अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

अष्टादशोऽध्यायः (२)

शब्दा­दि­शू­न्य­त्वाच्च आत्मा विषयः न भवति, इत्याह -
अशब्दमिति ।

आत्मनः विष­य­त्वा­का­र­व­त्त्वयोः अभावे फलितम् आह -
तस्मादिति ।

ज्ञानस्य आत्मा­का­र­त्वा­भावे सति आत्मज्ञानमिति व्यपदेशासिद्धिः इति एकदेशी शङ्कते -
कथं तर्हीति ।

का अत्र अनुपपत्तिः इति आशङ्क्य आह -
सर्वं हीति ।

आत्मनोऽपि तर्हि विषयत्वेन ज्ञानस्य तदाकारत्वं स्यात् इति आशङ्क्य आह -
निराकारश्चेति ।
आत्मनो विषयत्वराहित्यं चकारार्थः ।

आत्मवत् तज्ज्ञानस्यापि तर्हि निराकारत्वं भविष्यति इत्यत्र आह -
ज्ञानेति ।
तच्छब्देन आत्मज्ञानं गृह्यते । तस्य भावना - पौनःपुन्येन अनुसन्धानम् । तस्याः निष्ठा - समाप्तिः आत्म­सा­क्षा­त्का­र­दा­र्ढ्यंम् । न च एतत् सर्वम् आत्मनः ज्ञानस्य वा निराकारत्वे सिध्यति इत्यर्थः ।

ज्ञानात्मनोः साम्योपन्यासेन सिद्धान्ती समाधत्ते-
नेत्यादिना ।
यथो­क्त­सा­म्या­नु­सा­रात् आत्म­चै­त­न्या­भा­स­व्याप्ता ज्ञानपरिणामवती बुद्धिः । साभा­स­बु­द्धि­व्याप्तं मनः साभासमनो व्याप्तानि इन्द्रियाणि । साभा­से­न्द्रि­य­व्याप्तः स्थूलः देहः ।

तत्र लौकिकभ्रान्तिं प्रमाणयति -
अत इति ।
आत्मदृष्टेः देहमात्रे दृष्टत्वात् , तत्र चैत­न्या­भा­स­व्याप्तिः इन्द्रियद्वारा कल्प्यते । इन्द्रियेषु च तद्दृ­ष्टि­द­र्श­नात् चैत­न्या­भा­स­वत्त्वं मनोद्वारा सिद्ध्यति । मनसि च आत्मदृष्टेः चैत­न्या­भा­स­वत्त्वं बुद्धिद्वारा लभ्यते । बुद्धौ च आत्मदृष्टेः अज्ञानद्वारा चैत­न्या­भा­स­सिद्धिः इत्यर्थः ।

देहे लौकिकम् आत्मत्वदर्शनं न्यायाभावात् उपेक्षितम् इति आशङ्क्य, आह-
देहेति ।

तथापि कथम् इन्द्रियाणां न्यायहीनम् आत्मत्वम् इष्टम् इत्याशङ्क्य, आह -
तथेति ।

तथापि मनसः यत् आत्मत्वं, तत् न्यायशून्यम् इति आशङ्क्य, आह -
अन्य इति ।

बुद्धेः आत्मत्वम् अपि न्यायोपेतम् इति सूचयति -
अन्ये बुद्धीति ।

देहादौ बुद्ध्यन्ते परम् आत्मत्वबुद्धिः, न अन्यत्र, इति ऩियमं वारयति -
ततोऽपीति ।
तत्र हि साभासे अन्तर्यामिणि कारणोपासकानाम् आत्मत्वधीः अस्ति इत्यर्थः ।

बुद्ध्यादौ देहान्ते लौकि­क­प­री­क्ष­काणां आत्मत्वभ्रान्तौ साधारणं कारणम् आह -
सर्वत्रेति ।

आत्मज्ञानस्य लौकि­क­प­री­क्ष­क­प्र­सि­द्ध­त्वा­देव विधिविषयत्वमपि परेष्टं परास्तम् इत्याह -
इत्यत इति ।

ज्ञानस्य विधेयत्वाभावे, किं कर्तव्यं द्रष्ट­व्या­दि­वाक्यैः ? इति आशङ्क्य, आह -
किं तर्हिति ।

आत्मज्ञानस्य अविधेयत्वे प्रागुक्तं अतःशब्दितं हेतुं विवृणोति -
अविद्येति ।
देहे­न्द्रि­य­म­नो­बु­द्ध्य­व्यक्तैः उपलभ्यमानैः सह उपलभ्यते चैतन्यम् ।

न अन्यथा तेषाम् उपलम्भः जडत्वात् इत्यत्र विज्ञा­न­वा­दि­भ्रान्तिं प्रमाणयति-
अत एवेति ।
सर्वं ज्ञेयं ज्ञानव्याप्तमेव ज्ञायते । तेन ज्ञानातिरिक्तं नास्त्येव वस्तु । संमतं हि स्वप्नदृष्टं वस्तु ज्ञानातिरिक्तं नास्ति इति ते भ्राम्यन्ति इत्यर्थः ।

ज्ञानस्यापि ज्ञेयत्वात् ज्ञातृ वस्त्वन्तरम् एष्टव्यम् इति आशङ्क्य, आह -
प्रमाणान्तरेति ।
ज्ञानस्य स्वेनैव ज्ञेयत्वोपगमेन अति­रि­क्त­प्र­मा­ण­नि­र­पे­क्षतां च प्रतिपन्नाः इति सम्बन्धः ।

ब्रह्मात्मनि ज्ञानस्य सिद्धत्वेन अविधेयत्वे फलितम् आह -
तस्मादिति ।
यत्नः अत्र भावना ।

ब्रह्मणः तज्ज्ञानस्य च अत्य­न्त­प्र­सि­द्धत्वे, कथं ब्रह्मणि अन्यथा प्रथा लौकिकानाम् ? इत्यत्र आह -
अविद्येति ।

यथाप्रतिभासं दुर्वि­ज्ञे­य­त्वा­दि­रू­प­मेव ब्रह्म किं न स्यात् ? तत्र आह -
बाह्येति ।
गुरुप्रसादः - शुश्रूषया तोषितबुद्धेः आचार्यस्य करुणातिरेकादेव ‘तत्त्वं बुध्यतां’ इति निरवग्रहः अनुग्रहः । आत्मप्रसादस्तु - अधि­ग­त­प­द­श­क्ति­वा­क्य­ता­त्प­र्यस्य श्रौत­यु­क्त्य­नु­स­न्धा­नात् आत्मनः मनसः विष­य­व्या­वृ­त्तस्य, प्रत्य­गे­का­ग्र­तया तत्प्रावण्यम् इति विवेकः ।

आत्मज्ञानस्य आत्मद्वारा प्रसिद्धत्वे वाक्योपक्रमं प्रमाणयति-
तथा चेति ।

आत्मनः निराकारत्वात् तस्मिन् बुद्धः अप्रवृत्तेः सम्य­ग्ज्ञा­ना­निष्ठा न सुसम्पाद्या इति मतम् उपस्थापयति -
केचित्त्विति ।

बहिर्मुखानाम् अन्तर्मुखानां वा ब्रह्मणि सम्यक् ज्ञाननिष्ठा दुःसाध्या इति विकल्प्य आद्यम् अनूद्य अङ्गीकरोति -
सत्यमिति ।
पूर्व­पू­र्व­वि­शे­ष­णम् उत्त­रो­त्त­र­वि­शे­षणे हेतुत्वेन योजनीयम् ।

द्वितीयं दूषयति -
तद्वि­प­री­ता­ना­मिति ।

अद्वैतनिष्ठानां द्वैतविषये सम्यग्बुद्धेः अतिशयेन दुःसम्पाद्यत्वे हेतुम् आह -
आत्मेति ।

तद्व्यतिरेकेण वस्त्वन्तरस्य असत्त्वं कथम् ? इति आशङ्क्य आह -
यथा च इति ।
अद्वैतमेव वस्तु, द्वैतं तु आविद्यकं, न अन्यया तात्त्विकम् इति एतत् एवमेव यया स्यात् तथा उक्तवन्तः वयं तत्र तत्र अध्यायेषु इति योजना ।

अन्त­र्नि­ष्ठा­नाम् अद्वैतदर्शिनां द्वैतं नास्ति सद्बुद्धिः इत्यत्र भगवतोऽपि संमतिम् आह -
उक्तञ्चेति ।

परमतं निराकृत्य प्रकृत उपसंहरन् आत्मनः निराकारत्वे ज्ञानस्य तदालम्बनत्वे किं कारणम् ? इति आशङ्क्य आह -
तस्मादिति ।

ननु आत्मा कथञ्चित् सम्य­ग्ज्ञा­न­क्रि­या­सा­ध्य­श्चेत् तस्य हेयो­पा­दे­या­न्य­त­र­को­टि­नि­वे­शात् प्राप्तं स्वर्गादिवत् क्रिया­सा­ध्य­त्वेन अप्रसिद्धत्वम् । न, इत्याह -
नहीति ।
आत्मत्वादेव प्रसिद्धत्वेन प्राप्तत्वात् अनात्मवत् तस्य हेयोपादेयत्वयोः अयोगात् न क्रियासाध्यता इत्यर्थः ।

आत्मनश्चेत् ऋते क्रियाम् असिद्धत्वं, तदा सर्व­प्र­वृ­त्ती­नाम् अभ्यु­द­य­निः­श्रे­य­सा­र्था­नाम् आत्मा­र्थ­त्वा­यो­गात् अर्थिनः अभावे स्वार्थत्वम् अप्रामाणिकं स्यात् इत्याह -
अप्रसिद्धे हीति ।

ननु प्रवृत्तीनां स्वार्थत्वं देहादीनाम् अन्यतमस्य अर्थित्वेन तादर्थ्यात्, इति आशङ्क्य घटादिवत् अचेतनस्य अर्थित्वायोगात् न एवम् इत्याह -
न चेति ।

ननु प्रवृत्तीनां फलावसायितया सुखदुःखयोः अन्य­त­रा­र्थ­त्वात् न स्वार्थत्वम् ? तत्राह -
न चेति ।
प्रवृत्तीनां सुख­दुः­खा­र्थ­त्वेऽपि तयोः स्वार्थ­त्वा­सिद्धेः अर्थित्वेन आत्मा सिध्यति इत्यर्थः ।

किञ्च सर्वा­पे­क्षा­न्या­यात् आत्मावगत्यवसानः सर्वः व्यवहारः । न च आत्मनि अप्रसिद्धे यज्ञा­दि­व्य­व­हा­रस्य तज्ज्ञा­ना­र्थत्वं, तेन आत्मप्रसिद्धिः एष्टव्या इत्याह -
आत्मेति ।

ननु आत्मा अप्रसिद्धेऽपि प्रमाणद्वारा प्रसिध्यति । यत् सिध्यति, तत् प्रमाणादेव इति न्यायात् । तत्राह -
तस्मादिति ।
मान­मे­या­दि­स­र्व­व्य­व­हा­रस्य आत्मा­व­ग­त्य­त्वो­प­ग­मात् प्रागेव प्रमा­ण­प्र­वृत्तेः, आत्मप्रसिद्धेः एष्टव्यत्वात् इत्यर्थः ।

आत्मावगतेः एवं स्वाभाविकत्वे विवेकवताम् आरोपनिवृत्त्या ज्ञाननिष्ठा सुप्रसिद्धा इति उपसंहरति -
इत्यात्मेति ।

ननु अनाकारामेव अनुमिमीमहे बुद्धिम् इति वदताम् अनाकारं अप्रत्यक्षम् इच्छतां प्राक् अर्थावगतेः अप्रसिद्धमेव ज्ञानम् ? न, इत्याह -
येषामिति ।
सुखादिवत् ऩित्यानुभवगम्यं ज्ञानं न अनुमेयं विषयावगत्या तदनुमितौ इतरेतराश्रयात् इति भावः ।

इतश्च ज्ञानं प्रसिद्धम् , अन्यथा तत्र जिज्ञा­सा­प्र­स­ङ्गात् । न च ज्ञाने जिज्ञासा प्रसिद्धा । प्रसिद्धे च तदयोगात् , इत्याह -
जिज्ञासेति ।

तदेव प्रपञ्चयति -
अप्रसिद्धं चेदिति ।

दृष्टान्तमेव व्याचष्टे-
यथेति ।

दार्ष्टान्तिकं विवृणोति -
तथेति ।

इष्टापत्तिं निराचष्टे -
न चेति ।
ज्ञानस्य ज्ञानान्तरेण ज्ञेयत्वम् एतच्छब्दार्थः । अनवस्थापत्तेः इत्यर्थः ।

ज्ञाने जिज्ञा­सा­नु­प­पत्तौ फलितम् आह -
अत इति ।

प्रसिद्धेऽपि, ज्ञाने, ज्ञातरि आत्मनि किम् आयातम् ? तदाह -
ज्ञातापीति ।
ज्ञानस्य, विना ज्ञातारम् , अपर्यवसानात् इत्यर्थः ।

ज्ञानस्य प्रसिद्धत्वे तव भावनापर्यायः विधिः नास्ति इत्याह -
तस्मादिति ।

कुत्र तर्हि प्रयत्नाख्या भावना इति आशङ्क्य, आह -
किं त्विति ।

अविषये निराकारे च आत्मनि ज्ञाननिष्ठायाः दुस्स­म्पा­द्य­त्वा­भावे फलितं निगमयति -
तस्मादिति
॥ ५० ॥

ब्रह्मज्ञानस्य परां निष्ठां प्रतिष्ठापिताम् अनूद्य श्लोकान्तरं पृच्छति -
सेयमिति ।
या इयं ब्रह्मज्ञानस्य परा निष्ठा - समा­रो­पि­ता­त­द्ध­र्म­नि­वृ­त्ति­द्वारा ब्रह्मणि परिसमाप्तिः ज्ञानसन्तानरूपा उच्यते, सा कार्या सुसम्पाद्या इति यत् उक्तं तत् कथं केन उपायेन ? इति प्रश्नार्थः ।

पृष्टं उपायभेदम् उदाहरति -
बुद्ध्येति ।
अध्यवसायः - ब्रह्मा­त्म­त्व­नि­श्चयः । मायारहितत्वं - संश­य­वि­प­र्य­य­शू­न्य­त्वम् ।

शब्दा­दि­स­म­स्त­वि­ष­य­त्यागे देहस्थितिरपि दुःस्था स्यात् इति आशङ्क्य, आह -
सामर्थ्यादिति ।
विषयमात्रत्यागे देह­स्थि­त्य­नु­प­पत्तेः ज्ञान­नि­ष्ठाऽ­सि­द्धि­प्र­स­ङ्गात् इत्यर्थः ।

देह­स्थि­त्य­र्थ­त्वेन अनुज्ञातेषु अर्थेषु प्राप्तं रागादि ज्ञान­नि­ष्ठा­प्र­ति­ब­न्धकं व्युदस्यति -
शरीरेति ।
परित्यज्य विविक्तसेवी स्यात् इति सम्बन्धः
॥ ५१ ॥

बुद्धेः वैशारद्यं यत्नेन कार्यकरणनियमनं, देह­स्थि­ति­हे­त्व­ति­रि­क्त­वि­ष­य­त्यागः, देह­स्थि­त्य­र्थे­ष्वपि तेषु रागद्वेषवर्जनम् , उपायभेदे सिद्धे, सन्ति उपायान्तराण्यपि यत्नसाध्यानि इत्याह -
तत इति ।

चित्तै­का­ग्र्य­प्र­सा­दार्थं विविक्तसेवित्वं व्याकरोति -
अरण्येति ।

निद्रा­दि­दो­ष­नि­वृ­त्त्यर्थं लघ्वाशित्वं विशदयति -
लघ्विति ।
लघु - परिमितं हितं मेध्यं च अशितुं शीलम् अस्य इति तथा उच्यते ।

विशेषणयोः तात्पर्यं विवृणोति -
विविक्तेति ।
निद्रादीति आदिशब्दात् आलस्यप्रमादादयः बुद्धि­वि­क्षे­पकाः विवक्षिताः ।

वक्ष्य­मा­ण­ध्या­न­यो­गयोः उपायत्वेन विशेषणान्तरं विभजते -
वाक् चेति ।
वागादिसंयमस्य आव­श्य­क­त्व­द्यो­त­नार्थं स्यात् इत्युक्तम् ।

संय­त­वा­गा­दि­क­र­ण­ग्रा­मस्य अनायासेन कर्तव्यम् उपदिशति -
एवमिति ।
मन्त्रजपादि इति आदिपदेन प्रद­क्षि­ण­प्र­णा­मा­दयः ध्यान­यो­ग­प्र­ति­ब­न्धकाः गृहीताः ।

उक्तयोरेव ध्यानयोगयोः उपायत्वेन उक्तं विरागभावं विभजते -
दृष्टेति ।

सम्यक्त्वमेव व्यनक्ति -
नित्यमिति
॥ ५२ ॥

ज्ञाननिष्ठस्य यतेः विशेषणान्तरं समुच्चिनोति -
किं चेति ।

नित्यं ध्यानयोगपरत्वे समुच्चितं कारणान्तरं विवृणोति -
अहङ्करणमिति ।

सामर्थ्यमात्रे बलशब्दात् उपलभ्यमाने किमिति विशेषवचनम् ? इति आशङ्क्य आह -
स्वाभा­वि­क­त्वे­नेति ।

उक्ते अर्थं मानम् आह-
हृष्ट इति ।
वैराग्यशब्देन लब्धस्यापि कामत्यागस्य पुनः वचनं प्रकृ­ष्ट­त्व­ख्या­प­ना­र्थम् ।

अह­ङ्का­रा­दि­त्यागे परि­ग्र­ह­प्रा­प्त्य­भा­वात् तत्त्यागोक्तिः अयुक्ता इति आशङ्क्य, आह -
इन्द्रियेति ।

परिग्रहाभावे मम­त्व­वि­ष­या­भा­वात् निर्ममत्वं कथम् ? इति आशङ्क्य, आह -
देहेति ।

अहङ्कारममकारयोः अभावेन प्राप्ताम् अन्तःकरणोपरतिम् अनुवदति -
अत एवेति ।

उक्तम् अनूद्य जीवन्नेव असौ ब्रह्म भवति इति फलितम् आह -
यः संहृतेति ।
ज्ञाननिष्ठपदात् ऊर्ध्वं सशब्दो द्रष्टव्यः । ब्रह्मणः भवनम् अनु­स­न्धा­न­प­रि­पा­क­प­र्यन्तं साक्षात्करणं तदर्थम् इति यावत्
॥ ५३ ॥

अपेक्षितं पूरयन् उत्तरश्लोकम् अवतारयति -
अनेनेति ।
‘बुद्ध्या विशुद्धया’(भ. गी. १८-५१) इत्यादिः अत्र क्रमः ब्रह्मप्राप्तः जीवन्नेव निवृ­त्ता­शे­षा­नर्थः निरतिशयानन्दं ब्रह्म आत्मत्वेन अनुभवन् इत्यर्थः । अध्यात्मं - प्रत्यगात्मा, तस्मिन् प्रसादः - सर्वा­न­र्थ­नि­वृत्त्या पर­मा­न­न्दा­वि­र्भावः, सः लब्धो येन जीवन्मुक्तेन, सः तथा ।

न शोचतीत्यादौ तात्पर्यम् आह -
ब्रह्मभूतस्येति ।
प्राप्त­व्य­प­रि­हा­र्या­भा­व­नि­श्च­यात् इत्यर्थः ।

स्वभावानुवादम् उपपादयति -
न हीति ।
तस्य अप्रा­प्त­वि­ष­या­भा­वात् नापि परि­हा­र्या­प­रि­हा­र­प्र­युक्तः शोकः, परिहार्यस्यैव अभावात् इत्यर्थः । पाठान्तरे तु, रमणीयं प्राप्य न प्रमोदते तदभावात् इत्यर्थः ।

विवक्षितं समदर्शनं विशदयति -
आत्मेति ।

ननु सर्वेषु भूतेषु आत्मनः समस्य निर्विशेषस्य दर्शनम् अत्र अभिप्रैतं किं न इष्यते ? तत्र आह-
नात्मेति ।

उक्तविशेषणवतः जीवन्मुक्तस्य ज्ञाननिष्ठा प्रागुक्तक्रमेण प्राप्ता सुप्रतिष्ठिता भवति इत्याह -
एवंभूतः इति ।
श्रव­ण­म­न­नि­दि­ध्या­स­न­वतः शमादियुक्तस्य अभ्यस्तैः श्रवणादिभिः ब्रह्मात्मनि अपरोक्षं मोक्षफलं ज्ञानं सिद्ध्यति इत्यर्थः । आर्ता­दि­भ­क्त­त्र­या­पे­क्षया ज्ञानलक्षणा भक्तिः चतुर्थी इत्युक्ता ।

तत्र सप्तमस्थवाक्यम् अनुकूलयति -
चतुर्विधा इति
॥ ५४ ॥

ननु समाधिसाध्येन पर­म­भ­क्त्या­त्म­केन ज्ञानेन किम् अपूर्वम् अवाप्यते ? तत्र आह -
तत इति ।
भक्त्या समाधिजन्यया मां ब्रह्म आभिमुख्येन प्रत्यक्तया जानाति व्याप्नोति इत्यर्थः ।

तदेव ज्ञानं भक्तिपराधीनं विवृणोति -
यावानिति ।
आकाशकल्पत्वम् अनवच्छिन्नत्वम् असङ्गत्वं च ।

चैतन्यस्य विषयसापेक्षत्वं प्रतिक्षिपति -
अद्वैतमिति ।

ये तु द्रव्य­बो­धा­त्म­त्वम् आत्मनः मन्यन्ते, तान् प्रति उक्तं -
चैतन्यमात्रेति ।

आत्मनि तन्मात्रेऽपि धर्मान्तरम् उपेत्य धर्मधर्मित्वं प्रत्याह -
एकरसमिति ।

सर्व­वि­क्रि­या­रा­हि­त्योक्त्या कौटस्थ्यम् आत्मनः व्यवस्थापयति -
अजमिति ।

उक्त­वि­क्रि­या­भावे तद्धे­त्व­ज्ञा­ना­स­म्बन्धं हेतुम् आह -
अभयमिति ।

तत्त्वज्ञानम् अनूद्य तत्फलं विदेहकैवल्यं लम्भयति -
तत इति ।

तत्त्वज्ञानस्य तस्मात् अन­न्त­र­प्र­वे­श­क्रि­या­याश्च भिन्नत्वं प्राप्तं प्रत्याह -
नात्रेति ।

भिन्नत्वाभावे का गतिः भेदोक्तेः, इति आशङ्क्य, औपचारिकत्वम् आह-
किं तर्हीति ।
प्रवेशः इति शेषः ।

ब्रह्म­प्रा­प्ति­रेव फलान्तरम् इति आशङ्क्य ब्रह्मात्मनोः भेदाभावात् न ज्ञानातिरिक्ता तत्प्राप्तिः इत्याह -
क्षेत्रज्ञं चेति ।

ज्ञाननिष्ठया परया भक्त्या माम् अभिजानाति इत्युक्तम् आक्षिपति -
नन्विति ।

विरुद्धत्वं स्फोरयितुं पृच्छति -
कथमिति ।

विरोधस्फुटीकरणं प्रतिजानीते-
उच्यते इति ।

तत्र ज्ञानस्य उत्पत्तिरेव विषयाभिव्यक्तिः इत्याह -
यदेति ।

एवकारनिरस्यं दर्शयति -
न ज्ञानेति ।
इति आवयोः सिद्धम् इति शेषः ।

ज्ञानस्य उत्पत्तेरेव विष­या­भि­व्य­क्तित्वे कथं प्रकृते विरोधधीः इति आशङ्क्य आह -
ततश्चेति ।
विरुद्धमिति शेषः ।

शङ्कितं विरोधं निरस्यति -
नैष दोष इति ।

उक्तमेव हेतुं प्रपञ्चयति -
शास्त्रेति ।
यो हि शास्त्रानुसारी आचार्योपदेशः, तेन ज्ञानोत्पत्तिः । ‘आचार्यवान् पुरुषो वेद’(छा. उ. ६-१४-२) इति श्रुतेः । तस्याश्च परिपाकः संश­या­दि­प्र­ति­ब­न्ध­ध्वंसः तत्र हेतुभूतम् उपदेशस्यैव सहकारिकारणं यत् बुद्धि­शु­द्ध्यादि, तत् अपेक्ष्य, तस्मादेव उपदेशात् जनितं यत् ऐक्यज्ञानं तस्य कार­क­भे­द­बु­द्धि­नि­ब­न्ध­नानि यानि सर्वाणि कर्माणि, तेषां संन्यासेन सहितस्य, फलरूपेण स्वात्मन्येव सर्व­प्र­क­ल्प­ना­र­हिते यत् अवस्थानं, सा ज्ञानस्य परा निष्ठा इति व्यवह्रियते प्रामाणिकैः इति अर्थः ।

यदि यथोक्ता परा ज्ञानष्ठिा, कथं तर्हि सा चतुर्थी भक्तिः इति उक्ता ? इति, तत्राह -
सेयमिति ।

यथोक्तया भक्त्या भग­व­त्त­त्त्व­ज्ञानं सिद्ध्यति इत्याह -
तयेति ।

तत्त्वज्ञानस्य फलम् आह -
यदनन्तरमिति ।

ज्ञान­नि­ष्ठा­रू­पायाः भगवद्भक्तेः तत्त्व­ज्ञा­ना­न­ति­रे­कात् तत्फलस्य च अज्ञाननिवृत्तेः तन्मात्रत्वात् भेदोक्तेश्च औपचारिकत्वात् प्रकृतं वाक्यम् अविरुद्धम् इति उपसंहरति -
अत इति ।

औप­दे­शि­कै­क्य­ज्ञा­नस्य सर्व­क­र्म­सं­न्या­स­स­हि­तस्य स्वरू­पा­व­स्था­ना­त्म­कस्य पर­म­पु­रु­षा­र्थौ­प­यि­क­त्वम् इति अस्मिन् अर्थे मानम् आह -
अत्र चेति ।

तदेव शास्त्रम् उदाहरति -
विदि­त्वे­त्या­दिना ।
दर्शितानि वाक्यानि - ‘सर्वकर्माणि मनसा’(भ. गी. ५-१३) इत्यादीनि ।

ननु एषां वाक्यानाम् अवि­व­क्षि­ता­र्थ­त्वत् नास्ति स्वार्थे प्रामाण्यम् इति आशङ्क्य अध्य­य­न­वि­ध्यु­पा­त्त­त्वात् वेदवाक्यान्तं तदनुरोधित्वाच्च इतरेषां नैवम् इत्याह -
न चेति ।

तथापि ‘सोऽरोदीत् ‘ इत्यादिवत् न स्वार्थे मानता इति आशङ्क्य आह -
न चार्थवादत्वमिति ।

इतश्च मुमुक्षोः अपे­क्षि­त­मो­क्षौ­प­यि­क­ज्ञा­न­नि­ष्ठस्य संन्यासे अधिकारः, न कर्मनिष्ठायाम् इत्याह -
प्रत्यगिति ।

ज्ञाननिष्ठस्य कर्मनिष्ठा विरुद्धा इत्यत्र दृष्टान्तम् आह -
न हीति ।

ज्ञान­नि­ष्ठा­स्व­रू­पा­नु­वा­द­पू­र्वकं कर्मनिष्ठया तस्याः सहभावित्वं विरुद्धम् इति दार्ष्टान्तिकम् आह -
प्रत्यगात्मेति ।

कथं ज्ञानकर्मणोः विरोधधीः ? इति आशङ्क्य, कर्मणां ज्ञान­नि­व­र्त्य­त्वस्य श्रुति­स्मृ­ति­सि­द्ध­त्वात् इत्याह -
पर्वतेति ।
अन्तरवान् उभयोः एक­ध­र्मि­नि­ष्ठ­त्वेन साङ्क­र्या­भा­व­स­म्पा­द­क­भे­द­वान् इत्यर्थः ।

ज्ञानकर्मणोः असमुच्चये फलितम् उपसंहरति -
तस्मादिति
॥ ५५ ॥

तर्हि ज्ञाननिष्ठस्यैव मोक्षसम्भवात् , न कर्मा­नु­ष्ठा­न­सिद्धिः इति आशङ्क्य, आह -
स्वकर्मणेति ।

तामेव सिद्धिप्राप्तिं विशिनष्टि -
ज्ञानेति ।
ज्ञान­नि­ष्ठा­यो­ग्य­तायै स्वक­र्मा­नु­ष्ठानं भगवदर्चनरूपं कर्तव्यम् इत्यर्थः ।

ज्ञान­नि­ष्ठा­यो­ग्य­तापि किमर्था ? इति आशङ्क्य, ज्ञान­नि­ष्ठा­सि­द्ध्यर्था इत्याह -
यन्निमित्तेति ।

ज्ञाननिष्ठापि कुत्र उपयुक्ता ? इत्यत्र आह -
मोक्षेति ।

स्वकर्मणा भगवदर्चनात्मनः भक्तियोगस्य परम्परया मोक्षफलस्य कार्यत्वेन विधेयत्वे विध्यपेक्षितां स्तुतिम् अवतारयति -
स भगवदिति ।
ज्ञाननिष्ठा कर्मनिष्ठा इति उभयं प्रतिज्ञाय तत्र तत्र विभागेन प्रतिपादितम् ।

किमिति इदानीं कर्मनिष्ठा पुनः स्तुत्या कर्तव्यतया उच्यते ? तत्र आह-
शास्त्रार्थेति ।
तत्र तत्र उक्तस्यैव कर्मानुष्ठानस्य प्रकरणवशात् इह उपसंहारः । स च शास्त्रीा­र्थ­नि­श्च­यस्य दृढतां द्योतयति इत्यर्थः ।

यद्यपि कस्यचित् कर्मानुष्ठायिनः बुद्धि­शु­द्धि­द्वारा कैवल्यं सिद्ध्यति, तथापि पापबाहुल्यात् कर्मा­नु­ष्ठा­यि­नोऽपि कस्यचित् बुद्धि­शु­द्ध्य­भावे, कैवल्यासिद्धिः इति आशङ्क्य, आह -
सर्वकर्माणीति ।

सर्व­श­ब्दा­नु­रो­धात् ईश्व­रा­रा­ध­न­स्तु­ति­प­र­त्वेन श्लोकं व्याचष्टे -
प्रति­षि­द्धा­न्य­पीति ।
नित्य­नै­मि­त्ति­क­वत् इति अपेः अर्थः ।

निषिद्धाचरणस्य प्रामादिकत्वं व्यावर्तयति -
सदेति ।
अनुतिष्ठन् वैष्णवं पदम् आप्नोति इति सम्बन्धः ।

पापकर्मकारिणः यथो­क्त­प­द­प्राप्तौ, पापस्यापि मोक्षफलत्वम् उपगतं स्यात् , इत्यत्र आह -
मद्व्यपाश्रय इति ।

तस्यैव तात्पर्यम् आह -
मयीति ।

तर्हि ज्ञानस्य मोक्षहेतुत्वम् उपेक्षितं स्यात् , इत्यत्र आह -
सोऽपीति ।
प्रसादः - अनुग्रहः - सम्यग्ज्ञानोदयः । पदं - पदमीयम् उप­नि­ष­त्ता­त्प­र्य­ग­म्यम् , अव्ययम् - अक्षयरहितम्
॥ ५६ ॥

पर­मे­श्व­र­प्र­सा­दस्य एवं माह्यत्म्यं यतः सिद्धं, तत्मात् तत्प्रसादार्थं भवता प्रयतितव्यम् इत्याह -
यस्मादिति ।
भगवत्प्रसादात् आसा­दि­त­स­म्य­ग्ज्ञा­ना­देव मुक्तिः, न कर्ममात्रात् इति ज्ञानं विवेकबुद्धिः ।

आश्रयशब्दार्थम् आह -
अनन्येति
॥ ५७ ॥

किम् अतः भवति ? तत् आह -
मच्चित्तः इति ।

भीत्यापि प्रवर्तेत इति मन्वानः विपर्यये दोषम् आह -
अथ चेदिति
॥ ५८ ॥

स्वातन्त्र्ये सति भीतेः अवकाशः नास्ति इति आशङ्क्य आह -
इदं चेति
॥ ५९ ॥

इतश्च त्वया युद्धात् न वैमुख्यं कर्तुम् उचितम् इत्याह -
यस्माच्चेति ।
स्वभावजेन स्वेन कर्मणा निबद्धः त्वम् इति सम्बन्धः
॥ ६० ॥

इतोऽपि त्वया युद्धं कर्तव्यमेव, इत्याह -
यस्मादिति ।

अर्जुनशब्दस्य उक्तार्थत्वे श्रुतिम् उदाहरति -
अहश्चेति ।
‘अहश्च कृष्णम् अहरर्जुनं च विवर्तेते रजसी वेद्याभिः । ‘ इत्यत्र किञ्चित् अहः तावत् कृष्णं - अस्वच्छं कलुषितमिव लक्ष्यते, किञ्चित् पुनः अहः अर्जुनं - अतिस्वच्छं शुद्धस्वभावम् उपलभ्यते । एवम् अर्जुनशब्दस्य शुक्ल­श­ब्द­प­र्या­य­तया प्रयोगदर्शनात् उक्तार्थत्वम् उचितम् इत्यर्थः ।

यन्त्रारूढानीव इति कथम् उच्यते ? तत्राह -
इव शब्द इति ।

तदेव प्रपञ्चयति -
यथेति ।
दारुमयानि यन्त्राणि यथा लौकिकः मायावी मायया भ्रामयन् वर्तते, तथा ईश्वरोऽपि सर्वाणि भूतानि भ्रामयन्नेव हृदये तिष्ठति इत्यर्थः ॥ ६१ ॥

ईश्वरः सर्वाणि भूतानि प्रेरयति चेत् प्राप्त­कै­व­ल्य­स्यापि पुरुषकारस्य आनर्थक्यम् इति आशङ्क्य आह -
तमेवेति ।
सर्वात्मना - मनोवृत्त्या वाचा कर्मणा च इत्यर्थः । ईश्वरस्य अनुग्रहात् तत्त्व­ज्ञा­नो­त्प­त्ति­प­र्य­न्तात् इति शेषः । मुक्ताः तिष्ठन्ति अस्मिन् इति स्थानम्
॥ ६२ ॥

शास्त्रम् उपसंहर्तुम् इच्छन् आह -
इति ते ज्ञानमिति ।
ज्ञानं - कर­ण­व्यु­त्पत्त्या गीताशास्त्रीं, यथा इच्छसि, तथा कुरु, ज्ञानं कर्म वा यत् इष्टं तत् अनुतिष्ठ इत्यर्थः
॥ ६३ ॥

गीताशास्त्रस्य पौर्वापर्येण विमर्शनद्वारा तात्पर्यार्थं प्रतिपत्तुम् असमर्थं प्रति आह -
भूयोऽपीति ।

किमर्थम् इच्छन् पुनः पुनः अभिदधासि इति आशङ्क्य आह -
न भयादिति ।

हितमिति साधारणनिर्देशे, कथं परमम् इत्यादिविशेषणम् ? इति आशङ्क्य आह -
तद्धीति
॥ ६४ ॥

तदेव प्रश्नद्वारा विवृणोति -
किं तदित्यादिना ।

उत्तरार्धं व्याचष्टे -
तत्रेति ।
एवम् उक्तया रीत्या वर्तमानः त्वं तस्मिन्नेव वासुदेवे भगवति अर्पितसर्वभावः मामेव आगमिष्यसि इति सम्बन्धः ।

सत्य­प्र­ति­ज्ञा­क­रणे हेतुम् आह -
यत इति ।

इदानीं वाक्यार्थं श्रेयोऽथिनां प्रवृ­त्त्यु­प­यो­गि­त्वेन सङ्गृह्णाति -
एवमिति ।
॥ ६५ ॥

वृत्तम् अनूद्य अन­न्त­र­श्लो­क­ता­त्प­र्यम् आह-
कर्मयोगेति ।

धर्मविशेषणात् अधर्मानुज्ञां वारयति -
धर्मेति ।

ज्ञाननिष्ठेन मुमुक्षुणा धर्माधर्मयोः त्याज्यत्वे श्रुतिस्मृती उदाहरति -
नाविरत इति ।

‘मामेकं’ इत्यादेः तात्पर्यम् आह -
न मत्तः अन्यदिति ।

अर्जुनस्य क्षत्रियत्वात् उक्त­सं­न्या­स­द्वारा ज्ञाननिष्ठायां मुख्या­न­धि­का­रेऽपि तं पुरस्कृत्य अधिकारिभ्यः तस्य उप­दि­दि­क्षि­त­त्वात् अविरोधम् अभिप्रेत्य आह -
अहं त्वेति ।

उक्तेऽर्थे दाशमिकं वाक्यम् अनुकूलयति -
उक्तं चेति ।

ईश्वरस्य त्वदी­य­ब­न्ध­नि­र­स­न­द्वारा त्वत्पा­ल­यि­तृ­त्वात् न ते शोकावकाशः अस्ति इत्याह -
अत इति

पूर्वा­प­रा­लो­च­नातः गीताशास्त्रं व्याख्याय उपसंहृत्य, तत्ता­त्प­र्यार्थं निर्धारितम् अपि विचारद्वारा निर्धारयितुं विचारम् अवतारयति -
अस्मिन्निति ।

किंशब्दार्थमेव त्रेधा विभजते -
ज्ञानमिति ।

निमित्ताभावे संशयस्य आभासत्वात् न निरस्यतेति मत्वा पृच्छति -
कुत इति ।

तत्त­द­र्था­व­द्यो­त­का­ने­क­वा­क्य­द­र्शनं तन्निमित्तम् इत्याह -
यज्ज्ञात्वेति ।

कर्मणाम् अव­श्य­क­र्त­व्य­त्वो­प­ल­म्भात् तेभ्योऽपि निःश्रे­य­स­प्राप्तिः भाति इत्याह -
कर्मण्येवेति ।

तथापि समुच्चप्रापकं नास्ति इति आशङ्क्य, आह -
एवमिति ।

सत्यां सामग्र्यां कार्यम् अवश्यंभावि इति उपसंहरति -
इति भवेदिति ।

सन्दिग्धं सफलं च विचार्यम् इति स्थितेः, असति फले सन्दिग्धमपि न विचार्यम् इति बुद्ध्या पृच्छति -
किं पुनरिति ।

प्रत्येकं ज्ञानकर्मणोः समुच्चितयोर्वा मुक्तिं प्रति परमसाधनता ? इति अवधारणमेव विचारफलमिति परिहरति -
नन्विति ।

सन्दे­ह­प्र­यो­ज­नयोः विचारप्रयोजकयोः भावात् विचारद्वारा परममुक्तिसाधनं निर्धारणीयम् इति निगमयति -
अत इति ।

एवं विचारम् अवतार्य सिद्धान्तं सङ्गृह्णाति -
आत्मेति ।

सङ्ग्रहवाक्यं विवृण्वन् आदौ आत्म­ज्ञा­ना­पो­ह्याम् अविद्यां दर्शयति-
क्रियेति ।

आश्रयोक्त्या तदनादित्वम् आह -
आत्मनीति ।

तमेव अविद्याम् अना­द्य­वि­द्यो­त्थाम् अनर्थात्मिकां प्रपञ्चयति -
ममेति ।

अना­द्य­वि­द्या­का­र्य­त्वात् प्रवाहरूपेण अनादित्वम् अस्याः विवक्षित्वा विशिनष्टि -
अनादीति ।

तत्र कार­णा­वि­द्या­नि­व­र्त­क­त्वम् आत्मज्ञानस्य उपन्यस्यति-
अस्या इति ।

ननु न इदम् उत्पन्नं ज्ञानं निवर्तयति, अविरोधेन उत्पन्नत्वात् । न च अनुत्पन्नम् , अलब्धात्मकस्य अर्थ­क्रि­या­का­रि­त्वा­भा­वत् । तत्र आह -
उत्पद्यमानम् इति ।

कथं तस्य कार­णा­वि­द्या­नि­व­र्त­क­त्वम् इति आशङक्य कार्या­वि­द्या­नि­व­र्त­क­त्व­दृष्टेः इत्याह -
कर्मेति ।

आत्मज्ञानस्य इत्या­दि­स­ङ्ग्र­ह­वाक्ये तुश­ब्द­द्यो­त्य­वि­शे­षा­भा­वात् तदानर्थक्यम् आशङ्क्य, आह -
तुशब्द इति ।

पक्ष­द्व­य­व्या­व­र्त­क­त्वम् एव अस्य स्फुटयति -
नेत्यादिना ।

इतश्च कर्मासाध्यता मुक्तेः इत्याह -
अका­र्य­त्वा­च्चेति ।

‘एष नित्यो महिमा’ इति श्रुतेः नित्यत्वेन मोक्षस्य अकार्यत्वात् न तत्र हेत्वपेक्षा इति उपपादयति -
न हीति ।

ज्ञानेनापि मोक्षः न क्रियते चेत् , तर्हि केवलमपि ज्ञानं मुक्त्य­नु­प­यु­क्तम् इति, कुतः तस्य हेतुत्वधीः ? इति आशङ्कते-
केवलेति ।

ज्ञानानर्थक्यं दूषयति -
नेति ।

तदेव प्रपञ्चयति -
अविद्येति ।

यत् उक्तम् अवि­द्या­नि­व­र्त­क­ज्ञा­नस्य कैव­ल्य­फ­ला­व­सा­यित्वं दृष्टम् इति, तत्र दृष्टान्तम् आह -
रज्ज्वादीति ।

उक्ते विषये तमो­नि­व­र्त­क­प्र­का­शस्य कस्मिन् फले पर्यवसानम् ? तत्र आह-
विनिवृत्तेति ।

प्रदीपप्रकाशस्य सर्प­भ्र­म­नि­वृ­त्ति­द्वारा रज्जुमात्रे पर्यवसानवत् आत्मज्ञानस्यापि तद­वि­द्या­नि­वृ­त्त्या­त्म­कै­व­ल्या­व­सा­न­मिति दार्ष्टान्तिकम् आह -
तथेति ।

ज्ञात्रादीनां ज्ञान­नि­ष्ठा­हे­तूनां कर्मान्तरे प्रवृ­त्ति­स­म्भ­वात् , कर्मसहितैव सा कैवल्यावसायिनी, इति चेत् तत्र आह -
दृष्टा­र्था­या­मिति ।

कर्मसाहित्यं, ज्ञाननिष्ठायाः, दृष्टान्तेन साधयन् आशङ्कते -
भुजीति ।
भुजिक्रिायाः लौकिक्याः, वैदिक्याश्च अग्नि­हो­त्रा­दि­क्रि­यायाः सहानुष्ठानवत् अग्नि­हो­त्रा­दि­क्रि­यायाः ज्ञान­नि­ष्ठा­याश्च साहित्यम् इत्यर्थः । भुजिफले तृप्त्याख्ये प्राप्तेऽपि, स्वर्गादौ च अग्निहोत्रादौ अर्थित्वदृष्टेः युक्तं तत्र साहित्यम् । न तथा मुक्ति­फ­ल­ज्ञा­न­नि­ष्ठा­लाभे, स्वर्गादौ तद्धेतौ वा कर्मणि अर्थित्वम् ।

तेन ज्ञान­नि­ष्ठा­क­र्मणोः न साहित्यम् इति परिहरति -
नेत्यादिना ।

सङ्ग्रहवाक्यं विवृणोति -
कैवल्येति ।

ज्ञाने फलवति लब्धे, फलान्तरे तद्धेतौ च न अर्थिता, इत्यत्र दृष्ठान्तम् आह -
सर्वत इति ।
सर्वत्र सम्प्लुतं व्याप्तम् उदकम् इति समु्द्रोक्तिः । तत्फलं स्नानादि । तस्मिन् प्राप्ते, न तडा­गा­दि­नि­र्मा­ण­क्रि­यायां, तदधीने च स्नानादौ कस्यचित् अर्थित्वम् , तथा प्रकृतेऽपि, इत्यर्थः ।

निरतिशयफले ज्ञाने लब्धे, सातिशयफले कर्मणि न अर्थित्वम् इत्येतत् दृष्टान्तेन स्फुटयति-
न हीति ।

कर्मणः सातिशयफलत्वम् उक्तम् उपजीव्य फलितम् आह-
तस्मान्नेति ।

ज्ञानकर्मणोः साहि­त्या­स­म्भ­व­मपि पूर्वोक्तं निगमयति -
न चेति ।
न हि प्रकाशतमसोरिव मिथः विरुद्धयोः तयोः साक्षात् एकस्मिन् फले साहित्यम् इत्यर्थः ।

ननु ज्ञानमेव मोक्षं साधयत् आत्मसहायत्वेन कर्म अपेक्षते, करणस्य उप­क­र­णा­पे­क्ष­त्वात् । तत्र आह -
नापीति ।
ज्ञानम् उत्पत्तौ यज्ञा­द्य­पे­क्ष­मपि, न उत्पन्नं फले तदपेक्षम् । स्वोत्प­त्ति­ना­न्त­री­य­क­त्वेन मुक्तेः तन्मा­त्रा­य­त्त­त्वात् इत्यर्थः ।

यत् उक्तम् इतिकर्तव्यत्वेन ज्ञानं कर्मापेक्षम् इति, तत्र आह -
अविद्येति ।
ज्ञानस्य अज्ञा­न­नि­व­र्त­क­त्वात् , तत्र कर्मणः विरुद्धतया सह­का­रि­त्वा­यो­गात् न फले तदपेक्षा इत्यर्थः ।

कर्मणोऽपि ज्ञानवत् अज्ञा­न­नि­व­र्त­कत्वे कुतः विरुद्धता ? इति आशङ्क्य, आह -
न हीति ।

केवलस्य समुच्चितस्य वा कर्मंणः मोक्षे साक्षात् अनन्वये फलितम् आह -
अत इति ।

केवलं ज्ञानं मुक्तिसाधनम् इति उक्तम् । तत् निषेधयन् आशङ्कते -
नेत्यादिना ।

निषेध्यम् अनूद्य नञर्थम् आह -
यत्तावदिति ।
नित्या­नु­ष्ठा­नस्य आवश्यकत्वात् न केवलज्ञानस्य कैवल्यहेतुता इत्यर्थः ।

कैवल्यस्य च नित्यत्वात् इत्यस्य व्यावर्त्यं दर्शयति -
नन्विति ।
यदि नित्य­नै­मि­त्ति­क­क­र्माणि श्रौतानि, अकरणे प्रत्यवायकारीणि अव­श्या­नु­ष्ठे­यानि, एवं तर्हि तेभ्यः समुच्चितेभ्यः अस­मु­च्चि­ते­भ्यश्च मोक्षः न इति उक्तत्वात् केवलज्ञानस्य च अतद्धेतुत्वात् अनिबन्धना मुक्तिः न सिध्येत् इत्यर्थः ।

कैवल्यस्य च इत्यादि व्याकुर्वन् अनि­र्मो­क्ष­प्र­सङ्गं प्रत्यादिशति-
नैष दोष इति ।

मुक्तेः नित्यत्वेन अयत्नसिद्धेः न तदभावशङ्का इत्युक्तं प्रपञ्चयति -
नित्यानामिति ।

काम्यकर्मवशात् इष्टशरीरापत्तिं शङ्कित्वा उक्तम् -
काम्यानां चेति ।

आरब्धकर्मवशात् तर्हि देहान्तरं न इत्याह -
वर्तमानेति ।

तर्हि देहान्तरं शेषकर्मणा स्यात् , इति आशङ्क्य कर्माशयस्य ऐकभविकत्वात् न इत्याह -
पतितेऽस्मिन् इति ।

रागादिना कर्मान्तरं, ततः देहान्तरं च भविष्यति इति आशङ्क्य आह -
रागादीनां चेति ।
आत्मनः स्वरूपावस्थानम् इति सम्बन्धः ।

अती­ता­स­ङ्ख्य­ज­न्म­भे­देषु अर्जितस्य कर्मणः नानाफलस्य अनारब्धस्य भोगेन विना अक्षयात् , ततः देहा­न्त­रा­र­म्भात् , ऐकभविकत्वस्य अप्रा­मा­णि­क­त्वात् न मुक्तेः अयत्नसिद्धता इति चोदयति -
अतिक्रान्तेति ।

न उक्त­क­र्म­नि­मित्तं देहान्तरं शङ्कितव्यम् इत्याह -
नेति ।
नित्य­नै­मि­त्ति­क­क­र्माणि श्रौतानि अवश्यम् अनुष्ठेयानि । तदनुष्ठाने च महान् आयासः । ततः दुःखोपभोगः ।

तस्य उक्ता­ना­र­ब्ध­क­र्म­फ­ल­भो­ग­त्वो­प­ग­मात् न ततः देहान्तरम् इत्याह-
नित्येति ।

नित्यादिना दुरि­त­नि­वृ­त्ता­वपि अविरोधात् न सुकृतनिवृत्तिः, ततः देहान्तरम् इति आशङ्क्य, सुकृतस्य नित्यादेः अन्यत्वे अनारब्धत्वे च, न्यायविरुद्धस्य तस्य असिद्धत्वात् ततः देहान्तरायोगात् नित्यादेः अनन्यत्वे च न तस्य फलान्तरम् इति मत्वा, यथा प्रायश्चित्तम् उपा­त्त­दु­रि­त­नि­ब­र्ह­णार्थं, न फलान्तरापेक्षं, तथा इदं सर्वमपि नित्यादिकर्म उपा­त्त­पा­प­नि­रा­क­र­णार्थं तस्मिन्नेव पर्यवस्यत् न देहा­न्त­रा­र­म्भ­कम् इति पक्षान्तरम् आह -
प्राय­श्चि­त्त­व­दिति ।

तथापि प्रारब्धवशादेव देहान्तरं शङ्क्यते, नाना­ज­न्मा­र­म्भ­का­णा­मपि तेषां याव­द­धि­का­र­न्या­येन सम्भवात् , इति आशङ्क्य आह -
आरब्धानां चेति ।

पूर्वा­र्जि­त­क­र्म­णाम् एवं क्षीणत्वेऽपि, कानिचित् अपूर्वकर्माणि देहान्तरम् आरभेरन् इति आशङ्क्य आह -
अपूर्वाणां चेति ।

विना ज्ञानं कर्मणैव मुक्तिः इति पक्षं श्रुत्य­व­ष्ट­म्भेन निराचष्ठे-
नेत्यादिना ।
विद्यते अयनाय इति श्रुतेः इति सम्बन्धः ।

एवकारार्थं विवृण्वन् नेत्यादिभागं व्याकरोति -
अन्यइति ।

“यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।“
इति श्रुतिम् अर्थतः अनुवदति -
चर्मवदिति ।

श्रौतार्थे स्मृतिं संवादयति -
ज्ञानादिति ।

किञ्च त्वदीयन्यायस्य अनु­ग्रा­ह्य­मा­न­ही­न­त्वेन आभासतया पुण्यकर्मणाम् अनारब्धफलानां क्षयाभावे देहा­न्त­रा­र­म्भ­स­म्भा­वत् न ज्ञानं विना मुक्तिः इत्याह -
अनारब्धेति ।

तथाविधानां कर्मणां नास्ति सम्भावना इति आशङ्क्य अह -
यथेति ।

अना­र­ब्ध­फ­ल­पु­ण्य­क­र्मा­भा­वेऽपि कथं मोक्षानुपपत्तिः ? इति तत्र आह -
तेषां चेति ।

इतश्च कर्म­क्ष­या­नु­प­पत्त्या मोक्षा­नु­प­पत्तिः, इति तत्र आह -
धर्मेति ।

‘कर्मणा पितृलोकः’(बृ. उ. १-५-१६) इति श्रुतिम् आश्रित्य कर्माक्षये हेत्वन्तरम् आह -
नित्यानामिति ।

स्मृत्यापि यथोक्तम् अर्थं समर्थयति -
वर्णा इति ।
प्रेत्य कर्मफलम् अनुभूय, ततः शेषेण विशि­ष्ट­जा­त्या­दि­भाजः जन्म प्रतिपद्यन्ते इति एतदादिपदार्थः ।

यत्तु नित्या­नु­ष्ठा­ना­या­स­दुः­ख­भो­गस्य तत्फलभोगत्वम् इति तत् इदानीम् अनुवदति-
ये त्विति ।
नित्यानि अनुष्ठीयमानानि आयासपर्यन्तानि इति शेषः ।

तथापि नित्यानां काम्यानामिव स्वरूपातिरिक्तं फलम् आशङ्क्य विध्युद्देशे तदश्रवणात् , मैवम् इत्याह -
न त्विति ।

विध्युद्देशे फलाश्रुतौ तत्कामायाः निमित्तस्य अभावात् न नित्यानि विधीयेरन् इति आशङ्क्य आह -
जीवनादीति ।
न नित्यानां विध्यसिद्धिः इति शेषः ।

अनुभाषितं दूषयति-
नेत्यादिना ।

तदेव विवृण्वन् निषेध्यम् अनूद्य नञर्थम् आह-
यदुक्तमिति ।

अप्रवृत्तानाम् इत्यादिहेतुं प्रपञ्चयति -
न हीति ।

कर्मा­न्त­रा­र­ब्धेऽपि देहे दुरितफलं नित्या­नु­ष्ठा­ना­या­स­दुःखं भुज्यतां का अनुपपत्तिः इति आशङ्क्य आह -
अन्यथेति ।

यत् उक्तं दुःख­फ­ल­वि­शे­षा­नु­प­प­त्तिश्च स्यात् इति, तत् उपपादयति -
तस्येति ।
सम्भावितानि तावत् अनन्तानि सञ्चितानि दुरितानि । तानि च नानादुःखफलानि । यदि तानि नित्या­नु­ष्ठा­ना­या­स­रूपं दुःखं, तन्मात्रफलानि कल्प्येरन् , तदा तेषु एवं कल्प्यमानेषु सत्सु, नित्यस्य अनुष्ठितस्य आयासम् आसादयतः यः दुरतिकृतः दुःखविशेषः न तत्फलं दुरितफलानां दुःखानां बहुत्वात् , अतः नित्यं कर्म यथाविशेषितं दुरि­त­कृ­त­दुः­ख­वि­शे­ष­फ­ल­कम् इति अयुक्तम् इत्यर्थः ।

किञ्च नित्या­नु­ष्ठा­ना­या­स­दुः­ख­मा­त्र­फ­लानि चेत् दुरितानि कल्प्यन्ते, तदा द्वन्द्व­श­ब्दि­त­रा­गा­दि­बा­धस्य रोगादिबाधायाश्च दुरि­त­नि­मि­त्त­त्वा­नु­प­पत्तेः, सुकृतकृतत्वस्य च असम्भवात् अनुपपत्तिरेव उदीरितबाधायाः स्यात् इत्याह -
द्वन्द्वेति ।

इतश्च नित्या­नु­ष्ठा­ना­या­स­दुः­ख­मेव दुरितफलम् इति अयुक्तम् इत्याह -
नित्येति ।
दुःखमिति न शक्यते कल्पयितुम् इति पूर्वेण सम्बन्धः । यदि तदेव तत्फलं, न तर्हि शिरसा पाषा­ण­व­ह­ना­दि­दुःखं दुरितकृतं, न च तत्कारणं सुकृतं, दुःखस्य अतत्कार्यत्वत् , अतः तत् आकस्मिकं स्यात् इत्यर्थः ।

नित्या­नु­ष्ठा­ना­या­स­दुः­खम् उपात्तदुरितफलम् इति एतत् अप्रकृतत्वाच्च अयुक्तं वक्तुम् इति आह -
अप्रकृतं चेति ।

तदेव प्रपञ्चयितुं पृच्छति -
कथमिति ।

तत्र आदौ प्रकृतम् आह -
अप्रसूतेति ।

तथापि कथम् अस्माकम् अप्र­कृ­त­वा­दि­त्वम् ? तत्र अाह -
तत्रेति ।

प्रसूतफलत्वम् अप्रसूतफलत्वम् इति प्राची­न­दु­रि­त­ग­त­वि­शे­षा­नु­प­ग­मात् अविशेषेण सर्वस्यैव तस्य प्रसूतफलत्वात् नित्या­नु­ष्ठा­ना­या­स­दुः­ख­फ­ल­त्व­स­म्भ­वात् न अप्राकृतवादिता इति शङ्कते -
अथेति ।

पूर्वो­पा­त्त­दु­रि­तस्य अविशेषेण आरब्धफलत्वे विशे­ष­णा­न­र्थ­क्यम् इति परिहरति -
ततः इति ।
दुरितमात्रस्य आरब्धफलत्वेन अनारब्धफलस्य तस्य उक्त­फ­ल­वि­शे­ष­व­त्त्वा­नु­प­पत्तेः इत्यर्थः ।

पूर्वो­पा­त्त­दु­रि­तम् आरब्धफलं चेत् , भोगेनैव तत्क्षयसम्भवात् तन्नि­वृ­त्त्यर्थं नित्यं कर्म न विधातव्यम् इति दोषान्तरम् आह -
नित्येति ।

इतश्च नित्या­नु­ष्ठा­ना­या­स­दुःखं न उपात्तदुरितफलम् इत्याह -
किञ्चेति ।

तदेव स्फोरयति-
श्रुतस्येति ।
यथा व्याया­म­ग­म­ना­दि­कृतं दुःखं न अन्यस्य दुरितस्य इष्यते, तत्फ­ल­त्व­स­म्भ­वात् , तथा नित्यस्यापि श्रुत्युक्तस्य अनुष्ठितस्य आयासपर्यन्तस्य फला­न्त­रा­नु­प­ग­मात् , अनु­ष्ठा­ना­या­स­दुः­ख­मेव चेत् फलं, तर्हि तस्मादेव तद्दर्शनात् तस्य न दुरितफलत्वं कल्प्यं, नित्य­फ­ल­त्व­स­म्भ­वात् इत्यर्थः ।

दुःखफलत्वे नित्यानाम् अननुष्ठानमेव श्रेयः स्यात् इति आशङ्क्य आह -
जीवनादिति ।

नित्यानां दुरि­त­फ­ल­त्वा­नु­प­पत्तौ हेत्वन्तरम् आह -
प्राय­श्चि­त्त­व­दिति ।

दृष्टान्तं प्रपञ्चयति -
यस्मिन्निति ।
तथा जीवनादिनिमित्ते विहितानां नित्यानां दुरि­त­फ­ल­त्वा­सिद्धिः इति शेषः । सत्यं प्रायश्चित्तं न निमित्तस्य पापस्य फलम् ।

किन्तु तद­नु­ष्ठा­ना­या­स­दुःखं तस्य पापस्य फलम् इति शङ्कते -
अथेति ।

प्राय­श्चि­त्ता­नु­ष्ठा­ना­या­स­दुः­खस्य निमि­त्त­भू­त­पा­प­फ­लत्वे, जीव­ना­दि­नि­मि­त्त­नि­त्या­द्य­नु­ष्ठा­ना­या­स­दुः­ख­मपि जीवनादेरेव फलं स्यात् , न उपात्तदुरितस्य, इति परिहरति -
जीवनादीति ।

प्राय­श्चि­त्त­दुः­खस्य तन्नि­मि­त्त­पा­प­फ­ल­त्व­वत् जीव­ना­दि­नि­मि­त्त­क­र्म­कृ­त­मपि दुःखं जीवनादिफलम् इति अत्र हेतुम् आह -
नित्येति ।

इतश्च नित्या­नु­ष्ठा­ना­या­स­दुः­ख­मेव उपात्तदुरितफलम् इति अशक्यं वक्तुम् इति आह -
किञ्चेति ।

काम्या­नु­ष्ठा­ना­या­स­दुः­ख­मपि दुरितफलम् इति उपगमात् प्रसङ्गस्य इष्टत्वम् आशङ्क्य आह -
तथाचेति ।
विहितानि तावत् नित्यानि । न च तेषु फलं श्रुतम् । न च विना फलं विधिः । तेन दुरि­त­नि­ब­र्ह­णा­र्थानि नित्यानि, इति अर्थापत्त्या कल्प्यते । न च सा युक्ता । काम्या­नु­ष्ठा­ना­दपि दुरि­त­नि­वृ­त्ति­स­म्भ­वात् इत्यर्थः ।

किञ्च नित्यानि अनु­ष्ठा­ना­या­सा­ति­रि­क्त­फ­लानि, विहितत्वात् , काम्यवत् , इति अनुमानात् न तेषां दुरि­त­नि­वृ­त्त्य­र्थता इति आह -
एवमिति ।

काम्यादिकर्म दृष्टान्तयितुम् एवम् इत्युक्तम् । स्वोक्ति­व्या­घा­ताच्च नित्या­नु­ष्ठा­नात् दुरि­त­फ­ल­भो­गोक्तिः अयुक्ता इत्याह -
विरोधाच्चेति ।

तदेव प्रपञ्चयति -
विरुद्धं चेति ।

इदंशब्दार्थमेव विशदयति -
नित्येति ।
अन्यस्य कर्मणः दुरितस्य इति यावत् ।

स एवेति ।
यदनन्तरं यत् भवति, तत् तस्य कार्यम् इति नियमात् इत्यर्थः ।

इतश्च नित्यानुष्ठाने दुरितफलभोगः न सिध्यति इति आह -
किञ्चेति ।

काम्या­नु­ष्ठा­नस्य नित्या­नु­ष्ठा­नस्य च यौगपद्यात् नित्या­नु­ष्ठा­ना­या­स­दुः­खेन दुरितफलभोगवत् काम्यफलस्यापि भुक्त­त्व­स­म्भ­वात् इति हेतुम् आह -
तत्त­न्त्र­त्वा­दिति ।

नित्य­का­म्या­नु­ष्ठा­नयोः यौगपद्येऽपि, नित्या­नु­ष्ठा­ना­या­स­दुः­खात् अन्यदेव काम्या­नु­ष्ठा­न­फलं, श्रुतत्वात् इति शङ्कते -
अथेति ।

काम्या­नु­ष्ठा­न­फलं नित्या­नु­ष्ठा­ना­या­स­दुः­खात् भिन्नं चेत् , तर्हि काम्या­नु­ष्ठा­ना­या­स­दुःखं नित्या­नु­ष्ठा­ना­या­स­दुःखं च मिथः भिन्नं स्यात् इत्याह -
तदनुष्ठानेति ।

प्रसङ्गस्य इष्टत्वम् आशङ्क्य निराचष्टे -
न चेति ।

दृष्टविरोधमेव स्पष्टयति -
न हीति ।

आत्मज्ञानवत् अग्नि­हो­त्रा­दीनां मोक्षे साक्षात् अन्वयः न इत्यत्र अऩ्यदपि कारणम् अस्ति इत्याह -
किञ्चान्यदिति ।

तदेव कारणं विवृणोति -
अविहितमिति ।
यत् कर्म मर्दनभोजनादि, तत् न शास्त्रेण विहितं निषिद्धं वा, तत् अनन्तरफलं, तथा अनुभावत् इत्यर्थः ।

शास्त्रीयं कर्म तु न अनन्तरफलं, आनन्तर्यस्य अचोदितत्वात् । अतः ज्ञाने दृष्टफले न अदृष्टफलं कर्म सहकारि भवति नापि स्वयमेव दृष्टफले मोक्षे कर्म प्रवृत्तिक्षमम् , इति विवक्षित्वा आह -
न त्विति ।

शास्त्रीयस्य अग्नि­हो­त्रा­दे­रपि फलानन्तर्ये स्वर्गादीनाम् अनन्तरम् अनुपलब्धिः विरुद्ध्येत । ततः तेषु अदृष्टेऽपि तथा­वि­ध­फ­ला­पे­क्षया प्रवृत्तिः अग्निहोत्रादिषु न स्यात् इत्याह -
तदेति ।

किञ्च नित्यानाम् अग्नि­हो­त्रा­दीनां न अदृष्टं फलं, तेषामेव काम्यानां तादृक् फलम् , न च हेतुं विना अयं विभागः भावी, इत्याह -
अग्नि­हो­त्रा­दी­ना­मिति ।

फल­का­मि­त्व­मा­त्रे­णेति ।
न स्यात् इति पूर्वेण सम्बन्धः । यानि नित्यानि अग्नि­हो­त्रा­दीनि, यानि च काम्यानि, तेषाम् उभयेषामेव कर्म­स्व­रू­प­वि­शे­षा­भा­वेऽपि नित्यानां तेषाम् अनु­ष्ठा­ना­या­स­दुः­ख­मा­त्रेण क्षयः, न फलान्तरम् अस्ति । तेषामेव काम्यानाम् अङ्गा­द्या­धि­क्या­भा­वेऽपि फलकामित्वम् अधिकारिणि अस्ति इति एतावन्मात्रेण स्वर्गा­दि­म­हा­फ­ल­त्वम् इति अयं विभागः न प्रमाणवान् इत्यर्थः ।

उक्तविभागायोगे फलितम् आह-
तस्मान्नेति ।

काम्यवत् नित्यानामपि पितृ­लो­का­द्य­दृ­ष्ट­फ­ल­वत्त्वे दुरि­त­नि­वृ­त्त्य­र्थ­त्वा­यो­गात् तादर्थ्येन आत्मविद्यैव अभ्युपगन्तव्या इत्याह -
अतश्चेति ।

शुभाशुभात्मकं कर्म सर्वम् अविद्यापूर्वकं चेत् अशेषतः तर्हि तस्य क्षयकारणं विद्या इति उपपद्यते । न तु सर्वं कर्म अविद्यापूर्वकम् इति सिद्धम् , इति आशङ्क्य आह –
अविद्येति ।

तत्र हिशब्दद्योतितां युक्तिं दर्शयति -
तथेति ।

इतश्च अविद्वद्विषयं कर्म इति आह -
अविद्वदिति ।

अधिकारिभेदेन निष्ठाद्वयम् इत्यत्र वाक्योपक्रमम् अनुकूलयन् , आत्मनि कर्तृत्वं कर्मत्वं च आरोपयन् , न जानाति आत्मानम् इति वदता कर्म अज्ञानमूलम् इति दर्शितम् इति आह -
उभाविति ।

आत्मानं याथार्थ्येन जानन् कर्तृ­त्वा­दि­र­हितः भवति इति ब्रुवता, कर्मसंन्यासे ज्ञानवतः अधिकारित्वं सूचितम् इति आह -
वेदेति ।

निष्ठाद्वयम् अधिकारिभेदेन बोद्धव्यम् इति अत्रैव वाक्यन्तरम् आह -
ज्ञानेति ।

‘न बुद्धिभेदं जनयेत् ‘ इत्यत्र च अविद्यामूलत्वं कर्मणः सूचयता कर्मनिष्ठा अविद्बद्विषया अनुमोदिता इत्याह -
अज्ञानामिति ।

यत् उक्तं विद्वद्विषया संन्या­स­पू­र्वेिका ज्ञाननिष्ठा इति, तत्र ‘तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । ‘ इत्यादि वाक्यम् उदाहरति -
तत्त्व­वि­त्त्विति ।

तत्रैव वाक्यान्तरं पठति -
सर्वेति ।

विदुषः ज्ञाननष्ठा इत्यत्रैव पाञ्चमिकं वाक्यान्तरम् आह-
नैवेति ।

तत्रैव अर्थसिद्धम् अर्थं कथयति -
अज्ञ इति ।
मन्यते इति सम्बन्धः ।

अज्ञस्य चित्त­शु­द्ध्य­र्थ­ङ्कर्म, शुद्धचित्तस्य कर्मसंन्यासः ज्ञानप्राप्तौ हेतुः इत्यत्र वाक्यान्तरम् आह -
आरुरुक्षोरिति ।

यथोक्ते विभागे साप्तमिकं वाक्यम् अनुगुणम् इति आह -
उदाराः इति ।

एवं त्रयीधर्म इत्यादि नावमिकं वाक्यम् अविद्वद्विषयं कर्म इत्यत्र प्रमाणयति -
अज्ञा इति ।

विदुषः संन्यासपूर्विका ज्ञाननिष्ठा इति अत्रैव नावमिकं वाक्यान्तरम् आह -
अनन्या इति ।

माम् इति एतत् व्याचष्टे-
यथोक्तमिति ।

तेषां सततयुक्तानाम् इत्यादि दाशमिकं वाक्यं तत्रैव प्रमाणयति -
ददामीति ।

विद्यावतामेव भग­व­त्प्रा­प्ति­नि­र्दे­शात् इतरेषां तदप्राप्तिः सूचिता इति अर्थसिद्धम् अर्थम् आह -
अर्थादिति ।

ननु भग­व­त्क­र्म­का­रिणां युक्ततमत्वात् , कर्मिणोऽपि भगवन्तं यान्ति इति आशङ्क्य आह -
भगवदिति ।
ये मत्कर्मकृत् इत्यादिन्यायेन भग­व­त्क­र्म­का­रिणः, ते यद्यपि युक्ततमाः, तथापि कर्मिणः अज्ञाः सन्तः न भगवन्तं सहसा गन्तुम् अर्हन्ति इत्यर्थः ।

तेषाम् अज्ञत्वे गमकं दर्शयति -
उत्तरोत्तरेति ।
चित्तसमाधानम् आरभ्य फलत्यागपर्यन्तं पाठक्रमेण उत्तरोत्तरं हीन­सा­ध­नो­पा­दा­नात् अभ्याससामर्थस्य भग­व­त्क­र्म­का­रि­त्वा­भि­धा­नात् भग­व­त्क­र्म­का­रि­णाम् अज्ञत्वं विज्ञातम् इत्यर्थः ।

‘ये त्वक्ष­र­म­नि­र्देश्यं’(भ. गी. १२-३) इत्या­दि­वा­क्या­व­ष्ट­म्भेन विद्वद्विषयत्वं संन्या­स­पू­र्व­क­ज्ञा­न­नि­ष्ठायाः निर्धारयति-
अनिर्देश्येति ।
उक्तसाधनाः तेन ते संन्या­स­पू­र्व­क­ज्ञा­न­नि­ष्ठा­याम् अधिक्रियेरन् इति शेषः ।

किञ्च त्रयोदशे यानि अमानित्वादीनि चतुर्दशे च प्रकाशं च प्रवृत्तिं च इत्यादीनि यानि, पञ्चदशे च यानि असङ्गत्वादीनि उक्तानि, तैः सर्वैः साधनैः सहिताः भवन्ति अनि­र्दे­श्या­क्ष­रो­पा­सकाः । ततोऽपि ते ज्ञान­नि­ष्ठा­या­मेव अधिक्रियेरन् इत्याह -
क्षेत्रेति ।

निष्ठाद्वयम् अधिकारिभेदेन प्रतिष्ठाप्य, ज्ञाननिष्ठानाम् अनिष्टम् इष्टं मिश्रम् इति त्रिविधं कर्मफलं न भवति, किन्तु मुक्तिरेव । कर्मनिष्ठानां तु त्रिविधं कर्मफलं न मुक्तिः, इति शास्त्रा­र्थ­वि­भा­गम् अभिप्रेतम् उपसंहरति -
अधिष्ठानादीति ।

यत् उक्तम् अविद्याकामबीजं सर्वं कर्म इति, तत् न, शास्त्रावगतस्य कर्मणः अवि­द्या­पू­र्व­क­त्वा­नु­प­पत्तेः इति आक्षिपति -
अविद्येति ।

दृष्टान्तेन समाधत्ते -
नेति ।

तत्र अभिमतां प्रतिज्ञां विभजते -
यद्यपीति ।

उक्तं दृष्टान्तं व्याचष्टे-
यथेति ।

अविद्यादिमतः ब्रह्महत्यादि कर्म इत्यत्र हेतुम् आह -
अन्यथेति ।

दार्ष्टान्तिकं गृह्णाति -
तथेति ।
तान्यपि अविद्यादिमतः भवन्ति इति अवि­द्या­दि­पू­र्व­कत्वं तेषाम् एषितव्यम् इत्यर्थः ।

पारलौकिककर्मसु देहा­द्य­ति­रि­क्ता­त्म­ज्ञानं विना प्रवृ­त्त्य­यो­गात् , न तेषाम् अविद्यापूर्वकता इति शङ्कते -
व्यतिरिक्त इति ।

सत्यपि व्यति­रि­क्ता­त्म­ज्ञाने, पार­मा­र्थि­का­त्म­ज्ञा­ना­भा­वात् , मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तेः अवि­द्या­पू­र्व­कत्वं तेषाम् अप्रतिहतम् इति परिहरति-
नेत्यादिना ।
कर्मणः चलनात्मकत्वात् न आत्मकर्तृकत्वम् । तस्य निष्क्रियत्वात् देहादिसङ्घातस्य तु सक्रियत्वात् तत्कर्तृकं कर्म युक्तम् । तथापि सङ्घाते अहमभिमानद्वारा अहं करोमि इति आत्मनः मिथ्या­धी­पू­र्विका कर्मणि प्रवृत्तिः दृष्टा । तेन अवि­द्या­पू­र्व­कत्वं तस्य युक्तम् इत्यर्थः ।

यदुक्तं देहादिसङ्घाते अहमभिमानस्य भिथ्या­ज्ञा­नत्वं, तत् आक्षिपति -
देहादीति ।

अहन्धियः गौणत्वे, तत्पू­र्व­क­क­र्म­स्वपि गौणत्वापत्तेः, आत्मनः अनर्थाभावात् , तन्नि­वृ­त्त्यर्थं हेत्वन्वेषणं न स्यात् इति दूषयति -
नेति ।

एतदेव प्रपञ्चयन् आदौ चोद्यं प्रपञ्चयति -
आत्मीयेति ।

तत्र श्रुत्य­व­ष्ट­म्भेन दृष्टान्तम् आह-
यथेति ।
दर्शितश्रुतेः आत्मीये पुत्रे अहंप्रत्ययः गौणः, यथा सङ्घातेऽपि आत्मीये अहंप्रत्ययः तथा युक्तः इत्यर्थः ।

भेदधीपूर्वकत्वं गौणधियः लोके प्रसिद्धम् इत्याह -
लोके च इति ।

लोकवेदानुरोधेन आत्मीये सङ्घाते अहन्धारपि गौणः स्यात् , इति दार्ष्टान्तिकम् आह -
तद्वदिति ।

मिथ्याधियोऽपि भेद­धी­पू­र्व­क­त्व­स­म्भ­वात् आत्मनि अहन्धियः मिथ्यात्वमेव किं न स्यात् इति आशङ्क्य आह-
नैवायमिति ।

भेद­धी­पू­र्व­क­त्वा­भावे कथं मिथ्याधीः उदेति ? इति आशङ्क्य आह-
मिथ्येति ।
अधि­ष्ठा­ना­रो­प्ययोः विवेकाग्रहात् तदुत्पत्तिः इत्यर्थः ।

देहादौ अहन्धियः गौणता इति चाद्ये विवृते, तत्कार्येष्वपि इत्यादि परिहारं विवृणोति -
नेत्यादिना ।

हेतुभागं विभजते -
यथेति ।
सिंहः देवदत्तः इति वाक्यं, देवदत्तः सिंहः इव इति उपमया, देवदत्तं क्रौर्या­द्य­धि­क­रणं स्तोतुं प्रवृत्तम् । ‘अग्निः माणवकः’ इत्यपि वाक्यं, माणवकः अग्निः इव इति उपमया, माणवकस्य पैङ्ग­ल्या­धि­क­र­णस्य स्तुत्यर्थमेव । न तथा ‘मनुष्यः अहं’ इति वाक्यस्य अधि­क­र­ण­स्तु­त्य­र्थता भाति इत्यर्थः ।

देवदत्तमाणवकयोः अधिकरणत्वं कथम् ? इति आशङ्क्य आह -
क्रौर्येति ।

किञ्च गौणशब्दं तत्प्रत्ययं च निमित्तं कृत्वा सिंहकार्यं न किञ्चित् देवदत्ते साध्यते । नापि माणवके किञ्चित् अग्निकार्यम् । मिथ्याधीकार्यं तु अनर्थम् आत्मा अनुभवति । अतः न देहादौ अहं धीः गौणी, इत्याह -
न त्विति ।

इतोऽपि देहादौ न अहन्धीः गौणी इत्याह -
गौणेति ।
यः देवदत्तः माणवको वा गौण्याः धियः विषयः, तं परः न एषः सिंहः, न अयम् अग्निः इति जानाति । न एवम् अविद्वान् आत्मनः सङ्घातस्य च सत्यपि भेदे, सङ्घातस्य अनात्मत्वं प्रत्येति । अतः न संङ्घाते अहंशब्दप्रत्ययौ गौणौ इत्यर्थः ।

सङ्घाते तयोः गौणत्वे दोषान्तरं समुच्चिनोति -
तथेति ।
तथा सति, आत्मनि कर्तृ­त्वा­दि­प्र­ति­भा­सा­सिद्धिः इति शेषः ।

गौणेन कृतं, न मुख्येन कृतम् , इति उदाहरणेन स्फुटयति -
न हीति ।

यद्यपि देव­द­त्त­मा­ण­व­काभ्यां कृतं कार्यं मुख्याभ्यां सिंहाग्निभ्यां न क्रियते, तथापि देव­द­त्त­ग­त­क्रौ­र्येण मुख्यसिंहस्य, माण­व­क­नि­ष्ठ­पै­ङ्ग­ल्येन मुख्याग्नेरिव च सङ्घातगतेनापि जडत्वेन आत्मनः मुख्यस्य किञ्चित् कार्यं कृतं भविष्यति, इति आशङ्क्य आह -
न चेति ।

देहादौ अहन्धियः गौणत्वायोगे हेत्वन्तरम् आह -
स्तूयमानाविति ।
देवदत्तमाणवकयोः सिंहाग्निभ्यां भेदधीपूर्वकं तद्व्या­पा­र­व­त्त्वा­भा­व­धी­वत् आत्मनोऽपि मुख्यस्य सङ्घातात् भेदधीद्वारा तदी­य­व्या­पा­र­रा­हि­त्यम् आत्मनि दृष्टं स्यात् इत्यर्थः ।

व्यावर्त्यं दर्शयति -
न पुनरिति ।

सङ्घाते अहन्धियः मिथ्याधीत्वेऽपि न तत्कृतम् आत्मनि कर्तृत्वं, किन्तु आत्मीयैः ज्ञाने­च्छा­प्र­यत्नैः अस्य कर्तृत्वं वास्तवम् , इति मतम् अनुवदति -
यच्चेति ।

ज्ञानादिकृतमपि कर्तृत्वं मिथ्याधीकृतमेव, ज्ञानादीनां मिथ्या­धी­का­र्य­त्वात् , इति दूषयति -
न तेषामिति ।

तदेव प्रपञ्चयति -
मिथ्येति ।
मिथ्याज्ञानं निमित्तं कृत्वा, किञ्चित् इष्टं, किञ्चित् अनिष्टम् इति आरोप्य तद्द्वारा अनुभूते तस्मिन् , प्रेप्सा­जि­हा­साभ्यां क्रियां निर्वर्त्य, तया इष्टम् अनिष्टं च फलं भुक्त्वा, तेन संस्कारेण तत्पूर्विकाः स्मृत्यादयः स्वात्मनि क्रियां कुर्वन्ति इति, युक्तं कर्तृत्वस्य मिथ्यात्वम् इत्यर्थः ।

अती­ता­ना­ग­त­ज­न्म­नो­रिव वर्तमानेऽपि जन्मनि कर्तृ­त्वा­दि­सं­सा­रस्य वस्तुत्वम् आशङ्क्य आह-
यथेति ।
विमतौ कालौ अवि­द्या­कृ­त­सं­सा­र­वन्तौ, कालत्वात् , वर्तमानकालवत् , इत्यर्थः ।

संसारस्य अविद्याकृतत्वे फलितम् आह -
ततश्चेति ।

तस्य आविद्यत्वेन विद्यापोह्यत्वे हेत्वन्तरम् आह -
अविद्येति ।

कुतः अस्य अविद्याकृतत्वं, धर्मा­ध­र्म­कृ­त­त्व­स­म्भ­वात् ? इति आशङ्क्य आह -
देहादीति ।
आत्मनः धर्मा­दि­क­र्तृ­त्वस्य आविद्यत्वात् , न अविद्यां विना कर्मिणां देहाभिमानः सम्भवति । अतश्च आत्मनः सङ्घाते अहमभिमानस्य आविद्या विद्यमानता इत्यर्थः ।

आत्मनः देहाद्यभिमानस्य आविद्यकत्वम् अन्व­य­व्य­ति­रे­काभ्यां साधयन् , व्यतिरेकं दर्शयति -
नहीति ।

अन्वयं दर्शयन् व्यतिरेकम् अनुवदति-
अजानन्निति ।

पुत्रे पितुः अहन्धीवत् आत्मीये देहादौ अहन्धीः गौणी इति उक्तम् अनुवदति -
यस्त्विति ।

तत्र दृष्टा­न्त­श्रुतेः गौणा­त्म­वि­ष­य­त्वम् उक्तम् अङ्गीकरोति -
स त्विति ।

तर्हि देहादावपि तथैव स्वकीये स्यात् अहन्धीः गौणी इति आशङ्क्य आह -
गौणेनेति ।
न हि स्वकीयेन पुत्रादिना गौणात्मना पितृ­भो­ज­ना­दि­कार्यं क्रियते । तथा देहादेरपि गौणात्मत्वे, तेन कर्तृ­त्वा­दि­का­र्यम् आत्मनः न वास्तवं सिद्ध्यति इत्यर्थः ।

गौणात्मना मुख्यात्मनः नास्ति वास्तवं कार्यम् इत्यत्र दृष्टान्तम् आह-
गौणेति ।
न हि गौणसिंहेन देवदत्तेन, मुख्यसिंहकार्यं क्रियते । नापि गौणाग्निना माणवकेन मुख्या­ग्नि­कार्यं दाहपाकादि । तथा देहादिना गौणात्मना मुख्यात्मनः न वास्तवं कार्यं कर्तृत्वादि कर्तुं शक्यम् इत्यर्थः ।

स्वर्ग­का­मा­दि­वा­क्य­प्रा­मा­ण्यात् , आत्मनः देहा­द्य­ति­रे­क­ज्ञा­नात् , तस्य च केवलस्य अकर्तृत्वात् , तत्कर्तव्यं कर्म गौणैरेव देहाद्यात्मभिः सम्पाद्यते । न हि सत्येव श्रौता­ति­रे­क­ज्ञाने, देहादौ आत्मत्वम् आत्मनो मुख्यं युक्तम् , इति चीदयति -
अदृष्टेति ।

न देहादीनाम् आत्मत्वं गौणं, तदीयात्मत्वस्य आविद्यत्वेन मुख्यत्वात् , अतः न गौणात्मभिः आत्मकर्तव्यं कर्म क्रियते, किन्तु मिथ्यात्मभिः, इति परिहरति -
नाविद्येति ।

तदेव विवृण्वन् नञर्थं स्फुटयति -
न च गौणाः इति ।

कथं तर्हि देहा­दि­वि­ष­या­त्म­त्व­प्रथा ? इति आशङ्क्य अविद्याकृता इत्यादिहेतुं विभजते -
कथं तर्हीति ।

देहादीनाम् अनात्मनामेव सताम् आत्मत्वं मिथ्या­प्र­त्य­य­कृ­तम् , इत्यत्र अन्वयव्यतिरेकौ उदाहरति -
तद्भाव इति ।

उक्ते अन्वये, शास्त्री­य­सं­स्का­र­शू­न्या­नाम् अनुभवं प्रमाणयति -
अविवेकिनाम् इति ।

व्यतिरेकेऽपि दर्शिते शास्त्रा­भि­ज्ञा­नाम् अनुभवम् अनुकूलयति -
न त्विति ।

अन्व­य­व्य­ति­रे­का­भ्याम् अनुभवानुसारिणां सिद्धम् अर्थम् उपसंहरति-
तस्मादिति ।
तत्कृत एव देहादौ अहम्प्रत्ययः इति शेषः ।

किञ्च व्यवहारभूमौ भेदग्रहस्य गौण­त्व­व्या­प­क­त्वात् , तस्य प्रकृते अभावात् , न देहादौ अहंशब्दप्रत्ययौ गौणौ इत्याह –
पृथगिति ।

अदृ­ष्ट­वि­ष­य­चो­द­ना­प्रा­मा­ण्यात् , कर्तुः आत्मनः व्यति­रे­का­व­धा­र­णात् , तस्य देहादौ अहमभिमानस्य गौणता, इत्युक्तम् अनुवदति -
यत्त्विति ।

श्रुति­प्रा­मा­ण्यस्य अज्ञा­ता­र्थ­वि­ष­य­त्वात् , मानान्तरसिद्धे व्यति­रि­क्ता­त्मनि चोद­ना­प्रा­मा­ण्या­भा­वात् , न तदवष्टम्भेन देहादौ आत्माभिमानस्य गौणता, इति उत्तरम् आह -
न तदिति ।

श्रुति­प्रा­मा­ण्यस्य अदृष्टविषयत्वं स्पष्टयति -
प्रत्यक्षादीति ।

अज्ञा­ता­र्थ­ज्ञा­पकं प्रमाणम् , इति स्थितेः, न ज्ञाते श्रुति­प्रा­मा­ण्यम् , इत्याह -
अदृष्टेति ।

अज्ञा­त­सा­ध्य­सा­ध­न­स­म्ब­न्ध­बो­धिनः शास्त्रस्य अतिरिक्तात्मनि औदासीन्ये फलितम् आह -
तस्मादिति ।
अन्व­य­व्य­ति­रे­काभ्यां दृष्टः मिथ्या­ज्ञा­न­नि­मित्तः देहादिसङ्घाते अहंप्रत्ययः, तस्य इति यावत् ।

अन्यविषयत्वात् चोदनायाः, न अति­रि­क्ता­त्म­वि­ष­यता, इति उक्तम् । इदानाीं तद्वि­ष­य­त्वा­ङ्गी­का­रेऽपि न तत् निर्वोढुं शक्यं प्रत्य­क्ष­वि­रो­धात् इत्याह-
न हीति ।

अपौरुषेयायाः श्रुतेः अस­म्भा­वि­त­दो­षायाः माना­न्त­र­वि­रो­धेऽपि प्रामाण्यम् अप्रत्याख्येयम् , इति अभिप्रेत्य आह -
यदीति ।

स्वार्थं बोधयन्त्याः श्रुतेः अवि­रो­धा­पे­क्ष­त्वात् , विरु­द्धा­र्थ­वा­दित्वे, तत्परिहाराय, विवक्षितम् अर्थान्तरम् अविरुद्धं तस्याः स्वीकर्तव्यम् , विरोधे तत्प्रा­मा­ण्या­नु­प­पत्तेः, इत्याह -
तथापीति ।

अविरोधम् अवधार्य श्रुत्य­र्थ­क­ल्पना न युक्ता, इति व्यावर्त्यम् आह -
नत्विति ।

अवि­द्या­व­त्क­र्तृकं कर्म इति त्वया उपगमात् उत्पन्नायां विद्यायाम् अविद्याभावे तदधीनकर्तुः अभावात् , अन्तरेण कर्तारम् अनुष्ठानासिद्धौ कर्म­का­ण्डा­प्रा­मा­ण्यम् इति अध्य­य­न­वि­धि­वि­रोधः स्यात् , इति शङ्कते -
कर्मण इति ।

कर्म­का­ण्ड­श्रुतेः विद्योदयात् पूर्वं व्याव­हा­रि­क­प्रा­मा­ण्यस्य तात्त्वि­क­प्रा­मा­ण्या­भा­वेऽपि सम्भावत् , ब्रह्म­का­ण्ड­श्रु­तेश्च तात्त्वि­क­प्रा­मा­ण्यस्य ब्रह्म­वि­द्या­ज­न­क­त्वेन उपपन्नत्वात् न अध्य­य­न­वि­धि­वि­रोधः इति परिहरति -
न ब्रह्मेति ।

कर्म­का­ण्ड­श्रुतेः तात्त्वि­क­प्रा­मा­ण्या­भावे, ब्रह्म­का­ण्ड­श्रु­ते­रपि तदसिद्धिः, अविशेषात् , इति शङ्कते -
कर्मेति ।

उत्पन्नायाः ब्रह्मविद्यायाः बाधकाभावेन प्रमाणत्वात् , तद्धेतुश्रुतेः तात्विकं प्रामाण्यम् , इति दूषयति -
न बाधकेति ।

ब्रह्मविद्यायाः बाधकानुपपत्तिं दृष्टान्तेन साधयति -
यथेति ।
देहादिसङ्घातवत् इति अपेः अर्थः ।

लौकिकावगतेरिव आत्मावगतेरपि फलाव्यतिरेकम् उदाहरणेन स्फोरयति -
यथेति ।

कर्म­वि­धि­श्रु­ति­वत् इति उक्तं दृष्टान्तं विघटयति -
न चेति ।
अना­दि­का­ल­प्र­वृ­त्त­स्वा­भा­वि­क­प्र­वृ­त्ति­व्य­क्तीनां प्रतिबन्धेन यागा­द्य­लौ­कि­क­प्र­वृ­त्ति­व्यक्तीः जनयति कर्म­का­ण्ड­श्रुतिः । तज्जननं च चित्त­शु­द्धि­द्वारा प्रत्य­गा­त्मा­भि­मु­ख्य­प्र­वृ­त्तिम् उत्पादयति । तथा च कर्म­वि­धि­श्रु­तीनां पारम्पर्येण प्रत्य­गा­त्म­ज्ञा­ना­र्थ­त्वात् तात्त्वि­क­प्रा­मा­ण्य­सिद्धिः इत्यर्थः ।

ऩनु एवमपि श्रुतेः मिथ्यात्वात् धूमाभासवत् अप्रामाण्यम् , इति चेत् , न, इत्याह -
मिथ्यात्वेऽपि इति ।

स्वरूपेण असत्यत्वेऽपि सत्योपेयद्वारा प्रामाण्यम् , इत्यत्र दृष्टान्तम् आह -
यथेति ।
मन्त्रा­र्थ­वा­दे­ति­हा­स­पु­रा­णानां श्रुते अर्थे प्रामा­ण्या­भा­वेऽपि शेषि­वि­ध्य­नु­रो­धेन प्रामाण्यवत् , प्रकृतेऽपि, श्रुतेः स्वरूपेण असत्यायाः विषयसत्यतया सत्यत्वे प्रामाण्यम् अविरुद्धम् इत्यर्थः ।

वाक्यस्य शेषि­वि­ध्य­नु­रो­धेन प्रामाण्यं न अलौकिकम् , इत्याह -
लोकेऽपिति ।

कर्म­का­ण्ड­श्रु­ती­नाम् उक्तरीत्या परम्परया प्रामाण्येऽपि, साक्षात् प्रामाण्यम् उपेक्षितम् , इति आशङ्क्य आह -
प्रकारान्तरेति ।
आत्मज्ञानोदयात् प्रागवस्था प्रकारान्तरम् । तत्र स्थितानां कर्मश्रुतीनाम् अज्ञातं सम्ब­न्ध­बो­ध­क­त्वेन साक्षादेव प्रामाण्यम् इष्टम् , इत्यर्थः ।

ज्ञानात् पूर्वं कर्मश्रुतीनां व्याव­हा­रि­क­प्रा­माण्ये दृष्टान्तम् आह-
प्रागिति ।
प्राती­ति­क­क­र्तृ­त्वस्य आविद्यकत्वेऽपि श्रुति­प्रा­मा­ण्यम् अप्रत्यूहम् इत्युक्तम् ।

सम्प्रति कर्तृत्वस्य प्रकारान्तरेण पारमार्थिकत्वम् उत्थापयति -
यत्त्विति ।

स्वव्यापाराभावे सन्निधिमात्रेण कुतः मुख्यं कर्तृत्वम् ? इति आशङ्क्य दृष्टान्तम् आह -
यथेति ।

स्वयम् अयुध्यमानत्वे कथं तत्फलवत्त्वम् ? इति आशङ्क्य, प्रसिद्धिवशात् इत्याह -
जित इति ।

कायि­क­व्या­पा­रा­भा­वेऽपि कर्तृत्वस्य मुख्यत्वे दृष्टान्तमाह -
सेनापतिरिति ।

तस्यापि फलवत्त्वं राजवत् अविशिष्टम् , इत्याह -
क्रियेति ।

अन्यकर्मणा अन्यस्य सन्निहितस्य मुख्ये कर्तृत्वे वैदिकम् उदाहरणम् आह -
यथा चेति ।

कथम् ऋत्विजां कर्म यजमानस्य ? इति आशङ्क्य आह -
तत्फलस्येति ।

स्वव्यापारादृते सन्निधेरेव अन्य­व्या­पा­र­हेतोः मुख्यकर्तृत्वे दृष्टा­न्ता­न्त­रम् आह-
यथा वेति ।

क्रियां कुर्वत् कारणं कारकम् इति अङ्गी­का­र­वि­गे­धात् न एतत् इति दूषयति -
तदसदिति ।

कार­क­वि­शे­ष­वि­ष­य­त्वेन अङ्गी­का­रो­प­पत्तिः इति शङ्कते -
कारकमिति ।

स्वव्यापारम् अन्तरेण न किञ्चिदपि कारकम् इति परिहरति -
न राजेति ।

दर्शनमेव विशदयति -
राजेति ।

यथा राज्ञः युद्धे योधयितृत्वेन धनदानेन च मुख्यं कर्तृत्वं, तथा फलभोगेऽपि मुख्यमेव तस्य कर्तृत्वम् , इत्याह -
तथेति ।

यत् उक्तम् , ऋत्विक्कर्म यजमानस्य इति, तत्र आह -
यजमानस्यापीति ।

स्वव्यापारादेव मुख्यं कर्तृत्वम् इति स्थिते फलितम् आह -
तस्मादिति ।

तदेव प्रपञ्चयति -
यदीति ।

तर्हि सन्निधानादेव मुख्यं कर्तृत्वं राजादीनाम् उपगतम् इति ? न इत्याह -
न तथेति ।

राजादीनां स्वव्या­पा­र­वत्त्वे पूर्वोक्तं सिद्धम् इत्याह -
तस्मादिति ।

राजप्रभृतीनां सन्निधेरेव कर्तृत्वस्य गौणत्वे जया­दि­फ­ल­व­त्त्व­स्यापि सिद्धं गौणत्वम् , इत्याह -
तथा चेति ।

तत्र पूर्वोक्तं हेतुत्वेन स्मारयति-
नेति ।

अन्यव्यापारेण अन्यस्य मुख्य­क­र्तृ­त्वा­भावे फलितम् उपसंहरति-
तस्मादिति ।

कथं तर्हि त्वया आत्मनि कर्तृत्वादि स्वीकृतम् ? न हि बुद्धेः तत् इष्टम् , कर्ता शास्त्रा­र्थ­व­त्त्वात् इति न्यायात् । तत्र आह -
भ्रान्तीति ।

कर्तृत्वादि आत्मनि भ्रान्तम् इति एतत् उदाहरणेन स्फोरयति -
यथेति ।

मिथ्या­ज्ञा­न­कृ­तम् आत्मानि कर्तृत्वादि, इत्यत्र व्यतिरेकं दर्शयति - न चेति । उक्ता­व्य­ति­रे­क­फलं कथयति -
तस्मादिति ।

संसारभ्रमस्य अविद्याकृतत्वे सिद्धे परमप्रकृतम् उपसंहरति-
इति सम्यक् इति ।
॥ ६६ ॥

शास्त्री­ता­त्प­र्यार्थं विचारद्वारा निर्धार्य अनन्तरश्लोकम् अवतारयति -
सर्वमिति ।
प्रकृते खलु अष्टादशाध्याये गीता­शा­स्त्रीार्थं सर्वं प्रति­प­त्ति­सौ­क­र्या­र्थम् उपसंहृत्य, अन्ते च सर्वधर्मान् परित्यज्य इत्यादौ विशेषतः तस्य सङ्क्षेपेण उपसंहारं कृत्वा सम्प्र­दा­य­वि­धि­व­च­न­स्या­व­सरे सति इदानीम् इति योजना ।

किमिति विस्तरेण उपसंहृतः शास्त्रार्थः सङ्क्षिप्य उपसंह्रियते ? तत्राह -
शास्त्रार्थेति ।
सङ्क्षे­प­वि­स्त­रा­भ्याम् उक्तः अर्थः सर्वेषां दृढतया बुद्धिम् अधिरोहति इत्यर्थः ।

हिताय इति एतदेव व्याचष्ठे -
संसारेति ।
कदाचन इति सर्वैः सम्बध्यते ।

प्रति­षे­ध­सा­म­र्थ्य­सि­द्धम् अर्थं कथयति-
भगवतीति ।

अर्थसिद्धे अर्थे स्मृत्यन्तरम् अनुसृत्य मेधावित्वम् अन्तर्भावयति -
तत्रेति ।
विकल्पदर्शनात् तेषु उक्तेषु विशेषणेषु मेधावित्वमपि प्रविशति इत्यर्थः ।

विकल्पपक्षे कथम् अधि­का­रि­प्र­ति­पत्तिः ? इति, तत्राह -
शुश्रूषेति ।
ताभ्यां युक्ताय भगवति असूयारहिताय तपस्विने वाच्यम् इति सम्बन्धः । तद्युक्ताय - शुश्रू­षा­भ­क्त्य­न­सू­या­स­हि­ताय इत्यर्थः ।

तपस्वित्वं मेधावित्वं वा निरपेक्षम् अधिकारिविशेषणम् इति शङ्कां शातयति -
शुश्रुषेति ।

भग­व­द्वि­ष­या­सू­या­रा­हित्ये तात्पर्यं सूचयति-
भगवतीति ।

कस्मै तर्हि वाच्यम् एतत् ? इति आशङ्क्य, पूर्वो­क्त­स­र्व­गु­ण­स­म्प­न्नाय, इत्याह -
गुरुशुश्रूषेति ।
अनु­क्ते­त­र­वि­शे­ष­णो­प­ल­क्ष­णा­र्थम् उभयग्रहणम् । मेधाविनः तपस्वित्वं न अतीव अपेक्षते । सर्वमन्यत् बाधकाभावात् अपेक्षितमेव इति भावः ॥ ६७ ॥

शास्त्र­स­म्प्र­दा­य­प्र­वृ­त्त्य­र्थम् उत्त­र­श्लो­क­प्र­वृत्तिं दर्शयति -
सम्प्रदायस्येति ।
यः इति अध्यापकः निर्दिश्यते ।

परमत्वं ग्रन्थस्य निर­ति­श­य­पु­रु­षा­र्थ­सा­ध­न­त्वम् इत्याह-
परममिति ।
गोप्यत्वम् अस्य रह­स्या­र्थ­वि­ष­य­त्वात् ।

यथोक्तसंवादस्य ग्रन्थतः अर्थतश्च भक्तेषु स्थापने दृष्टान्तम् आह -
यथेति ।
मयि - वासुदेवे भगवति, अनन्यभक्ते त्वयि यथा मया ग्रन्थः अर्थतः स्थापितः, तथा मद्भक्तेषु अन्येष्वपि यः ग्रन्थम् इमं स्थापयिष्यति, तस्य इदं फलम् इति उत्तरत्र सम्बन्धः ।

न अभक्ताय इति भक्तेः अधि­का­रि­वि­शे­ष­ण­त्वोक्तेः मद्भक्तेषु इति पुनः भक्तिग्रहणम् अनर्थकम् इति आशङ्क्य आह -
भक्तेरिति ।
शुश्रू­षा­दि­स­ह­का­रि­रा­हित्यं केवलशब्दार्थः । यद्यपि मात्रशब्देन सूचितम् एतत् , तथापि इतरेण स्फुटीकृतम् इति अविरोधः ।

प्रश्नपूर्वकम् अभिधानप्रकारम् अभिनयति -
कथम् इत्यादिना ।

भगवति भक्तिकरणप्रकारं प्रकटयति -
भगवत इति ।

यच्छ­ब्दा­पे­क्षितं पूरयति -
तस्येति ।

माम् एष्यत्येव इति अन्वयं गृहीत्वा व्याचष्ठे -
मुच्यत एवेति
॥ ६८ ॥

ननु सर्वेषां मुक्तिसाधनानां ध्यानस्य श्रेष्ठत्वात् , तन्निष्ठस्य मुमुक्षोः नास्ति विद्या­स­म्प्र­दाने प्रवृत्तिः, इति तत्राह -
किं चेति ।
इतश्च विद्या­स­म्प्र­दानं मुमुक्षुणा यथोक्तविशेषणवते कर्तव्यम् इत्यर्थः । वर्तमानेषु मध्ये ततः अन्यः नास्त्येव प्रियकृत्तमः । नापि आतीतेषु तादृक् कश्चित् आसीत् इति शेषः । तस्मात् विद्या­स­म्प्र­दा­य­कर्तुः सकाशात् इत्यर्थः । ध्याननिष्ठस्य श्रेष्ठत्वेऽपि स्वस­म्प्र­दा­य­प्र­वक्तुः श्रेष्ठतमत्वात् उचिता विद्या­स­म्प्र­दाने प्रवृत्तिः इति भावः
॥ ६९ ॥

सम्प्रदायवक्तुः सर्वाधिकं फलं ‘स वक्ता विष्णु­रि­त्युक्तो न स विश्वाधिदैवतम् । ‘इति न्यायेन उक्त्वा सम्प्रति अध्येतुः विवक्षितं फलम् आह -
योऽपीति ।

यथोक्तस्य शास्त्रस्य योऽपि अध्येता, तेन इदं कृतं स्यात् इति सम्बन्धः, तदेव आह-
अध्येष्यते इति ।

तेन इदं कृतम् इत्यत्र इदंशब्दार्थं विशदयति -
ज्ञानेति ।
तेन अहम् इष्टः स्याम् इति सम्बन्धः ।

चतुर्विधानां यज्ञानां मध्ये ज्ञानयज्ञस्य ‘श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः’(भ. गी. ४-३३) इति विशि­ष्ट­त्वा­भि­धा­नात् , तेन अहम् इष्टः स्याम् इति अध्ययनस्य स्तुतिः अभिमता इत्याह -
विधीति ।

पक्षान्तरम् आह -
फलेति ।

फलविधिमेव प्रकटयति -
देवतादीति ।
यद्धि ज्ञानयज्ञस्य फलं कैवल्यं तेन तुल्यम् अस्य अध्येतुः सम्पद्यते । तच्च देव­ता­द्या­त्म­त्वम् इत्यर्थः ।

कथम् अध्ययनादेव सर्वात्मत्वं फलं लभ्यते ? ‘तस्मा­त्स­र्व­म­भ­वत् ‘ इति श्रुतेः । तत्राह -
तेनेति ।
तेन अध्येत्रा ज्ञान­य­ज्ञ­तु­ल्येन अध्ययनेन भगवान् इष्टः । तथा च तज्ज्ञानात् उक्तं फलम् अविरुद्धम् इत्यर्थः
॥ ७० ॥

प्रवक्तुः अध्येतुश्च फलम् उक्त्वा श्रोतुः इदानीं फलं कथयति -
अथेति
॥ ७१ ॥

आचार्येण शिष्याय, यावत् अज्ञा­न­सं­श­य­वि­प­र्यासः, तावत् अनेकधा उपदेष्टव्यम् इति दर्शयितुं भगवन् अर्जुनं पृष्टवान् इत्याह-
शिष्यस्येति ।

प्रष्टुः अभिप्रायं प्रकटयति -
तदग्रहण इति ।

शिष्यश्चेत् उक्तं गृहीतुं न ईष्टे, तर्हि तं प्रति औदासीन्यम् आचार्यस्य उचितम् , तस्य मन्द­बु­द्धि­त्वात् , इति आशङ्क्य, आह -
यत्नान्तरमिति ।
कच्चिदिति कोमलप्रश्ने ।

तमेव व्याचष्टे -
किम् एतदिति ।
द्वितीयं किम्पदं पूर्वस्य व्याख्यानतया सम्बध्यते ।

कच्चित् इति द्वितीयं प्रश्नं विभजते -
किं प्रणष्ट इति ।

मोहप्रणाशस्य प्रसङ्गं दर्शयति -
यदर्थ इति
॥ ७२ ॥

प्रेमो­प­दि­ष्टा­त्म­ज्ञा­नस्य अज्ञा­न­स­न्दे­ह­वि­प­र्या­स­र­हि­तस्य पृष्टस्य भग­व­द­नु­ग्र­ह­प्रा­प्ति­क­थ­नेन भगवन्तं परितोषयिष्यन् अर्जुनः विज्ञापितवान् इत्याह -
अर्जुन इति ।

अज्ञानोत्थस्य अविवेकस्य नष्टत्वमेव स्पष्टयति -
समस्त इति ।
स्वयञ्ज्योतिषि प्रतीचि ब्रह्मणि अविद्याभ्रमं विद्या अपनयति

। न अविदितं प्रकाशयति इति मत्वा आह-
स्मृतिश्चेति ।

स्मृतिलाभे किं स्यात् ? इति चेत् तत् आह -
यस्या इति ।

मोहनाशे स्मृति­प्र­ति­लम्भे च असाधारणं कारणम् आह -
त्वत्प्र­सा­दा­दिति ।

प्रकृतेन प्रश्न­प्र­ति­व­च­नेन लब्धम् अर्थं कथयति -
अनेनेति ।

यत् उक्तं स्मृति­प्र­ति­ल­म्भात् अशेषतः हृदयग्रन्थीनां विप्रमोक्षः स्यात् इति तत्र प्रमाणम् आह -
तथा चेति ।

ज्ञानात् अज्ञा­न­त­त्का­र्य­नि­वृत्तौ श्रुत्यन्तरमपि संवादयति -
भिद्यते इति ।

भगवदनुग्रहात् अज्ञा­न­कृ­त­मो­ह­दा­हा­न­न्त­रम् आत्मज्ञाने प्रतिलब्धे त्वदा­ज्ञा­प्र­तीक्षः अहम् इति उत्तरार्धं व्याकरोति -
अथेति ।

तव वचनं करिष्ये अहम् इत्यत्र तात्पर्यम् आह -
अहमिति ।
॥ ७३ ॥

शास्त्रीार्थे समाप्ते सति, अस्याम् अवस्थायां सञ्जयवचनं कुत्र उपयुक्तम् इति तत् आह -
परिसमाप्त इति ।

वासुदेवस्य - सर्वज्ञस्य, कृतार्थस्य पार्थस्य - पृथासुतस्य अर्जुनस्य महात्मनः - अक्षुद्रबुद्धेः सर्वा­धि­का­रि­गु­ण­स­म्प­न्नस्य सम्यञ्चं वादं - संवादं, गुरुशिष्यभावेन प्रश्न­प्र­ति­व­च­ना­भि­धा­नम् इमं - अनुक्रान्तम् अद्भुतं - विस्मयकरं, रोमाणि हृष्यन्ति पुलकीभवन्ति अनेन इति रोमहर्षणं - आह्लादकरं यथोक्तं श्रुतवान् अस्मि इति आह -
इत्येवमिति
॥ ७४ ॥

प्रकृष्टं संवादं कथम् अश्रौषीः इति चेत् तत्र आह -
तं चेति ।

एतत्पदं संवादपरत्वात् पुल्लिङ्गत्वेन नेतव्यम् इत्याह -
एतमिति ।
पर­म­पु­रु­षा­र्थो­प­यि­क­त्वात् परत्वम् । परं गुह्यम् अतिशयेन गुह्यं रहस्यम् इति वा । योगः - ज्ञानं कर्म च, तदर्थत्वात् अयं संवादः योगः उक्तः ।

अथवा चित्त­वृ­त्ति­नि­रो­धस्य योगस्य अङ्गत्वात् अयं संवादः योगः इत्याह -
संवादमिति ।

योगानाम् ईश्वरः योगेश्वरः, तद­नु­ग्र­ह­हे­तु­त्वात् योगतत्फलयोः, ततः साक्षात् - अव्यवधानेन श्रुतवान् , न परम्परया, इत्याह -
योगेश्वरादिति ।
स्वयं - स्वेन परमेश्वरेण अति­र­स्कृ­ता­नै­श्व­र्य­रू­पेण, कथयतः - व्याचक्षाणात् इत्यर्थः ॥ ७५ ॥

यथोक्तं संवादं भगवतः श्रुत्वा किम् उपेक्षसे ? न इत्याह -
राजन्निति ।

पुण्यत्वं साधयति -
श्रवणादपीति
॥ ७६ ॥

यत्तु विश्वरूपाख्यं रूपं स्वगुणम् अर्जुनाय भगवान् दर्शितवान् ध्यानार्थं, तत् इदानीं स्तौति-
तच्चेति
॥ ७७ ॥

द्वयोरपि कृष्णार्जुनयोः नरनारायणयोः संवादस्य प्रामाण्यार्थं परमम् उत्कर्षं दर्शयति -
किं बहुनेति ।

कथं सर्वेषां योगानाम् ईश्वरः भगवान् ? इति तत्र आह-
तत्प्र­भ­व­त्वा­दिति ।

राज्ञः धृतराष्ट्रस्य स्वपुत्रेषु विजयाशां शिथिलीकृत्य, पाण्डवेषु जयप्राप्तिम् ऐकान्तिकीम् उपसंहरति -
इत्येवमिति ।
उपायोपेयभावेन निष्ठाद्वयस्य प्रति­ष्ठा­पि­त­त्वात् , कर्मनिष्ठा परम्परया ज्ञान­नि­ष्ठा­हेतुः, ज्ञाननिष्ठा तु साक्षादेव मोक्षहेतुः इति शास्त्रार्थम् उपसंहर्तुम् इति इत्युक्तम्
॥ ७८ ॥
काण्डत्रयात्मकं शास्त्रं पद­वा­क्या­र्थ­गो­च­रम् ।
आदि­म­ध्या­न्त­ष­ट्केषु व्याख्याया गोचरीकृतम् ॥ १ ॥
सङ्क्षे­प­वि­स्त­राभ्यां यो लक्षणैरुपपादितः ।
सोऽर्थोन्तिमेन सङ्क्षिप्य लक्षणेन विवक्षितः ॥ २ ॥
गीता­शा­स्त्र­म­हा­र्ण­वो­त्थ­म­मृतं वैकु­ण्ठ­क­ण्ठो­द्भवं
श्रीक­ण्ठा­प­र­ना­म­व­न्मु­नि­कृतं निष्ठा­द्व­य­द्यो­ति­तम् ।
निष्ठा यत्र मतिप्रसादजननी साक्षात्कृतं कुर्वती
मोक्षे पर्यवसास्यति प्रतिदिनं सेव­ध्व­मे­त­दु­बुधाः ॥ ३ ॥
प्राचा­मा­चा­र्य­पा­दानां पदवीमनुगच्छता ।
गीताभाष्ये कृता टीका टीकतां पुरुषोत्तमम् ॥ ४ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विरचिते श्रीम­द्भ­ग­व­दु­गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने अष्टादशोऽध्यायः ॥ १८ ॥