अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

द्वितीयोऽध्यायः (१)

‘अहिंसा परमो धर्मो भिक्षाशनं च ‘ इत्येवंलक्षणया बुद्ध्या युद्ध­वै­मु­ख्य­म­र्जु­नस्य श्रुत्वा स्वपुत्राणां राज्यै­श्व­र्य­म­प्र­च­लि­त­म­व­धार्य स्वस्थहृदयं धृतराष्ट्रं दृष्ट्वा तस्य दुरा­शा­म­प­ने­ष्या­मीति मनीषया सञ्जयस्तं प्रत्यु­क्त­वा­नि­त्याह -
सञ्जय इति ।
परमेश्वरेण स्मार्यमाणोऽपि कृत्याकृत्ये सहसा नार्जुनः सस्मार, विप­र्य­य­प्र­यु­क्तस्य शोकस्य दृढ­त­र­मो­ह­हे­तु­त्वात् ।

तथापि तं भगवान् नोपे­क्षि­त­वा­नि­त्याह -
तं तथेति ।
तं - प्रकृतं पार्थं, तथा - स्वज­न­म­र­ण­प्र­स­ङ्ग­द­र्श­नेन कृपया - करुणया आविष्टं - अधिष्ठितम् , अश्रुभिः पूर्णे समाकुले चेक्षणे यस्य तम् , अश्रु­व्या­प्त­त­र­लाक्षं विषीदन्तं - शोचन्तं इदं - वक्ष्यमाणं वाक्यं - सोपपत्तिकं वचनं मधुनामानमसुरं सूदितवानिति मधुसूदनो भगवानुक्तवान् , न तु यथो­क्त­म­र्जु­न­मु­पे­क्षि­त­वा­नि­त्यर्थः ॥ १ ॥

किं तद्वा­क्य­मि­त्य­पे­क्षा­या­माह –
श्रीभगवानिति ।
कुतो - हेतोस्त्वा - त्वां सर्व­क्ष­त्रि­य­प्र­वरं कश्मलं - मलिनं शिष्टगर्हितं युद्धात् पराङ्मुखत्वं विषमे - सभयस्थाने समुपस्थितं - प्राप्तम् ? अनार्यैः - शास्त्रा­र्थ­म­वि­द्व­द्भि­र्जुष्टं - सेवितम् , अस्वर्ग्यं - स्वर्गानर्हं - प्रत्यवायकारणम् , इह च अकीर्तिकरम् - अयशस्करम् । अर्जुननाम्ना प्रख्यातस्य तव नैत­द्यु­क्त­मि­त्यर्थः ॥ २ ॥

पुनरपि भगवानर्जुनं प्रत्याह -
क्लैब्यमिति ।
क्लैब्यं - क्लीब­भा­व­म­धैर्यं, मा स्म गमः - मा गाः । हे पार्थ – पृथातनय । न हि त्वयि - महेश्वरेणापि कृताहवे प्रख्यातपौरुषे महामहिमनि एतदुपपद्यते । क्षुद्रं - क्षुद्रत्वकारणं हृदयदौर्बल्यं - मनसो दुर्ब­ल­त्व­म­धैर्यं त्यक्त्वो­त्तिष्ठ - युद्धायोपक्रमं कुरु । हे परन्तप - परं शत्रुं तापयतीति तथा सम्बोध्यते ॥ ३ ॥

एवं भगवता प्रति­बो­ध्य­मा­नोऽपि शोका­भि­भू­त­चे­त­स्त्वात् अप्रतिबुध्यमानः सन् अर्जुनः स्वाभिप्रायमेव प्रकृतं भगवन्तं प्रत्युक्तवान् -
कथमित्यादिना ।
भीष्मं पितामहं द्रोणं चाचार्यं सङ्ख्ये - रणे हे मधुसूदन, इषुभिः, यत्र वाचापि योत्स्यामीति वक्तुमनुचितं तत्र कथं बाणैर्योत्स्ये इति भावः । सायकैस्तौ कथं प्रतियोत्स्यामि - प्रतियोत्स्ये ? तौ हि पूजार्हौ - कुसु­मा­दि­भि­र­र्च­न­योग्यौ । हे अरिसूदन - सर्वानेव अरीन् अयत्नेन सूदितवानिति भगवानेवं सम्बोध्यते ॥ ४ ॥

राज्ञां धर्मेऽपि युद्धे गुर्वादिवधे वृत्ति­मा­त्र­फ­लत्वं गृहीत्वा पापमारोप्य ब्रूते -
गुरूनिति ।
गुरून् - भीष्मद्रोणादीन् भ्रात्रा­दीं­श्चात्र प्राप्ता­न­हिं­सित्वा । महानुभावान् - महामाहात्म्यान् श्रुता­ध्य­य­न­स­म्प­न्नान् । श्रेयः - प्रशस्यतरं युक्तं भोक्तुं - अभ्यवहर्तुम् । भैक्षं - भिक्षाणां समूहः । भिक्षाशनं नृपादीनां निषिद्धमपि इह लोके - व्यवहारभूमौ । न हि गुर्वादिहिंसया राज्य­भो­गोऽ­पे­क्ष्यते । किञ्च हत्वा गुर्वा­दी­न­र्थ­का­मा­नेव भुञ्जीय, न मोक्षमनुभवेयम् । इहैव भोगः, न स्वर्गे ।

अर्थकामानेव विशिनष्टि -
भोगानिति ।
भुज्यन्ते इति भोगाः, तान् रुधि­र­प्र­दि­ग्धान् - लोहितलिप्तानिव अत्य­न्त­ग­र्हि­तान् , अतो भोगान् गुरु­व­धा­दि­सा­ध्यान् परित्यज्य भिक्षाशनमेव युक्तमित्यर्थः ॥ ५ ॥

क्षत्रियाणां स्वध­र्म­त्वा­द्यु­द्ध­मेव श्रेय­स्क­र­मि­त्या­श­ङ्क्याह -
न चैतदिति ।
एतदपि न जानीमो भैक्षयुद्धयोः कतरन्नोऽस्माकं गरीयः - श्रेष्ठम् , किं भैक्षं हिंसा­शू­न्य­त्वात् , उत युद्धं स्ववृत्तित्वात् ? इति । सन्दिग्धा च जयस्थितिः । किं साम्यमेवोभयेषां यद्वा वयं जयेम - अतिशयीमहि, यदि वा नोऽस्मान् धार्तराष्ट्राः - दुर्योधनादयो जयेयुः ? जातोऽपि जयो न फलवान् , यतो यान् बन्धून् हत्वा न जिजीविषामः - जीवितुं नेच्छामः, ते एवावस्थिताः, प्रमुखे - सम्मुखे, धार्तराष्ट्राः - धृत­रा­ष्ट्र­स्या­प­त्यानि । तस्मा­द्भै­क्षा­द्यु­द्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ॥ ६ ॥

सम­धि­ग­त­सं­सा­र­दो­ष­जा­तस्य अतितरां निर्विण्णस्य मुमु­क्षो­रु­प­स­न्नस्य आत्मो­प­दे­श­स­ङ्ग्र­ह­णेऽ­धि­कारं सूचयति -
कार्पण्येति ।
योऽल्पां - स्वल्पामपि स्वक्षतिं न क्षमते स कृपणः । तद्विधत्वात् , अखिलोऽनात्मवित् अप्रा­प्त­प­र­म­पु­रु­षा­र्थ­तया कृपणो भवति । ‘यो वा एतदक्षरं गार्ग्य­वि­दि­त्वाऽ­स्मा­ल्लो­कात् प्रैति स कृपणः’(बृ. उ. ३-८-१०) इति श्रुतेः । तस्य भावः कार्पण्यं - दैन्यं, तेन दोषेणोपहतः - दूषितः स्वभावः - चित्तमस्येति विग्रहः सोऽहं पृच्छामि - अनुयुञ्जे, त्वा - त्वाम् । धर्मसम्मूढचेताः - धर्मो धारयतीति परं ब्रह्म, तस्मिन् संमूढं - अविवेकतां गतं चेतो यस्य ममेति तथाऽहमुक्तः । किं पृच्छसि ? यन्नि­श्चि­त­मै­का­न्ति­क­म­ना­पे­क्षिकं श्रेयः स्यात् , न रोग­नि­वृ­त्ति­व­द­नै­का­न्ति­क­म­ना­त्य­न्ति­कम् , स्वर्ग­व­दा­पे­क्षिकं वा, तन्निःश्रेयसं मे - मह्यं ब्रूहि । ‘नापु­त्रा­या­शि­ष्याय’(श्वे. उ. ६-२२) इति निषेधान्न प्रवक्तव्यमिति मा मंस्थाः । यतः शिष्यस्तेऽहं भवामि । शाधि - अनुशाधि मां निःश्रेयसम् । त्वामहं प्रपन्नोऽस्मि ॥ ७ ॥

कुतो निःश्रे­य­स­मे­वे­च्छसि तत्राह -
न हीति ।
यस्मान्न प्रपश्यामि । किं न पश्यसि ? ममापनुद्यात् - अपनयेत् । यत् शोकमुच्छोषणं - प्रत­प­न­मि­न्द्रि­याणां तन्न पश्यामि ।

ननु शत्रून् निहत्य राज्ये प्राप्ते शोकनिवृत्तिस्ते भविष्यति, नेत्याह -
अवाप्येति ।
अविद्यमानः सपत्नः शत्रुर्यस्य तद् दृढं राज्यं - राज्ञः कर्म प्रजा­र­क्ष­ण­प्र­शा­स­नादि । तदिदमस्यां भूमाववाप्यापि शोकापनयकारणं न पश्यामीत्यर्थः ।

तर्हि देवे­न्द्र­त्वा­दि­प्राप्त्या शोकापनयस्ते भविष्यति, नेत्याह -
सुराणामपीति ।
तेषामाधिपत्यं - अधिपतित्वं स्वाम्य­मि­न्द्रत्वं ब्रह्मत्वं वा, तदवाप्यापि मम शोको नाप­ग­च्छे­दि­त्यर्थः ॥ ८ ॥

एवमर्जुनेन स्वाभिप्रायं भगवन्तं प्रति प्रकाशितं सञ्जयो राजा­न­मा­वे­दि­त­वा­नि­त्याह -
सञ्जय इति ।
एवं प्रागु­क्त­प्र­का­रेण भगवन्तं प्रत्युक्त्वा परन्तपोऽर्जुनो न योत्स्ये - न सम्प्रहरिष्ये, अत्य­न्ता­स­ह्य­शो­क­प्र­स­ङ्गात् इति गोविन्दमुक्त्वा तूष्णीं - अब्रुवन् बभूव, ह किलेत्यर्थः ॥ ९ ॥

तमर्जुनं सेन­यो­र्वा­हि­न्यो­रु­भ­यो­र्मध्ये विषीदन्तं - विषादं कुर्व­न्त­म­ति­दुः­खितं शोक­मो­हा­भ्या­म­भि­भूतं स्वधर्मात् प्रच्युतप्रायं प्रतीत्य प्रहसन्निव - उपहासं कुर्वन्निव, तदाश्वासार्थं हे भारत - भरतान्वय ! इत्येवं सम्बोध्य, भगवानिदं - प्रश्नोत्तरं निःश्रे­य­सा­धि­ग­म­सा­धनं वच­न­मू­चि­वा­नि­त्याह -
तमुवाचेति
॥ १० ॥

अती­त­स­न्द­र्भ­स्ये­त्थ­म­क्ष­रो­त्थ­मर्थं विवक्षित्वा तस्मिन्नेव वाक्य­वि­भा­ग­म­व­ग­म­यति -
दृष्ट्वा त्विति ।
‘धर्मक्षेत्रे कुरुक्षेत्रे’(भ. भ. गी. १-१) इत्या­दि­रा­द्य­श्लो­क­स्ता­व­देकं वाक्यम् । शास्रस्य कथा­स­म्ब­न्ध­प­र­त्वेन पर्यवसानात् । ‘दृष्ट्वा’(भ. भ. गी. १-२) इत्यारभ्य यावत् ‘तूष्णीं बभूव ह’(भ. भ. गी. २-९) इति तावच्चैकं वाक्यम् । इत आरभ्य ‘इदं वचः’(भ. भ. गी. २-१०) इत्येतदन्तो ग्रन्थो भवत्यपरं वाक्यमिति विभागः ।

ननु - आद्यश्लोकस्य युक्त­मे­क­वा­क्य­त्वम् , प्रकृतशास्रस्य महा­भा­र­तेऽ­व­ता­रा­व­द्यो­ति­त्वात् , अन्तिमस्यापि सम्भ­व­त्ये­क­वा­क्य­त्व­म­र्जु­ना­श्वा­सा­र्थ­तया प्रवृत्तत्वात् , तन्मध्यमस्य तु कथ­मे­क­वा­क्य­त्व­मि­त्या­श­ङ्क्या­र्थै­क­त्वा­दि­त्याह -
प्राणिनामिति ।
शोकः - मानसस्तापः, मोहः - विवेकाभावः । आदि­श­ब्द­स्त­द­वा­न्त­र­भे­दार्थः । स एव संसारस्य दुःखात्मनो बीजभूतो दोषः, तस्योद्भवे कारणमहङ्कारो ममकारः तद्धेतुरविद्या च तत्प्र­द­र्श­ना­र्थ­त्वे­नेति योजना ।

सङ्गृहीतमर्थं विवृणोति -
तथा हीति ।
राज्यं - राज्ञः कर्म परिपालनादि । पूजार्हा गुरवः - भीष्मद्रोणादयः । पुत्राः - स्वयमुत्पादिताः सौभद्रादयः । सम्ब­न्धा­न्त­र­म­न्त­रेण स्नेहगोचरा गुरु­पु­त्र­प्र­भृ­तयो मित्र­श­ब्दे­नो­च्यन्ते । उप­का­र­नि­र­पे­क्ष­तया स्वयमुपकारिणो हृदयानुरागभाजो भगवत्प्रमुखाः सुहृदः । स्वजनाः - ज्ञातयो दुर्योधनादयः । सम्बन्धिनः - श्वशु­र­स्या­ल­प्र­भृ­तयो द्रुप­द­धृ­ष्ट­द्यु­म्ना­दयः । परम्परया पितृ­पि­ता­म­हा­दि­ष्व­नु­रा­ग­भाजो राजानो बान्धवाः । तेषु यथोक्तं प्रत्ययं निमित्तीकृत्य यः स्नेहो यश्च तैः सह विच्छेदो, यच्चै­ते­षा­मु­प­घाते पातकं या च लोकगर्हा सर्वं तन्निमित्तं ययोरात्मनः शोक­मो­ह­यो­स्ता­वेतौ संसारबीजभूतौ ‘कथम् ? ‘(भ. गी. २. ४) इत्यादिना दर्शि­ता­वि­त्यर्थः ।

कथं पुनरनयोः संसा­र­बी­ज­यो­र­र्जुने सम्भावनोपपद्यते ? न हि प्रथि­त­म­हा­म­हिम्नो विवेकविज्ञानवतः स्वधर्मे प्रवृत्तस्य तस्य शोक­मो­हा­व­न­र्थ­हेतू सम्भा­वि­ता­वि­त्या­शङ्क्य, विवेकतिरस्कारेण तयो­र्वि­हि­ता­क­र­ण­प्र­ति­षि­द्धा­च­र­ण­का­र­ण­त्वा­द­न­र्था­धा­य­क­यो­रस्ति तस्मिन् सम्भावनेत्याह
शोकमोहाभ्यामिति ।
भिक्षया जीवनं प्राणधारणम् । आदिशब्दात् अशे­ष­क­र्म­सं­न्या­स­ल­क्षणं पारि­व्रा­ज्य­मा­त्मा­भि­ध्या­न­मि­त्यादि गृह्यते ।

किञ्च अर्जुने दृश्यमानौ शोकमोहौ संसारबीजं, शोकमोहत्वात् , अस्म­दा­दि­नि­ष्ठ­शो­क­मो­ह­वत् , इति उपलब्धौ शोकमोहौ प्रत्येकं पक्षी­कृ­त्या­नु­मा­त­व्य­मि­त्याह -
तथा चेति ।
शोक­मो­हा­दी­त्या­दि­श­ब्देन मिथ्या­भि­मा­न­स्ने­ह­ग­र्हा­दयो गृह्यन्ते । स्वभावतः चित्त­दो­ष­सा­म­र्थ्या­दि­त्यर्थः ।

अस्मदादीनामपि स्वधर्मे प्रवृत्तानां विहि­ता­क­र­णा­द्य­भा­वात् न शोकादेः संसारबीजतेति दृष्टान्तस्य साध्यविकलतेति चेत् , तत्राह -
स्वधर्म इति
काया­दी­ना­मि­त्या­दि­श­ब्दा­द­व­शि­ष्टा­नी­न्द्रि­या­ण्या­दी­यन्ते । फलाभिसन्धिः - तद्विषयोऽभिलाषः । कर्तृ­त्व­भो­क्तृ­त्वा­भि­मानः - अहङ्कारः ।

प्रागु­क्त­प्र­का­रेण वागादिव्यापारे सति किं सिध्यति ? तत्राह -
तत्रेति ।
शुभ­क­र्मा­नु­ष्ठा­नेन धर्मोपचयादिष्टं देवादिजन्म, ततः सुखप्राप्तिः, अशु­भ­क­र्मा­नु­ष्ठा­नेन अध­र्मो­प­च­या­द­निष्टं तिर्यगादिजन्म, ततो दुःखप्राप्तिः, व्यामि­श्र­क­र्मा­नु­ष्ठा­ना­दु­भाभ्यां धर्माधर्माभ्यां मनुष्यजन्म, ततः सुखदुःखे भवतः । एवमात्मकः संसारः सन्ततो वर्तत इत्यर्थः ।

अर्जु­न­स्या­न्येषां च शोकमोहयोः संसा­र­बी­ज­त्व­मु­प­पा­दि­त­मु­प­सं­ह­रति -
इत्यत इति ।

तदेवं प्रथमाध्यायस्य द्विती­या­ध्या­यै­क­दे­श­स­हि­तस्य आत्मा­ज्ञा­नो­त्थ­नि­व­र्त­नी­य­शो­क­मो­हा­ख्य­सं­सा­र­बी­ज­प्र­द­र्श­न­प­रत्वं दर्शयित्वा, वक्ष्य­मा­ण­स­न्द­र्भस्य सहे­तु­क­सं­सा­र­नि­व­र्त­क­स­म्य­ग्ज्ञा­नो­प­देशे तात्पर्यं दर्शयति -
तयोश्चेति ।
तत् - यथोक्तं ज्ञानम् , उपदिदिक्षुः - उपदेष्टुमिच्छन् भगवानाहेति सम्बन्धः ।

सर्व­लो­का­नु­ग्र­हार्थं यथोक्तं ज्ञानं भग­वा­नु­प­दि­दि­क्ष­ती­त्य­यु­क्तम् , अर्जुनं प्रत्ये­वो­प­दे­शात् , इत्याशङ्क्याह -
अर्जुनमिति ।

न हि तस्या­म­व­स्था­या­म­र्जु­नस्य भगवता यथोक्तं ज्ञान­मु­प­दे­ष्टु­मि­ष्टम् , किन्तु स्वध­र्मा­नु­ष्ठा­नाद् - बुद्धि­शु­द्ध्यु­त्त­र­का­ल­मि­त्य­भि­प्रे­त्यो­क्तम् -
निमि­त्ती­कृ­त्येति ।

सर्व­क­र्म­सं­न्या­स­पू­र्व­का­दा­त्म­ज्ञा­ना­देव केवलात् कैव­ल्य­प्रा­प्ति­रिति गीता­शा­स्त्रार्थः स्वाभिप्रेतो व्याख्यातः । सम्प्रति वृत्ति­कृ­ता­म­भि­प्रेतं निरसितुमनुवदति -
अत्रेति।
निर्धारितः शास्त्रार्थः सतिसप्तम्या परामृश्यते ।

तेषामुक्तिमेव विवृण्वन् आदौ सैद्धा­न्ति­क­म­भ्यु­प­गमं प्रत्यादिशति -
सर्वकर्मेति ।
वैदिकेन कर्मणा समुच्चयं व्युदसितुं मात्रपदम् । स्मार्तेन कर्मणा समुच्चयं निरसितुमवधारणम् ।

अभ्याससम्बन्धं धुनीते -
केवलादिति ।
नैवेत्येवकारः सम्बध्यते ।

केन तर्हि प्रकारेण ज्ञानं कैव­ल्य­प्रा­प्ति­का­र­णम् ? इत्याशङ्क्याह -
किं तर्हीति ।

किं तत्र प्रमापकम् ? इत्याशङ्क्य, इदमेव शास्रमित्याह -
इति सर्वास्विति ।
यथा प्रया­जा­नु­या­जा­द्यु­प­कृ­त­मेव दर्शपौर्णमासादि स्वर्गसाधनम् , तथा श्रौत­स्मा­र्त­क­र्मो­प­कृ­त­मेव ब्रह्मज्ञानं कैवल्यं साधयति । विमतं सेति­क­र्त­व्य­ता­क­मेव स्वफलसाधकं करणत्वाद् दर्श­पौ­र्ण­मा­सा­दि­वत् । तदेवं ज्ञान­क­र्म­स­मु­च्च­य­परं शास्त्र­मि­त्यर्थः ।

इतिपदम् - आहुरित्यनेन पूर्वेण सम्बध्यते । पौर्वा­प­र्या­लो­च­नायां शास्त्रस्य समुच्चयपरत्वं न निर्धा­रि­त­मि­त्या­श­ङ्क्याह -
ज्ञापकं चेति ।
न केवलं ज्ञानं मुक्तिहेतुः, अपितु समु­च्चि­त­मि­त्य­स्या­र्थस्य स्वध­र्मा­न­नु­ष्ठाने पाप­प्रा­प्ति­व­च­न­सा­म­र्थ्य­ल­क्षणं लिङ्गं गमकमित्यर्थः ।

शास्त्रस्य समुच्चयपरत्वे लिङ्ग­व­द्वा­क्य­मपि प्रमाणमित्याह -
कर्मण्येवेति ।

तत्रैव वाक्या­न्त­र­मु­दा­ह­रति -
कुरु कर्मेति ।

ननु - ‘न हिंस्यात् सर्वा भूतानि’ इत्यादिना प्रतिषिद्धत्वेन हिंसा­दे­र­न­र्थ­हे­तु­त्वा­व­ग­मात् तदुपेतं वैदिकं कर्म अधर्मायेति नानुष्ठातुं शक्यते । तथा च तस्य मोक्षे ज्ञानेन समुच्चयो न सिध्यतीति साङ्ख्य­म­त­मा­शङ्क्य परिहरति -
हिंसादीति ।
आदि­श­ब्दा­दु­च्छि­ष्ट­भ­क्षणं गृह्यते ।

यथोक्ता शङ्का न कर्तव्येत्यत्र आका­ङ्क्षा­पू­र्वकं हेतुमाह -
कथमित्यादिना ।
स्वशब्देन क्षत्रियो विवक्ष्यते ।

युद्धाकरणे क्षत्रियस्य प्रत्य­वा­य­श्र­व­णात् तस्य तं प्रति नित्यत्वेन अव­श्य­क­र्त­व्य­त्व­प्र­ती­ते­र्गु­र्वा­दि­हिं­सा­यु­क्त­म­ति­क्रू­र­मपि कर्म न अधर्मायेति हेत्वन्तरमाह -
तदकरणे चेति ।
आचा­र्या­दि­हिं­सा­यु­क्त­म­ति­क्रू­र­मपि युद्धं न अधर्मायेति ब्रुवता भगवता श्रौतानां हिंसा­दि­यु­क्ता­ना­मपि कर्मणां दूरतो न अधर्मत्वमिति स्पष्टमुपदिष्टं भवति । सामा­न्य­शा­स्त्रस्य व्यर्थ­हिं­सा­नि­षे­धा­र्थ­त्वात् क्रतुविषये चोदि­त­हिं­सा­या­स्त­द­वि­ष­य­त्वात् कुतो वैदि­क­क­र्मा­नु­ष्ठा­ना­नु­प­प­त्ति­रि­त्यर्थः । ज्ञान­क­र्म­स­मु­च्च­यात् कैव­ल्य­सि­द्धि­रि­त्यु­प­सं­हर्तुं इतिशब्दः ।

यत् तावत् ‘ब्रह्मज्ञानं सेति­क­र्त­व्य­ताकं, स्वफलसाधकं, करणत्वात्’ इत्यनुमानं तद्दूषयति -
तदसदिति ।
न हि शुक्ति­का­दि­ज्ञा­न­म­ज्ञा­न­नि­वृत्तौ स्वफले सहकारि किञ्चिदपेक्षते, तथा च व्यभिचारादसाधकं करणत्वमित्यर्थः ।

यत्तु - गीताशास्त्रे समुच्चयस्यैव प्रतिपाद्यतेति प्रतिज्ञातम् , तदपि विभा­ग­व­च­न­वि­रु­द्ध­मि­त्याह -
ज्ञानेति ।

साङ्ख्य­बु­द्धि­र्यो­ग­बु­द्धि­श्चेति बुद्धिद्वयम् । तत्र साङ्ख्य­बु­द्ध्या­श्रयां ज्ञाननिष्ठां व्याख्यातुं साङ्ख्य­श­ब्दा­र्थ­माह -
अशो­च्या­नि­त्या­दि­नेति ।
‘अशोच्यान्’(भ. भ. गी. २-११) इत्यादि ‘स्वधर्ममपि चावेक्ष्य’(भ. भ. गी. २-३१) इत्येतदन्तं वाक्यं यावद्भविष्यति तावता ग्रन्थेन यत् पर­मा­र्थ­भू­त­मा­त्म­तत्त्वं भगवता निरूपितम् , तत् यया सम्यक् ख्यायते - प्रकाश्यते सा वैदिकी सम्यग्बुद्भिः सङ्ख्या । तया प्रकाश्यत्वेन सम्बन्धि प्रकृतं तत्त्वं साङ्ख्य­मि­त्यर्थः ।

साङ्ख्य­श­ब्दा­र्थ­मु­क्तवा तत्प्रकाशिकां बुद्धिं तद्वतश्च साङ्ख्यान् व्याकरोति -
तद्विषयेति ।
तद्विषया बुद्धिः साङ्ख्य­बु­द्धि­रिति सम्बन्धः ।

तामेव प्रकटयति -
आत्मन इति ।
‘न जायते म्रियते वा’(भ. भ. गी. २-२०) इत्या­दि­प्र­क­र­णा­र्थ­नि­रू­प­ण­द्वा­रेण आत्मनः षड्भा­व­वि­क्रि­याऽ­स­म्भ­वात् कूटस्थोऽसाविति या बुद्धि­रु­त्प­द्यते सा साङ्ख्यबुद्धिः, तत्पराः संन्यासिनः साङ्ख्या इत्यर्थः ।

सम्प्रति योग­बु­द्ध्या­श्रयां कर्मनिष्ठां व्याख्यातुकामो योगशब्दार्थमाह -
एतस्या इति ।
यथो­क्त­बु­द्ध्यु­त्पत्तौ विरो­धा­दे­वा­नु­ष्ठा­ना­यो­गात् तस्या­स्त­न्नि­व­र्त­क­त्वात् पूर्वमेव तदु­त्प­त्ते­रा­त्मनो देहा­दि­व्य­ति­रि­क्त­त्वा­द्य­पे­क्षया धर्माधर्मौ निष्कृष्य तेन ईश्वराराधनरूपेण कर्मणा पुरुषो मोक्षाय युज्यते - योग्यः सम्पद्यते । तेन मोक्षसिद्धये परम्परया साध­नी­भू­त­प्रा­गु­क्त­ध­र्मा­नु­ष्ठा­ना­त्मको योग इत्यर्थः ।

अथ योगबुद्धिं विभजन् योगिनो विभजते -
तद्विषयेति ।

उक्ते बुद्धिद्वये भगवतोऽभिमतिं दर्शयति -
तथा चेति ।

साङ्ख्य­बु­द्ध्या­श्रया ज्ञान­नि­ष्ठे­त्ये­त­दपि भग­व­तोऽ­भि­म­त­मि­त्याह -
तयोश्चेति ।

ज्ञानमेव योगो ज्ञानयोगः । तेन हि ब्रह्मणा युज्यते - तादा­त्म्य­मा­प­द्यते । तेन संन्यासिनां निष्ठा - निश्चयेन स्थिति­स्ता­त्प­र्येण परिसमाप्तिः, तां कर्मनिष्ठातो व्यतिरिक्तां निष्ठयोर्मध्ये निष्कृष्य भगवान् वक्ष्यतीति योजना । ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानाम्’(भ. भ. गी. ३-३) इत्ये­त­द्वा­क्य­मु­क्ता­र्थ­वि­ष­य­म­र्थ­तोऽ­नु­व­दति -
पुरेति ।

योग­बु­द्ध्या­श्रया कर्म­नि­ष्ठे­त्य­त्रापि भग­व­द­नु­म­ति­मा­द­र्श­यति -
तथा चेति ।
कर्मैव योगः कर्मयोगः । तेन हि बुद्धि­शु­द्धि­द्वारा मोक्ष­हे­तु­ज्ञा­नाय पुमान् युज्यते । तेन निष्ठां कर्मिणां ज्ञाननिष्ठातो विलक्षणां कर्म­यो­गे­ने­त्या­दिना वक्ष्यति भगवानिति योजना ।

निष्ठाद्वयं बुद्धि­द्व­या­श्रयं भगवता विभ­ज्यो­क्त­मु­प­सं­ह­रति -
एवमिति ।

कया पुनरनुपपत्त्या भगवता निष्ठाद्वयं विभज्योक्तम् ? इत्याशङ्क्याह -
ज्ञानकर्मणोरिति ।
कर्म हि कर्तृ­त्वा­ने­क­त्व­बु­द्ध्या­श्र­यम् , ज्ञानं पुन­र­क­र्तृ­त्वै­क­त्व­बु­द्ध्या­श्र­यम् । तदुभयमित्थं विरु­द्ध­सा­ध­न­सा­ध्य­त्वात् न एकावस्थस्यैव पुरुषस्य सम्भवति । अतो युक्तमेव तयो­र्वि­भा­ग­व­च­न­मि­त्यर्थः ।

भग­व­दु­क्त­वि­भा­ग­व­च­नस्य मूलत्वेन श्रुतिमुदाहरति-
यथेति ।

तत्र ज्ञान­नि­ष्ठा­वि­षयं वाक्यं पठति -
एतमेवेति ।
प्रकृतमात्मानं नित्य­वि­ज्ञ­प्ति­स्व­भावं वेदितुमिच्छन्तः त्रिविधेऽपि कर्मफले वैतृष्ण्यभाजः सर्वाणि कर्माणि परित्यज्य ज्ञाननिष्ठा भवन्तीति पञ्च­म­ल­का­र­स्वी­का­रेण संन्यासविधिं विवक्षित्वा, तस्यैव विधेः शेषेणार्थवादेन ‘किं प्रजया’(बृ. उ. ४-४-२२) इत्यादिना मोक्षफलं ज्ञान­मु­क्त­मि­त्यर्थः ।

ननु - फलाभावात् प्रजाक्षेपो नोपपद्यते, पुत्रे­णै­त­ल्लो­क­ज­यस्य वाक्या­न्त­र­सि­द्ध­त्वात् , इत्याशङ्क्य, विदुषां प्रजा­सा­ध्य­म­नु­ष्य­लो­कस्य आत्म­व्य­ति­रे­के­णा­भा­वात् , आत्म­न­श्चा­सा­ध्य­त्वा­दा­क्षेपो युक्तिमानिति विवक्षित्वाह -
येषामिति ।
इति ज्ञानं दर्शितमिति शेषः ।

तस्मिन्नेव ब्राह्मणे कर्मनिष्ठाविषयं वाक्यं दर्शयति -
तत्रैवेति ।
प्राकृतत्वम् - अत­त्त्व­द­र्शि­त्वे­ना­ज्ञ­त्वम् । स च ब्रह्मचारी सन् गुरुसमीपे यथाविधि वेदमधीत्य अर्थज्ञानार्थं धर्मजिज्ञासां कृत्वा तदुत्तरकालं लोक­त्र­य­प्रा­प्ति­सा­धनं पुत्रादित्रयं ‘सोऽकामयत जाया मे स्यात्’(बृ. उ. १-४-१७) इत्यादिना कामितवानिति श्रुतमित्यर्थः ।

वित्तं विभजते -
द्विप्रकारमिति ।

तदेव प्रका­र­द्वै­रू­प्य­माह -
मानुषमिति ।

मानुषं वित्तं व्याचष्टे -
कर्मरूपमिति ।

तस्य फल­प­र्य­व­सा­यि­त्व­माह -
पितृलोकेति ।

दैवं वित्तं विभजते -
विद्यां चेति ।

तस्यापि फलनिष्ठत्वमाह -
देवेति ।

कर्म­नि­ष्ठा­वि­ष­य­त्वे­नो­दा­हृ­त­श्रु­ते­स्ता­त्प­र्य­माह -
अविद्येति ।
अज्ञस्य काम­ना­वि­शि­ष्ट­स्यैव कर्माणि ‘सोऽकामयत’(बृ. उ. १-४-१७) इत्यादिना दर्शि­ता­नी­त्यर्थः ।

ज्ञान­नि­ष्ठा­वि­ष­य­त्वेन दर्शितश्रुतेरपि तात्पर्यं दर्शयति -
तेभ्य इति ।
कर्मसु विरक्तस्यैव संन्यास - पूर्विका ज्ञाननिष्ठा प्रागु­दा­हृ­त­श्रुत्या दर्शितेत्यर्थः ।

अवस्थाभेदेन ज्ञान­क­र्म­णो­र्भि­न्ना­धि­का­र­त्वस्य श्रुतत्वात् तन्मूलेन भगवतो विभागवचनेन शास्त्रस्य समुच्चयपरत्वं प्रति­ज्ञा­त­म­प­बा­धि­त­मिति साधितम् । किञ्च समुच्चयो ज्ञानस्य श्रौतेन, स्मार्तेन वा कर्मणा विवक्ष्यते ? यदि प्रथमस्तत्राह -
तदेतदिति ।

समु­च्च­येऽ­भि­प्रेते प्रश्ना­नु­प­पत्तिं दोषान्तरमाह
न चेति ।

तामेवानुपपत्तिं प्रकटयति-
एकपुरुषेति ।
यदि समुच्चयः शास्त्रार्थो भगवता विवक्षितः तदा ज्ञान­क­र्म­णो­रे­केन पुरु­षे­णा­नु­ष्ठे­य­त्व­मेव तेनोक्तमर्जुनेन च श्रुतम् । तत् कथं तद­स­म्भ­व­म­नु­क्त­म­श्रुतं च मिथ्यैव श्रोता भगवत्यारोपयेत् ? न च तदारोपादृते किमिति मां कर्मण्येव अतिक्रूरे युद्धलक्षणे नियोजयसीति प्रश्नोऽवकल्पते । तथा च प्रश्नालोचनया प्रष्टृ­प्र­ति­वक्त्रोः शास्त्रार्थतया समु­च्च­योऽ­भि­प्रेतो न भवतीति प्रति­भा­ती­त्यर्थः ।

किञ्च समुच्चयपक्षे कर्मापेक्षया बुद्धे­र्ज्या­यस्त्वं भगवता पूर्व­म­नु­क्त­म­र्जु­नेन चाश्रुतं कथमसौ तस्मि­न्ना­रो­प­यि­तु­म­र्हति ? ततश्चानुवादवचनं श्रोतु­र­नु­चि­त­मि­त्याह -
बुद्धेश्चेति ।

इतश्च समुच्चयः शास्त्रार्थो न सम्भवति, अन्यथा पञ्च­मा­दा­व­र्जु­नस्य प्रश्ना­नु­प­प­त्ते­रि­त्याह -
किञ्चेति ।

ननु - सर्वान् प्रत्युक्तेऽपि समुच्चये, नार्जुनं प्रत्यु­क्तोऽ­सा­विति तदी­य­प्र­श्नो­प­प­त्ति­रि­त्या­श­ङ्क्याह -
यदीति ।
एतयोः - कर्म­त­त्त्या­ग­यो­रिति यावत् ।

ननु - कर्मापेक्षया कर्म­त्या­ग­पू­र्व­कस्य ज्ञानस्य प्राधान्यात् तस्य श्रेयस्त्वात् तद्वि­ष­य­प्र­श्नो­प­प­त्ति­रिति चेत् , नेत्याह -
न हीति ।
तथैव समुच्चये पुरुषार्थसाधने भगवता दर्शिते सत्यन्यतरगोचरो न प्रश्नो भवतीति शेषः ।

समुच्चये भगवतोक्तेऽपि तद­ज्ञा­ना­द­र्जु­नस्य प्रश्नो­प­प­त्ति­रिति शङ्कते -
अथेति ।

अज्ञाननिमित्तं प्रश्न­म­ङ्गी­कृ­त्यापि प्रत्याचष्टे -
तथापीति ।
भगवतो भ्रान्त्यभावेन पूर्वा­प­रा­नु­स­न्धा­न­स­म्भ­वा­दि­त्यर्थः ।

प्रश्ना­नु­रू­प­त्व­मेव प्रतिवचनस्य प्रकटयति -
मयेति ।

व्याव­र्त्य­मं­श­मा­द­र्श­यति -
न त्विति ।

प्रतिवचनस्य प्रश्ना­न­नु­रू­प­त्व­मेव स्पष्टयति -
पृष्टादिति ।

.श्रौतेन कर्मणा समुच्चयो ज्ञानस्येति पक्षं प्रतिक्षिप्य पक्षान्तरं प्रतिक्षिपति -
नापीति ।
श्रुति­स्मृ­त्यो­र्ज्ञा­न­क­र्म­णो­र्वि­भा­ग­व­चनं आदिशब्दगृहीतं बुद्धे­र्ज्या­यस्त्वं, पञ्चमादौ प्रश्नः, भगवत्प्रतिवचनं, सर्वमिदं श्रौतेनेव स्मार्तेनापि कर्मणा बुद्धेः समुच्चये विरुद्धं स्यादित्यर्थः ।

द्विती­य­प­क्षा­स­म्भवे हेत्वन्तरमाह -
किञ्चेति ।

समुच्चयपक्षे प्रश्न­प्र­ति­व­च­न­यो­र­स­म्भ­वात् नेदं गीताशास्त्रं तत्प­र­मि­त्यु­प­सं­ह­रति -
तस्मादिति ।
विशु­द्ध­ब्र­ह्मा­त्म­ज्ञानं स्वफलसिद्धौ न सहकारिसापेक्षम् , अज्ञा­न­नि­वृ­त्ति­फ­ल­त्वात् , रज्ज्वा­दि­त­त्त्व­ज्ञा­न­वत् । अथवा - बन्धः सहायानपेक्षेण ज्ञानेन निवर्त्यते, अज्ञा­ना­त्म­क­त्वात् , रज्जु­स­र्पा­दि­व­दिति भावः ।

ननु - ‘कुर्या­द्वि­द्वां­स्त­थाऽ­स­क्त­श्चि­की­र्षु­र्लो­क­स­ङ्ग्र­हम्’(भ. भ. गी. ३-२५) इति वक्ष्यमाणत्वात् कथं गीताशास्त्रे समुच्चयो नास्ति ? तत्राह -
यस्य त्विति ।
चोद­ना­सू­त्रा­नु­सा­रेण विधि­तोऽ­नु­ष्ठे­यस्य कर्मणो धर्मत्वात् , व्यापारमात्रस्य तथात्वाभावात् तत्त्वविदश्च वर्णा­श्र­मा­भि­मा­न­शू­न्यस्य अधि­का­र­प्र­ति­प­त्त्य­भा­वात् , यागा­दि­प्र­वृ­त्ती­ना­म­वि­द्या­ले­शतो जायमानानां कर्माभासत्वात् , ‘कुर्या­द्वि­द्वान्’(भ. भ. गी. ३-२५) इत्यादिवाक्यं न समु­च्च­य­प्रा­प­क­मिति भावः । वाशब्दश्चार्थे । द्वितीयस्तु विवि­दि­षा­वा­क्य­स्थ­सा­ध­ना­न्त­र­स­ङ्ग्र­हार्थः ।

सांसारिकं ज्ञानं व्यावर्तयति -
परमार्थेति ।

तदेवाभिनयति -
एकमिति ।
प्रवृ­त्ति­रू­प­मिति रूप­ग्र­ह­ण­मा­भा­स­त्व­प्र­द­र्श­ना­र्थम् । कर्मा­भा­स­स­मु­च्च­यस्तु यादृच्छिकत्वात् न मोक्षं फलयतीति शेषः ।

किञ्च, ज्ञानिनो यागा­दि­प्र­वृ­त्तिर्न ज्ञानेन तत्फलेन समुच्चीयते, फला­भि­स­न्धि­वि­क­ल­प्र­वृ­त्ति­त्वात् अह­ङ्का­र­वि­धु­र­प्र­वृ­त्ति­त्वाद्वा भग­व­त्प्र­वृ­त्ति­व­दि­त्याह -
यथेति ।

हेतु­द्व­य­स्या­सि­द्धि­मा­शङ्क्य परिहरति -
तत्त्वविदिति ।
कूटस्थं ब्रह्मैवाहमिति मन्वानो विद्वान् प्रवृत्तिं तत्फलं वा नैव स्वगतत्वेन पश्यति, रूपादिवद् दृश्यस्य द्रष्टृ­ध­र्म­त्वा­यो­गात् । किन्तु कार्य­क­र­ण­स­ङ्घा­त­ग­त­त्वे­नैव प्रवृत्त्यादि प्रतिपद्यते । ततस्तत्त्वविदो व्याख्या­न­भि­क्षा­ट­ना­दा­व­ह­ङ्का­रस्य तृप्त्या­दि­फ­ला­भि­स­न्धेश्च आभासत्वात् नासिद्धं हेतु­द्व­य­मि­त्यर्थः ।

ननु - ज्ञानोदयात् प्राग­व­स्था­या­मि­वो­त्त­र­का­लेऽपि प्रति­नि­य­त­प्र­वृ­त्त्या­दि­द­र्श­नात् न तत्त्व­द­र्शि­नि­ष्ठ­प्र­वृ­त्त्या­दे­रा­भा­स­त्व­मिति, तत्राह -
यथा चेति ।
स्वर्गादिरेव काम्यमानत्वात् कामः, तदर्थिनः - स्वर्गादिकामस्य अग्नि­हो­त्रा­दे­र­पे­क्षि­त­स्व­र्गा­दि­सा­ध­न­स्या­नु­ष्ठा­ना­र्थ­म­ग्नि­मा­धाय व्यवस्थितस्य तस्मिन्नेव काम्ये कर्मणि प्रवृत्तस्य अर्धकृते केनापि हेतुना कामे विनष्टे तदे­वा­ग्नि­हो­त्रादि निर्वर्तयतो न तत् काम्यं भवति, नित्य­का­म्य­वि­भा­गस्य स्वाभा­वि­क­त्वा­भा­वात् , कामो­प­ब­न्धा­नु­प­ब­न्ध­कृ­त­त्वात् । तथा विदुषोऽपि विध्य­धि­का­रा­भा­वात् यागा­दि­प्र­वृ­त्तीनां कर्मा­भा­स­ते­त्यर्थः ।

विद्व­त्प्र­वृ­त्तीनां कर्मा­भा­स­त्व­मि­त्यत्र भग­व­द­नु­म­ति­मु­प­न्य­स्यति -
तथा चेति ।

ननु - विद्व­द्व्या­पा­रेऽपि कर्म­श­ब्द­प्र­यो­ग­द­र्श­नात् तद्व्यापारस्य कर्मा­भा­स­त्वा­नु­प­पत्तेः समु­च्च­य­सि­द्धि­रिति, तत्राह -
यच्चेति ।

ज्ञानकर्मणोः समुच्चित्यैव संसि­द्धि­हे­तुत्वे प्रतिपन्ने कुतो विभज्य अर्थज्ञानमिति पृच्छति -
तत्कथमिति ।

तत्र, ‘किं जनकादयोऽपि तत्त्वविदः प्रवृत्तकर्माणः स्युः, आहो­स्वि­द­त­त्त्व­विदः ? ‘ इति विक्ल्प्य, प्रथमं प्रत्याह -
यदीति ।

तत्त्ववित्त्वे कथं प्रवृ­त्त­क­र्म­त्वम् , कर्म­णा­म­कि­ञ्चि­त्क­र­त्वात् , इत्याशङ्क्याह -
ते लोकेति ।

तेषा­मु­क्त­प्र­यो­ज­ना­र्थ­मपि न प्रवृ­त्ति­र्युक्ता सर्व­त्रा­प्यु­दा­सी­न­त्वात् , इत्याशङ्क्याह -
गुणा इति ।

इन्द्रियाणां विषयेषु प्रवृत्तिद्वारा तत्त्वविदां प्रवृ­त्त­क­र्म­त्वेऽपि ज्ञानेनैव तेषां मुक्तिरित्याह -
ज्ञानेनेति ।

उक्तमेवार्थं सङ्क्षिप्य दर्शयति -
कर्मेति
कर्मणेत्यादौ बाधि­ता­नु­वृत्त्या प्रवृत्त्याभासो गृह्यते ।

द्वितीयमनुवदति -
अथेति ।

तत्र वाक्यार्थं कथयति -
ईश्वरेति ।

विभज्य विज्ञेयत्वं वाक्या­र्थ­स्यो­क्त­मु­प­सं­ह­रति -
इति व्याख्येयमिति ।

कर्मणां चित्त­शु­द्धि­द्वारा ज्ञान­हे­तु­त्व­मि­त्यु­क्तेऽर्थे वाक्यशेषं प्रमाणयति -
एतमेवेति ।

‘योगिनः कर्म कुर्वन्ति’(भ. भ. गी. ५-११) इत्या­दि­वा­क्य­म­र्थ­तोऽ­नु­व­दति -
सत्त्वेति ।

‘स्वकर्मणा’(भ. भ. गी. १८-४६) इत्यादौ साक्षादेव मोक्षहेतुत्वं कर्मणां वक्ष्य­ती­त्या­श­ङ्क्याह -
स्वकर्मणेति ।
स्वक­र्मा­नु­ष्ठा­ना­दी­श्व­र­प्र­सा­द­द्वारा ज्ञान­नि­ष्ठा­यो­ग्यता लभ्यते । ततो ज्ञाननिष्ठया मुक्तिः । तेन न साक्षात् कर्मणां मुक्ति­हे­तु­ते­त्यग्रे स्फुटी­भ­वि­ष्य­ती­त्यर्थः ।

तत्त्व­ज्ञा­नो­त्त­र­कालं कर्मासम्भवे फलितमुपसंहरति -
तस्मादिति ।

ननु - यद्यपि गीताशास्त्रं तत्त्व­ज्ञा­न­प्र­धा­न­मेकं वाक्यम् , तथापि तन्मध्ये श्रूयमाणं कर्म तद­ङ्ग­म­ङ्गी­क­र्त­व्यम् , प्रक­र­ण­प्रा­मा­ण्यात् इति समुच्चयसिद्धिः, तत्राह -
यथा चेति ।
अर्थशब्देन आत्मज्ञानमेव केवलं कैवल्यहेतुरिति गृह्यते ।

वृत्ति­कृ­ता­म­भि­प्रायं प्रत्याख्याय, स्वाभिप्रेतः शास्त्रार्थः समर्थितः । सम्प्रति ‘अशोच्यान्’(भ. भ. गी. २-११) इत्यस्मात् प्राक्त­न­ग्र­न्थ­स­न्द­र्भस्य प्रागुक्तं तात्प­र्या­र्थ­म­नूद्य ‘अशोच्यान्’ इत्यादेः ‘स्वधर्ममपि चावेक्ष्य’(भ. भ. गी. २-३१) इत्येतदन्तस्य समुदायस्य तात्पर्यमाह -
तत्रेति ।
अत्र हि शास्त्रे त्रीणि काण्डानि । अष्टा­द­श­स­ङ्ख्या­का­ना­म­ध्या­यानां षट्क­त्रि­त­य­मु­पा­दाय त्रैविध्यात् । तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति । मध्यमषट्करूपं मध्यमकाण्डं तत्पदार्थं गोचरयति । अन्ति­म­ष­ट्क­ल­क्ष­ण­म­न्तिमं काण्डं पदार्थयोरैक्यं वाक्या­र्थ­म­धि­क­रोति । तज्ज्ञानसाधनानि च तत्र तत्र प्रस­ङ्गा­दु­प­न्य­स्यन्ते, तज्ज्ञानस्य तदधीनत्वात् । तत्त्वज्ञानमेव केवलं कैवल्यसाधनमिति च सर्वत्राविगीतम् । एवं पूर्वोक्तरीत्या गीता­शा­स्त्रार्थे परिनिश्चिते सतीति यावत् । धर्मे संमूढं - कर्त­व्या­क­र्त­व्य­वि­वे­क­वि­कलं चेतो यस्य तस्य, मिथ्याज्ञानवतः अहङ्कारममकारवतः शोकाख्यसागरे दुरुत्तारे प्रविश्य क्लिश्यतो ब्रह्मा­त्मै­क्य­ल­क्ष­ण­वा­क्या­र्थ­ज्ञानं आत्मज्ञानं, तद­ति­रे­के­णो­द्ध­र­णा­सिद्धेः तं अति­भ­क्त­म­ति­स्निग्धं शोका­दु­द्ध­र्तु­मि­च्छन् भगवान् यथो­क्त­ज्ञा­नार्थं तमर्जुनमवतारयन् - पदार्थपरिशोधने प्रवर्तयन् , आदौ त्वम्पदार्थं शोध­यि­तु­म­शो­च्या­नि­त्या­दि­वा­क्य­मा­हेति योजना ।

तदेव वचनमुदाहरति -
श्रीभगवानिति ।

यस्य अज्ञानं तस्य भ्रमः, यस्य भ्रमस्तस्य पदा­र्थ­प­रि­शो­ध­न­पू­र्वकं सम्यग्ज्ञानं वाक्यादुदेतीति ज्ञाना­धि­का­रि­ण­म­भि­प्रे­त्याह -
अशो­च्या­नि­त्या­दीति ।

यत्तु - कैश्चित् , ‘आत्मा वा अरे द्रष्टव्यः’(बृ. उ. २-४-५) इत्या­द्या­त्म­या­था­त्म्य­द­र्श­न­वि­धि­वा­क्या­र्थ­म­नेन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तम् , तदयुक्तम् । कृति­यो­ग्य­तै­का­र्थ­स­म­वे­त­श्रे­यः­सा­ध­न­ताया वा पराभिमतनियोगस्य वा विध्यर्थस्य अत्र अप्रतीयमानस्य कल्प­ना­हे­त्व­भा­वात् । न च दर्शने पुरु­ष­त­न्त्र­त्व­र­हिते विधे­य­या­गा­दि­वि­ल­क्षणे विधिरुपपद्यते । कृत्या­न्त­र्भू­त­स्या­र्हा­र्थ­त्वात् । तव्यो न विधि­म­धि­क­रो­ती­त्य­भि­प्रेत्य व्याचष्टे -
न शोच्या इति ।

कथं तेषा­म­शो­च्य­त्व­मि­त्युक्ते भीष्मा­दि­श­ब्द­वा­च्यानां वा शोच्यत्वम् , तत्पदलक्ष्याणां वेति विकल्प्य, आद्यं दूषयति -
सद्वृ­त्त­त्वा­दिति ।
ये भीष्मा­दि­श­ब्दै­रु­च्यन्ते, ते श्रुति­स्मृ­त्यु­दी­रि­ता­वि­गी­ता­चा­र­व­त्त्वात् न शोच्य­ता­म­श्नु­वी­र­न्नि­त्यर्थः ।

द्वितीयं प्रत्याह -
परमार्थेति ।

अरजते रजतबुद्धिवत् अशोच्येषु शोच्यबुद्ध्या भ्रान्तोऽ­सी­त्याह -
तानिति ।

अनु­शो­च­न­प्र­का­र­म­भि­न­यन् भ्रान्तिमेव प्रकटयति -
ते म्रियन्त इति ।
पुत्र­भा­र्या­दि­प्र­युक्तं सुखमादिशब्देन गृह्यते । इत्य­नु­शो­चि­त­वा­न­सीति सम्बन्धः ।

विरु­द्धा­र्था­भि­धा­यि­त्वे­नापि भ्रान्त­त्व­म­र्जु­नस्य साधयति -
प्रज्ञावतामिति ।
वचनानि - ‘उत्स­न्न­कु­ल­ध­र्मा­णाम्’(भ. भ. गी. १-४४) इत्यादीनि ।

किमेतावता फलितमिति तदाह -
तदेतदिति ।
तत् मौढ्यं - अशोच्येषु शोच्य­दृ­ष्टि­त्वम् । एतत् पाण्डित्यं - बुद्धिमतां वचनभाषित्वमिति यावत् ।

अर्जुनस्य पूर्वो­क्त­भ्रा­न्ति­भाक्त्वे निमि­त्त­मा­त्मा­ज्ञा­न­मि­त्याह -
यस्मादिति ।

ननु - सूक्ष्म­बु­द्धि­भा­क्त्व­मेव पाण्डित्यं न त्वात्मज्ञत्वं, हेत्वभावात् , इत्याशङ्क्याह -
ते हीति ।

पाण्डित्यं - पण्डि­त­भा­व­मा­त्म­ज्ञानं, निर्विद्य - निश्चयेन लब्ध्वा, ‘बाल्येन तिष्ठासेत्’(बृ. उ. ३-५-१) इति बृह­दा­र­ण्य­क­श्रु­ति­मु­क्त­र्था­मु­दा­ह­रति -
पाण्डित्यमिति ।

यथो­क्त­पा­ण्डि­त्य­रा­हित्यं कथं ममा­व­ग­त­मि­त्या­शङ्क्य, कार्य­द­र्श­ना­दि­त्याह -
पर­मा­र्थ­त­स्त्विति ।

यस्मा­दि­त्य­स्या­पे­क्षितं दर्शयति -
अत इति
॥ ११ ॥

नित्य­त्व­म­शो­च्यत्वे कारणमिति सूचितं विवेचयितुं प्रश्नपूर्वकं प्रतिजानीते -
कुत इत्यादिना ।

नित्यत्वमसिद्धं प्रमाणाभावात् इति चोदयति -
कथमिति ।

आत्मा न जायते प्राग­भा­व­शू­न्य­त्वात् , नरविषाणवदिति परिहरति -
न त्वेवेति ।

किञ्च आत्मा नित्यः, भावत्वे सत्यजातत्वात् व्यतिरेकेण घटवत् इत्य­नु­मा­ना­न्त­र­माह -
न चैवेति ।
यत्तु - कैश्चित् आत्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति न त्वित्यादिना श्लोकचतुष्टयेन इत्यादिष्टम् , तदसत् । विशेषवचने हेत्वभावात् , सर्वत्रैव आत्म­या­था­त्म्य­प्र­ति­पा­द­ना­वि­शे­षात् इत्याशयेन ।

‘पदच्छेदः पदा­र्थो­क्ति­र्वा­क्य­यो­जना’ इति त्रितयमपि व्याख्यानाङ्गं सम्पादयति -
न त्वित्यादिना ।

ननु - आत्मनो देहो­त्प­त्ति­वि­ना­श­यो­रु­त्प­त्ति­वि­ना­श­प्र­सि­द्धे­रु­क्त­म­नु­मा­न­द्वयं प्रसि­द्धि­वि­रु­द्ध­तया काला­त्य­या­प­दि­ष्ट­मिति, नेत्याह -
अतीतेष्विति ।
‘चरा­च­र­व्य­पा­श्र­यस्तु स्यात्’(ब्र. सू. २-३-१६) इति न्यायेन आत्मनो जन्म­वि­ना­श­प्र­सि­द्धे­रौ­पा­धि­क­ज­न्य­वि­ना­श­वि­ष­य­त्वात् निरुपाधिकस्य तस्य जन्मा­दि­रा­हि­त्य­मिति भावः ।

यद्यपि तवेश्वरस्य जन्मराहित्यं, तथापि कथं मम ? इत्याशङ्क्याह -
तथेति ।

तथापि भीष्मादीनां कथं जन्माभावः ?, तत्राह -
‘तथा नेमे’ इति ।

द्वितीयमनुमानं प्रप­ञ्च­य­न्नु­त्त­रार्धं व्याचष्टे -
तथेत्यादिना ।

ननु - देहो­त्प­त्ति­वि­ना­श­यो­रा­त्मनो जन्मनाशाभावेऽपि महा­स­र्ग­म­हा­प्र­ल­य­यो­स्त­स्या­ग्नि­वि­स्फु­लि­ङ्ग­दृ­ष्टा­न्त­श्रृत्या जन्म­वि­ना­शा­वे­ष्ट­व्या­वि­त्या­शङ्क्य, ‘नाऽऽत्माऽ­श्रुतेः’(ब्र. सू. २. ३. १७) इति न्यायेन परिहरति -
त्रिष्वपीति ।

‘यावद्विकारं तु विभागो लोकवत्’(ब्र. सू. २-३-७) इति न्यायेन भिन्नत्वात् विका­रि­त्व­मा­त्म­ना­म­नु­मी­यते । भिन्नत्वं च बहु­व­च­न­प्र­यो­ग­प्र­मि­त­मि­त्या­श­ङ्क्याह -
देहेति
॥ १२ ॥

ननु - पूर्वं देहं विहाय अपूर्वं देहमुपादानस्य विक्रि­या­व­त्त्वे­नो­त्प­त्ति­वि­ना­श­व­त्त्व­वि­भ्रमः समुद्भवेत् इति शङ्कते -
तत्रेति ।
अशो­च्य­त्व­प्र­ति­ज्ञायां नित्यत्वे हेतू कृते सतीति यावत् ।

अवस्थाभेदे सत्यपि वस्तुतो विक्रि­या­भा­वा­दा­त्मनो नित्य­त्व­मु­प­प­न्न­मि­त्यु­त्त­र­श्लो­केन दृष्टा­न्ता­व­ष्ट­म्भेन प्रति­पा­द­य­ती­त्याह -
दृष्टान्तमिति ।

न केवलमागमादेव आत्मनो नित्यत्वम् , किन्तु अवस्थान्तरवत् जन्मान्तरे पूर्व­सं­स्का­रा­नु­वृ­त्ते­श्चे­त्याह -
देहिन इति ।
देहवत्त्वं - तस्मि­न्न­हं­म­मा­भि­मा­न­भा­क्त्वम् । तासामिति निर्धारणे षष्ठी । आत्मनः श्रुति­स्मृ­त्यु­प­प­त्ति­भि­र्नि­त्य­त्व­ज्ञानं धीमानित्यत्र धीर्विवक्ष्यते ।

एवं सतीति ।
तत्त्वतो विक्रियाभावात् नित्यत्वे समधिगते सतीत्यर्थः ॥ १३ ॥

आत्मनः श्रुत्या­दि­प्र­मिते नित्यत्वे तदु­त्प­त्ति­वि­ना­श­प्र­यु­क्त­शो­क­मो­हा­भा­वेऽपि, प्रकारान्तरेण शोकमोहौ स्याताम् , इत्या­श­ङ्का­म­नूद्य, उत्तरत्वेन श्लोकमवतारयति -
यद्यपीत्यादिना ।
शीतो­ष्ण­यो­स्ताभ्यां सुखदुःखयोश्च प्राप्तिं निमित्तीकृत्य यो मोहा­दि­र्दृ­श्यते, तस्य अन्व­य­व्य­ति­रे­काभ्यां दृश्य­मा­न­त्व­मा­श्रित्य लौकिकविशेषणम् । ‘अशोच्यान्’(भ. भ. गी. २-११) इत्यत्र यो विद्याधिकारी सूचितः, तस्य ‘तितिक्षुः समाहितो भूत्वा’(बृ. उ. ४-४-२३) इति श्रुते­स्ति­ति­क्षु­त्व­वि­शे­ष­ण­मि­हो­प­दि­श्यते।

व्याख्येयं पदमुपादाय कर­ण­व्यु­त्पत्त्या तस्ये­न्द्रि­य­वि­ष­यत्वं दर्शयति -
मात्रास्पर्शा इत्यादिना ।

षष्ठीसमासं दर्शयन् भाव­व्यु­त्पत्त्या स्पर्श­श­ब्दा­र्थ­माह -
मात्राणामिति ।

तेषा­म­र्थ­क्रि­या­मा­द­र्श­यति -
ते शीतेति ।

सम्प्रति स्पर्प्रा शब्दस्य कर्म­व्यु­त्पत्त्या शब्दा­दि­वि­ष­य­प­र­त्व­मु­पेत्य समासान्तरं दर्शयन् विषयाणां कार्यं कथयति -
अथवेति ।

ननु - शीतोष्णप्रदत्वे सुख­दुः­ख­प्र­द­त्वस्य सिद्धत्वात् किमिति शीतोष्णयोः सुखदुःखाभ्यां पृथग्ग्रहणम् ? इति, तत्राह -
शीतमिति ।
विषयेभ्यस्तु पृथक्कथनं तदन्तर्भूतयोरेव तयोः सुख­दुः­ख­हे­त्वो­रा­नु­कू­ल्य­प्रा­ति­कू­ल्य­यो­रु­प­ल­क्ष­णा­र्थम् । अव्यात्मं हि शीतमुष्णं वा आनुकूलयं प्रातिकूल्यं वा सम्पाद्य बाह्या विषयाः सुखादि जनयन्ति ।

ननु - विष­ये­न्द्रि­य­सं­यो­गस्य आत्मनि सदा सत्त्वात् तत्प्र­यु­क्त­शी­ता­दे­रपि तथात्वात् तन्निमित्तौ हर्षविषादौ तथैव तस्मिन्नापन्नौ इत्या­श­ङ्क्यो­त्त­रार्धं व्याचष्टे -
यस्मादित्यादिना ।
अत्र च ‘कौन्तेय, भारत’ इति सम्बो­ध­ना­भ्या­मु­भ­य­कु­ल­शु­द्ध­स्यैव विद्या­धि­का­रि­त्व­मि­त्ये­त­देव द्योत्यते ॥ १४ ॥

अधिकारिविशेषणं तितिक्षुत्वं नोपयुक्तम् , केवलस्य तस्य पुम­र्था­हे­तु­त्वात् इति शङ्कते -
शीतेति ।

विवे­क­वै­रा­ग्या­दि­स­हितं तन्मो­क्ष­हे­तु­ज्ञा­न­द्वारा तदर्थमिति परिहरति -
श्रृण्विति ।

तितिक्षमाणस्य विवक्षितं लाभमुपलम्भयति -
यं हीति ।
हर्ष­वि­षा­द­र­हि­त­मि­त्यत्र शमा­दि­सा­ध­न­स­म्प­न्न­त्व­मु­च्यते । धीमन्तमिति - नित्या­नि­त्या­वि­वे­क­भा­गि­त्वम् । एतच्चोभयं वैरा­ग्या­दे­रु­प­ल­क्ष­णम् ।

नित्यात्मदर्शनं - त्वमर्थज्ञानम् । साध­न­च­तु­ष्ट­य­व­न्त­म­धि­का­रि­ण­म­नूद्य त्वम्प­दा­र्थ­ज्ञा­न­व­त­स्तस्य मोक्षौ­प­यि­क­वा­क्या­र्थ­ज्ञा­न­यो­ग्य­ता­माह -
स नित्येति
॥ १५ ॥

अधिकारिविशेषणे तितिक्षुत्वे हेत्व­न्त­र­प­र­त्वेन उत्त­र­श्लो­क­म­व­ता­र­यति -
इतश्चेति ।

इतः­श­ब्दा­र्थ­मे­व­स्फु­ट­यति -
यस्मादिति ।

यतः शीतादेः शोकादिहेतोः, अनात्मनो नास्ति वस्तुत्वम् , वस्तुनश्च आत्मनो निर्विकारत्वेन एकरूपत्वम् , अतो मुमु­क्षो­र्वि­शे­षणं तितिक्षुत्वं युक्तमित्याह -
नेत्यादिना ।

कार्य­स्या­स­त्त्वेऽपि कारणस्य सत्त्वेन अत्य­न्ता­स­त्त्वा­सि­द्धि­रि­त्या­शङ्क्य विशिनष्टि -
सकारणस्येति ।

नासत इत्युपादाय, पुन­र्न­का­रा­नु­क­र्ष­ण­म­न्व­या­र्थम् । असतः शून्यस्य अस्ति­त्व­प्र­स­ङ्गा­भा­वात् अप्र­स­क्त­प्र­ति­षे­ध­प्र­स­क्ति­रि­त्या­श­ङ्क्याह -
न हीति ।
विमतं - अतात्त्विकम् , अप्रामणिकत्वाद् - रज्जुसर्पवत् । न हि धर्मिग्राहकस्य प्रत्य­क्षा­दे­स्त­त्त्वा­वे­दकं प्रामाण्यं कल्प्यते, विषयस्य दुर्निरूपत्वात् , अतोऽनिर्वाच्यं द्वैतमित्यर्थः ।

कथं पुन­र­ध्य­क्षा­दि­वि­ष­यस्य शीतो­ष्णा­दि­द्वै­तस्य दुर्निरूपत्वेन अनिर्वाच्यत्वम् ?, तत्राह -
विकारोहीति ।
ततश्च विमतं - मिथ्या आगमापायित्वात् सम्प्र­ति­प­न्न­व­दिति ।

फलितमाह -
विकारश्चेति ।
वाचा­र­म्भ­ण­श्रु­ते­र्द्वै­त­मि­थ्यात्वे अनुग्राहकत्वं दर्शयितुं चकारः ।

किञ्च कार्यं कारणाद्भिन्नम् , अभिन्नं वा इति विकल्प्य, आद्यं दूषयति -
यथेति ।
निरूप्यमाणम् , अन्तर्बहिश्चेति शेषः । विमतं कारणान्न तत्त्वतो भिद्यते, कार्यत्वाद् - घटवदित्यर्थः ।

इतोऽपि कारणाद्भेदेन नास्ति कार्यम् , ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा’(मां. का. २-६) इति न्यायादित्याह -
जन्मेति ।
यदि कार्यं कारणादभिन्नम् , तदा तस्य भेदेन असत्त्वे पूर्व­स्मा­द­वि­शेषः । तादा­त्म्ये­ना­व­स्थानं तु न युक्तम् , तस्यापि कार­ण­व्य­ति­रे­के­णा­भा­वात् ।

कार्य­का­र­ण­वि­भा­गा­वि­धुरे वस्तुनि कार्य­का­र­ण­प­र­म्प­राया विभ्र­म­त्वा­दि­त्य­भि­प्रे­त्याह -
मृदादीति ।

कार्य­का­र­ण­वि­भा­ग­वि­हीनं वस्त्वेव नास्तीति मन्वानश्चोदयति -
तदसत्त्व इति ।

अनु­वृ­त्त­व्या­वृ­त्त­बु­द्धि­द्व­य­द­र्श­ना­द­नु­वृत्ते च व्यावृत्तानां कल्पि­त­त्वा­द­क­ल्पितं सर्व­भे­द­क­ल्प­ना­धि­ष्ठा­न­म­का­र्य­का­रणं वस्तु सिध्यतीति परिहरति -
न ; सर्वत्रेति ।

सम्प्रति सतो वस्तुत्वे प्रमा­ण­म­नु­मा­न­मु­प­न्य­स्यति -
यद्विषयेति ।
यद्व्या­वृ­त्ते­ष्व­नु­वृत्तं तत् परमार्थसत् यथा - सर्प­धा­रा­दि­ष्व­नु­गतो रज्ज्वा­दे­रि­द­मंशः । विमतं सत्य­म­व्य­भि­चा­रि­त्वात् सम्प्र­ति­प­न्न­व­दि­त्यर्थः ।

व्यावृत्तस्य कल्पितत्वे प्रमाणमाह -
यद्वि­ष­ये­त्या­दिना ।
यत् व्यावृत्तं तन्मिथ्या, यथा - सर्पधारादि । विमतं मिथ्या, व्यभिचारित्वात् सम्प्र­ति­प­न्न­व­दि­त्यर्थः । इत्य­नु­मा­न­द्व­य­म­नु­सृत्य सतोऽकल्पितत्वम् , असतश्च कल्पितत्वम् , स्थितमिति शेषः ।

ननु - नेद­म­नु­मा­न­द्व­य­मु­प­प­द्यते, सम­स्त­द्वै­त­वै­त­थ्य­वा­दिनो विभागाभावात् , अनु­मा­ना­दि­व्य­व­हा­रा­नु­प­पत्तेः तत्राह -
सदसदिति ।
उक्ते विभागे बुद्धिद्वयाधीने स्थिते सत्य­नु­मा­ना­दि­व्य­व­हारो निर्वहति प्राति­भ­सि­क­वि­भा­गेन तद्योगात् परमार्थस्यैव तद्धेतुत्वे केव­ल­व्य­ति­रे­का­भा­वा­दि­त्यर्थः ।

कुतः ? सदसद्विभागस्य बुद्धि­द्व­या­धी­नत्वं बुद्धि­वि­भा­ग­स्यापि तवाभावात् , तत्राह -
सर्वत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः । बुद्धि­वि­भा­ग­स्यापि कल्पितस्यैव बोध्य­वि­भा­ग­प्र­ति­भा­स­हे­तु­तेति भावः ।

बुद्धि­द्व­य­म­नु­रुध्य सदसद्विभागे, सतः सामान्यरूपतया विशे­षा­का­ङ्क्षायां सामान्यविशेषे द्वे वस्तुनी वस्तुभूते स्याताम् इति चेत् , नेत्याह -
समानाधिकरणे इति ।
पदयोः सामानाधिकरण्यं बुद्ध्यो­रु­प­च­र्यते । सोऽयमिति सामा­ना­धि­क­र­ण्य­व­द्घटः सन्नित्यादि सामा­ना­धि­क­र­ण्य­मे­क­व­स्तु­निष्ठं वस्तुभेदे घटपटयोरिव तदयोगादित्यर्थः ।

नील­मु­त्प­ल­मि­ति­व­द्ध­र्म­ध­र्मि­वि­ष­य­तया सामा­ना­धि­क­र­ण्यस्य सुवचत्वात् न वस्त्वै­क्य­वि­ष­य­त्वम् इति चेत् , नेत्याह -
न नीलेति ।
न हि सामा­न्य­वि­शे­ष­यो­र्भे­देऽ­भेदे च तद्भावः भेदाभेदौ च विरुद्धौ, अतो जातिव्यक्त्योः सामानाधिकरण्यं नीलोत्पलयोरिव न गौणम् , किन्तु व्यावृ­त्त­म­नु­वृत्ते कल्पि­त­मि­त्ये­क­नि­ष्ठ­मि­त्यर्थः ।

सामा­न्य­वि­शे­ष­यो­रु­क्त­न्यायं गुण­गु­ण्या­दा­व­ति­दि­शति -
एवमिति ।
तुल्यौ हि तत्रापि विकल्पदोषाविति भावः ।

सामा­ना­धि­क­र­ण्या­नु­प­पत्त्या द्वे वस्तुनी सामा­न्य­वि­शे­षा­विति पक्षं प्रतिक्षिप्य, विशेषा एव वस्तूनीति पक्षं प्रतिक्षिपति -
तयोरिति ।

बुद्धि­व्य­भि­चा­रा­द्बो­ध्य­व्य­भि­चा­रेपि, कथं व्यावृत्तानां विशे­षा­णा­म­व­स्तु­त्वम् ? इत्याशङ्क्याह -
तथा चेति ।
विकारो हि स इत्यादाविति शेषः ।

न चैकं वस्तु सामा­न्य­वि­शे­षा­त्म­क­मे­कस्य द्वैरू­प्य­वि­रो­धा­दि­त्य­भि­प्रेत्य, सामान्यमेकमेव वस्तु तद्बु­द्धे­र­व्य­भि­चा­रात् , बोध्यस्यापि सत­स्त­था­त्वा­दि­त्याह -
न त्विति ।
व्यभिचरतीति पूर्वेण सम्बन्धः ।

विशेषाणां व्यभिचारित्वे सत­श्चा­व्य­भि­चा­रित्वे फलितमुपसंहरति -
तस्मादिति ।

असत्त्वं कल्पितत्वम् । तच्छब्दार्थमेव स्फोरयति -
व्यभिचारादिति ।

सद्बु­द्धि­वि­ष­यस्य सतोऽकल्पितत्वे तच्छ­ब्दो­पा­त्त­मेव हेतुमाह -
अव्यभिचारादिति ।

सद्बु­द्धि­व्य­भि­चा­र­द्वारा बोध्यस्यापि व्यभिचारात् तद­व्य­भि­चा­रि­त्व­हे­तो­र­सि­द्धि­रिति शङ्कते -
घटे विनष्ट इति ।

सद्बु­द्धे­र्घ­ट­बु­द्धि­व­द्घ­ट­मा­त्र­वि­ष­य­त्वा­भा­वात् , न घटनाशे व्यभिचारोस्तीति परिहरति -
न, पटादाविति ।

सद्बु­द्धे­र­घ­ट­वि­यत्वे निरा­ल­म्ब­न­त्वा­यो­गात् विषयान्तरं वक्त­व्य­मि­त्या­श­ङ्क्याह -
विशेषणेति ।

सतोऽ­क­ल्पि­त­त्व­हे­तो­र­व्य­भि­चा­रि­त्व­स्या­सि­द्धि­मु­द्धृत्य, विशेषाणां कल्पि­त­त्व­हे­तो­र्व्य­भि­चा­रि­त्व­स्या­सिद्धिं शङ्कते -
सदिति ।
यथा सद्बुद्धिर्घटे नष्टे पटादौ दृष्ट­त्वा­द­व्य­भि­चा­रि­णीति अव्यभिचारः सतो दर्शितः, तथा घटबुद्धिरपि घटे नष्टे घटान्तरे दृष्टे­त्य­व्य­भि­चा­रात् घटे व्यभिचारासिद्धौ विशे­षा­न्त­रे­ष्वपि कल्पि­त­त्व­हे­तु­र्व्य­भि­चारो न सिध्यतीत्यर्थः ।

घट­बु­द्धे­र्घ­टा­न्तरे दृष्टत्वेऽपि पटा­दा­व­दृ­ष्ट­त्वेन व्यभिचारात् पटा­दि­वि­शे­षे­ष्वपि व्यभि­चा­रि­त्व­सि­द्धि­रि­त्यु­त्त­र­माह -
न, पटादाविति ।

विशेषाणामेवं व्यभिचारित्वे सतोऽपि तदु­प­प­त्ते­र­व्य­भि­चा­रि­त्व­हे­त्व­सि­द्धि­ता­द­व­स्थ्य­मिति शङ्कते -
सद्बुद्धिरिति ।

घटादिनाशदेशे तदुपरक्ताकारेण सत्त्वाभानेऽपि नासत्त्वम् , घटा­द्य­भा­वा­धि­ष्ठा­न­तया भानादित्याह -
न विशेष्येति ।

यथा सर्वगता जातिरित्यत्र खण्ड­मु­ण्डा­दि­व्य­क्त्य­भा­व­देशे गोत्वं व्यञ्जकाभावात् न व्यज्यते, न गोत्वाभावात् , तथा सत्त्वमपि घटादिनाशे व्यञ्जकाभावात् न भाति, न स्वरूपाभावात् इत्युक्तमेव प्रपञ्चयति -
सदित्यादिना ।
सप्र­ति­यो­गि­क­वि­शे­ष­ण­व्य­भि­चा­रेऽपि स्वरू­पा­व्य­भि­चा­रा­द्युक्तं सतः सत्यत्वमिति भावः ।

द्वयोः सतोरेव विशे­ष­ण­वि­शे­ष्य­त्व­द­र्श­नात् घटसतोरपि विशे­ष­ण­वि­शे­ष्यत्वे द्वयोः सत्त्व­ध्रौ­व्यात् घटा­दि­क­ल्पि­त­त्वा­नु­मानं सामा­ना­धि­क­र­ण्य­धी­बा­धि­त­मिति चोदयति -
एकेति ।

अनुभवमनुसृस्य बाधि­त­वि­ष­य­त्व­मु­क्ता­नु­मा­नस्य निरस्यति -
नेत्यादिना ।

घटादेः सति कल्पि­त­त्वा­नु­मा­नस्य दोषराहित्ये, फलितमुपसंहरति -
तस्मादिति ।
प्रथ­म­पा­द­व्या­ख्या­न­प­रि­सा­मा­प्ता­वि­ति­शब्दः । ननु - नेदं व्याख्यानं भाष्य­का­रा­भि­प्रे­तम् , सर्व­द्वै­त­शू­न्य­त्व­वि­व­क्षायां शास्त्र­त­द्भा­ष्य­वि­रो­धात् । केनापि पुन­र्दु­र्वि­द­ग्धेन स्वम­नी­षि­क­यो­त्प्रे­क्षि­त­मे­तत् इति चेत् , मैवम् । किमिदं द्वैतप्रपञ्चस्य शून्यत्वम् ? किं तुच्छत्वम् ? किं वा सद्विलक्षणत्वम् ? नाद्यः, अनभ्युपगमात् । द्विती­या­न­भ्यु­प­गमे तु तवैव शास्त्रविरोधो भाष्यविरोधश्च । सर्वं हि शास्त्रं तद्भाष्यं च द्वैतस्य सत्य­त्वा­न­धि­क­र­ण­त्व­सा­ध­नेन अद्वैतसत्यत्वे पर्यवसितमिति त्रैवि­द्य­वृ­द्धै­स्तत्र तत्र प्रतिष्ठापितम् । तथा च प्रक्षेपाशङ्का सम्प्र­दा­य­प­रि­च­या­भा­वात् इति द्रष्टव्यम् ।

अनात्मजातस्य कल्पितत्वेन अव­स्तु­त्व­प्र­ति­पा­द­न­प­र­तया प्रथमपादं व्याख्याय, द्विती­य­पा­द­मा­त्मनः सर्व­क­ल्प­ना­धि­ष्ठा­न­स्या­क­ल्पि­त­त्वेन वस्तु­त्व­प्र­सा­ध­न­प­र­तया व्याकरोति -
तथेति ।

ननु - आत्मनः सदात्मनो विशेषेषु विनाशिषु तदुपरक्तस्य विनाशः स्यात् इत्याशङ्क्य, विशिष्टनाशेऽपि स्वरू­पा­ना­श­स्यो­क्त­त्वात् , मैवमित्याह -
सर्वत्रेति ।

ननु - कदाचिदसदेव पुनः सत्त्वमापद्यते, प्रागसतो घटस्य जन्मना सत्त्वा­भ्यु­प­ग­मात् । सच्च कदाचिदसत्त्वं प्रतिपद्यते, स्थितिकाले सतो घटस्य पुनर्नाशेन अस­त्त्वा­ङ्गी­का­रात् । एवं सद­स­तो­र­व्य­व­स्थि­त­त्वा­वि­शे­षात् उभयोरपि हेय­त्व­मु­पा­दे­यत्वं वा तुल्यं स्यात् इति, तत्राह -
एवमिति ।
तुशब्दो दृष्टशब्देन सम्बध्यमानो दृष्टिमवधारयति । न हि प्रागसतो घटस्य सत्त्वम् , असत्त्वे स्थिते सत्त्व­प्रा­प्ति­वि­रो­धात् । अस­त्त्व­नि­वृ­त्तिश्च सत्त्व­प्राप्त्या चेत् , प्राप्त­मि­त­रे­त­रा­श्र­य­त्वम् , अन्तरेणैव सत्त्वा­प­त्ति­म­स­त्त्व­नि­वृत्तौ असत्त्वमनवकाशि भवेत् । एतेन - सतो­स­त्त्वा­प­त्ति­रपि प्रतिनीतेति भावः ।

कथं तर्हि सतोऽसत्त्वम् , असतश्च सत्त्वं प्रतिभाति ? इत्याशङ्क्य, तत्त्व­द­र्श­ना­भा­वात् इत्याह -
तत्त्वेति ।
तस्य भावस्तत्त्वम् ।

न च तच्छब्देन परामर्शयोग्यं किञ्चिदस्ति प्रकृतं प्रतिनियतम् इत्याशङ्क्य व्याचष्टे -
तदित्यादिना ।

ननु - सदसतोरन्यथात्वं केचित् प्रतिपद्यन्ते । केचित्तु तयो­रु­क्त­नि­र्ण­य­म­नु­सृत्य तथा­त्व­मे­वा­धि­ग­च्छन्ति । तत्र केषां मतमेषितव्यम् ? इति, तत्राह -
त्वमपीति
॥ १६ ॥

ननु सदिति सामान्यम् , स्वरूपं वा ? प्रथमे, तस्य विशेषसापेक्षतया प्रल­य­द­शा­या­म­शे­ष­वि­शे­ष­वि­नाशे विनाशः स्यात् । न चात्मादयो विशेषास्तदापि सन्तीति वाच्यम् । आत्मा­ति­रि­क्तानां विशेषणां कार्य­त्वा­ङ्गी­का­रात् , प्रल­या­व­स्था­या­म­न­व­स्था­नात् , आत्मनस्तु सामान्यात्मनो धर्मि­त्वा­दु­क्त­दो­षात् । द्वितीये तु, स्वरूपस्य व्यावृत्तत्वे कल्पि­त­त्वा­द्वि­ना­शि­त्वम् , अनुवृत्तत्वे तस्यैव सामान्यतया प्रागु­क्त­दो­षा­नु­ष­क्ति­रिति मन्वानश्चोदयति -
किं पुनरिति ।

सामा­न्य­वि­शे­ष­भा­व­शू­न्य­म­ख­ण्डै­क­रसं ‘सदेव’(छा. उ. ६-२-१) इत्या­दि­श्रु­ति­प्र­मितं सर्वा­वि­क्रि­या­र­हितं वस्तु प्रकृतं सद्वि­व­क्षि­त­मि­त्यु­त्त­र­माह -
उच्यत इति ।

आत्मनः सदात्मनो विना­श­रा­हि­त्य­वि­ज्ञाने सर्व­ज­ग­द्व्या­प­कत्वं हेतुमाह -
येनेति ।

आत्मनो विनाशाभावे युक्तिमाह -
विनाशमिति ।

आत्मनो विनाश मिच्छता स्वतो वा परतो वा नाशस्तस्येष्यते ? नाद्य इत्याह -
अविनाशीति ।

देहा­दि­द्वै­त­म­स­दु­च्यते । ततः सतो विशेषणं स्वतो नाशराहित्यम् । तस्य द्योतको निपात इत्याह -
तुशब्द इति ।

आका­ङ्क्षा­पू­र्वकं विशेष्यं दर्शयति -
किमित्यादिना ।

विमतं - अविनाशि, व्याप­क­त्वा­दा­का­श­वत् । न हि प्रमि­त­मे­वो­दा­ह­रणं किन्तु प्रसिद्धमपीति भावः । न द्वितीय इत्याह -
विनाशमिति ।

न खल्वस्य विनाशं कर्तुं कश्चिदर्हतीति सम्बन्धः । विनाशस्य साव­शे­ष­त्व­नि­र­व­शे­ष­त्वाभ्यां द्वैरा­श्य­मा­श्रित्य व्याकरोति -
अदर्शनमिति ।

न कश्चिदस्यभावं कर्तुं शक्नोतीत्यत्र हेतुमाह -
अव्ययस्येति ।

ब्रह्म हि स्वरूपेण व्येति स्वसम्बन्धिना वा ? इति विकल्प्य, आद्यं दूषयति -
नैतदिति ।

न हि निरवयवस्य स्वाव­य­वा­प­च­य­रू­प­व्ययः सम्भवतीत्यत्र वैध­र्म्य­दृ­ष्टा­न्त­माह -
देहादिवदिति ।

द्वितीयं निरस्यति -
नापीति ।

तदेव व्यति­रे­क­दृ­ष्टा­न्तेन स्पष्टयति -
यथेति ।

द्विविधेऽपि व्ययायोगे फलितमाह -
अत इति ।

किञ्च ब्रह्म परतो न नश्यति आत्मत्वात् , घटवदित्याह -
न कश्चिदिति ।

आत्म­त्व­हे­तो­र­सि­द्धि­मु­द्ध­रति -
आत्मा हीति ।
तादा­त्म्य­श्रुतिः अत्र हीति हेतूक्रियते ।

अस्तु तर्हि स्वयमेव ब्रह्म, आत्मनो नाश­क­मु­द्ब­न्ध­ना­दि­द­र्श­नात् , नेत्याह -
स्वात्मनीति
॥ १७ ॥

सद­स­तो­र­न­न्त­र­प्र­कृ­तयोः स्वरू­पा­व्य­भि­चा­रित्वे परमार्थतया सन्निर्धारितम् । इदा­नी­म­स­न्नि­र्दि­धा­र­यि­षया पृच्छति -
किं पुनरिति ।

असत् असदेवेति निर्धारितत्वात् प्रश्नस्य निर­व­का­श­त्व­मा­शङ्क्य शून्यं व्यावर्त्य विवक्षितमसत् निर्धारयितुं तस्य सावकाशत्वमाह -
यत् स्वात्मेति ।

देहा­दे­र­ना­त्म­व­र्गस्य प्रकृ­ता­स­च्छ­ब्द­वि­ष­य­ते­त्याह -
उच्यत इति ।

ननु - देहादिषु सद्बु­द्धे­र­नु­वृ­त्ते­स्तस्या विच्छेदाभावात् कथमन्तवत्त्वं तेषामिष्यते ? तत्राह -
यथेति ।
तथेमे देहाः, सद्बुभाजोऽपि प्रमाणतो निरूपणायामवसाने विच्छे­दा­द­न्त­वन्तो भवन्तीति शेषः ।

देहत्वादिना च जाग्र­द्दे­हा­दे­र­न्त­वत्त्वं सम्प्र­ति­प­न्न­व­द­नु­मातुं शक्यमित्याह -
स्वप्नेति ।

तेषां स्वातन्त्र्यं व्युदस्यति -
नित्यस्येति ।

आका­शा­दि­व्या­वृ­त्त्यर्थं विशिनष्टि -
शरीरिण इति ।

परि­णा­मि­नि­त्यत्वं व्यवच्छिनति -
अनाशिन इति ।

तस्य प्रत्य­क्षा­द्य­वि­ष­य­त्व­माह -
अप्रमेयस्येति ।

प्रवाहस्य प्रवा­हि­व्य­ति­रे­केण अनिरूपणात् न तदात्मनः देहाद्यभावे सम्ब­न्ध­सि­द्धि­रि­त्य­भि­स­न्धा­यो­क्तम् -
विवेकिभिरिति ।

शरी­रा­दे­र­न्त­व­त्त्वेऽपि प्रवाहरूपेण आत्म­न­स्त­त्स­म्ब­न्ध­स्या­न­न्त­व­त्त्व­मा­श­ङ्क्याह -
नित्यस्येति ।

नित्यत्वस्य द्वैवि­ध्य­सि­द्ध्यर्थं नाशद्वैविध्यं प्रकटयति -
यथेत्यादिना ।

नाशस्य निरवशेषत्वेन सावशेषत्वेन च सिद्धे द्वैविध्ये फलितमाह -
तत्रेति ।

पद­द्व­य­स्यै­का­र्थ­त्व­मा­शङ्क्य निरस्यति -
नित्य­स्ये­त्या­दिना ।
विशेषणाभ्यां कूट­स्था­नि­त्य­त्व­मा­त्मनो विव­क्षि­त­मि­त्यर्थः ।

अन्य­त­र­वि­शे­ष­ण­मा­त्रो­पा­दाने परि­णा­मि­नि­त्य­त्व­मा­त्मनः शङ्क्येत इत्य­नि­ष्टा­प­त्ति­मा­श­ङ्क्याह -
अन्यथेति ।

औप­नि­ष­द­त्व­वि­शे­ष­ण­मा­श्रित्य अप्र­मे­य­त्व­मा­क्षि­पति -
नन्विति ।

इतश्च आत्मनो नाप्र­मे­य­त्व­मि­त्याह -
प्रत्य­क्षा­दि­नेति ।
तेन च आग­म­प्र­वृ­त्त्य­पे­क्षया पूर्वा­व­स्था­या­मा­त्मैव परिच्छिद्यते, तस्मिन्नेव अज्ञा­त­त्व­स­म्भ­वात् , ‘अज्ञातज्ञापकं प्रमाणम्’ इति च प्रमा­ण­ल­क्ष­णा­दि­त्यर्थः ।

‘एतदप्रमेयम्’(बृ. उ. ४. ४. २०) इत्या­दि­श्रु­ति­म­नु­सृत्य परिहरति -
नेत्यादिना ।

कथं मानमनपेक्ष्य आत्मनः सिद्ध­त्व­मि­त्या­श­ङ्क्योक्तं विवृणोति -
सिद्धे हीति ।
प्रमित्सोः प्रमेयमिति शेषः ।

तदेव व्यतिरेकमुखेन विशदयति -
न हीति ।

आत्मनः सर्व­लो­क­प्र­सि­द्ध­त्वाच्च तस्मिन् न प्रमा­ण­म­न्वे­ष­णी­य­मि­त्याह -
न ह्यात्मेति ।
प्रत्य­क्षा­दे­र­ना­त्म­वि­ष­य­त्वात् तत्र चाज्ञातताया व्यवहारे सम्भवात् तत्प्रामाण्यस्य च व्याव­हा­रि­क­त्वात् ।

विशिष्टे तत्प्रवृत्तावपि केवले तदप्रवृत्तेः यद्यपि नात्मनि तत्प्रामाण्यम् , तथापि तद्धितश्रुत्या शास्त्रस्य तत्र प्रवृ­त्ति­र­व­श्य­म्भा­वि­नी­त्या­श­ङ्क्याह -
शास्त्रं त्विति ।

शास्त्रेण प्रत्यग्भूते ब्रह्मणि प्रतिपादिते प्रमा­त्रा­दि­वि­भा­गस्य व्यावृत्तत्वात् युक्त­म­स्या­न्त्य­त्वम् , अपौरुषेयतया निर्दो­ष­त्वा­च्चास्य प्रामा­ण्य­मि­त्यर्थः । तथापि कथमस्य प्रत्यगात्मनि प्रामाण्यम्, तस्य स्वतःसिद्धत्वेन अविषयत्वात् , अज्ञा­त­ज्ञा­प­ना­यो­गात् ? इत्याशङ्क्य, स्वतो भानेऽपि प्रतीचो, ‘मनुष्योऽहं कर्ताहम्’ इत्यादिना मनु­ष्य­त्व­क­र्तृ­त्वा­दी­ना­म­त­द्ध­र्मा­णा­म­ध्या­रो­प­णेन आत्मनि प्रतीयमानत्वात् तन्मा­त्र­नि­व­र्त­क­त्वेन आत्मनो विष­य­त्व­म­ना­प­द्यैव शास्त्रं प्रामाण्यं प्रतिपद्यते, ‘सिद्धं तु निवर्तकत्वात्’ इति न्यायादित्याह -
अतद्धर्मेति ।

घटादाविव स्फुर­णा­ति­श­य­ज­न­क­त्वेन किमित्यात्मनि शास्त्र­प्रा­माण्यं नेष्ट­मि­त्या­शङ्क्य, जड­त्वा­ज­ड­त्वाभ्यां विशेषादिति मत्वाह -
न त्विति ।

ब्रह्मात्मनो माना­पे­क्षा­म­न्त­रेण स्वतः स्फुरणे प्रमाणमाह -
तथा चेति ।
साक्षात् - अन्या­पे­क्षा­म­न्त­रेण अपरोक्षात् - अप­रो­क्ष­स्फु­र­णा­त्मकं यद्ब्रह्म, न च तस्या­त्म­नोऽ­र्था­न्त­र­त्वम् , सर्वा­भ्य­न्त­र­त्वेन सर्व­व­स्तु­सा­र­त्वात् तमात्मानं व्याचक्ष्वेति योजना ।

अप्रमेयत्वेन अविनाशित्वं प्रतिपाद्य, फलितं निगमयति -
यस्मादिति ।

देहा­दे­र­व­स्तु­त्वात् आत्म­न­श्चै­क­रू­प­त्वात् युद्धे स्वधर्मे प्रवृत्तस्यापि तव न हिंसा­दि­दो­ष­स­म्भा­व­ने­त्याह -
तस्मादिति ।

स्वध­र्म­नि­वृ­त्ति­हे­तु­नि­षेधे तात्पर्यं दर्शयति -
युद्धादिति ।

आत्मनो नित्य­त्वा­दि­स्व­रू­प­मु­प­पाद्य युद्ध­क­र्त­व्य­त्व­वि­धा­नात् ज्ञान­क­र्म­स­मु­च्च­योऽत्र भाती­त्या­श­ङ्क्याह -
न हीति ।

युध्यस्वेति वचनात् तत्क­र्त­व्य­त्व­वि­धि­र­स्ती­त्या­श­ङ्क्यह -
युद्ध इति ।

कथं तर्हि ‘कथं भीष्ममहं’(भ. भ. गी. २-४) इत्या­द्य­र्जु­नस्य युद्धोपरमपरं वचनम् ? इति तत्राह -
शोकेति ।

यदि स्वतो युद्धे प्रवृत्तिः, तर्हि भगवद्वचनस्य का गति­रि­त्या­श­ङ्क्याह -
तस्येति ।

भगवद्वचनस्य प्रति­ब­न्ध­नि­व­र्त­कत्वे सति अर्जु­न­प्र­वृत्तेः स्वाभाविकत्वे फलितमाह -
तस्मादिति
‘अविनाशि तु तद् विद्धि’(भ. भ. गी. २-१७) इत्यत्र पूर्वार्धेन तत्प­दा­र्थ­स­म­र्थ­नम् , उत्तरार्धेन निरीश्वरवादस्य परिणामवादस्य वा निराकरणम् , आत्मनि जन्मा­दि­प्र­ति­भा­न­स्यौ­प­चा­रि­क­त्व­प्र­द­र्श­नार्थं ‘अन्तवन्तः’(भ. गी. २-१८) इत्यादि वचनमिति केचित् । अस्तु नाम अयमपि पन्थाः ॥ १८ ॥

पूर्वोक्तस्य गीता­शा­स्रा­र्थ­स्यो­त्प्रे­क्षा­मा­त्र­मू­लत्वं निराकर्तुं मन्त्रद्वयं भगवान् आनीतवानिति श्लोकद्वयस्य सङ्गतिं दर्शयति -
शोकमोहादीति ।

तत्र प्रथममन्त्रस्य सङ्गतिमाह -
यत्त्विति ।

प्रत्य­क्ष­नि­ब­न्ध­न­त्वा­द­मुष्या बुद्धे­र्मृ­षा­त्व­म­यु­क्त­मि­त्या­क्षि­पति -
कथमिति ।

प्रत्य­क्ष­स्या­ज्ञा­न­प्र­सू­त­त्वेन आभासत्वात् तत्कृता बुद्धिर्न प्रमेति परिहरति -
य एनमिति ।

‘हन्ता चेन्मन्यते हन्तुम्’(क. उ. १-२-१९) इत्या­द्या­मृ­च­म­र्थतो दर्शयित्वा व्याचष्टे -
य एनमिति ।

हन्तारं हतं वा आत्मानं मन्यमानस्य कथ­म­ज्ञा­न­मि­त्य­श­ङ्क्याह -
हन्ताहमिति ।

हन्तृ­त्वा­दि­ज्ञा­न­म­ज्ञा­न­मि­त्यत्र हेतुमाह -
यस्मादिति ।

आत्मनो हननं प्रति कर्तृ­त्व­क­र्म­त्व­यो­र­भावे हेतुं दर्शयति -
अवि­क्रि­त्य­वा­दिति
॥ १९ ॥

तदेव साधयितुं ‘न जायते म्रियते वा विपश्चित्’(क. उ. १-२-१८) इत्या­दि­म­न्त्रा­न्त­र­म­व­ता­र­यति -
कथमिति ।

सर्व­वि­क्रि­या­रा­हि­त्य­प्र­द­र्श­नेन हेतुं विशदयन् मन्त्रमेव पठति -
न जायत इति ।

जन्म­म­र­ण­वि­क्रि­या­द्व­य­प्र­ति­षेधं साधयति -
नायमिति ।
अयमात्मा भूत्वा नाभविता, न वा अभूत्वा भूयो भवितेति योजना ।

न केवलं विक्रि­या­द्व­य­मे­वात्र निषिध्यते, किन्तु सर्वमेव विक्रि­या­जा­त­मि­त्याह -
अज इति ।

वाच्य­म­र्थ­मुक्त्वा विवक्षितमर्थमाह -
जनिलक्षणेति ।

विकल्पार्थत्वं व्यावर्तयति -
वेति ।

निष्पन्नमर्थं निर्दिशति -
नेत्यादिना ।

सम्ब­न्ध­मे­वा­भि­न­यति -
न कदाचिदिति ।

अन्त्य­वि­क्रि­या­भावे हेतुत्वेन नायमित्यादि व्याचष्टे -
यस्मादिति ।

उक्तमेव व्यनक्ति -
यो हीति ।
आत्मनि तु भूत्वा पुन­र­भ­व­ना­भा­वा­न्नास्ति मृत्युरित्यर्थः ।

आत्मनो जन्माभावेऽपि हेतुरिहैव विवक्षितः, इत्याह -
वाशब्दादिति ।
अभूत्वेति च्छेदः । देहवदिति व्यति­रे­को­दा­ह­र­णम् ।

उक्तमेवार्थं साधयति -
यो हीति ।

जन्माभावे तत्पू­र्वि­का­स्ति­त्व­वि­क्रि­याऽपि नात्म­नोऽ­स्ती­त्याह -
यस्मादिति ।

प्राण­वि­यो­गा­दा­त्मनो मृतेरभावे साव­शे­ष­ना­शा­भा­व­व­न्नि­र­व­शे­ष­ना­शा­भा­वोऽपि सिध्यति, इत्याह -
यस्मादिति ।

ननु - जन्म­ना­श­यो­र्नि­षेधे तदन्तर्गतानां विक्रि­या­न्त­रा­णा­मपि निषे­ध­सि­द्धे­स्त­न्नि­षे­धार्थं न पृथक् प्रय­ति­तं­व्य­मिति, तत्राह -
यद्यपीति ।
स्वशब्दैः - मध्य­व­र्ति­वि­क्रि­या­नि­षे­ध­वा­च­कै­रिति यावत् ।

आर्थिकेऽपि निषेधे, निषेधस्य सिद्धतया शाब्दो निषेधो न पृथगर्थवान् इत्याशङ्क्याह -
अनुक्तानामिति ।

नित्यशब्देन शाश्वतशब्दस्य पौनरुक्त्यं परिहरन् व्याकरोति -
शाश्वत इत्यादिना ।

अपक्षयो हि स्वरूपेण वा स्यात् ? गुणापचयतो वा ? इति विकल्प्य, क्रमेण दूषयति -
नेत्यादिना ।

पुराणपदस्य अगतार्थत्वं कथयति -
अपक्षयेति ।

तदेव स्फुटयति -
यो हीति ।

‘न म्रियते वा’ इत्यनेन चतुर्थपादस्य पौन­रु­क्त्य­मा­शङ्क्य, व्याचष्टे -
तथेत्यादिना ।

ननु - हिंसार्थो हन्तिः श्रूयते, तत् कथं विपरिणामो निषिध्यते ? तत्राह -
हन्तिरिति ।

हिंसा­र्थ­त्व­स­म्भवे किमि­त्य­र्था­न्तरं हन्तेरिष्यते ? तत्राह -
अपुनरुक्ततायै इति ।
हिंसार्थत्वे मृतिनिषेधेन पौनरुक्त्यं स्यात् , तन्निषेधार्थं विप­रि­णा­मा­र्थ­त्व­मे­ष्ट­व्य­मि­त्यर्थः ।

पूर्वा­व­स्था­त्या­गेन अव­स्था­न्त­रा­प्र­प­त्ति­र्वि­प­रि­णामः । तदर्थश्चेदत्र हन्तिरिष्यते, तदा निष्पन्नमर्थमाह -
नेति ।

‘न जायते’(क. उ. १-२-१८) इत्या­दि­म­न्त्रा­र्थ­मु­प­सं­ह­रति -
अस्मिन्निति ।

षण्णां विकाराणामात्मनि प्रतिषेधे फलितमाह -
सर्वेति ।

आत्मनः सर्व­वि­क्रि­या­रा­हि­त्येऽपि किमा­या­त­मि­त्या­श­ङ्क्याह -
यस्मादिति
॥ २० ॥

पूर्व­श्लो­का­र्थ­स्यै­वो­त्त­र­त्रापि प्रतिभानात् पौन­रु­क्त्य­मा­शङ्क्य, वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­र­श्लो­क­म­व­ता­र­यति -
य एनमित्यादिना ।

कर्तृ­त्वा­द्य­भि­मा­न­वि­रो­धात् अद्वै­त­कू­ट­स्था­त्म­नि­श्च­य­सा­म­र्थ्यात् प्राप्तं विदुषः संन्यासं विद्या­प­रि­पा­का­र्थ­म­भ्य­नु­जा­नाति -
वेदेति ।

पदद्वयस्य पूर्वमेव पौन­रु­क्त्य­प­रि­हा­रेऽपि प्रका­रा­न्त­रे­णा­पौ­न­रु­क्त्य­माह -
अवि­ना­शि­न­मि­त्या­दिना ।

प्रश्नेऽपि सम्भवति, किमिति नञुल्लेखेन व्याख्यायते, तत्राह -
उभयत्रेति ।
उत्तरत्र प्रति­व­च­ना­द­र्श­नात् नात्र प्रश्नः सम्भवति इत्यर्थः ।

विवक्षितं प्रकरणार्थं निगमयति -
हेत्वर्थस्येति ।
अविक्रियत्वं हेत्वर्थः, तस्य विदुषः सर्वकर्मनिषेधे समानत्वात् इति यावत् ।

यदि विदुषः सर्व­क­र्म­नि­षे­धोऽ­भि­मतः, तर्हि किमिति हन्त्यर्थ एव आक्षिप्यते ? तत्राह -
हन्तेरिति ।

उक्तं हेतुमाक्षेप्तुं पृच्छति -
विदुष इति ।

अभि­प्रा­य­म­प्र­ति­प­द्य­मानो हेतुविशेषं पूर्वोक्तं स्मारयति -
नन्विति ।

उक्तमङ्गीकृत्य आक्षिपति -
सत्यमिति ।

विदुषः - विज्ञानात्मनः ब्रह्मणश्च वेद्यस्य विरु­द्ध­ध­र्म­त्वेन दहनतुहिनवत् भिन्नत्वात् विदुषः सर्वकर्मत्यागे, न असो कारणविशेषः स्यात् , इत्याह -
अन्यत्वादिति ।

अविक्रियात् इति च्छेदः । तथापि कूटस्थम् अविक्रियं ब्रह्म प्रतिपद्यमानस्य कुतो विक्रिया सम्भवेत् , ब्रह्म­प्र­ति­प­त्ति­वि­रो­धात् ? इत्याशङ्क्याह -
न हीति ।

‘अयमात्मा ब्रह्म’(बृ. उ. २-५-१९) इत्यादिश्रुत्या समाधत्ते -
न, विदुष इति ।
किञ्च - विद्वत्ता विशिष्टस्य वा केवलस्य वा ? नाद्यः । विशिष्टस्य विद्वत्तायां सविशेषणस्यापि तत्प्रसङ्गात् ।

न च विशे­ष­णी­भू­त­स­ङ्घा­तस्य अचेतनत्वात् विद्वत्ता युक्ता, इत्याह -
न देहादीति ।

द्वितीये तु, जीव­ब्र­ह्म­वि­भा­गा­सिद्धिः इत्याह -
असंहत इति ।

किञ्च प्रामा­णि­क­वि­रु­द्ध­ध­र्म­व­त्त्वस्य असिद्धत्वात् प्रातिभासिकस्य च बिम्ब्र­प्र­ति­बि­म्ब­यो­र­नै­का­न्त्यात् भेदा­नु­मा­ना­यो­गात् , जीव­ब्र­ह्म­णो­र­मे­द­सि­द्धि­रि­त्य­भि­प्रेत्य, फलितमाह -
इति तस्येति ।

ननु - अविक्रियस्य ब्रह्मस्वरूपतया सर्वकर्मासम्भवे विदुषो विद्वत्तापि कथं सम्भवति ? नाहि ब्रह्म­णोऽ­वि­क्रि­यस्य विद्यालक्षणा विक्रिया स्वक्रिया भवितुमर्हति, तत्राह -
यथेति ।
अदृ­ष्टे­न्द्रि­या­दि­स­ह­कृ­त­मन्तः करणं प्रदी­प­प्र­भा­व­द्वि­ष­य­प­र्यन्तं परिणतं बु्द्धिवृ­त्ति­रु­च्यते । तत्र प्रतिबिम्बितं चैत­न्य­म­भि­व्य­ञ्ज­क­बु­द्धि­वृ­त्त्य­वि­वे­का­द्वि­ष­य­ज्ञा­न­मिति व्यवह्नियते । तेन - आत्मा उपलब्धा कल्प्यते । तच्च अवि­द्या­प्र­यु­क्त­मि­थ्या­स­म्ब­न्ध­नि­ब­न्ध­नम् । तथैव आध्या­सि­क­स­म्ब­न्धेन ब्रह्मा­त्मै­क्या­भि­व्य­ञ्ज­क­वा­क्यो­त्थ­बु­द्धि­वृ­त्ति­द्वारा विद्वानात्मा व्यपदिश्यते । न च मिथ्यासम्बन्धेन पार­मा­र्थि­का­वि­क्रि­य­त्व­वि­ह­ति­र­स्ती­त्यर्थः ।

‘अहं ब्रह्म’(बृ. उ. १-४-१०) इति बुद्धि­वृ­त्ते­र्मो­क्षा­व­स्था­या­मपि भावात् , आत्मनः सवि­शे­ष­त्व­मा­शङ्क्य तस्या याव­दु­पा­धि­स­त्त्व­मे­वे­त्याह -
असत्येति ।

ननु - कूटस्थस्यात्मनो मिथ्या­वि­द्या­व­त्त्वेऽपि तस्य कर्मा­धि­का­र­नि­वृत्तौ, कस्य कर्माणि विधीयन्ते ? न हि निरधिकाराणां तेषां विधिः, इत्याशङ्क्याह -
विदुष इति ।

कर्माणि अविदुषो विहितानीति विशेषमाक्षिपति -
नन्विति ।

कर्म­वि­धा­न­म­वि­दुषः, विदु­ष­श्च­वि­द्या­वि­घा­न­मिति विभागे का हानिः ? इत्याशङ्क्याह -
विदितेति ।
विद्याया विदितत्वं लब्धत्वम् ।

कर्म­वि­धि­र­वि­दुषः, विदुषो विद्याविधिरिति विभागासम्भवे फलितमाह -
तत्रेति ।

धर्म­ज्ञा­ना­न­न्त­रम् अनुष्ठेयस्य भावात् ब्रह्म­ज्ञा­नो­त्त­र­कालं च तदभावात् ब्रह्म­ज्ञा­न­ही­न­स्यैव कर्मविधिरिति समाधत्ते -
न ; अनुष्ठेयस्येति ।

विशेषोपपत्तिमेव प्रपञ्चयति -
अग्निहोत्रादीति ।

ननु - देहा­दि­व्य­ति­रि­क्ता­त्म­ज्ञानं विना पारलौकिकेषु कर्मसु प्रवृ­त्ते­र­नु­प­पत्तेः, तथाविधज्ञानवता कर्म अनुष्ठेयम् इति चेत् , तत्राह -
कर्ताहमिति ।
आत्मनि कर्ता भोक्ता इत्येवं विज्ञा­न­व­त­त्त्वेऽपि ब्रह्म­ज्ञा­न­वि­ही­न­त्वेन अवि­दु­षोऽ­नु­ष्ठेयं कर्मेत्यर्थः ।

देहा­दि­व्य­ति­रे­क­ज्ञा­न­वत् ब्रह्मज्ञानमपि ज्ञान­त्वा­वि­शे­षात् कर्मप्रवृत्तौ उप­क­रि­ष्य­ती­त्या­श­ङ्क्याह -
न त्विति ।
अनु­ष्ठे­य­वि­रो­धि­त्वात् अवि­क्रि­या­त्म­ज्ञा­न­स्येति शेषः ।

ननु - ब्रह्मा­त्मै­क­त्व­ज्ञा­नात् उत्तरकालमपि कर्ताऽ­ह­मि­त्या­दि­ज्ञा­नो­त्पत्तौ कर्मविधिः सावकाशः स्यात् इति, नेत्याह -
नाहमिति ।
कारणाभावादिति शेषः । कर्तृ­त्वा­दि­ज्ञा­न­म­न्य­दि­त्यु­क्तम् ।

अनु­ष्ठा­ना­न­नु­ष्ठा­न­यो­रु­क्त­वि­शे­षात् अवि­दु­षोऽ­नु­ष्ठानं विदुषो नेत्युपसंहरति -
इत्येष इति ।

नन्वात्मविदो न चेदनुष्ठेयं किञ्चिदस्ति, कथं तर्हि ‘विद्वान् यजेत’ इत्या­दि­शा­स्त्रात् तं प्रति कर्माणि विधीयन्ते, तत्राह -
यः पुनरिति ।
आत्मनि कर्तृ­त्वा­दि­ज्ञा­ना­पे­क्षाया कर्म­स्व­धि­कृ­त­त्व­ज्ञाने, तथाविधं पुरुषं प्रति कर्माणि विधीयन्ते । स च प्राचीनवचनात् अविद्वानेवेति निश्चीयते । न खलु अक­र्तु­त्वा­दि­ज्ञा­न­वतः तद्वि­प­री­त­क­र्तृ­त्वा­दि­ज्ञा­न­द्वारा कर्मसु प्रवृ­त्ति­रि­त्यर्थः ।

कर्मासम्भवे ब्रह्मविदो हेत्वन्तरमाह -
विशेषितस्येति ।
‘वेदाविनाशिनम्’ (भ. भ. गी. २. २३) इत्यादिनेति शेषः ।

यद्यपि विदुषो नास्ति कर्म, तथापि विविदिषोः स्यात् , इत्याशङ्क्याह -
तस्मादिति ।
विद्ययां विरुद्धत्वात् , इष्य­मा­ण­मे­क्ष­प्र­ति­क्ष­त्वाच्च कर्मणामित्यर्थः ।

यद्यपि मुमु­क्षो­रा­श्र­म­क­र्मा­ण्य­पे­क्षि­तानि, तथापि विद्या­त­त्फ­ला­भ्या­म­वि­रु­द्धा­न्येव तान्यभ्युपगतानि । अन्यथा विवि­दि­षा­सं­न्या­स­वि­धि­वि­रो­धात् इत्यभिप्रेत्य, उक्तेऽर्थे भगवतोऽनुमतिमाह -
अत एवेति ।
विदुषो विविदिषोश्च संन्या­सेऽ­धि­कारः, अविदुषस्तु कर्मणीति विभा­ग­स्ये­ष्ट­त्वा­दि­त्यर्थः ।

अधिकारिभेदेन निष्ठाद्वयं भगवता वेदव्यासेनापि दर्शितमित्याह -
तथा चेति ।
अध्ययनविधिना स्वाध्यायपाठे त्रैवर्णिकस्य प्रवृ­त्त्य­न­न्तरं तत्र क्रियामार्गो ज्ञानमर्गश्चेति द्वौमार्गौ अधि­का­रि­भेे­दे­ना­वे­दि­ता­वि­त्यर्थः । आदिशब्दात् ‘यत्र वेदाः प्रतिष्ठिताः’(मो. ध. २४१-६) इत्यादि गृह्यते ।

उक्त­यो­र्मा­र्ग­यो­स्तु­ल्यतां परि­ह­र्तु­मु­दा­ह­र­णा­न्त­र­माह -
तथेति ।
बुद्धि­शु­द्धि­द्वारा कर्म­त­त्फ­ल­यो­र्वै­रा­ग्यो­द­यात् पूर्वं कर्ममार्गो विहितः । विरक्तस्य पुनः संन्यासपूर्वको ज्ञानमार्गो दर्शितः । स चेत­र­स्मा­द­ति­श­य­शा­लीति श्रुतमित्यर्थः ।

उक्ते विभागे पुनरपि वाक्य­शे­षा­नु­कू­ल्य­मा­द­र्श­यति -
एतमेवेति ।

‘अह­ङ्का­र­वि­मू­ढात्मा’(भ. गी. ३-२७) इत्यस्य व्याख्यानम् -
अतत्त्वविदिति ।

‘तत्ववित् तु’ इति श्लोकमवतार्य तात्पर्यार्थं सङ्गृह्णाति -
नाहमिति ।
पूर्वेण क्रियापदेन इतिशब्दः सम्बध्यते ।

विरक्तमघिकृत्य वाक्यान्तरं पठति -
तथा चेति ।
आदिशब्दस्तस्यैव श्लोकस्य शेषसङ्ग्रहार्थः ।

अवि­क्रि­या­त्म­ज्ञा­नात् कर्मसंन्यासे दर्शिते, मीमां­स­क­म­त­मु­त्था­प­यति -
तत्रेति ।
आत्मनो ज्ञान­क्रि­या­श­क्त्या­धा­र­त्वेन अवि­क्रि­य­त्वा­भा­वात् अवि­क्रि­या­त्म­ज्ञानं संन्या­स­का­र­णी­भूतं न सम्भवतीत्यर्थः ।

‘यथो­क्त­ज्ञा­ना­भावो विषयाभावाद्वा ? मानाभावाद्वा ? ‘ इति विकल्प्य, आद्यं दूषयति -
नेत्यादिना ।
न ताव­द­वि­क्रि­या­त्मा­भावः ‘न जायते म्रियते’(भ. गी. २-२०) इत्या­दि­शा­स्र­स्या­प्त­वा­क्य­तया प्रमणस्यान्तरेण कार­ण­मा­न­र्थ­क्या­यो­गा­दि­त्यर्थः ।

द्वितीयं प्रत्याह -
यथा चेति ।

पार­लौ­कि­क­क­र्म­वि­धि­सा­म­र्थ्य­सिद्धं विज्ञानमुदाहरति -
कर्तुश्चेति ।
कर्म­का­ण्डा­द­ज्ञाते धर्मादौ विज्ञा­नो­त्प­त्ति­वत् , ज्ञान­का­ण्डा­द­ज्ञाते ब्रह्मात्मनि विज्ञा­नो­त्प­त्ति­र­वि­रुद्धा, प्रमा­ण­त्वा­वि­शे­षा­दि­त्यर्थः ।

ज्ञानस्य मनः­सं­यो­ग­ज­न्य­त्वात् , आत्मनश्च श्रुत्या मनो­गो­च­र­त्व­नि­रा­सात् , न आत्मज्ञाने साधनमस्तीति शङ्कते -
करणेति ।

श्रुतिमाश्रित्य परिहरति -
न, मनसेति ।
‘तत्त्वमसि’(छा. उ. ६-८-७) आदि­वा­क्यो­त्थ­म­नो­वृ­त्त्यैव शास्त्रा­चा­र्यो­प­दे­श­म­नु­सृत्य द्रष्टव्यं तत्त्वमिति श्रूयते । स्वरूपेण स्वप्रकाशमपि ब्रह्मात्मवस्तु वाक्यो­त्थ­बु­द्धि­वृ­त्त्य­भि­व्यक्तं सवि­क­ल्प­क­व्य­व­हा­रा­ल­म्बनं भवतीति मनो­गो­च­र­त्वो­प­चा­रा­द­सिद्धं कर­णा­गो­च­र­त्व­मि­त्यर्थः ।

कथं तर्हि ब्रह्मात्मनो मनो­वि­ष­य­त्व­नि­षे­ध­श्रुतिः ? इत्याशङ्क्य, असं­स्कृ­त­म­नो­वृ­त्त्य­वि­ष­य­त्व­वि­षया सेति मन्वानः सन्नाह -
शास्त्रेति ।

सत्यपि श्रुत्यादौ, तद­नु­ग्रा­ह­का­भा­वात् नास्मा­क­म­वि­क्रि­या­त्म­क­ज्ञा­न­मु­त्प­त्तु­म­र्ह­ती­त्या­श­ङ्क्याह -
तथेति ।
तस्य अविक्रियस्य आत्म­नोऽ­धि­ग­त्यर्थं, ‘विमतो विकारः, नात्मधर्मः, विकारत्वात् , उभ­या­भि­म­त­वि­का­र­वत्’ इत्यनुमाने, पूर्वो­क्त­श्रु­ति­स्मृ­ति­रू­पा­गमे च सत्येव, तस्मि­न्नो­त्प­द्यते ज्ञानम् , इति वचः साहसमात्रं, सत्येव माने मेयं न भाती­ति­व­दि­त्यर्थः ।

ननु - यथोक्तं ज्ञान­मु­त्प­न्न­मपि हानाय उपादानाय वा न भवतीति कुतोऽस्य फलवत्त्वम् ? तत्राह -
ज्ञानं चेति ।

अवश्यमिति ।
प्रका­श­प्र­वृत्तेः तमो­नि­वृ­त्ति­व्य­ति­रे­केण अनुपपत्तिवत् , आत्म­ज्ञा­न­नि­वृ­त्त­म­न्त­रेण आत्म­ज्ञा­नो­त्प­त्ते­र­नु­प­प­त्ते­रि­त्यर्थः ।

ननु - अज्ञानस्य ज्ञान­प्रा­ग­भा­व­त्त्वात् तन्निवृत्तिरेव ज्ञानम् , नतु तन्निवर्तकमिति, तत्राह -
तच्चेति ।

कथं पुनर्भगवतापि ज्ञाना­भा­वा­ति­रि­क्त­म­ज्ञानं दर्शितम् ? इत्याशङ्क्याह -
अत्र चेति ।
‘विमतं, ज्ञानाभावो न भवति, उपादानत्वात् , मृदादिवत्’ इति भावः ।

ननु - हननक्रियायाः ‘न हिंस्यात्’ इति निषिद्धत्वात् , तत्क­र्तृ­त्वा­दे­र­ज्ञा­न­कृ­त­त्वेऽपि विहि­त­क्रि­या­क­र्तृ­त्वा­देर्न तथात्वमिति, नेत्याह -
तच्चेति ।

न तावदात्मनि कर्तृत्वादि । नित्यम् , अमु­क्ति­प्र­स­ङ्गात् । न चानित्यमपि निरुपादानम् , भाव­का­र्य­स्यो­पा­दा­न­नि­य­मात् । न च अनात्मा तदुपादानम् , आत्मनि तत्प्रतिभानात् । न चात्मैव तदुपादानम् , कूटस्थस्य तस्याविद्यां विना तदयोगात् इत्याह -
अवि­क्रि­य­त्वा­दिति ।

कर्तृ­त्वा­भा­वेऽपि कारयितृत्वं स्यात् , इत्याशङ्क्याह -
विक्रियावानिति ।
आत्मनि कर्तृ­त्वा­दि­प्र­ति­भा­नस्य अना­द्य­नि­र्वा­च्य­म­ज्ञा­न­मु­पा­दा­नम् , तन्निवृत्तिश्च तत्त्व­ज्ञा­ना­दि­त्यु­क्तम् ।

इदानीं कर्तृ­त्व­का­र­यि­तृ­त्व­यो­र­वि­द्या­कृ­तत्वे भगवतोऽनुमतिं दर्शयति -
तदेतदिति ।

विदुषो यदि कर्माधिकाराभावो भगवतोऽभिमतः, तर्हि कुत्र तस्य जीवतोऽधिकारः स्यात् ? इति पृच्छति -
क्व पुनरिति ।

‘ज्ञान­नि­ष्ठा­याम्’ इत्युक्तं स्मारयति -
उक्तमिति ।

तदङ्गभूते सर्व­क­र्म­सं­न्यासे च तस्या­धि­का­रोऽ­स्ती­त्याह -
तथेति ।

वक्ष्यमाणे वाक्ये सर्व­क­र्म­सं­न्यासो न प्रतिभाति, मानसानामेव कर्मणां विशेषणवशात् त्यागावगमात् इति शङ्कते -
नन्विति ।

विशे­ष­णा­न्त­र­मा­श्रित्य दूषयति -
न ; सर्वेति ।

मनसेति विशेषणात् मानसेष्वेव कर्मसु सर्वशब्दः सङ्कुचितः स्यात् इति शङ्कते -
मानसानामिति ।

सर्वात्मना मनो­व्या­पा­र­त्यागे व्यापा­रा­न्त­रा­णा­म­नु­प­पत्तेः सर्व­क­र्म­सं­न्यासः सिध्यतीति परिहरति -
नेत्यादिना ।

मानसेष्वपि कर्मसु संन्यासे सङ्कोचात् न वागा­दि­व्या­पा­रा­नु­प­प­त्ति­रिति शङ्कते -
शास्त्री­या­णा­मिति ।

अन्यानीति ।
अशा­स्त्री­य­वा­क्का­य­क­र्म­का­र­णानि अशास्त्रीयाणि मानसानि । तानि च सर्वाणि कर्माणीत्यर्थः ।

वाक्यशेषमादाय दूषयति -
न ; नैवेति ।
न हि विवेकबुद्ध्या सर्वाणि कर्मा­ण्य­शा­स्त्री­याणि संन्यस्य तिष्ठतीति युक्तम् , ‘नैव कुर्वन्’(भ. गी. ५-१३) इत्या­दि­वि­शे­ष­णस्य विवेकबुद्धेश्च त्याग­हे­तो­स्तु­ल्य­त्वा­दि­त्यर्थः ।

भग­व­द­भि­म­त­स­र्व­क­र्म­सं­न्या­सस्य अवस्थाविेशेषे सङ्कोचं दर्शयन्नाशङ्कते -
मरिष्यत इति ।

संन्यासो जीवदवस्थायामेव अत्र विवक्षित इत्यत्र लिङ्गं दर्श­य­न्नु­त्त­र­माह -
न ; नवेति ।

अनुपपत्तिमेव स्फोरयति -
न हीति ।

अन्व­य­वि­शे­षा­न्वा­ख्या­नेन लिङ्गासिद्धिं चोदयति -
अकुर्वत इति ।
विवेकवशात् अशेषाण्यपि कर्माणि देहे यथोक्ते निक्षिप्य अकुर्वन् अकारयंश्च विद्वानवतिष्ठते । तथा च - देहे कर्माणि संन्यस्य अकु­र्व­तोऽ­का­र­य­तश्च सुखमासनमिति सम्बन्धसम्भवात् विशेषणस्य सति देहे, कर्म­त्या­गा­वि­ष­य­त्वा­भा­वात् जीवतः सर्वकर्मत्यागो नास्तीत्यर्थः । अथवा अकुर्वत इत्यादि पूर्वत्रैव सम्बन्धनीयम् । लिङ्गा­सि­द्धि­चोद्यं तु देहे संन्य­स्ये­त्या­रभ्य उन्नेयम् ।

आत्मनः सर्वत्र अवि­क्रि­य­त्व­नि­र्धा­र­णात् देह­स­म्ब­न्ध­म­न्त­रेण कर्तृ­त्व­का­र­यि­तृ­त्वा­प्राप्तेः अप्रा­प्त­प्र­ति­षे­ध­प्र­स­ङ्ग­प­रि­हा­रा­र्थम् अस्मदुक्त एव सम्बन्धः साधीयानिति समाधत्ते -
न ; सर्वत्रेति ।
श्रुतिषु स्मृतिषु चेत्यर्थः ।

किञ्च - सम्बन्धस्य आका­ङ्क्षा­सं­नि­धि­यो­ग्य­ता­धी­न­त्वात् आकाङ्क्षावशात् अस्म­द­भि­म­त­स­म्ब­न्ध­सि­द्धि­रि­त्याह -
आसनेति ।

भवदिष्टस्तु सम्बन्धो न सिध्यति, आकाङ्क्षाभावात् , इत्याह -
तद­न­पे­क्ष­त्वा­च्चेति ।

संन्यासशब्दस्य निक्षे­पा­र्थ­त्वात् तस्य च अघि­क­र­ण­सा­पे­क्ष­त्वात् अस्म­दि­ष्ट­स­म्ब­न्ध­सि­द्धि­रि­त्या­श­ङ्क्याह -
सम्पू­र्व­स्त्विति ।
अन्यथा उप­स­र्ग­वै­य­र्थ्यात् इत्यर्थः ।

मनसा विवेकविज्ञानेन सर्वकर्माणि परित्यज्य आस्ते देहे विद्वान् इत्यस्यैव सम्बन्धस्य साधुत्वं मत्वोपसंहरति -
तस्मादिति ।

सर्व­व्या­पा­रो­प­र­मा­त्मनः संन्यासस्य अवि­क्रि­या­त्म­ज्ञा­ना­वि­रो­धि­त्वात् प्रयोजकज्ञानवतो वैधे संन्या­सेऽ­धि­कारः, सम्य­ग्ज्ञा­न­व­तस्तु अवैधे स्वाभाविके फलात्मनि इति विभागमभ्युपेत्य उक्तेऽर्थे वाक्य­शे­षा­नु­गुण्यं दर्शयति -
इति तत्र तत्रेति
॥ २१ ॥

आत्म­नोऽ­वि­क्रि­य­त्वेन कर्मासम्भवं प्रतिपाद्य अवि­क्रि­य­त्व­हे­तु­स­म­र्थ­ना­र्थ­मेव उत्त­र­ग्र­न्थ­म­व­ता­र­यति -
प्रकृतं त्विति ।

किं तत्प्रकृतम् ? इति शङ्कमानं प्रत्याह -
तत्रेति ।
अवि­ना­शि­त्व­मि­त्यु­प­ल­क्ष­णम् , अवि­क्रि­य­त्व­मि­त्यर्थः ।

तदेव दृष्टान्तेन स्पष्ट­यि­तु­मु­त्त­र­श्लो­क­मु­त्था­प­यति -
तदित्यादिना ।

आत्मनः स्वतो विक्रियाभावेऽपि पुरातनदेहत्यागे नूतनदेहोपादाने च विक्रि­या­व­त्त्व­ध्रौ­व्यात् अवि­क्रि­य­त्व­म­सि­द्ध­मिति चेत् , तत्राह -
वासांसीति ।
शरीराणि जीर्णानि - वयोहानिं गतानि, वली­प­लि­ता­दि­स­ङ्ग­ता­नी­त्यर्थः ।

वाससां पुरातनानां परित्यागे, नवानां चोपादाने त्यागो­पा­दा­न­क­र्तृ­भू­त­लौ­कि­क­पु­रु­ष­स्यापि अविकारित्वेन एकरूपत्ववत् , आत्मनो देह­त्या­गो­पा­दा­न­यो­र­वि­रुद्धं अविक्रियत्वमिति वाक्यार्थमाह -
पुरुषवदिति
॥ २२ ॥

पृथि­व्या­दि­भू­त­च­तु­ष्ट­य­प्र­यु­क्त­वि­क्रि­या­भा­क्त्वात् आत्मनोऽसिद्धं अविक्रियत्वमिति शङ्कते -
कस्मादिति ।