आनन्दगिरिटीका (गीताभाष्य)
अष्टादशोऽध्यायः (१)
पूर्वैः अध्यायैः विस्तरेण यतस्ततः विक्षिप्ततया उक्तम् अर्थं सुखप्रतिपत्त्यर्थं सङ्क्षेपेण उपसंहृत्य अभिधातुम् अध्यायान्तरम् अवतारयति -
सर्वस्यैवेति ।
उपसंहृत्य वक्तव्यः इति सम्बन्धः ।
किञ्च उपनिषत्सु यतस्ततः विस्तृतस्य अर्थस्य बुद्धिसौकर्यार्थम् अस्मिन् अध्याये सङ्क्षिप्ताभिधानं कर्तव्यम् , उपनिषदां गीतानां च एकार्थत्वात् इत्याह -
सर्वश्चेति ।
कथं सर्वोऽपि शास्त्रार्थः अस्मिन् अध्याये सङ्क्षिप्य उपसंह्रियते ? तत्र आह -
सर्वेषु हीति ।
ननु वेदार्थश्चेत् अशेषतः अत्र उपसञ्जिहीर्षितः, तर्हि किमिति ‘त्यागेनैके’ ‘संन्यासयोगात् ‘ इति वेदार्थैकदेशविषयं प्रश्नप्रतिवचनम् ? तत्र आह -
अर्जुनस्त्विति ।
पृथक् अनयोः तत्त्वं वेदितुम् इच्छामि इति विशेषणात् अपृथगर्थः तयोः अस्तीति गम्यते । बुभुत्सितस्य प्रष्टव्यत्वात् एकदेशे तद्भावात् उक्तप्रश्नोपपत्तिः इति भावः
॥ १ ॥
ननु पूर्वेषु अध्यायेषु तत्र तत्र संन्यासत्यागयोः उक्तत्वात् किमिति पुनः तौ पृचछ्यते ? ज्ञाते तदयोगात् । तत्राह -
तत्र तत्रेति ।
न निर्लुण्ठितार्थौ - न निष्कृष्टार्थौ न विविक्तार्थौ इत्यर्थः ।
बुभुत्सया प्रश्नस्य प्रवृत्तत्वात् , प्रष्टुः अभिपायं प्रश्नेन प्रतिपद्य भगवान् उत्तरम् उक्तवान् इत्याह -
अत इति ।
पक्षद्वयोपन्यासेन संन्यासत्यागशब्दयोः अर्थभेदं कथयति -
काम्यानाम् इति ।
तत् किम् इदानीं संन्यासत्यागशब्दयोः आत्यन्तिकं भिन्नार्थत्वम् ? तदा प्रसिद्धिविरोधः स्यात् इति अशङ्क्य अवान्तरभेदेऽपि न आत्यन्तिकभेदः अस्ति इत्याह -
यदीति ।
पुत्राभावात् वन्ध्यायाः तत्त्यागायोगवत् , नित्यनैमित्तिककर्मणाम् अफलानां फलत्यागानुपपत्तेः उक्तः त्यागशब्दार्थः न सिद्ध्यति इति शङ्कते -
नन्विति ।
नित्यनैमित्तिककर्मफलस्य वन्ध्यापुत्रसादृश्याभावात् तत्त्यागसम्भवात् उक्तः त्यागशब्दार्थः सम्भवति इति समाधत्ते -
नैष दोष इति ।
भगवता तेषां फलवत्त्वम् इष्टम् इत्यत्र वाक्यशेषम् अनुकूलयति -
वक्ष्यतीति ।
तर्हि संन्यासिनाम् असंन्यासिनां च नित्याद्यनुष्ठायिनाम् अविशेषेण तत्फलं स्यात् इति चेत् , नैव इत्याह -
न त्विति ।
वक्ष्यति इति अनुकर्षणं चकारार्थः ।
प्रसक्तस्य वचसः अर्थं प्रकृतोपयोगित्वेन सङ्गृह्य स्मारयति -
संन्यासिनाम् इति
॥ २ ॥
काम्यानि वर्जयित्वा नित्यनैमित्तिकानि फलाभिलापात् ऋते, कर्तव्यानि इति अक्तं पक्षं प्रतिपक्षनिरासेन द्रढयितुं विप्रतिपत्तिम् आह -
त्याज्यमिति ।
कर्मणः सर्वस्य दोषवत्त्वे हेतुम् आह -
बन्धेति ।
दोषवत् इत्येतत् दृष्टान्तत्वेन व्याचष्टे -
अथवेति ।
कर्मणि अनधिकृतानाम् अकर्मिणामेव कर्म त्याज्यं, कर्मिणां तत्त्यागे प्रत्यवायात् , इति आशङ्क्य आह -
अधिकृतानामिति ।
न हि तेषामपि कर्म त्यजतां प्रत्यवायः, हिंसादियुक्तस्य कर्मणः अनुष्ठाने परं प्रत्यवायात् इति भावः । साङ्ख्यादिपक्षसमाप्तौ इतिशब्दः ।
मीमांसकपक्षमाह -
तत्रैवेति ।
कर्माधिकृतेष्वेव इति यावत् ।
कर्म नित्यं नैमित्तिकं च । काम्पानां कर्मणाम् इति आरभ्य श्लोकाभ्यां कर्मिणः अकर्मिणः अधिकृतान् अनधिकृतांश्च अपेक्ष्य दर्शितविकल्पानां प्रवृत्तिः इति आशङ्क्य आह -
कर्मिणः इति ।
एवकारव्यवच्छेद्यम् आह -
न त्विति ।
तदेव स्फुटयति -
ज्ञानेति ।
कर्माधिकृतानां ज्ञाननिष्ठातः विभक्तनिष्ठावत्त्वेन पूर्वोक्तानामपि शास्त्रार्थोपसंहारे पुनः विचार्यत्ववत् ज्ञाननिष्ठानाम् अपि विचार्यत्वम् अत्र अविरुद्धम् इति शङ्कते -
नन्विति ।
साङ्ख्यानां - परमार्थज्ञाननिष्ठानां, न अत्र विचार्यता इति उत्तरम् आह -
न तेषामिति ।
ननु तेषामपि स्वात्मनि क्लेशदुःखादि पश्यतां तदनुरोधेन राजसकर्मत्यागसिद्धेः विचार्यत्वम् ? न इत्याह -
न कायेति ।
तत्र क्षेत्राध्यायोक्तं हेतूकरोति -
इच्छादीनामिति ।
स्वात्मनि साङ्ख्यादीनां क्लेशाद्यप्रतिपत्तौ फलितम् आह -
अत इति ।
ननु तेषां क्लेशाद्यदर्शनेऽपि स्वात्मनि कर्माणि पश्यतां तत्त्यागः युक्तः, तेषां कायक्लेशादिकरत्वात् । न इत्याह-
नापीति ।
अज्ञानां मोहमाहात्म्यात् नियतमपि कर्म त्यक्तुं शक्यं, न तत्त्वविदां, स्वात्मनि कर्मादर्शनेन तत्त्यागे हेत्वभावात् , इति मत्वा आह -
मोहादिति ।
कथं तर्हि तेषाम् आत्मनि कर्माणि अपश्यतां प्राप्त्यभावे तत्त्यागः संन्यासः ? तत्र आह -
गुणानामिति ।
अविवेकप्राप्तानां कर्मणां, त्यागः तत्त्वविदाम् इत्युक्तं स्मारयन् , अप्राप्तप्रतिषेधं प्रत्यादिशति -
सर्वेति ।
तत्त्वविदाम् अत्र अविचार्यत्वे फलितम् आह -
तस्मादिति ।
ये अनात्मविदः, ते एव इति उत्तरत्र सम्बन्धः ।
कर्मणि अधिकृतानाम् अनात्मविदां कर्मत्यागसम्भावनां दर्शयति -
येषां चेति ।
तन्निन्दा कुत्र उपयुक्ता ? इति आशङ्क्य आह -
कर्मिणामिति ।
किञ्च परमार्थसंन्यासिनां प्रशस्यत्वोपलम्भात् न निन्दाविषयत्वम् इत्याह -
सर्वेति ।
किञ्च अत्रापि ‘सिद्धिं प्राप्तो यथा’(भ. गी. १८-५०) इत्यादिना ज्ञाननिष्ठायाः वक्ष्यमाणत्वात् तद्वतां न इह विचार्यत इत्याह -
वक्ष्यतीति ।
कर्माधिकृतानामेव अत्र विवक्षितत्वं, न ज्ञाननिष्ठानाम् , इति उपसंहरति -
तस्मादिति ।
ननु संन्यासशब्देन सर्वकर्मसंन्यासस्य ग्राह्यत्वात् तथाविधसंन्यासिनाम् इह विवक्षितत्वं प्रतिभाति ? तत्र आह -
कर्मेति ।
संन्यासशब्देन मुख्यस्यैव संन्यासस्य ग्रहणम् , गौणमुख्ययोः मुख्ये कार्यसंप्रत्ययात् , अन्यथा तदसम्भवे हेतूक्तिवैयर्थ्येति, अप्राप्ततिषेधात् , इति शङ्कते -
सर्वेति ।
नेदं हेतुवचनं सर्वकर्मसन्यांससम्भवसाधकं, कर्मफलत्यागस्तुतिपरत्वात् इति परिहरति -
नेत्यादिना ।
एतदेव दृष्टान्तेन स्पष्टयति -
यथेति ।
दृष्टान्तेऽपि यथाश्रुतार्थत्वं किं न स्यात् ? इति आशङ्क्य आह -
यथोक्तेति ।
न हि फलत्यागादेव ज्ञानं विना मुक्तिः युक्ता, मुक्तेः ज्ञानैकाधीनत्वासाधकश्रुतिस्मृतिविरोधात् , ‘अद्वेष्टा’(भ. गी. १२-१३) इत्यादिना च अनन्तरमेव ज्ञानसाधनविधानानर्थक्यात् । अतः त्यागस्तुतिरेव अत्र ग्राह्या इत्यर्थः । दृष्टान्तगतम् अर्थं दार्ष्टान्तिके योजयति -
तथेति ।
प्रागुक्तपक्षापवादविवक्षया हेतूक्तेः मुख्यार्थत्वमेव किं न स्यात् ? इति आशङ्क्य तदपवादे हेत्वभावात् मैवम् इत्याह -
न सर्वेति ।
न च इयमेव हेतूक्तिः तदपवादिका, अन्यथासिद्धेः उक्तत्वात् इति भावः ।
मुख्यसंन्यासापवादासम्भवे संन्यासत्यागविकल्पस्य कथं सावकाशता ? इति आशङ्क्य आह -
तस्मादिति ।
ज्ञाननिष्ठान् प्रति उक्तविकल्पानुपपत्तौ, कुत्र तेषाम् अधिकारः ? तत्र आह -
ये त्विति ।
संन्यासिनां विकल्पानर्हत्वेन ज्ञाननिष्ठयाम् एव अधिकारस्य भूयस्सु प्रदेशेषु साधितत्वात् न साधतीयत्वापेक्षा इत्याह -
तथेति
॥ ३ ॥
कर्माधिकतान् प्रत्येव उक्तविकल्पप्रवृत्तावपि कुतो निर्धारणसिद्धिः ? तत्र आह -
तत्रेति ।
तमेव निश्चयं दर्शयितुम् आदौ त्यागगतम् अवान्तरविभागम् आह -
त्यागो हीति ।
ननु त्यागसंन्यासयोः उभयोरपि प्रकृतत्वाविशेषे त्यागस्यैव अवान्तरविभागाभिधाने संन्यासस्य उपेक्षितत्वम् आपद्येत ? न इत्याह -
त्यागेति ।
सात्विकः राजसः तामसश्च इति उक्ते अर्थे त्रैविध्येऽपि स्वयमेव निश्चयसम्भवात् किम् अत्र भागवतेन निश्चयेन इति आशङ्क्य आह -
यस्मादिति ।
भगवतः अन्येन उक्तविभागे तत्त्वानिश्चयात् भागवतनिश्चयस्य श्रोतव्यता इति निगमयति -
तस्मादिति
॥ ४ ॥
तमेव भगवतः निश्चयं विशेषतः निर्धारयितुं प्रश्नपूर्वकम् अनन्तरश्लोकप्रवृत्तिं दर्शयति -
कः पुनरिति ।
यज्ञादीनां कर्तव्यत्वे हेतुम् आह -
यज्ञ इति ।
न केवलम् अत्याज्यं, किन्तु कर्तव्यमेव इत्याह -
कार्यमिति ।
प्रतिज्ञातम् एवं विभज्य हेतुं विभजते -
कस्मादिति ।
॥ ५ ॥
प्रतिज्ञातम् अर्थम् उपसंहरति -
एतान्यपीति ।
उपसंहारश्लोकाक्षराणि व्याकरोति - एतानीत्यादिना । अक्षरार्थम् उक्त्वा तात्पर्यार्थमाह -
निश्चयमिति ।
प्रकृतार्थोपसंहारे गमकमाह -
एतान्यपीति ।
अपिशब्दस्य विवक्षितम् अर्थं दर्शयति -
सासङ्गस्येति ।
व्यावर्त्यं कीर्तयति -
न त्विति ।
एतान्यपि इत्यादिवाक्यं न नित्यकर्मविषयम् इति मतम् उपन्यस्यति -
अन्य इति ।
न चेत् इदं नित्यकर्मविषयं, किंविषयं तर्हि ? इत्याशङ्क्य, वाक्यमवतार्य व्याकरोति-
एतानीत्यादिना ।
नित्यानाम् अफलत्वम् उपेत्य यत् चोद्यं तत् अयुक्तम् इति दूषयति-
तदसदिति ।
यत्तु काम्यान्यपि कर्तव्यानि इति तत् निरस्यति-
नित्यान्यपीति ।
किञ्च काम्यानां भगवता निन्दितत्वात् न तेषु मुमुक्षोः अनुष्ठानम् इति आह -
दूरेणेति ।
किञ्च मुमुक्षोः अपेक्षितमोक्षापेक्षया विरुद्धफलत्वात् काम्यकर्मणां न तेषु तस्य अनुष्ठानम् इत्याह -
यज्ञार्थादिति ।
काम्यानां बधहेतुत्वं निश्चितम् इति अत्रैव पूर्वोत्तरवाक्यानुकूल्यं दर्शयति -
त्रैगुण्येति ।
किञ्च पूर्वश्लोके यज्ञादिनित्य कर्मणां प्रकृतत्वात् एतच्छब्देन सन्निहितवाचिना परामर्शात् काम्यकर्मणां च ‘काम्यानां कर्मणां’ इति व्यवहितानां सन्निहितपरामर्शकैतच्छब्दाविषयत्वात् न काम्यक्रर्माणि ‘एतान्यपि’ इति व्यपदेशम् अर्हन्ति इत्याह-
दूरेति
॥ ६ ॥
नित्यकर्मणाम् अवश्यकर्तव्यत्वम् उक्तम् उपजीव्य अपेक्षितं पूरयन् अनन्तरश्लोकम् अवतारयति -
तस्मादिति ।
ननु कश्चित् नियतमपि कर्म त्यजन् उपलभ्यते ? तत्र आह -
मोहादिति ।
अज्ञानं - पावनत्वापरिज्ञानम् । अज्ञस्य नित्यकर्मपरित्यागः मोहात् , इति एतत् उपपादयति -
नियतं चेति ।
नित्यकर्मत्यागस्य मोहकृतत्वे कुतः तामसत्वम् ? इति आशङ्क्य आह -
मोहश्चेति
॥ ७ ॥
इतश्च नित्यकर्मत्यागः न अज्ञस्य सम्भवति इत्याह -
किं चेति ।
ननु मोहं विनैव दुःखात्मकं कर्म कायक्लेशभयात् त्यजति । करणानि हि कार्यं जनयन्ति च । तथा च न तत्त्यागः तामसो युक्तः । तत्र आह -
दुःखमित्येवेति ।
यत् कर्म दुःखात्मकम् अशक्यम् असाध्यम् इत्येव आलोच्य ततो निवर्तते, देहस्य इन्द्रियाणां च क्लेशात्मनो भयात् त्यजति, सः तत् त्यक्त्वा - रजोनिमित्तं त्यागं कृत्वापि, न तत्फलं मोक्षं लभते, किन्तु कृतेनैव राजसेन त्यागेन तदनुरूपं नरकं प्रतिपद्यते इत्याह -
दुःखमित्येवेत्यादिना
॥ ८ ॥
कर्मत्यागः तामसः राजसश्च इति द्विविधः दर्शितः । सम्प्रति सात्त्विकं त्यागं प्रश्नपूर्वकं वर्णयति -
कः पुनरिति ।
कर्तव्यम् इत्येव इति एवकारेण नित्यस्य भाव्यान्तरं निषिध्यते । नित्यानां विध्युद्देशे फलाश्रवणात् , तेषां फलं त्यक्त्वा इति अयुक्तम् , इति आशङ्क्य आह-
नित्यानामिति ।
फलं त्यकत्वा इत्यस्य विधान्तरेण तात्पर्यम् आह -
अथवेति ।
न हि विधिना कृतं कर्म अनर्थकं, विध्यानर्थक्यात् । तेन श्रौतफलाभावेऽपि नित्यं कर्म विधितः अनुतिष्ठन् , आत्मानम् अजानन् अनुपहतमनस्त्वोक्त्या तस्मिन् कर्मणि आत्मसंस्कारं फलं कल्पयति, तदकरणे प्रत्यवायस्मृत्या तत्करणं, कर्तुः आत्मनः तन्निवृत्तिं करोति इति वा नित्ये कर्मणि उक्तां कल्पनाम् अनु निष्पादितफलकल्पनां च ‘फलं त्यक्त्वा’ इति अस्य भगवान् निवारयति इत्यर्थः ।
नित्यकर्मसु फलत्यागोक्तेः सम्भवे फलितमाह -
अत इति ।
कर्मतत्फलत्यागस्य त्यागसंन्यासशब्दाभ्यां प्रकृतस्य, ‘त्यागो हि’(भ. गी. १८-४) इति त्रैविध्यं प्रतिज्ञाय, प्रतिज्ञानुरोधे द्वे विधे व्युत्पाद्य, तृतीयां विधां तद्विरोधेन त्र्युत्पादयतः भगवतः अकौशलम् आपतितम् इति शङ्कते -
नन्विति ।
प्रक्रमप्रतिकूलम् उपसंहारवचनम् अनुचितम् इति अत्र दृष्टान्तम् आह-
यथेति ।
पूर्वोत्तरविरोधेन प्रप्तम् अकौशलं प्रत्यादिशति -
नैष दोष इति ।
कर्मत्यगफलत्यागयोः त्यागत्वेन सादृश्यात् , कर्मत्यागनिन्दया तत्फलत्यागस्तुत्यर्थम् इदं वचनम् इति उपगमात् न विरोधः अस्ति इति उक्तमेव व्यक्तीकुर्वन् आदौ त्यगसामान्यं विशदयति -
अस्तीति ।
सति सामान्ये निर्देशस्य स्तुत्यर्थत्वं समर्थयते -
तत्रेति
॥ ९ ॥
एवं पूर्वापरविरोधं पराकृत्य अनन्तरश्लोकतात्पर्यम् आह -
यस्त्विति ।
फलरागादिना इति आदिशब्देन कर्मस्वरूपासङ्गः गृह्यते ।
अन्तःकरणं अकलुषीक्रियमाणम् इति छेदः । विशुद्धे अन्तःकरणे किं स्यात् इति आशङ्क्य आह-
विशुद्धमिति ।
मलविकलत्वं विशुद्धत्वं, संस्क्रियमाणत्वं - प्रसन्नत्वम् इति भेदः । क्रमेण - श्रवणाद्यावृत्तिद्वारेण इत्यर्थः । तन्निष्ठा इति आत्मज्ञाननिष्ठा उक्ता ।
काम्यकर्मणि त्याज्यत्वेन द्वेषम् अभिनयति -
किमिति ।
उभयत्र द्वेषं प्रीतिं च न करोति इति सामान्येन उक्तं कर्तारं प्रश्नपूर्वकं विशेषतः निर्दिशति -
कः पुनरिति ।
त्यागी इति उक्तं त्यागिनम् अभिव्यनक्ति -
पूर्वोक्तेनेति ।
कर्मणि सङ्गस्य तत्फलस्य च त्यागेन इति यावत् ।
उक्तमेव त्यागिनं विवृणोति -
यः कर्मणि इति ।
तत्फलं त्यक्त्वा इति सम्बन्धः । काम्ये निषिद्धे च कर्मणि बन्धहेतुः इति न द्वेष्टि, नित्ये नैमित्तिके च मोक्षहेतुः इति न प्रीयते ।
तत्र कालविशेषं पृच्छति -
कदेति ।
नित्यादिकर्मणा फलाभिसन्धिवर्जितेन क्षपितकल्मषस्य सत्त्वं - यथार्थग्रहणसामर्थ्यम् उद्बुध्यते, तेन समावेशदशायाम् उक्तप्रीतिद्वेषयोः अभावः भवति इत्याह -
उच्यते इति ।
अत एवेति -
समुद्बुद्धयथार्यग्रहणसमर्थसमाविष्टत्वात् इत्यर्थः ।
छिन्नसंशयत्वमेव विशदयति -
आत्मेति ।
परं निःश्रेयसं तस्य च साधनं सम्यग्ज्ञानमेव इति योजना ।
न द्वेष्टि इत्यादिना श्लोकेन उक्तम् अर्थं सङ्क्षिप्य अनुवदति -
योऽधिकृत इति ।
पूर्वोक्तप्रकारेण इति कर्मणि तत्फले च सङ्गत्यागेन इत्यर्थः । कर्मात्मयोगस्य अनुष्ठानेन संस्कृतात्मा सन् क्रमेण श्रवणाद्यनुष्ठानद्वारेण कूटस्थं ब्रह्म प्रत्यक्त्वेन सम्बुद्धः इति सम्बन्धः ।
परस्य निष्क्रियत्वे हेतुम् आह -
जन्मादीति ।
उक्तज्ञानवतः सर्वकर्मत्यागद्वारा मुक्तिभाक्त्वं दर्शयति -
स सर्वेति
॥ १० ॥
आत्मज्ञानवतः सर्वकर्मत्यागसम्भावनाम् उक्त्वा तद्धीनस्य तदसम्भवे हेतुवचनत्वेन अनन्तरश्लोकम् अवतारयति -
यः पुनरिति ।
न बाधितम् आत्मनि कर्तृत्वविज्ञानम् अस्य इति अज्ञः, तथा तस्य भावः तत्ता, तयेति यावत् । एवम् अर्थं दर्शयितुम् अज्ञस्य सर्वकर्मसंन्यासासम्भवे हेतुम् आह इति योजना । यस्मात् इत्यस्य तस्मात् इत्युत्तरेण सम्बन्धः ।
विवेकिनोऽपि देहधारितया देहभृत्त्वाविशेषे कर्माधिकारः स्यात् इति आशङ्क्य आह -
न हीति ।
कर्तृत्वाधिकारः तत्पूर्वकं कर्मानुष्ठानं तस्मात् इति यावत् । ज्ञानवतः देहधारणेऽपि तदभिमानित्वाभावः अतःशब्दार्थः ।
अज्ञस्य सर्वकर्मत्यागायोगम् उक्तं हेतूकृत्य फलितमाह -
तस्मादिति ।
कर्मानुष्ठायिनः त्यागित्वोक्तिः अयुक्ता इति आशङ्क्य आह -
कर्म्यपीति ।
कर्मिणापि फलत्यागेन त्यागित्ववचनं फलत्यागस्तुत्यर्थम् इत्यर्थः ।
कस्य तर्हि सर्वकर्मत्यागः सम्भवति ? इति आशङ्क्य विवेकवैराग्यादिमतः देहाभिमानहीनस्य इत्युक्तं निगमयति -
तस्मादिति
॥ ११ ॥
उक्ताधिकारिणः सर्वकर्मसंन्यासासम्भवेऽपि फलाभावे कुतः तस्य कर्तव्यता इति शङ्कते -
किं पुनरिति ।
गौणस्य मुख्यस्य वा संन्यासस्य फलं पिपृच्छिषितम् ? इति विकल्पयति -
उच्यत इति ।
सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फलाभिसन्धित्यागः स च अमुख्यसंन्यासः । तस्य फलम् आह -
अनिष्टमिति ।
मुख्ये तु संन्यासे सर्वकर्मत्यागे सम्यग्धीद्वारा सर्वसंसारोच्छित्तिरेव फलम् इत्याह -
न त्विति ।
पादत्रयं व्याकरोति -
अनिष्टमित्यादिना ।
तिर्यगादीत्यादिपदम् अवशिष्टनिकृष्टयोनिसङ्ग्रहार्थं, देवादीत्यादिपदम् अवशिष्टोत्कृष्टयोनिग्रहणाय इति विभागः ।
फलशब्दं व्युत्पादयति-
बाह्येति ।
करणद्वारकम् अनेकविधत्वम् उकत्वा मिथ्यात्वम् आह -
अविद्येति ।
तत्कृतत्वेन दृष्टिमात्रदेहत्वे दृष्टान्तमाह -
इन्द्रेति ।
प्रतीतितः रमणीयत्वं सूचयति -
महामोहेति ।
अविद्योत्थस्य अविद्याश्रितत्वात् आत्माश्रितत्वं वस्तुतः नास्ति इति आह -
प्रत्यगिति ।
उक्तं फलं कर्मिणाम् इष्यते चेत् अमुख्यसंन्यासफलोक्तिपरत्वं पादत्रयस्य कथम् इष्टम् ? इति आशङ्क्य आह -
अपरमार्थेति ।
फलाभिसन्धिविकलानां कर्मिणां देहपातात् ऊर्ध्वं कर्मानुरोधिफलम् आवश्यकम् इत्यर्थः ।
कर्मिणामेव सताम् अफलाभिसन्धीनाम् अमुख्यसंन्यासित्वात् तदीयामुख्यसंन्यासस्य फलम् उक्त्वा चतुर्थपादं व्याचष्टे-
न त्विति ।
अमुख्यसंन्यासम् अनन्तरप्रकृतं व्यवच्छिनत्ति -
परमार्थेति ।
तेषां प्रधानं धर्मम् उपदिशति -
केवलेति ।
क्वचित् देशे काले वा नास्ति यथोक्तं फलं तेषामिति सम्बन्धः ।
तर्हि परमार्थसंन्यासः अफलत्वात् न अनुष्ठीयेत इति आशङ्क्य तस्य मोक्षावसायित्वात् मैवम् इत्याह -
न हीति
॥ १२ ॥
ननु अपरमार्थसंन्यासवत् अविशेषात् अज्ञानां परमार्थसंन्यासोऽपि किं न स्यात् ? त्यागस्य सुकरत्वात् । तत्र आह -
अतः परमार्थेति ।
तस्य सम्यग्दर्शनात् अविद्यानिवृत्तौ तदारोपितक्रियाकारकादिनिवृत्तेः इति हेत्वर्थः ।
विद्यावतः सर्वकर्मसंन्यासित्वसम्भावनाम् उक्त्वा एवकारव्यावर्त्यं दर्शयति -
न त्विति ।
अविदुषः अशेषकर्मणां तद्धेतूनां च रागादीनां त्यागायोगे कारकेषु अधिष्ठानादिषु आत्मत्वदर्शनं हेतुम् आह -
क्रियेति ।
कथम् अधिष्ठानादीनां क्रियाकर्तृतत्वम् ? कथं वा अविदुषः तेषु आत्मत्वधीः ? इति आशङ्क्य अनन्तरश्लोकचतुष्टयस्य तात्पर्यम् आह -
तदेतदिति ।
कर्मार्थानाम् अधिष्ठानादीनाम् अप्रामाणिकत्वाशङ्काम् आदौ उद्धरति-
पञ्चेति ।
उत्तरत्र इति अधिष्ठानादिषु वक्ष्यमाणेषु इत्यर्थः ।
वस्तूनां तेषामेव वैषम्यं दिदर्शयिषितं न हि चेतस्समाधानात् ऋते ज्ञातुं शक्यते । साङ्ख्यशब्दं व्युत्पादयति -
ज्ञातव्या इति ।
आत्मा त्वम्पदार्थः, तत्पदार्थः ब्रह्म, तयोः ऐक्यधीः तदुपयोगिनश्च श्रवणादयः पदार्थाः, ते सङ्ख्यायन्ते - व्युत्पाद्यन्ते ।
कृतान्तशब्दस्य वेदान्तविषयत्वं विभजते -
कृतमित्यादिना ।
वेदान्तस्य तत्त्वधीद्वारा कर्मावसानभूमित्वे वाक्योपक्रमानुकूल्यं दर्शयति -
यावानिति ।
उदपाने - कूपादौ यावान् अर्थः - स्नानादिः, तावान् अर्थः समुद्रे सम्पद्यते । अतः यथा कुपादिकृतं कार्य सर्वं समुद्रे अन्तर्भवति तथा सर्वेषु वेदेषु कर्मार्थेषु यावत् फलं तावत् ज्ञातवतः ब्राह्मणस्य ज्ञाने अन्तर्भवति । ज्ञानं प्राप्तस्य कर्तव्यानवशेषात् इत्यर्थः ।
तत्रैव वाक्यान्तरम् अनुक्रामति -
सर्वमिति ।
उदाहृतवाक्ययोः तात्पर्यम् आह-
आत्मेति ।
आत्मज्ञाने सति सर्वकर्मनिवृत्तावपि कथं वेदान्तस्य कृतान्तत्वम् इति आशङ्क्य आह -
अत इति ।
तानि मद्वचनतः निबोध इति पूर्वेण सम्बन्धः
॥ १३ ॥
कर्मार्थानि अधिष्ठानादीनि मानमूलत्वात् ज्ञेयानि, इति उक्तम् इदानीं प्रश्नपूर्वकं विशेषतः तानि निर्दिशति -
कानीत्यादिना ।
प्रतीकम् आदाय व्याकरोति -
अधिष्ठानमिति ।
उपाधिलक्षणः - बुद्ध्यादिः उपाधिः, तल्लक्षणः - तत्स्वभावः, बुद्ध्याद्यनुविधायी - तद्धर्मान् आत्मनि पश्यन् उपहितः तत्प्रधानः इत्यर्थः ।
तत्र कार्यलिङ्गकम् अनुमानं सूचयति -
शब्दादीति ।
ज्ञानेन्द्रियाणि पञ्च, पञ्च कर्मेन्द्रियाणि, मनः, बुद्धिश्च, इति द्वादशसङ्ख्यत्वम् । चेष्टायाः विविधत्वात् नानाप्रकारकत्वम् । तदेव स्पष्टयति -
वायवीया इति ।
पृथक्त्वं - असङ्कीर्णत्वम् । न हि प्राणापानादिचेष्टानां मिथः सङ्करः अस्ति । दैवमेव इति विशदयति -
आदित्यादीति
॥ १४ ॥
पञ्चानाम् अधिष्ठानादीनाम् उक्तानां सर्वकर्मसिद्ध्यर्थत्वं स्फुटयति -
शरीरेति ।
ननु जीवनकृतं निमोषोन्मेपादि कर्मान्तरं साधारणम् अस्ति । तत् कथं राशिद्वयकारणम् ? इति, तत्र आह -
यच्चेति ।
अधिष्ठानादीनां कर्ममात्रहेतुत्वं प्रतिज्ञाय, शरीरादित्रिविधकर्महेतुत्वोक्तिः अयुक्ता इति शङ्कते -
नन्विति ।
पूर्वापरविरोधं परिहरति -
नैष दोषः इति ।
ननु जीवनकृतानि स्वाभाविकानि कर्माणि दर्शनादीनि विधिनिषेधबाह्यत्वात् न देहादिनिर्वर्त्यानि इति आशङ्क्य आह -
तदङ्गतयेति ।
तस्य देहादित्रयस्य प्रधानस्य अङ्गं चक्षुरादि, तन्निष्पाद्यत्वेन जावनकृतं दर्शनादि प्रधानकर्मणि अन्तर्भूतम् इति त्रैविध्यम् अविरुद्धम् इत्यर्थः ।
देहाद्यारभ्ये त्रिविधे कर्मणि सर्वकर्मान्तर्भावेऽपि कथं पञ्चानामेव अधिष्ठानादीनां तत्र हेतुत्वम् , फलोपभोगकाले कारणान्तरापेक्षासम्भवात् ? इति आशङ्क्य, जन्मकालभाविनः भोगकालभावितश्च सर्वस्य कारणस्य तेष्वेव अन्तर्भावात् मैव इत्याह -
फलेति
॥ १५ ॥
क्रियाकर्तृत्वम् अधिष्ठानादीनाम् आपाद्य, अविदुषः तेषु आत्मदृष्टिम् अनुवदति -
तत्रेति ।
तत्पदपरामर्शयोग्यं प्रकृतं सर्वं कर्म ।
प्रतीकम् आदाय पूर्वेण सह अक्षरार्थं कथयति -
एवमिति ।
अधिष्ठानादीनाम् उक्तरीत्या कर्तृत्वे सति अन्यगतं कर्तृत्वम् आन्मनः, यत अध्यारोप्य पश्यति, अतः दुर्मतिरिति आत्मनि कर्तृत्वं पश्यन् इत्याह-
तत्रैवमिति ।
कर्तारम् इत्यादि व्याचष्टे -
तत्रेत्यादिना ।
तेषु अधिष्ठानादिषु, तैः अधिष्ठानादिभिः आरोपितात्मभावैः इत्यर्थः ।
अकर्तारम् आत्मानं कर्तारं पश्यति इत्यत्र प्रश्नद्वारा हेतुम् आह -
कस्मादिति ।
ननु शास्त्रसंस्कृतबुद्धिरेव अतिरिक्तात्मवादी कर्तृत्वं तस्य अनुमन्यते । नासौ कर्तृत्वम् आत्मनि पश्यन्नपि भवति अकृतबुद्धिः । तत्र आह -
योऽपीति ।
तस्यापि शास्त्रीपूर्वकम् आचार्योपदेेशेन तदनुसारिन्यायैश्च अनाहितबुद्धित्वात् अकृतबुद्धित्वं सिद्धम् इत्यर्थः ।
कौटस्थ्यम् आत्मनः तत्त्वं - याथात्म्यं कर्मणोऽपि तत्त्वं - अविद्याकृताधिष्ठानादिकृतत्वेन आत्मास्पर्शित्वम् । आत्मकर्मणोः तत्त्वदर्शनाभावः अतःशब्दर्थः । दुष्टत्वं स्पष्टीकर्तुं दुर्मतित्वं विवृणोति -
जननेति ।
अहं कर्ता इति आत्मदर्शनवतोऽपि न अविदुषः तद्दर्शनम् अस्तीति, अत्र दृष्टान्तम् आह -
यथेति ।
तिमिरोपहतचक्षुः अनेकं चन्द्रं पश्यन्नपि, तत्त्वतः न तं पश्यति । एवम् अविद्वान् आत्मानं कर्तारं पश्यन्नपि तत्त्वतः न तं पश्यति इत्यर्थः ।
अधिष्ठानादिषु अविद्यया सम्बद्धात्मनः स्वात्मनि तद्गतक्रियारोपे दृष्टान्तमाह -
यथा वेति ।
अन्येषु - वाहकेषु पुरुषेषु धावनकर्तृषु वाहने स्थितः स्वात्मानं प्रधावनकर्तारम् अविवेकात् अभिमन्यते । तथा अधिष्ठानादिषु क्रियाकर्तृषु तद्गतं स्वात्मानं कर्तारं मन्यमानः दुर्मतिः इत्यर्थः
॥ १६ ॥
विपरीतदृष्टेः दुर्मतित्वं शिष्ट्वा सम्यग्दृष्टेः सुमतित्वं प्रश्नपूर्वकम् आह -
कः पुनरित्यादिना ।
अहं कर्ता इति आत्मनि कर्तृत्वप्रत्ययाभावे कुत्र कर्तृत्वधीः इति आशङ्क्य आह-
एते इति ।
कथं तर्हि कर्तृत्वधीः आत्मनि ? इति आशङ्क्य, अधिष्ठानादीनां तद्व्यापाराणां च साक्षित्वात् इति आह -
अहं त्विति ।
आत्मनः न स्वतः अस्ति क्रियाशक्तिमत्त्वम् इति अत्र प्रमाणम् आह -
अप्राणो हीति ।
नापि तस्य स्वतः ज्ञानशक्तिमत्त्वम् इति आह -
अमना इति ।
उपाधिद्वयासम्बन्धे शुद्धत्वं फलितम् आह -
शुभ्र इति ।
कारणसम्बन्धात् अशुद्धिम् आशङ्क्य उक्तं -
अक्षरादिति ।
कार्यकारणयोः आत्मास्पर्शित्वेन पार्थक्ये, सद्वितीयत्वम् आशङ्क्य, तयोः अवस्तुत्वात् मैवम् इत्याह -
केवल इति ।
जन्मादि सर्वविक्रियारहितत्वेन कौटस्थ्यम् आह -
अविक्रिय इति ।
बुद्धिर्यस्येत्यादि व्याचष्टे -
बुद्धिरिति ।
न अनुशायिनी - न अनुशयवती, न क्लेशशालिनी इत्यर्थः ।
द्वितीयपादस्य अक्षरार्थम् उक्तवा वाक्यार्थमाह -
इदमिति ।
पापं कर्म इदमा परामृश्यते ।
लोकानां प्राणसम्बन्धाभावे कुतः हिंसा इति आशङ्क्य आह -
प्राणिनः इति ।
विरुद्धार्थोक्त्या स्तुतिरपि न युक्ता इति शङ्कते -
नन्विति ।
विरोधं परिहरति -
न एषः दोष इति ।
लौकिकदृष्टिमवष्टभ्य हत्वापीति निर्देशं विशदयति -
देहादीति ।
तात्त्विकीं दृष्टि आस्थाय न हन्ति इत्यादिनिर्देशम् उपपादयति -
यथेति ।
नाहं कर्ता, किन्तु कर्तृतद्व्यापारयोः साक्षी क्रियाज्ञानशक्तिमदुपाधिद्वयविनिर्मुक्तः शुद्धः सन् कार्यकारणासम्बद्धः अद्वितीयः अविक्रियः इत्येवं पारमार्थिकदृष्टेः यथादर्शितत्वं द्रष्टव्यम् ।
‘हत्वापि’ इत्येतत् ‘न हन्ति’ इत्यादि च उभयं दृष्टिद्वयावष्टम्भात् उपपन्नम् इति उपसंहरति -
तदुभयमिति ।
केवलमेव आत्मानं कर्तारं पश्यन् दुर्मतिः इत्यत्र आत्मविशेषणसमर्पककेवलशब्दसामर्थ्यात् आत्मनः विशिष्टस्य कर्तृत्वम् इति शङ्कते -
नन्विति ।
आत्मनः वैशिष्ट्यायोगात् न विशिष्टस्यापि कर्तृत्वम् इति दूषयति-
नैष दोष इति ।
अविक्रियस्वाभाव्येऽपि कथम् आत्मनः असंहतत्वम् इति आशङ्क्य आह -
विक्रियेति ।
अधिष्ठानादिभिः आत्मनः संहननेऽपि न कर्तृत्वम् अविक्रियस्य क्रियान्वयव्याघातात् इत्याह-
संहत्येति ।
संहतत्वानुपपत्तिं व्यक्तीकरोति -
न त्विति ।
असंहतत्वे फलितम् आह -
इति नेति ।
कथं तर्हि केवलत्वम् आत्मनि केवलशब्दात् उक्तम् ? तदाह -
अत इति ।
अकर्तृत्वम् आत्मनः अभ्युपपन्नं, न अस्य अविक्रियत्वम् उपैति इति आशङ्क्य आह -
अविक्रियत्वं चेति ।
तत्र स्मृतिवाक्यानि उदाहरति -
अविकार्योऽयमिति ।
‘नायं हन्ति न हन्यते’(भ. गी. २-१९) इत्यादिवाक्यम् आदिशब्दार्थः ।
उक्तवाक्यानाम् आत्माविक्रियत्वे तात्पर्यं सूचयति -
असकृदिति ।
‘निष्कलं निष्क्रियं शान्तम् इत्यादिवाक्यं श्रुतौ आदिशब्दार्थः । यानि वाक्यानि तैः आत्मनः अविक्रियत्वं दर्शितम् इति योजना ।
न्यायतश्च तत् दर्शितम् इति पूर्वेण सम्बन्धः न्यायमेव दर्शयति -
निरवयवमिति ।
न तावत् आत्मा स्वतः विक्रियते निरवयवत्वात् आकाशवत् , नापि परतः असङ्गस्य अकार्यस्य पराधीनत्वायोगात् इत्यर्थः ।
किं च आत्मनः स्वनिष्ठा वा विक्रिया ? अधिष्ठानादिनिष्ठा वा ? न आद्यः । स्वनिष्ठविक्रियानुपपत्तेः आत्मनः दर्शितत्वात् इति आशयेन आह -
विक्रियावत्त्वेति ।
सा च अयुक्ता इति उक्तम् इति शेषः ।
द्वितीयं दूषयति -
नेत्यादिना ।
अधिष्ठानादिकृतमपि कर्म तद्योगात् आत्मनि आगच्छति इति आशङ्क्य, तदागमनं वास्तवम् आविद्यं वा इति विकल्प्य आद्यं दूषयति -
नहीति ।
द्वितीयं निरस्यति -
यत्त्विति ।
आत्मनि अविद्याप्रापितं कर्म न आत्मीयम् इति एतत् दृष्टान्ताभ्याम् उपपादयति -
यथेत्यादिना ।
आत्मनः अविक्रियत्वेन कर्तृत्वाभावे फलितम् आह -
तस्मादिति ।
ननु प्रागेव आत्मनः अविक्रियत्वं प्रतिपादितम् । तत् इह कस्मात् उच्यते ? तत्र आह -
नायमिति ।
शास्त्रादौ प्रतिज्ञातं हेतुपूर्वकं सङ्क्षिप्य उक्त्वा मध्ये तत्र तत्र प्रसङ्गं कृत्वा प्रसारितां कर्माधिकारनिवृत्तिम् इह उपसंहरति इति सम्बन्धः ।
प्रतिज्ञातस्य हेतुना उपपादितस्य अन्ते निगमनं किमर्थम् इति आशङ्क्य आह-
शास्त्रार्थेति ।
कर्माधिकारो विदुषः न, इति स्थिते, तस्य देहाभिमानाभावे सति, अविद्योत्थसर्वकर्मत्यागसिद्धेः अनिष्टम् इष्टं मिश्रं चेति त्रिविधं कर्मफलं संन्यासिनां न, इति प्रागुक्तं युक्तमेव, इति परमप्रकृतम् उपसंहरति -
एवं चेति ।
ये पुनः अविद्वासंः देहाभिमानिनः, तेषां त्रिविधं कर्मफलं सम्भवत्येव, इति हेतुवचनसिद्धम् अर्थं निगमयति -
तद्विपर्ययाच्च इति ।
अधिष्ठानादिकृतं कर्म न आत्मकृतम् , अविदुषामेव कर्माधिकारः, देहाभिमानित्वेन तत्त्यागायोगात् , देहाभिमानाभावात्तु विदुषां कर्माधिकारनिवृत्तिः, इति उपसंहृतम् अर्थं सङ्क्षिप्य आह -
इत्येष इति ।
उक्तश्च गीतार्थः वेदार्थत्वात् उपादेयः इत्याह -
स एष इति ।
कथम् अयम् अर्थः वेदार्थोऽपि प्रतिपत्तुं शक्यते ? तत्र आह -
निपुणेति ।
भाष्यकृता मानयुक्तिभ्यां विभज्य अनुक्तत्वात् न अस्य अर्थस्य उपादेयत्वम् इति आशङ्क्य आह -
तत्रेति
॥ १७ ॥
शास्त्रार्थोपसंहारानन्तर्यम् अथ इत्युक्तम् । इदानीमिति प्रवर्तकोपदेशापेक्षावस्था उक्ता । कर्मणां येषु विदुषां न अधिकारः, अविदुषां च अधिकारः, तेषाम् इत्यर्थः । ज्ञानशब्दस्य करणव्युत्पत्त्या ज्ञानमात्रार्थत्वम् आह -
ज्ञानमिति ।
ज्ञेयशब्दस्यापि तद्वदेव ज्ञातव्यमात्रार्थत्वम् आह-
तथेति ।
उपाधिलक्षणत्वं - तत्प्रधानत्वम् उपहितत्वम् । तस्य अवस्तुत्वार्थं अविद्याकल्पितविशेपणम् । एतदेव त्रयं सर्वकर्मप्रवर्तकम् इत्याह -
इत्येतदिति ।
सर्वकर्मणां प्रवर्तकम् इति अध्याहर्तव्यम् ।
चोदनेति क्रियायाः प्रवर्तकं वचनम् इति भाष्यानुसारेण चोदनाशब्दार्थम् आह -
प्रवर्तिकेति ।
सर्वकर्मणाम् इति पूर्वेणसम्बन्धः । त्रैविध्यं ज्ञानादिना प्राक् उक्तम् । कर्मणां चोदना इति विग्रहः ।
तेषां सर्वकर्मप्रवर्तकत्वम् अनुभवेन साधयति -
ज्ञानादीनामिति ।
हानोपादानादि इति आदिपदेन उपेक्षा विवक्षिता ।
करणम् इत्यादेः तात्पर्यम् आह -
तत इति ।
ज्ञानादीनां प्रवर्तकत्वात् इत्यर्थः ।
उक्तेऽर्थे श्लोकभागम् अवतारयति -
इत्येतदिति ।
बाह्यम् अन्तस्थं च द्विविधं करणं करणव्युत्पत्त्या कथयति -
करणमिति ।
उक्तलक्षणं कर्मैव स्फुटयति -
कर्तुरिति ।
स्वतन्त्रो हि कर्ता ।
स्वातन्त्र्यं च कारकाप्रयोज्यस्य तत्प्रयोक्तृत्वम् इत्याह -
कर्तेति ।
कथम् उक्ते त्रिविधे कर्म सङ्गृह्यते ? तत्राह -
कर्मेति ।
कर्मणो हि प्रसिद्धं कारकाश्रयत्वम् इति भावः
॥ १८ ॥
अनन्तरश्लोकदशकतात्पर्यमाह -
अथेति ।
ज्ञानादिप्रस्तावानन्तर्यम् अथशब्दार्थः । इदानीं - प्रस्तुतज्ञानाद्यवान्तरभेदापेक्षायाम् इत्यर्थः ।
तेषां गुणभेदात् त्रैविध्ये हेतुम् आह -
गुणात्मकत्वात् इति ।
वक्तव्यः - वक्ष्यमाणश्लोकनवकेन इति शेषः ।
एवं स्थिते प्रथमम् अवान्तरभेदप्रतिज्ञा क्रियते इत्याह -
इत्यारभ्यत इति ।
कर्तुः ईप्सिततमं कर्म इति यत् तत् परिभाष्यते, तत् न अत्र कर्मशब्दवाच्यम् इति आह -
नेति ।
गुणातिरेकेण विधान्तरं ज्ञानादिषु न इति निर्धारयितुम् अवधारणम् इति आह -
गुणेति ।
ज्ञानादीनां प्रत्येकं गुणभेदप्रयुक्ते त्रैविध्ये प्रमाणम् आह -
प्रोच्यत इति ।
न तु कापिलं पातञ्जलम् इत्यादि शास्त्रीं विरुद्धार्थत्वात् अप्रमाणं, कथम् इह प्रमणीक्रियते ? तत्र आह -
तदपीति ।
विषयविशेषे विरोधेऽपि प्रकृते अर्थे प्रामाण्यम् अविरुद्धम् इत्यर्थः ।
यद्यपि कापिलादयः गुणवृत्तिविचारे गौणव्यापारस्य भोगादेः निरूपणे च निपुणाः, तथापि कथं तदीयं शास्त्रम् अत्र प्रमाणीकृतं इति आशङ्क्य आह -
ते हीति ।
ज्ञानादिषु प्रत्येकम् अवान्तरभेदः वक्ष्यमाणः अर्थः तस्य तन्त्रान्तरेऽपि प्रसिद्धिकथनं स्तुतिः, तादर्थ्येन कापिलादिमतोपादानम् इह उपयोगि इत्यर्थः ।
तृतीयपादस्य अविरुद्धार्थत्वं निगमयति-
नेति ।
यथावत् इत्यादि व्याचष्टे -
यथान्यायमिति
॥ १९ ॥
ज्ञानादीनां प्रत्येकं ज्ञातव्यं प्रतिज्ञाय, ज्ञानत्रैविध्यार्थं श्लोकत्रयम् अवतारयति -
ज्ञानस्येति ।
तत्र सात्त्विकं ज्ञानम् उपन्यस्यति -
सर्वेति ।
भूतानि - कार्यकारणात्मकानि उपाधिजातानि ।
अद्वितीयम् अखण्डैकरसं प्रत्यगात्मभूतम् अबाधितं तत्त्वं ज्ञेयत्वेन विवक्षितम् इत्याह -
एकमिति ।
विवक्षितम् अव्ययत्वं सङ्क्षिपति -
कूटस्थेति ।
प्रतिदेहम् अविभक्तम् इति उक्तं व्यनक्ति -
विभक्तेष्विति ।
तत् ज्ञानम् इत्यादि व्याकरोति -
अद्वैतेति
॥ २० ॥
द्वैतदर्शनान्यपि कानिचित् भवन्ति सत्वनिर्वृत्तानि सम्यञ्चि, इति आशङ्क्य आह -
यानीति ।
तेषाम् असम्यक्त्वे हेतुम् आह -
राजसानीति ।
प्रतिदेहम् अन्यत्वेन भिन्नात्मनः येन ज्ञानेन जानाति, तत् ज्ञानं राजसम् इति व्याचष्टे -
भेदेनेति ।
पृथक्त्वं पृथग्विधत्वं च पुनरुक्तम् इति आशङ्क्य, हेतुहेतुमत्त्वेन विभागं विवक्षित्वा आह -
भिन्नेति ।
ज्ञानस्य ज्ञानकर्तृत्वम् अयुक्तम् इति आशङ्क्य, आह -
येनेति
॥ २१ ॥
सक्तत्वमेव व्यनक्ति -
एतावानिति ।
एकस्मिन् कार्ये ज्ञानस्य सक्तत्वमेव दृष्टान्तेन साधयति -
यथेत्यादिना ।
यत् निर्युक्तिकत्वं, तदेव ज्ञानस्य आभासत्वे कारणम् इत्याह -
अहैतुकत्वादिति ।
स्वरूपतो विषयतश्च आभासत्वं फलतो वा इत्याह -
अल्पेति ।
तामसं ज्ञानम् उक्तलक्षणम् इत्यत्र अनुभवं प्रमाणयति -
तामसानां हीति
॥ २२ ॥
त्रिविधं कर्म वक्तुम् अनन्तरश्लोकत्रयम् इत्याह -
अथेति ।
तत्र सात्त्विकं कर्म निरूपयति -
नियतमिति
॥ २३ ॥
राजसं कर्म निर्दिशति -
यत्त्विति ।
फलप्रेप्सुना कर्त्रा यत् कर्म क्रियते, तत् राजसम् इति उत्तरत्र सम्बन्धः ।
तत्त्वज्ञानवता निरंहङ्कारेण, साहङ्कारेण तु अज्ञेन क्रियते कर्म इति विवक्षां वारयति -
साहङ्कारेणेति ।
तत्त्वाज्ञानवता निरहङ्कारेण कृतं कर्म अपेक्ष्य, साहङ्कारेण अज्ञेन कृतम् एतत् कर्म इति न विवक्ष्यते चेत् तर्हि किम् अत्र विवक्षितम् ? इति पृच्छति -
किं तर्हि इति ।
यो हि दुरितरहितः श्रोत्रियः लोकात् अनपेतः तस्य यत् अहङ्कारवर्जितं कर्म, तदपेक्षया इदं साहङ्कारेण कृतं कर्म इति उक्तम् इत्याह -
लौकिकेति ।
ननु तत्त्वज्ञानवतः निरहङ्कारस्य कर्मकर्तृत्वम् अपेक्ष्य साहङ्कारेण इत्यादि किं न इष्यते ? तत्र आह -
यो हीति ।
विशेषणान्तरवशादेव तत्त्वविदः निवारितत्वात् न तदपेक्षं इदं विशेषणम् इत्यर्थः ।
साहङ्कारस्यैव राजसे कर्मणि कर्तृत्वम् इत्येतत् कैमुतिकन्यायेन साधयति -
सात्त्विकस्येति ।
ननु आत्मविदः अन्यस्य निरहङ्कारत्वायोगात् कथं तदपेक्षया साहङ्कारेण इति उक्तम् ? तत्र आह -
लोक इति
॥ २४ ॥
सम्प्रति तापसं कर्म उदाहरति-
अनुबन्धमित्यादिना
॥ २५ ॥
इदानीं कर्तृत्रैविध्यं ब्रुवन् आदौ सात्त्विकं कर्तारं दर्शयति -
मुक्तेति ।
साङ्गो नाम फलाभिसन्धिर्वा कर्तृत्वाभिमानो वा । नाहं वदनशीलः - कर्ता अहमिति वदनशीलः न भवति इत्यर्थः ।
धारणं - धैर्यम् । क्रियमाणस्य कर्मणः यदि फलानभिसन्धिः, तर्हि न अनुष्ठानविश्रम्भः सम्भवेत् , इति आशङ्क्य आह -
केवलमिति ।
फलरागादिना इति आदिशब्देन कर्मरागः गृह्यते । अयुक्तः इति छेदः
॥ २६ ॥
राजसं कर्तारं कथयति -
रागीति ।
कर्मविषयः रागः, कर्मफलप्रेप्सुरिति फलरागस्य पृथक् कथनात् । स्वाभिप्रायाप्रकटीकरणपूर्वकं परपीडनं परविच्छेदनं तेन स्वार्थपरः इत्यर्थः
॥ २७ ॥
दीर्घं सूत्रयितुं शीलम् अस्य इति व्युत्पत्तिं गृहीत्वा विवक्षितम् अर्थ आह -
कर्तव्यानामिति ।
एवं क्रियमाणे सति अनिष्टम् इदं कथञ्चित् आपद्येत ; यदा पुनः एवं क्रियते तदा तु अनिष्टमेव सम्भावनोपनीतम् इति चिन्तापरम्परायां मन्थरप्रवृत्तिः इत्यर्थः ।
तदेव स्पष्टयति -
यदद्येति
॥ २८ ॥
ज्ञानादीनां प्रत्येकं त्रैविध्यम् उक्त्वा, वृत्तिमत्त्याः बुद्धेः तद्वृत्तेश्च धृत्याख्यायाः त्रैविध्यं सूचयति -
बुद्धेरिति ।
सूत्रविवरणं प्रतिजानीते-
प्रोच्यमानमिति ।
अर्जुनस्य धनञ्जयत्वं व्युत्पादयति -
दिगिति
॥ २९ ॥
तत्रादौ सात्त्विकीं बुद्धिं निर्दिशति -
प्रवृत्तिं चेति ।
प्रवृत्तिः आचरणमात्रम् अनाचरणमात्रं च निवृत्तिः इति किं न इष्यते ? तत्र आह -
बन्धेति ।
यस्मिन् वाक्ये बन्धमोक्षौ उच्यते, तस्मिन्नेव प्रवृत्तिनिवृत्त्याोः उक्तत्वात् , कर्ममार्गस्य बन्धहेतुत्वात् , मोक्षहेतुत्वाच्च संन्यासमार्गस्य, तावेव अत्र ग्राह्यौ इत्यर्थः ।
करणाकरणयोः निर्विषयत्वायोगात् विषयापेक्षाम् अवतार्य योग्यं विषयं निर्दिशति-
कस्येति ।
अनिष्टसाधनं भयम् , इष्टसाधनम् अभयम् इति विभजते -
भयेति ।
बन्धादिमात्रज्ञानस्य बुद्ध्यन्तरेऽपि सम्भवात् विशेषणम् ।
ननु बुद्दिशब्दितस्य ज्ञानस्य प्रागेव त्रैविध्यप्रतिपादनात् किमिति बुद्धेः इदानीं त्रैविध्यं प्रतिज्ञाय व्युत्पाद्यते ? तत्र आह -
ज्ञानमिति ।
तर्हि ज्ञानेन गतत्वात् न पुनः धृतिः व्युत्पादनीया इति आशङ्क्य आह -
धृतिरपीति ।
विशेषशब्देन ज्ञानात् व्यावृत्तिः इष्टा
॥ ३० ॥
कार्याकार्ययोः धर्माघर्माभ्यां पौनरुक्त्यं परिहरति -
पूर्वोक्ते इति ।
पूर्वश्लोके कार्याकार्यशब्दाभ्यां दृष्टादृष्टार्थानां कर्मणां करणाकरणे निर्दिष्टे । तयोरेव अत्र ग्रहणात् न धर्माधर्माभ्यां पूर्वपर्यायाभ्यां गतार्थता इति अर्थः । या (सा) बुद्धिः, यया बुद्ध्या बोद्धा निर्णयेन न जानाति इत्यर्थः
॥ ३१ ॥
धर्मशब्दो नपुम्सकलिङ्गोऽपि इति अभिप्रेत्य धर्मम् इति उक्तम् । तमसावृता - अविवेकेन वेष्टिता इत्यर्थः । कार्याकार्यादीन् उक्तान् अनुक्तांश्च सङ्ग्रहीतुं सर्वार्थान् इत्युक्तम् । तत् व्याचष्टे -
सर्वानेवेति ।
विपरीतांश्चेति चकारम् अवधारणे गृहीत्वा विपरीतानेव इत्युक्तम्
॥ ३२ ॥
इदनीं धृतित्रैविध्यं व्युत्पिपादयिषुः आदौ सात्विकीं धृतिं व्युत्पादयति -
धृत्येति ।
निर्दिष्टानां चेष्टानां कथं धृत्या धारणम् ? तत्र आह-
ताः इति ।
तदेव अनुभवेन साधयति -
धृत्या हीति ।
ध्रियते अनया इति धृतिः - यत्नविशेषः तया धृत्या धार्यमाणाः मिथोपदिष्टाः चेष्टाः शास्त्रम् अतिक्रम्य न अर्थान्तरावगाहिन्यः भवन्ति इति अर्थः ।
धृतिमेव समाध्यविनाभूतत्वेन विशिनष्टि -
योगेनेति ।
ननु धृतेः नियमेन समाध्यनुगतत्वं कथम् उक्तक्रियाधारणोपयोगी ? इति आशङ्क्य आह -
एतदिति ।
उक्तक्रियाः धारयमाणो योगेन ब्रह्मणि समाधानेन ऐकाग्र्येण अव्यभिचारिण्या अविनाभूतया धृत्या धारयति । अन्यथा तदविनाभावाभावे नियमेन तद्धारणासिद्धेः इत्यर्थः
॥ ३३ ॥
राजसीं धृतिं दर्शयति -
यया त्विति ।
तेषां धारणप्रकारम् अभिनयति -
मनसीति ।
फलाकाङ्क्षीति कस्य विशेषणम् ? तत्र आह -
यः पुरुष इति
॥ ३४ ॥
तमासीं धृतिं व्याचष्टे -
ययेति ।
शोकं - प्रियवियोगनिमित्तं सन्तापम् । विषण्णतां - इन्द्रियाणां ग्लानिम् । विषयसेवा कुमार्गप्रवृत्तेः उपलक्षणम् उक्तम् । स्वप्नादि मदान्तं सर्वमेव कर्तव्यतया आत्मनः बहु मन्यमानः - मनसि नित्यमेव कुर्वन् दुर्मेधाः न विमुञ्चति, किन्तु धारयत्येव इति योजना
॥ ३५ ॥
वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह -
गुणेत्यादिना ।
क्रियाकारकाणां गुणतः त्रैविध्योक्त्यनन्तरं फलस्य सुखस्य त्रैविध्योक्त्यवसरे सति, इति आह -
इदानीमिति ।
हेयोपादेयभेदार्थं त्रैविध्यम् । समाधानं - ऐकाग्र्यं मम वचनात् इति शेषः । यत्र इति उभयत्र सम्बध्यते । तत् त्रिविधं सुखमिति पूर्वेण सम्बन्धः
॥ ३६ ॥
तत्र सात्त्विकं सुखम् आदेयत्वेन दर्शयति -
यत्तदिति ।
प्रथमसन्निपातं विभजते -
ज्ञानेति ।
कुतः तस्य दुःखात्मकत्वम् ? तत्र आह -
अत्यन्तेति ।
दुःखात्मकत्वे दृष्टान्तम् आह -
विषमिवेति ।
ज्ञानादिपरिपाकावस्था परिणामः, तस्मिन् सति ततो जातम् इति योजना ।
तत्रैव हेत्वन्तरम् आह -
आत्मन इति ।
आत्मबुद्धिशब्दस्य अर्थान्तरम् आह -
आत्मविषयेति ।
अन्तःकरणनैर्मल्याद्वा सम्यग्ज्ञानप्रकर्षाद्वा जातत्वात् इति तच्छब्दार्थः
॥ ३७ ॥
राजसं सुखं हेयत्वाय कथयति -
विषयेति ।
बलं - सङ्घातसामर्थ्यं, वीर्यं - पराक्रमकृतं यशः, रूपं - शरीरसौन्दर्यं, प्रज्ञा - श्रुतार्थग्रहणसामर्थ्यं, मेधा - गृहीतार्थस्य अविस्मरणेन घारणशक्तिः, धनं - गोहिरण्यादि, उत्साहस्तु - कार्यं प्रति उपक्रमादिः, एतेषां नाशकत्वात् वैषयिकं सुखं विषसमम् इति अर्थः ।
तत्रैव हेत्वन्तरम् आह -
अधर्मेति
॥ ३८ ॥
तामसं सुखं त्यागार्थमेव उदाहरति -
यदग्रे चेति ।
अनुबन्धशब्दार्थम् आह -
अवसानेति ।
मोहनं - मोहकरम् ।
तदुत्पत्तिहेतुम् आह -
निद्रेति
॥ ३९ ॥
क्रियाकारकफलात्मनः संसारस्य प्रत्येकं सात्त्विकादिभेदेन त्रैविध्यम् उक्त्वा संसारान्तर्भूतमेव किञ्चित् गुणत्रयास्पृष्टमपि क्वचित् भविष्यति इति आशङ्क्य आह -
अथेति ।
संसारस्य सर्वस्यैव गुणत्रयसंस्पृष्टत्वं प्रकरणम् । अन्यद्वा अप्राणि इत्यत्र अप्राणिशब्देन प्रसिद्ध्या स्थावरादि गृह्यते
॥ ४० ॥
प्रकरणार्थम् उपसंहृतम् अनुवदति -
सर्व इति ।
तस्य अनेकात्मत्वेन हेयत्वं सूचयति -
क्रियेति ।
निर्गुणात् आत्मनः वैलक्षण्याच्च तस्या हेयता, इति आह -
सत्त्वेति ।
अनर्थत्वाच्च तस्य त्याज्यत्वम् , अनर्थत्वं च अविद्याकल्पितत्वेन, अवस्तुनो वस्तुवत् भानात् इत्याह -
अविद्येति ।
न केवलम् अष्टादशे संसारो दर्शितः, किन्तु पञ्चदशेऽपीत्याह -
वृक्षेति ।
चकारात् उक्तः संसारः अनुकृष्यते ।
संसारध्वस्तिसाधनं सम्यक् ज्ञानं च तत्रैव उक्तम् इत्याह -
असङ्गेति ।
वृत्तम् अनूद्य अनन्तरसन्दर्भतात्पर्यम् आह -
तत्र चेति ।
उक्तः निवर्तयिषितः संसारः सतिसप्तम्या परामृश्यते । सर्वो हि संसारो गुणत्रयात्मकः । न च गुणानां प्रकृत्यात्मकानां संसारकारणीभूतानां निवृत्तिः युक्ता, प्रकृतेः नित्यत्वात् इति आशङ्कायां, स्वधर्मानुष्ठानात् तत्त्वज्ञानोत्पत्त्या गुणानाम् अज्ञानात्मकानां निवृत्तिर्यथा भवति, तथा स्वधर्मजातं वक्तव्यम् इति उत्तरग्रन्थप्रवृत्तिः इत्यर्थः ।
तत्तद्वर्णप्रयुक्तधर्मजातानुपदेशे च उपसंहारप्रकरणप्रकोपः स्यात् , इति आह -
सर्वश्चेति ।
उपसंहृते गीताशास्त्रे यद्यपि सर्वो वेदार्थः स्मृत्यर्थश्च सर्वः उपसंहृतः, तथापि मुमुक्षुभिः अनुष्ठेयम् अस्ति वक्तवयम् अवशिष्टम् इति आशङ्क्य आह -
एतावानिति ।
अनुष्ठेयपरिमाणनिर्धारणवत् उक्तशङ्कानिवर्तनं शास्त्रार्थोपसंहारश्च इति एतत् उभयं चकारार्थः ।
सम्प्रति वर्णचतुष्टयस्य अनुष्ठेयं धर्मजातम् असङ्कीर्णम् इति सूत्रम् उपन्यस्यति-
ब्राह्मणेति ।
उपनयनसंस्कारवत्त्वे सति वेदाधिकारित्वं समानम् इति त्रयाणां समासकरणम् ।
इतरेषाम् असमासे हेतुम् आह -
शूद्राणाम् इति ।
एकजातित्वम् उपनयनवर्जितत्वम् ।
कर्मणाम् असङ्कीर्णत्वेन व्यवस्थापकं प्रश्नपूर्वकं प्रकटयति -
केन इत्यादिना ।
स्वभावप्रभवैः गुणैः इत्यस्य अर्थान्तरम् आह -
अथवेति ।
उक्तव्यवस्थायां कार्यदर्शनं प्रमाणयति -
प्रशान्तीति ।
स्वभावशब्दस्य अर्थान्तरम् आह -
अथवेति ।
किमिति गुणाभिव्यक्तेः उक्तवासनाधीनत्वम् ? तत्र आह -
गुणेति ।
ननु ऩास्ति गुणप्रादुर्भावस्य निष्कारणत्वं, प्रकृतिजैः गुणैः इति प्रकृतेः गुणकारणत्वाभिधानात् , अतः आह -
स्वभाव इति ।
वासना कारणम् इति गुणव्यक्तेः निमित्तकारणत्वं विवक्षितम् । प्रकृतिस्तु उपादान इति भावः ।
उक्तम् उपसंहरति -
एवमिति ।
स्वभावप्रभवैः सत्त्वादिगुणैः ब्राह्मणादीनां कर्माणि प्रविभक्तानि इति उक्तम् आक्षिपति-
नन्विति ।
शास्त्रस्य धर्मविभागहेतोः सत्त्वादिविशेषापेक्षयैव विभागज्ञापकत्वात् उभयत्र विभागहेतुत्वोक्तिः अविरुद्धा इति परिहरति -
नैष दोष इति
॥ ४१ ॥
प्रविभक्तानि कर्माण्येव प्रश्नद्वारा विविच्य दर्शयति -
कानीत्यादिना ।
‘अन्तःकरणोपशमः - शमः', दमः - बाह्यकरणोपरतिः इत्यक्तं स्मारयति-
यथेति ।
त्रिविधं तपः सप्तदशे दर्शितम् इत्याह - तप इति ।
शौचमपि बाह्यान्तरभेदेन प्रागेव उक्तम् इत्याह -
शौचमिति ।
क्षमा नाम आक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यम् । ज्ञानं - शास्त्रीयपदार्थज्ञानम् । विज्ञानं शास्त्रार्थस्य स्वानुभवायत्तत्वापादनम् ।
त्रिधा व्याख्यातं स्वभावशब्दार्थम् उपेत्य आह -
यदुक्तमिति
॥ ४२ ॥
शौर्यमिति ।
शूरस्य भावः विक्रमः - बलवत्तरानपि प्रहर्तुम् प्रवृत्तिः । प्रागल्भ्यं - परैः अघर्षणीयत्वम् ।
महत्यामपि विपदि देहेन्द्रियोत्तम्भनी चित्तवृत्तिः धृतिः इति व्याचष्टे -
सर्वावस्थास्विति ।
दक्षस्य भावमेव विभजते-
सहसेति ।
स्वभावस्तु पूर्ववत्
॥ ४३ ॥
वैश्यशूद्रयोः कर्म विवक्षया अनुवदति -
कृषीति ।
स्पष्टार्थः
॥ ४४ ॥
शमादिपरिचर्यान्तकर्मणां विभज्य उक्तानाम् अभ्युदयं फलम् आदौ उपन्यस्यति-
एतेषामिति ।
स्वभावतः - विहितत्वादेव मोक्षापेक्षाम् अन्तरेण अनुष्ठानात् इत्यर्थः ।
तत्र प्रमाणम् आह -
वर्णाः इति ।
शेषशब्देन भुक्तकर्मणः अतिरिक्तं कर्म अनुशयशब्दितम् उच्यते । प्रत्येकं देशादिभिः विशिष्टशब्दः सम्बध्यते । आदिशब्देन ‘तद्यथा आम्रे फलार्थे निर्मिते छायागन्धौ अनूत्पद्येते, एवं धर्मं चर्यमाणम् अर्थाः अनूत्पद्यन्ते । न धर्म हानिः भवति । ‘ इति स्मृतिः गृह्यते ।
इतश्च उक्तानां कर्मणां स्वर्गफलत्वं युक्तम् इत्याह -
पुराणे चेति ।
उक्तं हि -
“यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम् ।
तद्वर्णबन्धमुक्तोऽसौ लोकान् आप्नोत्यनुत्तमान्“ इति ।
“ यस्त्वेतां नियतः चर्यां वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्दोषान् जयेल्लोकांश्च शाश्वतान् ॥“ इति ।
“मोक्षाश्रमो यश्चरते यथोक्तं शुचिः सुसङ्कल्पितबुद्धियुक्तः ।
अनिन्धनज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥ “
इति च । “सर्व एते पुण्यलोका भवन्ति" इति श्रुतिः चकारार्थः ।
यदि पुनः मोक्षापेक्षया उक्तानि कर्माणि अनुष्ठीयेरन् , तदा मोक्षफलत्वं तेषां सेत्स्यति इत्याह-
कारणान्तरादिति ।
तदेव कारणान्तरं, यत् मोक्षापेक्षया तेषाम् अनुष्ठानम् ।
मोक्षोपायेषु शमदिषु सात्त्विकेषु ब्राह्मणधर्मेषु क्षत्रियादीनाम् अनधिकारात् ब्राह्मणानामेव मोक्षः, न क्षत्रियादीनाम् , इति आशङ्क्य आह -
स्वे स्वे इति ।
यथा स्वे कर्मणि अभिरतस्य बुद्धिशुद्धिद्वारा ज्ञाननिष्ठायोग्यतया प्राप्तज्ञानस्य मोक्षोपपत्तेः ब्राह्मणातिरिक्तस्यापि ज्ञानवतः मुक्तिः इति मत्वा पूर्वार्धं व्याचष्टे -
स्वे स्वे इत्यादिना ।
संसिद्धिशब्दस्य मोक्षार्थत्वं गृहीत्वा स्वधर्मनिष्ठत्वमात्रेण तल्लाभे, तादर्थ्येन संन्यासादिविधानानर्थक्यम् इति मन्वानः शङ्कते -
किमिति ।
न तावन्मात्रेण साक्षान्मोक्षः, ज्ञाननिष्ठायोग्यता वा इति परिहरति -
नेति ।
तर्हि कथं स्वधर्मनिष्ठस्य संसिद्धिरिति पृच्छति -
कथं तर्हि इति ।
उत्तरार्धेन उत्तरम् आह -
स्वकर्मेति ।
तत् श्रृणु - तं प्रकारम् एकाग्रचेता भूत्वा श्रुत्वा, अवधारय इत्यर्थः
॥ ४५ ॥
तमेव प्रकारं स्फुटयति -
यत इति ।
यतःशब्दार्थं यस्मात् इत्युक्तं व्यक्तीकरोति -
यस्मादिति ।
प्राणिनाम् उत्पत्तिः यस्मात् - ईश्वरात् तेषां चेष्टा च यस्मात् अन्तर्यामिणः, येन च सर्वं व्याप्तं, मृदा इव घटादि, कार्यस्य कारणातिरिक्तस्वरूपाभावात् , तं स्वकर्मणा अभ्यर्च्य मानवः संसिद्धिं विन्दति इति सम्बन्धः । न हि ब्राह्मणादीनां यथोक्तधर्मनिष्ठया साक्षात् मोक्षः लभ्यते, तस्य ज्ञानैकलभ्यत्वात् ।
किन्तु, तन्निष्ठानां शुद्धबुद्धीनां कर्मसु फलम् अपश्यताम् ईश्वरप्रसादासादितविवेकवैराग्यवतां संन्यासिनां ज्ञाननिष्ठायोग्यतावतां ज्ञानप्राप्त्या मुक्तिः इति अभिप्रेत्य आह -
केवलमिति
॥ ४६ ॥
स्वधर्मानुष्ठानस्य बुद्धिशुद्ध्यादिद्वारा मोक्षावसायित्वात् , तदनुष्ठानम् आवश्यकम् इत्याह -
यत इति ।
ननु युद्धादिलक्षणं स्वधर्मं कुर्वन्नपि हिंसाधीनं पापं प्राप्नोति तत् कथं स्वधर्मः श्रेयान् इति ? तत्र आह -
स्वभावेति ।
स्वकीयं वर्णाश्रमं निमित्तीकृत्य विहितं स्वभावजम् इति अधस्तात् उक्तम् इत्याह -
यदुक्तमिति ।
विग्रहात्मकमपि विहितं कर्म कुर्वन् पापं न आप्नोति इति अत्र दृष्टान्तम् आह -
यथेति
॥ ४७ ॥
इतश्च विहितं कर्म दोषवदपि कर्तव्यं, प्रकारान्तरासम्भवात् , इति उक्तानुवादपूर्वकं कथयति-
स्वभावेत्यादिना ।
न हि कृमिः विषजः विषनिमित्तं मरणं प्रतिपद्यते । तथा अयम् अधिकृतः पुरुषः दोषवदपि विहितं कर्म कुर्वन् पापं न आप्नोति इति उक्तम् इत्यर्थः । तर्हि दोषरहितमेव भिक्षाटनादि सर्वैः अनुष्ठीयताम् ।
अतः न पापप्राप्त्याशङ्का इति आशङ्क्य आह -
परेति ।
उक्तम् इति अनुवर्तते ।
तर्हि पापप्राप्तिशङ्कां परिहर्तुम् अकर्मनिष्ठत्वमेव सर्वेषां स्यात् इति आशङ्क्य, ज्ञानाभावात् नैवम् इत्याह -
अनात्मज्ञ इति ।
पूर्ववत् अत्रापि सम्बन्धः ।
प्रकारान्तरासम्भवकृतं फलम् आह -
अत इति ।
सह जायते इति सहजं - स्वभावनियतं नित्यं कर्म ।
तत् विहितत्वात् ऩिर्देषमपि हिंसात्मकतया सदोषम् इत्यत्र हेतुम् आह -
त्रिगुणेति ।
सत्त्वादिगुणत्रयारब्धतया हिंसादिदोषवदपि कर्म विहितम् अत्याज्यम् इत्यर्थः ।
कर्मणां दोषवत्त्वं प्रपञ्चयति -
सर्वेति ।
आरम्भशब्दस्य कर्मव्युत्पत्त्या स्वपरसर्वकर्मार्थत्वे कर्मणां प्रकृतत्वं हेतुम् आह -
प्रकरणादिति ।
दोषेण इत्यादि व्याचष्ठे -
ये केचिदिति ।
ते सर्वे दोषेण आवृताः इति सम्बन्धः ।
सर्वकर्मणां दोषावृतत्वे हिशब्दोपात्तं यस्मात् इत्युक्तं हेतुमेव अभिनयति -
त्रिगुणात्मकत्वमिति ।
स्वभावनियतस्य कर्मणः दोषवत्त्वात् , तत्त्यागद्वारा परधर्मम् आतिष्ठमानस्यापि नैव दोषात् विमोकः सम्भवति । न च परधर्मः अनुष्ठातुं शक्यते भयावहत्वात् । न च तर्हि कर्मणः अशेषतः अननुष्ठानमेव, अज्ञस्य अशेषकर्मत्यागायोगात् ।
अतः सहजं कर्म सदोषमपि न त्याज्यम् इति वाक्यर्थम् आह-
सहजस्येति ।
सहजं कर्म सदोषमपि न त्यजेत् इत्यत्र विचारम् अवतारयति -
किमिति ।
न हि कश्चिदिति न्यायात् इति शेषः । दोषः - विहितनित्यत्यागे प्रत्यवायः ।
सन्दिग्धस्य सप्रयोजनस्य विचार्यत्वात् , उक्ते सन्देहे प्रयोजनं पृच्छति -
किं चात इति ।
तत्र आद्यम् अऩूद्य फलं दर्शयति -
यदीति ।
अशक्यार्थानुष्ठानस्य गुणत्वेन प्रसिद्धत्वात् । प्रसिद्धं हि महोदधिम् अगस्त्यस्य चुलुकीकृत्य पिबतो गुणवत्त्वम् । तदाह -
एवं तर्हि इति ।
अशेषकर्मत्यागस्य गुणवत्त्वेऽपि प्रागुक्तन्यायेन तदयोगात् तस्य अशक्यानुष्ठानता इति शङ्कते -
सत्यमिति ।
चोद्यमेव विवृण्वन् आद्यं विभजते -
किमिति ।
सत्त्वादिगुणवत् आत्मनः नित्यप्रचलितत्वेन अशेषतः तेन न कर्म त्यक्तुं शक्यम् ; नापि रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञानां क्षणध्वंसिनां स्कन्धानाम् इव क्रियाकारकभेदाभावात् कारकस्यैव आत्मनः क्रियात्वम् इत्युक्ते कर्म अशेषतः त्यक्तुं शक्यम् , उभयत्रापि स्वभावभङ्गात् इत्याह -
उभयथेति ।
पक्षद्वयानुरोधेन अशेषकर्मत्यागायोगे, वैशेषिकः चोदयति -
अथेति ।
कदाचित् आत्मा सक्रियः, निष्क्रियश्च कदाचित् , इति स्थिते फलितम् आह -
तत्रेति ।
उक्तमेव पक्षं पूर्वोक्तपक्षद्वयात् विशेषदर्शनेन विशदयति -
अयं त्विति ।
आगमापायित्वे क्रियायाः, तद्वतः द्रव्यस्य कथं स्थायिता ? इति अशङ्क्य, आह -
शुद्धमिति ।
क्रियाशक्तिमत्त्वेऽपि क्रियावत्त्वाभावे कथं कारकत्वम् ? क्रियां कुर्वत् कारणं कारकम् इति अभ्युपगभात् इति आशङ्क्य, आह -
तदेवेति ।
क्रियाशक्तिमदेव कारकं न क्रियाधिकरणं, परस्पराश्रयात् इत्यर्थः ।
वैशेषिकपक्षे दोषाभावात् अस्ति सर्वैः स्वीकार्यता इति उपसंहरति -
इत्यस्मिन्निति ।
भगवन्मतानुसारित्वाभावात् अस्य पक्षस्य त्याज्यता इति दूषयति-
अयमेवेति ।
भगवन्मताननुसारित्वम् अस्य अप्रामाणकम् इति शङ्कते-
कथमिति ।
भगवद्वचनम् उदाहरन् परपक्षस्य तदनुगुणत्वाभावम् आह -
यत इति ।
परेषामपि मतम् एतदनुगुणमेव किं न स्यात् इति आशङ्क्य, आह -
काणादानां हीति ।
भगवन्मतानुगुणत्वाभावेऽपि न्यायानुगुणत्वेन दोषरहितं काणादानां मतम् उपादेयमेव तर्हि काणादमतविरोधात् उपेक्ष्यते भगवन्मतम् इति शङ्कते -
अभागवतत्वेऽपि इति ।
न्यायवत्त्वम् असिद्धम् इति दूषयति -
उच्यत इति ।
सर्वप्रमाणानुसारिणः मतस्य न तद्विरोधिता इति आक्षिपति -
कथमिति ।
वैशेषिकमतस्य सर्वप्रमाणविरोधं प्रकटयन् आदौ तन्मतम् अनुवदति-
यदीति ।
असतः जन्म, सतश्च नाशः इति स्थिते फलितम् आह -
तथा चेति ।
उक्तमेव वाक्यं व्याकरोति -
अभाव इति ।
सदेव असत्त्वम् आपद्यते इत्युक्तं व्याचष्टे -
भावश्चेति ।
इति मतमिति शेषः ।
तत्रैव अभ्युगमान्तरम् आह -
तत्रेति ।
प्रकृतं मतं सप्तम्यर्थः । इति अभ्युपगम्यते इति शेषः ।
परकीयम् अभ्युपगमं दूषयति -
न चेति ।
एवमिति - परपरिभाषानुसारेण इत्यर्थः । अदर्शनात् - उत्पत्तेः अपेक्षायाश्च इति शेषः ।
कथं तर्हि त्वन्मतेऽपि घटादीनां कारणापेक्षाणाम् उत्पत्तिः, न हि भावानां कारणापेक्षा उत्पत्तिर्वा युक्ता, इति तत्राह -
भावेति ।
धटादीनाम् अस्मत्पक्षे प्रागपि कारणात्मना सतामेव अव्यक्तनामरूपाणाम् अभिव्यक्तिसामग्रीम् अपेक्ष्य पृथक् अभिव्यक्तिसम्भवात् न किञ्चित् अवद्यम् इत्यर्थः ।
असत्कार्यवादे दोषान्तरम् आह -
किञ्चेति ।
परमते मानमेयव्यवहारे क्वचिदपि विश्वासः न कस्यचित् इत्यत्र हेतुमाह -
सत्सदेवेति ।
न हि सत् तथैव इति निश्चितं, तस्यैव पुनः असत्त्वप्राप्तेः इष्टत्वात् , न च असत् तथैवेति निश्चयः, तस्यैव सत्त्वप्राप्तेः उपगमात् । अतः यत् मानेन सत् असद्वा निर्णीतं तत् तथेति विश्वासाभावात् मानवैफल्यम् इत्यर्थः ।
इतश्च असत्कार्यवादः न युक्तिमान् इत्याह -
किञ्चेति ।
तदेव हेत्वन्तरं स्फोरयितुं परमतम् अनुवदति -
उत्पद्यत इतीति ।
परकीयं वचनमेव व्याचष्टे -
प्रागिति ।
सम्बद्धं सत् इति अनेन कारणसम्बन्धे सति कार्यस्य सत्तासम्बन्धः भवति इति उक्तम् ।
तदेव स्फुटयति -
कारणेति ।
परमतमेव अनुभाष्य दूषयति -
तत्रेति ।
कार्यस्य असतोऽपि कारणं सम्भवति ।
तस्य च कार्येण सम्बन्धः सिद्ध्यति इति आशङ्क्य आह -
न हीति ।
असत्त्वादेव असतः सम्बन्धाभावे करणस्य सतोऽपि न तेन सम्बन्धः अनुमातुं शक्यते ; सदसतोः सम्बन्धाभावात् इत्यर्थः ।
कार्यस्य अत्यन्तासत्त्वानभ्युपगमात् कारणसम्बन्धः स्यात् इति शङ्कते -
नन्विति ।
सतामेव द्व्यणुकादीनां कारणसम्बन्धं शङ्कितं दूषयति -
न सम्बन्धादिति ।
अनभ्युपगममेव विशदयति -
नहीति ।
सदेव कारणं कार्याकारम् आपद्य कार्यव्यवहारं निर्वहति इति अभ्युपगमात् नास्ति सम्बन्धानुपपत्तिः इति आशङ्क्य अपराद्वान्तात् मैवम् इत्याह -
न चेति ।
कार्यस्य कारणसम्बन्धात् पूर्वं सत्त्वाभावे परिशेषसिद्धम् अर्थं दर्शयति -
ततश्चेति ।
तत्र च अनुपपत्तिः उक्ता इति शेषः ।
सम्बन्धिनोः सदसतोरेव असंयोगेऽपि समवायः सदसतोः सम्भवेत् इति, तस्य नित्यत्वात् अन्यतरसम्बन्धाभावेऽपि स्थितेः आवश्यकत्वात् इति शङ्कते -
नन्विति ।
सदसतोः मिथः सम्बन्धस्य अदृष्टत्वात् न इति निराचष्टे -
न वन्ध्येति ।
घटादिप्रागभावस्य अत्यन्ताभावत्वाभावात् वन्ध्यापुत्रादिविलक्षणतया स्वकारणसम्बन्धः सिध्यति इति आशङ्क्य आह -
घटादेरिति ।
उभयत्र अभावस्वभावाविशेषेऽपि, कस्याचित् कारणसम्बन्धः, न इतरस्य, इति विशेषे, हेत्वभावात् न प्रागभावस्य कारणसम्बन्धः सम्भवति इत्यर्थः ।
घटादिप्रागभावस्य सप्रतियोगिकत्वं, वन्ध्यापुत्रादेः नैवम् इति विशेषम् आशङ्क्य दूषयति-
एकस्येति ।
प्रागभावस्येव प्रध्वंसाभावादेरपि सप्रतियोगिकत्वाविशेषे स्वकारणेन सम्बन्धाविशेषः स्यात् इत्यर्थः ।
प्रागभावप्रध्वंसाभावयोः विशेषाभावे फलितम् आह -
असति चेति ।
कपालशब्दः धटकारणीभूतमृदवयवविषयः । सर्वः व्यवहारः घटाश्रितः जन्मनाशादिव्यवहारः । प्रध्वंसाभावस्तु घटस्यैव अभावत्वे सत्यपि न घटत्वम् आपद्यते । नापि कारणेन संबध्यते ।
न च उत्पत्त्यादिव्यवहारयोग्यः भवति, इति एतत् अयुक्तं, प्रागभावेन अस्य विशेषाभावात् इत्याह -
न त्विति ।
असमञ्जसम् इत्यनेन इतिशब्दः सम्बध्यते ।
असमञ्जसान्तरम् आह -
प्रध्वंसादीति ।
अन्योन्याभावात्यन्ताभावौ अदिपदार्थौ । क्कचित् इति देशकालयोः ग्रहणम् । व्यवहारः जन्मादिरेव । प्रागभावः न उत्पत्त्यादिव्यवहारयोग्यः, अभावत्वात् , प्रध्वंसादिवत् इत्यर्थः ।
प्रागभावस्य घटभावानभ्युपगमात् अनुमानं सिद्धसाधनम् इति शङ्कते -
नन्विति ।
अभावस्य भावापत्त्यनभ्युपगमे भावस्यैव भावापत्तिः इति अनिष्टं स्यात् इति दूषयति -
भावस्यैवेति ।
तस्य तदापत्तेः अयोग्यत्वे दृष्टान्तम् आह -
यथेति ।
अभावस्य भावापत्तिः अनिष्टा इति दार्ष्टान्तिकं स्पष्टयति -
एतदपीति ।
आरम्भवादोक्तं दोषं परिणामवादेऽपि सञ्चारयति -
साङ्ख्यस्येति ।
धर्मः - परिणामः । असतः अपूर्वपरिणामस्य उत्पत्तेः, सतश्च पूर्वपरिणामस्य नाशात् , असत् असदेव, सच्च सदेव इति व्यवस्था अत्रापि दुर्घटा इत्यर्थः । ननु कार्यं कारणात्मना प्रागपि सदेव अव्यक्तं कारकव्यापारात् व्यज्यते । तेन व्यक्त्यव्यक्त्योः जन्मनाशव्यवहारात् मतान्तरात् विशेषसिद्धिः ।
तत्र आह -
अभिव्यक्तीति ।
कारकव्यापारात् प्राक् अनभिव्यक्तिवत् अभिव्यक्तेः सत्त्वम् असत्त्वं वा ? सत्त्वे कारकव्यापारवैयर्थ्यात् तद्विषयप्रमाणविरोधः । द्वितोये पक्षान्तरवत् अत्यन्तासतः तन्निर्वर्त्यत्वायोगे स एव दोषः । कारकव्यापारात् ऊर्ध्वं व्यक्तिवत् अव्यक्तेरपि सत्त्वे स एव दोषः । असत्त्वेऽपि सतो असत्त्वानङ्गीकारात् मानमेयव्यवहारे न क्कापि विश्वासः । सत् सदेव, असत् असदेव इति अनिर्धारणात् इत्यर्थः ।
साङ्ख्यपक्षप्रतिक्षेपन्यायेन पक्षान्तरमपि प्रतिक्षिप्तम् इत्याह -
एतेनेति ।
कारणस्यैव कार्यरूपापत्तिः उत्पत्तिः । तस्यैव तद्रूपत्यागेन स्वरूपापत्तिः नाशः इति एतदपि न । पूर्वरूपे स्थिते नष्टे च, परस्य पररूपापत्तेः अनुपपत्तेः । न च प्राप्तं रूपं स्थितेन नष्टेन वा त्यक्तुं शक्यम् इत्यर्थः ।
आरम्भवादे परिणामवादे च उत्पत्त्यादिव्यवहारानुपपत्तौ परिशेषायातं दर्शयति-
पारिशेष्यादिति ।
एकस्य अनेकविधविकल्पानुपपत्तिम् आशङ्क्य, आह -
अविद्ययेति ।
अस्यापि मतस्य भगवन्मतानुरोधित्वाभावात् अविशिष्टा त्याज्यता इति आशङ्क्य आह -
इतीदमिति ।
उक्तमेव भगवन्मतं विशदयति -
सत्प्रत्ययस्येति ।
सत् एकमेव वस्तु स्यात् इति शेषः ।
इतरेषां विकारप्रत्ययानां रजतादिधीवत् अर्थव्यभिचारात् , अविद्यया तदेव सद्वस्तु अनेकधा विकल्प्यते इत्याह -
व्यभिचाराच्चेति ।
इति मतं श्लोके दर्शितम् इति सम्बन्धः ।
आत्मनश्चेत् अविक्रियत्वं भगवता इष्टं, तर्हि सर्वकर्मपरित्यागोपपत्तेः, सहजस्यापि कर्मणः त्यागसिद्धिः इति शङ्कते -
कथमिति ।
किं कार्यकारणात्मनां गुणानाम् अकल्पितानां कल्पितानां वा कर्म धर्मत्वेन इष्टम् ? द्विधापि निश्शेषकर्मत्यागः विदुषः अविदुषो वा ? न आद्यः इत्याह -
यदीत्यादिना ।
अविद्यारोपितमेव गुणशब्दितकार्यकारणारोपद्वारा कर्म इति शेषः ।
द्वितीयं प्रति आह -
विद्वांस्त्विति ।
आरोपशेषवशात् विदुषोऽपि न अशेषकर्मत्यागसिद्धिः इति आशङ्क्य, आह -
अविद्येति ।
तामेव अनुपपत्तिं दृष्टान्तेन स्पष्टयति -
न हीति ।
विदुषः अशेषकर्मत्यागे पाञ्चमिकमपि वचः अनुकूलम् इत्याह -
एवं चेति ।
अविदुषः सर्वकर्मत्यागायोगे च प्रकृताध्यायस्थमेव वाक्यम् अनुगुणम् इति आह -
स्वे स्वे इति ।
वाक्यान्तरमपि तत्रैव अर्थे युक्तार्थम् इत्याह -
स्वकर्मणेति
॥ ४८ ॥
विदुषः सर्वकर्मत्यागेऽपि, न अविदुषः तथा, इति, उक्तम् । इदानीम् उक्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह -
या च कर्मजेति ।
चः अवधारणार्थः भिन्नक्रमः, वक्तव्यः इत्यत्र सम्बध्यते ।
साधनानि उपदिशन् नैष्कर्म्यसिद्धिं व्यपदिशति -
असक्तेति ।
पुत्रादिविषये चेतसः सङ्गाभावेऽपि तस्य अस्वाधीनत्वम् आशङ्क्य, आह-
जितात्मेति ।
असक्तिम् उक्त्वा स्पृहाभावं वदता पुनरुक्तिः इष्टा इति आशङ्क्य, आह-
देहेति ।
उक्तम् अनूद्यतत्फलं लम्भयति -
य एवमिति ।
कर्मणां निर्गतौ हेतुम् आह - निष्क्रियेति ।
सम्यग्ज्ञानार्थत्वेन नैष्कर्म्यसिद्धिशब्दं व्याख्याय अर्थान्तरम् आह -
नैष्कर्म्यस्येति ।
प्रकर्षमेव प्रकटयति -
कर्मजेति ।
संन्यासस्य श्रुतिस्मृत्योः सम्यग्दर्शनत्वाप्रसिद्धेः अयुक्तं तादात्म्यम् इति आशङ्क्य, पक्षान्तरम् आह -
तत्पूर्वकेणेति ।
संन्यासात् नैष्कर्म्यप्राप्तिः इत्यत्र वाक्योपक्रमानुकूल्यम् आह -
तथा चेति
॥ ४९ ॥
ज्ञानप्राप्तियोग्यतावतः जातसम्यग्धियः तत्फलप्राप्तौ मुक्तौ उक्तायां, वक्तव्यशेषः नास्ति इति आशङ्क्य, आह -
पूर्वोक्तेनेति ।
क्रमाख्यं वस्तु तत् उच्यते ।
सिद्धिम्प्राप्तः इति उक्तमेव कस्मात् अनूद्यते ? तत्र आह -
तदनुवाद इति ।
उत्तरमेव प्रश्नपूर्वकं स्फोरयति -
किं तदित्यादिना ।
ज्ञाननिष्ठाप्राप्तिक्रमस्य विस्तरेण उक्तौ दुर्बोधत्वम् आशङ्क्य परिहरति -
किमिति ।
चतुर्थपादस्य पूर्वेण असङ्गतिम् आशङ्क्य, आह -
यथेति ।
निष्ठायाः सापेक्षत्वात् प्रतिसम्बन्धि प्रतिनिर्देष्टव्यम् इत्याह -
कस्येति ।
या ब्रह्मज्ञानस्य परा निष्ठा, सा प्रकृतस्य ज्ञानस्य निष्ठा इत्याह -
ब्रह्मेति ।
तस्य परा निष्ठा न प्रसिद्धा इति कृत्वा साधनानुष्ठानाधीनतया साध्या इति मत्वा पृच्छति -
कीदृशीति ।
प्रसिद्धम् आत्मज्ञानम् अनुरुध्य ब्रह्मज्ञाननिष्ठा सुज्ञाना इत्याह -
यादृशमिति ।
तत्रापि प्रसिद्धिः अप्रसिद्धा इति शङ्कते -
कीदृगिति ।
अर्थेनैव विशेषो हि इति न्यायेन उत्तरम् आह -
यादृशः इति ।
तस्मिन्नपि विप्रतिपत्तेः अप्रसिद्धिम् अभिसन्धाय पृच्छति -
कीदृशः इति ।
भगवद्वाक्यानि उपनिषद्वाक्यानि च आश्रित्य परिहरति -
यादृशः इति ।
न जायते म्रियते वेत्यादीनि वाक्यानि । कूटस्थत्वम् असङ्गत्वम् इत्यादि न्यायः ।
ज्ञानस्य विषयाकारत्वात् , आत्मनश्च अविषयत्वात् अनाकारत्वाच्च तदाकारज्ञानायोगात् , आत्मप्रसिद्धावपि न आत्मज्ञानप्रसिद्धिः इति शङ्कते -
नन्विति ।
आकारवत्त्वम् आत्मनः श्रुतिसिद्धम् इति सिद्धान्ती शङ्कते-
नन्वादित्येति ।
उक्तवाक्यानाम् अन्यार्थत्वदर्शनेन पूर्ववादी परिहरति -
नेत्यादिना ।
सङ्ग्रहवाक्यं प्रपञ्चयति -
द्रव्येति ।
इतश्च आकारवत्त्वम् आत्मनः नास्ति इति आह-
अरूपमिति ।
यत् आत्मनः विषयत्वाभावात् तद्विषयं ज्ञानं न सम्भवति इति उक्तं तत् उपपादयति-
अविषयत्वाच्चेति ।
आत्मनः अविषयत्वे श्रुतिम् उदाहरति -
नेत्यादिना ।
सन्दृशे - सम्यग्दर्शनविषयत्वाय, अस्य - आत्मनः, रूपं न तिष्ठति इत्यर्थः ।
तदेव करणागोचरत्वेन उपपादयति -
नेति ।