आनन्दगिरिटीका (गीताभाष्य)
अष्टादशोऽध्यायः (२)
शब्दादिशून्यत्वाच्च आत्मा विषयः न भवति, इत्याह -
अशब्दमिति ।
आत्मनः विषयत्वाकारवत्त्वयोः अभावे फलितम् आह -
तस्मादिति ।
ज्ञानस्य आत्माकारत्वाभावे सति आत्मज्ञानमिति व्यपदेशासिद्धिः इति एकदेशी शङ्कते -
कथं तर्हीति ।
का अत्र अनुपपत्तिः इति आशङ्क्य आह -
सर्वं हीति ।
आत्मनोऽपि तर्हि विषयत्वेन ज्ञानस्य तदाकारत्वं स्यात् इति आशङ्क्य आह -
निराकारश्चेति ।
आत्मनो विषयत्वराहित्यं चकारार्थः ।
आत्मवत् तज्ज्ञानस्यापि तर्हि निराकारत्वं भविष्यति इत्यत्र आह -
ज्ञानेति ।
तच्छब्देन आत्मज्ञानं गृह्यते । तस्य भावना - पौनःपुन्येन अनुसन्धानम् । तस्याः निष्ठा - समाप्तिः आत्मसाक्षात्कारदार्ढ्यंम् । न च एतत् सर्वम् आत्मनः ज्ञानस्य वा निराकारत्वे सिध्यति इत्यर्थः ।
ज्ञानात्मनोः साम्योपन्यासेन सिद्धान्ती समाधत्ते-
नेत्यादिना ।
यथोक्तसाम्यानुसारात् आत्मचैतन्याभासव्याप्ता ज्ञानपरिणामवती बुद्धिः । साभासबुद्धिव्याप्तं मनः साभासमनो व्याप्तानि इन्द्रियाणि । साभासेन्द्रियव्याप्तः स्थूलः देहः ।
तत्र लौकिकभ्रान्तिं प्रमाणयति -
अत इति ।
आत्मदृष्टेः देहमात्रे दृष्टत्वात् , तत्र चैतन्याभासव्याप्तिः इन्द्रियद्वारा कल्प्यते । इन्द्रियेषु च तद्दृष्टिदर्शनात् चैतन्याभासवत्त्वं मनोद्वारा सिद्ध्यति । मनसि च आत्मदृष्टेः चैतन्याभासवत्त्वं बुद्धिद्वारा लभ्यते । बुद्धौ च आत्मदृष्टेः अज्ञानद्वारा चैतन्याभाससिद्धिः इत्यर्थः ।
देहे लौकिकम् आत्मत्वदर्शनं न्यायाभावात् उपेक्षितम् इति आशङ्क्य, आह-
देहेति ।
तथापि कथम् इन्द्रियाणां न्यायहीनम् आत्मत्वम् इष्टम् इत्याशङ्क्य, आह -
तथेति ।
तथापि मनसः यत् आत्मत्वं, तत् न्यायशून्यम् इति आशङ्क्य, आह -
अन्य इति ।
बुद्धेः आत्मत्वम् अपि न्यायोपेतम् इति सूचयति -
अन्ये बुद्धीति ।
देहादौ बुद्ध्यन्ते परम् आत्मत्वबुद्धिः, न अन्यत्र, इति ऩियमं वारयति -
ततोऽपीति ।
तत्र हि साभासे अन्तर्यामिणि कारणोपासकानाम् आत्मत्वधीः अस्ति इत्यर्थः ।
बुद्ध्यादौ देहान्ते लौकिकपरीक्षकाणां आत्मत्वभ्रान्तौ साधारणं कारणम् आह -
सर्वत्रेति ।
आत्मज्ञानस्य लौकिकपरीक्षकप्रसिद्धत्वादेव विधिविषयत्वमपि परेष्टं परास्तम् इत्याह -
इत्यत इति ।
ज्ञानस्य विधेयत्वाभावे, किं कर्तव्यं द्रष्टव्यादिवाक्यैः ? इति आशङ्क्य, आह -
किं तर्हिति ।
आत्मज्ञानस्य अविधेयत्वे प्रागुक्तं अतःशब्दितं हेतुं विवृणोति -
अविद्येति ।
देहेन्द्रियमनोबुद्ध्यव्यक्तैः उपलभ्यमानैः सह उपलभ्यते चैतन्यम् ।
न अन्यथा तेषाम् उपलम्भः जडत्वात् इत्यत्र विज्ञानवादिभ्रान्तिं प्रमाणयति-
अत एवेति ।
सर्वं ज्ञेयं ज्ञानव्याप्तमेव ज्ञायते । तेन ज्ञानातिरिक्तं नास्त्येव वस्तु । संमतं हि स्वप्नदृष्टं वस्तु ज्ञानातिरिक्तं नास्ति इति ते भ्राम्यन्ति इत्यर्थः ।
ज्ञानस्यापि ज्ञेयत्वात् ज्ञातृ वस्त्वन्तरम् एष्टव्यम् इति आशङ्क्य, आह -
प्रमाणान्तरेति ।
ज्ञानस्य स्वेनैव ज्ञेयत्वोपगमेन अतिरिक्तप्रमाणनिरपेक्षतां च प्रतिपन्नाः इति सम्बन्धः ।
ब्रह्मात्मनि ज्ञानस्य सिद्धत्वेन अविधेयत्वे फलितम् आह -
तस्मादिति ।
यत्नः अत्र भावना ।
ब्रह्मणः तज्ज्ञानस्य च अत्यन्तप्रसिद्धत्वे, कथं ब्रह्मणि अन्यथा प्रथा लौकिकानाम् ? इत्यत्र आह -
अविद्येति ।
यथाप्रतिभासं दुर्विज्ञेयत्वादिरूपमेव ब्रह्म किं न स्यात् ? तत्र आह -
बाह्येति ।
गुरुप्रसादः - शुश्रूषया तोषितबुद्धेः आचार्यस्य करुणातिरेकादेव ‘तत्त्वं बुध्यतां’ इति निरवग्रहः अनुग्रहः । आत्मप्रसादस्तु - अधिगतपदशक्तिवाक्यतात्पर्यस्य श्रौतयुक्त्यनुसन्धानात् आत्मनः मनसः विषयव्यावृत्तस्य, प्रत्यगेकाग्रतया तत्प्रावण्यम् इति विवेकः ।
आत्मज्ञानस्य आत्मद्वारा प्रसिद्धत्वे वाक्योपक्रमं प्रमाणयति-
तथा चेति ।
आत्मनः निराकारत्वात् तस्मिन् बुद्धः अप्रवृत्तेः सम्यग्ज्ञानानिष्ठा न सुसम्पाद्या इति मतम् उपस्थापयति -
केचित्त्विति ।
बहिर्मुखानाम् अन्तर्मुखानां वा ब्रह्मणि सम्यक् ज्ञाननिष्ठा दुःसाध्या इति विकल्प्य आद्यम् अनूद्य अङ्गीकरोति -
सत्यमिति ।
पूर्वपूर्वविशेषणम् उत्तरोत्तरविशेषणे हेतुत्वेन योजनीयम् ।
द्वितीयं दूषयति -
तद्विपरीतानामिति ।
अद्वैतनिष्ठानां द्वैतविषये सम्यग्बुद्धेः अतिशयेन दुःसम्पाद्यत्वे हेतुम् आह -
आत्मेति ।
तद्व्यतिरेकेण वस्त्वन्तरस्य असत्त्वं कथम् ? इति आशङ्क्य आह -
यथा च इति ।
अद्वैतमेव वस्तु, द्वैतं तु आविद्यकं, न अन्यया तात्त्विकम् इति एतत् एवमेव यया स्यात् तथा उक्तवन्तः वयं तत्र तत्र अध्यायेषु इति योजना ।
अन्तर्निष्ठानाम् अद्वैतदर्शिनां द्वैतं नास्ति सद्बुद्धिः इत्यत्र भगवतोऽपि संमतिम् आह -
उक्तञ्चेति ।
परमतं निराकृत्य प्रकृत उपसंहरन् आत्मनः निराकारत्वे ज्ञानस्य तदालम्बनत्वे किं कारणम् ? इति आशङ्क्य आह -
तस्मादिति ।
ननु आत्मा कथञ्चित् सम्यग्ज्ञानक्रियासाध्यश्चेत् तस्य हेयोपादेयान्यतरकोटिनिवेशात् प्राप्तं स्वर्गादिवत् क्रियासाध्यत्वेन अप्रसिद्धत्वम् । न, इत्याह -
नहीति ।
आत्मत्वादेव प्रसिद्धत्वेन प्राप्तत्वात् अनात्मवत् तस्य हेयोपादेयत्वयोः अयोगात् न क्रियासाध्यता इत्यर्थः ।
आत्मनश्चेत् ऋते क्रियाम् असिद्धत्वं, तदा सर्वप्रवृत्तीनाम् अभ्युदयनिःश्रेयसार्थानाम् आत्मार्थत्वायोगात् अर्थिनः अभावे स्वार्थत्वम् अप्रामाणिकं स्यात् इत्याह -
अप्रसिद्धे हीति ।
ननु प्रवृत्तीनां स्वार्थत्वं देहादीनाम् अन्यतमस्य अर्थित्वेन तादर्थ्यात्, इति आशङ्क्य घटादिवत् अचेतनस्य अर्थित्वायोगात् न एवम् इत्याह -
न चेति ।
ननु प्रवृत्तीनां फलावसायितया सुखदुःखयोः अन्यतरार्थत्वात् न स्वार्थत्वम् ? तत्राह -
न चेति ।
प्रवृत्तीनां सुखदुःखार्थत्वेऽपि तयोः स्वार्थत्वासिद्धेः अर्थित्वेन आत्मा सिध्यति इत्यर्थः ।
किञ्च सर्वापेक्षान्यायात् आत्मावगत्यवसानः सर्वः व्यवहारः । न च आत्मनि अप्रसिद्धे यज्ञादिव्यवहारस्य तज्ज्ञानार्थत्वं, तेन आत्मप्रसिद्धिः एष्टव्या इत्याह -
आत्मेति ।
ननु आत्मा अप्रसिद्धेऽपि प्रमाणद्वारा प्रसिध्यति । यत् सिध्यति, तत् प्रमाणादेव इति न्यायात् । तत्राह -
तस्मादिति ।
मानमेयादिसर्वव्यवहारस्य आत्मावगत्यत्वोपगमात् प्रागेव प्रमाणप्रवृत्तेः, आत्मप्रसिद्धेः एष्टव्यत्वात् इत्यर्थः ।
आत्मावगतेः एवं स्वाभाविकत्वे विवेकवताम् आरोपनिवृत्त्या ज्ञाननिष्ठा सुप्रसिद्धा इति उपसंहरति -
इत्यात्मेति ।
ननु अनाकारामेव अनुमिमीमहे बुद्धिम् इति वदताम् अनाकारं अप्रत्यक्षम् इच्छतां प्राक् अर्थावगतेः अप्रसिद्धमेव ज्ञानम् ? न, इत्याह -
येषामिति ।
सुखादिवत् ऩित्यानुभवगम्यं ज्ञानं न अनुमेयं विषयावगत्या तदनुमितौ इतरेतराश्रयात् इति भावः ।
इतश्च ज्ञानं प्रसिद्धम् , अन्यथा तत्र जिज्ञासाप्रसङ्गात् । न च ज्ञाने जिज्ञासा प्रसिद्धा । प्रसिद्धे च तदयोगात् , इत्याह -
जिज्ञासेति ।
तदेव प्रपञ्चयति -
अप्रसिद्धं चेदिति ।
दृष्टान्तमेव व्याचष्टे-
यथेति ।
दार्ष्टान्तिकं विवृणोति -
तथेति ।
इष्टापत्तिं निराचष्टे -
न चेति ।
ज्ञानस्य ज्ञानान्तरेण ज्ञेयत्वम् एतच्छब्दार्थः । अनवस्थापत्तेः इत्यर्थः ।
ज्ञाने जिज्ञासानुपपत्तौ फलितम् आह -
अत इति ।
प्रसिद्धेऽपि, ज्ञाने, ज्ञातरि आत्मनि किम् आयातम् ? तदाह -
ज्ञातापीति ।
ज्ञानस्य, विना ज्ञातारम् , अपर्यवसानात् इत्यर्थः ।
ज्ञानस्य प्रसिद्धत्वे तव भावनापर्यायः विधिः नास्ति इत्याह -
तस्मादिति ।
कुत्र तर्हि प्रयत्नाख्या भावना इति आशङ्क्य, आह -
किं त्विति ।
अविषये निराकारे च आत्मनि ज्ञाननिष्ठायाः दुस्सम्पाद्यत्वाभावे फलितं निगमयति -
तस्मादिति
॥ ५० ॥
ब्रह्मज्ञानस्य परां निष्ठां प्रतिष्ठापिताम् अनूद्य श्लोकान्तरं पृच्छति -
सेयमिति ।
या इयं ब्रह्मज्ञानस्य परा निष्ठा - समारोपितातद्धर्मनिवृत्तिद्वारा ब्रह्मणि परिसमाप्तिः ज्ञानसन्तानरूपा उच्यते, सा कार्या सुसम्पाद्या इति यत् उक्तं तत् कथं केन उपायेन ? इति प्रश्नार्थः ।
पृष्टं उपायभेदम् उदाहरति -
बुद्ध्येति ।
अध्यवसायः - ब्रह्मात्मत्वनिश्चयः । मायारहितत्वं - संशयविपर्ययशून्यत्वम् ।
शब्दादिसमस्तविषयत्यागे देहस्थितिरपि दुःस्था स्यात् इति आशङ्क्य, आह -
सामर्थ्यादिति ।
विषयमात्रत्यागे देहस्थित्यनुपपत्तेः ज्ञाननिष्ठाऽसिद्धिप्रसङ्गात् इत्यर्थः ।
देहस्थित्यर्थत्वेन अनुज्ञातेषु अर्थेषु प्राप्तं रागादि ज्ञाननिष्ठाप्रतिबन्धकं व्युदस्यति -
शरीरेति ।
परित्यज्य विविक्तसेवी स्यात् इति सम्बन्धः
॥ ५१ ॥
बुद्धेः वैशारद्यं यत्नेन कार्यकरणनियमनं, देहस्थितिहेत्वतिरिक्तविषयत्यागः, देहस्थित्यर्थेष्वपि तेषु रागद्वेषवर्जनम् , उपायभेदे सिद्धे, सन्ति उपायान्तराण्यपि यत्नसाध्यानि इत्याह -
तत इति ।
चित्तैकाग्र्यप्रसादार्थं विविक्तसेवित्वं व्याकरोति -
अरण्येति ।
निद्रादिदोषनिवृत्त्यर्थं लघ्वाशित्वं विशदयति -
लघ्विति ।
लघु - परिमितं हितं मेध्यं च अशितुं शीलम् अस्य इति तथा उच्यते ।
विशेषणयोः तात्पर्यं विवृणोति -
विविक्तेति ।
निद्रादीति आदिशब्दात् आलस्यप्रमादादयः बुद्धिविक्षेपकाः विवक्षिताः ।
वक्ष्यमाणध्यानयोगयोः उपायत्वेन विशेषणान्तरं विभजते -
वाक् चेति ।
वागादिसंयमस्य आवश्यकत्वद्योतनार्थं स्यात् इत्युक्तम् ।
संयतवागादिकरणग्रामस्य अनायासेन कर्तव्यम् उपदिशति -
एवमिति ।
मन्त्रजपादि इति आदिपदेन प्रदक्षिणप्रणामादयः ध्यानयोगप्रतिबन्धकाः गृहीताः ।
उक्तयोरेव ध्यानयोगयोः उपायत्वेन उक्तं विरागभावं विभजते -
दृष्टेति ।
सम्यक्त्वमेव व्यनक्ति -
नित्यमिति
॥ ५२ ॥
ज्ञाननिष्ठस्य यतेः विशेषणान्तरं समुच्चिनोति -
किं चेति ।
नित्यं ध्यानयोगपरत्वे समुच्चितं कारणान्तरं विवृणोति -
अहङ्करणमिति ।
सामर्थ्यमात्रे बलशब्दात् उपलभ्यमाने किमिति विशेषवचनम् ? इति आशङ्क्य आह -
स्वाभाविकत्वेनेति ।
उक्ते अर्थं मानम् आह-
हृष्ट इति ।
वैराग्यशब्देन लब्धस्यापि कामत्यागस्य पुनः वचनं प्रकृष्टत्वख्यापनार्थम् ।
अहङ्कारादित्यागे परिग्रहप्राप्त्यभावात् तत्त्यागोक्तिः अयुक्ता इति आशङ्क्य, आह -
इन्द्रियेति ।
परिग्रहाभावे ममत्वविषयाभावात् निर्ममत्वं कथम् ? इति आशङ्क्य, आह -
देहेति ।
अहङ्कारममकारयोः अभावेन प्राप्ताम् अन्तःकरणोपरतिम् अनुवदति -
अत एवेति ।
उक्तम् अनूद्य जीवन्नेव असौ ब्रह्म भवति इति फलितम् आह -
यः संहृतेति ।
ज्ञाननिष्ठपदात् ऊर्ध्वं सशब्दो द्रष्टव्यः । ब्रह्मणः भवनम् अनुसन्धानपरिपाकपर्यन्तं साक्षात्करणं तदर्थम् इति यावत्
॥ ५३ ॥
अपेक्षितं पूरयन् उत्तरश्लोकम् अवतारयति -
अनेनेति ।
‘बुद्ध्या विशुद्धया’(भ. गी. १८-५१) इत्यादिः अत्र क्रमः ब्रह्मप्राप्तः जीवन्नेव निवृत्ताशेषानर्थः निरतिशयानन्दं ब्रह्म आत्मत्वेन अनुभवन् इत्यर्थः । अध्यात्मं - प्रत्यगात्मा, तस्मिन् प्रसादः - सर्वानर्थनिवृत्त्या परमानन्दाविर्भावः, सः लब्धो येन जीवन्मुक्तेन, सः तथा ।
न शोचतीत्यादौ तात्पर्यम् आह -
ब्रह्मभूतस्येति ।
प्राप्तव्यपरिहार्याभावनिश्चयात् इत्यर्थः ।
स्वभावानुवादम् उपपादयति -
न हीति ।
तस्य अप्राप्तविषयाभावात् नापि परिहार्यापरिहारप्रयुक्तः शोकः, परिहार्यस्यैव अभावात् इत्यर्थः । पाठान्तरे तु, रमणीयं प्राप्य न प्रमोदते तदभावात् इत्यर्थः ।
विवक्षितं समदर्शनं विशदयति -
आत्मेति ।
ननु सर्वेषु भूतेषु आत्मनः समस्य निर्विशेषस्य दर्शनम् अत्र अभिप्रैतं किं न इष्यते ? तत्र आह-
नात्मेति ।
उक्तविशेषणवतः जीवन्मुक्तस्य ज्ञाननिष्ठा प्रागुक्तक्रमेण प्राप्ता सुप्रतिष्ठिता भवति इत्याह -
एवंभूतः इति ।
श्रवणमननिदिध्यासनवतः शमादियुक्तस्य अभ्यस्तैः श्रवणादिभिः ब्रह्मात्मनि अपरोक्षं मोक्षफलं ज्ञानं सिद्ध्यति इत्यर्थः । आर्तादिभक्तत्रयापेक्षया ज्ञानलक्षणा भक्तिः चतुर्थी इत्युक्ता ।
तत्र सप्तमस्थवाक्यम् अनुकूलयति -
चतुर्विधा इति
॥ ५४ ॥
ननु समाधिसाध्येन परमभक्त्यात्मकेन ज्ञानेन किम् अपूर्वम् अवाप्यते ? तत्र आह -
तत इति ।
भक्त्या समाधिजन्यया मां ब्रह्म आभिमुख्येन प्रत्यक्तया जानाति व्याप्नोति इत्यर्थः ।
तदेव ज्ञानं भक्तिपराधीनं विवृणोति -
यावानिति ।
आकाशकल्पत्वम् अनवच्छिन्नत्वम् असङ्गत्वं च ।
चैतन्यस्य विषयसापेक्षत्वं प्रतिक्षिपति -
अद्वैतमिति ।
ये तु द्रव्यबोधात्मत्वम् आत्मनः मन्यन्ते, तान् प्रति उक्तं -
चैतन्यमात्रेति ।
आत्मनि तन्मात्रेऽपि धर्मान्तरम् उपेत्य धर्मधर्मित्वं प्रत्याह -
एकरसमिति ।
सर्वविक्रियाराहित्योक्त्या कौटस्थ्यम् आत्मनः व्यवस्थापयति -
अजमिति ।
उक्तविक्रियाभावे तद्धेत्वज्ञानासम्बन्धं हेतुम् आह -
अभयमिति ।
तत्त्वज्ञानम् अनूद्य तत्फलं विदेहकैवल्यं लम्भयति -
तत इति ।
तत्त्वज्ञानस्य तस्मात् अनन्तरप्रवेशक्रियायाश्च भिन्नत्वं प्राप्तं प्रत्याह -
नात्रेति ।
भिन्नत्वाभावे का गतिः भेदोक्तेः, इति आशङ्क्य, औपचारिकत्वम् आह-
किं तर्हीति ।
प्रवेशः इति शेषः ।
ब्रह्मप्राप्तिरेव फलान्तरम् इति आशङ्क्य ब्रह्मात्मनोः भेदाभावात् न ज्ञानातिरिक्ता तत्प्राप्तिः इत्याह -
क्षेत्रज्ञं चेति ।
ज्ञाननिष्ठया परया भक्त्या माम् अभिजानाति इत्युक्तम् आक्षिपति -
नन्विति ।
विरुद्धत्वं स्फोरयितुं पृच्छति -
कथमिति ।
विरोधस्फुटीकरणं प्रतिजानीते-
उच्यते इति ।
तत्र ज्ञानस्य उत्पत्तिरेव विषयाभिव्यक्तिः इत्याह -
यदेति ।
एवकारनिरस्यं दर्शयति -
न ज्ञानेति ।
इति आवयोः सिद्धम् इति शेषः ।
ज्ञानस्य उत्पत्तेरेव विषयाभिव्यक्तित्वे कथं प्रकृते विरोधधीः इति आशङ्क्य आह -
ततश्चेति ।
विरुद्धमिति शेषः ।
शङ्कितं विरोधं निरस्यति -
नैष दोष इति ।
उक्तमेव हेतुं प्रपञ्चयति -
शास्त्रेति ।
यो हि शास्त्रानुसारी आचार्योपदेशः, तेन ज्ञानोत्पत्तिः । ‘आचार्यवान् पुरुषो वेद’(छा. उ. ६-१४-२) इति श्रुतेः । तस्याश्च परिपाकः संशयादिप्रतिबन्धध्वंसः तत्र हेतुभूतम् उपदेशस्यैव सहकारिकारणं यत् बुद्धिशुद्ध्यादि, तत् अपेक्ष्य, तस्मादेव उपदेशात् जनितं यत् ऐक्यज्ञानं तस्य कारकभेदबुद्धिनिबन्धनानि यानि सर्वाणि कर्माणि, तेषां संन्यासेन सहितस्य, फलरूपेण स्वात्मन्येव सर्वप्रकल्पनारहिते यत् अवस्थानं, सा ज्ञानस्य परा निष्ठा इति व्यवह्रियते प्रामाणिकैः इति अर्थः ।
यदि यथोक्ता परा ज्ञानष्ठिा, कथं तर्हि सा चतुर्थी भक्तिः इति उक्ता ? इति, तत्राह -
सेयमिति ।
यथोक्तया भक्त्या भगवत्तत्त्वज्ञानं सिद्ध्यति इत्याह -
तयेति ।
तत्त्वज्ञानस्य फलम् आह -
यदनन्तरमिति ।
ज्ञाननिष्ठारूपायाः भगवद्भक्तेः तत्त्वज्ञानानतिरेकात् तत्फलस्य च अज्ञाननिवृत्तेः तन्मात्रत्वात् भेदोक्तेश्च औपचारिकत्वात् प्रकृतं वाक्यम् अविरुद्धम् इति उपसंहरति -
अत इति ।
औपदेशिकैक्यज्ञानस्य सर्वकर्मसंन्याससहितस्य स्वरूपावस्थानात्मकस्य परमपुरुषार्थौपयिकत्वम् इति अस्मिन् अर्थे मानम् आह -
अत्र चेति ।
तदेव शास्त्रम् उदाहरति -
विदित्वेत्यादिना ।
दर्शितानि वाक्यानि - ‘सर्वकर्माणि मनसा’(भ. गी. ५-१३) इत्यादीनि ।
ननु एषां वाक्यानाम् अविवक्षितार्थत्वत् नास्ति स्वार्थे प्रामाण्यम् इति आशङ्क्य अध्ययनविध्युपात्तत्वात् वेदवाक्यान्तं तदनुरोधित्वाच्च इतरेषां नैवम् इत्याह -
न चेति ।
तथापि ‘सोऽरोदीत् ‘ इत्यादिवत् न स्वार्थे मानता इति आशङ्क्य आह -
न चार्थवादत्वमिति ।
इतश्च मुमुक्षोः अपेक्षितमोक्षौपयिकज्ञाननिष्ठस्य संन्यासे अधिकारः, न कर्मनिष्ठायाम् इत्याह -
प्रत्यगिति ।
ज्ञाननिष्ठस्य कर्मनिष्ठा विरुद्धा इत्यत्र दृष्टान्तम् आह -
न हीति ।
ज्ञाननिष्ठास्वरूपानुवादपूर्वकं कर्मनिष्ठया तस्याः सहभावित्वं विरुद्धम् इति दार्ष्टान्तिकम् आह -
प्रत्यगात्मेति ।
कथं ज्ञानकर्मणोः विरोधधीः ? इति आशङ्क्य, कर्मणां ज्ञाननिवर्त्यत्वस्य श्रुतिस्मृतिसिद्धत्वात् इत्याह -
पर्वतेति ।
अन्तरवान् उभयोः एकधर्मिनिष्ठत्वेन साङ्कर्याभावसम्पादकभेदवान् इत्यर्थः ।
ज्ञानकर्मणोः असमुच्चये फलितम् उपसंहरति -
तस्मादिति
॥ ५५ ॥
तर्हि ज्ञाननिष्ठस्यैव मोक्षसम्भवात् , न कर्मानुष्ठानसिद्धिः इति आशङ्क्य, आह -
स्वकर्मणेति ।
तामेव सिद्धिप्राप्तिं विशिनष्टि -
ज्ञानेति ।
ज्ञाननिष्ठायोग्यतायै स्वकर्मानुष्ठानं भगवदर्चनरूपं कर्तव्यम् इत्यर्थः ।
ज्ञाननिष्ठायोग्यतापि किमर्था ? इति आशङ्क्य, ज्ञाननिष्ठासिद्ध्यर्था इत्याह -
यन्निमित्तेति ।
ज्ञाननिष्ठापि कुत्र उपयुक्ता ? इत्यत्र आह -
मोक्षेति ।
स्वकर्मणा भगवदर्चनात्मनः भक्तियोगस्य परम्परया मोक्षफलस्य कार्यत्वेन विधेयत्वे विध्यपेक्षितां स्तुतिम् अवतारयति -
स भगवदिति ।
ज्ञाननिष्ठा कर्मनिष्ठा इति उभयं प्रतिज्ञाय तत्र तत्र विभागेन प्रतिपादितम् ।
किमिति इदानीं कर्मनिष्ठा पुनः स्तुत्या कर्तव्यतया उच्यते ? तत्र आह-
शास्त्रार्थेति ।
तत्र तत्र उक्तस्यैव कर्मानुष्ठानस्य प्रकरणवशात् इह उपसंहारः । स च शास्त्रीार्थनिश्चयस्य दृढतां द्योतयति इत्यर्थः ।
यद्यपि कस्यचित् कर्मानुष्ठायिनः बुद्धिशुद्धिद्वारा कैवल्यं सिद्ध्यति, तथापि पापबाहुल्यात् कर्मानुष्ठायिनोऽपि कस्यचित् बुद्धिशुद्ध्यभावे, कैवल्यासिद्धिः इति आशङ्क्य, आह -
सर्वकर्माणीति ।
सर्वशब्दानुरोधात् ईश्वराराधनस्तुतिपरत्वेन श्लोकं व्याचष्टे -
प्रतिषिद्धान्यपीति ।
नित्यनैमित्तिकवत् इति अपेः अर्थः ।
निषिद्धाचरणस्य प्रामादिकत्वं व्यावर्तयति -
सदेति ।
अनुतिष्ठन् वैष्णवं पदम् आप्नोति इति सम्बन्धः ।
पापकर्मकारिणः यथोक्तपदप्राप्तौ, पापस्यापि मोक्षफलत्वम् उपगतं स्यात् , इत्यत्र आह -
मद्व्यपाश्रय इति ।
तस्यैव तात्पर्यम् आह -
मयीति ।
तर्हि ज्ञानस्य मोक्षहेतुत्वम् उपेक्षितं स्यात् , इत्यत्र आह -
सोऽपीति ।
प्रसादः - अनुग्रहः - सम्यग्ज्ञानोदयः । पदं - पदमीयम् उपनिषत्तात्पर्यगम्यम् , अव्ययम् - अक्षयरहितम्
॥ ५६ ॥
परमेश्वरप्रसादस्य एवं माह्यत्म्यं यतः सिद्धं, तत्मात् तत्प्रसादार्थं भवता प्रयतितव्यम् इत्याह -
यस्मादिति ।
भगवत्प्रसादात् आसादितसम्यग्ज्ञानादेव मुक्तिः, न कर्ममात्रात् इति ज्ञानं विवेकबुद्धिः ।
आश्रयशब्दार्थम् आह -
अनन्येति
॥ ५७ ॥
किम् अतः भवति ? तत् आह -
मच्चित्तः इति ।
भीत्यापि प्रवर्तेत इति मन्वानः विपर्यये दोषम् आह -
अथ चेदिति
॥ ५८ ॥
स्वातन्त्र्ये सति भीतेः अवकाशः नास्ति इति आशङ्क्य आह -
इदं चेति
॥ ५९ ॥
इतश्च त्वया युद्धात् न वैमुख्यं कर्तुम् उचितम् इत्याह -
यस्माच्चेति ।
स्वभावजेन स्वेन कर्मणा निबद्धः त्वम् इति सम्बन्धः
॥ ६० ॥
इतोऽपि त्वया युद्धं कर्तव्यमेव, इत्याह -
यस्मादिति ।
अर्जुनशब्दस्य उक्तार्थत्वे श्रुतिम् उदाहरति -
अहश्चेति ।
‘अहश्च कृष्णम् अहरर्जुनं च विवर्तेते रजसी वेद्याभिः । ‘ इत्यत्र किञ्चित् अहः तावत् कृष्णं - अस्वच्छं कलुषितमिव लक्ष्यते, किञ्चित् पुनः अहः अर्जुनं - अतिस्वच्छं शुद्धस्वभावम् उपलभ्यते । एवम् अर्जुनशब्दस्य शुक्लशब्दपर्यायतया प्रयोगदर्शनात् उक्तार्थत्वम् उचितम् इत्यर्थः ।
यन्त्रारूढानीव इति कथम् उच्यते ? तत्राह -
इव शब्द इति ।
तदेव प्रपञ्चयति -
यथेति ।
दारुमयानि यन्त्राणि यथा लौकिकः मायावी मायया भ्रामयन् वर्तते, तथा ईश्वरोऽपि सर्वाणि भूतानि भ्रामयन्नेव हृदये तिष्ठति इत्यर्थः ॥ ६१ ॥
ईश्वरः सर्वाणि भूतानि प्रेरयति चेत् प्राप्तकैवल्यस्यापि पुरुषकारस्य आनर्थक्यम् इति आशङ्क्य आह -
तमेवेति ।
सर्वात्मना - मनोवृत्त्या वाचा कर्मणा च इत्यर्थः । ईश्वरस्य अनुग्रहात् तत्त्वज्ञानोत्पत्तिपर्यन्तात् इति शेषः । मुक्ताः तिष्ठन्ति अस्मिन् इति स्थानम्
॥ ६२ ॥
शास्त्रम् उपसंहर्तुम् इच्छन् आह -
इति ते ज्ञानमिति ।
ज्ञानं - करणव्युत्पत्त्या गीताशास्त्रीं, यथा इच्छसि, तथा कुरु, ज्ञानं कर्म वा यत् इष्टं तत् अनुतिष्ठ इत्यर्थः
॥ ६३ ॥
गीताशास्त्रस्य पौर्वापर्येण विमर्शनद्वारा तात्पर्यार्थं प्रतिपत्तुम् असमर्थं प्रति आह -
भूयोऽपीति ।
किमर्थम् इच्छन् पुनः पुनः अभिदधासि इति आशङ्क्य आह -
न भयादिति ।
हितमिति साधारणनिर्देशे, कथं परमम् इत्यादिविशेषणम् ? इति आशङ्क्य आह -
तद्धीति
॥ ६४ ॥
तदेव प्रश्नद्वारा विवृणोति -
किं तदित्यादिना ।
उत्तरार्धं व्याचष्टे -
तत्रेति ।
एवम् उक्तया रीत्या वर्तमानः त्वं तस्मिन्नेव वासुदेवे भगवति अर्पितसर्वभावः मामेव आगमिष्यसि इति सम्बन्धः ।
सत्यप्रतिज्ञाकरणे हेतुम् आह -
यत इति ।
इदानीं वाक्यार्थं श्रेयोऽथिनां प्रवृत्त्युपयोगित्वेन सङ्गृह्णाति -
एवमिति ।
॥ ६५ ॥
वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह-
कर्मयोगेति ।
धर्मविशेषणात् अधर्मानुज्ञां वारयति -
धर्मेति ।
ज्ञाननिष्ठेन मुमुक्षुणा धर्माधर्मयोः त्याज्यत्वे श्रुतिस्मृती उदाहरति -
नाविरत इति ।
‘मामेकं’ इत्यादेः तात्पर्यम् आह -
न मत्तः अन्यदिति ।
अर्जुनस्य क्षत्रियत्वात् उक्तसंन्यासद्वारा ज्ञाननिष्ठायां मुख्यानधिकारेऽपि तं पुरस्कृत्य अधिकारिभ्यः तस्य उपदिदिक्षितत्वात् अविरोधम् अभिप्रेत्य आह -
अहं त्वेति ।
उक्तेऽर्थे दाशमिकं वाक्यम् अनुकूलयति -
उक्तं चेति ।
ईश्वरस्य त्वदीयबन्धनिरसनद्वारा त्वत्पालयितृत्वात् न ते शोकावकाशः अस्ति इत्याह -
अत इति
पूर्वापरालोचनातः गीताशास्त्रं व्याख्याय उपसंहृत्य, तत्तात्पर्यार्थं निर्धारितम् अपि विचारद्वारा निर्धारयितुं विचारम् अवतारयति -
अस्मिन्निति ।
किंशब्दार्थमेव त्रेधा विभजते -
ज्ञानमिति ।
निमित्ताभावे संशयस्य आभासत्वात् न निरस्यतेति मत्वा पृच्छति -
कुत इति ।
तत्तदर्थावद्योतकानेकवाक्यदर्शनं तन्निमित्तम् इत्याह -
यज्ज्ञात्वेति ।
कर्मणाम् अवश्यकर्तव्यत्वोपलम्भात् तेभ्योऽपि निःश्रेयसप्राप्तिः भाति इत्याह -
कर्मण्येवेति ।
तथापि समुच्चप्रापकं नास्ति इति आशङ्क्य, आह -
एवमिति ।
सत्यां सामग्र्यां कार्यम् अवश्यंभावि इति उपसंहरति -
इति भवेदिति ।
सन्दिग्धं सफलं च विचार्यम् इति स्थितेः, असति फले सन्दिग्धमपि न विचार्यम् इति बुद्ध्या पृच्छति -
किं पुनरिति ।
प्रत्येकं ज्ञानकर्मणोः समुच्चितयोर्वा मुक्तिं प्रति परमसाधनता ? इति अवधारणमेव विचारफलमिति परिहरति -
नन्विति ।
सन्देहप्रयोजनयोः विचारप्रयोजकयोः भावात् विचारद्वारा परममुक्तिसाधनं निर्धारणीयम् इति निगमयति -
अत इति ।
एवं विचारम् अवतार्य सिद्धान्तं सङ्गृह्णाति -
आत्मेति ।
सङ्ग्रहवाक्यं विवृण्वन् आदौ आत्मज्ञानापोह्याम् अविद्यां दर्शयति-
क्रियेति ।
आश्रयोक्त्या तदनादित्वम् आह -
आत्मनीति ।
तमेव अविद्याम् अनाद्यविद्योत्थाम् अनर्थात्मिकां प्रपञ्चयति -
ममेति ।
अनाद्यविद्याकार्यत्वात् प्रवाहरूपेण अनादित्वम् अस्याः विवक्षित्वा विशिनष्टि -
अनादीति ।
तत्र कारणाविद्यानिवर्तकत्वम् आत्मज्ञानस्य उपन्यस्यति-
अस्या इति ।
ननु न इदम् उत्पन्नं ज्ञानं निवर्तयति, अविरोधेन उत्पन्नत्वात् । न च अनुत्पन्नम् , अलब्धात्मकस्य अर्थक्रियाकारित्वाभावत् । तत्र आह -
उत्पद्यमानम् इति ।
कथं तस्य कारणाविद्यानिवर्तकत्वम् इति आशङक्य कार्याविद्यानिवर्तकत्वदृष्टेः इत्याह -
कर्मेति ।
आत्मज्ञानस्य इत्यादिसङ्ग्रहवाक्ये तुशब्दद्योत्यविशेषाभावात् तदानर्थक्यम् आशङ्क्य, आह -
तुशब्द इति ।
पक्षद्वयव्यावर्तकत्वम् एव अस्य स्फुटयति -
नेत्यादिना ।
इतश्च कर्मासाध्यता मुक्तेः इत्याह -
अकार्यत्वाच्चेति ।
‘एष नित्यो महिमा’ इति श्रुतेः नित्यत्वेन मोक्षस्य अकार्यत्वात् न तत्र हेत्वपेक्षा इति उपपादयति -
न हीति ।
ज्ञानेनापि मोक्षः न क्रियते चेत् , तर्हि केवलमपि ज्ञानं मुक्त्यनुपयुक्तम् इति, कुतः तस्य हेतुत्वधीः ? इति आशङ्कते-
केवलेति ।
ज्ञानानर्थक्यं दूषयति -
नेति ।
तदेव प्रपञ्चयति -
अविद्येति ।
यत् उक्तम् अविद्यानिवर्तकज्ञानस्य कैवल्यफलावसायित्वं दृष्टम् इति, तत्र दृष्टान्तम् आह -
रज्ज्वादीति ।
उक्ते विषये तमोनिवर्तकप्रकाशस्य कस्मिन् फले पर्यवसानम् ? तत्र आह-
विनिवृत्तेति ।
प्रदीपप्रकाशस्य सर्पभ्रमनिवृत्तिद्वारा रज्जुमात्रे पर्यवसानवत् आत्मज्ञानस्यापि तदविद्यानिवृत्त्यात्मकैवल्यावसानमिति दार्ष्टान्तिकम् आह -
तथेति ।
ज्ञात्रादीनां ज्ञाननिष्ठाहेतूनां कर्मान्तरे प्रवृत्तिसम्भवात् , कर्मसहितैव सा कैवल्यावसायिनी, इति चेत् तत्र आह -
दृष्टार्थायामिति ।
कर्मसाहित्यं, ज्ञाननिष्ठायाः, दृष्टान्तेन साधयन् आशङ्कते -
भुजीति ।
भुजिक्रिायाः लौकिक्याः, वैदिक्याश्च अग्निहोत्रादिक्रियायाः सहानुष्ठानवत् अग्निहोत्रादिक्रियायाः ज्ञाननिष्ठायाश्च साहित्यम् इत्यर्थः । भुजिफले तृप्त्याख्ये प्राप्तेऽपि, स्वर्गादौ च अग्निहोत्रादौ अर्थित्वदृष्टेः युक्तं तत्र साहित्यम् । न तथा मुक्तिफलज्ञाननिष्ठालाभे, स्वर्गादौ तद्धेतौ वा कर्मणि अर्थित्वम् ।
तेन ज्ञाननिष्ठाकर्मणोः न साहित्यम् इति परिहरति -
नेत्यादिना ।
सङ्ग्रहवाक्यं विवृणोति -
कैवल्येति ।
ज्ञाने फलवति लब्धे, फलान्तरे तद्धेतौ च न अर्थिता, इत्यत्र दृष्ठान्तम् आह -
सर्वत इति ।
सर्वत्र सम्प्लुतं व्याप्तम् उदकम् इति समु्द्रोक्तिः । तत्फलं स्नानादि । तस्मिन् प्राप्ते, न तडागादिनिर्माणक्रियायां, तदधीने च स्नानादौ कस्यचित् अर्थित्वम् , तथा प्रकृतेऽपि, इत्यर्थः ।
निरतिशयफले ज्ञाने लब्धे, सातिशयफले कर्मणि न अर्थित्वम् इत्येतत् दृष्टान्तेन स्फुटयति-
न हीति ।
कर्मणः सातिशयफलत्वम् उक्तम् उपजीव्य फलितम् आह-
तस्मान्नेति ।
ज्ञानकर्मणोः साहित्यासम्भवमपि पूर्वोक्तं निगमयति -
न चेति ।
न हि प्रकाशतमसोरिव मिथः विरुद्धयोः तयोः साक्षात् एकस्मिन् फले साहित्यम् इत्यर्थः ।
ननु ज्ञानमेव मोक्षं साधयत् आत्मसहायत्वेन कर्म अपेक्षते, करणस्य उपकरणापेक्षत्वात् । तत्र आह -
नापीति ।
ज्ञानम् उत्पत्तौ यज्ञाद्यपेक्षमपि, न उत्पन्नं फले तदपेक्षम् । स्वोत्पत्तिनान्तरीयकत्वेन मुक्तेः तन्मात्रायत्तत्वात् इत्यर्थः ।
यत् उक्तम् इतिकर्तव्यत्वेन ज्ञानं कर्मापेक्षम् इति, तत्र आह -
अविद्येति ।
ज्ञानस्य अज्ञाननिवर्तकत्वात् , तत्र कर्मणः विरुद्धतया सहकारित्वायोगात् न फले तदपेक्षा इत्यर्थः ।
कर्मणोऽपि ज्ञानवत् अज्ञाननिवर्तकत्वे कुतः विरुद्धता ? इति आशङ्क्य, आह -
न हीति ।
केवलस्य समुच्चितस्य वा कर्मंणः मोक्षे साक्षात् अनन्वये फलितम् आह -
अत इति ।
केवलं ज्ञानं मुक्तिसाधनम् इति उक्तम् । तत् निषेधयन् आशङ्कते -
नेत्यादिना ।
निषेध्यम् अनूद्य नञर्थम् आह -
यत्तावदिति ।
नित्यानुष्ठानस्य आवश्यकत्वात् न केवलज्ञानस्य कैवल्यहेतुता इत्यर्थः ।
कैवल्यस्य च नित्यत्वात् इत्यस्य व्यावर्त्यं दर्शयति -
नन्विति ।
यदि नित्यनैमित्तिककर्माणि श्रौतानि, अकरणे प्रत्यवायकारीणि अवश्यानुष्ठेयानि, एवं तर्हि तेभ्यः समुच्चितेभ्यः असमुच्चितेभ्यश्च मोक्षः न इति उक्तत्वात् केवलज्ञानस्य च अतद्धेतुत्वात् अनिबन्धना मुक्तिः न सिध्येत् इत्यर्थः ।
कैवल्यस्य च इत्यादि व्याकुर्वन् अनिर्मोक्षप्रसङ्गं प्रत्यादिशति-
नैष दोष इति ।
मुक्तेः नित्यत्वेन अयत्नसिद्धेः न तदभावशङ्का इत्युक्तं प्रपञ्चयति -
नित्यानामिति ।
काम्यकर्मवशात् इष्टशरीरापत्तिं शङ्कित्वा उक्तम् -
काम्यानां चेति ।
आरब्धकर्मवशात् तर्हि देहान्तरं न इत्याह -
वर्तमानेति ।
तर्हि देहान्तरं शेषकर्मणा स्यात् , इति आशङ्क्य कर्माशयस्य ऐकभविकत्वात् न इत्याह -
पतितेऽस्मिन् इति ।
रागादिना कर्मान्तरं, ततः देहान्तरं च भविष्यति इति आशङ्क्य आह -
रागादीनां चेति ।
आत्मनः स्वरूपावस्थानम् इति सम्बन्धः ।
अतीतासङ्ख्यजन्मभेदेषु अर्जितस्य कर्मणः नानाफलस्य अनारब्धस्य भोगेन विना अक्षयात् , ततः देहान्तरारम्भात् , ऐकभविकत्वस्य अप्रामाणिकत्वात् न मुक्तेः अयत्नसिद्धता इति चोदयति -
अतिक्रान्तेति ।
न उक्तकर्मनिमित्तं देहान्तरं शङ्कितव्यम् इत्याह -
नेति ।
नित्यनैमित्तिककर्माणि श्रौतानि अवश्यम् अनुष्ठेयानि । तदनुष्ठाने च महान् आयासः । ततः दुःखोपभोगः ।
तस्य उक्तानारब्धकर्मफलभोगत्वोपगमात् न ततः देहान्तरम् इत्याह-
नित्येति ।
नित्यादिना दुरितनिवृत्तावपि अविरोधात् न सुकृतनिवृत्तिः, ततः देहान्तरम् इति आशङ्क्य, सुकृतस्य नित्यादेः अन्यत्वे अनारब्धत्वे च, न्यायविरुद्धस्य तस्य असिद्धत्वात् ततः देहान्तरायोगात् नित्यादेः अनन्यत्वे च न तस्य फलान्तरम् इति मत्वा, यथा प्रायश्चित्तम् उपात्तदुरितनिबर्हणार्थं, न फलान्तरापेक्षं, तथा इदं सर्वमपि नित्यादिकर्म उपात्तपापनिराकरणार्थं तस्मिन्नेव पर्यवस्यत् न देहान्तरारम्भकम् इति पक्षान्तरम् आह -
प्रायश्चित्तवदिति ।
तथापि प्रारब्धवशादेव देहान्तरं शङ्क्यते, नानाजन्मारम्भकाणामपि तेषां यावदधिकारन्यायेन सम्भवात् , इति आशङ्क्य आह -
आरब्धानां चेति ।
पूर्वार्जितकर्मणाम् एवं क्षीणत्वेऽपि, कानिचित् अपूर्वकर्माणि देहान्तरम् आरभेरन् इति आशङ्क्य आह -
अपूर्वाणां चेति ।
विना ज्ञानं कर्मणैव मुक्तिः इति पक्षं श्रुत्यवष्टम्भेन निराचष्ठे-
नेत्यादिना ।
विद्यते अयनाय इति श्रुतेः इति सम्बन्धः ।
एवकारार्थं विवृण्वन् नेत्यादिभागं व्याकरोति -
अन्यइति ।
“यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।“
इति श्रुतिम् अर्थतः अनुवदति -
चर्मवदिति ।
श्रौतार्थे स्मृतिं संवादयति -
ज्ञानादिति ।
किञ्च त्वदीयन्यायस्य अनुग्राह्यमानहीनत्वेन आभासतया पुण्यकर्मणाम् अनारब्धफलानां क्षयाभावे देहान्तरारम्भसम्भावत् न ज्ञानं विना मुक्तिः इत्याह -
अनारब्धेति ।
तथाविधानां कर्मणां नास्ति सम्भावना इति आशङ्क्य अह -
यथेति ।
अनारब्धफलपुण्यकर्माभावेऽपि कथं मोक्षानुपपत्तिः ? इति तत्र आह -
तेषां चेति ।
इतश्च कर्मक्षयानुपपत्त्या मोक्षानुपपत्तिः, इति तत्र आह -
धर्मेति ।
‘कर्मणा पितृलोकः’(बृ. उ. १-५-१६) इति श्रुतिम् आश्रित्य कर्माक्षये हेत्वन्तरम् आह -
नित्यानामिति ।
स्मृत्यापि यथोक्तम् अर्थं समर्थयति -
वर्णा इति ।
प्रेत्य कर्मफलम् अनुभूय, ततः शेषेण विशिष्टजात्यादिभाजः जन्म प्रतिपद्यन्ते इति एतदादिपदार्थः ।
यत्तु नित्यानुष्ठानायासदुःखभोगस्य तत्फलभोगत्वम् इति तत् इदानीम् अनुवदति-
ये त्विति ।
नित्यानि अनुष्ठीयमानानि आयासपर्यन्तानि इति शेषः ।
तथापि नित्यानां काम्यानामिव स्वरूपातिरिक्तं फलम् आशङ्क्य विध्युद्देशे तदश्रवणात् , मैवम् इत्याह -
न त्विति ।
विध्युद्देशे फलाश्रुतौ तत्कामायाः निमित्तस्य अभावात् न नित्यानि विधीयेरन् इति आशङ्क्य आह -
जीवनादीति ।
न नित्यानां विध्यसिद्धिः इति शेषः ।
अनुभाषितं दूषयति-
नेत्यादिना ।
तदेव विवृण्वन् निषेध्यम् अनूद्य नञर्थम् आह-
यदुक्तमिति ।
अप्रवृत्तानाम् इत्यादिहेतुं प्रपञ्चयति -
न हीति ।
कर्मान्तरारब्धेऽपि देहे दुरितफलं नित्यानुष्ठानायासदुःखं भुज्यतां का अनुपपत्तिः इति आशङ्क्य आह -
अन्यथेति ।
यत् उक्तं दुःखफलविशेषानुपपत्तिश्च स्यात् इति, तत् उपपादयति -
तस्येति ।
सम्भावितानि तावत् अनन्तानि सञ्चितानि दुरितानि । तानि च नानादुःखफलानि । यदि तानि नित्यानुष्ठानायासरूपं दुःखं, तन्मात्रफलानि कल्प्येरन् , तदा तेषु एवं कल्प्यमानेषु सत्सु, नित्यस्य अनुष्ठितस्य आयासम् आसादयतः यः दुरतिकृतः दुःखविशेषः न तत्फलं दुरितफलानां दुःखानां बहुत्वात् , अतः नित्यं कर्म यथाविशेषितं दुरितकृतदुःखविशेषफलकम् इति अयुक्तम् इत्यर्थः ।
किञ्च नित्यानुष्ठानायासदुःखमात्रफलानि चेत् दुरितानि कल्प्यन्ते, तदा द्वन्द्वशब्दितरागादिबाधस्य रोगादिबाधायाश्च दुरितनिमित्तत्वानुपपत्तेः, सुकृतकृतत्वस्य च असम्भवात् अनुपपत्तिरेव उदीरितबाधायाः स्यात् इत्याह -
द्वन्द्वेति ।
इतश्च नित्यानुष्ठानायासदुःखमेव दुरितफलम् इति अयुक्तम् इत्याह -
नित्येति ।
दुःखमिति न शक्यते कल्पयितुम् इति पूर्वेण सम्बन्धः । यदि तदेव तत्फलं, न तर्हि शिरसा पाषाणवहनादिदुःखं दुरितकृतं, न च तत्कारणं सुकृतं, दुःखस्य अतत्कार्यत्वत् , अतः तत् आकस्मिकं स्यात् इत्यर्थः ।
नित्यानुष्ठानायासदुःखम् उपात्तदुरितफलम् इति एतत् अप्रकृतत्वाच्च अयुक्तं वक्तुम् इति आह -
अप्रकृतं चेति ।
तदेव प्रपञ्चयितुं पृच्छति -
कथमिति ।
तत्र आदौ प्रकृतम् आह -
अप्रसूतेति ।
तथापि कथम् अस्माकम् अप्रकृतवादित्वम् ? तत्र अाह -
तत्रेति ।
प्रसूतफलत्वम् अप्रसूतफलत्वम् इति प्राचीनदुरितगतविशेषानुपगमात् अविशेषेण सर्वस्यैव तस्य प्रसूतफलत्वात् नित्यानुष्ठानायासदुःखफलत्वसम्भवात् न अप्राकृतवादिता इति शङ्कते -
अथेति ।
पूर्वोपात्तदुरितस्य अविशेषेण आरब्धफलत्वे विशेषणानर्थक्यम् इति परिहरति -
ततः इति ।
दुरितमात्रस्य आरब्धफलत्वेन अनारब्धफलस्य तस्य उक्तफलविशेषवत्त्वानुपपत्तेः इत्यर्थः ।
पूर्वोपात्तदुरितम् आरब्धफलं चेत् , भोगेनैव तत्क्षयसम्भवात् तन्निवृत्त्यर्थं नित्यं कर्म न विधातव्यम् इति दोषान्तरम् आह -
नित्येति ।
इतश्च नित्यानुष्ठानायासदुःखं न उपात्तदुरितफलम् इत्याह -
किञ्चेति ।
तदेव स्फोरयति-
श्रुतस्येति ।
यथा व्यायामगमनादिकृतं दुःखं न अन्यस्य दुरितस्य इष्यते, तत्फलत्वसम्भवात् , तथा नित्यस्यापि श्रुत्युक्तस्य अनुष्ठितस्य आयासपर्यन्तस्य फलान्तरानुपगमात् , अनुष्ठानायासदुःखमेव चेत् फलं, तर्हि तस्मादेव तद्दर्शनात् तस्य न दुरितफलत्वं कल्प्यं, नित्यफलत्वसम्भवात् इत्यर्थः ।
दुःखफलत्वे नित्यानाम् अननुष्ठानमेव श्रेयः स्यात् इति आशङ्क्य आह -
जीवनादिति ।
नित्यानां दुरितफलत्वानुपपत्तौ हेत्वन्तरम् आह -
प्रायश्चित्तवदिति ।
दृष्टान्तं प्रपञ्चयति -
यस्मिन्निति ।
तथा जीवनादिनिमित्ते विहितानां नित्यानां दुरितफलत्वासिद्धिः इति शेषः । सत्यं प्रायश्चित्तं न निमित्तस्य पापस्य फलम् ।
किन्तु तदनुष्ठानायासदुःखं तस्य पापस्य फलम् इति शङ्कते -
अथेति ।
प्रायश्चित्तानुष्ठानायासदुःखस्य निमित्तभूतपापफलत्वे, जीवनादिनिमित्तनित्याद्यनुष्ठानायासदुःखमपि जीवनादेरेव फलं स्यात् , न उपात्तदुरितस्य, इति परिहरति -
जीवनादीति ।
प्रायश्चित्तदुःखस्य तन्निमित्तपापफलत्ववत् जीवनादिनिमित्तकर्मकृतमपि दुःखं जीवनादिफलम् इति अत्र हेतुम् आह -
नित्येति ।
इतश्च नित्यानुष्ठानायासदुःखमेव उपात्तदुरितफलम् इति अशक्यं वक्तुम् इति आह -
किञ्चेति ।
काम्यानुष्ठानायासदुःखमपि दुरितफलम् इति उपगमात् प्रसङ्गस्य इष्टत्वम् आशङ्क्य आह -
तथाचेति ।
विहितानि तावत् नित्यानि । न च तेषु फलं श्रुतम् । न च विना फलं विधिः । तेन दुरितनिबर्हणार्थानि नित्यानि, इति अर्थापत्त्या कल्प्यते । न च सा युक्ता । काम्यानुष्ठानादपि दुरितनिवृत्तिसम्भवात् इत्यर्थः ।
किञ्च नित्यानि अनुष्ठानायासातिरिक्तफलानि, विहितत्वात् , काम्यवत् , इति अनुमानात् न तेषां दुरितनिवृत्त्यर्थता इति आह -
एवमिति ।
काम्यादिकर्म दृष्टान्तयितुम् एवम् इत्युक्तम् । स्वोक्तिव्याघाताच्च नित्यानुष्ठानात् दुरितफलभोगोक्तिः अयुक्ता इत्याह -
विरोधाच्चेति ।
तदेव प्रपञ्चयति -
विरुद्धं चेति ।
इदंशब्दार्थमेव विशदयति -
नित्येति ।
अन्यस्य कर्मणः दुरितस्य इति यावत् ।
स एवेति ।
यदनन्तरं यत् भवति, तत् तस्य कार्यम् इति नियमात् इत्यर्थः ।
इतश्च नित्यानुष्ठाने दुरितफलभोगः न सिध्यति इति आह -
किञ्चेति ।
काम्यानुष्ठानस्य नित्यानुष्ठानस्य च यौगपद्यात् नित्यानुष्ठानायासदुःखेन दुरितफलभोगवत् काम्यफलस्यापि भुक्तत्वसम्भवात् इति हेतुम् आह -
तत्तन्त्रत्वादिति ।
नित्यकाम्यानुष्ठानयोः यौगपद्येऽपि, नित्यानुष्ठानायासदुःखात् अन्यदेव काम्यानुष्ठानफलं, श्रुतत्वात् इति शङ्कते -
अथेति ।
काम्यानुष्ठानफलं नित्यानुष्ठानायासदुःखात् भिन्नं चेत् , तर्हि काम्यानुष्ठानायासदुःखं नित्यानुष्ठानायासदुःखं च मिथः भिन्नं स्यात् इत्याह -
तदनुष्ठानेति ।
प्रसङ्गस्य इष्टत्वम् आशङ्क्य निराचष्टे -
न चेति ।
दृष्टविरोधमेव स्पष्टयति -
न हीति ।
आत्मज्ञानवत् अग्निहोत्रादीनां मोक्षे साक्षात् अन्वयः न इत्यत्र अऩ्यदपि कारणम् अस्ति इत्याह -
किञ्चान्यदिति ।
तदेव कारणं विवृणोति -
अविहितमिति ।
यत् कर्म मर्दनभोजनादि, तत् न शास्त्रेण विहितं निषिद्धं वा, तत् अनन्तरफलं, तथा अनुभावत् इत्यर्थः ।
शास्त्रीयं कर्म तु न अनन्तरफलं, आनन्तर्यस्य अचोदितत्वात् । अतः ज्ञाने दृष्टफले न अदृष्टफलं कर्म सहकारि भवति नापि स्वयमेव दृष्टफले मोक्षे कर्म प्रवृत्तिक्षमम् , इति विवक्षित्वा आह -
न त्विति ।
शास्त्रीयस्य अग्निहोत्रादेरपि फलानन्तर्ये स्वर्गादीनाम् अनन्तरम् अनुपलब्धिः विरुद्ध्येत । ततः तेषु अदृष्टेऽपि तथाविधफलापेक्षया प्रवृत्तिः अग्निहोत्रादिषु न स्यात् इत्याह -
तदेति ।
किञ्च नित्यानाम् अग्निहोत्रादीनां न अदृष्टं फलं, तेषामेव काम्यानां तादृक् फलम् , न च हेतुं विना अयं विभागः भावी, इत्याह -
अग्निहोत्रादीनामिति ।
फलकामित्वमात्रेणेति ।
न स्यात् इति पूर्वेण सम्बन्धः । यानि नित्यानि अग्निहोत्रादीनि, यानि च काम्यानि, तेषाम् उभयेषामेव कर्मस्वरूपविशेषाभावेऽपि नित्यानां तेषाम् अनुष्ठानायासदुःखमात्रेण क्षयः, न फलान्तरम् अस्ति । तेषामेव काम्यानाम् अङ्गाद्याधिक्याभावेऽपि फलकामित्वम् अधिकारिणि अस्ति इति एतावन्मात्रेण स्वर्गादिमहाफलत्वम् इति अयं विभागः न प्रमाणवान् इत्यर्थः ।
उक्तविभागायोगे फलितम् आह-
तस्मान्नेति ।
काम्यवत् नित्यानामपि पितृलोकाद्यदृष्टफलवत्त्वे दुरितनिवृत्त्यर्थत्वायोगात् तादर्थ्येन आत्मविद्यैव अभ्युपगन्तव्या इत्याह -
अतश्चेति ।
शुभाशुभात्मकं कर्म सर्वम् अविद्यापूर्वकं चेत् अशेषतः तर्हि तस्य क्षयकारणं विद्या इति उपपद्यते । न तु सर्वं कर्म अविद्यापूर्वकम् इति सिद्धम् , इति आशङ्क्य आह –
अविद्येति ।
तत्र हिशब्दद्योतितां युक्तिं दर्शयति -
तथेति ।
इतश्च अविद्वद्विषयं कर्म इति आह -
अविद्वदिति ।
अधिकारिभेदेन निष्ठाद्वयम् इत्यत्र वाक्योपक्रमम् अनुकूलयन् , आत्मनि कर्तृत्वं कर्मत्वं च आरोपयन् , न जानाति आत्मानम् इति वदता कर्म अज्ञानमूलम् इति दर्शितम् इति आह -
उभाविति ।
आत्मानं याथार्थ्येन जानन् कर्तृत्वादिरहितः भवति इति ब्रुवता, कर्मसंन्यासे ज्ञानवतः अधिकारित्वं सूचितम् इति आह -
वेदेति ।
निष्ठाद्वयम् अधिकारिभेदेन बोद्धव्यम् इति अत्रैव वाक्यन्तरम् आह -
ज्ञानेति ।
‘न बुद्धिभेदं जनयेत् ‘ इत्यत्र च अविद्यामूलत्वं कर्मणः सूचयता कर्मनिष्ठा अविद्बद्विषया अनुमोदिता इत्याह -
अज्ञानामिति ।
यत् उक्तं विद्वद्विषया संन्यासपूर्वेिका ज्ञाननिष्ठा इति, तत्र ‘तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । ‘ इत्यादि वाक्यम् उदाहरति -
तत्त्ववित्त्विति ।
तत्रैव वाक्यान्तरं पठति -
सर्वेति ।
विदुषः ज्ञाननष्ठा इत्यत्रैव पाञ्चमिकं वाक्यान्तरम् आह-
नैवेति ।
तत्रैव अर्थसिद्धम् अर्थं कथयति -
अज्ञ इति ।
मन्यते इति सम्बन्धः ।
अज्ञस्य चित्तशुद्ध्यर्थङ्कर्म, शुद्धचित्तस्य कर्मसंन्यासः ज्ञानप्राप्तौ हेतुः इत्यत्र वाक्यान्तरम् आह -
आरुरुक्षोरिति ।
यथोक्ते विभागे साप्तमिकं वाक्यम् अनुगुणम् इति आह -
उदाराः इति ।
एवं त्रयीधर्म इत्यादि नावमिकं वाक्यम् अविद्वद्विषयं कर्म इत्यत्र प्रमाणयति -
अज्ञा इति ।
विदुषः संन्यासपूर्विका ज्ञाननिष्ठा इति अत्रैव नावमिकं वाक्यान्तरम् आह -
अनन्या इति ।
माम् इति एतत् व्याचष्टे-
यथोक्तमिति ।
तेषां सततयुक्तानाम् इत्यादि दाशमिकं वाक्यं तत्रैव प्रमाणयति -
ददामीति ।
विद्यावतामेव भगवत्प्राप्तिनिर्देशात् इतरेषां तदप्राप्तिः सूचिता इति अर्थसिद्धम् अर्थम् आह -
अर्थादिति ।
ननु भगवत्कर्मकारिणां युक्ततमत्वात् , कर्मिणोऽपि भगवन्तं यान्ति इति आशङ्क्य आह -
भगवदिति ।
ये मत्कर्मकृत् इत्यादिन्यायेन भगवत्कर्मकारिणः, ते यद्यपि युक्ततमाः, तथापि कर्मिणः अज्ञाः सन्तः न भगवन्तं सहसा गन्तुम् अर्हन्ति इत्यर्थः ।
तेषाम् अज्ञत्वे गमकं दर्शयति -
उत्तरोत्तरेति ।
चित्तसमाधानम् आरभ्य फलत्यागपर्यन्तं पाठक्रमेण उत्तरोत्तरं हीनसाधनोपादानात् अभ्याससामर्थस्य भगवत्कर्मकारित्वाभिधानात् भगवत्कर्मकारिणाम् अज्ञत्वं विज्ञातम् इत्यर्थः ।
‘ये त्वक्षरमनिर्देश्यं’(भ. गी. १२-३) इत्यादिवाक्यावष्टम्भेन विद्वद्विषयत्वं संन्यासपूर्वकज्ञाननिष्ठायाः निर्धारयति-
अनिर्देश्येति ।
उक्तसाधनाः तेन ते संन्यासपूर्वकज्ञाननिष्ठायाम् अधिक्रियेरन् इति शेषः ।
किञ्च त्रयोदशे यानि अमानित्वादीनि चतुर्दशे च प्रकाशं च प्रवृत्तिं च इत्यादीनि यानि, पञ्चदशे च यानि असङ्गत्वादीनि उक्तानि, तैः सर्वैः साधनैः सहिताः भवन्ति अनिर्देश्याक्षरोपासकाः । ततोऽपि ते ज्ञाननिष्ठायामेव अधिक्रियेरन् इत्याह -
क्षेत्रेति ।
निष्ठाद्वयम् अधिकारिभेदेन प्रतिष्ठाप्य, ज्ञाननिष्ठानाम् अनिष्टम् इष्टं मिश्रम् इति त्रिविधं कर्मफलं न भवति, किन्तु मुक्तिरेव । कर्मनिष्ठानां तु त्रिविधं कर्मफलं न मुक्तिः, इति शास्त्रार्थविभागम् अभिप्रेतम् उपसंहरति -
अधिष्ठानादीति ।
यत् उक्तम् अविद्याकामबीजं सर्वं कर्म इति, तत् न, शास्त्रावगतस्य कर्मणः अविद्यापूर्वकत्वानुपपत्तेः इति आक्षिपति -
अविद्येति ।
दृष्टान्तेन समाधत्ते -
नेति ।
तत्र अभिमतां प्रतिज्ञां विभजते -
यद्यपीति ।
उक्तं दृष्टान्तं व्याचष्टे-
यथेति ।
अविद्यादिमतः ब्रह्महत्यादि कर्म इत्यत्र हेतुम् आह -
अन्यथेति ।
दार्ष्टान्तिकं गृह्णाति -
तथेति ।
तान्यपि अविद्यादिमतः भवन्ति इति अविद्यादिपूर्वकत्वं तेषाम् एषितव्यम् इत्यर्थः ।
पारलौकिककर्मसु देहाद्यतिरिक्तात्मज्ञानं विना प्रवृत्त्ययोगात् , न तेषाम् अविद्यापूर्वकता इति शङ्कते -
व्यतिरिक्त इति ।
सत्यपि व्यतिरिक्तात्मज्ञाने, पारमार्थिकात्मज्ञानाभावात् , मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तेः अविद्यापूर्वकत्वं तेषाम् अप्रतिहतम् इति परिहरति-
नेत्यादिना ।
कर्मणः चलनात्मकत्वात् न आत्मकर्तृकत्वम् । तस्य निष्क्रियत्वात् देहादिसङ्घातस्य तु सक्रियत्वात् तत्कर्तृकं कर्म युक्तम् । तथापि सङ्घाते अहमभिमानद्वारा अहं करोमि इति आत्मनः मिथ्याधीपूर्विका कर्मणि प्रवृत्तिः दृष्टा । तेन अविद्यापूर्वकत्वं तस्य युक्तम् इत्यर्थः ।
यदुक्तं देहादिसङ्घाते अहमभिमानस्य भिथ्याज्ञानत्वं, तत् आक्षिपति -
देहादीति ।
अहन्धियः गौणत्वे, तत्पूर्वककर्मस्वपि गौणत्वापत्तेः, आत्मनः अनर्थाभावात् , तन्निवृत्त्यर्थं हेत्वन्वेषणं न स्यात् इति दूषयति -
नेति ।
एतदेव प्रपञ्चयन् आदौ चोद्यं प्रपञ्चयति -
आत्मीयेति ।
तत्र श्रुत्यवष्टम्भेन दृष्टान्तम् आह-
यथेति ।
दर्शितश्रुतेः आत्मीये पुत्रे अहंप्रत्ययः गौणः, यथा सङ्घातेऽपि आत्मीये अहंप्रत्ययः तथा युक्तः इत्यर्थः ।
भेदधीपूर्वकत्वं गौणधियः लोके प्रसिद्धम् इत्याह -
लोके च इति ।
लोकवेदानुरोधेन आत्मीये सङ्घाते अहन्धारपि गौणः स्यात् , इति दार्ष्टान्तिकम् आह -
तद्वदिति ।
मिथ्याधियोऽपि भेदधीपूर्वकत्वसम्भवात् आत्मनि अहन्धियः मिथ्यात्वमेव किं न स्यात् इति आशङ्क्य आह-
नैवायमिति ।
भेदधीपूर्वकत्वाभावे कथं मिथ्याधीः उदेति ? इति आशङ्क्य आह-
मिथ्येति ।
अधिष्ठानारोप्ययोः विवेकाग्रहात् तदुत्पत्तिः इत्यर्थः ।
देहादौ अहन्धियः गौणता इति चाद्ये विवृते, तत्कार्येष्वपि इत्यादि परिहारं विवृणोति -
नेत्यादिना ।
हेतुभागं विभजते -
यथेति ।
सिंहः देवदत्तः इति वाक्यं, देवदत्तः सिंहः इव इति उपमया, देवदत्तं क्रौर्याद्यधिकरणं स्तोतुं प्रवृत्तम् । ‘अग्निः माणवकः’ इत्यपि वाक्यं, माणवकः अग्निः इव इति उपमया, माणवकस्य पैङ्गल्याधिकरणस्य स्तुत्यर्थमेव । न तथा ‘मनुष्यः अहं’ इति वाक्यस्य अधिकरणस्तुत्यर्थता भाति इत्यर्थः ।
देवदत्तमाणवकयोः अधिकरणत्वं कथम् ? इति आशङ्क्य आह -
क्रौर्येति ।
किञ्च गौणशब्दं तत्प्रत्ययं च निमित्तं कृत्वा सिंहकार्यं न किञ्चित् देवदत्ते साध्यते । नापि माणवके किञ्चित् अग्निकार्यम् । मिथ्याधीकार्यं तु अनर्थम् आत्मा अनुभवति । अतः न देहादौ अहं धीः गौणी, इत्याह -
न त्विति ।
इतोऽपि देहादौ न अहन्धीः गौणी इत्याह -
गौणेति ।
यः देवदत्तः माणवको वा गौण्याः धियः विषयः, तं परः न एषः सिंहः, न अयम् अग्निः इति जानाति । न एवम् अविद्वान् आत्मनः सङ्घातस्य च सत्यपि भेदे, सङ्घातस्य अनात्मत्वं प्रत्येति । अतः न संङ्घाते अहंशब्दप्रत्ययौ गौणौ इत्यर्थः ।
सङ्घाते तयोः गौणत्वे दोषान्तरं समुच्चिनोति -
तथेति ।
तथा सति, आत्मनि कर्तृत्वादिप्रतिभासासिद्धिः इति शेषः ।
गौणेन कृतं, न मुख्येन कृतम् , इति उदाहरणेन स्फुटयति -
न हीति ।
यद्यपि देवदत्तमाणवकाभ्यां कृतं कार्यं मुख्याभ्यां सिंहाग्निभ्यां न क्रियते, तथापि देवदत्तगतक्रौर्येण मुख्यसिंहस्य, माणवकनिष्ठपैङ्गल्येन मुख्याग्नेरिव च सङ्घातगतेनापि जडत्वेन आत्मनः मुख्यस्य किञ्चित् कार्यं कृतं भविष्यति, इति आशङ्क्य आह -
न चेति ।
देहादौ अहन्धियः गौणत्वायोगे हेत्वन्तरम् आह -
स्तूयमानाविति ।
देवदत्तमाणवकयोः सिंहाग्निभ्यां भेदधीपूर्वकं तद्व्यापारवत्त्वाभावधीवत् आत्मनोऽपि मुख्यस्य सङ्घातात् भेदधीद्वारा तदीयव्यापारराहित्यम् आत्मनि दृष्टं स्यात् इत्यर्थः ।
व्यावर्त्यं दर्शयति -
न पुनरिति ।
सङ्घाते अहन्धियः मिथ्याधीत्वेऽपि न तत्कृतम् आत्मनि कर्तृत्वं, किन्तु आत्मीयैः ज्ञानेच्छाप्रयत्नैः अस्य कर्तृत्वं वास्तवम् , इति मतम् अनुवदति -
यच्चेति ।
ज्ञानादिकृतमपि कर्तृत्वं मिथ्याधीकृतमेव, ज्ञानादीनां मिथ्याधीकार्यत्वात् , इति दूषयति -
न तेषामिति ।
तदेव प्रपञ्चयति -
मिथ्येति ।
मिथ्याज्ञानं निमित्तं कृत्वा, किञ्चित् इष्टं, किञ्चित् अनिष्टम् इति आरोप्य तद्द्वारा अनुभूते तस्मिन् , प्रेप्साजिहासाभ्यां क्रियां निर्वर्त्य, तया इष्टम् अनिष्टं च फलं भुक्त्वा, तेन संस्कारेण तत्पूर्विकाः स्मृत्यादयः स्वात्मनि क्रियां कुर्वन्ति इति, युक्तं कर्तृत्वस्य मिथ्यात्वम् इत्यर्थः ।
अतीतानागतजन्मनोरिव वर्तमानेऽपि जन्मनि कर्तृत्वादिसंसारस्य वस्तुत्वम् आशङ्क्य आह-
यथेति ।
विमतौ कालौ अविद्याकृतसंसारवन्तौ, कालत्वात् , वर्तमानकालवत् , इत्यर्थः ।
संसारस्य अविद्याकृतत्वे फलितम् आह -
ततश्चेति ।
तस्य आविद्यत्वेन विद्यापोह्यत्वे हेत्वन्तरम् आह -
अविद्येति ।
कुतः अस्य अविद्याकृतत्वं, धर्माधर्मकृतत्वसम्भवात् ? इति आशङ्क्य आह -
देहादीति ।
आत्मनः धर्मादिकर्तृत्वस्य आविद्यत्वात् , न अविद्यां विना कर्मिणां देहाभिमानः सम्भवति । अतश्च आत्मनः सङ्घाते अहमभिमानस्य आविद्या विद्यमानता इत्यर्थः ।
आत्मनः देहाद्यभिमानस्य आविद्यकत्वम् अन्वयव्यतिरेकाभ्यां साधयन् , व्यतिरेकं दर्शयति -
नहीति ।
अन्वयं दर्शयन् व्यतिरेकम् अनुवदति-
अजानन्निति ।
पुत्रे पितुः अहन्धीवत् आत्मीये देहादौ अहन्धीः गौणी इति उक्तम् अनुवदति -
यस्त्विति ।
तत्र दृष्टान्तश्रुतेः गौणात्मविषयत्वम् उक्तम् अङ्गीकरोति -
स त्विति ।
तर्हि देहादावपि तथैव स्वकीये स्यात् अहन्धीः गौणी इति आशङ्क्य आह -
गौणेनेति ।
न हि स्वकीयेन पुत्रादिना गौणात्मना पितृभोजनादिकार्यं क्रियते । तथा देहादेरपि गौणात्मत्वे, तेन कर्तृत्वादिकार्यम् आत्मनः न वास्तवं सिद्ध्यति इत्यर्थः ।
गौणात्मना मुख्यात्मनः नास्ति वास्तवं कार्यम् इत्यत्र दृष्टान्तम् आह-
गौणेति ।
न हि गौणसिंहेन देवदत्तेन, मुख्यसिंहकार्यं क्रियते । नापि गौणाग्निना माणवकेन मुख्याग्निकार्यं दाहपाकादि । तथा देहादिना गौणात्मना मुख्यात्मनः न वास्तवं कार्यं कर्तृत्वादि कर्तुं शक्यम् इत्यर्थः ।
स्वर्गकामादिवाक्यप्रामाण्यात् , आत्मनः देहाद्यतिरेकज्ञानात् , तस्य च केवलस्य अकर्तृत्वात् , तत्कर्तव्यं कर्म गौणैरेव देहाद्यात्मभिः सम्पाद्यते । न हि सत्येव श्रौतातिरेकज्ञाने, देहादौ आत्मत्वम् आत्मनो मुख्यं युक्तम् , इति चीदयति -
अदृष्टेति ।
न देहादीनाम् आत्मत्वं गौणं, तदीयात्मत्वस्य आविद्यत्वेन मुख्यत्वात् , अतः न गौणात्मभिः आत्मकर्तव्यं कर्म क्रियते, किन्तु मिथ्यात्मभिः, इति परिहरति -
नाविद्येति ।
तदेव विवृण्वन् नञर्थं स्फुटयति -
न च गौणाः इति ।
कथं तर्हि देहादिविषयात्मत्वप्रथा ? इति आशङ्क्य अविद्याकृता इत्यादिहेतुं विभजते -
कथं तर्हीति ।
देहादीनाम् अनात्मनामेव सताम् आत्मत्वं मिथ्याप्रत्ययकृतम् , इत्यत्र अन्वयव्यतिरेकौ उदाहरति -
तद्भाव इति ।
उक्ते अन्वये, शास्त्रीयसंस्कारशून्यानाम् अनुभवं प्रमाणयति -
अविवेकिनाम् इति ।
व्यतिरेकेऽपि दर्शिते शास्त्राभिज्ञानाम् अनुभवम् अनुकूलयति -
न त्विति ।
अन्वयव्यतिरेकाभ्याम् अनुभवानुसारिणां सिद्धम् अर्थम् उपसंहरति-
तस्मादिति ।
तत्कृत एव देहादौ अहम्प्रत्ययः इति शेषः ।
किञ्च व्यवहारभूमौ भेदग्रहस्य गौणत्वव्यापकत्वात् , तस्य प्रकृते अभावात् , न देहादौ अहंशब्दप्रत्ययौ गौणौ इत्याह –
पृथगिति ।
अदृष्टविषयचोदनाप्रामाण्यात् , कर्तुः आत्मनः व्यतिरेकावधारणात् , तस्य देहादौ अहमभिमानस्य गौणता, इत्युक्तम् अनुवदति -
यत्त्विति ।
श्रुतिप्रामाण्यस्य अज्ञातार्थविषयत्वात् , मानान्तरसिद्धे व्यतिरिक्तात्मनि चोदनाप्रामाण्याभावात् , न तदवष्टम्भेन देहादौ आत्माभिमानस्य गौणता, इति उत्तरम् आह -
न तदिति ।
श्रुतिप्रामाण्यस्य अदृष्टविषयत्वं स्पष्टयति -
प्रत्यक्षादीति ।
अज्ञातार्थज्ञापकं प्रमाणम् , इति स्थितेः, न ज्ञाते श्रुतिप्रामाण्यम् , इत्याह -
अदृष्टेति ।
अज्ञातसाध्यसाधनसम्बन्धबोधिनः शास्त्रस्य अतिरिक्तात्मनि औदासीन्ये फलितम् आह -
तस्मादिति ।
अन्वयव्यतिरेकाभ्यां दृष्टः मिथ्याज्ञाननिमित्तः देहादिसङ्घाते अहंप्रत्ययः, तस्य इति यावत् ।
अन्यविषयत्वात् चोदनायाः, न अतिरिक्तात्मविषयता, इति उक्तम् । इदानाीं तद्विषयत्वाङ्गीकारेऽपि न तत् निर्वोढुं शक्यं प्रत्यक्षविरोधात् इत्याह-
न हीति ।
अपौरुषेयायाः श्रुतेः असम्भावितदोषायाः मानान्तरविरोधेऽपि प्रामाण्यम् अप्रत्याख्येयम् , इति अभिप्रेत्य आह -
यदीति ।
स्वार्थं बोधयन्त्याः श्रुतेः अविरोधापेक्षत्वात् , विरुद्धार्थवादित्वे, तत्परिहाराय, विवक्षितम् अर्थान्तरम् अविरुद्धं तस्याः स्वीकर्तव्यम् , विरोधे तत्प्रामाण्यानुपपत्तेः, इत्याह -
तथापीति ।
अविरोधम् अवधार्य श्रुत्यर्थकल्पना न युक्ता, इति व्यावर्त्यम् आह -
नत्विति ।
अविद्यावत्कर्तृकं कर्म इति त्वया उपगमात् उत्पन्नायां विद्यायाम् अविद्याभावे तदधीनकर्तुः अभावात् , अन्तरेण कर्तारम् अनुष्ठानासिद्धौ कर्मकाण्डाप्रामाण्यम् इति अध्ययनविधिविरोधः स्यात् , इति शङ्कते -
कर्मण इति ।
कर्मकाण्डश्रुतेः विद्योदयात् पूर्वं व्यावहारिकप्रामाण्यस्य तात्त्विकप्रामाण्याभावेऽपि सम्भावत् , ब्रह्मकाण्डश्रुतेश्च तात्त्विकप्रामाण्यस्य ब्रह्मविद्याजनकत्वेन उपपन्नत्वात् न अध्ययनविधिविरोधः इति परिहरति -
न ब्रह्मेति ।
कर्मकाण्डश्रुतेः तात्त्विकप्रामाण्याभावे, ब्रह्मकाण्डश्रुतेरपि तदसिद्धिः, अविशेषात् , इति शङ्कते -
कर्मेति ।
उत्पन्नायाः ब्रह्मविद्यायाः बाधकाभावेन प्रमाणत्वात् , तद्धेतुश्रुतेः तात्विकं प्रामाण्यम् , इति दूषयति -
न बाधकेति ।
ब्रह्मविद्यायाः बाधकानुपपत्तिं दृष्टान्तेन साधयति -
यथेति ।
देहादिसङ्घातवत् इति अपेः अर्थः ।
लौकिकावगतेरिव आत्मावगतेरपि फलाव्यतिरेकम् उदाहरणेन स्फोरयति -
यथेति ।
कर्मविधिश्रुतिवत् इति उक्तं दृष्टान्तं विघटयति -
न चेति ।
अनादिकालप्रवृत्तस्वाभाविकप्रवृत्तिव्यक्तीनां प्रतिबन्धेन यागाद्यलौकिकप्रवृत्तिव्यक्तीः जनयति कर्मकाण्डश्रुतिः । तज्जननं च चित्तशुद्धिद्वारा प्रत्यगात्माभिमुख्यप्रवृत्तिम् उत्पादयति । तथा च कर्मविधिश्रुतीनां पारम्पर्येण प्रत्यगात्मज्ञानार्थत्वात् तात्त्विकप्रामाण्यसिद्धिः इत्यर्थः ।
ऩनु एवमपि श्रुतेः मिथ्यात्वात् धूमाभासवत् अप्रामाण्यम् , इति चेत् , न, इत्याह -
मिथ्यात्वेऽपि इति ।
स्वरूपेण असत्यत्वेऽपि सत्योपेयद्वारा प्रामाण्यम् , इत्यत्र दृष्टान्तम् आह -
यथेति ।
मन्त्रार्थवादेतिहासपुराणानां श्रुते अर्थे प्रामाण्याभावेऽपि शेषिविध्यनुरोधेन प्रामाण्यवत् , प्रकृतेऽपि, श्रुतेः स्वरूपेण असत्यायाः विषयसत्यतया सत्यत्वे प्रामाण्यम् अविरुद्धम् इत्यर्थः ।
वाक्यस्य शेषिविध्यनुरोधेन प्रामाण्यं न अलौकिकम् , इत्याह -
लोकेऽपिति ।
कर्मकाण्डश्रुतीनाम् उक्तरीत्या परम्परया प्रामाण्येऽपि, साक्षात् प्रामाण्यम् उपेक्षितम् , इति आशङ्क्य आह -
प्रकारान्तरेति ।
आत्मज्ञानोदयात् प्रागवस्था प्रकारान्तरम् । तत्र स्थितानां कर्मश्रुतीनाम् अज्ञातं सम्बन्धबोधकत्वेन साक्षादेव प्रामाण्यम् इष्टम् , इत्यर्थः ।
ज्ञानात् पूर्वं कर्मश्रुतीनां व्यावहारिकप्रामाण्ये दृष्टान्तम् आह-
प्रागिति ।
प्रातीतिककर्तृत्वस्य आविद्यकत्वेऽपि श्रुतिप्रामाण्यम् अप्रत्यूहम् इत्युक्तम् ।
सम्प्रति कर्तृत्वस्य प्रकारान्तरेण पारमार्थिकत्वम् उत्थापयति -
यत्त्विति ।
स्वव्यापाराभावे सन्निधिमात्रेण कुतः मुख्यं कर्तृत्वम् ? इति आशङ्क्य दृष्टान्तम् आह -
यथेति ।
स्वयम् अयुध्यमानत्वे कथं तत्फलवत्त्वम् ? इति आशङ्क्य, प्रसिद्धिवशात् इत्याह -
जित इति ।
कायिकव्यापाराभावेऽपि कर्तृत्वस्य मुख्यत्वे दृष्टान्तमाह -
सेनापतिरिति ।
तस्यापि फलवत्त्वं राजवत् अविशिष्टम् , इत्याह -
क्रियेति ।
अन्यकर्मणा अन्यस्य सन्निहितस्य मुख्ये कर्तृत्वे वैदिकम् उदाहरणम् आह -
यथा चेति ।
कथम् ऋत्विजां कर्म यजमानस्य ? इति आशङ्क्य आह -
तत्फलस्येति ।
स्वव्यापारादृते सन्निधेरेव अन्यव्यापारहेतोः मुख्यकर्तृत्वे दृष्टान्तान्तरम् आह-
यथा वेति ।
क्रियां कुर्वत् कारणं कारकम् इति अङ्गीकारविगेधात् न एतत् इति दूषयति -
तदसदिति ।
कारकविशेषविषयत्वेन अङ्गीकारोपपत्तिः इति शङ्कते -
कारकमिति ।
स्वव्यापारम् अन्तरेण न किञ्चिदपि कारकम् इति परिहरति -
न राजेति ।
दर्शनमेव विशदयति -
राजेति ।
यथा राज्ञः युद्धे योधयितृत्वेन धनदानेन च मुख्यं कर्तृत्वं, तथा फलभोगेऽपि मुख्यमेव तस्य कर्तृत्वम् , इत्याह -
तथेति ।
यत् उक्तम् , ऋत्विक्कर्म यजमानस्य इति, तत्र आह -
यजमानस्यापीति ।
स्वव्यापारादेव मुख्यं कर्तृत्वम् इति स्थिते फलितम् आह -
तस्मादिति ।
तदेव प्रपञ्चयति -
यदीति ।
तर्हि सन्निधानादेव मुख्यं कर्तृत्वं राजादीनाम् उपगतम् इति ? न इत्याह -
न तथेति ।
राजादीनां स्वव्यापारवत्त्वे पूर्वोक्तं सिद्धम् इत्याह -
तस्मादिति ।
राजप्रभृतीनां सन्निधेरेव कर्तृत्वस्य गौणत्वे जयादिफलवत्त्वस्यापि सिद्धं गौणत्वम् , इत्याह -
तथा चेति ।
तत्र पूर्वोक्तं हेतुत्वेन स्मारयति-
नेति ।
अन्यव्यापारेण अन्यस्य मुख्यकर्तृत्वाभावे फलितम् उपसंहरति-
तस्मादिति ।
कथं तर्हि त्वया आत्मनि कर्तृत्वादि स्वीकृतम् ? न हि बुद्धेः तत् इष्टम् , कर्ता शास्त्रार्थवत्त्वात् इति न्यायात् । तत्र आह -
भ्रान्तीति ।
कर्तृत्वादि आत्मनि भ्रान्तम् इति एतत् उदाहरणेन स्फोरयति -
यथेति ।
मिथ्याज्ञानकृतम् आत्मानि कर्तृत्वादि, इत्यत्र व्यतिरेकं दर्शयति - न चेति । उक्ताव्यतिरेकफलं कथयति -
तस्मादिति ।
संसारभ्रमस्य अविद्याकृतत्वे सिद्धे परमप्रकृतम् उपसंहरति-
इति सम्यक् इति ।
॥ ६६ ॥
शास्त्रीतात्पर्यार्थं विचारद्वारा निर्धार्य अनन्तरश्लोकम् अवतारयति -
सर्वमिति ।
प्रकृते खलु अष्टादशाध्याये गीताशास्त्रीार्थं सर्वं प्रतिपत्तिसौकर्यार्थम् उपसंहृत्य, अन्ते च सर्वधर्मान् परित्यज्य इत्यादौ विशेषतः तस्य सङ्क्षेपेण उपसंहारं कृत्वा सम्प्रदायविधिवचनस्यावसरे सति इदानीम् इति योजना ।
किमिति विस्तरेण उपसंहृतः शास्त्रार्थः सङ्क्षिप्य उपसंह्रियते ? तत्राह -
शास्त्रार्थेति ।
सङ्क्षेपविस्तराभ्याम् उक्तः अर्थः सर्वेषां दृढतया बुद्धिम् अधिरोहति इत्यर्थः ।
हिताय इति एतदेव व्याचष्ठे -
संसारेति ।
कदाचन इति सर्वैः सम्बध्यते ।
प्रतिषेधसामर्थ्यसिद्धम् अर्थं कथयति-
भगवतीति ।
अर्थसिद्धे अर्थे स्मृत्यन्तरम् अनुसृत्य मेधावित्वम् अन्तर्भावयति -
तत्रेति ।
विकल्पदर्शनात् तेषु उक्तेषु विशेषणेषु मेधावित्वमपि प्रविशति इत्यर्थः ।
विकल्पपक्षे कथम् अधिकारिप्रतिपत्तिः ? इति, तत्राह -
शुश्रूषेति ।
ताभ्यां युक्ताय भगवति असूयारहिताय तपस्विने वाच्यम् इति सम्बन्धः । तद्युक्ताय - शुश्रूषाभक्त्यनसूयासहिताय इत्यर्थः ।
तपस्वित्वं मेधावित्वं वा निरपेक्षम् अधिकारिविशेषणम् इति शङ्कां शातयति -
शुश्रुषेति ।
भगवद्विषयासूयाराहित्ये तात्पर्यं सूचयति-
भगवतीति ।
कस्मै तर्हि वाच्यम् एतत् ? इति आशङ्क्य, पूर्वोक्तसर्वगुणसम्पन्नाय, इत्याह -
गुरुशुश्रूषेति ।
अनुक्तेतरविशेषणोपलक्षणार्थम् उभयग्रहणम् । मेधाविनः तपस्वित्वं न अतीव अपेक्षते । सर्वमन्यत् बाधकाभावात् अपेक्षितमेव इति भावः ॥ ६७ ॥
शास्त्रसम्प्रदायप्रवृत्त्यर्थम् उत्तरश्लोकप्रवृत्तिं दर्शयति -
सम्प्रदायस्येति ।
यः इति अध्यापकः निर्दिश्यते ।
परमत्वं ग्रन्थस्य निरतिशयपुरुषार्थसाधनत्वम् इत्याह-
परममिति ।
गोप्यत्वम् अस्य रहस्यार्थविषयत्वात् ।
यथोक्तसंवादस्य ग्रन्थतः अर्थतश्च भक्तेषु स्थापने दृष्टान्तम् आह -
यथेति ।
मयि - वासुदेवे भगवति, अनन्यभक्ते त्वयि यथा मया ग्रन्थः अर्थतः स्थापितः, तथा मद्भक्तेषु अन्येष्वपि यः ग्रन्थम् इमं स्थापयिष्यति, तस्य इदं फलम् इति उत्तरत्र सम्बन्धः ।
न अभक्ताय इति भक्तेः अधिकारिविशेषणत्वोक्तेः मद्भक्तेषु इति पुनः भक्तिग्रहणम् अनर्थकम् इति आशङ्क्य आह -
भक्तेरिति ।
शुश्रूषादिसहकारिराहित्यं केवलशब्दार्थः । यद्यपि मात्रशब्देन सूचितम् एतत् , तथापि इतरेण स्फुटीकृतम् इति अविरोधः ।
प्रश्नपूर्वकम् अभिधानप्रकारम् अभिनयति -
कथम् इत्यादिना ।
भगवति भक्तिकरणप्रकारं प्रकटयति -
भगवत इति ।
यच्छब्दापेक्षितं पूरयति -
तस्येति ।
माम् एष्यत्येव इति अन्वयं गृहीत्वा व्याचष्ठे -
मुच्यत एवेति
॥ ६८ ॥
ननु सर्वेषां मुक्तिसाधनानां ध्यानस्य श्रेष्ठत्वात् , तन्निष्ठस्य मुमुक्षोः नास्ति विद्यासम्प्रदाने प्रवृत्तिः, इति तत्राह -
किं चेति ।
इतश्च विद्यासम्प्रदानं मुमुक्षुणा यथोक्तविशेषणवते कर्तव्यम् इत्यर्थः । वर्तमानेषु मध्ये ततः अन्यः नास्त्येव प्रियकृत्तमः । नापि आतीतेषु तादृक् कश्चित् आसीत् इति शेषः । तस्मात् विद्यासम्प्रदायकर्तुः सकाशात् इत्यर्थः । ध्याननिष्ठस्य श्रेष्ठत्वेऽपि स्वसम्प्रदायप्रवक्तुः श्रेष्ठतमत्वात् उचिता विद्यासम्प्रदाने प्रवृत्तिः इति भावः
॥ ६९ ॥
सम्प्रदायवक्तुः सर्वाधिकं फलं ‘स वक्ता विष्णुरित्युक्तो न स विश्वाधिदैवतम् । ‘इति न्यायेन उक्त्वा सम्प्रति अध्येतुः विवक्षितं फलम् आह -
योऽपीति ।
यथोक्तस्य शास्त्रस्य योऽपि अध्येता, तेन इदं कृतं स्यात् इति सम्बन्धः, तदेव आह-
अध्येष्यते इति ।
तेन इदं कृतम् इत्यत्र इदंशब्दार्थं विशदयति -
ज्ञानेति ।
तेन अहम् इष्टः स्याम् इति सम्बन्धः ।
चतुर्विधानां यज्ञानां मध्ये ज्ञानयज्ञस्य ‘श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः’(भ. गी. ४-३३) इति विशिष्टत्वाभिधानात् , तेन अहम् इष्टः स्याम् इति अध्ययनस्य स्तुतिः अभिमता इत्याह -
विधीति ।
पक्षान्तरम् आह -
फलेति ।
फलविधिमेव प्रकटयति -
देवतादीति ।
यद्धि ज्ञानयज्ञस्य फलं कैवल्यं तेन तुल्यम् अस्य अध्येतुः सम्पद्यते । तच्च देवताद्यात्मत्वम् इत्यर्थः ।
कथम् अध्ययनादेव सर्वात्मत्वं फलं लभ्यते ? ‘तस्मात्सर्वमभवत् ‘ इति श्रुतेः । तत्राह -
तेनेति ।
तेन अध्येत्रा ज्ञानयज्ञतुल्येन अध्ययनेन भगवान् इष्टः । तथा च तज्ज्ञानात् उक्तं फलम् अविरुद्धम् इत्यर्थः
॥ ७० ॥
प्रवक्तुः अध्येतुश्च फलम् उक्त्वा श्रोतुः इदानीं फलं कथयति -
अथेति
॥ ७१ ॥
आचार्येण शिष्याय, यावत् अज्ञानसंशयविपर्यासः, तावत् अनेकधा उपदेष्टव्यम् इति दर्शयितुं भगवन् अर्जुनं पृष्टवान् इत्याह-
शिष्यस्येति ।
प्रष्टुः अभिप्रायं प्रकटयति -
तदग्रहण इति ।
शिष्यश्चेत् उक्तं गृहीतुं न ईष्टे, तर्हि तं प्रति औदासीन्यम् आचार्यस्य उचितम् , तस्य मन्दबुद्धित्वात् , इति आशङ्क्य, आह -
यत्नान्तरमिति ।
कच्चिदिति कोमलप्रश्ने ।
तमेव व्याचष्टे -
किम् एतदिति ।
द्वितीयं किम्पदं पूर्वस्य व्याख्यानतया सम्बध्यते ।
कच्चित् इति द्वितीयं प्रश्नं विभजते -
किं प्रणष्ट इति ।
मोहप्रणाशस्य प्रसङ्गं दर्शयति -
यदर्थ इति
॥ ७२ ॥
प्रेमोपदिष्टात्मज्ञानस्य अज्ञानसन्देहविपर्यासरहितस्य पृष्टस्य भगवदनुग्रहप्राप्तिकथनेन भगवन्तं परितोषयिष्यन् अर्जुनः विज्ञापितवान् इत्याह -
अर्जुन इति ।
अज्ञानोत्थस्य अविवेकस्य नष्टत्वमेव स्पष्टयति -
समस्त इति ।
स्वयञ्ज्योतिषि प्रतीचि ब्रह्मणि अविद्याभ्रमं विद्या अपनयति
। न अविदितं प्रकाशयति इति मत्वा आह-
स्मृतिश्चेति ।
स्मृतिलाभे किं स्यात् ? इति चेत् तत् आह -
यस्या इति ।
मोहनाशे स्मृतिप्रतिलम्भे च असाधारणं कारणम् आह -
त्वत्प्रसादादिति ।
प्रकृतेन प्रश्नप्रतिवचनेन लब्धम् अर्थं कथयति -
अनेनेति ।
यत् उक्तं स्मृतिप्रतिलम्भात् अशेषतः हृदयग्रन्थीनां विप्रमोक्षः स्यात् इति तत्र प्रमाणम् आह -
तथा चेति ।
ज्ञानात् अज्ञानतत्कार्यनिवृत्तौ श्रुत्यन्तरमपि संवादयति -
भिद्यते इति ।
भगवदनुग्रहात् अज्ञानकृतमोहदाहानन्तरम् आत्मज्ञाने प्रतिलब्धे त्वदाज्ञाप्रतीक्षः अहम् इति उत्तरार्धं व्याकरोति -
अथेति ।
तव वचनं करिष्ये अहम् इत्यत्र तात्पर्यम् आह -
अहमिति ।
॥ ७३ ॥
शास्त्रीार्थे समाप्ते सति, अस्याम् अवस्थायां सञ्जयवचनं कुत्र उपयुक्तम् इति तत् आह -
परिसमाप्त इति ।
वासुदेवस्य - सर्वज्ञस्य, कृतार्थस्य पार्थस्य - पृथासुतस्य अर्जुनस्य महात्मनः - अक्षुद्रबुद्धेः सर्वाधिकारिगुणसम्पन्नस्य सम्यञ्चं वादं - संवादं, गुरुशिष्यभावेन प्रश्नप्रतिवचनाभिधानम् इमं - अनुक्रान्तम् अद्भुतं - विस्मयकरं, रोमाणि हृष्यन्ति पुलकीभवन्ति अनेन इति रोमहर्षणं - आह्लादकरं यथोक्तं श्रुतवान् अस्मि इति आह -
इत्येवमिति
॥ ७४ ॥
प्रकृष्टं संवादं कथम् अश्रौषीः इति चेत् तत्र आह -
तं चेति ।
एतत्पदं संवादपरत्वात् पुल्लिङ्गत्वेन नेतव्यम् इत्याह -
एतमिति ।
परमपुरुषार्थोपयिकत्वात् परत्वम् । परं गुह्यम् अतिशयेन गुह्यं रहस्यम् इति वा । योगः - ज्ञानं कर्म च, तदर्थत्वात् अयं संवादः योगः उक्तः ।
अथवा चित्तवृत्तिनिरोधस्य योगस्य अङ्गत्वात् अयं संवादः योगः इत्याह -
संवादमिति ।
योगानाम् ईश्वरः योगेश्वरः, तदनुग्रहहेतुत्वात् योगतत्फलयोः, ततः साक्षात् - अव्यवधानेन श्रुतवान् , न परम्परया, इत्याह -
योगेश्वरादिति ।
स्वयं - स्वेन परमेश्वरेण अतिरस्कृतानैश्वर्यरूपेण, कथयतः - व्याचक्षाणात् इत्यर्थः ॥ ७५ ॥
यथोक्तं संवादं भगवतः श्रुत्वा किम् उपेक्षसे ? न इत्याह -
राजन्निति ।
पुण्यत्वं साधयति -
श्रवणादपीति
॥ ७६ ॥
यत्तु विश्वरूपाख्यं रूपं स्वगुणम् अर्जुनाय भगवान् दर्शितवान् ध्यानार्थं, तत् इदानीं स्तौति-
तच्चेति
॥ ७७ ॥
द्वयोरपि कृष्णार्जुनयोः नरनारायणयोः संवादस्य प्रामाण्यार्थं परमम् उत्कर्षं दर्शयति -
किं बहुनेति ।
कथं सर्वेषां योगानाम् ईश्वरः भगवान् ? इति तत्र आह-
तत्प्रभवत्वादिति ।
राज्ञः धृतराष्ट्रस्य स्वपुत्रेषु विजयाशां शिथिलीकृत्य, पाण्डवेषु जयप्राप्तिम् ऐकान्तिकीम् उपसंहरति -
इत्येवमिति ।
उपायोपेयभावेन निष्ठाद्वयस्य प्रतिष्ठापितत्वात् , कर्मनिष्ठा परम्परया ज्ञाननिष्ठाहेतुः, ज्ञाननिष्ठा तु साक्षादेव मोक्षहेतुः इति शास्त्रार्थम् उपसंहर्तुम् इति इत्युक्तम्
॥ ७८ ॥
काण्डत्रयात्मकं शास्त्रं पदवाक्यार्थगोचरम् ।
आदिमध्यान्तषट्केषु व्याख्याया गोचरीकृतम् ॥ १ ॥
सङ्क्षेपविस्तराभ्यां यो लक्षणैरुपपादितः ।
सोऽर्थोन्तिमेन सङ्क्षिप्य लक्षणेन विवक्षितः ॥ २ ॥
गीताशास्त्रमहार्णवोत्थममृतं वैकुण्ठकण्ठोद्भवं
श्रीकण्ठापरनामवन्मुनिकृतं निष्ठाद्वयद्योतितम् ।
निष्ठा यत्र मतिप्रसादजननी साक्षात्कृतं कुर्वती
मोक्षे पर्यवसास्यति प्रतिदिनं सेवध्वमेतदुबुधाः ॥ ३ ॥
प्राचामाचार्यपादानां पदवीमनुगच्छता ।
गीताभाष्ये कृता टीका टीकतां पुरुषोत्तमम् ॥ ४ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवदुगीताशाङ्करभाष्यव्याख्याने अष्टादशोऽध्यायः ॥ १८ ॥