अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

द्वितीयोऽध्यायः (२)

यतो न भूतानि आत्मानं गोच­र­यि­तु­म­र्हन्ति अतो युक्तमाकाशवत् तस्य अविक्रियत्वमिति शङ्कते -
आहेत्यादिना
॥ २३ ॥

पृथि­व्या­दि­भू­त­प्र­यु­क्त­च्छे­द­ना­द्य­र्थ­क्रि­या­भावे योग्यताभावं कारणमाह -
यत इति ।

पूर्वा­र्ध­मु्त्त­रार्धे हेतुत्वेन योजयति -
यस्मादिति ।

नित्य­त्वा­दी­ना­म­न्योन्यं हेतुहेतुमद्भावं सूचयति-
नित्य­त्वा­दि­त्या­दिना ।

न च नित्यत्वं परमाणुषु व्यभिचारादसाधकं सर्वगतत्वस्येति वाच्यम् । तेषामेव अप्रामाणिकत्वेन व्यभि­चा­रा­न­व­ता­रात् । न च सर्वगतत्वेऽपि विक्रि­या­श­क्ति­म­त्त्व­मा­त्म­नोऽ­स्तीति युक्तम् , विभुत्वेनाभिमते नभसि तदनुपलम्भात् । न च विक्रि­या­श­क्ति­मत्वे स्थैर्य­मा­स्थातुं शक्यम् , तथाविधस्य मृदा­दे­र­स्थि­र­त्व­द­र्श­नात् , इत्याशयेनाह -
स्थिरत्वादिति ।

स्वतो नित्यत्वेऽपि कार­णा­न्ना­श­स­म्भ­वा­दु­त्प­त्ति­रपि सम्भावितेति कुत­श्चि­र­न्त­न­त्वम् ? इत्याशङ्क्याह -
न कारणादिति ।

आत्म­नोऽ­वि­क्रि­य­त्वस्य ‘न जायते म्रियते वा’(भ. गी. २-२०) इत्यादिना साधितत्वात् , तस्यैव पुनःपुनरभिधाने पुन­रु­क्ति­रि­त्या­श­ङ्क्याह-
नैतेषामिति ।

अनाशङ्कनीयस्य चोद्यस्य प्रसङ्गं दर्शयति -
यत इति ।
अतो ‘वेदाविनाशिनम्’(भ. गी. २. २१) इत्यादौ शङ्क्यते, पौनरुक्त्यमिति शेषः ।

कथं तत्र पौन­रु­क्त्या­शङ्का समुन्मिषति ? तत्राह -
तत्रेति ।
वेदाविनाशिनम् (भ. गी. २. २१) इत्यादिश्लोकः सप्तम्या परामृश्यते, श्लोकशब्देन ‘न जायते म्रियते वा’(भ. गी. २-२०) इत्यादिरुच्यते ।

ननु - इह श्लोके जन्म­म­र­णा­द्य­भा­वोऽ­भि­ल­क्ष्यते, ‘वेद’(भ. गी. २. २१) इत्यादौ पुन­र­प­क्ष­या­द्य­भावो विवक्ष्यते, तत्र कथ­म­र्था­ति­रे­का­भा­व­मा­दाय पौनरुक्त्यं चोद्यते ? तत्राह -
किञ्चिदिति ।

कथं तर्हि पौनरुक्त्यं न चोदनीयमिति मन्यसे ? तत्राह -
दुर्बोधत्वादिति ।

पुनः­पु­न­र्वि­धा­न­मे­देन वस्तु निरूपयतो भग­व­तोऽ­भि­प्रा­य­माह -
कथं न्विति
॥ २४ ॥

त्वम्प­दा­र्थ­प­रि­शो­ध­नस्य प्रकृतत्वात् तत्रैव हेत्वन्तरमाह -
किञ्चेति ।

आत्मनो नित्य­त्वा­दि­ल­क्ष­णस्य तथैव प्रथा किमिति न भवति ? तत्राह -
अव्यक्त इति ।

मा तर्हि प्रत्यक्षत्वं भूत् , अनुमेयत्वं तु तस्य किं न स्यात् ? इत्याशङ्क्याह -
अत एवेति ।

तदेव प्रपञ्चयति -
यद्धीति ।

अती­न्द्रि­य­त्वेऽपि सामान्यतो दृष्टविषयत्वं भवि­ष्य­ती­त्या­शङ्क्य कूटस्थेन आत्मना व्याप्त­लि­ङ्गा­भा­वात् , मैवमित्याह -
अविकार्य इति ।

अविकार्यत्वे व्यति­रे­क­दृ­ष्टा­न्त­माह -
यथेति ।

किञ्च आत्मा न विक्रियते, निर­व­य­व­द्र­व्य­त्वात् , घटादिवत् - इति व्यति­रे­क्य­नु­मा­न­माह -
निर­व­य­व­त्वा­च्चेति ।

निरवयवत्वेऽपि विक्रियावत्त्वे का क्षतिः ? इत्याशङ्क्याह -
नहीति ।
सावयवस्यैव विक्रि­या­व­त्त्व­द­र्श­नात् विक्रियावत्त्वे निर­व­य­व­त्वा­नु­प­प­त्ति­रि­त्यर्थः ।

यद्धि सावयवं सक्रियं क्षीरादि, तत् दध्यादिना विकारमापद्यते । न च आत्मनः श्रुति­प्र­मि­त­नि­र­व­य­व­त्वस्य सावयवत्वम् । अतोऽ­वि­क्रि­य­त्वा­न्नायं विकार्यो भवितुमलमिति फलितमाह -
अवि­क्रि­य­त्वा­दिति ।

आत्म­या­था­त्म्यो­प­दे­शम् ‘अशो­च्या­न­न्व­शो­च­स्त्वम्’(भ. गी. २-११) इत्युपक्रम्य व्याख्या­त­मु­प­सं­ह­रति -
तस्मादिति ।
अव्य­क्त­त्वा­चि­न्त्य­त्वा­वि­का­र्य­त्व­नि­त्य­त्व­स­र्व­ग­त­त्वा­दि­रूपो यस्मात् आत्मा निर्धारितः, तस्मात् तथैव ज्ञातुमुचितः, तज्ज्ञानस्य फल­व­त्त्वा­दि­त्यर्थः ।

प्रति­षे­ध्य­म­नु­शो­क­मे­वा­भि­न­यति -
हन्ताहमिति ॥ २५ ॥

आत्मनो नित्यत्वस्य प्रागेव सिद्धत्वात् उत्त­र­श्लो­का­नु­प­प­त्ति­रि­त्या­श­ङ्क्यह -
आत्मन इति ।
‘अनित्यत्वं’ इति च्छेदः । शाक्यानां लोकायतानां वा मतम् इदमा परामृश्यते ।

श्रोतुरर्जुनस्य पूर्वो­क्त­मा­त्म­या­थात्म्यं श्रुत्वापि तस्मिन् निर्धा­र­णा­सि­द्धे­र्द्व­यो­र्म­त­यो­र­न्य­त­र­म­ता­भ्यु­प­गमः शङ्कितः, तदर्थो निपातद्वयप्रयोग इत्याह -
अथ चेति ।

प्रकृतस्य आत्मनो नित्य­त्वा­दि­ल­क्ष­णस्य पुनः­पु­न­र्जा­त­त्वा­भि­मानो मानाभावादसम्भवी इत्याशङ्क्याह -
लोकेति ।

नित्य­जा­त­त्वा­भि­नि­वेशे पौनःपुन्येन मृतत्वाभिनेवेशो व्याहतः स्यादि­त्य­श­ङ्क्याह -
तथेति ।

पर­की­य­म­त­म­नु­भा­षि­त­म­भ्यु­पेत्य, ‘अहो बत महत् पापं कर्तुं व्यवसिता वयम्’(भ. गी. १. ४५) इत्या­दे­स्त­दी­य­शो­कस्य निर­व­का­श­त्व­मि­त्याह -
तथापीति ।

एवमर्जुनस्य दृश्य­मा­न­म­नु­शो­क­प्र­कारं दर्शयित्वा तस्य कर्तुमयोग्यत्वे हेतुमाह -
जन्मवत इति ।
‘जन्मवतो नाशो नाशवतश्च जन्म’ इत्येतौ अवश्यंभाविनौ - मिथो व्याप्ताविति योजना ॥ २६ ॥

तयो­र­व­श्य­म्भा­वित्वे सति अनुशोकस्य अकर्तव्यत्वे हेत्वन्तरमाह -
तथा चेति
॥ २७ ॥

आत्मा­न­मु­द्दि­श्या­नु­शो­कस्य कर्तु­म­यो­ग्य­त्वेऽपि भूत­स­ङ्घा­ता­त्म­कानि भूतान्युद्दिश्य तस्य कर्त­व्य­त्व­मा­शङ्क्य, आह -
कार्येति ।

समनन्तरश्लोकः तत्र हेतुरित्याह -
यत इति ।

चाक्षु­ष­द­र्श­न­मा­त्र­वृत्तिं व्यावर्तयति -
अनुपलब्धिरिति ।
नहि यथो­क्त­स­ङ्घा­त­रू­पाणि भूतानि पूर्वमुत्पत्तेः उपलभ्यन्ते । तेन तानि तथा व्यपदेशभाञ्जि भवन्ति इत्यर्थः ।

किं तत् मध्यम् , यदेषां व्यक्तमिष्यते ? तदाह -
उत्पन्नानीति ।
उत्प­त्ते­रूर्ध्वं मरणाच्च पूर्वं व्यावहारिकं सत्त्वं मध्यमेषां व्यक्तमिति तथोच्यते ।

जन्मानुसारित्वं विलयस्य युक्तम् इति मत्वा तात्पर्यार्थमाह -
मरणादिति ।

उक्तेऽर्थे पौराणिकसंमतिमाह -
तथा चेति ।

तत्रे­त्य­स्या­र्थ­माह -
अदृष्टेति ।
पूर्वम् अदृष्टानि सन्ति, पुनर्दृष्टानि, तान्येव पुनर्नष्टानि, तदेवं भ्रान्तिविषयतया घटिकायन्त्रवत् चक्रीभूतेषु भूतेषु शोकनिमितस्य प्रलापस्य नाव­का­शोऽ­स्ती­त्यर्थः ॥ २८ ॥

अर्जुनं प्रति उपालम्भं दर्शयित्वा प्रकृतस्य आत्मनो दुर्वि­ज्ञे­य­त्वात् तं प्रति उपालम्भो न सम्भवतीति सन्वानः सन् आह -
दुर्विज्ञेय इति ।

तथा च आत्मा­ज्ञा­न­नि­मि­त्त­वि­प्र­ल­म्भस्य साधारणत्वात् असा­धा­र­णो­पा­ल­म्भस्य निरवकाशता, इत्याह -
किं त्वामेवेति ।

अहं­प्र­त्य­य­वे­द्य­त्वा­दा­त्मनो दुर्वि­ज्ञे­य­त्वम् असिद्धमिति शङ्कते -
कथमिति ।

विशिष्टस्य आत्मनः अहं­प्र­त्य­य­दृ­ष्ट­त्वेऽपि केवलस्य तदभावात् अस्ति दुर्विज्ञेयता इति श्लोकमवतारयति -
आहेति ।

‘आश्चर्यवत्’(भ. गी. २-२९) इति आद्येन पादेन आत्म­वि­ष­य­द­र्श­नस्य दुर्लभत्वं दर्शयता द्रष्टु­र्दौ­र्ल­भ्य­मु­च्यते । द्वितीयेन च तद्विषयवदनस्य दुर्लभत्वोक्तेः तदु­प­दे­ष्टु­स्त­थात्वं कथ्यते । तृतीयेन तदीयश्रवणस्य दुर्लभत्वद्वारा श्रोतुर्विरलता विवक्षिता । श्रव­ण­द­र्श­नो­क्तीनां भावेऽपि तद्वि­ष­य­सा­क्षा­त्का­रस्य अत्य­न्ता­या­स­ल­भ्यत्वं चतु­र्थे­ना­भि­प्रे­तम् इति विभागः । आत्म­गो­च­र­द­र्श­ना­दि­दु­र्ल­भ­त्व­द्वारा दुर्बोधत्वम् आत्मनः साधयति -
आश्चर्यवदिति ।

संप्रत्यात्मनि द्रष्टुर्वक्तुः श्रोतुः साक्षा­त्क­र्तुश्च दुर्ल­भ­त्वा­भि­धा­नेन तदीयं दुर्बोधत्वं कथयति -
अथवेति ।

व्याख्या­न­द्व­येऽपि फलितमाह -
अत इति
॥ २९ ॥

श्लोका­न्त­र­मु­त्था­प­यति -
अथेति ।
आत्मनो दुर्ज्ञा­न­त्व­प्र­द­र्श­ना­न­न्त­र­मिति यावत् । वस्तु­वृ­त्ता­पे­क्षया शोक­मो­ह­यो­र­क­र्त­व्यत्वं प्रकरणार्थः ।

हेतुभागं विभजते -
सर्वस्येति ।

देहे वध्यमानेऽपि देहिनो वध्यत्वाभावे फलितमाह -
यस्मात् इति ।

फलितप्रदर्शनपरं श्लोकार्धं व्याचष्टे-
तस्मा­द्भी­ष्मा­दी­नीति
॥ ३० ॥

श्लोका­न्त­र­म­व­ता­र­यन् वृत्तं कीर्तयति -
इहेति ।
पूर्वश्लोकः सप्तम्यर्थः । यत् पारमार्थिकं तत्त्वं तदपेक्षायामेव केवलं शोकमोहयोरसम्भवो न भवति, किन्तु ‘स्वधर्ममपि चावेक्ष्य’(भ. गी. २-३१) इति सम्बन्धः स्वकीयं क्षात्र­ध­र्म­म­नु­स­न्धाय ततश्चलनं परि­ह­र्त­व्य­मि­त्यर्थः ।

यद्धि क्षत्रियस्य धर्मादनपेतं श्रेयःसाधनं तदेव मया अनु­व­र्ति­त­व्य­मि­त्या­श­ङ्क्याह -
धर्म्यादिति ।

जातिप्रयुक्तं स्वाभाविकं स्वधर्ममेव विशिनष्टि -
क्षत्रियस्येति ।
पुन­र्न­का­रो­पा­दा­न­म­न्व­या­र्थम् ।

प्रच­लि­तु­म­यो­ग्यत्वे प्रतियोगिनं दर्शयति -
स्वाभाविकादिति ।

स्वाभा­वि­क­त्व­म­शा­स्री­य­त्व­मिति शङ्कां वारयितुं तात्पर्यमाह-
आत्मेति ।
आत्मनः - स्वस्यार्जुनस्य स्वाभाव्यं क्षत्रि­य­स्व­भा­व­प्र­युक्तं वर्णाश्रमोचितं कर्म, तस्मादित्यर्थः ।

धर्मार्थं प्रजा­प­रि­पा­ल­नार्थं च प्रयतमानस्य युद्धादुपरिरंसा श्रद्धा­त­व्ये­त्या­श­ङ्क्याह-
तच्चेति ।

ततोऽपि श्रेयस्करं किञ्चि­द­नु­ष्ठातुं युद्धा­दु­प­र­ति­रु­चि­ते­त्या­श­ङ्क्याह -
तस्मादिति ।
तस्मात् युद्धात् प्रच­ल­न­म­नु­चि­त­मिति शेषः ॥ ३१ ॥

युद्धस्य गुर्वा­द्य­ने­क­प्रा­णि­हिं­सा­त्म­कस्य अहिं­सा­शा­स्त्र­वि­रो­धात् नास्ति कर्तव्यतेति शङ्कते -
कुतश्चेति ।

अग्नी­षो­मी­य­हिं­सा­दि­वत् युद्धमपि क्षत्रियस्य विहि­त­त्वा­द­नु­ष्ठे­यम् , सामा­न्य­शा­स्त्रतो विशेषशास्त्रस्य बलीयस्त्वात् इत्याह-
उच्यत इति ।

तथापि युद्धे प्रवृ­त्ता­ना­मै­हि­का­मु­ष्मि­क­स्था­यि­सु­खा­भा­वा­दु­प­र­ति­रेव ततो युक्ता प्रति­भा­ती­त्या­श­ङ्क्याह -
यदृच्छयेति ।

चिरेण चिरतरेण कालेन च यागा­द्य­नु­ष्ठा­यिनः स्वर्गादिभाजो भवन्ति । युध्यमानास्तु क्षत्रिया बहि­र्मु­ख­ता­वि­हीनाः सहसैव स्वर्गा­दि­सु­ख­भो­क्तारः । तेन तव कर्तव्यमेव युद्धमिति व्याख्यानेन स्फुटयति -
यदृ­च्छ­ये­त्या­दिना ।
इहामुत्र च भाविसुखवतामेव क्षत्रियाणां स्वध­र्म­भू­त­यु­द्ध­सि­द्धे­स्ता­द­र्थ्ये­नो­त्थानं शोकमोहौहित्वा कर्त­व्य­मि­त्यर्थः ॥ ३२ ॥

स्वधर्मस्य युद्धस्य श्रद्धया करणे स्वर्गा­दि­म­हा­फ­ल­प्राप्तिं प्रदर्श्य, तदकरणे प्रत्य­वा­य­प्राप्तिं प्रदर्शयन् उत्त­र­श्लो­क­ग­ता­थ­श­ब्दार्थं कथयति -
एवमिति ।
विहितत्वं फल­व­त्त्व­मि­त्य­नेन प्रका­रे­णे­त्यर्थः । अन्वयार्थः पुनः चेदित्यनूद्यते । महा­दे­वा­दी­त्या­दि­श­ब्देन महेन्द्रादयो गृह्यन्ते ॥ ३३ ॥

युद्धाकरणे क्षत्रियस्य प्रत्य­वा­य­मा­मु­ष्मि­क­मा­पाद्य, शिष्ट­ग­र्हा­ल­क्षणं दीर्घ­का­ल­भा­वि­न­मै­हि­क­मपि प्रत्यवायं प्रतिलम्भयति -
न केवलमिति ।

युद्धे स्वमरणसन्देहात् तत्प­रि­हा­रा­र्थ­म­की­र्ति­रपि सोढव्या, आत्मसंरक्षणस्य श्रेयस्करत्वात् इत्याशङ्क्याह -
धर्मात्मेति ।

मान्या­ना­म­की­र्ति­र्भ­वति मरणादपि दुःसहेति तात्पर्यार्थमाह -
सम्भावितस्येति
॥ ३४ ॥

इतश्च त्वया युद्धं कर्तव्यमित्याह -
किञ्चेति ।

प्राणिषु कृपया नाहं युद्धं करि­ष्या­मी­त्या­श­ङ्क्याह -
भयादिति ।

महारथानेव विशिनष्टि -
येषां चेति ।
दुर्यो­ध­ना­दि­भि­स्तव उप­हा­स्य­ता­नि­र­स­नाय सङ्ग्रामे प्रवृ­त्ति­र­व­श्य­म्भा­वि­नी­त्यर्थः ॥ ३५ ॥

इतश्च मा त्वं युद्धादुपरमं कार्षीरित्याह -
किञ्चेति ।

ननु - भीष्म­द्रो­णा­दि­व­ध­प्र­युक्तं कष्टतरं दुःखमसहमानो युद्धा­न्नि­वृत्तः स्वसा­म­र्थ्य­नि­न्द­नादि शत्रुकृतं सोढुं शक्ष्या­मी­त्या­श­ङ्क्याह-
तत इति
॥ ३६ ॥

तर्हि युद्धे गुर्वादिवधवशात् मध्यस्थनिन्दा, ततो निवृत्तौ शत्रुनिन्दा इत्युभयतः पाशा रज्जु­रि­त्या­श­ङ्क्याह -
युद्धे पुनरिति ।

जये पराजये च लाभध्रौव्यात् युद्धा­र्थ­मु­त्था­न­मा­व­श्य­क­मि­त्याह-
तस्मादिति ।

नहि परिशुद्धकुलस्य क्षत्रियस्य युद्धा­यो­द्यु­क्तस्य तस्मादुपरमः साधीयानित्याह -
कौन्तेयेति ।
जये पराजये चेत्ये­त­दु­भ­य­थे­त्यु­च्यते ।

जया­दि­नि­य­मा­भा­वोऽपि लाभनियमे फलितमाह -
यत इति ।

कृतनिश्चयत्वमेव विशदयति -
जेष्यामीति
॥ ३७ ॥

पापभीरुतया युद्धाय निश्चयं कृत्वा नोत्थातुं शक्नो­मी­त्या­श­ङ्क्याह -
तत्रेति ।
युद्धस्य स्वधर्मतया कर्तव्यत्वे सतीति यावत् ।

सुहृ­ञ्जी­व­न­म­र­णा­दि­नि­मि­त्तयोः सुखदुःखयोः समताकरणं कथम् ? इति, तत्राह -
रागद्वेषाविति ।
लाभः - शत्रु­को­षा­दि­प्राप्तिः, अलाभः - तद्विपर्ययः । न्याय्येन युद्धे­ना­प­रि­भू­तेन परस्य परिभवो जयः, तद्वि­प­र्य­य­स्त्व­जयः, तयो­र्ला­भा­ला­भ­यो­र्ज­या­ज­य­योश्च समताकरणं समानमेव, राग­द्वे­षा­व­कृ­त्वे­त्ये­त­द्द­र्श­यितुं तथेत्युक्तम् ।

यथो­क्तो­प­दे­श­व­शात् पर­मा­र्थ­द­र्श­न­प्र­क­रणे युद्ध­क­र्त­व्य­तोक्तेः समुच्चयपरत्वं शास्त्रस्य प्राप्त­मि­त्या­श­ङ्क्याह -
एष इति ।
क्षत्रियस्य तव धर्म­भू­त­यु­द्ध­क­र्त­व्य­ता­नु­वा­द­प्र­स­ङ्गा­ग­त­त्वात् अस्योपदेशस्य नानेन मिषेण समुच्चयः सिध्यतीत्यर्थः ॥ ३८ ॥

ननु - ‘स्वधर्ममपि चावेक्ष्य’(भ. गी. २-३१) इत्या­दि­श्लो­कै­र्न्या­या­व­ष्ट­म्भेन शोकमोहापनयनस्य तात्प­र्ये­णो­क्त­त्वात् तस्मि­न्नु­प­सं­ह­र्तव्ये किमिति पर­मा­र्थ­द­र्श­न­मु­प­सं­ह्नि­यते ? तत्राह -
शोकेति ।
‘स्वधर्ममपि’(भ. गी. २-३१) इत्यादिभिरतीतैः श्लोकैः शोकमोहयोः स्वज­न­म­र­ण­गु­र्वा­दि­व­ध­श­ङ्का­नि­मि­त्तयोः सम्य­ग्ज्ञा­न­प्र­ति­ब­न्ध­क­यो­र­प­न­यार्थं वर्णाश्रमकृतं धर्ममनुतिष्ठतः स्वर्गादि सिध्यति, नान्यथा, इत्य­न्व­य­व्य­ति­रे­का­त्मको लोकप्रसिद्धो न्यायो यद्यपि दर्शितः, तथापि नासौ तात्पर्येणोक्त इत्यर्थः ।

किं तर्हि तात्प­र्ये­णो­क्तम् ? तदाह -
परमार्थेति ।
‘न त्वेवाहं जातु नासं’(भ. गी. २-१२) इत्यादि सप्तम्या परामृश्यते । उक्तम् - ‘न जायते म्रियते वा कदाचित्’(भ. गी. २. २०) इत्या­दि­नो­प­पा­दि­त­मि­त्यर्थः ।

उप­सं­हा­र­प्र­यो­ज­न­माह -
शास्त्रेति ।
तस्य वस्तुद्वारा विषयो निष्ठाद्वयम् । तस्य विभक्तस्य तेनैव विभागेन प्रदर्शनार्थं पर­मा­र्थ­द­र्श­नो­प­सं­हार इत्यर्थः ।

ननु - किमित्यत्र शास्त्रस्य विषयविभागः प्रदर्श्यते ? उत्तरत्रैव तद्वि­भा­ग­प्र­वृ­त्ति­प्र­ति­पत्त्योः सम्भवात् इति, तत्राह -
इह हीति ।
शास्त्र­प्र­वृत्तेः श्रोतृ­प­ति­प­त्तेश्च सौकर्यार्थमादौ विष­य­वि­भा­ग­सू­च­न­मि­त्यर्थः ।

उपसंहारस्य फल­व­त्त्व­मे­व­मुक्त्वा तमे­वो­प­सं­हा­र­म­व­ता­र­यति -
अत आहेति ।

पर­मा­र्थ­त­त्त्व­वि­षयां ज्ञान­नि­ष्ठा­मु­क्ता­मु­प­सं­हृत्य वक्ष्यमाणां सङ्गृह्णाति -
योगे त्विति ।

तामेव बुद्धिं विशि­ष्ट­फ­ल­व­त्त्वे­ना­भि­ष्टौति -
बुद्ध्येति ।

तत्रोपसंहारभागं विभजते-
एषेत्यादिना ।

बु्द्धिश­ब्द­स्या­न्तः­क­र­ण­वि­ष­यत्वं व्यावर्तयति -
ज्ञानमिति ।

तस्य सह­का­रि­नि­र­पे­क्षस्य विशिष्टं फलवत्त्वमाचष्टे -
साक्षादिति ।
शोकमोहौ रागद्वेषौ कर्तृत्वं भोक्तृ­त्व­मि­त्या­दि­र­नर्थः संसारः, तस्य हेतुर्दोषः स्वाज्ञानम् , तस्य निवृत्तौ निरपेक्षं कारणं ज्ञानम् । अज्ञाननिवृत्तौ ज्ञान­स्या­न्व­य­व्य­ति­रे­क­स­म­धि­ग­त­सा­ध­न­त्वा­दि­त्यर्थः ।

‘योगे त्विमां’(भ. गी. २-३९) इत्यादि व्याकुर्वन् योगशब्दस्य प्रकृते चित्त­वृ­त्ति­नि­रो­ध­वि­ष­यत्वं व्यवच्छिनत्ति -
तत्प्राप्तीति ।
प्रकृतं मुक्त्युपयुक्तं ज्ञानं तत्पदेन परामृश्यते ।

ज्ञानोदयोपायमेव प्रकटयति -
निःसङ्गतयेति ।
फला­भि­स­न्धि­वै­धुर्यं निःसङ्गत्वम् ।

बुद्धि­स्तु­ति­प्र­यो­ज­न­माह -
प्ररोचनार्थमिति ।
अभिष्टुता हि बुद्धिः श्रद्धातव्या सत्य­नु­ष्ठा­ता­र­म­धि­क­रोति । तेन स्तुति­र­र्थ­व­ती­त्यर्थः ।

कर्मा­नु­ष्ठा­न­वि­ष­य­बुद्ध्या कर्मबन्धस्य कुतो निवृत्तिः ? नहि तत्त्व­ज्ञा­न­म­न्त­रेण समूलं कर्म हातुं शक्य­मि­त्या­श­ङ्क्यह -
ईश्वरेति
॥ ३९ ॥

ननु - कर्मानुष्ठानस्य अनै­कां­न्ति­क­फ­ल­त्वेन अकि­ञ्चि­त्क­र­त्वात् अने­का­न­र्थ­क­लु­षि­त­त्वेन दोषवत्त्वाच्च योगबुद्धिरपि न श्रद्धेयेति, तत्राह -
किञ्चेति ।
अन्यच्च किञ्चिदुच्यते कर्मा­नु­ष्ठा­न­स्या­व­श्य­कत्वे कारणमिति यावत् ।

कर्मणा सह समा­धे­र­नु­ष्ठा­तु­म­श­क्य­त्वात् , अने­का­न्त­रा­य­स­म्भ­वात् , तत्फलस्य च साक्षात्कारस्य दीर्घ­का­ला­भ्या­स­सा­ध्य­स्यै­क­स्मिन् जन्मन्यसम्भावत् अर्थात् योगी भ्रश्येत, अनर्थे च निपतेत् , इत्याशङ्क्याह -
नेहेति ।
प्रती­क­त्वे­नो­पा­त्तस्य नकारस्य पुन­र­न्व­या­नु­गु­ण­त्वेन नास्तीत्यनुवादः ।

यत्तु - कर्मानुष्ठानस्य अनै­का­न्ति­क­फ­ल­त्वेन अकि­ञ्चि­त्क­र­त्व­मुक्तं तद्दूषयति -
यथेति ।
कृषि­वा­णि­ज्या­दे­रा­र­म्भस्य अनियतं फलम् , सम्भा­व­ना­मा­त्रो­प­नी­त­त्वात् , न तथा कर्मणि वैदिके प्रारम्भस्य फलमनियतं युज्यते, शास्त्र­वि­रो­धा­दि­त्यर्थः ।

यत्तूक्तम् - अने­का­न­र्थ­क­लु­षि­त­त्वेन दोष­व­द­नु­ष्ठा­न­मिति, तत्राह -
किञ्चेति ।

इतोऽपि कर्मा­नु­ष्ठा­न­मा­व­श्य­क­मिति प्रतिज्ञाय हेत्वन्तरमपि स्फुटयति -
नापीति ।
चिकित्सायां हि क्रियमाणायां व्याध्यतिरेको वा मरणं वा प्रत्यवायोऽपि सम्भाव्यते, कर्मपरिपाकस्य दुर्विवेकत्वात् । न तथा कर्मानुष्ठाने दोषोऽस्ति, विहि­त­त्वा­दि­त्यर्थः ।

सम्प्रति कर्मानुष्ठानस्य फलं पृच्छति -
किं न्विति ।

उत्तरार्धं व्याकुर्वन् विवक्षितं फलं कथयति -
स्वल्पमपीति ।
सम्य­ग्ज्ञा­नो­त्पा­द­न­द्वा­रेण रक्षणं विवक्षितम् - ‘सर्व­पा­प­प्र­स­क्तोऽपि ध्याय­न्नि­मि­ष­म­च्यु­तम् । यतिस्तपस्वी भवति पङ्क्ति­पा­व­न­पा­वनः ॥ ‘ इति स्मृतेरित्यर्थः ॥ ४० ॥

ननु - बुद्धि­द्व­या­ति­रि­क्तानि बुद्ध्य­न्त­रा­ण्यपि काणा­दा­दि­शा­स्त्र­प्र­सि­द्धानि विद्यन्ते । तथा च कथं बुद्धिद्वयमेव भग­व­तो­प­दि­ष्ट­मिति, तत्राह -
येयमिति ।

सैवैका प्रमाणभूता बुद्धिरित्याह -
व्यव­सा­या­त्मि­केति ।

बुद्ध्यन्तराणि अविवेकमूलानि, अप्रमाणानि, इत्याह -
बहुशाखा हीति ।

व्यव­सा­या­त्मि­काया बुद्धेः श्रेयोमार्गे प्रवृत्ताया विवक्षित फलमाह -
इतरेति ।
प्रकृ­त­बु­द्धि­द्व­या­पे­क्षया इतराः विपरीताश्च अप्रमाणजनिताः स्वकपोलकल्पिता या बुद्धयः, तासां शाखाभेदो यः संसारहेतुः, तस्य बाधिकेति यावत् ।

तत्र हेतुः -
सम्यगिति ।
निर्दो­ष­वे­द­वा­क्य­स­मु­त्थ­त्वात् उक्त­मु­पा­यो­पे­य­भूतं बुद्धिद्वयं साक्षात् पारम्पर्याभ्यां संसा­र­हे­तु­बा­ध­क­मि­त्यर्थः ।

उत्तरार्धं व्याचष्टे -
याः पुनरिति ।
प्रकृ­त­बु­द्धि­द्व­या­पे­क्षया अर्थान्तरत्वम् - इतरत्वम् ।

तासा­म­न­र्थ­हे­तुत्वं दर्शयति -
यासामिति ।
अप्रा­मा­णि­क­बु­द्धीनां प्रस­क्ता­नु­प्र­सक्त्या जायमानानामतीव बुद्धि­प­रि­णा­म­वि­शेषाः शाखाभेदाः, तेषां प्रचारः - प्रवृत्तिः, तद्वशादित्येतत् । अनन्तत्वं सम्य­ग्ज्ञा­न­म­न्त­रेण निवृ­त्ति­वि­र­हि­त­त्वम् । अपारत्वं - कार्यस्यैव सतो वस्तु­भू­त­का­र­ण­वि­र­हि­त­त्वम् ।

अनुपरतत्वं स्फोरयति -
नित्येति ।

कथं तर्हि तन्निवृत्त्या पुरु­षा­र्थ­प­रि­स­माप्तिः ? तत्राह -
प्रमाणेति ।
अन्व­य­व्य­ति­रे­का­ख्येन अनुमानेन आगमेन च पदा­र्थ­प­रि­शो­ध­न­प­रि­नि­ष्पन्ना विवेकात्मिका या बुद्धिः, तां निमीत्तीकृत्य समु­त्प­न्न­स­म्य­ग्बो­धा­नु­रो­धात् प्रकृता विपरीतबुद्धयो व्यावर्तन्ते । तास्व­स­ङ्ख्या­तासु व्यावृत्तासु सतीषु निरालम्बनतया संसारोऽपि स्थातुमशक्नुवन् उपरतो भवतीत्यर्थः ।

याः पुनः इत्यु­प­क्रा­न्ता­स्त­त्त्व­ज्ञा­ना­प­नोद्याः संसा­रा­स्प­दी­भूताः विप­री­त­बु­द्धी­र­नु­क्रा­मति -
ता बुद्धय इति ।

बुद्धीनां वृक्षस्येव कुतो बहुशाखित्वम् ? तत्राह -
बहुभेदा इत्येतदिति ।

एकैकां बुद्धिम्प्रति शाखा­भे­दोऽ­वा­न्त­र­वि­शेषः, तेन बुद्धी­ना­म­स­ङ्ख्यात्वं प्रख्यातमित्याह -
प्रतिशाखेति ।
बुद्धी­ना­मा­न­न्त्य­प्र­सि­द्धि­प्र­द्यो­त­नार्थो हिशब्दः ।

सम्यग्ज्ञानवतां यथो­क्त­बु­द्धि­भे­द­भा­क्त्व­म­प्र­सि­द्ध­मि­त्या­शङ्क्य प्रत्याह -
केषामित्यादिना
॥ ४१ ॥

यदि साङ्ख्ययोगरूपा एकैव प्रमाणभूता बुद्धिः, तर्हि सैव सर्वेषां चित्ते किमिति स्थिरा न भवति ? तत्राह -
येषामिति ।

ते यामिमां पुष्पितां वाचं प्रवदन्ति तया अपहृतचेतसां कामिनां कामवशात् निश्चयात्मिका बुद्धिर्न प्रायः स्थिरा भवतीत्याह -
ते । यामिति ।
‘इमाम्’ इत्य­व्य­य­न­वि­ध्यु­पा­त्त­त्वेन प्रसिद्धत्वं कर्मकाण्डरूपाया वाचो विवक्ष्यते । वक्ष्यमाणत्वं ‘क्रिया­वि­शे­ष­ब­हु­लाम्’(भ. गी. २-४३) इत्यादौ द्रष्टव्यम् । किंशुको हि पुष्पशाली शोभ­मा­नोऽ­नु­भू­यते, न पुरु­ष­भो­ग्य­फ­ल­भागी लक्ष्यते ।

तथा, इयमपि कर्म­का­ण्डा­त्मिका श्रूयमाणदशायां रमणीया वागुपलभ्यते, साध्य­सा­ध­न­स­म्ब­न्ध­प्र­ति­भा­नात् । न त्वेषा निरतिशयफलभागिनी भवति, कर्मा­नु­ष्ठा­न­फ­लस्य अनित्यत्वात् , इति मत्वाह -
पुष्पितामिति ।

वाक्यत्वेन लक्ष्य­तेऽ­र्थ­व­त्त्व­प्र­ति­भा­नात् । वस्तुतस्तु न वाक्यम् , अर्थाभासत्वात् , इत्याह -
वाक्यलक्षणामिति ।

प्रवक्तॄणां वेद­वा­क्य­ता­त्प­र्य­प­रि­ज्ञा­ना­भावं सूचयति -
अविपश्चित इति ।

वेदवादाः - वेदवाक्यानि, तानि च बहू­ना­म­र्थ­वा­दानां फलानां साधनानां च विधिशेषाणां प्रकाशकानि, तेषु रतिः - आसक्तिः, तन्निष्ठत्वं - तद्वत्त्वमपि तेषां विशेषणमित्याह -
वेदवादेति ।

कर्म­का­ण्ड­नि­ष्ठ­त्व­फलं कथयति -
नान्यदिति ।
ईश्वरो वा मोक्षो वा नास्तीत्येवं वदन्तो नास्तिकाः सन्तः सम्य­ग्ज्ञा­न­वन्तो न भवन्तीत्यर्थः ॥ ४२ ॥

प्रकृतान् प्रव­क्तॄ­न­वि­वे­किनो व्यव­सा­या­त्म­क­बु­द्धि­भा­क्त्वा­स­म्भ­व­सि­द्ध्यर्थं विधान्तरेण विशिनष्टि -
ते चेति ।

तेषां संसा­र­प­रि­व­र्त­न­प­रि­द­र्श­नार्थं प्रस्तुतां वाचमेव विशिनष्टि -
जन्मेति ।

ननु - पुंसां काम­स्व­भा­व­त्व­म­यु­क्तम् , चेत­न­स्ये­च्छा­व­त­स्त­दा­त्म­त्वा­नु­प­पत्तेः, इति तत्राह -
कामपरा इति ।
तत्परत्वं - तत्त­त्फ­ला­र्थि­त्वेन तत्तदुपायेषु कर्मस्वेव प्रवृत्ततया कर्म­सं­न्या­स­पू­र्व­कात् ज्ञाना­द्ब­हि­र्मु­ख­त्वम् ।

ननु - कर्मनिष्ठानामपि पर­म­पु­रु­षा­र्था­पे­क्षया मोक्षोपाये ज्ञाने भव­त्या­भि­मु­ख्य­मिति, नेत्याह -
स्वर्गेति ।

तत्परत्वं - तस्मि­न्ने­वा­स­क्त­तया तद­ति­रि­क्त­पु­रु­षा­र्थ­रा­हि­त्य­नि­श्च­य­व­त्त्वम् । उच्चा­व­च­म­ध्य­म­दे­ह­प्र­भे­द­ग्र­हणं जन्म । वाचो यथो­क्त­फ­ल­प्र­दत्वं अप्रामाणिकम् इत्याशङ्क्य, अऩुष्ठानद्वारा तदु­प­प­त्ति­रि­त्याह -
क्रियेति ।
क्रियाणां - अनुष्ठानानां विशेषाः - देश­का­ला­धि­का­रि­प्र­युक्तः सप्ता­हा­ने­का­ह­ल­क्षणाः, ते खल्वस्यां वाचि प्राचुर्येण प्रति­भा­न्ती­त्यर्थः ।

कथं यथोक्तायां वाचि क्रियाविशेषाणां बाहुल्येन अवस्थानम् ? इत्याशङ्क्य, प्रका­श्य­त्वे­ने­त्ये­त­द्वि­श­द­यति -
स्वर्गेति ।

तथापि तेषां मोक्षो­पा­य­त्वो­प­पत्तेः, तन्निष्ठानां मोक्षाभिमुख्यं भविष्यति, नेत्याह -
भोगेति ।

यथोक्तां वाचमभिवदतां पर्यवसानं दर्शयति -
तद्बहुलामिति
॥ ४३ ॥

ननु - कर्म­का­ण्ड­नि­ष्ठानां कर्मा­नु­ष्ठा­यि­ना­मपि बुद्धि­शु­द्धि­द्वा­रेण अऩ्तःकरणे साध्य­सा­ध­न­भू­त­बु­द्धि­द्व­य­स­मु­द­य­स­म्भ­वात् , अतो मोक्षो भविष्यति, नेत्याह -
तेषां चेति ।
तदात्मभूतानां - तयोरेव भोगै­श्व­र्य­यो­रा­त्म­क­र्त­व्य­त्वेन आरोपितयोः, अभिनिविष्टे चेतसि तादा­त्म्या­ध्या­स­वतां बहि­र्मु­खा­ना­मि­त्यर्थः ।

तथापि शास्त्रा­नु­सा­रिण्या विवेकप्रज्ञया व्यवसायात्मिका बुद्धि­स्ते­षा­मु­दे­ष्यति, इत्याशङ्क्याह-
तयेति ।

ननु - समाधिः सम्प्र­ज्ञा­ता­स­म्प्र­ज्ञा­त­भे­देन द्विधोच्यते, तत्र बुद्धि­द्व­य­वि­धि­र­प्र­सक्तः सन् कथं निषिध्यते ? तत्राह -
समाधीयत इति
॥ ४४ ॥

अविवेकिनामपि वेदाभ्यासवतां विवे­क­बु­द्धि­रु­दे­ष्यति, इत्याशङ्क्याह -
य एवमिति ।

तर्हि वेदार्थतया कामात्मता प्रश­स्ते­त्या­श­ङ्क्याह -
निस्त्रैगुण्य इति ।
भवेति पदं निर्द्व­न्द्वा­दि­वि­शे­ष­णे­ष्वपि प्रत्येकं सम्बध्यते ।

त्रयाणां - सत्त्वादीनां, गुणानां - पुण्य­पा­प­व्या­मि­श्र­क­र्म­त­त्फ­ल­स­म्ब­न्ध­ल­क्षणः समाहारः - त्रैगुण्यम् , इत्यङ्गीकृत्य व्याचष्टे -
संसार इति ।
वेदशब्देनात्र कर्मकाण्डमेव गृह्यते । तदभ्यासवतां तद­र्था­नु­ष्ठा­न­द्वारा संसा­रा­ध्रौ­व्यान्न विवे­का­व­स­रोऽ­स्ती­त्यर्थः ।

तर्हि संसा­र­प­रि­व­र्ज­नार्थं विवेकसिद्धये किं कर्तव्यम् ? इत्याशङ्क्याह -
त्वं त्विति ।

कथं निस्त्रैगुण्यो भवेति गुणत्रयराहित्यं विधीयते ? नित्यसत्त्वस्थो भवेति वाक्य­शे­ष­वि­रो­धात् , इत्याशङ्क्याह -
निष्काम इति ।

सप्रतिपक्षत्वं - पर­स्प­र­वि­रो­धि­त्वम् । पदार्थौ - शीतो­ष्णा­दि­ल­क्षणौ । निष्कामत्वे द्वन्द्वा­न्नि­र्ग­तत्वं - शीतो­ष्णा­दि­स­हि­ष्णुत्वं हेतुमुक्त्वा, तत्रापि हेत्वपेक्षायां सदा सत्त्व­गु­णा­श्रि­तत्वं हेतुमाह -
नित्येति ।

योग­क्षे­म­व्या­पृ­त­चे­तसो रज­स्त­मो­भ्या­म­सं­स्पृष्टे सत्त्वमात्रे समा­श्रि­त­त्व­म­श­क्यम् इत्याशङ्क्याह -
तथेति ।

योग­क्षे­म­यो­र्जी­व­न­हे­तु­तया पुरु­षा­र्थ­सा­ध­न­त्वात् निर्योगक्षेमो भवेति कुतो विधिः ? इत्याशङ्क्याह -
योगेति ।

योग­क्षे­म­प्र­धा­नत्वं सर्वस्य स्वारसिकमिति ततो निर्गमनमशक्यम् इत्याशङ्क्याह -
आत्मवानिति ।

अप्रमादः - मनसो विष­य­पा­र­व­श्य­शू­न्य­त्वम् । अथ यथोक्तोपदेशस्य मुमु­क्षु­वि­ष­य­त्वात् अर्जुनस्य मुमुक्षुत्वमिह विवक्षितमिति, नेत्याह -
एष इति
॥ ४५ ॥

ईश्वरार्पणधिया स्वध­र्मा­नु­ष्ठा­नेऽपि फल­का­म­ना­भा­वा­द्वै­फल्यं योगमार्गस्येति मन्वानः शङ्कते -
सर्वेष्विति ।

कर्ममार्गस्य फलवत्त्वं प्रतिजानीते-
उच्यत इति ।

किं तत्फलम् ? इत्युक्ते तद्विषयं श्लोकमवतारयति -
श्रृण्विति ।
यथा उदपाने - कूपादौ परिच्छिन्नोदके स्नाना­च­म­ना­दि­र्योऽर्थो यावान् उत्पद्यते स तावान् अपरिच्छिन्ने सर्व­तः­स­म्प्लु­तो­दके समु­द्रेऽ­न्त­र्भ­वति, परि­च्छि­न्नो­द­का­नाम् अप­रि­च्छि­न्नो­द­कां­श­त्वात् । तथा, सर्वेषु वेदोक्तेषु कर्मसु यावान् अर्थो विष­य­वि­शे­षो­प­रक्तः सुखविशेषो जायते, स तावान् आत्मविदः स्वरूपभूते सुखेऽन्तर्भवति, परि­च्छि­न्ना­न­न्दा­नाम् अप­रि­च्छि­न्ना­न­न्दा­न्त­र्भा­वा­भ्यु­प­ग­मात् , ‘एत­स्यै­वा­न­न्द­स्या­न्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ. उ. ४-३-३२) इति श्रुतेः ।

तथा च अप­रि­च्छि­न्ना­त्मा­न­न्द­प्रा­प्ति­प­र्य­व­सा­यिनो योगमार्गस्य नास्ति वैफल्यमित्याह -
यावानिति ।

उक्त­म­र्थ­म­क्ष­र­यो­ज­नया प्रकटयति -
यथेति ।

उदकं पीय­तेऽ­स्मि­न्निति व्युत्पत्या कूपा­दि­प­रि­च्छि­न्नो­द­क­वि­ष­य­त्व­मु­द­पा­न­श­ब्दस्य दर्शयति -
कूपेति ।

कूपा­दि­ग­त­स्या­भि­धे­यस्य समु­द्रेऽ­न्त­र्भा­वा­स­म्भ­वात् कथमिदम् ? इत्याशङ्क्य, अर्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति -
फलमिति ।

यत् फल्गुत्वेन लीयते तत् फलमित्युच्यते, तत् कथं तडागादिकृतं स्नानपानादि तथा ? इत्याशङ्क्य, तस्य अल्पीयसो नाशोपपत्तेः, इत्याह -
प्रयोजनमिति ।

तडा­गा­दि­प्र­यु­क्त­प्र­यो­ज­नस्य समु­द्र­नि­मि­त्त­प्र­यो­ज­न­मा­त्र­त्वम् अयुक्तम् , अन्यस्य अन्या­त्म­त्वा­नु­प­पत्तेः, इत्याशङ्क्याह -
तत्रेति ।
घटाकाशादेरिव महाकाशे परि­च्छि­न्नो­द­क­का­र्यस्य अप­रि­च्छि­न्नो­द­क­का­र्या­न्त­र्भावः सम्भवति, तत्प्रा­प्ता­वि­त­रा­पे­क्षा­भा­वा­दि­त्यर्थः ।

पूर्वार्धं दृष्टा­न्त­भू­त­मेवं व्याख्याय, दार्ष्टा­न्ति­क­मु­त्त­रार्धं व्याकरोति -
एवमित्यादिना ।

‘कर्मसु योऽर्थः’ इत्युक्तं व्यनक्ति -
यत् कर्मफलमिति ।
सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थः, तावानेव सम्पद्यत इति सम्बन्धः ।

तदेव स्पष्टयति - प
विज्ञानेति ।
तस्मि­न­न्न­न्त­र्भ­व­तीति शेषः ।

सर्वं कर्मफलं ज्ञान­फ­लेऽ­न्त­र्भ­व­ती­त्यत्र प्रमाणमाह -
सर्वमिति ।
यत् किमपि प्रजाः साधु कर्म कुर्वन्ति, तत् सर्वं स पुरुषोऽभिसमेति - प्राप्नोति, यः पुरुषः, तद्वेद - विजानाति, यद्वस्तु सः - रैक्को वेद तद्वेद्यमिति श्रुतेरर्थः ।

कर्मफलस्य सगु­ण­ज्ञा­न­फ­लेऽ­न्त­र्भावः संवर्गविद्यायां श्रूयते, कथमेतावता निर्गुणज्ञानफले कर्म­फ­ला­न्त­र्भावः सम्भवति ? इत्याशङ्क्याह -
सर्वमिति ।

तर्हि ज्ञाननिष्ठैव कर्तव्या, तावतैव कर्मफलस्य लब्धतया कर्मा­नु­ष्ठा­ना­न­पे­क्ष­णात् , इत्याशङ्क्याह -
तस्मादिति ।
योगमर्गस्य निष्फ­ल­त्वा­भा­व­स्त­च्छ­ब्दार्थः ॥ ४६ ॥

तर्हि परम्परया पुरुषार्थसाधनं योगमार्गं परित्यज्य साक्षादेव पुरु­षा­र्थ­का­र­ण­मा­त्म­ज्ञानं तद­र्थ­मु­प­दे­ष्ट­व्यम् , तस्मै हि स्पृहयति मनो मदीयम् , इत्याशङ्क्याह -
तव चेति ।

तर्हि तत्फलाभिलाषोऽपि स्यात् इति, नेत्याह -
माफलेष्विति ।

पूर्वो­क्त­मे­वार्थं प्रपञ्चयति -
मा कर्मेति ।

फला­भि­स­न्ध्य­स­म्भवे कर्माकरणमेव श्रद्दधामि, इत्याशङ्क्याह -
मा ते इति ।

ज्ञाना­न­धि­का­रि­णोऽपि कर्म­त्या­ग­प्र­सक्तिं निवारयति -
कर्मण्येवेति ।

कर्मण्येवेति, एवकारार्थमाह -
न ज्ञानेति ।
नहि तत्र अब्राह्मणस्य अपरिपक्वकषायस्य मुख्योऽधिकारः सिध्यतीत्यर्थः ।

फलैस्तर्हि सम्बन्धो दुर्वारः स्यात् , इत्याशङ्क्याह -
तत्रेति ।
कर्मण्येवाधिकरे सतीति सप्तम्यर्थः ।

फले­ष्व­धि­का­रा­भावं स्फोरयति -
कर्मेति ।

कर्मानुष्ठानात् प्रागूर्ध्वं तत्काले चेत्येतत् कदाचनेति विवक्षितमित्याह -
कस्याञ्चिदिति ।

फलाभिसंधाने दोषमाह -
यदेति ।
एवं कर्म­फ­ल­तृ­ष्णा­द्वा­रे­णे­त्यर्थः ।

कर्मफलहेतुत्वं विवृणोति -
यदा हीति ।

तर्हि विफलं क्लेशात्मकं कर्म न कर्तव्यम् , इति शङ्कामनुभाष्य दूषयति -
यदीत्यादिना ।

अकर्मणि ते सङ्गो मा भूत् , इत्युक्तमेव स्पष्टयति -
अकरण इति
॥ ४७ ॥

आसक्तिरकरणे न युक्ता चेत् , तर्हि क्लेशात्मकं कर्म किमुद्दिश्य कर्तव्यम् ? इत्या­श­ङ्का­म­नूद्य, श्लोका­न्त­र­म­व­ता­र­यति -
यदीत्यादिना ।

वक्ष्य­मा­ण­यो­ग­मु­द्दिश्य तन्निष्ठो भूत्वा कर्माणि क्लेशा­त्म­का­न्यपि विहितत्वात् अनु­ष्ठे­या­नी­त्याह -
योगस्थः सन्निति ।

कर्मा­नु­ष्ठा­न­स्यो­द्देश्यं दर्शयति -
केवलमिति ।
फला­न्त­रा­पे­क्षा­म­न्त­रेण ईश्वरार्थं - तत्प्र­सा­द­ना­र्थ­म­नु­ष्ठा­न­मि­त्यर्थः ।

तर्हि ईश्व­र­स­न्तो­षोऽ­भि­ला­ष­गो­च­री­भूतो भविष्यति, नेत्याह -
तत्रापीति ।
ईश्व­र­प्र­सा­द­नार्थे कर्मानुष्ठाने स्थितेऽ­पी­त्यर्थः । सङ्गं त्यक्त्वा कुर्विति पूर्वेण सम्बन्धः ।

आकाङ्क्षितं पूरयित्वा, सिद्धि­श­ब्दा­र्थ­माह -
फलेति ।
तद्विपर्ययजा - सत्त्वा­शु­द्धि­जन्या । ज्ञाना­प्रा­प्ति­ल­क्ष­णेति यावत् ।

कर्म अननुतिष्ठतो योगमुद्दिश्य शेषतया प्रकृ­त­मा­का­ङ्क्षा­पू­र्वकं प्रकटयति -
कोऽसावित्यादिना
॥ ४८ ॥

किमिति योगस्थेन तत्त्व­ज्ञा­न­मु­द्दिश्य कर्म कर्तव्यम् , फलाभिलाषेऽपि तदनुष्ठानस्य सुलभत्वात् ? इत्याशङ्क्य, यथोक्तयोगयुक्तं कर्म स्तुवन् , अन­न्त­र­श्लो­क­मु­त्था­प­यति -
यत् पुनरिति ।
अवरं कर्म - बुद्धि­स­म्ब­न्ध­वि­रु­द्ध­मिति शेषः ।

बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्षं सूचयति -
बुद्धीति ।

बुद्धि­स­म्ब­न्धा­स­म्ब­न्धाभ्यां कर्मणि प्रक­र्ष­नि­क­र्ष­यो­र्भावे करणीयं नियच्छति -
बुद्धाविति ।

यत्तु फलेच्छयापि कर्मानुष्ठानं सुकरमिति, तत्राह -
कृपणेति ।

निकृष्टं कर्मैव विशिनष्टि -
फलार्थिनेति ।

कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टम् ? इत्याशङ्क्य, प्रतीकमुपादाय व्याचष्टे -
बुद्धीत्यादिना ।

फलाभिलाषेण क्रियमाणस्य कर्मणो निकृष्टत्वे हेतुमाह -
जन्मेति ।

सम­त्व­बु­द्धि­यु­क्तात् कर्मणः तद्धीनस्य कर्मणो जन्मा­दि­हे­तु­त्वेन निकृष्टत्वे फलितमाह -
यत इति ।
योगविषया बुद्धिः समत्वबुद्धिः ।

बुद्धिशब्दस्य अर्थान्तरमाह -
तत्परिपाकेति ।
तच्छब्देन सम­त्व­बु­द्धि­स­म­न्वितं कर्म गृह्यते । तस्य परिपाकः - तत्फलभूता बुद्धिशुद्धिः ।

शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह -
अभयेति ।

सप्त­मी­म­वि­व­क्षित्वा द्वितीयं पक्षं गृहीत्वा वाक्यार्थमाह -
परमार्थेति ।

तथा­वि­ध­ज्ञा­न­श­र­णत्वे हेतुमाह -
यत इति ।

फलहेतुत्वं विवृणोति -
फलेति ।
तेन पर­मा­र्थ­ज्ञा­न­श­र­ण­तैव युक्तेति शेषः ।

पर­मा­र्थ­ज्ञा­न­ब­हि­र्मु­खानां कृपणत्वे श्रुतिं प्रमाणयति -
यो वा इति ।
अस्थू­ला­दि­वि­शे­षणं एतदित्युच्यते ॥ ४९ ॥

पूर्वो­क्त­स­म­त्व­बु­द्धि­यु­क्तस्य स्वध­र्मा­नु­ष्ठाने प्रवृत्तस्य किं स्यात् ? इत्याशङ्क्याह -
समत्वेति ।
बुद्धियुक्तः स्वधर्माख्यं कर्म अनुतिष्ठन्निति शेषः ।

बुद्धियोगस्य फलवत्त्वे फलितमाह -
तस्मादिति ।

पूर्वार्धं व्याचष्टे -
बुद्धीत्यादिना ।

ननु - सम­त्व­बु­द्धि­मा­त्रात् न पुण्य­पा­प­नि­वृ­त्ति­र्युक्ता, पर­मा­र्थ­द­र्श­न­व­त­स्त­न्नि­वृ­त्ति­प्र­सिद्धेः, इति तत्राह -
सत्त्वेति ।

उत्तरार्धं व्याचष्टे -
तस्मादिति ।

स्वध­र्म­म­नु­ति­ष्ठतो यथोक्तयोगार्थं किमर्थं मनो योजनीयम् ? इत्याशङ्क्याह -
योगो हीति ।

तर्हि यथो­क्त­यो­ग­सा­म­र्थ्या­देव दर्शि­त­फ­ल­सि­द्धे­र­नास्था स्वध­र्मा­नु­ष्ठाने प्राप्ता, इत्याशङ्क्याह -
स्वध­र्मा­ख्ये­ष्विति ।
ईश्व­रा­र्पि­त­चे­त­स्तया कर्मसु वर्तमानस्य - अनु­ष्ठा­न­नि­ष्ठस्य या यथोक्ता बुद्धिः, तत् तेषु कौशलम् इति योजना ।

कर्मणां बन्ध­स्व­भा­व­त्वात् तदनुष्ठाने बन्धानुबन्धः स्यात् , इत्याशङ्क्य कौशलमेव विशदयति -
तद्धीति ।

सम­त्व­बु­द्धे­रे­वं­फ­लत्वे स्थिते फलितमुपसंहरति -
तस्मादिति
॥ ५० ॥

सम­त्व­बु­द्धि­यु­क्तस्य सुकृ­त­दु­ष्कृ­त­त­त्फ­ल­प­रि­त्या­गेऽपि कथं मोक्षः स्यात् ? इत्याशङ्क्याह -
यस्मादिति ।
समत्वबुद्ध्या यस्मात् कर्मा­नु­ष्ठी­य­मानं दुरितादि त्याजयति, तस्मात् परम्परया असौ मुक्ति­हे­तु­रि­त्यर्थः ।

मनीषिणो हि ज्ञानातिशयवन्तो बुद्धियुक्ताः सन्तः स्वधर्माख्यं कर्मा­नु­ति­ष्ठन्तः, ततो जातं फलं देहप्रभेदं हित्वा जन्म­ल­क्ष­णा­द्ब­न्धात् विनिर्मुक्ताः वैष्णवं पदं सर्व­सं­सा­र­सं­स्प­र्श­शून्यं प्राप्नुवन्तीति श्लोकोक्तमर्थं श्लोकयोजनया दर्शयति -
कर्मजमित्यादिना ।
इष्टो देहो देवादिलक्षणः, अनिष्टो देहः तिर्यगादिलक्षणः । तत्प्राप्तिरेव कर्मणो जातं फलम् । तत् यथो­क्त­बु­द्धि­युक्ता ज्ञानिनो भूत्वा तद्बलादेव परित्यज्य बन्ध­वि­नि­र्मो­क­पू­र्वकं जीवन्मुक्ताः सन्तो विदेहकैवल्यभाजो भवन्तीत्यर्थः ।

बुद्धि­यो­गा­दि­त्यादौ बुद्धिशब्दस्य सम­त्व­बु­द्धि­रर्थो व्याख्यातः, सम्प्रति परम्परां परिहृत्य सुकृ­त­दु­ष्कृ­त­प्र­हा­ण­हे­तु­त्वस्य सम­त्व­बु­द्धा­व­सिद्धेः, बुद्धिशब्दस्य योग्यमर्थान्तरं कथयति -
अथवेति ।

अन­व­च्छि­न्न­व­स्तु­गो­च­र­त्वेन अनवच्छिन्नत्वं तस्याः सूचयन् बुद्ध्य­न्त­रा­द्वि­शेषं दर्शयति -
सर्वत इति ।
असाधारणं निमित्तन्तस्या निर्दिशति - कर्मेति ।

यथो­क्त­बु­द्धे­र्बु­द्धि­श­ब्दा­र्थत्वे हेतुमाह -
साक्षादिति ।
जन्म­ब­न्ध­वि­नि­र्मो­कादिः आदिशब्दार्थः । यस्मिन् कर्मणि क्रियमाणे पर­मा­र्थ­द­र्श­न­ल­क्षणा बुद्धि­रु­द्दे­श्य­तया युज्यते, तस्मात् कर्मणः, सकाशादितरत् कर्म तथा­वि­धो­द्दे­श्य­भू­त­बु­द्धि­स­म्ब­न्ध­वि­धु­र­म­ति­श­येन निष्कृष्यते । ततश्च पर­मा­र्थ­बु­द्धि­मु­द्दे­श्य­त्वे­ना­श्रित्य कर्म अनुष्ठातव्यम् , परि­च्छि­न्न­फ­ला­न्त­र­मु­द्दिश्य तदनुष्ठाने कार्प­ण्य­प्र­स­ङ्गात् । किञ्च - पर­मा­र्थ­बु­द्धि­मु­द्दे­श्य­मा­श्रित्य कर्म अनुतिष्ठन् अन्तः­क­र­ण­शु­द्धि­द्वारा पर­मा­र्थ­द­र्श­न­सिद्धौ, जीवत्येव देहे सुकृतादि हित्वा मोक्षमधिगच्छति । तथाच - पर­मा­र्थ­द­र्श­न­ल­क्ष­ण­यो­गार्थं मनो धारयितव्यम् । योगशब्दितं हि पर­मा­र्थ­द­र्श­न­मु­द्दे­श्य­तया कर्म­स्व­नु­ति­ष्ठतो नैपुण्यमिष्यते - यदि च पर­मा­र्थ­द­र्श­न­मु­द्दिश्य तद्युताः सन्तः समारभेरन् कर्माणि, तदा तद­नु­ष्ठा­न­ज­नि­त­बु­द्धि­शुद्ध्या ज्ञानिनो भूत्वा कर्मजं फलं परित्यज्य, निर्मु­क्त­ब­न्धनाः मुक्तिभाजो भवन्ति - इत्येवमस्मिन् पक्षे श्लोक­त्र­या­क्ष­राणि व्याख्यातव्यानि ॥ ५१ ॥

यथो­क्त­बु­द्धि­प्रा­प्ति­कालं प्रश्नपूर्वकं प्रकटयति-
योगेति ।

श्रुतं श्रोतव्यं दृष्ठं द्रष्ट­व्य­मि­त्यादौ फला­भि­ला­ष­प्र­ति­ब­न्धात् नोक्ता बुद्धि­रु­दे­ष्यति, इत्याशङ्क्याह -
यदेति ।

विेवे­क­प­रि­पा­का­वस्था कालशब्देनोच्यते । कालुष्यस्य दोष­प­र्य­व­सा­यित्वं दर्शयन् विशिनष्टि -
येनेति ।
तत् - अनर्थरूपं कालुष्यम् । तवेत्यन्वयार्थं पुनर्वचनम् ।

बुद्धि­शु­द्धि­फ­लस्य विवेकस्य प्राप्त्या वैराग्याप्तिं दर्शयति -
तदेति ।
अध्या­त्म­शा­स्त्रा­ति­रिक्तं शास्त्रं श्रोत­व्या­दि­श­ब्देन गृह्यते ।

उक्तं वैराग्यमेव स्फोरयति -
श्रोतव्यमिति ।
यथो­क्त­वि­वे­क­सिद्धौ सर्वस्मिन् अनात्मविषये नैष्फल्यं प्रति­भा­ती­त्यर्थः ॥ ५२ ॥

बुद्धि­शु­द्धि­वि­वे­क­वै­रा­ग्य­सि­द्धा­वपि पूर्वो­क्त­बु­द्धि­प्रा­प्ति­कालो दर्शितो न भवतीति शङ्कते -
मोहेति ।

प्रागु­क्त­वि­वे­का­दि­यु­क्त­बु­द्धे­रा­त्मनि स्थैर्या­व­स्थायां प्रकृ­त­बु­द्धि­सि­द्धि­रि­त्याह -
तत् शृण्विति ।
पृष्टं कालविशेषाख्यं वस्तु तच्छब्देन गृह्यते ।

बुद्धेः श्रृति­वि­प्र­ति­प­न्नत्वं विशदयति -
अनेकेति ।

नाना­श्रु­ति­प्र­ति­प­न्न­त्व­मेव सङ्क्षिपति-
विक्षिप्तेति ।
उक्तं हेतु­द्व­य­म­नु­रुध्य वैरा­ग्य­प­रि­पा­का­वस्था कालशब्दार्थः । नैश्चल्यम् - विक्षे­प­रा­हि­त्यम् , अचलत्वम् - विक­ल्प­शू­न्य­त्वम् , विक्षेपः - विपर्ययः, विकल्पः - संशयः - इति विवेकः । विवेकद्वारा जाता प्रज्ञा प्रागुक्ता बुद्धिः । समाधिः - तत्रैव निष्ठा ॥ ५३ ॥

संन्यासिनो ज्ञान­नि­ष्ठा­त­त्प्रा­प्ति­व­चनं प्रश्नबीजम् । पृच्छ­तोऽ­र्जु­न­स्या­भि­प्रा­य­माह -
लब्धेति ।
लब्धा समाधौ - आत्मनि, समाधानेन वा प्रज्ञा पर­मा­र्थ­द­र्श­न­ल­क्षणा येन तस्येति यावत् ।

ननु - तस्य भाषा तत्का­र्या­नु­रो­धिनी भविष्यति, किमित्यसौ विजिज्ञास्यते ? तत्राह -
कथमिति ।

ज्ञाननिष्ठस्य लक्षणविवक्षया प्रश्नमवतार्य तन्नि­ष्ठा­सा­ध­न­बु­भु­त्सया विशिनष्ठि -
समाधिस्थस्येति ।

तस्यै­वा­र्थ­क्रियां पृच्छति -
स्थितधीरिति
॥ ५४ ॥

प्रति­व­च­न­म­व­ता­र­यितुं पातनिकां करोति -
यो हीति ।
हिशब्देन कर्म­सं­न्या­स­का­र­णी­भू­त­वि­रा­ग­ता­स­म्पत्तिः सूच्यते । आदितः - ब्रह्म­च­र्या­व­स्था­या­मिति यावत् । ज्ञानमेव योगो ब्रह्मा­त्म­भा­व­प्रा­प­क­त्वात् , तस्मिन् निष्ठा - परिसमाप्तिः, तस्यामित्यर्थः । कर्मैव योगस्तेन, कर्मा­ण्य­सं­न्यस्य तन्निष्ठायामेव प्रवृत्त इति शेषः ।

ननु - तत् कथमेकेन वाक्येन अर्थ­द्व­य­मु­प­दि­श्यते ? द्वैयर्थ्ये वाक्यभेदात् । नच लक्षणमेव साधनम् , कृतार्थलक्षणस्य तत्स्वरूपत्वेन फलत्वे साध­न­त्वा­नु­प­पत्तेः, इति तत्राह-
सर्वत्रैवेति ।
यद्यपि कृतार्थस्य - ज्ञानिनो लक्षणं तद्रूपेण फलत्वान्न साध­न­त्व­म­धि­ग­च्छति, तथापि जिज्ञासोस्तदेव प्रयत्नसाध्यतया साधनं सम्पद्यते । लक्षणं चात्र ज्ञान­सा­म­र्थ्य­ल­ब्ध­म­नू­द्यते । न विधीयते, विदुषो विधि­नि­षे­धा­गो­च­र­त्वात् । तेन जिज्ञासोः साधनानुष्ठानाय लक्षणानुवादात् एकस्मिन्नेव साधनानुष्ठाने तात्प­र्य­मि­त्यर्थः ।

उक्तेऽर्थे भग­व­द्वा­क्य­मु­त्था­प­यति -
यानीति ।
लक्षणानि च ज्ञान­सा­म­र्थ्य­ल­भ्यानि, अयत्नसाध्यानीति शेषः ।

स्थितप्रज्ञस्य का भाषा ? इति प्रथ­म­प्र­श्न­स्यो­त्त­र­माह -
प्रजहातीति ।

कामत्यागस्य प्रकर्षः - वासनाराहित्यम् । कामा­ना­मा­त्म­नि­ष्ठत्वं कैश्विदिष्यते । तदयुक्तम् , तेषां मनो­नि­ष्ठ­त्व­श्रुतेः, इत्याशयवानाह -
मनोगतानिति ।

‘आत्म­न्ये­वा­त्मना’(भ. गी. २-५५) इत्या­द्यु­त्त­र­भा­ग­नि­रस्यं चोद्यमनुवदति -
सर्वकामेति ।

तर्हि प्रव­र्त­का­भा­वा­द्वि­दुषः सर्व­प्र­वृ­त्ते­रु­प­शा­न्ति­रिति, नेत्याह -
शरीरेति ।
उन्मादवान् उन्मत्तः - विवे­क­वि­र­हि­त­बु­द्धि­भ्र­म­भागी । प्रकर्षेण मदमनुभवन् विद्यमानमपि विवेकं निरस्यन् भ्रान्त­व­द्व्य­व­ह­रन् प्रमत्तः इति विभागः ।

उत्त­रा­र्ध­म­व­तार्य व्याकरोति -
उच्यत इति ।

आत्मन्येव इत्येवकारस्य ‘आत्मना’ इत्यत्रापि सम्बन्धं द्योतयति -
स्वेनैवेति ।

बाह्म­ला­भ­नि­र­पे­क्ष­त्वेन तुष्टिमेव स्पष्टयति -
परमार्थेति ।

स्थितप्रज्ञपदं विभजते -
स्थितेति ।
प्रज्ञा­प्र­ति­ब­न्घ­क­स­र्व­का­म­वि­ग­मा­वस्था तदेति निर्दिश्यते ।

उक्तमेव प्रपञ्चयति -
त्यक्तेति ।
आत्मानं जिज्ञासमानो वैराग्यद्वारा सर्वै­ष­णा­त्या­गा­त्मकं संन्यासमासाद्य, श्रव­णा­द्या­वृत्त्या तज्ज्ञानं प्राप्य, तस्मिन्नेव आसक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः स्थित­प्र­ज्ञ­व्य­प­दे­श­भाक् इत्यर्थः ॥ ५५ ॥

लक्ष­ण­भे­दा­नु­वा­द­द्वारा विविदिषोरेव कर्त­व्या­न्त­र­मु­प­दि­शति -
किञ्चेति ।

ज्वर­शि­रो­रो­गा­दि­कृ­तानि दुःखानि आध्यात्मिकानि । आदिशब्देन आधिभौतिकानि व्याघ्र­स­र्पा­दि­प्र­यु­क्तानि, आधिदैविकानि च अति­वा­त­व­र्षा­दि­नि­मि­त्तानि दुःखानि गृह्यन्ते । तेषूपलब्धेष्वपि नोद्विग्नं मनो यस्य स तथेति सम्बन्धः । नोद्वि­ग्न­मि­त्ये­त­द्व्या­चष्टे -
न प्रक्षुभितमिति ।

दुःखा­ना­मु­क्तानां प्राप्तौ परिहाराक्षमस्य तदनुभवपरिभावितं दुःखमुद्वेगः । तेन सहितं मनो यस्य न भवति, स तथेत्याह -
दुःख­प्रा­प्ता­विति ।
मनो यस्य नोद्विग्नमिति पूर्वेण सम्बन्धः । सुखान्यपि दुःखवत् त्रिविधानीति मत्वा तथेत्युक्तम् । तेषु प्राप्तेषु सत्सु तेभ्यो विगता स्पृहा तृष्णा यस्य सः विगतस्पृहः - इति योजना ।

अज्ञस्य हि प्राप्तानि सुखान्यनु विवर्धते तृष्णा । विदुषस्तु नैवम् , इत्यत्र वैध­र्म्य­दृ­ष्टा­न्त­माह -
नाग्निरिवेति ।
यथा हि दाह्यस्य इन्धनादेः अभ्याधाने वह्नि­र्वि­व­र्धते, तथा अज्ञस्य सुखानि उपनतानि अनुविवर्घमानापि तृष्णा विदुषो न तान्यनु विवर्धते । नहि वह्नि­र­दा­ह्य­मु­प­ग­त­मपि दग्धुं विवृ­द्धि­म­धि­ग­च्छति । तेन जिज्ञासुना सुख­दुः­ख­यो­स्तृ­ष्णो­द्वेगौ न कर्त­व्या­वि­त्यर्थः ।

रागादयश्च तेन कर्तव्या न भवन्तीत्याह -
वीतेति ।
अनुभूताभिनिवेशे विषयेषु रञ्ज­ना­त्म­क­स्तृ­ष्णा­भेदो रागः । परेणापकृतस्य गात्र­ने­त्रा­दि­वि­का­र­का­रणं भयम् । क्रोधस्तु परवशीकृत्य आत्मानं स्वप­रा­प­का­र­प्र­वृ­त्ति­हे­तु­र्बु­द्धि­वृ­त्ति­वि­शेषः ।

मनुते इति मुनिः, आत्मवित् इत्यङ्गीकृत्याह -
संन्यासीति ।
सुखा­दि­वि­ष­य­तृ­ष्णादेः, रागादेश्च अभावावस्था तदेत्युच्यते ॥ ५६ ॥

लक्ष­ण­भे­दा­नु­वा­द­द्वारा विविदिषोरेव कर्त­व्या­न्त­र­मु­प­दि­शति -
किञ्चेति ।

विवेकवतो विदुषो विवेकजन्या प्रज्ञा कथं प्रतिष्ठां प्रतिपद्यताम् ? इत्याशङ्क्याह -
यः सर्वत्रेति ।

ननु - देहजीवनादौ स्पृहा, शुभाशुभप्राप्तौ हर्षविषादौ विदुषो विविदिषोश्च अवर्जनीयौ ? इति प्रज्ञा­स्थै­र्या­सिद्धिः, तत्राह -
यो मुनिरिति ।

तत्तदिति शोभनवत्त्वेन अशोभनवत्त्वेन वा प्रसिद्धत्वं प्रति­नि­र्दि­श्यते । तदेव विभजते -
शुभमिति ।

विषयेषु अभिषङ्गाभावः शुभादिप्राप्तौ हर्षाद्यभावश्च प्रज्ञास्थैर्ये कारणमित्याह -
तस्येति
॥ ५७ ॥

जिज्ञासोरेव कर्तव्यान्तरं सूचयति -
किञ्चेति ।

इन्द्रियाणां विषयेभ्यो वैमुख्यस्य प्रज्ञास्थैर्ये कारणत्वात् , आदौ जिज्ञासुना तदनुष्ठेयम् , इत्याह -
यदेति ।

मुमुक्षुणा - मोक्षहेतुं प्रज्ञां प्रार्थयमानेन सर्वेभ्यो विषयेभ्यः सर्वा­णी­न्द्रि­याणि विमुखानि कर्तव्यानि, इति श्लोक­व्या­ख्या­नेन कथयति -
यदेत्यादिना ।
उपसंहारः - स्ववशत्वापादनम् । तस्य च सम्यक्त्वं - अतिदृढत्वम् ।

अयमिति प्रकृ­त­स्थि­त­प्र­ज्ञ­ग्र­हणं व्यावर्तयति -
ज्ञान­नि­ष्ठा­या­मिति ।

इन्द्रि­यो­प­सं­हा­रस्य प्रलयरूपत्वं व्यावर्त्य, सङ्कोचात्मकत्वं दृष्टान्तेन दर्शयति -
कूर्म इति ।

दृष्टान्तं व्याकरोति -
यथेति ।

दार्ष्टान्तिके योजयन् ज्ञाननिष्ठापदं तत्र प्रवर्तयति -
एवमिति ।

इन्द्रियाणां विषयेभ्यो वैमुख्यकरणं प्रज्ञा­स्थै­र्य­हेतुः, इत्यु­क्त­मु­प­सं­ह­रति -
तस्येति
॥ ५८ ॥

इन्द्रियाणां विषयेभ्यो वैमुख्येऽपि तद्वि­ष­य­रा­गा­नु­वृत्तौ कथं प्रज्ञालाभः स्यात् ? इति शङ्कते -
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः । विषयान् अनाहरतः - तदु­प­भो­ग­वि­मु­ख­स्ये­त्यर्थः ।

राग­श्चे­न्नो­प­सं­ह्रि­यते, न तर्हि प्रज्ञालाभः सम्भवति, रागस्य तत्प­रि­प­न्थि­त्वात् इति मत्वा आह -
स कथमिति ।

राग­नि­वृ­त्त्यु­पा­य­मु­प­दि­श­न्नु­त्त­र­माह -
उच्यत इति ।

विष­यो­प­भो­ग­प­रा­ङ्मु­खस्य कुतो विषयपरावृत्तिः ? तत्परावृत्तिश्च अप्रस्तुता, इत्याशङ्क्याह -
यद्यपीति ।
निरा­हा­र­स्ये­त्यस्य व्याख्याानम् - अना­ह्रि­य­मा­ण­वि­ष­य­स्येति । यो हि विषयप्रवणो न भवति, तस्य आत्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापि इन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संह्रियन्ते, तथापि रागोऽवशिष्यते । स च तत्त्व­ज्ञा­ना­दु­च्छि­द्यत इत्यर्थः ।

रसशब्दस्य माधु­र्या­दि­ष­ङ्वि­ध­र­स­वि­षत्वं निषेधति-
रसशब्द इति ।

वृद्ध­प्र­यो­ग­म­न्त­रेण कथं प्रसिद्धिः ? इत्याशङ्क्याह -
स्वरसेनेति ।
स्वेच्छयेति यावत् । रसिकः - स्वेच्छावशवर्ती । रसज्ञः - विव­क्षि­ता­पे­क्षि­त­ज्ञा­ते­त्यर्थः ।

कथं तर्हि तस्य निवृत्तिः ? तत्राह-
सोऽपीति ।

दृष्टि­मे­वो­प­ल­ब्धि­प­र्यायां स्पष्टयति -
अहमेवेति ।

रागापगमे सिद्धमर्थमाह -
निर्बीजमिति ।

ननु - सम्य­ग्ज्ञा­न­म­न्त­रेण रागो नापगच्छति इति चेत् , तदपगमादृते रागवतः सम्य­ग्ज्ञा­नो­द­या­यो­गात् इतरेतराश्रयता इति, नेत्याह -
नासतीति ।
इन्द्रियाणां विषयपारवश्ये विवेकद्वारा परिहृते स्थूलो रागो व्यावर्तते । ततश्च सम्य­ग्ज्ञा­नो­त्पत्त्या सूक्ष्मस्यापि रागस्य सर्वात्मना निवृ­त्त्यु­प­पत्तेः, न इतरेतराश्रयता - इत्यर्थः ।

प्रज्ञा­स्थै­र्यस्य सफलत्वे स्थिते फलितमाह -
तस्मादिति
॥ ५९ ॥

श्लोका­न्त­र­म­व­ता­र­यति -
सम्यग्दर्शनेति ।

मनसः स्ववशत्वादेव प्रज्ञा­स्थै­र्य­स­म्भवे किम­र्थ­मि­न्द्रि­याणां स्ववशत्वापादनम् ? इत्याशङ्क्याह-
यस्मादिति ।

ननु - विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वय­मे­वे­न्द्रि­याणि व्यावर्तन्ते, किं तत्र प्रज्ञास्थैर्यं चिकीर्षता कर्तव्यम् ? इति, तत्राह -
यततो हीति ।
विषयेषु भूयो भूयो दोष­द­र्श­न­मे­व­प्र­यत्नः ।

अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति सम्बन्धं गृहीत्वा, सम्बन्धान्तरमाह -
पुरुषस्येति ।

प्रमथनशीलत्वं प्रकटयति -
विषयेति ।

विक्षोभस्य आकुलीकरणस्य फलमाह -
आकुलीकृत्येति ।

प्रका­श­मे­वे­त्युक्तं विशदयति -
पश्यत इति ।
विपश्चितः - विदुषोऽपि, प्रकाशमेव - प्रका­श­श­ब्दि­त­वि­वे­का­ख्य­वि­ज्ञा­नेन युक्तमेव मनो हर­न्ती­न्द्रि­या­णीति सम्बन्धः ।
॥ ६० ॥

इन्द्रियाणां स्वव­श­त्व­स­म्पा­द­ना­न­न्तरं कर्तव्यमर्थमाह -
तानीति ।

एवमासीनस्य किं स्यात् ? इति तदाह -
वशे हीति ।

समाहितस्य - विक्षेपविकलस्य कथमासनम् ? इत्यपेक्षायामाह -
मत्पर इति ।
परा­प­र­भे­द­श­ङ्का­म­पा­कृत्य आसनमेव स्फोरयति - नान्योऽहमिति ।

उत्तरार्धं व्याकरोति -
एवमिति ।

हिशब्दार्थं स्फुटयति -
अभ्यासेति ।
परस्मादात्मनो नाहमन्योऽस्मीति प्रागु­क्ता­नु­स­न्धा­नस्य आदरेण नैर­न्त­र्य­दी­र्घ­का­ला­नु­ष्ठा­न­सा­म­र्थ्या­दि­त्यर्थः ।अथवा - विषयेषु दोष­द­र्श­ना­भ्या­स­सा­म­र्थ्यात् इन्द्रियाणि संयतानीत्यर्थः ॥ ६१ ॥

सम­न­न्त­र­श्लो­क­द्व­य­ता­त्प­र्य­माह -
अथेति ।
पुरु­षा­र्थो­पा­यो­प­दे­शा­न­न्त­र्य­म­थ­श­ब्दार्थः ।

तन्नि­ष्ठ­त्व­रा­हि­त्या­वस्थां दर्शयति -
इदानीमिति ।
पराभविष्यतः - महान्तमनर्थं गमिष्यतः । विवे­क­वि­ज्ञा­न­वि­ही­न­स्येति यावत् । सर्वानर्थमूलं विषयाभिध्यानं तस्य तथा­त्व­म­नु­भ­व­सि­द्ध­मिति वक्तु­मि­द­मि­त्यु­क्तम् । विषयेषु विशे­ष­त्व­मा­रो­पि­त­र­म­णी­य­त्वम् । प्रीति­रा­स­क्ति­रिति साधा­र­णा­स­क्ति­मात्रं गृह्यते । तृष्णेति उद्रिक्ता सक्तिरुक्ता । प्रतिबन्धेन प्रणाशेन वा प्रतिहतिः ॥ ६२ ॥

क्रोधस्य संमो­ह­हे­तु­त्व­म­नु­भ­वेन द्रढयति -
क्रुद्धो हीति ।
आक्रोशति - अधिक्षिपति । तद­यो­ग्य­त्व­म­पे­रर्थः ।

संमोहकार्यं कथयति -
संमोहादिति ।

स्मृते­र्नि­मि­त्त­नि­वे­द­न­द्वारा स्वरूपं निरूपयति -
शास्त्रेति ।

क्षणि­क­त्वा­दे­व­तस्याः स्वतो नाशसम्भवात् , न संमोहाधीनत्वं तस्ये­त्या­श­ङ्क्याह -
स्मृतीति ।

स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति ? तत्राह -
कार्येति ।

ननु - पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न कल्पते, तत्राह -
तावदेवेति ।
कार्या­का­र्य­वि­वे­च­न­यो­ग्या­न्तः­क­र­णा­भावे सतोऽपि पुरुषस्य करणाभावात् , अप­ग­त­त­त्त्व­वि­वे­क­वि­व­क्षया नष्टत्वव्यपदेशः ।

तदेतदाह -
पुरुषार्थेति
॥ ६३ ॥

विषयाणां स्मरणमपि चेदनर्थकारणम् , सुतरां तर्हि भोगः, तेन जीवनार्थं भुञ्जानो विषयान् अनर्थं कथं न प्रतिपद्यते ? इत्याशङ्क्य, वृत्ता­नु­वा­द­पू­र्व­क­मु­त्त­र­श्लो­क­ता­त्प­र्य­माह -
सर्वानर्थस्येति ।
अन­र्थ­मू­ल­क­थ­ना­न­न्त­र्य­म­थ­श­ब्दार्थः ।

परिहर्तव्ये निर्णीते तत्प­रि­हा­रो­पा­य­जि­ज्ञासां दर्शयति -
इदानीमिति ।
राग­द्वे­ष­पू­र्विका प्रवृत्तिः, इत्यत्र अनुभवदर्शनार्थो हिशब्दः । शास्त्री­य­प्र­वृ­त्ति­व्या­से­धार्थं स्वाभाविकी इत्युक्तम् । तत्रे­त्य­धि­कृ­तान् अधिकृत्य प्रयोगः । अवर्जनीयान् अशनपानादीन् , देह­स्थि­ति­हे­तू­निति यावत् ।

इन्द्रियाणां विषयेषु प्रवृतिश्चेत् , नियमानुपपत्त्या वर्जनीयेष्वपि सा स्यात् , इत्याशङ्क्याह -
आत्मेति ।

अन्तः­क­र­णा­धी­न­त्वेऽपि इन्द्रियाणां तदनियमात् तेषामपि नियमानुपपत्तिः, इत्याशङ्क्याह -
विधेयात्मेति
॥ ६४ ॥

तथापि नाना­वि­ध­दुः­खा­भि­भू­त­त्वात् न स्वास्थ्य­मा­स्थातुं शक्यम् , इत्याशयेन पृच्छति -
प्रसाद इति ।

श्लोका­र्धे­नो­त्त­र­माह -
उच्यत इति ।

सर्वदुःखहान्या बुद्धि­स्वा­स्थ्येऽपि, प्रकृतं प्रज्ञास्थैर्यं कथं सिद्धम् ? इत्याशङ्क्याह -
प्रसन्नेति ।

बुद्धि­प्र­सा­द­स्यैव फलान्तरमाह -
किञ्चेति ।
तस्मात् बुद्धि­प्र­सा­दार्थं प्रयतितव्यमिति शेषः ।

श्लोकद्वयस्य अक्ष­रो­त्थ­म­र्थ­मुक्त्वा, तात्प­र्या­र्थ­मु­प­सं­ह­रति -
एवमिति ।
युक्तः - समाहितः - विष­य­पा­र­व­श्य­शून्यः सन्निति यावत् ॥ ६५ ॥

किं पुनः सत्त्वशुद्ध्यैव यथोक्तबुद्धिः सिध्यति ? नेत्याह -
सेयमिति ।

असमाहितस्यापि बुद्धि­मा­त्र­मु­त्प­द्य­मानं प्रतिभाति, इत्याशङ्क्य विशिनष्टि -
आत्मस्वरूपेति ।

नहि विक्षि­प्त­चि­त्तस्य आत्मस्वरूपविषया बुद्धि­रु­दे­तु­म­र्हति, इत्यत्र हेतुमाह -
नचेति ।

आत्मज्ञाने शब्दादापाततो जाते, स्मृति­स­न्ता­न­क­रणं साक्षा­त्का­रा­र्थ­म­भि­नि­वेशो भावनेतिचोच्यते । न चासौ विक्षि­प्त­बुद्धेः सिध्यति, इति हेत्वर्थं विवक्षित्वाह -
आत्मज्ञानेति ।

भावनाद्वारा साक्षा­त्का­रा­भा­वेऽपि का क्षतिः ? इत्याशङ्क्याह -
तथेति ।
असमाहितस्य भावनाभाववदिति यावत् ।

आत्मनि आपाततो ज्ञाते श्रव­णा­द्या­वृ­त्ति­रूपां स्मृतिम् अनातन्वानस्य अप­रो­क्ष­बु­द्ध्य­भावे, न अनर्थनिवृत्तिः सिध्यतीत्याह -
उपशम इति ।

अनि­वृ­त्ता­न­र्थस्य पर­मा­न­न्द­सा­ग­रा­द्वि­भ­क्तस्य संसारवारिधौ निमग्नस्य सुखाविर्भावो न सम्भवतीत्याह -
अशान्तस्येति ।

तस्यापि विषयसेवातो वैषयिकं सुखं सम्भवति, इत्याशङ्क्याह -
इन्द्रियाणां हीति ।
तृष्णाक्षयस्य शास्त्र­प्र­सि­द्ध­मा­नु­भ­विकं च सुखत्वमिति वक्तुं हिशब्दः ।

विष­य­से­वा­तृ­ष्ण­यापि विषयोपभोगद्वारा सुखमुपलब्धम् , इत्याशङ्क्याह -
दुःखमेवेति ।
तत्रापि हिशब्दः अनुभवद्योती ।

तदेव स्पष्टयति -
नेत्यादिना
॥ ६६ ॥

आकाङ्क्षाद्वारा श्लोका­न्त­र­मु­त्था­प­यति -
अयुक्तस्येति ।

विक्षिप्तचेतसो भावनाभावे साक्षा­त्का­र­ल­क्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति -
इन्द्रियाणामिति ।
यत्पदोपात्तं मनः, तत्पदेनापि गृह्यते । इन्द्रियाणां - श्रोत्रादीनां, विषयाः - शब्दादयः, तेषां विकल्पनं - मिथो विभज्य ग्रहणम् , तेनेति यावत् ।

दृष्टान्तं व्याकरोति -
उदक इति ।
करोति यस्मात् तस्मात् अयुक्तस्य नोत्पद्यते बुद्धिरिति योजना ॥ ६७ ॥

‘यततो हि’(भ. गी. २-६०) इत्या­दि­श्लो­का­भ्या­मु­क्त­स्यै­वा­र्थस्य प्रकृ­त­श्लो­का­भ्या­मपि कथ्यमानत्वात् अस्ति पुनरुक्तिः, इत्याशङ्क्य परिहरति -
यततो हीत्यादीना ।
‘ध्यायतो विषयान्’(भ. गी. २-६२) इत्यादिना उप­प­त्ति­व­च­न­मु­न्ने­यम् ।

तच्छ­ब्दा­पे­क्षि­ता­र्थो­क्ति­द्वारा श्लोकमवतारयति -
इन्द्रियाणामिति ।
असमाहितेन मनसा यस्मात् अनुविधीयमानानि इन्द्रियाणि प्रसह्य प्रज्ञा­म­प­ह­रन्ति, तस्मात् इति योजना ॥ ६८ ॥

आत्मविदः स्थितप्रज्ञस्य सर्व­क­र्म­प­रि­त्या­गेऽ­धि­कारः, तद्विपरीतस्य अज्ञस्य कर्मणि, इत्ये­त­स्मि­न्नर्थे सम­न­न्त­र­श्लो­क­म­व­ता­र­यति-
योऽयमिति ।

अविद्यानिवृत्तौ सर्व­क­र्म­नि­वृ­त्ति­श्चेत् , तन्निवृत्तिरेव कथम् ? इत्याशङ्क्याह -
अविद्यायाश्चेति ।
स्फुटीकुर्वन् बाह्या­भ्य­न्त­र­क­र­णानां परा­क्प्र­त्य­क्प्र­वृ­त्ति­वत् तथाविधे दर्शने च मिथो विरुध्येते, पराग्दर्शनस्य अना­द्या­त्मा­व­र­णा­वि­द्या­का­र्य­त्वात् , आत्मदर्शनस्य च तन्नि­व­र्त­क­त्वात् , ततश्च आत्म­द­र्श­ना­र्थ­मि­न्द्रि­या­ण्य­र्थेभ्यो निगृह्णीयात् इत्याहेति योजना

सर्वप्राणिनां निशा पदार्थाविवेककरी इत्यत्र हेतुमाह -
तमः­स्व­भा­व­त्वा­दिति ।

सर्व­प्रा­णि­सा­धा­रणीं प्रसिद्धां निशां दर्शयित्वा, तामेव प्रकृ­ता­नु­गु­ण­त्वेन प्रश्नपूर्वकं विशदयति -
किं तदित्यादिना ।

स्थित­प्र­ज्ञ­वि­ष­यस्य पर­मा­र्थ­त­त्त्वस्य प्रका­शै­क­स्व­भा­वस्य कथमज्ञानं प्रति निशात्वम् ? इत्याशङ्क्याह -
यथेति ।

तत्र हेतुमाह-
अगोचरत्वादिति ।
अतद्बुद्धीनां पर­मा­र्थ­त­त्त्वा­ति­रिक्ते द्वैतप्रपञ्चे प्रवृ­त्त­बु­द्धी­नाम् अप्र­ति­प­न्न­त्वात् परमार्थतत्त्वं निशेव अवि­दु­षा­मि­त्यर्थः ।

तस्यामित्यादि व्याचष्टे -
तस्यामिति ।
निशा­व­दु­क्ता­या­म­व­स्था­या­मिति यावत् । योगीति ज्ञानी कथ्यते ।

द्वितीयार्धं विभजते -
यस्यामिति ।

प्रसुप्तानां जागरणं विरुद्धम् , इत्याशङ्क्याह -
प्रसुप्ता इवेति ।

पर­मा­र्थ­त­त्त्व­म­नु­भ­वतो निवृ­त्ता­वि­द्यस्य संन्यासिनो द्वैतावस्था निशा इत्यत्र हेतुमाह -
अवि­द्या­रू­प­त्वा­दिति ।

परमार्थावस्था निशेव अविदुषाम् , विदुषां तु द्वैतावस्था तथा, इति स्थिते फलितमाह -
अत इति ।
अवि­द्या­व­स्था­या­मेव क्रिया­का­र­क­फ­ल­भे­द­प्र­ति­भा­ना­दि­त्यर्थः ।

विद्योदयेऽपि तत्प्र­ति­भा­ना­वि­शे­षात् पूर्वमिव कर्माणि विधीयेरन् , इत्याशङ्क्याह -
विद्यायामिति ।
अविद्यानिवृत्तौ बाधि­ता­नु­वृत्त्या विभागभानेऽपि नास्ति कर्मविधिः, विभा­गा­भि­नि­वे­शा­भा­वा­दि­त्यर्थः ।

अवि­द्या­व­स्था­या­मेव कर्मणीत्युक्तं व्यक्तीकरोति -
प्रागिति ।
विद्योदयात् पूर्वं बाध­का­भा­वा­द­बा­धिता विद्या क्रिया­दि­भे­द­मा­पाद्य प्रमाणरूपया बुद्ध्या ग्राह्यतां प्राप्य कर्महेतुर्भवति, क्रिया­दि­भे­दा­भि­मा­नस्य तद्धे­तु­त्वा­दि­त्यर्थः ।

न विद्या­व­स्था­या­मि­त्युक्तं प्रपञ्चयति -
न अप्रमाणेति ।
उत्पन्नायां च विद्यायां अविद्याया निवृत्तत्वात् क्रिया­दि­भे­द­भा­न­म­प्र­मा­ण­मिति बुद्धि­रु­त्प­द्यते, तया गृह्यमाणा यथो­क्त­वि­भा­ग­भा­गि­न्यपि अविद्या न कर्महेतुत्वं प्रतिपद्यते, बाधितत्वेन आभासतया तद्धे­तु­त्वा­यो­गा­दि­त्यर्थः ।

विद्या­वि­द्या­वि­भा­गे­नो­क्त­मेव विशेषं विवृणोति -
प्रमाणभूतेनेति ।
यथोक्तेन वेदेन कामनाजीवनादिमतो मम कर्म विहितम् , तेन मया तत् कर्तव्यम् इति मन्वानः सन् कर्मणि अज्ञोऽ­धि­क्रि­यते, तं प्रति साधनविशेषवादिनो वेदस्य प्रव­र्त­क­त्वा­दि­त्यर्थः ।

सर्व­मे­वे­द­म­वि­द्या­मात्रं द्वैतं निषेवेत इति मन्वानस्तु न प्रवर्तते कर्मणि, इति व्यावर्त्यमाह -
नाविद्येति ।

विदुषो न कर्म­ण्य­धि­का­र­श्चेत् तस्या­धि­का­र­स्तर्हि कुत्र ? इत्याशङ्क्याह -
यस्येति ।

तस्य आत्मज्ञस्य फल­भू­त­सं­न्या­सा­धि­कारे वाक्यशेषं प्रमाणयति -
तथा चेति ।

प्रवर्तकं प्रमाणं विधिः, तदभावे कर्मस्विव विदुषो ज्ञान­नि­ष्ठा­या­मपि प्रवृ­त्ते­र­नु­प­पत्तेः, आश्रयणीयो ज्ञानवतोऽपि विधिरिति शङ्कते -
तत्रापीति ।

किमात्मज्ञानं विधिमपेक्षते ? किं वा आत्मा ? नाद्यः । तस्य स्वरूपविषयस्य यथा­प्र­मा­ण­प्र­मे­य­मु­त्प­त्ते­र्वि­ध्य­न­पे­क्ष­त्वा­दि­त्याह -
न स्वात्मेति ।

न द्वितीय इत्याह-
नहीति ।

प्रव­र्त­क­प्र­मा­ण­श­ब्दि­तस्य विधेः साध्यविषयत्वात् आत्म­न­श्चा­सा­ध्य­त्वा­दिति हेतुमाह -
आत्मत्वादेवेति ।

आत्म­त­ज्ज्ञा­न­यो­र्वि­घ्य­न­पे­क्ष­त्वेऽपि ज्ञानिनो मानमेव व्यवहारं प्रति नियमार्थं विध्यपेक्षा स्यात् , इत्याशङ्क्याह -
तदन्तत्वाच्चेति ।
सर्वेषां प्रमाणानां प्रामाण्यस्य आत्म­ज्ञा­नो­द­या­व­सा­न­त्वात् तस्मि­न्नु­त्पन्ने व्यवहारस्य निरवकाशत्वात् , न तत्प्रति नियमाय ज्ञानिनो विधिरित्यर्थः ।

उक्तमेव व्यक्तीकरोति -
नहीति ।

धर्मा­धि­ग­म­व­दा­त्मा­धि­ग­मेऽपि किमिति यथोक्तो व्यवहारो न भवति ? इत्याशङ्क्याह -
प्रमातृत्वं हीति ।

तन्निवृत्तौ कथ­म­द्वै­त­ज्ञा­नस्य प्रामाण्यम् ? इत्याशङ्क्याह -
निवर्तयदेवेति ।

निवर्तयत् अद्वैतज्ञानं स्वयं निवृत्तेर्न प्रमाणम् , इत्यत्र दृष्टान्तमाह -
स्वप्नेति ।

आत्मज्ञानस्य विध्यनपेक्षत्वे हेत्वन्तरमाह -
लोके चेति ।
व्यवहारभूमौ हि प्रमाणस्य वस्तु­नि­श्व­य­फ­ल­प­र्य­न्तत्वे सति प्रव­र्त­क­वि­धि­सा­पे­क्ष­त्वा­नु­प­ल­म्भात् अद्वैतज्ञानमपि प्रमाणत्वात् न विधिमपेक्षते, रज्ज्वा­दि­ज्ञा­न­व­दि­त्यर्थः ।

आत्म­ज्ञा­न­व­त­स्त­न्नि­ष्ठा­वि­धि­म­न्त­रेण ज्ञान­मा­ह­त्म्ये­नैव सिद्धत्वात् , तस्य कर्म­सं­न्या­सेऽ­धि­कारः, न कर्मणि, इत्युपसंहरति -
तस्मादिति
॥ ६९ ॥

ननु - असंन्यासिनापि विद्यावतां विद्याफलस्य मोक्षस्य लब्धुं शक्यत्वात् किमिति विदुषः संन्यासो नियम्यते ? तत्राह -
विदुष इति ।
आपातज्ञानवतो विवे­क­वै­रा­ग्या­दि­वि­शि­ष्टस्य एषणाभ्यः सर्वा­भ्योऽ­भ्यु­त्थि­तस्य श्रवणादिद्वारा समु­त्प­न्न­सा­क्षा­त्का­र­वतो मुख्यस्य संन्यासिनो मोक्षः, न अन्यस्य विष­य­तृ­ष्णा­प­रि­भू­तस्य, इत्येतत् दृष्टान्तेन प्रति­पा­द­यि­तु­मि­च्छन् , ‘राग­द्वे­ष­वि­यु­क्तैस्तु’ (भ. गी. २. ६४) इति श्लोको­क्त­मे­वार्थं पुनराहेति योजना ।

अद्भिः समुद्रस्य समन्तात् पूर्यमाणत्वे वृद्धिह्रासवती तदीया स्थितिरापतेत् , इत्याशङ्क्याह -
अचलेति ।
नहि समु­द्र­स्यो­द­का­त्मकं प्रतिनियतं रूपं कदाचिद्विवर्धते ह्रसते वा । तेन तदीया स्थिति­रे­क­रू­पै­वे­त्यर्थः ।

तत्त­न्ना­दे­या­श्चे­दापः समु­द्रा­न्त­र्ग­च्छन्ति, तर्हि तस्य विक्रि­या­व­त्त्वा­द­प्र­तिष्ठा स्यात् , इत्याशङ्क्याह -
स्वात्मस्थमिति ।

इच्छाविशेषा विषयाणामसंनिधौ विदुषि निर्विकारे प्रविशन्तोऽपि संनिधाने तस्मिन् प्रविशन्तो विका­र­मा­पा­द­येयुः, इत्याशङ्क्याह -
विषयेति ।

प्रवेशं विशदयति -
सर्वत इति ।

‘योऽकामः’(बृ. ४.४.६) इत्यादिश्रुतेः, विषयविमुखस्य निष्कामस्य मोक्षः, न काम­का­मु­क­स्ये­त्याह -
स शान्तिमिति
॥ ७० ॥

यदि गृहस्थेनापि मनसा समस्ताभिमानं हित्वा कूटस्थं ब्रह्म आत्मानं परिभावयता ब्रह्म­नि­र्वा­ण­मा­प्यते, प्राप्तं तर्हि मौढ्या­दि­वि­ड­म्ब­न­मेव, इत्याशङ्क्याह -
यस्मादिति ।
शब्दा­दि­वि­ष­य­प्र­व­णस्य तत­दि­च्छा­भे­द­मा­निनो न मुक्तिः, इति व्यतिरेकस्य सिद्धत्वात् , पूर्वोक्तमन्वयं निगमयितुमनन्तरं वाक्यमित्यर्थः ।

अशेषविषयत्यागे जीवनमपि कथम् ? इत्याशङ्क्याह -
जीवनेति ।

सम्भ­व­द्रा­ग­द्वे­षा­दिके देशे निवा­स­व्या­वृ­त्त्यर्थं चरतीत्येतद् व्याचष्टे-
पर्यटतीति ।

‘विहाय कामान्’(भ. गी. २-७१) इत्यनेन पुनरुक्तिं परिहरति-
शरीरेति ।

निःस्पृ­ह­त्व­मुक्त्वा निर्ममत्वं पुनर्वदन् , कथं पुन­रु­क्ति­मा­र्थिकीं न पश्यसि ? इत्याशङ्क्याह -
शरीरजीवनेति ।

सत्यहङ्कारे ममकारस्य आवश्यकत्वात् निरहङ्कारत्वं व्याकरोति -
विद्या­व­त्त्वा­दीति ।

‘स शान्तिमाप्नोति’ इत्यु­क्त­मु­प­सं­ह­रति -
स एवंभूत इति ।
संन्यासिनो मोक्ष­म­पे­क्ष­मा­णस्य सर्व­का­म­प­रि­त्या­गा­दीनि श्लोकोक्तानि विशेषणानि यत्नसाध्यानि, तत्संमतिफलं तु कैवल्यमित्यर्थः ॥ ७१ ॥

तत्र तत्र सङ्क्षे­प­वि­स्त­राभ्यां प्रदर्शितां ज्ञान­नि­ष्ठा­म­धि­का­रि­प्र­वृ­त्त्य­र्थ­त्वेन स्तोतु­मु­त्त­र­श्लो­क­म­व­ता­र­यति -
सैषेति ।

गृहस्थः संन्यासी इत्युभावपि चेन्मु­क्ति­भो­गिनौ, किं तर्हि कष्टेन सर्वथैव संन्यासेन इत्याशङ्क्य, संन्या­सि­व्य­ति­रि­क्ता­ना­म­न्त­रा­य­स­म्भ­वात् अपेक्षितः संन्यासो मुमुक्षोः, इत्याह -
एषेति ।

स्थितिमेव व्याचष्टे -
सर्वमिति ।
न विमुह्यतीति पुन­र्न­ञोऽ­नु­क­र्ष­ण­म­न्व­या­र्थम् । संन्यासिनो विमोहाभावेऽपि गृहस्थो धन­हा­न्या­दि­नि­मित्तं प्रायेण विमुह्यति । विक्षिप्तः सन् पर­मा­र्थ­वि­वे­क­र­हितो भवतीत्यर्थः । यथोक्ता ब्राह्मी स्थितिः - सर्व­क­र्म­सं­न्या­स­पू­र्विका ब्रह्मनिष्ठा, तस्यां स्थित्वा तामिमाम् , आयु­ष­श्च­तु­र्थेऽपि भागे कृत्वेत्यर्थः ।

अपिशब्दसूचितं कैमुतिकन्यायमाह -
किमु वक्तव्यमिति ।
तदेवं तत्त्व­म्प­दार्थौ, तदैक्यम् , वाक्यार्थः, तज्ज्ञा­ना­दे­का­किनो मुक्तिः, तदुपायश्च - इत्ये­ते­षा­मे­कै­कत्र श्लोके प्राधान्येन प्रदर्शितमिति निष्ठा­द्व­य­मु­पा­यो­पे­य­भू­त­म­ध्या­येन सिद्धम् ॥ ७२ ॥