आनन्दगिरिटीका (गीताभाष्य)
द्वितीयोऽध्यायः (१)
‘अहिंसा परमो धर्मो भिक्षाशनं च ‘ इत्येवंलक्षणया बुद्ध्या युद्धवैमुख्यमर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यैश्वर्यमप्रचलितमवधार्य स्वस्थहृदयं धृतराष्ट्रं दृष्ट्वा तस्य दुराशामपनेष्यामीति मनीषया सञ्जयस्तं प्रत्युक्तवानित्याह -
सञ्जय इति ।
परमेश्वरेण स्मार्यमाणोऽपि कृत्याकृत्ये सहसा नार्जुनः सस्मार, विपर्ययप्रयुक्तस्य शोकस्य दृढतरमोहहेतुत्वात् ।
तथापि तं भगवान् नोपेक्षितवानित्याह -
तं तथेति ।
तं - प्रकृतं पार्थं, तथा - स्वजनमरणप्रसङ्गदर्शनेन कृपया - करुणया आविष्टं - अधिष्ठितम् , अश्रुभिः पूर्णे समाकुले चेक्षणे यस्य तम् , अश्रुव्याप्ततरलाक्षं विषीदन्तं - शोचन्तं इदं - वक्ष्यमाणं वाक्यं - सोपपत्तिकं वचनं मधुनामानमसुरं सूदितवानिति मधुसूदनो भगवानुक्तवान् , न तु यथोक्तमर्जुनमुपेक्षितवानित्यर्थः ॥ १ ॥
किं तद्वाक्यमित्यपेक्षायामाह –
श्रीभगवानिति ।
कुतो - हेतोस्त्वा - त्वां सर्वक्षत्रियप्रवरं कश्मलं - मलिनं शिष्टगर्हितं युद्धात् पराङ्मुखत्वं विषमे - सभयस्थाने समुपस्थितं - प्राप्तम् ? अनार्यैः - शास्त्रार्थमविद्वद्भिर्जुष्टं - सेवितम् , अस्वर्ग्यं - स्वर्गानर्हं - प्रत्यवायकारणम् , इह च अकीर्तिकरम् - अयशस्करम् । अर्जुननाम्ना प्रख्यातस्य तव नैतद्युक्तमित्यर्थः ॥ २ ॥
पुनरपि भगवानर्जुनं प्रत्याह -
क्लैब्यमिति ।
क्लैब्यं - क्लीबभावमधैर्यं, मा स्म गमः - मा गाः । हे पार्थ – पृथातनय । न हि त्वयि - महेश्वरेणापि कृताहवे प्रख्यातपौरुषे महामहिमनि एतदुपपद्यते । क्षुद्रं - क्षुद्रत्वकारणं हृदयदौर्बल्यं - मनसो दुर्बलत्वमधैर्यं त्यक्त्वोत्तिष्ठ - युद्धायोपक्रमं कुरु । हे परन्तप - परं शत्रुं तापयतीति तथा सम्बोध्यते ॥ ३ ॥
एवं भगवता प्रतिबोध्यमानोऽपि शोकाभिभूतचेतस्त्वात् अप्रतिबुध्यमानः सन् अर्जुनः स्वाभिप्रायमेव प्रकृतं भगवन्तं प्रत्युक्तवान् -
कथमित्यादिना ।
भीष्मं पितामहं द्रोणं चाचार्यं सङ्ख्ये - रणे हे मधुसूदन, इषुभिः, यत्र वाचापि योत्स्यामीति वक्तुमनुचितं तत्र कथं बाणैर्योत्स्ये इति भावः । सायकैस्तौ कथं प्रतियोत्स्यामि - प्रतियोत्स्ये ? तौ हि पूजार्हौ - कुसुमादिभिरर्चनयोग्यौ । हे अरिसूदन - सर्वानेव अरीन् अयत्नेन सूदितवानिति भगवानेवं सम्बोध्यते ॥ ४ ॥
राज्ञां धर्मेऽपि युद्धे गुर्वादिवधे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य ब्रूते -
गुरूनिति ।
गुरून् - भीष्मद्रोणादीन् भ्रात्रादींश्चात्र प्राप्तानहिंसित्वा । महानुभावान् - महामाहात्म्यान् श्रुताध्ययनसम्पन्नान् । श्रेयः - प्रशस्यतरं युक्तं भोक्तुं - अभ्यवहर्तुम् । भैक्षं - भिक्षाणां समूहः । भिक्षाशनं नृपादीनां निषिद्धमपि इह लोके - व्यवहारभूमौ । न हि गुर्वादिहिंसया राज्यभोगोऽपेक्ष्यते । किञ्च हत्वा गुर्वादीनर्थकामानेव भुञ्जीय, न मोक्षमनुभवेयम् । इहैव भोगः, न स्वर्गे ।
अर्थकामानेव विशिनष्टि -
भोगानिति ।
भुज्यन्ते इति भोगाः, तान् रुधिरप्रदिग्धान् - लोहितलिप्तानिव अत्यन्तगर्हितान् , अतो भोगान् गुरुवधादिसाध्यान् परित्यज्य भिक्षाशनमेव युक्तमित्यर्थः ॥ ५ ॥
क्षत्रियाणां स्वधर्मत्वाद्युद्धमेव श्रेयस्करमित्याशङ्क्याह -
न चैतदिति ।
एतदपि न जानीमो भैक्षयुद्धयोः कतरन्नोऽस्माकं गरीयः - श्रेष्ठम् , किं भैक्षं हिंसाशून्यत्वात् , उत युद्धं स्ववृत्तित्वात् ? इति । सन्दिग्धा च जयस्थितिः । किं साम्यमेवोभयेषां यद्वा वयं जयेम - अतिशयीमहि, यदि वा नोऽस्मान् धार्तराष्ट्राः - दुर्योधनादयो जयेयुः ? जातोऽपि जयो न फलवान् , यतो यान् बन्धून् हत्वा न जिजीविषामः - जीवितुं नेच्छामः, ते एवावस्थिताः, प्रमुखे - सम्मुखे, धार्तराष्ट्राः - धृतराष्ट्रस्यापत्यानि । तस्माद्भैक्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ॥ ६ ॥
समधिगतसंसारदोषजातस्य अतितरां निर्विण्णस्य मुमुक्षोरुपसन्नस्य आत्मोपदेशसङ्ग्रहणेऽधिकारं सूचयति -
कार्पण्येति ।
योऽल्पां - स्वल्पामपि स्वक्षतिं न क्षमते स कृपणः । तद्विधत्वात् , अखिलोऽनात्मवित् अप्राप्तपरमपुरुषार्थतया कृपणो भवति । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपणः’(बृ. उ. ३-८-१०) इति श्रुतेः । तस्य भावः कार्पण्यं - दैन्यं, तेन दोषेणोपहतः - दूषितः स्वभावः - चित्तमस्येति विग्रहः सोऽहं पृच्छामि - अनुयुञ्जे, त्वा - त्वाम् । धर्मसम्मूढचेताः - धर्मो धारयतीति परं ब्रह्म, तस्मिन् संमूढं - अविवेकतां गतं चेतो यस्य ममेति तथाऽहमुक्तः । किं पृच्छसि ? यन्निश्चितमैकान्तिकमनापेक्षिकं श्रेयः स्यात् , न रोगनिवृत्तिवदनैकान्तिकमनात्यन्तिकम् , स्वर्गवदापेक्षिकं वा, तन्निःश्रेयसं मे - मह्यं ब्रूहि । ‘नापुत्रायाशिष्याय’(श्वे. उ. ६-२२) इति निषेधान्न प्रवक्तव्यमिति मा मंस्थाः । यतः शिष्यस्तेऽहं भवामि । शाधि - अनुशाधि मां निःश्रेयसम् । त्वामहं प्रपन्नोऽस्मि ॥ ७ ॥
कुतो निःश्रेयसमेवेच्छसि तत्राह -
न हीति ।
यस्मान्न प्रपश्यामि । किं न पश्यसि ? ममापनुद्यात् - अपनयेत् । यत् शोकमुच्छोषणं - प्रतपनमिन्द्रियाणां तन्न पश्यामि ।
ननु शत्रून् निहत्य राज्ये प्राप्ते शोकनिवृत्तिस्ते भविष्यति, नेत्याह -
अवाप्येति ।
अविद्यमानः सपत्नः शत्रुर्यस्य तद् दृढं राज्यं - राज्ञः कर्म प्रजारक्षणप्रशासनादि । तदिदमस्यां भूमाववाप्यापि शोकापनयकारणं न पश्यामीत्यर्थः ।
तर्हि देवेन्द्रत्वादिप्राप्त्या शोकापनयस्ते भविष्यति, नेत्याह -
सुराणामपीति ।
तेषामाधिपत्यं - अधिपतित्वं स्वाम्यमिन्द्रत्वं ब्रह्मत्वं वा, तदवाप्यापि मम शोको नापगच्छेदित्यर्थः ॥ ८ ॥
एवमर्जुनेन स्वाभिप्रायं भगवन्तं प्रति प्रकाशितं सञ्जयो राजानमावेदितवानित्याह -
सञ्जय इति ।
एवं प्रागुक्तप्रकारेण भगवन्तं प्रत्युक्त्वा परन्तपोऽर्जुनो न योत्स्ये - न सम्प्रहरिष्ये, अत्यन्तासह्यशोकप्रसङ्गात् इति गोविन्दमुक्त्वा तूष्णीं - अब्रुवन् बभूव, ह किलेत्यर्थः ॥ ९ ॥
तमर्जुनं सेनयोर्वाहिन्योरुभयोर्मध्ये विषीदन्तं - विषादं कुर्वन्तमतिदुःखितं शोकमोहाभ्यामभिभूतं स्वधर्मात् प्रच्युतप्रायं प्रतीत्य प्रहसन्निव - उपहासं कुर्वन्निव, तदाश्वासार्थं हे भारत - भरतान्वय ! इत्येवं सम्बोध्य, भगवानिदं - प्रश्नोत्तरं निःश्रेयसाधिगमसाधनं वचनमूचिवानित्याह -
तमुवाचेति
॥ १० ॥
अतीतसन्दर्भस्येत्थमक्षरोत्थमर्थं विवक्षित्वा तस्मिन्नेव वाक्यविभागमवगमयति -
दृष्ट्वा त्विति ।
‘धर्मक्षेत्रे कुरुक्षेत्रे’(भ. भ. गी. १-१) इत्यादिराद्यश्लोकस्तावदेकं वाक्यम् । शास्रस्य कथासम्बन्धपरत्वेन पर्यवसानात् । ‘दृष्ट्वा’(भ. भ. गी. १-२) इत्यारभ्य यावत् ‘तूष्णीं बभूव ह’(भ. भ. गी. २-९) इति तावच्चैकं वाक्यम् । इत आरभ्य ‘इदं वचः’(भ. भ. गी. २-१०) इत्येतदन्तो ग्रन्थो भवत्यपरं वाक्यमिति विभागः ।
ननु - आद्यश्लोकस्य युक्तमेकवाक्यत्वम् , प्रकृतशास्रस्य महाभारतेऽवतारावद्योतित्वात् , अन्तिमस्यापि सम्भवत्येकवाक्यत्वमर्जुनाश्वासार्थतया प्रवृत्तत्वात् , तन्मध्यमस्य तु कथमेकवाक्यत्वमित्याशङ्क्यार्थैकत्वादित्याह -
प्राणिनामिति ।
शोकः - मानसस्तापः, मोहः - विवेकाभावः । आदिशब्दस्तदवान्तरभेदार्थः । स एव संसारस्य दुःखात्मनो बीजभूतो दोषः, तस्योद्भवे कारणमहङ्कारो ममकारः तद्धेतुरविद्या च तत्प्रदर्शनार्थत्वेनेति योजना ।
सङ्गृहीतमर्थं विवृणोति -
तथा हीति ।
राज्यं - राज्ञः कर्म परिपालनादि । पूजार्हा गुरवः - भीष्मद्रोणादयः । पुत्राः - स्वयमुत्पादिताः सौभद्रादयः । सम्बन्धान्तरमन्तरेण स्नेहगोचरा गुरुपुत्रप्रभृतयो मित्रशब्देनोच्यन्ते । उपकारनिरपेक्षतया स्वयमुपकारिणो हृदयानुरागभाजो भगवत्प्रमुखाः सुहृदः । स्वजनाः - ज्ञातयो दुर्योधनादयः । सम्बन्धिनः - श्वशुरस्यालप्रभृतयो द्रुपदधृष्टद्युम्नादयः । परम्परया पितृपितामहादिष्वनुरागभाजो राजानो बान्धवाः । तेषु यथोक्तं प्रत्ययं निमित्तीकृत्य यः स्नेहो यश्च तैः सह विच्छेदो, यच्चैतेषामुपघाते पातकं या च लोकगर्हा सर्वं तन्निमित्तं ययोरात्मनः शोकमोहयोस्तावेतौ संसारबीजभूतौ ‘कथम् ? ‘(भ. गी. २. ४) इत्यादिना दर्शितावित्यर्थः ।
कथं पुनरनयोः संसारबीजयोरर्जुने सम्भावनोपपद्यते ? न हि प्रथितमहामहिम्नो विवेकविज्ञानवतः स्वधर्मे प्रवृत्तस्य तस्य शोकमोहावनर्थहेतू सम्भावितावित्याशङ्क्य, विवेकतिरस्कारेण तयोर्विहिताकरणप्रतिषिद्धाचरणकारणत्वादनर्थाधायकयोरस्ति तस्मिन् सम्भावनेत्याह
शोकमोहाभ्यामिति ।
भिक्षया जीवनं प्राणधारणम् । आदिशब्दात् अशेषकर्मसंन्यासलक्षणं पारिव्राज्यमात्माभिध्यानमित्यादि गृह्यते ।
किञ्च अर्जुने दृश्यमानौ शोकमोहौ संसारबीजं, शोकमोहत्वात् , अस्मदादिनिष्ठशोकमोहवत् , इति उपलब्धौ शोकमोहौ प्रत्येकं पक्षीकृत्यानुमातव्यमित्याह -
तथा चेति ।
शोकमोहादीत्यादिशब्देन मिथ्याभिमानस्नेहगर्हादयो गृह्यन्ते । स्वभावतः चित्तदोषसामर्थ्यादित्यर्थः ।
अस्मदादीनामपि स्वधर्मे प्रवृत्तानां विहिताकरणाद्यभावात् न शोकादेः संसारबीजतेति दृष्टान्तस्य साध्यविकलतेति चेत् , तत्राह -
स्वधर्म इति
कायादीनामित्यादिशब्दादवशिष्टानीन्द्रियाण्यादीयन्ते । फलाभिसन्धिः - तद्विषयोऽभिलाषः । कर्तृत्वभोक्तृत्वाभिमानः - अहङ्कारः ।
प्रागुक्तप्रकारेण वागादिव्यापारे सति किं सिध्यति ? तत्राह -
तत्रेति ।
शुभकर्मानुष्ठानेन धर्मोपचयादिष्टं देवादिजन्म, ततः सुखप्राप्तिः, अशुभकर्मानुष्ठानेन अधर्मोपचयादनिष्टं तिर्यगादिजन्म, ततो दुःखप्राप्तिः, व्यामिश्रकर्मानुष्ठानादुभाभ्यां धर्माधर्माभ्यां मनुष्यजन्म, ततः सुखदुःखे भवतः । एवमात्मकः संसारः सन्ततो वर्तत इत्यर्थः ।
अर्जुनस्यान्येषां च शोकमोहयोः संसारबीजत्वमुपपादितमुपसंहरति -
इत्यत इति ।
तदेवं प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य आत्माज्ञानोत्थनिवर्तनीयशोकमोहाख्यसंसारबीजप्रदर्शनपरत्वं दर्शयित्वा, वक्ष्यमाणसन्दर्भस्य सहेतुकसंसारनिवर्तकसम्यग्ज्ञानोपदेशे तात्पर्यं दर्शयति -
तयोश्चेति ।
तत् - यथोक्तं ज्ञानम् , उपदिदिक्षुः - उपदेष्टुमिच्छन् भगवानाहेति सम्बन्धः ।
सर्वलोकानुग्रहार्थं यथोक्तं ज्ञानं भगवानुपदिदिक्षतीत्ययुक्तम् , अर्जुनं प्रत्येवोपदेशात् , इत्याशङ्क्याह -
अर्जुनमिति ।
न हि तस्यामवस्थायामर्जुनस्य भगवता यथोक्तं ज्ञानमुपदेष्टुमिष्टम् , किन्तु स्वधर्मानुष्ठानाद् - बुद्धिशुद्ध्युत्तरकालमित्यभिप्रेत्योक्तम् -
निमित्तीकृत्येति ।
सर्वकर्मसंन्यासपूर्वकादात्मज्ञानादेव केवलात् कैवल्यप्राप्तिरिति गीताशास्त्रार्थः स्वाभिप्रेतो व्याख्यातः । सम्प्रति वृत्तिकृतामभिप्रेतं निरसितुमनुवदति -
अत्रेति।
निर्धारितः शास्त्रार्थः सतिसप्तम्या परामृश्यते ।
तेषामुक्तिमेव विवृण्वन् आदौ सैद्धान्तिकमभ्युपगमं प्रत्यादिशति -
सर्वकर्मेति ।
वैदिकेन कर्मणा समुच्चयं व्युदसितुं मात्रपदम् । स्मार्तेन कर्मणा समुच्चयं निरसितुमवधारणम् ।
अभ्याससम्बन्धं धुनीते -
केवलादिति ।
नैवेत्येवकारः सम्बध्यते ।
केन तर्हि प्रकारेण ज्ञानं कैवल्यप्राप्तिकारणम् ? इत्याशङ्क्याह -
किं तर्हीति ।
किं तत्र प्रमापकम् ? इत्याशङ्क्य, इदमेव शास्रमित्याह -
इति सर्वास्विति ।
यथा प्रयाजानुयाजाद्युपकृतमेव दर्शपौर्णमासादि स्वर्गसाधनम् , तथा श्रौतस्मार्तकर्मोपकृतमेव ब्रह्मज्ञानं कैवल्यं साधयति । विमतं सेतिकर्तव्यताकमेव स्वफलसाधकं करणत्वाद् दर्शपौर्णमासादिवत् । तदेवं ज्ञानकर्मसमुच्चयपरं शास्त्रमित्यर्थः ।
इतिपदम् - आहुरित्यनेन पूर्वेण सम्बध्यते । पौर्वापर्यालोचनायां शास्त्रस्य समुच्चयपरत्वं न निर्धारितमित्याशङ्क्याह -
ज्ञापकं चेति ।
न केवलं ज्ञानं मुक्तिहेतुः, अपितु समुच्चितमित्यस्यार्थस्य स्वधर्माननुष्ठाने पापप्राप्तिवचनसामर्थ्यलक्षणं लिङ्गं गमकमित्यर्थः ।
शास्त्रस्य समुच्चयपरत्वे लिङ्गवद्वाक्यमपि प्रमाणमित्याह -
कर्मण्येवेति ।
तत्रैव वाक्यान्तरमुदाहरति -
कुरु कर्मेति ।
ननु - ‘न हिंस्यात् सर्वा भूतानि’ इत्यादिना प्रतिषिद्धत्वेन हिंसादेरनर्थहेतुत्वावगमात् तदुपेतं वैदिकं कर्म अधर्मायेति नानुष्ठातुं शक्यते । तथा च तस्य मोक्षे ज्ञानेन समुच्चयो न सिध्यतीति साङ्ख्यमतमाशङ्क्य परिहरति -
हिंसादीति ।
आदिशब्दादुच्छिष्टभक्षणं गृह्यते ।
यथोक्ता शङ्का न कर्तव्येत्यत्र आकाङ्क्षापूर्वकं हेतुमाह -
कथमित्यादिना ।
स्वशब्देन क्षत्रियो विवक्ष्यते ।
युद्धाकरणे क्षत्रियस्य प्रत्यवायश्रवणात् तस्य तं प्रति नित्यत्वेन अवश्यकर्तव्यत्वप्रतीतेर्गुर्वादिहिंसायुक्तमतिक्रूरमपि कर्म न अधर्मायेति हेत्वन्तरमाह -
तदकरणे चेति ।
आचार्यादिहिंसायुक्तमतिक्रूरमपि युद्धं न अधर्मायेति ब्रुवता भगवता श्रौतानां हिंसादियुक्तानामपि कर्मणां दूरतो न अधर्मत्वमिति स्पष्टमुपदिष्टं भवति । सामान्यशास्त्रस्य व्यर्थहिंसानिषेधार्थत्वात् क्रतुविषये चोदितहिंसायास्तदविषयत्वात् कुतो वैदिककर्मानुष्ठानानुपपत्तिरित्यर्थः । ज्ञानकर्मसमुच्चयात् कैवल्यसिद्धिरित्युपसंहर्तुं इतिशब्दः ।
यत् तावत् ‘ब्रह्मज्ञानं सेतिकर्तव्यताकं, स्वफलसाधकं, करणत्वात्’ इत्यनुमानं तद्दूषयति -
तदसदिति ।
न हि शुक्तिकादिज्ञानमज्ञाननिवृत्तौ स्वफले सहकारि किञ्चिदपेक्षते, तथा च व्यभिचारादसाधकं करणत्वमित्यर्थः ।
यत्तु - गीताशास्त्रे समुच्चयस्यैव प्रतिपाद्यतेति प्रतिज्ञातम् , तदपि विभागवचनविरुद्धमित्याह -
ज्ञानेति ।
साङ्ख्यबुद्धिर्योगबुद्धिश्चेति बुद्धिद्वयम् । तत्र साङ्ख्यबुद्ध्याश्रयां ज्ञाननिष्ठां व्याख्यातुं साङ्ख्यशब्दार्थमाह -
अशोच्यानित्यादिनेति ।
‘अशोच्यान्’(भ. भ. गी. २-११) इत्यादि ‘स्वधर्ममपि चावेक्ष्य’(भ. भ. गी. २-३१) इत्येतदन्तं वाक्यं यावद्भविष्यति तावता ग्रन्थेन यत् परमार्थभूतमात्मतत्त्वं भगवता निरूपितम् , तत् यया सम्यक् ख्यायते - प्रकाश्यते सा वैदिकी सम्यग्बुद्भिः सङ्ख्या । तया प्रकाश्यत्वेन सम्बन्धि प्रकृतं तत्त्वं साङ्ख्यमित्यर्थः ।
साङ्ख्यशब्दार्थमुक्तवा तत्प्रकाशिकां बुद्धिं तद्वतश्च साङ्ख्यान् व्याकरोति -
तद्विषयेति ।
तद्विषया बुद्धिः साङ्ख्यबुद्धिरिति सम्बन्धः ।
तामेव प्रकटयति -
आत्मन इति ।
‘न जायते म्रियते वा’(भ. भ. गी. २-२०) इत्यादिप्रकरणार्थनिरूपणद्वारेण आत्मनः षड्भावविक्रियाऽसम्भवात् कूटस्थोऽसाविति या बुद्धिरुत्पद्यते सा साङ्ख्यबुद्धिः, तत्पराः संन्यासिनः साङ्ख्या इत्यर्थः ।
सम्प्रति योगबुद्ध्याश्रयां कर्मनिष्ठां व्याख्यातुकामो योगशब्दार्थमाह -
एतस्या इति ।
यथोक्तबुद्ध्युत्पत्तौ विरोधादेवानुष्ठानायोगात् तस्यास्तन्निवर्तकत्वात् पूर्वमेव तदुत्पत्तेरात्मनो देहादिव्यतिरिक्तत्वाद्यपेक्षया धर्माधर्मौ निष्कृष्य तेन ईश्वराराधनरूपेण कर्मणा पुरुषो मोक्षाय युज्यते - योग्यः सम्पद्यते । तेन मोक्षसिद्धये परम्परया साधनीभूतप्रागुक्तधर्मानुष्ठानात्मको योग इत्यर्थः ।
अथ योगबुद्धिं विभजन् योगिनो विभजते -
तद्विषयेति ।
उक्ते बुद्धिद्वये भगवतोऽभिमतिं दर्शयति -
तथा चेति ।
साङ्ख्यबुद्ध्याश्रया ज्ञाननिष्ठेत्येतदपि भगवतोऽभिमतमित्याह -
तयोश्चेति ।
ज्ञानमेव योगो ज्ञानयोगः । तेन हि ब्रह्मणा युज्यते - तादात्म्यमापद्यते । तेन संन्यासिनां निष्ठा - निश्चयेन स्थितिस्तात्पर्येण परिसमाप्तिः, तां कर्मनिष्ठातो व्यतिरिक्तां निष्ठयोर्मध्ये निष्कृष्य भगवान् वक्ष्यतीति योजना । ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानाम्’(भ. भ. गी. ३-३) इत्येतद्वाक्यमुक्तार्थविषयमर्थतोऽनुवदति -
पुरेति ।
योगबुद्ध्याश्रया कर्मनिष्ठेत्यत्रापि भगवदनुमतिमादर्शयति -
तथा चेति ।
कर्मैव योगः कर्मयोगः । तेन हि बुद्धिशुद्धिद्वारा मोक्षहेतुज्ञानाय पुमान् युज्यते । तेन निष्ठां कर्मिणां ज्ञाननिष्ठातो विलक्षणां कर्मयोगेनेत्यादिना वक्ष्यति भगवानिति योजना ।
निष्ठाद्वयं बुद्धिद्वयाश्रयं भगवता विभज्योक्तमुपसंहरति -
एवमिति ।
कया पुनरनुपपत्त्या भगवता निष्ठाद्वयं विभज्योक्तम् ? इत्याशङ्क्याह -
ज्ञानकर्मणोरिति ।
कर्म हि कर्तृत्वानेकत्वबुद्ध्याश्रयम् , ज्ञानं पुनरकर्तृत्वैकत्वबुद्ध्याश्रयम् । तदुभयमित्थं विरुद्धसाधनसाध्यत्वात् न एकावस्थस्यैव पुरुषस्य सम्भवति । अतो युक्तमेव तयोर्विभागवचनमित्यर्थः ।
भगवदुक्तविभागवचनस्य मूलत्वेन श्रुतिमुदाहरति-
यथेति ।
तत्र ज्ञाननिष्ठाविषयं वाक्यं पठति -
एतमेवेति ।
प्रकृतमात्मानं नित्यविज्ञप्तिस्वभावं वेदितुमिच्छन्तः त्रिविधेऽपि कर्मफले वैतृष्ण्यभाजः सर्वाणि कर्माणि परित्यज्य ज्ञाननिष्ठा भवन्तीति पञ्चमलकारस्वीकारेण संन्यासविधिं विवक्षित्वा, तस्यैव विधेः शेषेणार्थवादेन ‘किं प्रजया’(बृ. उ. ४-४-२२) इत्यादिना मोक्षफलं ज्ञानमुक्तमित्यर्थः ।
ननु - फलाभावात् प्रजाक्षेपो नोपपद्यते, पुत्रेणैतल्लोकजयस्य वाक्यान्तरसिद्धत्वात् , इत्याशङ्क्य, विदुषां प्रजासाध्यमनुष्यलोकस्य आत्मव्यतिरेकेणाभावात् , आत्मनश्चासाध्यत्वादाक्षेपो युक्तिमानिति विवक्षित्वाह -
येषामिति ।
इति ज्ञानं दर्शितमिति शेषः ।
तस्मिन्नेव ब्राह्मणे कर्मनिष्ठाविषयं वाक्यं दर्शयति -
तत्रैवेति ।
प्राकृतत्वम् - अतत्त्वदर्शित्वेनाज्ञत्वम् । स च ब्रह्मचारी सन् गुरुसमीपे यथाविधि वेदमधीत्य अर्थज्ञानार्थं धर्मजिज्ञासां कृत्वा तदुत्तरकालं लोकत्रयप्राप्तिसाधनं पुत्रादित्रयं ‘सोऽकामयत जाया मे स्यात्’(बृ. उ. १-४-१७) इत्यादिना कामितवानिति श्रुतमित्यर्थः ।
वित्तं विभजते -
द्विप्रकारमिति ।
तदेव प्रकारद्वैरूप्यमाह -
मानुषमिति ।
मानुषं वित्तं व्याचष्टे -
कर्मरूपमिति ।
तस्य फलपर्यवसायित्वमाह -
पितृलोकेति ।
दैवं वित्तं विभजते -
विद्यां चेति ।
तस्यापि फलनिष्ठत्वमाह -
देवेति ।
कर्मनिष्ठाविषयत्वेनोदाहृतश्रुतेस्तात्पर्यमाह -
अविद्येति ।
अज्ञस्य कामनाविशिष्टस्यैव कर्माणि ‘सोऽकामयत’(बृ. उ. १-४-१७) इत्यादिना दर्शितानीत्यर्थः ।
ज्ञाननिष्ठाविषयत्वेन दर्शितश्रुतेरपि तात्पर्यं दर्शयति -
तेभ्य इति ।
कर्मसु विरक्तस्यैव संन्यास - पूर्विका ज्ञाननिष्ठा प्रागुदाहृतश्रुत्या दर्शितेत्यर्थः ।
अवस्थाभेदेन ज्ञानकर्मणोर्भिन्नाधिकारत्वस्य श्रुतत्वात् तन्मूलेन भगवतो विभागवचनेन शास्त्रस्य समुच्चयपरत्वं प्रतिज्ञातमपबाधितमिति साधितम् । किञ्च समुच्चयो ज्ञानस्य श्रौतेन, स्मार्तेन वा कर्मणा विवक्ष्यते ? यदि प्रथमस्तत्राह -
तदेतदिति ।
समुच्चयेऽभिप्रेते प्रश्नानुपपत्तिं दोषान्तरमाह
न चेति ।
तामेवानुपपत्तिं प्रकटयति-
एकपुरुषेति ।
यदि समुच्चयः शास्त्रार्थो भगवता विवक्षितः तदा ज्ञानकर्मणोरेकेन पुरुषेणानुष्ठेयत्वमेव तेनोक्तमर्जुनेन च श्रुतम् । तत् कथं तदसम्भवमनुक्तमश्रुतं च मिथ्यैव श्रोता भगवत्यारोपयेत् ? न च तदारोपादृते किमिति मां कर्मण्येव अतिक्रूरे युद्धलक्षणे नियोजयसीति प्रश्नोऽवकल्पते । तथा च प्रश्नालोचनया प्रष्टृप्रतिवक्त्रोः शास्त्रार्थतया समुच्चयोऽभिप्रेतो न भवतीति प्रतिभातीत्यर्थः ।
किञ्च समुच्चयपक्षे कर्मापेक्षया बुद्धेर्ज्यायस्त्वं भगवता पूर्वमनुक्तमर्जुनेन चाश्रुतं कथमसौ तस्मिन्नारोपयितुमर्हति ? ततश्चानुवादवचनं श्रोतुरनुचितमित्याह -
बुद्धेश्चेति ।
इतश्च समुच्चयः शास्त्रार्थो न सम्भवति, अन्यथा पञ्चमादावर्जुनस्य प्रश्नानुपपत्तेरित्याह -
किञ्चेति ।
ननु - सर्वान् प्रत्युक्तेऽपि समुच्चये, नार्जुनं प्रत्युक्तोऽसाविति तदीयप्रश्नोपपत्तिरित्याशङ्क्याह -
यदीति ।
एतयोः - कर्मतत्त्यागयोरिति यावत् ।
ननु - कर्मापेक्षया कर्मत्यागपूर्वकस्य ज्ञानस्य प्राधान्यात् तस्य श्रेयस्त्वात् तद्विषयप्रश्नोपपत्तिरिति चेत् , नेत्याह -
न हीति ।
तथैव समुच्चये पुरुषार्थसाधने भगवता दर्शिते सत्यन्यतरगोचरो न प्रश्नो भवतीति शेषः ।
समुच्चये भगवतोक्तेऽपि तदज्ञानादर्जुनस्य प्रश्नोपपत्तिरिति शङ्कते -
अथेति ।
अज्ञाननिमित्तं प्रश्नमङ्गीकृत्यापि प्रत्याचष्टे -
तथापीति ।
भगवतो भ्रान्त्यभावेन पूर्वापरानुसन्धानसम्भवादित्यर्थः ।
प्रश्नानुरूपत्वमेव प्रतिवचनस्य प्रकटयति -
मयेति ।
व्यावर्त्यमंशमादर्शयति -
न त्विति ।
प्रतिवचनस्य प्रश्नाननुरूपत्वमेव स्पष्टयति -
पृष्टादिति ।
.श्रौतेन कर्मणा समुच्चयो ज्ञानस्येति पक्षं प्रतिक्षिप्य पक्षान्तरं प्रतिक्षिपति -
नापीति ।
श्रुतिस्मृत्योर्ज्ञानकर्मणोर्विभागवचनं आदिशब्दगृहीतं बुद्धेर्ज्यायस्त्वं, पञ्चमादौ प्रश्नः, भगवत्प्रतिवचनं, सर्वमिदं श्रौतेनेव स्मार्तेनापि कर्मणा बुद्धेः समुच्चये विरुद्धं स्यादित्यर्थः ।
द्वितीयपक्षासम्भवे हेत्वन्तरमाह -
किञ्चेति ।
समुच्चयपक्षे प्रश्नप्रतिवचनयोरसम्भवात् नेदं गीताशास्त्रं तत्परमित्युपसंहरति -
तस्मादिति ।
विशुद्धब्रह्मात्मज्ञानं स्वफलसिद्धौ न सहकारिसापेक्षम् , अज्ञाननिवृत्तिफलत्वात् , रज्ज्वादितत्त्वज्ञानवत् । अथवा - बन्धः सहायानपेक्षेण ज्ञानेन निवर्त्यते, अज्ञानात्मकत्वात् , रज्जुसर्पादिवदिति भावः ।
ननु - ‘कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम्’(भ. भ. गी. ३-२५) इति वक्ष्यमाणत्वात् कथं गीताशास्त्रे समुच्चयो नास्ति ? तत्राह -
यस्य त्विति ।
चोदनासूत्रानुसारेण विधितोऽनुष्ठेयस्य कर्मणो धर्मत्वात् , व्यापारमात्रस्य तथात्वाभावात् तत्त्वविदश्च वर्णाश्रमाभिमानशून्यस्य अधिकारप्रतिपत्त्यभावात् , यागादिप्रवृत्तीनामविद्यालेशतो जायमानानां कर्माभासत्वात् , ‘कुर्याद्विद्वान्’(भ. भ. गी. ३-२५) इत्यादिवाक्यं न समुच्चयप्रापकमिति भावः । वाशब्दश्चार्थे । द्वितीयस्तु विविदिषावाक्यस्थसाधनान्तरसङ्ग्रहार्थः ।
सांसारिकं ज्ञानं व्यावर्तयति -
परमार्थेति ।
तदेवाभिनयति -
एकमिति ।
प्रवृत्तिरूपमिति रूपग्रहणमाभासत्वप्रदर्शनार्थम् । कर्माभाससमुच्चयस्तु यादृच्छिकत्वात् न मोक्षं फलयतीति शेषः ।
किञ्च, ज्ञानिनो यागादिप्रवृत्तिर्न ज्ञानेन तत्फलेन समुच्चीयते, फलाभिसन्धिविकलप्रवृत्तित्वात् अहङ्कारविधुरप्रवृत्तित्वाद्वा भगवत्प्रवृत्तिवदित्याह -
यथेति ।
हेतुद्वयस्यासिद्धिमाशङ्क्य परिहरति -
तत्त्वविदिति ।
कूटस्थं ब्रह्मैवाहमिति मन्वानो विद्वान् प्रवृत्तिं तत्फलं वा नैव स्वगतत्वेन पश्यति, रूपादिवद् दृश्यस्य द्रष्टृधर्मत्वायोगात् । किन्तु कार्यकरणसङ्घातगतत्वेनैव प्रवृत्त्यादि प्रतिपद्यते । ततस्तत्त्वविदो व्याख्यानभिक्षाटनादावहङ्कारस्य तृप्त्यादिफलाभिसन्धेश्च आभासत्वात् नासिद्धं हेतुद्वयमित्यर्थः ।
ननु - ज्ञानोदयात् प्रागवस्थायामिवोत्तरकालेऽपि प्रतिनियतप्रवृत्त्यादिदर्शनात् न तत्त्वदर्शिनिष्ठप्रवृत्त्यादेराभासत्वमिति, तत्राह -
यथा चेति ।
स्वर्गादिरेव काम्यमानत्वात् कामः, तदर्थिनः - स्वर्गादिकामस्य अग्निहोत्रादेरपेक्षितस्वर्गादिसाधनस्यानुष्ठानार्थमग्निमाधाय व्यवस्थितस्य तस्मिन्नेव काम्ये कर्मणि प्रवृत्तस्य अर्धकृते केनापि हेतुना कामे विनष्टे तदेवाग्निहोत्रादि निर्वर्तयतो न तत् काम्यं भवति, नित्यकाम्यविभागस्य स्वाभाविकत्वाभावात् , कामोपबन्धानुपबन्धकृतत्वात् । तथा विदुषोऽपि विध्यधिकाराभावात् यागादिप्रवृत्तीनां कर्माभासतेत्यर्थः ।
विद्वत्प्रवृत्तीनां कर्माभासत्वमित्यत्र भगवदनुमतिमुपन्यस्यति -
तथा चेति ।
ननु - विद्वद्व्यापारेऽपि कर्मशब्दप्रयोगदर्शनात् तद्व्यापारस्य कर्माभासत्वानुपपत्तेः समुच्चयसिद्धिरिति, तत्राह -
यच्चेति ।
ज्ञानकर्मणोः समुच्चित्यैव संसिद्धिहेतुत्वे प्रतिपन्ने कुतो विभज्य अर्थज्ञानमिति पृच्छति -
तत्कथमिति ।
तत्र, ‘किं जनकादयोऽपि तत्त्वविदः प्रवृत्तकर्माणः स्युः, आहोस्विदतत्त्वविदः ? ‘ इति विक्ल्प्य, प्रथमं प्रत्याह -
यदीति ।
तत्त्ववित्त्वे कथं प्रवृत्तकर्मत्वम् , कर्मणामकिञ्चित्करत्वात् , इत्याशङ्क्याह -
ते लोकेति ।
तेषामुक्तप्रयोजनार्थमपि न प्रवृत्तिर्युक्ता सर्वत्राप्युदासीनत्वात् , इत्याशङ्क्याह -
गुणा इति ।
इन्द्रियाणां विषयेषु प्रवृत्तिद्वारा तत्त्वविदां प्रवृत्तकर्मत्वेऽपि ज्ञानेनैव तेषां मुक्तिरित्याह -
ज्ञानेनेति ।
उक्तमेवार्थं सङ्क्षिप्य दर्शयति -
कर्मेति
कर्मणेत्यादौ बाधितानुवृत्त्या प्रवृत्त्याभासो गृह्यते ।
द्वितीयमनुवदति -
अथेति ।
तत्र वाक्यार्थं कथयति -
ईश्वरेति ।
विभज्य विज्ञेयत्वं वाक्यार्थस्योक्तमुपसंहरति -
इति व्याख्येयमिति ।
कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वमित्युक्तेऽर्थे वाक्यशेषं प्रमाणयति -
एतमेवेति ।
‘योगिनः कर्म कुर्वन्ति’(भ. भ. गी. ५-११) इत्यादिवाक्यमर्थतोऽनुवदति -
सत्त्वेति ।
‘स्वकर्मणा’(भ. भ. गी. १८-४६) इत्यादौ साक्षादेव मोक्षहेतुत्वं कर्मणां वक्ष्यतीत्याशङ्क्याह -
स्वकर्मणेति ।
स्वकर्मानुष्ठानादीश्वरप्रसादद्वारा ज्ञाननिष्ठायोग्यता लभ्यते । ततो ज्ञाननिष्ठया मुक्तिः । तेन न साक्षात् कर्मणां मुक्तिहेतुतेत्यग्रे स्फुटीभविष्यतीत्यर्थः ।
तत्त्वज्ञानोत्तरकालं कर्मासम्भवे फलितमुपसंहरति -
तस्मादिति ।
ननु - यद्यपि गीताशास्त्रं तत्त्वज्ञानप्रधानमेकं वाक्यम् , तथापि तन्मध्ये श्रूयमाणं कर्म तदङ्गमङ्गीकर्तव्यम् , प्रकरणप्रामाण्यात् इति समुच्चयसिद्धिः, तत्राह -
यथा चेति ।
अर्थशब्देन आत्मज्ञानमेव केवलं कैवल्यहेतुरिति गृह्यते ।
वृत्तिकृतामभिप्रायं प्रत्याख्याय, स्वाभिप्रेतः शास्त्रार्थः समर्थितः । सम्प्रति ‘अशोच्यान्’(भ. भ. गी. २-११) इत्यस्मात् प्राक्तनग्रन्थसन्दर्भस्य प्रागुक्तं तात्पर्यार्थमनूद्य ‘अशोच्यान्’ इत्यादेः ‘स्वधर्ममपि चावेक्ष्य’(भ. भ. गी. २-३१) इत्येतदन्तस्य समुदायस्य तात्पर्यमाह -
तत्रेति ।
अत्र हि शास्त्रे त्रीणि काण्डानि । अष्टादशसङ्ख्याकानामध्यायानां षट्कत्रितयमुपादाय त्रैविध्यात् । तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति । मध्यमषट्करूपं मध्यमकाण्डं तत्पदार्थं गोचरयति । अन्तिमषट्कलक्षणमन्तिमं काण्डं पदार्थयोरैक्यं वाक्यार्थमधिकरोति । तज्ज्ञानसाधनानि च तत्र तत्र प्रसङ्गादुपन्यस्यन्ते, तज्ज्ञानस्य तदधीनत्वात् । तत्त्वज्ञानमेव केवलं कैवल्यसाधनमिति च सर्वत्राविगीतम् । एवं पूर्वोक्तरीत्या गीताशास्त्रार्थे परिनिश्चिते सतीति यावत् । धर्मे संमूढं - कर्तव्याकर्तव्यविवेकविकलं चेतो यस्य तस्य, मिथ्याज्ञानवतः अहङ्कारममकारवतः शोकाख्यसागरे दुरुत्तारे प्रविश्य क्लिश्यतो ब्रह्मात्मैक्यलक्षणवाक्यार्थज्ञानं आत्मज्ञानं, तदतिरेकेणोद्धरणासिद्धेः तं अतिभक्तमतिस्निग्धं शोकादुद्धर्तुमिच्छन् भगवान् यथोक्तज्ञानार्थं तमर्जुनमवतारयन् - पदार्थपरिशोधने प्रवर्तयन् , आदौ त्वम्पदार्थं शोधयितुमशोच्यानित्यादिवाक्यमाहेति योजना ।
तदेव वचनमुदाहरति -
श्रीभगवानिति ।
यस्य अज्ञानं तस्य भ्रमः, यस्य भ्रमस्तस्य पदार्थपरिशोधनपूर्वकं सम्यग्ज्ञानं वाक्यादुदेतीति ज्ञानाधिकारिणमभिप्रेत्याह -
अशोच्यानित्यादीति ।
यत्तु - कैश्चित् , ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २-४-५) इत्याद्यात्मयाथात्म्यदर्शनविधिवाक्यार्थमनेन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तम् , तदयुक्तम् । कृतियोग्यतैकार्थसमवेतश्रेयःसाधनताया वा पराभिमतनियोगस्य वा विध्यर्थस्य अत्र अप्रतीयमानस्य कल्पनाहेत्वभावात् । न च दर्शने पुरुषतन्त्रत्वरहिते विधेययागादिविलक्षणे विधिरुपपद्यते । कृत्यान्तर्भूतस्यार्हार्थत्वात् । तव्यो न विधिमधिकरोतीत्यभिप्रेत्य व्याचष्टे -
न शोच्या इति ।
कथं तेषामशोच्यत्वमित्युक्ते भीष्मादिशब्दवाच्यानां वा शोच्यत्वम् , तत्पदलक्ष्याणां वेति विकल्प्य, आद्यं दूषयति -
सद्वृत्तत्वादिति ।
ये भीष्मादिशब्दैरुच्यन्ते, ते श्रुतिस्मृत्युदीरिताविगीताचारवत्त्वात् न शोच्यतामश्नुवीरन्नित्यर्थः ।
द्वितीयं प्रत्याह -
परमार्थेति ।
अरजते रजतबुद्धिवत् अशोच्येषु शोच्यबुद्ध्या भ्रान्तोऽसीत्याह -
तानिति ।
अनुशोचनप्रकारमभिनयन् भ्रान्तिमेव प्रकटयति -
ते म्रियन्त इति ।
पुत्रभार्यादिप्रयुक्तं सुखमादिशब्देन गृह्यते । इत्यनुशोचितवानसीति सम्बन्धः ।
विरुद्धार्थाभिधायित्वेनापि भ्रान्तत्वमर्जुनस्य साधयति -
प्रज्ञावतामिति ।
वचनानि - ‘उत्सन्नकुलधर्माणाम्’(भ. भ. गी. १-४४) इत्यादीनि ।
किमेतावता फलितमिति तदाह -
तदेतदिति ।
तत् मौढ्यं - अशोच्येषु शोच्यदृष्टित्वम् । एतत् पाण्डित्यं - बुद्धिमतां वचनभाषित्वमिति यावत् ।
अर्जुनस्य पूर्वोक्तभ्रान्तिभाक्त्वे निमित्तमात्माज्ञानमित्याह -
यस्मादिति ।
ननु - सूक्ष्मबुद्धिभाक्त्वमेव पाण्डित्यं न त्वात्मज्ञत्वं, हेत्वभावात् , इत्याशङ्क्याह -
ते हीति ।
पाण्डित्यं - पण्डितभावमात्मज्ञानं, निर्विद्य - निश्चयेन लब्ध्वा, ‘बाल्येन तिष्ठासेत्’(बृ. उ. ३-५-१) इति बृहदारण्यकश्रुतिमुक्तर्थामुदाहरति -
पाण्डित्यमिति ।
यथोक्तपाण्डित्यराहित्यं कथं ममावगतमित्याशङ्क्य, कार्यदर्शनादित्याह -
परमार्थतस्त्विति ।
यस्मादित्यस्यापेक्षितं दर्शयति -
अत इति
॥ ११ ॥
नित्यत्वमशोच्यत्वे कारणमिति सूचितं विवेचयितुं प्रश्नपूर्वकं प्रतिजानीते -
कुत इत्यादिना ।
नित्यत्वमसिद्धं प्रमाणाभावात् इति चोदयति -
कथमिति ।
आत्मा न जायते प्रागभावशून्यत्वात् , नरविषाणवदिति परिहरति -
न त्वेवेति ।
किञ्च आत्मा नित्यः, भावत्वे सत्यजातत्वात् व्यतिरेकेण घटवत् इत्यनुमानान्तरमाह -
न चैवेति ।
यत्तु - कैश्चित् आत्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति न त्वित्यादिना श्लोकचतुष्टयेन इत्यादिष्टम् , तदसत् । विशेषवचने हेत्वभावात् , सर्वत्रैव आत्मयाथात्म्यप्रतिपादनाविशेषात् इत्याशयेन ।
‘पदच्छेदः पदार्थोक्तिर्वाक्ययोजना’ इति त्रितयमपि व्याख्यानाङ्गं सम्पादयति -
न त्वित्यादिना ।
ननु - आत्मनो देहोत्पत्तिविनाशयोरुत्पत्तिविनाशप्रसिद्धेरुक्तमनुमानद्वयं प्रसिद्धिविरुद्धतया कालात्ययापदिष्टमिति, नेत्याह -
अतीतेष्विति ।
‘चराचरव्यपाश्रयस्तु स्यात्’(ब्र. सू. २-३-१६) इति न्यायेन आत्मनो जन्मविनाशप्रसिद्धेरौपाधिकजन्यविनाशविषयत्वात् निरुपाधिकस्य तस्य जन्मादिराहित्यमिति भावः ।
यद्यपि तवेश्वरस्य जन्मराहित्यं, तथापि कथं मम ? इत्याशङ्क्याह -
तथेति ।
तथापि भीष्मादीनां कथं जन्माभावः ?, तत्राह -
‘तथा नेमे’ इति ।
द्वितीयमनुमानं प्रपञ्चयन्नुत्तरार्धं व्याचष्टे -
तथेत्यादिना ।
ननु - देहोत्पत्तिविनाशयोरात्मनो जन्मनाशाभावेऽपि महासर्गमहाप्रलययोस्तस्याग्निविस्फुलिङ्गदृष्टान्तश्रृत्या जन्मविनाशावेष्टव्यावित्याशङ्क्य, ‘नाऽऽत्माऽश्रुतेः’(ब्र. सू. २. ३. १७) इति न्यायेन परिहरति -
त्रिष्वपीति ।
‘यावद्विकारं तु विभागो लोकवत्’(ब्र. सू. २-३-७) इति न्यायेन भिन्नत्वात् विकारित्वमात्मनामनुमीयते । भिन्नत्वं च बहुवचनप्रयोगप्रमितमित्याशङ्क्याह -
देहेति
॥ १२ ॥
ननु - पूर्वं देहं विहाय अपूर्वं देहमुपादानस्य विक्रियावत्त्वेनोत्पत्तिविनाशवत्त्वविभ्रमः समुद्भवेत् इति शङ्कते -
तत्रेति ।
अशोच्यत्वप्रतिज्ञायां नित्यत्वे हेतू कृते सतीति यावत् ।
अवस्थाभेदे सत्यपि वस्तुतो विक्रियाभावादात्मनो नित्यत्वमुपपन्नमित्युत्तरश्लोकेन दृष्टान्तावष्टम्भेन प्रतिपादयतीत्याह -
दृष्टान्तमिति ।
न केवलमागमादेव आत्मनो नित्यत्वम् , किन्तु अवस्थान्तरवत् जन्मान्तरे पूर्वसंस्कारानुवृत्तेश्चेत्याह -
देहिन इति ।
देहवत्त्वं - तस्मिन्नहंममाभिमानभाक्त्वम् । तासामिति निर्धारणे षष्ठी । आत्मनः श्रुतिस्मृत्युपपत्तिभिर्नित्यत्वज्ञानं धीमानित्यत्र धीर्विवक्ष्यते ।
एवं सतीति ।
तत्त्वतो विक्रियाभावात् नित्यत्वे समधिगते सतीत्यर्थः ॥ १३ ॥
आत्मनः श्रुत्यादिप्रमिते नित्यत्वे तदुत्पत्तिविनाशप्रयुक्तशोकमोहाभावेऽपि, प्रकारान्तरेण शोकमोहौ स्याताम् , इत्याशङ्कामनूद्य, उत्तरत्वेन श्लोकमवतारयति -
यद्यपीत्यादिना ।
शीतोष्णयोस्ताभ्यां सुखदुःखयोश्च प्राप्तिं निमित्तीकृत्य यो मोहादिर्दृश्यते, तस्य अन्वयव्यतिरेकाभ्यां दृश्यमानत्वमाश्रित्य लौकिकविशेषणम् । ‘अशोच्यान्’(भ. भ. गी. २-११) इत्यत्र यो विद्याधिकारी सूचितः, तस्य ‘तितिक्षुः समाहितो भूत्वा’(बृ. उ. ४-४-२३) इति श्रुतेस्तितिक्षुत्वविशेषणमिहोपदिश्यते।
व्याख्येयं पदमुपादाय करणव्युत्पत्त्या तस्येन्द्रियविषयत्वं दर्शयति -
मात्रास्पर्शा इत्यादिना ।
षष्ठीसमासं दर्शयन् भावव्युत्पत्त्या स्पर्शशब्दार्थमाह -
मात्राणामिति ।
तेषामर्थक्रियामादर्शयति -
ते शीतेति ।
सम्प्रति स्पर्प्रा शब्दस्य कर्मव्युत्पत्त्या शब्दादिविषयपरत्वमुपेत्य समासान्तरं दर्शयन् विषयाणां कार्यं कथयति -
अथवेति ।
ननु - शीतोष्णप्रदत्वे सुखदुःखप्रदत्वस्य सिद्धत्वात् किमिति शीतोष्णयोः सुखदुःखाभ्यां पृथग्ग्रहणम् ? इति, तत्राह -
शीतमिति ।
विषयेभ्यस्तु पृथक्कथनं तदन्तर्भूतयोरेव तयोः सुखदुःखहेत्वोरानुकूल्यप्रातिकूल्ययोरुपलक्षणार्थम् । अव्यात्मं हि शीतमुष्णं वा आनुकूलयं प्रातिकूल्यं वा सम्पाद्य बाह्या विषयाः सुखादि जनयन्ति ।
ननु - विषयेन्द्रियसंयोगस्य आत्मनि सदा सत्त्वात् तत्प्रयुक्तशीतादेरपि तथात्वात् तन्निमित्तौ हर्षविषादौ तथैव तस्मिन्नापन्नौ इत्याशङ्क्योत्तरार्धं व्याचष्टे -
यस्मादित्यादिना ।
अत्र च ‘कौन्तेय, भारत’ इति सम्बोधनाभ्यामुभयकुलशुद्धस्यैव विद्याधिकारित्वमित्येतदेव द्योत्यते ॥ १४ ॥
अधिकारिविशेषणं तितिक्षुत्वं नोपयुक्तम् , केवलस्य तस्य पुमर्थाहेतुत्वात् इति शङ्कते -
शीतेति ।
विवेकवैराग्यादिसहितं तन्मोक्षहेतुज्ञानद्वारा तदर्थमिति परिहरति -
श्रृण्विति ।
तितिक्षमाणस्य विवक्षितं लाभमुपलम्भयति -
यं हीति ।
हर्षविषादरहितमित्यत्र शमादिसाधनसम्पन्नत्वमुच्यते । धीमन्तमिति - नित्यानित्याविवेकभागित्वम् । एतच्चोभयं वैराग्यादेरुपलक्षणम् ।
नित्यात्मदर्शनं - त्वमर्थज्ञानम् । साधनचतुष्टयवन्तमधिकारिणमनूद्य त्वम्पदार्थज्ञानवतस्तस्य मोक्षौपयिकवाक्यार्थज्ञानयोग्यतामाह -
स नित्येति
॥ १५ ॥
अधिकारिविशेषणे तितिक्षुत्वे हेत्वन्तरपरत्वेन उत्तरश्लोकमवतारयति -
इतश्चेति ।
इतःशब्दार्थमेवस्फुटयति -
यस्मादिति ।
यतः शीतादेः शोकादिहेतोः, अनात्मनो नास्ति वस्तुत्वम् , वस्तुनश्च आत्मनो निर्विकारत्वेन एकरूपत्वम् , अतो मुमुक्षोर्विशेषणं तितिक्षुत्वं युक्तमित्याह -
नेत्यादिना ।
कार्यस्यासत्त्वेऽपि कारणस्य सत्त्वेन अत्यन्तासत्त्वासिद्धिरित्याशङ्क्य विशिनष्टि -
सकारणस्येति ।
नासत इत्युपादाय, पुनर्नकारानुकर्षणमन्वयार्थम् । असतः शून्यस्य अस्तित्वप्रसङ्गाभावात् अप्रसक्तप्रतिषेधप्रसक्तिरित्याशङ्क्याह -
न हीति ।
विमतं - अतात्त्विकम् , अप्रामणिकत्वाद् - रज्जुसर्पवत् । न हि धर्मिग्राहकस्य प्रत्यक्षादेस्तत्त्वावेदकं प्रामाण्यं कल्प्यते, विषयस्य दुर्निरूपत्वात् , अतोऽनिर्वाच्यं द्वैतमित्यर्थः ।
कथं पुनरध्यक्षादिविषयस्य शीतोष्णादिद्वैतस्य दुर्निरूपत्वेन अनिर्वाच्यत्वम् ?, तत्राह -
विकारोहीति ।
ततश्च विमतं - मिथ्या आगमापायित्वात् सम्प्रतिपन्नवदिति ।
फलितमाह -
विकारश्चेति ।
वाचारम्भणश्रुतेर्द्वैतमिथ्यात्वे अनुग्राहकत्वं दर्शयितुं चकारः ।
किञ्च कार्यं कारणाद्भिन्नम् , अभिन्नं वा इति विकल्प्य, आद्यं दूषयति -
यथेति ।
निरूप्यमाणम् , अन्तर्बहिश्चेति शेषः । विमतं कारणान्न तत्त्वतो भिद्यते, कार्यत्वाद् - घटवदित्यर्थः ।
इतोऽपि कारणाद्भेदेन नास्ति कार्यम् , ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा’(मां. का. २-६) इति न्यायादित्याह -
जन्मेति ।
यदि कार्यं कारणादभिन्नम् , तदा तस्य भेदेन असत्त्वे पूर्वस्मादविशेषः । तादात्म्येनावस्थानं तु न युक्तम् , तस्यापि कारणव्यतिरेकेणाभावात् ।
कार्यकारणविभागाविधुरे वस्तुनि कार्यकारणपरम्पराया विभ्रमत्वादित्यभिप्रेत्याह -
मृदादीति ।
कार्यकारणविभागविहीनं वस्त्वेव नास्तीति मन्वानश्चोदयति -
तदसत्त्व इति ।
अनुवृत्तव्यावृत्तबुद्धिद्वयदर्शनादनुवृत्ते च व्यावृत्तानां कल्पितत्वादकल्पितं सर्वभेदकल्पनाधिष्ठानमकार्यकारणं वस्तु सिध्यतीति परिहरति -
न ; सर्वत्रेति ।
सम्प्रति सतो वस्तुत्वे प्रमाणमनुमानमुपन्यस्यति -
यद्विषयेति ।
यद्व्यावृत्तेष्वनुवृत्तं तत् परमार्थसत् यथा - सर्पधारादिष्वनुगतो रज्ज्वादेरिदमंशः । विमतं सत्यमव्यभिचारित्वात् सम्प्रतिपन्नवदित्यर्थः ।
व्यावृत्तस्य कल्पितत्वे प्रमाणमाह -
यद्विषयेत्यादिना ।
यत् व्यावृत्तं तन्मिथ्या, यथा - सर्पधारादि । विमतं मिथ्या, व्यभिचारित्वात् सम्प्रतिपन्नवदित्यर्थः । इत्यनुमानद्वयमनुसृत्य सतोऽकल्पितत्वम् , असतश्च कल्पितत्वम् , स्थितमिति शेषः ।
ननु - नेदमनुमानद्वयमुपपद्यते, समस्तद्वैतवैतथ्यवादिनो विभागाभावात् , अनुमानादिव्यवहारानुपपत्तेः तत्राह -
सदसदिति ।
उक्ते विभागे बुद्धिद्वयाधीने स्थिते सत्यनुमानादिव्यवहारो निर्वहति प्रातिभसिकविभागेन तद्योगात् परमार्थस्यैव तद्धेतुत्वे केवलव्यतिरेकाभावादित्यर्थः ।
कुतः ? सदसद्विभागस्य बुद्धिद्वयाधीनत्वं बुद्धिविभागस्यापि तवाभावात् , तत्राह -
सर्वत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः । बुद्धिविभागस्यापि कल्पितस्यैव बोध्यविभागप्रतिभासहेतुतेति भावः ।
बुद्धिद्वयमनुरुध्य सदसद्विभागे, सतः सामान्यरूपतया विशेषाकाङ्क्षायां सामान्यविशेषे द्वे वस्तुनी वस्तुभूते स्याताम् इति चेत् , नेत्याह -
समानाधिकरणे इति ।
पदयोः सामानाधिकरण्यं बुद्ध्योरुपचर्यते । सोऽयमिति सामानाधिकरण्यवद्घटः सन्नित्यादि सामानाधिकरण्यमेकवस्तुनिष्ठं वस्तुभेदे घटपटयोरिव तदयोगादित्यर्थः ।
नीलमुत्पलमितिवद्धर्मधर्मिविषयतया सामानाधिकरण्यस्य सुवचत्वात् न वस्त्वैक्यविषयत्वम् इति चेत् , नेत्याह -
न नीलेति ।
न हि सामान्यविशेषयोर्भेदेऽभेदे च तद्भावः भेदाभेदौ च विरुद्धौ, अतो जातिव्यक्त्योः सामानाधिकरण्यं नीलोत्पलयोरिव न गौणम् , किन्तु व्यावृत्तमनुवृत्ते कल्पितमित्येकनिष्ठमित्यर्थः ।
सामान्यविशेषयोरुक्तन्यायं गुणगुण्यादावतिदिशति -
एवमिति ।
तुल्यौ हि तत्रापि विकल्पदोषाविति भावः ।
सामानाधिकरण्यानुपपत्त्या द्वे वस्तुनी सामान्यविशेषाविति पक्षं प्रतिक्षिप्य, विशेषा एव वस्तूनीति पक्षं प्रतिक्षिपति -
तयोरिति ।
बुद्धिव्यभिचाराद्बोध्यव्यभिचारेपि, कथं व्यावृत्तानां विशेषाणामवस्तुत्वम् ? इत्याशङ्क्याह -
तथा चेति ।
विकारो हि स इत्यादाविति शेषः ।
न चैकं वस्तु सामान्यविशेषात्मकमेकस्य द्वैरूप्यविरोधादित्यभिप्रेत्य, सामान्यमेकमेव वस्तु तद्बुद्धेरव्यभिचारात् , बोध्यस्यापि सतस्तथात्वादित्याह -
न त्विति ।
व्यभिचरतीति पूर्वेण सम्बन्धः ।
विशेषाणां व्यभिचारित्वे सतश्चाव्यभिचारित्वे फलितमुपसंहरति -
तस्मादिति ।
असत्त्वं कल्पितत्वम् । तच्छब्दार्थमेव स्फोरयति -
व्यभिचारादिति ।
सद्बुद्धिविषयस्य सतोऽकल्पितत्वे तच्छब्दोपात्तमेव हेतुमाह -
अव्यभिचारादिति ।
सद्बुद्धिव्यभिचारद्वारा बोध्यस्यापि व्यभिचारात् तदव्यभिचारित्वहेतोरसिद्धिरिति शङ्कते -
घटे विनष्ट इति ।
सद्बुद्धेर्घटबुद्धिवद्घटमात्रविषयत्वाभावात् , न घटनाशे व्यभिचारोस्तीति परिहरति -
न, पटादाविति ।
सद्बुद्धेरघटवियत्वे निरालम्बनत्वायोगात् विषयान्तरं वक्तव्यमित्याशङ्क्याह -
विशेषणेति ।
सतोऽकल्पितत्वहेतोरव्यभिचारित्वस्यासिद्धिमुद्धृत्य, विशेषाणां कल्पितत्वहेतोर्व्यभिचारित्वस्यासिद्धिं शङ्कते -
सदिति ।
यथा सद्बुद्धिर्घटे नष्टे पटादौ दृष्टत्वादव्यभिचारिणीति अव्यभिचारः सतो दर्शितः, तथा घटबुद्धिरपि घटे नष्टे घटान्तरे दृष्टेत्यव्यभिचारात् घटे व्यभिचारासिद्धौ विशेषान्तरेष्वपि कल्पितत्वहेतुर्व्यभिचारो न सिध्यतीत्यर्थः ।
घटबुद्धेर्घटान्तरे दृष्टत्वेऽपि पटादावदृष्टत्वेन व्यभिचारात् पटादिविशेषेष्वपि व्यभिचारित्वसिद्धिरित्युत्तरमाह -
न, पटादाविति ।
विशेषाणामेवं व्यभिचारित्वे सतोऽपि तदुपपत्तेरव्यभिचारित्वहेत्वसिद्धितादवस्थ्यमिति शङ्कते -
सद्बुद्धिरिति ।
घटादिनाशदेशे तदुपरक्ताकारेण सत्त्वाभानेऽपि नासत्त्वम् , घटाद्यभावाधिष्ठानतया भानादित्याह -
न विशेष्येति ।
यथा सर्वगता जातिरित्यत्र खण्डमुण्डादिव्यक्त्यभावदेशे गोत्वं व्यञ्जकाभावात् न व्यज्यते, न गोत्वाभावात् , तथा सत्त्वमपि घटादिनाशे व्यञ्जकाभावात् न भाति, न स्वरूपाभावात् इत्युक्तमेव प्रपञ्चयति -
सदित्यादिना ।
सप्रतियोगिकविशेषणव्यभिचारेऽपि स्वरूपाव्यभिचाराद्युक्तं सतः सत्यत्वमिति भावः ।
द्वयोः सतोरेव विशेषणविशेष्यत्वदर्शनात् घटसतोरपि विशेषणविशेष्यत्वे द्वयोः सत्त्वध्रौव्यात् घटादिकल्पितत्वानुमानं सामानाधिकरण्यधीबाधितमिति चोदयति -
एकेति ।
अनुभवमनुसृस्य बाधितविषयत्वमुक्तानुमानस्य निरस्यति -
नेत्यादिना ।
घटादेः सति कल्पितत्वानुमानस्य दोषराहित्ये, फलितमुपसंहरति -
तस्मादिति ।
प्रथमपादव्याख्यानपरिसामाप्तावितिशब्दः । ननु - नेदं व्याख्यानं भाष्यकाराभिप्रेतम् , सर्वद्वैतशून्यत्वविवक्षायां शास्त्रतद्भाष्यविरोधात् । केनापि पुनर्दुर्विदग्धेन स्वमनीषिकयोत्प्रेक्षितमेतत् इति चेत् , मैवम् । किमिदं द्वैतप्रपञ्चस्य शून्यत्वम् ? किं तुच्छत्वम् ? किं वा सद्विलक्षणत्वम् ? नाद्यः, अनभ्युपगमात् । द्वितीयानभ्युपगमे तु तवैव शास्त्रविरोधो भाष्यविरोधश्च । सर्वं हि शास्त्रं तद्भाष्यं च द्वैतस्य सत्यत्वानधिकरणत्वसाधनेन अद्वैतसत्यत्वे पर्यवसितमिति त्रैविद्यवृद्धैस्तत्र तत्र प्रतिष्ठापितम् । तथा च प्रक्षेपाशङ्का सम्प्रदायपरिचयाभावात् इति द्रष्टव्यम् ।
अनात्मजातस्य कल्पितत्वेन अवस्तुत्वप्रतिपादनपरतया प्रथमपादं व्याख्याय, द्वितीयपादमात्मनः सर्वकल्पनाधिष्ठानस्याकल्पितत्वेन वस्तुत्वप्रसाधनपरतया व्याकरोति -
तथेति ।
ननु - आत्मनः सदात्मनो विशेषेषु विनाशिषु तदुपरक्तस्य विनाशः स्यात् इत्याशङ्क्य, विशिष्टनाशेऽपि स्वरूपानाशस्योक्तत्वात् , मैवमित्याह -
सर्वत्रेति ।
ननु - कदाचिदसदेव पुनः सत्त्वमापद्यते, प्रागसतो घटस्य जन्मना सत्त्वाभ्युपगमात् । सच्च कदाचिदसत्त्वं प्रतिपद्यते, स्थितिकाले सतो घटस्य पुनर्नाशेन असत्त्वाङ्गीकारात् । एवं सदसतोरव्यवस्थितत्वाविशेषात् उभयोरपि हेयत्वमुपादेयत्वं वा तुल्यं स्यात् इति, तत्राह -
एवमिति ।
तुशब्दो दृष्टशब्देन सम्बध्यमानो दृष्टिमवधारयति । न हि प्रागसतो घटस्य सत्त्वम् , असत्त्वे स्थिते सत्त्वप्राप्तिविरोधात् । असत्त्वनिवृत्तिश्च सत्त्वप्राप्त्या चेत् , प्राप्तमितरेतराश्रयत्वम् , अन्तरेणैव सत्त्वापत्तिमसत्त्वनिवृत्तौ असत्त्वमनवकाशि भवेत् । एतेन - सतोसत्त्वापत्तिरपि प्रतिनीतेति भावः ।
कथं तर्हि सतोऽसत्त्वम् , असतश्च सत्त्वं प्रतिभाति ? इत्याशङ्क्य, तत्त्वदर्शनाभावात् इत्याह -
तत्त्वेति ।
तस्य भावस्तत्त्वम् ।
न च तच्छब्देन परामर्शयोग्यं किञ्चिदस्ति प्रकृतं प्रतिनियतम् इत्याशङ्क्य व्याचष्टे -
तदित्यादिना ।
ननु - सदसतोरन्यथात्वं केचित् प्रतिपद्यन्ते । केचित्तु तयोरुक्तनिर्णयमनुसृत्य तथात्वमेवाधिगच्छन्ति । तत्र केषां मतमेषितव्यम् ? इति, तत्राह -
त्वमपीति
॥ १६ ॥
ननु सदिति सामान्यम् , स्वरूपं वा ? प्रथमे, तस्य विशेषसापेक्षतया प्रलयदशायामशेषविशेषविनाशे विनाशः स्यात् । न चात्मादयो विशेषास्तदापि सन्तीति वाच्यम् । आत्मातिरिक्तानां विशेषणां कार्यत्वाङ्गीकारात् , प्रलयावस्थायामनवस्थानात् , आत्मनस्तु सामान्यात्मनो धर्मित्वादुक्तदोषात् । द्वितीये तु, स्वरूपस्य व्यावृत्तत्वे कल्पितत्वाद्विनाशित्वम् , अनुवृत्तत्वे तस्यैव सामान्यतया प्रागुक्तदोषानुषक्तिरिति मन्वानश्चोदयति -
किं पुनरिति ।
सामान्यविशेषभावशून्यमखण्डैकरसं ‘सदेव’(छा. उ. ६-२-१) इत्यादिश्रुतिप्रमितं सर्वाविक्रियारहितं वस्तु प्रकृतं सद्विवक्षितमित्युत्तरमाह -
उच्यत इति ।
आत्मनः सदात्मनो विनाशराहित्यविज्ञाने सर्वजगद्व्यापकत्वं हेतुमाह -
येनेति ।
आत्मनो विनाशाभावे युक्तिमाह -
विनाशमिति ।
आत्मनो विनाश मिच्छता स्वतो वा परतो वा नाशस्तस्येष्यते ? नाद्य इत्याह -
अविनाशीति ।
देहादिद्वैतमसदुच्यते । ततः सतो विशेषणं स्वतो नाशराहित्यम् । तस्य द्योतको निपात इत्याह -
तुशब्द इति ।
आकाङ्क्षापूर्वकं विशेष्यं दर्शयति -
किमित्यादिना ।
विमतं - अविनाशि, व्यापकत्वादाकाशवत् । न हि प्रमितमेवोदाहरणं किन्तु प्रसिद्धमपीति भावः । न द्वितीय इत्याह -
विनाशमिति ।
न खल्वस्य विनाशं कर्तुं कश्चिदर्हतीति सम्बन्धः । विनाशस्य सावशेषत्वनिरवशेषत्वाभ्यां द्वैराश्यमाश्रित्य व्याकरोति -
अदर्शनमिति ।
न कश्चिदस्यभावं कर्तुं शक्नोतीत्यत्र हेतुमाह -
अव्ययस्येति ।
ब्रह्म हि स्वरूपेण व्येति स्वसम्बन्धिना वा ? इति विकल्प्य, आद्यं दूषयति -
नैतदिति ।
न हि निरवयवस्य स्वावयवापचयरूपव्ययः सम्भवतीत्यत्र वैधर्म्यदृष्टान्तमाह -
देहादिवदिति ।
द्वितीयं निरस्यति -
नापीति ।
तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति -
यथेति ।
द्विविधेऽपि व्ययायोगे फलितमाह -
अत इति ।
किञ्च ब्रह्म परतो न नश्यति आत्मत्वात् , घटवदित्याह -
न कश्चिदिति ।
आत्मत्वहेतोरसिद्धिमुद्धरति -
आत्मा हीति ।
तादात्म्यश्रुतिः अत्र हीति हेतूक्रियते ।
अस्तु तर्हि स्वयमेव ब्रह्म, आत्मनो नाशकमुद्बन्धनादिदर्शनात् , नेत्याह -
स्वात्मनीति
॥ १७ ॥
सदसतोरनन्तरप्रकृतयोः स्वरूपाव्यभिचारित्वे परमार्थतया सन्निर्धारितम् । इदानीमसन्निर्दिधारयिषया पृच्छति -
किं पुनरिति ।
असत् असदेवेति निर्धारितत्वात् प्रश्नस्य निरवकाशत्वमाशङ्क्य शून्यं व्यावर्त्य विवक्षितमसत् निर्धारयितुं तस्य सावकाशत्वमाह -
यत् स्वात्मेति ।
देहादेरनात्मवर्गस्य प्रकृतासच्छब्दविषयतेत्याह -
उच्यत इति ।
ननु - देहादिषु सद्बुद्धेरनुवृत्तेस्तस्या विच्छेदाभावात् कथमन्तवत्त्वं तेषामिष्यते ? तत्राह -
यथेति ।
तथेमे देहाः, सद्बुभाजोऽपि प्रमाणतो निरूपणायामवसाने विच्छेदादन्तवन्तो भवन्तीति शेषः ।
देहत्वादिना च जाग्रद्देहादेरन्तवत्त्वं सम्प्रतिपन्नवदनुमातुं शक्यमित्याह -
स्वप्नेति ।
तेषां स्वातन्त्र्यं व्युदस्यति -
नित्यस्येति ।
आकाशादिव्यावृत्त्यर्थं विशिनष्टि -
शरीरिण इति ।
परिणामिनित्यत्वं व्यवच्छिनति -
अनाशिन इति ।
तस्य प्रत्यक्षाद्यविषयत्वमाह -
अप्रमेयस्येति ।
प्रवाहस्य प्रवाहिव्यतिरेकेण अनिरूपणात् न तदात्मनः देहाद्यभावे सम्बन्धसिद्धिरित्यभिसन्धायोक्तम् -
विवेकिभिरिति ।
शरीरादेरन्तवत्त्वेऽपि प्रवाहरूपेण आत्मनस्तत्सम्बन्धस्यानन्तवत्त्वमाशङ्क्याह -
नित्यस्येति ।
नित्यत्वस्य द्वैविध्यसिद्ध्यर्थं नाशद्वैविध्यं प्रकटयति -
यथेत्यादिना ।
नाशस्य निरवशेषत्वेन सावशेषत्वेन च सिद्धे द्वैविध्ये फलितमाह -
तत्रेति ।
पदद्वयस्यैकार्थत्वमाशङ्क्य निरस्यति -
नित्यस्येत्यादिना ।
विशेषणाभ्यां कूटस्थानित्यत्वमात्मनो विवक्षितमित्यर्थः ।
अन्यतरविशेषणमात्रोपादाने परिणामिनित्यत्वमात्मनः शङ्क्येत इत्यनिष्टापत्तिमाशङ्क्याह -
अन्यथेति ।
औपनिषदत्वविशेषणमाश्रित्य अप्रमेयत्वमाक्षिपति -
नन्विति ।
इतश्च आत्मनो नाप्रमेयत्वमित्याह -
प्रत्यक्षादिनेति ।
तेन च आगमप्रवृत्त्यपेक्षया पूर्वावस्थायामात्मैव परिच्छिद्यते, तस्मिन्नेव अज्ञातत्वसम्भवात् , ‘अज्ञातज्ञापकं प्रमाणम्’ इति च प्रमाणलक्षणादित्यर्थः ।
‘एतदप्रमेयम्’(बृ. उ. ४. ४. २०) इत्यादिश्रुतिमनुसृत्य परिहरति -
नेत्यादिना ।
कथं मानमनपेक्ष्य आत्मनः सिद्धत्वमित्याशङ्क्योक्तं विवृणोति -
सिद्धे हीति ।
प्रमित्सोः प्रमेयमिति शेषः ।
तदेव व्यतिरेकमुखेन विशदयति -
न हीति ।
आत्मनः सर्वलोकप्रसिद्धत्वाच्च तस्मिन् न प्रमाणमन्वेषणीयमित्याह -
न ह्यात्मेति ।
प्रत्यक्षादेरनात्मविषयत्वात् तत्र चाज्ञातताया व्यवहारे सम्भवात् तत्प्रामाण्यस्य च व्यावहारिकत्वात् ।
विशिष्टे तत्प्रवृत्तावपि केवले तदप्रवृत्तेः यद्यपि नात्मनि तत्प्रामाण्यम् , तथापि तद्धितश्रुत्या शास्त्रस्य तत्र प्रवृत्तिरवश्यम्भाविनीत्याशङ्क्याह -
शास्त्रं त्विति ।
शास्त्रेण प्रत्यग्भूते ब्रह्मणि प्रतिपादिते प्रमात्रादिविभागस्य व्यावृत्तत्वात् युक्तमस्यान्त्यत्वम् , अपौरुषेयतया निर्दोषत्वाच्चास्य प्रामाण्यमित्यर्थः । तथापि कथमस्य प्रत्यगात्मनि प्रामाण्यम्, तस्य स्वतःसिद्धत्वेन अविषयत्वात् , अज्ञातज्ञापनायोगात् ? इत्याशङ्क्य, स्वतो भानेऽपि प्रतीचो, ‘मनुष्योऽहं कर्ताहम्’ इत्यादिना मनुष्यत्वकर्तृत्वादीनामतद्धर्माणामध्यारोपणेन आत्मनि प्रतीयमानत्वात् तन्मात्रनिवर्तकत्वेन आत्मनो विषयत्वमनापद्यैव शास्त्रं प्रामाण्यं प्रतिपद्यते, ‘सिद्धं तु निवर्तकत्वात्’ इति न्यायादित्याह -
अतद्धर्मेति ।
घटादाविव स्फुरणातिशयजनकत्वेन किमित्यात्मनि शास्त्रप्रामाण्यं नेष्टमित्याशङ्क्य, जडत्वाजडत्वाभ्यां विशेषादिति मत्वाह -
न त्विति ।
ब्रह्मात्मनो मानापेक्षामन्तरेण स्वतः स्फुरणे प्रमाणमाह -
तथा चेति ।
साक्षात् - अन्यापेक्षामन्तरेण अपरोक्षात् - अपरोक्षस्फुरणात्मकं यद्ब्रह्म, न च तस्यात्मनोऽर्थान्तरत्वम् , सर्वाभ्यन्तरत्वेन सर्ववस्तुसारत्वात् तमात्मानं व्याचक्ष्वेति योजना ।
अप्रमेयत्वेन अविनाशित्वं प्रतिपाद्य, फलितं निगमयति -
यस्मादिति ।
देहादेरवस्तुत्वात् आत्मनश्चैकरूपत्वात् युद्धे स्वधर्मे प्रवृत्तस्यापि तव न हिंसादिदोषसम्भावनेत्याह -
तस्मादिति ।
स्वधर्मनिवृत्तिहेतुनिषेधे तात्पर्यं दर्शयति -
युद्धादिति ।
आत्मनो नित्यत्वादिस्वरूपमुपपाद्य युद्धकर्तव्यत्वविधानात् ज्ञानकर्मसमुच्चयोऽत्र भातीत्याशङ्क्याह -
न हीति ।
युध्यस्वेति वचनात् तत्कर्तव्यत्वविधिरस्तीत्याशङ्क्यह -
युद्ध इति ।
कथं तर्हि ‘कथं भीष्ममहं’(भ. भ. गी. २-४) इत्याद्यर्जुनस्य युद्धोपरमपरं वचनम् ? इति तत्राह -
शोकेति ।
यदि स्वतो युद्धे प्रवृत्तिः, तर्हि भगवद्वचनस्य का गतिरित्याशङ्क्याह -
तस्येति ।
भगवद्वचनस्य प्रतिबन्धनिवर्तकत्वे सति अर्जुनप्रवृत्तेः स्वाभाविकत्वे फलितमाह -
तस्मादिति
‘अविनाशि तु तद् विद्धि’(भ. भ. गी. २-१७) इत्यत्र पूर्वार्धेन तत्पदार्थसमर्थनम् , उत्तरार्धेन निरीश्वरवादस्य परिणामवादस्य वा निराकरणम् , आत्मनि जन्मादिप्रतिभानस्यौपचारिकत्वप्रदर्शनार्थं ‘अन्तवन्तः’(भ. गी. २-१८) इत्यादि वचनमिति केचित् । अस्तु नाम अयमपि पन्थाः ॥ १८ ॥
पूर्वोक्तस्य गीताशास्रार्थस्योत्प्रेक्षामात्रमूलत्वं निराकर्तुं मन्त्रद्वयं भगवान् आनीतवानिति श्लोकद्वयस्य सङ्गतिं दर्शयति -
शोकमोहादीति ।
तत्र प्रथममन्त्रस्य सङ्गतिमाह -
यत्त्विति ।
प्रत्यक्षनिबन्धनत्वादमुष्या बुद्धेर्मृषात्वमयुक्तमित्याक्षिपति -
कथमिति ।
प्रत्यक्षस्याज्ञानप्रसूतत्वेन आभासत्वात् तत्कृता बुद्धिर्न प्रमेति परिहरति -
य एनमिति ।
‘हन्ता चेन्मन्यते हन्तुम्’(क. उ. १-२-१९) इत्याद्यामृचमर्थतो दर्शयित्वा व्याचष्टे -
य एनमिति ।
हन्तारं हतं वा आत्मानं मन्यमानस्य कथमज्ञानमित्यशङ्क्याह -
हन्ताहमिति ।
हन्तृत्वादिज्ञानमज्ञानमित्यत्र हेतुमाह -
यस्मादिति ।
आत्मनो हननं प्रति कर्तृत्वकर्मत्वयोरभावे हेतुं दर्शयति -
अविक्रित्यवादिति
॥ १९ ॥
तदेव साधयितुं ‘न जायते म्रियते वा विपश्चित्’(क. उ. १-२-१८) इत्यादिमन्त्रान्तरमवतारयति -
कथमिति ।
सर्वविक्रियाराहित्यप्रदर्शनेन हेतुं विशदयन् मन्त्रमेव पठति -
न जायत इति ।
जन्ममरणविक्रियाद्वयप्रतिषेधं साधयति -
नायमिति ।
अयमात्मा भूत्वा नाभविता, न वा अभूत्वा भूयो भवितेति योजना ।
न केवलं विक्रियाद्वयमेवात्र निषिध्यते, किन्तु सर्वमेव विक्रियाजातमित्याह -
अज इति ।
वाच्यमर्थमुक्त्वा विवक्षितमर्थमाह -
जनिलक्षणेति ।
विकल्पार्थत्वं व्यावर्तयति -
वेति ।
निष्पन्नमर्थं निर्दिशति -
नेत्यादिना ।
सम्बन्धमेवाभिनयति -
न कदाचिदिति ।
अन्त्यविक्रियाभावे हेतुत्वेन नायमित्यादि व्याचष्टे -
यस्मादिति ।
उक्तमेव व्यनक्ति -
यो हीति ।
आत्मनि तु भूत्वा पुनरभवनाभावान्नास्ति मृत्युरित्यर्थः ।
आत्मनो जन्माभावेऽपि हेतुरिहैव विवक्षितः, इत्याह -
वाशब्दादिति ।
अभूत्वेति च्छेदः । देहवदिति व्यतिरेकोदाहरणम् ।
उक्तमेवार्थं साधयति -
यो हीति ।
जन्माभावे तत्पूर्विकास्तित्वविक्रियाऽपि नात्मनोऽस्तीत्याह -
यस्मादिति ।
प्राणवियोगादात्मनो मृतेरभावे सावशेषनाशाभाववन्निरवशेषनाशाभावोऽपि सिध्यति, इत्याह -
यस्मादिति ।
ननु - जन्मनाशयोर्निषेधे तदन्तर्गतानां विक्रियान्तराणामपि निषेधसिद्धेस्तन्निषेधार्थं न पृथक् प्रयतितंव्यमिति, तत्राह -
यद्यपीति ।
स्वशब्दैः - मध्यवर्तिविक्रियानिषेधवाचकैरिति यावत् ।
आर्थिकेऽपि निषेधे, निषेधस्य सिद्धतया शाब्दो निषेधो न पृथगर्थवान् इत्याशङ्क्याह -
अनुक्तानामिति ।
नित्यशब्देन शाश्वतशब्दस्य पौनरुक्त्यं परिहरन् व्याकरोति -
शाश्वत इत्यादिना ।
अपक्षयो हि स्वरूपेण वा स्यात् ? गुणापचयतो वा ? इति विकल्प्य, क्रमेण दूषयति -
नेत्यादिना ।
पुराणपदस्य अगतार्थत्वं कथयति -
अपक्षयेति ।
तदेव स्फुटयति -
यो हीति ।
‘न म्रियते वा’ इत्यनेन चतुर्थपादस्य पौनरुक्त्यमाशङ्क्य, व्याचष्टे -
तथेत्यादिना ।
ननु - हिंसार्थो हन्तिः श्रूयते, तत् कथं विपरिणामो निषिध्यते ? तत्राह -
हन्तिरिति ।
हिंसार्थत्वसम्भवे किमित्यर्थान्तरं हन्तेरिष्यते ? तत्राह -
अपुनरुक्ततायै इति ।
हिंसार्थत्वे मृतिनिषेधेन पौनरुक्त्यं स्यात् , तन्निषेधार्थं विपरिणामार्थत्वमेष्टव्यमित्यर्थः ।
पूर्वावस्थात्यागेन अवस्थान्तराप्रपत्तिर्विपरिणामः । तदर्थश्चेदत्र हन्तिरिष्यते, तदा निष्पन्नमर्थमाह -
नेति ।
‘न जायते’(क. उ. १-२-१८) इत्यादिमन्त्रार्थमुपसंहरति -
अस्मिन्निति ।
षण्णां विकाराणामात्मनि प्रतिषेधे फलितमाह -
सर्वेति ।
आत्मनः सर्वविक्रियाराहित्येऽपि किमायातमित्याशङ्क्याह -
यस्मादिति
॥ २० ॥
पूर्वश्लोकार्थस्यैवोत्तरत्रापि प्रतिभानात् पौनरुक्त्यमाशङ्क्य, वृत्तानुवादपूर्वकमुत्तरश्लोकमवतारयति -
य एनमित्यादिना ।
कर्तृत्वाद्यभिमानविरोधात् अद्वैतकूटस्थात्मनिश्चयसामर्थ्यात् प्राप्तं विदुषः संन्यासं विद्यापरिपाकार्थमभ्यनुजानाति -
वेदेति ।
पदद्वयस्य पूर्वमेव पौनरुक्त्यपरिहारेऽपि प्रकारान्तरेणापौनरुक्त्यमाह -
अविनाशिनमित्यादिना ।
प्रश्नेऽपि सम्भवति, किमिति नञुल्लेखेन व्याख्यायते, तत्राह -
उभयत्रेति ।
उत्तरत्र प्रतिवचनादर्शनात् नात्र प्रश्नः सम्भवति इत्यर्थः ।
विवक्षितं प्रकरणार्थं निगमयति -
हेत्वर्थस्येति ।
अविक्रियत्वं हेत्वर्थः, तस्य विदुषः सर्वकर्मनिषेधे समानत्वात् इति यावत् ।
यदि विदुषः सर्वकर्मनिषेधोऽभिमतः, तर्हि किमिति हन्त्यर्थ एव आक्षिप्यते ? तत्राह -
हन्तेरिति ।
उक्तं हेतुमाक्षेप्तुं पृच्छति -
विदुष इति ।
अभिप्रायमप्रतिपद्यमानो हेतुविशेषं पूर्वोक्तं स्मारयति -
नन्विति ।
उक्तमङ्गीकृत्य आक्षिपति -
सत्यमिति ।
विदुषः - विज्ञानात्मनः ब्रह्मणश्च वेद्यस्य विरुद्धधर्मत्वेन दहनतुहिनवत् भिन्नत्वात् विदुषः सर्वकर्मत्यागे, न असो कारणविशेषः स्यात् , इत्याह -
अन्यत्वादिति ।
अविक्रियात् इति च्छेदः । तथापि कूटस्थम् अविक्रियं ब्रह्म प्रतिपद्यमानस्य कुतो विक्रिया सम्भवेत् , ब्रह्मप्रतिपत्तिविरोधात् ? इत्याशङ्क्याह -
न हीति ।
‘अयमात्मा ब्रह्म’(बृ. उ. २-५-१९) इत्यादिश्रुत्या समाधत्ते -
न, विदुष इति ।
किञ्च - विद्वत्ता विशिष्टस्य वा केवलस्य वा ? नाद्यः । विशिष्टस्य विद्वत्तायां सविशेषणस्यापि तत्प्रसङ्गात् ।
न च विशेषणीभूतसङ्घातस्य अचेतनत्वात् विद्वत्ता युक्ता, इत्याह -
न देहादीति ।
द्वितीये तु, जीवब्रह्मविभागासिद्धिः इत्याह -
असंहत इति ।
किञ्च प्रामाणिकविरुद्धधर्मवत्त्वस्य असिद्धत्वात् प्रातिभासिकस्य च बिम्ब्रप्रतिबिम्बयोरनैकान्त्यात् भेदानुमानायोगात् , जीवब्रह्मणोरमेदसिद्धिरित्यभिप्रेत्य, फलितमाह -
इति तस्येति ।
ननु - अविक्रियस्य ब्रह्मस्वरूपतया सर्वकर्मासम्भवे विदुषो विद्वत्तापि कथं सम्भवति ? नाहि ब्रह्मणोऽविक्रियस्य विद्यालक्षणा विक्रिया स्वक्रिया भवितुमर्हति, तत्राह -
यथेति ।
अदृष्टेन्द्रियादिसहकृतमन्तः करणं प्रदीपप्रभावद्विषयपर्यन्तं परिणतं बु्द्धिवृत्तिरुच्यते । तत्र प्रतिबिम्बितं चैतन्यमभिव्यञ्जकबुद्धिवृत्त्यविवेकाद्विषयज्ञानमिति व्यवह्नियते । तेन - आत्मा उपलब्धा कल्प्यते । तच्च अविद्याप्रयुक्तमिथ्यासम्बन्धनिबन्धनम् । तथैव आध्यासिकसम्बन्धेन ब्रह्मात्मैक्याभिव्यञ्जकवाक्योत्थबुद्धिवृत्तिद्वारा विद्वानात्मा व्यपदिश्यते । न च मिथ्यासम्बन्धेन पारमार्थिकाविक्रियत्वविहतिरस्तीत्यर्थः ।
‘अहं ब्रह्म’(बृ. उ. १-४-१०) इति बुद्धिवृत्तेर्मोक्षावस्थायामपि भावात् , आत्मनः सविशेषत्वमाशङ्क्य तस्या यावदुपाधिसत्त्वमेवेत्याह -
असत्येति ।
ननु - कूटस्थस्यात्मनो मिथ्याविद्यावत्त्वेऽपि तस्य कर्माधिकारनिवृत्तौ, कस्य कर्माणि विधीयन्ते ? न हि निरधिकाराणां तेषां विधिः, इत्याशङ्क्याह -
विदुष इति ।
कर्माणि अविदुषो विहितानीति विशेषमाक्षिपति -
नन्विति ।
कर्मविधानमविदुषः, विदुषश्चविद्याविघानमिति विभागे का हानिः ? इत्याशङ्क्याह -
विदितेति ।
विद्याया विदितत्वं लब्धत्वम् ।
कर्मविधिरविदुषः, विदुषो विद्याविधिरिति विभागासम्भवे फलितमाह -
तत्रेति ।
धर्मज्ञानानन्तरम् अनुष्ठेयस्य भावात् ब्रह्मज्ञानोत्तरकालं च तदभावात् ब्रह्मज्ञानहीनस्यैव कर्मविधिरिति समाधत्ते -
न ; अनुष्ठेयस्येति ।
विशेषोपपत्तिमेव प्रपञ्चयति -
अग्निहोत्रादीति ।
ननु - देहादिव्यतिरिक्तात्मज्ञानं विना पारलौकिकेषु कर्मसु प्रवृत्तेरनुपपत्तेः, तथाविधज्ञानवता कर्म अनुष्ठेयम् इति चेत् , तत्राह -
कर्ताहमिति ।
आत्मनि कर्ता भोक्ता इत्येवं विज्ञानवतत्त्वेऽपि ब्रह्मज्ञानविहीनत्वेन अविदुषोऽनुष्ठेयं कर्मेत्यर्थः ।
देहादिव्यतिरेकज्ञानवत् ब्रह्मज्ञानमपि ज्ञानत्वाविशेषात् कर्मप्रवृत्तौ उपकरिष्यतीत्याशङ्क्याह -
न त्विति ।
अनुष्ठेयविरोधित्वात् अविक्रियात्मज्ञानस्येति शेषः ।
ननु - ब्रह्मात्मैकत्वज्ञानात् उत्तरकालमपि कर्ताऽहमित्यादिज्ञानोत्पत्तौ कर्मविधिः सावकाशः स्यात् इति, नेत्याह -
नाहमिति ।
कारणाभावादिति शेषः । कर्तृत्वादिज्ञानमन्यदित्युक्तम् ।
अनुष्ठानाननुष्ठानयोरुक्तविशेषात् अविदुषोऽनुष्ठानं विदुषो नेत्युपसंहरति -
इत्येष इति ।
नन्वात्मविदो न चेदनुष्ठेयं किञ्चिदस्ति, कथं तर्हि ‘विद्वान् यजेत’ इत्यादिशास्त्रात् तं प्रति कर्माणि विधीयन्ते, तत्राह -
यः पुनरिति ।
आत्मनि कर्तृत्वादिज्ञानापेक्षाया कर्मस्वधिकृतत्वज्ञाने, तथाविधं पुरुषं प्रति कर्माणि विधीयन्ते । स च प्राचीनवचनात् अविद्वानेवेति निश्चीयते । न खलु अकर्तुत्वादिज्ञानवतः तद्विपरीतकर्तृत्वादिज्ञानद्वारा कर्मसु प्रवृत्तिरित्यर्थः ।
कर्मासम्भवे ब्रह्मविदो हेत्वन्तरमाह -
विशेषितस्येति ।
‘वेदाविनाशिनम्’ (भ. भ. गी. २. २३) इत्यादिनेति शेषः ।
यद्यपि विदुषो नास्ति कर्म, तथापि विविदिषोः स्यात् , इत्याशङ्क्याह -
तस्मादिति ।
विद्ययां विरुद्धत्वात् , इष्यमाणमेक्षप्रतिक्षत्वाच्च कर्मणामित्यर्थः ।
यद्यपि मुमुक्षोराश्रमकर्माण्यपेक्षितानि, तथापि विद्यातत्फलाभ्यामविरुद्धान्येव तान्यभ्युपगतानि । अन्यथा विविदिषासंन्यासविधिविरोधात् इत्यभिप्रेत्य, उक्तेऽर्थे भगवतोऽनुमतिमाह -
अत एवेति ।
विदुषो विविदिषोश्च संन्यासेऽधिकारः, अविदुषस्तु कर्मणीति विभागस्येष्टत्वादित्यर्थः ।
अधिकारिभेदेन निष्ठाद्वयं भगवता वेदव्यासेनापि दर्शितमित्याह -
तथा चेति ।
अध्ययनविधिना स्वाध्यायपाठे त्रैवर्णिकस्य प्रवृत्त्यनन्तरं तत्र क्रियामार्गो ज्ञानमर्गश्चेति द्वौमार्गौ अधिकारिभेेदेनावेदितावित्यर्थः । आदिशब्दात् ‘यत्र वेदाः प्रतिष्ठिताः’(मो. ध. २४१-६) इत्यादि गृह्यते ।
उक्तयोर्मार्गयोस्तुल्यतां परिहर्तुमुदाहरणान्तरमाह -
तथेति ।
बुद्धिशुद्धिद्वारा कर्मतत्फलयोर्वैराग्योदयात् पूर्वं कर्ममार्गो विहितः । विरक्तस्य पुनः संन्यासपूर्वको ज्ञानमार्गो दर्शितः । स चेतरस्मादतिशयशालीति श्रुतमित्यर्थः ।
उक्ते विभागे पुनरपि वाक्यशेषानुकूल्यमादर्शयति -
एतमेवेति ।
‘अहङ्कारविमूढात्मा’(भ. गी. ३-२७) इत्यस्य व्याख्यानम् -
अतत्त्वविदिति ।
‘तत्ववित् तु’ इति श्लोकमवतार्य तात्पर्यार्थं सङ्गृह्णाति -
नाहमिति ।
पूर्वेण क्रियापदेन इतिशब्दः सम्बध्यते ।
विरक्तमघिकृत्य वाक्यान्तरं पठति -
तथा चेति ।
आदिशब्दस्तस्यैव श्लोकस्य शेषसङ्ग्रहार्थः ।
अविक्रियात्मज्ञानात् कर्मसंन्यासे दर्शिते, मीमांसकमतमुत्थापयति -
तत्रेति ।
आत्मनो ज्ञानक्रियाशक्त्याधारत्वेन अविक्रियत्वाभावात् अविक्रियात्मज्ञानं संन्यासकारणीभूतं न सम्भवतीत्यर्थः ।
‘यथोक्तज्ञानाभावो विषयाभावाद्वा ? मानाभावाद्वा ? ‘ इति विकल्प्य, आद्यं दूषयति -
नेत्यादिना ।
न तावदविक्रियात्माभावः ‘न जायते म्रियते’(भ. गी. २-२०) इत्यादिशास्रस्याप्तवाक्यतया प्रमणस्यान्तरेण कारणमानर्थक्यायोगादित्यर्थः ।
द्वितीयं प्रत्याह -
यथा चेति ।
पारलौकिककर्मविधिसामर्थ्यसिद्धं विज्ञानमुदाहरति -
कर्तुश्चेति ।
कर्मकाण्डादज्ञाते धर्मादौ विज्ञानोत्पत्तिवत् , ज्ञानकाण्डादज्ञाते ब्रह्मात्मनि विज्ञानोत्पत्तिरविरुद्धा, प्रमाणत्वाविशेषादित्यर्थः ।
ज्ञानस्य मनःसंयोगजन्यत्वात् , आत्मनश्च श्रुत्या मनोगोचरत्वनिरासात् , न आत्मज्ञाने साधनमस्तीति शङ्कते -
करणेति ।
श्रुतिमाश्रित्य परिहरति -
न, मनसेति ।
‘तत्त्वमसि’(छा. उ. ६-८-७) आदिवाक्योत्थमनोवृत्त्यैव शास्त्राचार्योपदेशमनुसृत्य द्रष्टव्यं तत्त्वमिति श्रूयते । स्वरूपेण स्वप्रकाशमपि ब्रह्मात्मवस्तु वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं सविकल्पकव्यवहारालम्बनं भवतीति मनोगोचरत्वोपचारादसिद्धं करणागोचरत्वमित्यर्थः ।
कथं तर्हि ब्रह्मात्मनो मनोविषयत्वनिषेधश्रुतिः ? इत्याशङ्क्य, असंस्कृतमनोवृत्त्यविषयत्वविषया सेति मन्वानः सन्नाह -
शास्त्रेति ।
सत्यपि श्रुत्यादौ, तदनुग्राहकाभावात् नास्माकमविक्रियात्मकज्ञानमुत्पत्तुमर्हतीत्याशङ्क्याह -
तथेति ।
तस्य अविक्रियस्य आत्मनोऽधिगत्यर्थं, ‘विमतो विकारः, नात्मधर्मः, विकारत्वात् , उभयाभिमतविकारवत्’ इत्यनुमाने, पूर्वोक्तश्रुतिस्मृतिरूपागमे च सत्येव, तस्मिन्नोत्पद्यते ज्ञानम् , इति वचः साहसमात्रं, सत्येव माने मेयं न भातीतिवदित्यर्थः ।
ननु - यथोक्तं ज्ञानमुत्पन्नमपि हानाय उपादानाय वा न भवतीति कुतोऽस्य फलवत्त्वम् ? तत्राह -
ज्ञानं चेति ।
अवश्यमिति ।
प्रकाशप्रवृत्तेः तमोनिवृत्तिव्यतिरेकेण अनुपपत्तिवत् , आत्मज्ञाननिवृत्तमन्तरेण आत्मज्ञानोत्पत्तेरनुपपत्तेरित्यर्थः ।
ननु - अज्ञानस्य ज्ञानप्रागभावत्त्वात् तन्निवृत्तिरेव ज्ञानम् , नतु तन्निवर्तकमिति, तत्राह -
तच्चेति ।
कथं पुनर्भगवतापि ज्ञानाभावातिरिक्तमज्ञानं दर्शितम् ? इत्याशङ्क्याह -
अत्र चेति ।
‘विमतं, ज्ञानाभावो न भवति, उपादानत्वात् , मृदादिवत्’ इति भावः ।
ननु - हननक्रियायाः ‘न हिंस्यात्’ इति निषिद्धत्वात् , तत्कर्तृत्वादेरज्ञानकृतत्वेऽपि विहितक्रियाकर्तृत्वादेर्न तथात्वमिति, नेत्याह -
तच्चेति ।
न तावदात्मनि कर्तृत्वादि । नित्यम् , अमुक्तिप्रसङ्गात् । न चानित्यमपि निरुपादानम् , भावकार्यस्योपादाननियमात् । न च अनात्मा तदुपादानम् , आत्मनि तत्प्रतिभानात् । न चात्मैव तदुपादानम् , कूटस्थस्य तस्याविद्यां विना तदयोगात् इत्याह -
अविक्रियत्वादिति ।
कर्तृत्वाभावेऽपि कारयितृत्वं स्यात् , इत्याशङ्क्याह -
विक्रियावानिति ।
आत्मनि कर्तृत्वादिप्रतिभानस्य अनाद्यनिर्वाच्यमज्ञानमुपादानम् , तन्निवृत्तिश्च तत्त्वज्ञानादित्युक्तम् ।
इदानीं कर्तृत्वकारयितृत्वयोरविद्याकृतत्वे भगवतोऽनुमतिं दर्शयति -
तदेतदिति ।
विदुषो यदि कर्माधिकाराभावो भगवतोऽभिमतः, तर्हि कुत्र तस्य जीवतोऽधिकारः स्यात् ? इति पृच्छति -
क्व पुनरिति ।
‘ज्ञाननिष्ठायाम्’ इत्युक्तं स्मारयति -
उक्तमिति ।
तदङ्गभूते सर्वकर्मसंन्यासे च तस्याधिकारोऽस्तीत्याह -
तथेति ।
वक्ष्यमाणे वाक्ये सर्वकर्मसंन्यासो न प्रतिभाति, मानसानामेव कर्मणां विशेषणवशात् त्यागावगमात् इति शङ्कते -
नन्विति ।
विशेषणान्तरमाश्रित्य दूषयति -
न ; सर्वेति ।
मनसेति विशेषणात् मानसेष्वेव कर्मसु सर्वशब्दः सङ्कुचितः स्यात् इति शङ्कते -
मानसानामिति ।
सर्वात्मना मनोव्यापारत्यागे व्यापारान्तराणामनुपपत्तेः सर्वकर्मसंन्यासः सिध्यतीति परिहरति -
नेत्यादिना ।
मानसेष्वपि कर्मसु संन्यासे सङ्कोचात् न वागादिव्यापारानुपपत्तिरिति शङ्कते -
शास्त्रीयाणामिति ।
अन्यानीति ।
अशास्त्रीयवाक्कायकर्मकारणानि अशास्त्रीयाणि मानसानि । तानि च सर्वाणि कर्माणीत्यर्थः ।
वाक्यशेषमादाय दूषयति -
न ; नैवेति ।
न हि विवेकबुद्ध्या सर्वाणि कर्माण्यशास्त्रीयाणि संन्यस्य तिष्ठतीति युक्तम् , ‘नैव कुर्वन्’(भ. गी. ५-१३) इत्यादिविशेषणस्य विवेकबुद्धेश्च त्यागहेतोस्तुल्यत्वादित्यर्थः ।
भगवदभिमतसर्वकर्मसंन्यासस्य अवस्थाविेशेषे सङ्कोचं दर्शयन्नाशङ्कते -
मरिष्यत इति ।
संन्यासो जीवदवस्थायामेव अत्र विवक्षित इत्यत्र लिङ्गं दर्शयन्नुत्तरमाह -
न ; नवेति ।
अनुपपत्तिमेव स्फोरयति -
न हीति ।
अन्वयविशेषान्वाख्यानेन लिङ्गासिद्धिं चोदयति -
अकुर्वत इति ।
विवेकवशात् अशेषाण्यपि कर्माणि देहे यथोक्ते निक्षिप्य अकुर्वन् अकारयंश्च विद्वानवतिष्ठते । तथा च - देहे कर्माणि संन्यस्य अकुर्वतोऽकारयतश्च सुखमासनमिति सम्बन्धसम्भवात् विशेषणस्य सति देहे, कर्मत्यागाविषयत्वाभावात् जीवतः सर्वकर्मत्यागो नास्तीत्यर्थः । अथवा अकुर्वत इत्यादि पूर्वत्रैव सम्बन्धनीयम् । लिङ्गासिद्धिचोद्यं तु देहे संन्यस्येत्यारभ्य उन्नेयम् ।
आत्मनः सर्वत्र अविक्रियत्वनिर्धारणात् देहसम्बन्धमन्तरेण कर्तृत्वकारयितृत्वाप्राप्तेः अप्राप्तप्रतिषेधप्रसङ्गपरिहारार्थम् अस्मदुक्त एव सम्बन्धः साधीयानिति समाधत्ते -
न ; सर्वत्रेति ।
श्रुतिषु स्मृतिषु चेत्यर्थः ।
किञ्च - सम्बन्धस्य आकाङ्क्षासंनिधियोग्यताधीनत्वात् आकाङ्क्षावशात् अस्मदभिमतसम्बन्धसिद्धिरित्याह -
आसनेति ।
भवदिष्टस्तु सम्बन्धो न सिध्यति, आकाङ्क्षाभावात् , इत्याह -
तदनपेक्षत्वाच्चेति ।
संन्यासशब्दस्य निक्षेपार्थत्वात् तस्य च अघिकरणसापेक्षत्वात् अस्मदिष्टसम्बन्धसिद्धिरित्याशङ्क्याह -
सम्पूर्वस्त्विति ।
अन्यथा उपसर्गवैयर्थ्यात् इत्यर्थः ।
मनसा विवेकविज्ञानेन सर्वकर्माणि परित्यज्य आस्ते देहे विद्वान् इत्यस्यैव सम्बन्धस्य साधुत्वं मत्वोपसंहरति -
तस्मादिति ।
सर्वव्यापारोपरमात्मनः संन्यासस्य अविक्रियात्मज्ञानाविरोधित्वात् प्रयोजकज्ञानवतो वैधे संन्यासेऽधिकारः, सम्यग्ज्ञानवतस्तु अवैधे स्वाभाविके फलात्मनि इति विभागमभ्युपेत्य उक्तेऽर्थे वाक्यशेषानुगुण्यं दर्शयति -
इति तत्र तत्रेति
॥ २१ ॥
आत्मनोऽविक्रियत्वेन कर्मासम्भवं प्रतिपाद्य अविक्रियत्वहेतुसमर्थनार्थमेव उत्तरग्रन्थमवतारयति -
प्रकृतं त्विति ।
किं तत्प्रकृतम् ? इति शङ्कमानं प्रत्याह -
तत्रेति ।
अविनाशित्वमित्युपलक्षणम् , अविक्रियत्वमित्यर्थः ।
तदेव दृष्टान्तेन स्पष्टयितुमुत्तरश्लोकमुत्थापयति -
तदित्यादिना ।
आत्मनः स्वतो विक्रियाभावेऽपि पुरातनदेहत्यागे नूतनदेहोपादाने च विक्रियावत्त्वध्रौव्यात् अविक्रियत्वमसिद्धमिति चेत् , तत्राह -
वासांसीति ।
शरीराणि जीर्णानि - वयोहानिं गतानि, वलीपलितादिसङ्गतानीत्यर्थः ।
वाससां पुरातनानां परित्यागे, नवानां चोपादाने त्यागोपादानकर्तृभूतलौकिकपुरुषस्यापि अविकारित्वेन एकरूपत्ववत् , आत्मनो देहत्यागोपादानयोरविरुद्धं अविक्रियत्वमिति वाक्यार्थमाह -
पुरुषवदिति
॥ २२ ॥
पृथिव्यादिभूतचतुष्टयप्रयुक्तविक्रियाभाक्त्वात् आत्मनोऽसिद्धं अविक्रियत्वमिति शङ्कते -
कस्मादिति ।