रि­च­र्या­न्त­क­र्मणां विभज्य उक्तानाम् अभ्युदयं फलम् आदौ उपन्यस्यति-
एतेषामिति ।
स्वभावतः - विहितत्वादेव मोक्षापेक्षाम् अन्तरेण अनुष्ठानात् इत्यर्थः ।

तत्र प्रमाणम् आह -
वर्णाः इति ।
शेषशब्देन भुक्तकर्मणः अतिरिक्तं कर्म अनुशयशब्दितम् उच्यते । प्रत्येकं देशादिभिः विशिष्टशब्दः सम्बध्यते । आदिशब्देन ‘तद्यथा आम्रे फलार्थे निर्मिते छायागन्धौ अनूत्पद्येते, एवं धर्मं चर्यमाणम् अर्थाः अनूत्पद्यन्ते । न धर्म हानिः भवति । ‘ इति स्मृतिः गृह्यते ।

इतश्च उक्तानां कर्मणां स्वर्गफलत्वं युक्तम् इत्याह -
पुराणे चेति ।
उक्तं हि -
“यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम् ।
तद्व­र्ण­ब­न्ध­मु­क्तोऽसौ लोकान् आप्नो­त्य­नु­त्त­मान्“ इति ।
“ यस्त्वेतां नियतः चर्यां वान­प्र­स्थ­श्च­रे­न्मुनिः ।
स दह­त्य­ग्नि­व­द्दो­षान् जयेल्लोकांश्च शाश्वतान् ॥“ इति ।
“मोक्षाश्रमो यश्चरते यथोक्तं शुचिः सुस­ङ्क­ल्पि­त­बु­द्धि­युक्तः ।
अनि­न्ध­न­ज्यो­ति­रिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ “
इति च । “सर्व एते पुण्यलोका भवन्ति" इति श्रुतिः चकारार्थः ।

यदि पुनः मोक्षापेक्षया उक्तानि कर्माणि अनुष्ठीयेरन् , तदा मोक्षफलत्वं तेषां सेत्स्यति इत्याह-
कारणान्तरादिति ।
तदेव कारणान्तरं, यत् मोक्षापेक्षया तेषाम् अनुष्ठानम् ।

मोक्षोपायेषु शमदिषु सात्त्विकेषु ब्राह्मणधर्मेषु क्षत्रियादीनाम् अनधिकारात् ब्राह्मणानामेव मोक्षः, न क्षत्रियादीनाम् , इति आशङ्क्य आह -
स्वे स्वे इति ।

यथा स्वे कर्मणि अभिरतस्य बुद्धि­शु­द्धि­द्वारा ज्ञान­नि­ष्ठा­यो­ग्य­तया प्राप्तज्ञानस्य मोक्षोपपत्तेः ब्राह्म­णा­ति­रि­क्त­स्यापि ज्ञानवतः मुक्तिः इति मत्वा पूर्वार्धं व्याचष्टे -
स्वे स्वे इत्यादिना ।

संसिद्धिशब्दस्य मोक्षार्थत्वं गृहीत्वा स्वध­र्म­नि­ष्ठ­त्व­मा­त्रेण तल्लाभे, तादर्थ्येन संन्या­सा­दि­वि­धा­ना­न­र्थ­क्यम् इति मन्वानः शङ्कते -
किमिति ।

न तावन्मात्रेण साक्षान्मोक्षः, ज्ञान­नि­ष्ठा­यो­ग्यता वा इति परिहरति -
नेति ।

तर्हि कथं स्वधर्मनिष्ठस्य संसिद्धिरिति पृच्छति -
कथं तर्हि इति ।

उत्तरार्धेन उत्तरम् आह -
स्वकर्मेति ।
तत् श्रृणु - तं प्रकारम् एकाग्रचेता भूत्वा श्रुत्वा, अवधारय इत्यर्थः
॥ ४५ ॥

तमेव प्रकारं स्फुटयति -
यत इति ।

यतःशब्दार्थं यस्मात् इत्युक्तं व्यक्तीकरोति -
यस्मादिति ।
प्राणिनाम् उत्पत्तिः यस्मात् - ईश्वरात् तेषां चेष्टा च यस्मात् अन्तर्यामिणः, येन च सर्वं व्याप्तं, मृदा इव घटादि, कार्यस्य कार­णा­ति­रि­क्त­स्व­रू­पा­भा­वात् , तं स्वकर्मणा अभ्यर्च्य मानवः संसिद्धिं विन्दति इति सम्बन्धः । न हि ब्राह्मणादीनां यथो­क्त­ध­र्म­नि­ष्ठया साक्षात् मोक्षः लभ्यते, तस्य ज्ञानै­क­ल­भ्य­त्वात् ।

किन्तु, तन्निष्ठानां शुद्धबुद्धीनां कर्मसु फलम् अपश्यताम् ईश्व­र­प्र­सा­दा­सा­दि­त­वि­वे­क­वै­रा­ग्य­वतां संन्यासिनां ज्ञान­नि­ष्ठा­यो­ग्य­ता­वतां ज्ञानप्राप्त्या मुक्तिः इति अभिप्रेत्य आह -
केवलमिति
॥ ४६ ॥

स्वध­र्मा­नु­ष्ठा­नस्य बुद्धि­शु­द्ध्या­दि­द्वारा मोक्षा­व­सा­यि­त्वात् , तदनुष्ठानम् आवश्यकम् इत्याह -
यत इति ।

ननु युद्धादिलक्षणं स्वधर्मं कुर्वन्नपि हिंसाधीनं पापं प्राप्नोति तत् कथं स्वधर्मः श्रेयान् इति ? तत्र आह -
स्वभावेति ।

स्वकीयं वर्णाश्रमं निमित्तीकृत्य विहितं स्वभावजम् इति अधस्तात् उक्तम् इत्याह -
यदुक्तमिति ।

विग्रहात्मकमपि विहितं कर्म कुर्वन् पापं न आप्नोति इति अत्र दृष्टान्तम् आह -
यथेति
॥ ४७ ॥

इतश्च विहितं कर्म दोषवदपि कर्तव्यं, प्रका­रा­न्त­रा­स­म्भ­वात् , इति उक्ता­नु­वा­द­पू­र्वकं कथयति-
स्वभावेत्यादिना ।
न हि कृमिः विषजः विषनिमित्तं मरणं प्रतिपद्यते । तथा अयम् अधिकृतः पुरुषः दोषवदपि विहितं कर्म कुर्वन् पापं न आप्नोति इति उक्तम् इत्यर्थः । तर्हि दोषरहितमेव भिक्षाटनादि सर्वैः अनुष्ठीयताम् ।

अतः न पाप­प्रा­प्त्या­शङ्का इति आशङ्क्य आह -
परेति ।
उक्तम् इति अनुवर्तते ।

तर्हि पाप­प्रा­प्ति­शङ्कां परिहर्तुम् अक­र्म­नि­ष्ठ­त्व­मेव सर्वेषां स्यात् इति आशङ्क्य, ज्ञानाभावात् नैवम् इत्याह -
अनात्मज्ञ इति ।
पूर्ववत् अत्रापि सम्बन्धः ।

प्रका­रा­न्त­रा­स­म्भ­व­कृतं फलम् आह -
अत इति ।
सह जायते इति सहजं - स्वभावनियतं नित्यं कर्म ।

तत् विहितत्वात् ऩिर्देषमपि हिंसात्मकतया सदोषम् इत्यत्र हेतुम् आह -
त्रिगुणेति ।
सत्त्वा­दि­गु­ण­त्र­या­र­ब्ध­तया हिंसादिदोषवदपि कर्म विहितम् अत्याज्यम् इत्यर्थः ।

कर्मणां दोषवत्त्वं प्रपञ्चयति -
सर्वेति ।

आरम्भशब्दस्य कर्म­व्यु­त्पत्त्या स्वप­र­स­र्व­क­र्मा­र्थत्वे कर्मणां प्रकृतत्वं हेतुम् आह -
प्रकरणादिति ।

दोषेण इत्यादि व्याचष्ठे -
ये केचिदिति ।
ते सर्वे दोषेण आवृताः इति सम्बन्धः ।

सर्वकर्मणां दोषावृतत्वे हिशब्दोपात्तं यस्मात् इत्युक्तं हेतुमेव अभिनयति -
त्रिगु­णा­त्म­क­त्व­मिति ।
स्वभावनियतस्य कर्मणः दोषवत्त्वात् , तत्त्यागद्वारा परधर्मम् आतिष्ठमानस्यापि नैव दोषात् विमोकः सम्भवति । न च परधर्मः अनुष्ठातुं शक्यते भयावहत्वात् । न च तर्हि कर्मणः अशेषतः अननुष्ठानमेव, अज्ञस्य अशे­ष­क­र्म­त्या­गा­यो­गात् ।

अतः सहजं कर्म सदोषमपि न त्याज्यम् इति वाक्यर्थम् आह-
सहजस्येति ।

सहजं कर्म सदोषमपि न त्यजेत् इत्यत्र विचारम् अवतारयति -
किमिति ।
न हि कश्चिदिति न्यायात् इति शेषः । दोषः - विहि­त­नि­त्य­त्यागे प्रत्यवायः ।

सन्दिग्धस्य सप्रयोजनस्य विचार्यत्वात् , उक्ते सन्देहे प्रयोजनं पृच्छति -
किं चात इति ।

तत्र आद्यम् अऩूद्य फलं दर्शयति -
यदीति ।

अश­क्या­र्था­नु­ष्ठा­नस्य गुणत्वेन प्रसिद्धत्वात् । प्रसिद्धं हि महोदधिम् अगस्त्यस्य चुलुकीकृत्य पिबतो गुणवत्त्वम् । तदाह -
एवं तर्हि इति ।

अशे­ष­क­र्म­त्या­गस्य गुणवत्त्वेऽपि प्रागु­क्त­न्या­येन तदयोगात् तस्य अशक्यानुष्ठानता इति शङ्कते -
सत्यमिति ।

चोद्यमेव विवृण्वन् आद्यं विभजते -
किमिति ।

सत्त्वादिगुणवत् आत्मनः नित्य­प्र­च­लि­त­त्वेन अशेषतः तेन न कर्म त्यक्तुं शक्यम् ; नापि रूप­वि­ज्ञा­न­वे­द­ना­सं­ज्ञा­सं­स्का­र­सं­ज्ञानां क्षणध्वंसिनां स्कन्धानाम् इव क्रिया­का­र­क­भे­दा­भा­वात् कारकस्यैव आत्मनः क्रियात्वम् इत्युक्ते कर्म अशेषतः त्यक्तुं शक्यम् , उभयत्रापि स्वभावभङ्गात् इत्याह -
उभयथेति ।

पक्ष­द्व­या­नु­रो­धेन अशे­ष­क­र्म­त्या­गा­योगे, वैशेषिकः चोदयति -
अथेति ।

कदाचित् आत्मा सक्रियः, निष्क्रियश्च कदाचित् , इति स्थिते फलितम् आह -
तत्रेति ।

उक्तमेव पक्षं पूर्वो­क्त­प­क्ष­द्व­यात् विशेषदर्शनेन विशदयति -
अयं त्विति ।

आगमापायित्वे क्रियायाः, तद्वतः द्रव्यस्य कथं स्थायिता ? इति अशङ्क्य, आह -
शुद्धमिति ।

क्रिया­श­क्ति­म­त्त्वेऽपि क्रिया­व­त्त्वा­भावे कथं कारकत्वम् ? क्रियां कुर्वत् कारणं कारकम् इति अभ्युपगभात् इति आशङ्क्य, आह -
तदेवेति ।
क्रियाशक्तिमदेव कारकं न क्रियाधिकरणं, परस्पराश्रयात् इत्यर्थः ।

वैशेषिकपक्षे दोषाभावात् अस्ति सर्वैः स्वीकार्यता इति उपसंहरति -
इत्यस्मिन्निति ।

भग­व­न्म­ता­नु­सा­रि­त्वा­भा­वात् अस्य पक्षस्य त्याज्यता इति दूषयति-
अयमेवेति ।

भग­व­न्म­ता­न­नु­सा­रि­त्वम् अस्य अप्रामाणकम् इति शङ्कते-
कथमिति ।

भगवद्वचनम् उदाहरन् परपक्षस्य तद­नु­गु­ण­त्वा­भा­वम् आह -
यत इति ।

परेषामपि मतम् एतदनुगुणमेव किं न स्यात् इति आशङ्क्य, आह -
काणादानां हीति ।

भग­व­न्म­ता­नु­गु­ण­त्वा­भा­वेऽपि न्याया­नु­गु­ण­त्वेन दोषरहितं काणादानां मतम् उपादेयमेव तर्हि काणादमतविरोधात् उपेक्ष्यते भगवन्मतम् इति शङ्कते -
अभागवतत्वेऽपि इति ।

न्यायवत्त्वम् असिद्धम् इति दूषयति -
उच्यत इति ।

सर्व­प्र­मा­णा­नु­सा­रिणः मतस्य न तद्विरोधिता इति आक्षिपति -
कथमिति ।

वैशेषिकमतस्य सर्व­प्र­मा­ण­वि­रोधं प्रकटयन् आदौ तन्मतम् अनुवदति-
यदीति ।

असतः जन्म, सतश्च नाशः इति स्थिते फलितम् आह -
तथा चेति ।

उक्तमेव वाक्यं व्याकरोति -
अभाव इति ।

सदेव असत्त्वम् आपद्यते इत्युक्तं व्याचष्टे -
भावश्चेति ।
इति मतमिति शेषः ।

तत्रैव अभ्युगमान्तरम् आह -
तत्रेति ।
प्रकृतं मतं सप्तम्यर्थः । इति अभ्युपगम्यते इति शेषः ।

परकीयम् अभ्युपगमं दूषयति -
न चेति ।
एवमिति - पर­प­रि­भा­षा­नु­सा­रेण इत्यर्थः । अदर्शनात् - उत्पत्तेः अपेक्षायाश्च इति शेषः ।

कथं तर्हि त्वन्मतेऽपि घटादीनां कारणापेक्षाणाम् उत्पत्तिः, न हि भावानां कारणापेक्षा उत्पत्तिर्वा युक्ता, इति तत्राह -
भावेति ।
धटादीनाम् अस्मत्पक्षे प्रागपि कारणात्मना सतामेव अव्य­क्त­ना­म­रू­पा­णाम् अभि­व्य­क्ति­सा­म­ग्रीम् अपेक्ष्य पृथक् अभि­व्य­क्ति­स­म्भ­वात् न किञ्चित् अवद्यम् इत्यर्थः ।

असत्कार्यवादे दोषान्तरम् आह -
किञ्चेति ।

परमते मानमेयव्यवहारे क्वचिदपि विश्वासः न कस्यचित् इत्यत्र हेतुमाह -
सत्सदेवेति ।
न हि सत् तथैव इति निश्चितं, तस्यैव पुनः अस­त्त्व­प्राप्तेः इष्टत्वात् , न च असत् तथैवेति निश्चयः, तस्यैव सत्त्वप्राप्तेः उपगमात् । अतः यत् मानेन सत् असद्वा निर्णीतं तत् तथेति विश्वासाभावात् मानवैफल्यम् इत्यर्थः ।

इतश्च असत्कार्यवादः न युक्तिमान् इत्याह -
किञ्चेति ।

तदेव हेत्वन्तरं स्फोरयितुं परमतम् अनुवदति -
उत्पद्यत इतीति ।

परकीयं वचनमेव व्याचष्टे -
प्रागिति ।
सम्बद्धं सत् इति अनेन कारणसम्बन्धे सति कार्यस्य सत्तासम्बन्धः भवति इति उक्तम् ।

तदेव स्फुटयति -
कारणेति ।

परमतमेव अनुभाष्य दूषयति -
तत्रेति ।
कार्यस्य असतोऽपि कारणं सम्भवति ।

तस्य च कार्येण सम्बन्धः सिद्ध्यति इति आशङ्क्य आह -
न हीति ।
असत्त्वादेव असतः सम्बन्धाभावे करणस्य सतोऽपि न तेन सम्बन्धः अनुमातुं शक्यते ; सदसतोः सम्बन्धाभावात् इत्यर्थः ।

कार्यस्य अत्य­न्ता­स­त्त्वा­न­भ्यु­प­ग­मात् कारणसम्बन्धः स्यात् इति शङ्कते -
नन्विति ।

सतामेव द्व्यणुकादीनां कारणसम्बन्धं शङ्कितं दूषयति -
न सम्बन्धादिति ।

अनभ्युपगममेव विशदयति -
नहीति ।

सदेव कारणं कार्याकारम् आपद्य कार्यव्यवहारं निर्वहति इति अभ्युपगमात् नास्ति सम्ब­न्धा­नु­प­पत्तिः इति आशङ्क्य अपराद्वान्तात् मैवम् इत्याह -
न चेति ।

कार्यस्य कारणसम्बन्धात् पूर्वं सत्त्वाभावे परिशेषसिद्धम् अर्थं दर्शयति -
ततश्चेति ।
तत्र च अनुपपत्तिः उक्ता इति शेषः ।

सम्बन्धिनोः सदसतोरेव असंयोगेऽपि समवायः सदसतोः सम्भवेत् इति, तस्य नित्यत्वात् अन्य­त­र­स­म्ब­न्धा­भा­वेऽपि स्थितेः आवश्यकत्वात् इति शङ्कते -
नन्विति ।

सदसतोः मिथः सम्बन्धस्य अदृष्टत्वात् न इति निराचष्टे -
न वन्ध्येति ।

घटा­दि­प्रा­ग­भा­वस्य अत्य­न्ता­भा­व­त्वा­भा­वात् वन्ध्या­पु­त्रा­दि­वि­ल­क्ष­ण­तया स्वकारणसम्बन्धः सिध्यति इति आशङ्क्य आह -
घटादेरिति ।
उभयत्र अभा­व­स्व­भा­वा­वि­शे­षेऽपि, कस्याचित् कारणसम्बन्धः, न इतरस्य, इति विशेषे, हेत्वभावात् न प्रागभावस्य कारणसम्बन्धः सम्भवति इत्यर्थः ।

घटा­दि­प्रा­ग­भा­वस्य सप्र­ति­यो­गि­कत्वं, वन्ध्या­पु­त्रादेः नैवम् इति विशेषम् आशङ्क्य दूषयति-
एकस्येति ।
प्रागभावस्येव प्रध्वं­सा­भा­वा­दे­रपि सप्र­ति­यो­गि­क­त्वा­वि­शेषे स्वकारणेन सम्बन्धाविशेषः स्यात् इत्यर्थः ।

प्राग­भा­व­प्र­ध्वं­सा­भा­वयोः विशेषाभावे फलितम् आह -
असति चेति ।
कपालशब्दः धट­का­र­णी­भू­त­मृ­द­व­य­व­वि­षयः । सर्वः व्यवहारः घटाश्रितः जन्म­ना­शा­दि­व्य­व­हारः । प्रध्वं­सा­भा­वस्तु घटस्यैव अभावत्वे सत्यपि न घटत्वम् आपद्यते । नापि कारणेन संबध्यते ।

न च उत्प­त्त्या­दि­व्य­व­हा­र­योग्यः भवति, इति एतत् अयुक्तं, प्रागभावेन अस्य विशेषाभावात् इत्याह -
न त्विति ।
असमञ्जसम् इत्यनेन इतिशब्दः सम्बध्यते ।

असमञ्जसान्तरम् आह -
प्रध्वंसादीति ।
अन्यो­न्या­भा­वा­त्य­न्ता­भावौ अदिपदार्थौ । क्कचित् इति देशकालयोः ग्रहणम् । व्यवहारः जन्मादिरेव । प्रागभावः न उत्प­त्त्या­दि­व्य­व­हा­र­योग्यः, अभावत्वात् , प्रध्वंसादिवत् इत्यर्थः ।

प्रागभावस्य घट­भा­वा­न­भ्यु­प­ग­मात् अनुमानं सिद्धसाधनम् इति शङ्कते -
नन्विति ।

अभावस्य भावा­प­त्त्य­न­भ्यु­प­गमे भावस्यैव भावापत्तिः इति अनिष्टं स्यात् इति दूषयति -
भावस्यैवेति ।

तस्य तदापत्तेः अयोग्यत्वे दृष्टान्तम् आह -
यथेति ।

अभावस्य भावापत्तिः अनिष्टा इति दार्ष्टान्तिकं स्पष्टयति -
एतदपीति ।

आरम्भवादोक्तं दोषं परिणामवादेऽपि सञ्चारयति -
साङ्ख्यस्येति ।
धर्मः - परिणामः । असतः अपूर्वपरिणामस्य उत्पत्तेः, सतश्च पूर्वपरिणामस्य नाशात् , असत् असदेव, सच्च सदेव इति व्यवस्था अत्रापि दुर्घटा इत्यर्थः । ननु कार्यं कारणात्मना प्रागपि सदेव अव्यक्तं कारकव्यापारात् व्यज्यते । तेन व्यक्त्य­व्यक्त्योः जन्म­ना­श­व्य­व­हा­रात् मतान्तरात् विशेषसिद्धिः ।

तत्र आह -
अभिव्यक्तीति ।
कारकव्यापारात् प्राक् अनभिव्यक्तिवत् अभिव्यक्तेः सत्त्वम् असत्त्वं वा ? सत्त्वे कार­क­व्या­पा­र­वै­य­र्थ्यात् तद्वि­ष­य­प्र­मा­ण­वि­रोधः । द्वितोये पक्षान्तरवत् अत्यन्तासतः तन्नि­र्व­र्त्य­त्वा­योगे स एव दोषः । कारकव्यापारात् ऊर्ध्वं व्यक्तिवत् अव्यक्तेरपि सत्त्वे स एव दोषः । असत्त्वेऽपि सतो अस­त्त्वा­न­ङ्गी­का­रात् मानमेयव्यवहारे न क्कापि विश्वासः । सत् सदेव, असत् असदेव इति अनिर्धारणात् इत्यर्थः ।

साङ्ख्य­प­क्ष­प्र­ति­क्षे­प­न्या­येन पक्षान्तरमपि प्रतिक्षिप्तम् इत्याह -
एतेनेति ।
कारणस्यैव कार्यरूपापत्तिः उत्पत्तिः । तस्यैव तद्रूपत्यागेन स्वरूपापत्तिः नाशः इति एतदपि न । पूर्वरूपे स्थिते नष्टे च, परस्य पररूपापत्तेः अनुपपत्तेः । न च प्राप्तं रूपं स्थितेन नष्टेन वा त्यक्तुं शक्यम् इत्यर्थः ।

आरम्भवादे परिणामवादे च उत्प­त्त्या­दि­व्य­व­हा­रा­नु­प­पत्तौ परिशेषायातं दर्शयति-
पारिशेष्यादिति ।

एकस्य अने­क­वि­ध­वि­क­ल्पा­नु­प­प­त्तिम् आशङ्क्य, आह -
अविद्ययेति ।

अस्यापि मतस्य भग­व­न्म­ता­नु­रो­धि­त्वा­भा­वात् अविशिष्टा त्याज्यता इति आशङ्क्य आह -
इतीदमिति ।

उक्तमेव भगवन्मतं विशदयति -
सत्प्र­त्य­य­स्येति ।
सत् एकमेव वस्तु स्यात् इति शेषः ।

इतरेषां विका­र­प्र­त्य­यानां रजतादिधीवत् अर्थव्यभिचारात् , अविद्यया तदेव सद्वस्तु अनेकधा विकल्प्यते इत्याह -
व्यभिचाराच्चेति ।
इति मतं श्लोके दर्शितम् इति सम्बन्धः ।

आत्मनश्चेत् अविक्रियत्वं भगवता इष्टं, तर्हि सर्व­क­र्म­प­रि­त्या­गो­प­पत्तेः, सहजस्यापि कर्मणः त्यागसिद्धिः इति शङ्कते -
कथमिति ।

किं कार्य­का­र­णा­त्मनां गुणानाम् अकल्पितानां कल्पितानां वा कर्म धर्मत्वेन इष्टम् ? द्विधापि निश्शे­ष­क­र्म­त्यागः विदुषः अविदुषो वा ? न आद्यः इत्याह -
यदीत्यादिना ।
अविद्यारोपितमेव गुण­श­ब्दि­त­का­र्य­का­र­णा­रो­प­द्वारा कर्म इति शेषः ।

द्वितीयं प्रति आह -
विद्वांस्त्विति ।

आरोपशेषवशात् विदुषोऽपि न अशे­ष­क­र्म­त्या­ग­सिद्धिः इति आशङ्क्य, आह -
अविद्येति ।

तामेव अनुपपत्तिं दृष्टान्तेन स्पष्टयति -
न हीति ।

विदुषः अशेषकर्मत्यागे पाञ्चमिकमपि वचः अनुकूलम् इत्याह -
एवं चेति ।

अविदुषः सर्व­क­र्म­त्या­गा­योगे च प्रकृ­ता­ध्या­य­स्थ­मेव वाक्यम् अनुगुणम् इति आह -
स्वे स्वे इति ।

वाक्यान्तरमपि तत्रैव अर्थे युक्तार्थम् इत्याह -
स्वकर्मणेति
॥ ४८ ॥

विदुषः सर्व­क­र्म­त्या­गेऽपि, न अविदुषः तथा, इति, उक्तम् । इदानीम् उक्तम् अनूद्य अन­न्त­र­श्लो­क­ता­त्प­र्यम् आह -
या च कर्मजेति ।
चः अवधारणार्थः भिन्नक्रमः, वक्तव्यः इत्यत्र सम्बध्यते ।

साधनानि उपदिशन् नैष्क­र्म्य­सिद्धिं व्यपदिशति -
असक्तेति ।

पुत्रादिविषये चेतसः सङ्गाभावेऽपि तस्य अस्वाधीनत्वम् आशङ्क्य, आह-
जितात्मेति ।

असक्तिम् उक्त्वा स्पृहाभावं वदता पुनरुक्तिः इष्टा इति आशङ्क्य, आह-
देहेति ।

उक्तम् अनूद्यतत्फलं लम्भयति -
य एवमिति ।
कर्मणां निर्गतौ हेतुम् आह - निष्क्रियेति ।

सम्य­ग्ज्ञा­ना­र्थ­त्वेन नैष्क­र्म्य­सि­द्धि­शब्दं व्याख्याय अर्थान्तरम् आह -
नैष्क­र्म्य­स्येति ।

प्रकर्षमेव प्रकटयति -
कर्मजेति ।

संन्यासस्य श्रुतिस्मृत्योः सम्य­ग्द­र्श­न­त्वा­प्र­सिद्धेः अयुक्तं तादात्म्यम् इति आशङ्क्य, पक्षान्तरम् आह -
तत्पूर्वकेणेति ।

संन्यासात् नैष्क­र्म्य­प्राप्तिः इत्यत्र वाक्यो­प­क्र­मा­नु­कू­ल्यम् आह -
तथा चेति
॥ ४९ ॥

ज्ञान­प्रा­प्ति­यो­ग्य­ता­वतः जातसम्यग्धियः तत्फलप्राप्तौ मुक्तौ उक्तायां, वक्तव्यशेषः नास्ति इति आशङ्क्य, आह -
पूर्वोक्तेनेति ।
क्रमाख्यं वस्तु तत् उच्यते ।

सिद्धि­म्प्राप्तः इति उक्तमेव कस्मात् अनूद्यते ? तत्र आह -
तदनुवाद इति ।

उत्तरमेव प्रश्नपूर्वकं स्फोरयति -
किं तदित्यादिना ।

ज्ञान­नि­ष्ठा­प्रा­प्ति­क्र­मस्य विस्तरेण उक्तौ दुर्बोधत्वम् आशङ्क्य परिहरति -
किमिति ।

चतुर्थपादस्य पूर्वेण असङ्गतिम् आशङ्क्य, आह -
यथेति ।

निष्ठायाः सापेक्षत्वात् प्रतिसम्बन्धि प्रति­नि­र्दे­ष्ट­व्यम् इत्याह -
कस्येति ।

या ब्रह्मज्ञानस्य परा निष्ठा, सा प्रकृतस्य ज्ञानस्य निष्ठा इत्याह -
ब्रह्मेति ।

तस्य परा निष्ठा न प्रसिद्धा इति कृत्वा साध­ना­नु­ष्ठा­ना­धी­न­तया साध्या इति मत्वा पृच्छति -
कीदृशीति ।

प्रसिद्धम् आत्मज्ञानम् अनुरुध्य ब्रह्म­ज्ञा­न­निष्ठा सुज्ञाना इत्याह -
यादृशमिति ।

तत्रापि प्रसिद्धिः अप्रसिद्धा इति शङ्कते -
कीदृगिति ।

अर्थेनैव विशेषो हि इति न्यायेन उत्तरम् आह -
यादृशः इति ।

तस्मिन्नपि विप्रतिपत्तेः अप्रसिद्धिम् अभिसन्धाय पृच्छति -
कीदृशः इति ।

भगवद्वाक्यानि उपनिषद्वाक्यानि च आश्रित्य परिहरति -
यादृशः इति ।
न जायते म्रियते वेत्यादीनि वाक्यानि । कूटस्थत्वम् असङ्गत्वम् इत्यादि न्यायः ।

ज्ञानस्य विषयाकारत्वात् , आत्मनश्च अविषयत्वात् अनाकारत्वाच्च तदा­का­र­ज्ञा­ना­यो­गात् , आत्म­प्र­सि­द्धा­वपि न आत्म­ज्ञा­न­प्र­सिद्धिः इति शङ्कते -
नन्विति ।

आकारवत्त्वम् आत्मनः श्रुतिसिद्धम् इति सिद्धान्ती शङ्कते-
नन्वादित्येति ।

उक्तवाक्यानाम् अन्या­र्थ­त्व­द­र्श­नेन पूर्ववादी परिहरति -
नेत्यादिना ।

सङ्ग्रहवाक्यं प्रपञ्चयति -
द्रव्येति ।

इतश्च आकारवत्त्वम् आत्मनः नास्ति इति आह-
अरूपमिति ।

यत् आत्मनः विषयत्वाभावात् तद्विषयं ज्ञानं न सम्भवति इति उक्तं तत् उपपादयति-
अविषयत्वाच्चेति ।

आत्मनः अविषयत्वे श्रुतिम् उदाहरति -
नेत्यादिना ।
सन्दृशे - सम्य­ग्द­र्श­न­वि­ष­य­त्वाय, अस्य - आत्मनः, रूपं न तिष्ठति इत्यर्थः ।

तदेव करणागोचरत्वेन उपपादयति -
नेति ।