आनन्दगिरिटीका (गीताभाष्य)
द्वितीयोऽध्यायः (२)
यतो न भूतानि आत्मानं गोचरयितुमर्हन्ति अतो युक्तमाकाशवत् तस्य अविक्रियत्वमिति शङ्कते -
आहेत्यादिना
॥ २३ ॥
पृथिव्यादिभूतप्रयुक्तच्छेदनाद्यर्थक्रियाभावे योग्यताभावं कारणमाह -
यत इति ।
पूर्वार्धमु्त्तरार्धे हेतुत्वेन योजयति -
यस्मादिति ।
नित्यत्वादीनामन्योन्यं हेतुहेतुमद्भावं सूचयति-
नित्यत्वादित्यादिना ।
न च नित्यत्वं परमाणुषु व्यभिचारादसाधकं सर्वगतत्वस्येति वाच्यम् । तेषामेव अप्रामाणिकत्वेन व्यभिचारानवतारात् । न च सर्वगतत्वेऽपि विक्रियाशक्तिमत्त्वमात्मनोऽस्तीति युक्तम् , विभुत्वेनाभिमते नभसि तदनुपलम्भात् । न च विक्रियाशक्तिमत्वे स्थैर्यमास्थातुं शक्यम् , तथाविधस्य मृदादेरस्थिरत्वदर्शनात् , इत्याशयेनाह -
स्थिरत्वादिति ।
स्वतो नित्यत्वेऽपि कारणान्नाशसम्भवादुत्पत्तिरपि सम्भावितेति कुतश्चिरन्तनत्वम् ? इत्याशङ्क्याह -
न कारणादिति ।
आत्मनोऽविक्रियत्वस्य ‘न जायते म्रियते वा’(भ. गी. २-२०) इत्यादिना साधितत्वात् , तस्यैव पुनःपुनरभिधाने पुनरुक्तिरित्याशङ्क्याह-
नैतेषामिति ।
अनाशङ्कनीयस्य चोद्यस्य प्रसङ्गं दर्शयति -
यत इति ।
अतो ‘वेदाविनाशिनम्’(भ. गी. २. २१) इत्यादौ शङ्क्यते, पौनरुक्त्यमिति शेषः ।
कथं तत्र पौनरुक्त्याशङ्का समुन्मिषति ? तत्राह -
तत्रेति ।
वेदाविनाशिनम् (भ. गी. २. २१) इत्यादिश्लोकः सप्तम्या परामृश्यते, श्लोकशब्देन ‘न जायते म्रियते वा’(भ. गी. २-२०) इत्यादिरुच्यते ।
ननु - इह श्लोके जन्ममरणाद्यभावोऽभिलक्ष्यते, ‘वेद’(भ. गी. २. २१) इत्यादौ पुनरपक्षयाद्यभावो विवक्ष्यते, तत्र कथमर्थातिरेकाभावमादाय पौनरुक्त्यं चोद्यते ? तत्राह -
किञ्चिदिति ।
कथं तर्हि पौनरुक्त्यं न चोदनीयमिति मन्यसे ? तत्राह -
दुर्बोधत्वादिति ।
पुनःपुनर्विधानमेदेन वस्तु निरूपयतो भगवतोऽभिप्रायमाह -
कथं न्विति
॥ २४ ॥
त्वम्पदार्थपरिशोधनस्य प्रकृतत्वात् तत्रैव हेत्वन्तरमाह -
किञ्चेति ।
आत्मनो नित्यत्वादिलक्षणस्य तथैव प्रथा किमिति न भवति ? तत्राह -
अव्यक्त इति ।
मा तर्हि प्रत्यक्षत्वं भूत् , अनुमेयत्वं तु तस्य किं न स्यात् ? इत्याशङ्क्याह -
अत एवेति ।
तदेव प्रपञ्चयति -
यद्धीति ।
अतीन्द्रियत्वेऽपि सामान्यतो दृष्टविषयत्वं भविष्यतीत्याशङ्क्य कूटस्थेन आत्मना व्याप्तलिङ्गाभावात् , मैवमित्याह -
अविकार्य इति ।
अविकार्यत्वे व्यतिरेकदृष्टान्तमाह -
यथेति ।
किञ्च आत्मा न विक्रियते, निरवयवद्रव्यत्वात् , घटादिवत् - इति व्यतिरेक्यनुमानमाह -
निरवयवत्वाच्चेति ।
निरवयवत्वेऽपि विक्रियावत्त्वे का क्षतिः ? इत्याशङ्क्याह -
नहीति ।
सावयवस्यैव विक्रियावत्त्वदर्शनात् विक्रियावत्त्वे निरवयवत्वानुपपत्तिरित्यर्थः ।
यद्धि सावयवं सक्रियं क्षीरादि, तत् दध्यादिना विकारमापद्यते । न च आत्मनः श्रुतिप्रमितनिरवयवत्वस्य सावयवत्वम् । अतोऽविक्रियत्वान्नायं विकार्यो भवितुमलमिति फलितमाह -
अविक्रियत्वादिति ।
आत्मयाथात्म्योपदेशम् ‘अशोच्यानन्वशोचस्त्वम्’(भ. गी. २-११) इत्युपक्रम्य व्याख्यातमुपसंहरति -
तस्मादिति ।
अव्यक्तत्वाचिन्त्यत्वाविकार्यत्वनित्यत्वसर्वगतत्वादिरूपो यस्मात् आत्मा निर्धारितः, तस्मात् तथैव ज्ञातुमुचितः, तज्ज्ञानस्य फलवत्त्वादित्यर्थः ।
प्रतिषेध्यमनुशोकमेवाभिनयति -
हन्ताहमिति ॥ २५ ॥
आत्मनो नित्यत्वस्य प्रागेव सिद्धत्वात् उत्तरश्लोकानुपपत्तिरित्याशङ्क्यह -
आत्मन इति ।
‘अनित्यत्वं’ इति च्छेदः । शाक्यानां लोकायतानां वा मतम् इदमा परामृश्यते ।
श्रोतुरर्जुनस्य पूर्वोक्तमात्मयाथात्म्यं श्रुत्वापि तस्मिन् निर्धारणासिद्धेर्द्वयोर्मतयोरन्यतरमताभ्युपगमः शङ्कितः, तदर्थो निपातद्वयप्रयोग इत्याह -
अथ चेति ।
प्रकृतस्य आत्मनो नित्यत्वादिलक्षणस्य पुनःपुनर्जातत्वाभिमानो मानाभावादसम्भवी इत्याशङ्क्याह -
लोकेति ।
नित्यजातत्वाभिनिवेशे पौनःपुन्येन मृतत्वाभिनेवेशो व्याहतः स्यादित्यशङ्क्याह -
तथेति ।
परकीयमतमनुभाषितमभ्युपेत्य, ‘अहो बत महत् पापं कर्तुं व्यवसिता वयम्’(भ. गी. १. ४५) इत्यादेस्तदीयशोकस्य निरवकाशत्वमित्याह -
तथापीति ।
एवमर्जुनस्य दृश्यमानमनुशोकप्रकारं दर्शयित्वा तस्य कर्तुमयोग्यत्वे हेतुमाह -
जन्मवत इति ।
‘जन्मवतो नाशो नाशवतश्च जन्म’ इत्येतौ अवश्यंभाविनौ - मिथो व्याप्ताविति योजना ॥ २६ ॥
तयोरवश्यम्भावित्वे सति अनुशोकस्य अकर्तव्यत्वे हेत्वन्तरमाह -
तथा चेति
॥ २७ ॥
आत्मानमुद्दिश्यानुशोकस्य कर्तुमयोग्यत्वेऽपि भूतसङ्घातात्मकानि भूतान्युद्दिश्य तस्य कर्तव्यत्वमाशङ्क्य, आह -
कार्येति ।
समनन्तरश्लोकः तत्र हेतुरित्याह -
यत इति ।
चाक्षुषदर्शनमात्रवृत्तिं व्यावर्तयति -
अनुपलब्धिरिति ।
नहि यथोक्तसङ्घातरूपाणि भूतानि पूर्वमुत्पत्तेः उपलभ्यन्ते । तेन तानि तथा व्यपदेशभाञ्जि भवन्ति इत्यर्थः ।
किं तत् मध्यम् , यदेषां व्यक्तमिष्यते ? तदाह -
उत्पन्नानीति ।
उत्पत्तेरूर्ध्वं मरणाच्च पूर्वं व्यावहारिकं सत्त्वं मध्यमेषां व्यक्तमिति तथोच्यते ।
जन्मानुसारित्वं विलयस्य युक्तम् इति मत्वा तात्पर्यार्थमाह -
मरणादिति ।
उक्तेऽर्थे पौराणिकसंमतिमाह -
तथा चेति ।
तत्रेत्यस्यार्थमाह -
अदृष्टेति ।
पूर्वम् अदृष्टानि सन्ति, पुनर्दृष्टानि, तान्येव पुनर्नष्टानि, तदेवं भ्रान्तिविषयतया घटिकायन्त्रवत् चक्रीभूतेषु भूतेषु शोकनिमितस्य प्रलापस्य नावकाशोऽस्तीत्यर्थः ॥ २८ ॥
अर्जुनं प्रति उपालम्भं दर्शयित्वा प्रकृतस्य आत्मनो दुर्विज्ञेयत्वात् तं प्रति उपालम्भो न सम्भवतीति सन्वानः सन् आह -
दुर्विज्ञेय इति ।
तथा च आत्माज्ञाननिमित्तविप्रलम्भस्य साधारणत्वात् असाधारणोपालम्भस्य निरवकाशता, इत्याह -
किं त्वामेवेति ।
अहंप्रत्ययवेद्यत्वादात्मनो दुर्विज्ञेयत्वम् असिद्धमिति शङ्कते -
कथमिति ।
विशिष्टस्य आत्मनः अहंप्रत्ययदृष्टत्वेऽपि केवलस्य तदभावात् अस्ति दुर्विज्ञेयता इति श्लोकमवतारयति -
आहेति ।
‘आश्चर्यवत्’(भ. गी. २-२९) इति आद्येन पादेन आत्मविषयदर्शनस्य दुर्लभत्वं दर्शयता द्रष्टुर्दौर्लभ्यमुच्यते । द्वितीयेन च तद्विषयवदनस्य दुर्लभत्वोक्तेः तदुपदेष्टुस्तथात्वं कथ्यते । तृतीयेन तदीयश्रवणस्य दुर्लभत्वद्वारा श्रोतुर्विरलता विवक्षिता । श्रवणदर्शनोक्तीनां भावेऽपि तद्विषयसाक्षात्कारस्य अत्यन्तायासलभ्यत्वं चतुर्थेनाभिप्रेतम् इति विभागः । आत्मगोचरदर्शनादिदुर्लभत्वद्वारा दुर्बोधत्वम् आत्मनः साधयति -
आश्चर्यवदिति ।
संप्रत्यात्मनि द्रष्टुर्वक्तुः श्रोतुः साक्षात्कर्तुश्च दुर्लभत्वाभिधानेन तदीयं दुर्बोधत्वं कथयति -
अथवेति ।
व्याख्यानद्वयेऽपि फलितमाह -
अत इति
॥ २९ ॥
श्लोकान्तरमुत्थापयति -
अथेति ।
आत्मनो दुर्ज्ञानत्वप्रदर्शनानन्तरमिति यावत् । वस्तुवृत्तापेक्षया शोकमोहयोरकर्तव्यत्वं प्रकरणार्थः ।
हेतुभागं विभजते -
सर्वस्येति ।
देहे वध्यमानेऽपि देहिनो वध्यत्वाभावे फलितमाह -
यस्मात् इति ।
फलितप्रदर्शनपरं श्लोकार्धं व्याचष्टे-
तस्माद्भीष्मादीनीति
॥ ३० ॥
श्लोकान्तरमवतारयन् वृत्तं कीर्तयति -
इहेति ।
पूर्वश्लोकः सप्तम्यर्थः । यत् पारमार्थिकं तत्त्वं तदपेक्षायामेव केवलं शोकमोहयोरसम्भवो न भवति, किन्तु ‘स्वधर्ममपि चावेक्ष्य’(भ. गी. २-३१) इति सम्बन्धः स्वकीयं क्षात्रधर्ममनुसन्धाय ततश्चलनं परिहर्तव्यमित्यर्थः ।
यद्धि क्षत्रियस्य धर्मादनपेतं श्रेयःसाधनं तदेव मया अनुवर्तितव्यमित्याशङ्क्याह -
धर्म्यादिति ।
जातिप्रयुक्तं स्वाभाविकं स्वधर्ममेव विशिनष्टि -
क्षत्रियस्येति ।
पुनर्नकारोपादानमन्वयार्थम् ।
प्रचलितुमयोग्यत्वे प्रतियोगिनं दर्शयति -
स्वाभाविकादिति ।
स्वाभाविकत्वमशास्रीयत्वमिति शङ्कां वारयितुं तात्पर्यमाह-
आत्मेति ।
आत्मनः - स्वस्यार्जुनस्य स्वाभाव्यं क्षत्रियस्वभावप्रयुक्तं वर्णाश्रमोचितं कर्म, तस्मादित्यर्थः ।
धर्मार्थं प्रजापरिपालनार्थं च प्रयतमानस्य युद्धादुपरिरंसा श्रद्धातव्येत्याशङ्क्याह-
तच्चेति ।
ततोऽपि श्रेयस्करं किञ्चिदनुष्ठातुं युद्धादुपरतिरुचितेत्याशङ्क्याह -
तस्मादिति ।
तस्मात् युद्धात् प्रचलनमनुचितमिति शेषः ॥ ३१ ॥
युद्धस्य गुर्वाद्यनेकप्राणिहिंसात्मकस्य अहिंसाशास्त्रविरोधात् नास्ति कर्तव्यतेति शङ्कते -
कुतश्चेति ।
अग्नीषोमीयहिंसादिवत् युद्धमपि क्षत्रियस्य विहितत्वादनुष्ठेयम् , सामान्यशास्त्रतो विशेषशास्त्रस्य बलीयस्त्वात् इत्याह-
उच्यत इति ।
तथापि युद्धे प्रवृत्तानामैहिकामुष्मिकस्थायिसुखाभावादुपरतिरेव ततो युक्ता प्रतिभातीत्याशङ्क्याह -
यदृच्छयेति ।
चिरेण चिरतरेण कालेन च यागाद्यनुष्ठायिनः स्वर्गादिभाजो भवन्ति । युध्यमानास्तु क्षत्रिया बहिर्मुखताविहीनाः सहसैव स्वर्गादिसुखभोक्तारः । तेन तव कर्तव्यमेव युद्धमिति व्याख्यानेन स्फुटयति -
यदृच्छयेत्यादिना ।
इहामुत्र च भाविसुखवतामेव क्षत्रियाणां स्वधर्मभूतयुद्धसिद्धेस्तादर्थ्येनोत्थानं शोकमोहौहित्वा कर्तव्यमित्यर्थः ॥ ३२ ॥
स्वधर्मस्य युद्धस्य श्रद्धया करणे स्वर्गादिमहाफलप्राप्तिं प्रदर्श्य, तदकरणे प्रत्यवायप्राप्तिं प्रदर्शयन् उत्तरश्लोकगताथशब्दार्थं कथयति -
एवमिति ।
विहितत्वं फलवत्त्वमित्यनेन प्रकारेणेत्यर्थः । अन्वयार्थः पुनः चेदित्यनूद्यते । महादेवादीत्यादिशब्देन महेन्द्रादयो गृह्यन्ते ॥ ३३ ॥
युद्धाकरणे क्षत्रियस्य प्रत्यवायमामुष्मिकमापाद्य, शिष्टगर्हालक्षणं दीर्घकालभाविनमैहिकमपि प्रत्यवायं प्रतिलम्भयति -
न केवलमिति ।
युद्धे स्वमरणसन्देहात् तत्परिहारार्थमकीर्तिरपि सोढव्या, आत्मसंरक्षणस्य श्रेयस्करत्वात् इत्याशङ्क्याह -
धर्मात्मेति ।
मान्यानामकीर्तिर्भवति मरणादपि दुःसहेति तात्पर्यार्थमाह -
सम्भावितस्येति
॥ ३४ ॥
इतश्च त्वया युद्धं कर्तव्यमित्याह -
किञ्चेति ।
प्राणिषु कृपया नाहं युद्धं करिष्यामीत्याशङ्क्याह -
भयादिति ।
महारथानेव विशिनष्टि -
येषां चेति ।
दुर्योधनादिभिस्तव उपहास्यतानिरसनाय सङ्ग्रामे प्रवृत्तिरवश्यम्भाविनीत्यर्थः ॥ ३५ ॥
इतश्च मा त्वं युद्धादुपरमं कार्षीरित्याह -
किञ्चेति ।
ननु - भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुःखमसहमानो युद्धान्निवृत्तः स्वसामर्थ्यनिन्दनादि शत्रुकृतं सोढुं शक्ष्यामीत्याशङ्क्याह-
तत इति
॥ ३६ ॥
तर्हि युद्धे गुर्वादिवधवशात् मध्यस्थनिन्दा, ततो निवृत्तौ शत्रुनिन्दा इत्युभयतः पाशा रज्जुरित्याशङ्क्याह -
युद्धे पुनरिति ।
जये पराजये च लाभध्रौव्यात् युद्धार्थमुत्थानमावश्यकमित्याह-
तस्मादिति ।
नहि परिशुद्धकुलस्य क्षत्रियस्य युद्धायोद्युक्तस्य तस्मादुपरमः साधीयानित्याह -
कौन्तेयेति ।
जये पराजये चेत्येतदुभयथेत्युच्यते ।
जयादिनियमाभावोऽपि लाभनियमे फलितमाह -
यत इति ।
कृतनिश्चयत्वमेव विशदयति -
जेष्यामीति
॥ ३७ ॥
पापभीरुतया युद्धाय निश्चयं कृत्वा नोत्थातुं शक्नोमीत्याशङ्क्याह -
तत्रेति ।
युद्धस्य स्वधर्मतया कर्तव्यत्वे सतीति यावत् ।
सुहृञ्जीवनमरणादिनिमित्तयोः सुखदुःखयोः समताकरणं कथम् ? इति, तत्राह -
रागद्वेषाविति ।
लाभः - शत्रुकोषादिप्राप्तिः, अलाभः - तद्विपर्ययः । न्याय्येन युद्धेनापरिभूतेन परस्य परिभवो जयः, तद्विपर्ययस्त्वजयः, तयोर्लाभालाभयोर्जयाजययोश्च समताकरणं समानमेव, रागद्वेषावकृत्वेत्येतद्दर्शयितुं तथेत्युक्तम् ।
यथोक्तोपदेशवशात् परमार्थदर्शनप्रकरणे युद्धकर्तव्यतोक्तेः समुच्चयपरत्वं शास्त्रस्य प्राप्तमित्याशङ्क्याह -
एष इति ।
क्षत्रियस्य तव धर्मभूतयुद्धकर्तव्यतानुवादप्रसङ्गागतत्वात् अस्योपदेशस्य नानेन मिषेण समुच्चयः सिध्यतीत्यर्थः ॥ ३८ ॥
ननु - ‘स्वधर्ममपि चावेक्ष्य’(भ. गी. २-३१) इत्यादिश्लोकैर्न्यायावष्टम्भेन शोकमोहापनयनस्य तात्पर्येणोक्तत्वात् तस्मिन्नुपसंहर्तव्ये किमिति परमार्थदर्शनमुपसंह्नियते ? तत्राह -
शोकेति ।
‘स्वधर्ममपि’(भ. गी. २-३१) इत्यादिभिरतीतैः श्लोकैः शोकमोहयोः स्वजनमरणगुर्वादिवधशङ्कानिमित्तयोः सम्यग्ज्ञानप्रतिबन्धकयोरपनयार्थं वर्णाश्रमकृतं धर्ममनुतिष्ठतः स्वर्गादि सिध्यति, नान्यथा, इत्यन्वयव्यतिरेकात्मको लोकप्रसिद्धो न्यायो यद्यपि दर्शितः, तथापि नासौ तात्पर्येणोक्त इत्यर्थः ।
किं तर्हि तात्पर्येणोक्तम् ? तदाह -
परमार्थेति ।
‘न त्वेवाहं जातु नासं’(भ. गी. २-१२) इत्यादि सप्तम्या परामृश्यते । उक्तम् - ‘न जायते म्रियते वा कदाचित्’(भ. गी. २. २०) इत्यादिनोपपादितमित्यर्थः ।
उपसंहारप्रयोजनमाह -
शास्त्रेति ।
तस्य वस्तुद्वारा विषयो निष्ठाद्वयम् । तस्य विभक्तस्य तेनैव विभागेन प्रदर्शनार्थं परमार्थदर्शनोपसंहार इत्यर्थः ।
ननु - किमित्यत्र शास्त्रस्य विषयविभागः प्रदर्श्यते ? उत्तरत्रैव तद्विभागप्रवृत्तिप्रतिपत्त्योः सम्भवात् इति, तत्राह -
इह हीति ।
शास्त्रप्रवृत्तेः श्रोतृपतिपत्तेश्च सौकर्यार्थमादौ विषयविभागसूचनमित्यर्थः ।
उपसंहारस्य फलवत्त्वमेवमुक्त्वा तमेवोपसंहारमवतारयति -
अत आहेति ।
परमार्थतत्त्वविषयां ज्ञाननिष्ठामुक्तामुपसंहृत्य वक्ष्यमाणां सङ्गृह्णाति -
योगे त्विति ।
तामेव बुद्धिं विशिष्टफलवत्त्वेनाभिष्टौति -
बुद्ध्येति ।
तत्रोपसंहारभागं विभजते-
एषेत्यादिना ।
बु्द्धिशब्दस्यान्तःकरणविषयत्वं व्यावर्तयति -
ज्ञानमिति ।
तस्य सहकारिनिरपेक्षस्य विशिष्टं फलवत्त्वमाचष्टे -
साक्षादिति ।
शोकमोहौ रागद्वेषौ कर्तृत्वं भोक्तृत्वमित्यादिरनर्थः संसारः, तस्य हेतुर्दोषः स्वाज्ञानम् , तस्य निवृत्तौ निरपेक्षं कारणं ज्ञानम् । अज्ञाननिवृत्तौ ज्ञानस्यान्वयव्यतिरेकसमधिगतसाधनत्वादित्यर्थः ।
‘योगे त्विमां’(भ. गी. २-३९) इत्यादि व्याकुर्वन् योगशब्दस्य प्रकृते चित्तवृत्तिनिरोधविषयत्वं व्यवच्छिनत्ति -
तत्प्राप्तीति ।
प्रकृतं मुक्त्युपयुक्तं ज्ञानं तत्पदेन परामृश्यते ।
ज्ञानोदयोपायमेव प्रकटयति -
निःसङ्गतयेति ।
फलाभिसन्धिवैधुर्यं निःसङ्गत्वम् ।
बुद्धिस्तुतिप्रयोजनमाह -
प्ररोचनार्थमिति ।
अभिष्टुता हि बुद्धिः श्रद्धातव्या सत्यनुष्ठातारमधिकरोति । तेन स्तुतिरर्थवतीत्यर्थः ।
कर्मानुष्ठानविषयबुद्ध्या कर्मबन्धस्य कुतो निवृत्तिः ? नहि तत्त्वज्ञानमन्तरेण समूलं कर्म हातुं शक्यमित्याशङ्क्यह -
ईश्वरेति
॥ ३९ ॥
ननु - कर्मानुष्ठानस्य अनैकांन्तिकफलत्वेन अकिञ्चित्करत्वात् अनेकानर्थकलुषितत्वेन दोषवत्त्वाच्च योगबुद्धिरपि न श्रद्धेयेति, तत्राह -
किञ्चेति ।
अन्यच्च किञ्चिदुच्यते कर्मानुष्ठानस्यावश्यकत्वे कारणमिति यावत् ।
कर्मणा सह समाधेरनुष्ठातुमशक्यत्वात् , अनेकान्तरायसम्भवात् , तत्फलस्य च साक्षात्कारस्य दीर्घकालाभ्याससाध्यस्यैकस्मिन् जन्मन्यसम्भावत् अर्थात् योगी भ्रश्येत, अनर्थे च निपतेत् , इत्याशङ्क्याह -
नेहेति ।
प्रतीकत्वेनोपात्तस्य नकारस्य पुनरन्वयानुगुणत्वेन नास्तीत्यनुवादः ।
यत्तु - कर्मानुष्ठानस्य अनैकान्तिकफलत्वेन अकिञ्चित्करत्वमुक्तं तद्दूषयति -
यथेति ।
कृषिवाणिज्यादेरारम्भस्य अनियतं फलम् , सम्भावनामात्रोपनीतत्वात् , न तथा कर्मणि वैदिके प्रारम्भस्य फलमनियतं युज्यते, शास्त्रविरोधादित्यर्थः ।
यत्तूक्तम् - अनेकानर्थकलुषितत्वेन दोषवदनुष्ठानमिति, तत्राह -
किञ्चेति ।
इतोऽपि कर्मानुष्ठानमावश्यकमिति प्रतिज्ञाय हेत्वन्तरमपि स्फुटयति -
नापीति ।
चिकित्सायां हि क्रियमाणायां व्याध्यतिरेको वा मरणं वा प्रत्यवायोऽपि सम्भाव्यते, कर्मपरिपाकस्य दुर्विवेकत्वात् । न तथा कर्मानुष्ठाने दोषोऽस्ति, विहितत्वादित्यर्थः ।
सम्प्रति कर्मानुष्ठानस्य फलं पृच्छति -
किं न्विति ।
उत्तरार्धं व्याकुर्वन् विवक्षितं फलं कथयति -
स्वल्पमपीति ।
सम्यग्ज्ञानोत्पादनद्वारेण रक्षणं विवक्षितम् - ‘सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । यतिस्तपस्वी भवति पङ्क्तिपावनपावनः ॥ ‘ इति स्मृतेरित्यर्थः ॥ ४० ॥
ननु - बुद्धिद्वयातिरिक्तानि बुद्ध्यन्तराण्यपि काणादादिशास्त्रप्रसिद्धानि विद्यन्ते । तथा च कथं बुद्धिद्वयमेव भगवतोपदिष्टमिति, तत्राह -
येयमिति ।
सैवैका प्रमाणभूता बुद्धिरित्याह -
व्यवसायात्मिकेति ।
बुद्ध्यन्तराणि अविवेकमूलानि, अप्रमाणानि, इत्याह -
बहुशाखा हीति ।
व्यवसायात्मिकाया बुद्धेः श्रेयोमार्गे प्रवृत्ताया विवक्षित फलमाह -
इतरेति ।
प्रकृतबुद्धिद्वयापेक्षया इतराः विपरीताश्च अप्रमाणजनिताः स्वकपोलकल्पिता या बुद्धयः, तासां शाखाभेदो यः संसारहेतुः, तस्य बाधिकेति यावत् ।
तत्र हेतुः -
सम्यगिति ।
निर्दोषवेदवाक्यसमुत्थत्वात् उक्तमुपायोपेयभूतं बुद्धिद्वयं साक्षात् पारम्पर्याभ्यां संसारहेतुबाधकमित्यर्थः ।
उत्तरार्धं व्याचष्टे -
याः पुनरिति ।
प्रकृतबुद्धिद्वयापेक्षया अर्थान्तरत्वम् - इतरत्वम् ।
तासामनर्थहेतुत्वं दर्शयति -
यासामिति ।
अप्रामाणिकबुद्धीनां प्रसक्तानुप्रसक्त्या जायमानानामतीव बुद्धिपरिणामविशेषाः शाखाभेदाः, तेषां प्रचारः - प्रवृत्तिः, तद्वशादित्येतत् । अनन्तत्वं सम्यग्ज्ञानमन्तरेण निवृत्तिविरहितत्वम् । अपारत्वं - कार्यस्यैव सतो वस्तुभूतकारणविरहितत्वम् ।
अनुपरतत्वं स्फोरयति -
नित्येति ।
कथं तर्हि तन्निवृत्त्या पुरुषार्थपरिसमाप्तिः ? तत्राह -
प्रमाणेति ।
अन्वयव्यतिरेकाख्येन अनुमानेन आगमेन च पदार्थपरिशोधनपरिनिष्पन्ना विवेकात्मिका या बुद्धिः, तां निमीत्तीकृत्य समुत्पन्नसम्यग्बोधानुरोधात् प्रकृता विपरीतबुद्धयो व्यावर्तन्ते । तास्वसङ्ख्यातासु व्यावृत्तासु सतीषु निरालम्बनतया संसारोऽपि स्थातुमशक्नुवन् उपरतो भवतीत्यर्थः ।
याः पुनः इत्युपक्रान्तास्तत्त्वज्ञानापनोद्याः संसारास्पदीभूताः विपरीतबुद्धीरनुक्रामति -
ता बुद्धय इति ।
बुद्धीनां वृक्षस्येव कुतो बहुशाखित्वम् ? तत्राह -
बहुभेदा इत्येतदिति ।
एकैकां बुद्धिम्प्रति शाखाभेदोऽवान्तरविशेषः, तेन बुद्धीनामसङ्ख्यात्वं प्रख्यातमित्याह -
प्रतिशाखेति ।
बुद्धीनामानन्त्यप्रसिद्धिप्रद्योतनार्थो हिशब्दः ।
सम्यग्ज्ञानवतां यथोक्तबुद्धिभेदभाक्त्वमप्रसिद्धमित्याशङ्क्य प्रत्याह -
केषामित्यादिना
॥ ४१ ॥
यदि साङ्ख्ययोगरूपा एकैव प्रमाणभूता बुद्धिः, तर्हि सैव सर्वेषां चित्ते किमिति स्थिरा न भवति ? तत्राह -
येषामिति ।
ते यामिमां पुष्पितां वाचं प्रवदन्ति तया अपहृतचेतसां कामिनां कामवशात् निश्चयात्मिका बुद्धिर्न प्रायः स्थिरा भवतीत्याह -
ते । यामिति ।
‘इमाम्’ इत्यव्ययनविध्युपात्तत्वेन प्रसिद्धत्वं कर्मकाण्डरूपाया वाचो विवक्ष्यते । वक्ष्यमाणत्वं ‘क्रियाविशेषबहुलाम्’(भ. गी. २-४३) इत्यादौ द्रष्टव्यम् । किंशुको हि पुष्पशाली शोभमानोऽनुभूयते, न पुरुषभोग्यफलभागी लक्ष्यते ।
तथा, इयमपि कर्मकाण्डात्मिका श्रूयमाणदशायां रमणीया वागुपलभ्यते, साध्यसाधनसम्बन्धप्रतिभानात् । न त्वेषा निरतिशयफलभागिनी भवति, कर्मानुष्ठानफलस्य अनित्यत्वात् , इति मत्वाह -
पुष्पितामिति ।
वाक्यत्वेन लक्ष्यतेऽर्थवत्त्वप्रतिभानात् । वस्तुतस्तु न वाक्यम् , अर्थाभासत्वात् , इत्याह -
वाक्यलक्षणामिति ।
प्रवक्तॄणां वेदवाक्यतात्पर्यपरिज्ञानाभावं सूचयति -
अविपश्चित इति ।
वेदवादाः - वेदवाक्यानि, तानि च बहूनामर्थवादानां फलानां साधनानां च विधिशेषाणां प्रकाशकानि, तेषु रतिः - आसक्तिः, तन्निष्ठत्वं - तद्वत्त्वमपि तेषां विशेषणमित्याह -
वेदवादेति ।
कर्मकाण्डनिष्ठत्वफलं कथयति -
नान्यदिति ।
ईश्वरो वा मोक्षो वा नास्तीत्येवं वदन्तो नास्तिकाः सन्तः सम्यग्ज्ञानवन्तो न भवन्तीत्यर्थः ॥ ४२ ॥
प्रकृतान् प्रवक्तॄनविवेकिनो व्यवसायात्मकबुद्धिभाक्त्वासम्भवसिद्ध्यर्थं विधान्तरेण विशिनष्टि -
ते चेति ।
तेषां संसारपरिवर्तनपरिदर्शनार्थं प्रस्तुतां वाचमेव विशिनष्टि -
जन्मेति ।
ननु - पुंसां कामस्वभावत्वमयुक्तम् , चेतनस्येच्छावतस्तदात्मत्वानुपपत्तेः, इति तत्राह -
कामपरा इति ।
तत्परत्वं - तत्तत्फलार्थित्वेन तत्तदुपायेषु कर्मस्वेव प्रवृत्ततया कर्मसंन्यासपूर्वकात् ज्ञानाद्बहिर्मुखत्वम् ।
ननु - कर्मनिष्ठानामपि परमपुरुषार्थापेक्षया मोक्षोपाये ज्ञाने भवत्याभिमुख्यमिति, नेत्याह -
स्वर्गेति ।
तत्परत्वं - तस्मिन्नेवासक्ततया तदतिरिक्तपुरुषार्थराहित्यनिश्चयवत्त्वम् । उच्चावचमध्यमदेहप्रभेदग्रहणं जन्म । वाचो यथोक्तफलप्रदत्वं अप्रामाणिकम् इत्याशङ्क्य, अऩुष्ठानद्वारा तदुपपत्तिरित्याह -
क्रियेति ।
क्रियाणां - अनुष्ठानानां विशेषाः - देशकालाधिकारिप्रयुक्तः सप्ताहानेकाहलक्षणाः, ते खल्वस्यां वाचि प्राचुर्येण प्रतिभान्तीत्यर्थः ।
कथं यथोक्तायां वाचि क्रियाविशेषाणां बाहुल्येन अवस्थानम् ? इत्याशङ्क्य, प्रकाश्यत्वेनेत्येतद्विशदयति -
स्वर्गेति ।
तथापि तेषां मोक्षोपायत्वोपपत्तेः, तन्निष्ठानां मोक्षाभिमुख्यं भविष्यति, नेत्याह -
भोगेति ।
यथोक्तां वाचमभिवदतां पर्यवसानं दर्शयति -
तद्बहुलामिति
॥ ४३ ॥
ननु - कर्मकाण्डनिष्ठानां कर्मानुष्ठायिनामपि बुद्धिशुद्धिद्वारेण अऩ्तःकरणे साध्यसाधनभूतबुद्धिद्वयसमुदयसम्भवात् , अतो मोक्षो भविष्यति, नेत्याह -
तेषां चेति ।
तदात्मभूतानां - तयोरेव भोगैश्वर्ययोरात्मकर्तव्यत्वेन आरोपितयोः, अभिनिविष्टे चेतसि तादात्म्याध्यासवतां बहिर्मुखानामित्यर्थः ।
तथापि शास्त्रानुसारिण्या विवेकप्रज्ञया व्यवसायात्मिका बुद्धिस्तेषामुदेष्यति, इत्याशङ्क्याह-
तयेति ।
ननु - समाधिः सम्प्रज्ञातासम्प्रज्ञातभेदेन द्विधोच्यते, तत्र बुद्धिद्वयविधिरप्रसक्तः सन् कथं निषिध्यते ? तत्राह -
समाधीयत इति
॥ ४४ ॥
अविवेकिनामपि वेदाभ्यासवतां विवेकबुद्धिरुदेष्यति, इत्याशङ्क्याह -
य एवमिति ।
तर्हि वेदार्थतया कामात्मता प्रशस्तेत्याशङ्क्याह -
निस्त्रैगुण्य इति ।
भवेति पदं निर्द्वन्द्वादिविशेषणेष्वपि प्रत्येकं सम्बध्यते ।
त्रयाणां - सत्त्वादीनां, गुणानां - पुण्यपापव्यामिश्रकर्मतत्फलसम्बन्धलक्षणः समाहारः - त्रैगुण्यम् , इत्यङ्गीकृत्य व्याचष्टे -
संसार इति ।
वेदशब्देनात्र कर्मकाण्डमेव गृह्यते । तदभ्यासवतां तदर्थानुष्ठानद्वारा संसाराध्रौव्यान्न विवेकावसरोऽस्तीत्यर्थः ।
तर्हि संसारपरिवर्जनार्थं विवेकसिद्धये किं कर्तव्यम् ? इत्याशङ्क्याह -
त्वं त्विति ।
कथं निस्त्रैगुण्यो भवेति गुणत्रयराहित्यं विधीयते ? नित्यसत्त्वस्थो भवेति वाक्यशेषविरोधात् , इत्याशङ्क्याह -
निष्काम इति ।
सप्रतिपक्षत्वं - परस्परविरोधित्वम् । पदार्थौ - शीतोष्णादिलक्षणौ । निष्कामत्वे द्वन्द्वान्निर्गतत्वं - शीतोष्णादिसहिष्णुत्वं हेतुमुक्त्वा, तत्रापि हेत्वपेक्षायां सदा सत्त्वगुणाश्रितत्वं हेतुमाह -
नित्येति ।
योगक्षेमव्यापृतचेतसो रजस्तमोभ्यामसंस्पृष्टे सत्त्वमात्रे समाश्रितत्वमशक्यम् इत्याशङ्क्याह -
तथेति ।
योगक्षेमयोर्जीवनहेतुतया पुरुषार्थसाधनत्वात् निर्योगक्षेमो भवेति कुतो विधिः ? इत्याशङ्क्याह -
योगेति ।
योगक्षेमप्रधानत्वं सर्वस्य स्वारसिकमिति ततो निर्गमनमशक्यम् इत्याशङ्क्याह -
आत्मवानिति ।
अप्रमादः - मनसो विषयपारवश्यशून्यत्वम् । अथ यथोक्तोपदेशस्य मुमुक्षुविषयत्वात् अर्जुनस्य मुमुक्षुत्वमिह विवक्षितमिति, नेत्याह -
एष इति
॥ ४५ ॥
ईश्वरार्पणधिया स्वधर्मानुष्ठानेऽपि फलकामनाभावाद्वैफल्यं योगमार्गस्येति मन्वानः शङ्कते -
सर्वेष्विति ।
कर्ममार्गस्य फलवत्त्वं प्रतिजानीते-
उच्यत इति ।
किं तत्फलम् ? इत्युक्ते तद्विषयं श्लोकमवतारयति -
श्रृण्विति ।
यथा उदपाने - कूपादौ परिच्छिन्नोदके स्नानाचमनादिर्योऽर्थो यावान् उत्पद्यते स तावान् अपरिच्छिन्ने सर्वतःसम्प्लुतोदके समुद्रेऽन्तर्भवति, परिच्छिन्नोदकानाम् अपरिच्छिन्नोदकांशत्वात् । तथा, सर्वेषु वेदोक्तेषु कर्मसु यावान् अर्थो विषयविशेषोपरक्तः सुखविशेषो जायते, स तावान् आत्मविदः स्वरूपभूते सुखेऽन्तर्भवति, परिच्छिन्नानन्दानाम् अपरिच्छिन्नानन्दान्तर्भावाभ्युपगमात् , ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’(बृ. उ. ४-३-३२) इति श्रुतेः ।
तथा च अपरिच्छिन्नात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य नास्ति वैफल्यमित्याह -
यावानिति ।
उक्तमर्थमक्षरयोजनया प्रकटयति -
यथेति ।
उदकं पीयतेऽस्मिन्निति व्युत्पत्या कूपादिपरिच्छिन्नोदकविषयत्वमुदपानशब्दस्य दर्शयति -
कूपेति ।
कूपादिगतस्याभिधेयस्य समुद्रेऽन्तर्भावासम्भवात् कथमिदम् ? इत्याशङ्क्य, अर्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति -
फलमिति ।
यत् फल्गुत्वेन लीयते तत् फलमित्युच्यते, तत् कथं तडागादिकृतं स्नानपानादि तथा ? इत्याशङ्क्य, तस्य अल्पीयसो नाशोपपत्तेः, इत्याह -
प्रयोजनमिति ।
तडागादिप्रयुक्तप्रयोजनस्य समुद्रनिमित्तप्रयोजनमात्रत्वम् अयुक्तम् , अन्यस्य अन्यात्मत्वानुपपत्तेः, इत्याशङ्क्याह -
तत्रेति ।
घटाकाशादेरिव महाकाशे परिच्छिन्नोदककार्यस्य अपरिच्छिन्नोदककार्यान्तर्भावः सम्भवति, तत्प्राप्तावितरापेक्षाभावादित्यर्थः ।
पूर्वार्धं दृष्टान्तभूतमेवं व्याख्याय, दार्ष्टान्तिकमुत्तरार्धं व्याकरोति -
एवमित्यादिना ।
‘कर्मसु योऽर्थः’ इत्युक्तं व्यनक्ति -
यत् कर्मफलमिति ।
सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थः, तावानेव सम्पद्यत इति सम्बन्धः ।
तदेव स्पष्टयति - प
विज्ञानेति ।
तस्मिनन्नन्तर्भवतीति शेषः ।
सर्वं कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र प्रमाणमाह -
सर्वमिति ।
यत् किमपि प्रजाः साधु कर्म कुर्वन्ति, तत् सर्वं स पुरुषोऽभिसमेति - प्राप्नोति, यः पुरुषः, तद्वेद - विजानाति, यद्वस्तु सः - रैक्को वेद तद्वेद्यमिति श्रुतेरर्थः ।
कर्मफलस्य सगुणज्ञानफलेऽन्तर्भावः संवर्गविद्यायां श्रूयते, कथमेतावता निर्गुणज्ञानफले कर्मफलान्तर्भावः सम्भवति ? इत्याशङ्क्याह -
सर्वमिति ।
तर्हि ज्ञाननिष्ठैव कर्तव्या, तावतैव कर्मफलस्य लब्धतया कर्मानुष्ठानानपेक्षणात् , इत्याशङ्क्याह -
तस्मादिति ।
योगमर्गस्य निष्फलत्वाभावस्तच्छब्दार्थः ॥ ४६ ॥
तर्हि परम्परया पुरुषार्थसाधनं योगमार्गं परित्यज्य साक्षादेव पुरुषार्थकारणमात्मज्ञानं तदर्थमुपदेष्टव्यम् , तस्मै हि स्पृहयति मनो मदीयम् , इत्याशङ्क्याह -
तव चेति ।
तर्हि तत्फलाभिलाषोऽपि स्यात् इति, नेत्याह -
माफलेष्विति ।
पूर्वोक्तमेवार्थं प्रपञ्चयति -
मा कर्मेति ।
फलाभिसन्ध्यसम्भवे कर्माकरणमेव श्रद्दधामि, इत्याशङ्क्याह -
मा ते इति ।
ज्ञानानधिकारिणोऽपि कर्मत्यागप्रसक्तिं निवारयति -
कर्मण्येवेति ।
कर्मण्येवेति, एवकारार्थमाह -
न ज्ञानेति ।
नहि तत्र अब्राह्मणस्य अपरिपक्वकषायस्य मुख्योऽधिकारः सिध्यतीत्यर्थः ।
फलैस्तर्हि सम्बन्धो दुर्वारः स्यात् , इत्याशङ्क्याह -
तत्रेति ।
कर्मण्येवाधिकरे सतीति सप्तम्यर्थः ।
फलेष्वधिकाराभावं स्फोरयति -
कर्मेति ।
कर्मानुष्ठानात् प्रागूर्ध्वं तत्काले चेत्येतत् कदाचनेति विवक्षितमित्याह -
कस्याञ्चिदिति ।
फलाभिसंधाने दोषमाह -
यदेति ।
एवं कर्मफलतृष्णाद्वारेणेत्यर्थः ।
कर्मफलहेतुत्वं विवृणोति -
यदा हीति ।
तर्हि विफलं क्लेशात्मकं कर्म न कर्तव्यम् , इति शङ्कामनुभाष्य दूषयति -
यदीत्यादिना ।
अकर्मणि ते सङ्गो मा भूत् , इत्युक्तमेव स्पष्टयति -
अकरण इति
॥ ४७ ॥
आसक्तिरकरणे न युक्ता चेत् , तर्हि क्लेशात्मकं कर्म किमुद्दिश्य कर्तव्यम् ? इत्याशङ्कामनूद्य, श्लोकान्तरमवतारयति -
यदीत्यादिना ।
वक्ष्यमाणयोगमुद्दिश्य तन्निष्ठो भूत्वा कर्माणि क्लेशात्मकान्यपि विहितत्वात् अनुष्ठेयानीत्याह -
योगस्थः सन्निति ।
कर्मानुष्ठानस्योद्देश्यं दर्शयति -
केवलमिति ।
फलान्तरापेक्षामन्तरेण ईश्वरार्थं - तत्प्रसादनार्थमनुष्ठानमित्यर्थः ।
तर्हि ईश्वरसन्तोषोऽभिलाषगोचरीभूतो भविष्यति, नेत्याह -
तत्रापीति ।
ईश्वरप्रसादनार्थे कर्मानुष्ठाने स्थितेऽपीत्यर्थः । सङ्गं त्यक्त्वा कुर्विति पूर्वेण सम्बन्धः ।
आकाङ्क्षितं पूरयित्वा, सिद्धिशब्दार्थमाह -
फलेति ।
तद्विपर्ययजा - सत्त्वाशुद्धिजन्या । ज्ञानाप्राप्तिलक्षणेति यावत् ।
कर्म अननुतिष्ठतो योगमुद्दिश्य शेषतया प्रकृतमाकाङ्क्षापूर्वकं प्रकटयति -
कोऽसावित्यादिना
॥ ४८ ॥
किमिति योगस्थेन तत्त्वज्ञानमुद्दिश्य कर्म कर्तव्यम् , फलाभिलाषेऽपि तदनुष्ठानस्य सुलभत्वात् ? इत्याशङ्क्य, यथोक्तयोगयुक्तं कर्म स्तुवन् , अनन्तरश्लोकमुत्थापयति -
यत् पुनरिति ।
अवरं कर्म - बुद्धिसम्बन्धविरुद्धमिति शेषः ।
बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्षं सूचयति -
बुद्धीति ।
बुद्धिसम्बन्धासम्बन्धाभ्यां कर्मणि प्रकर्षनिकर्षयोर्भावे करणीयं नियच्छति -
बुद्धाविति ।
यत्तु फलेच्छयापि कर्मानुष्ठानं सुकरमिति, तत्राह -
कृपणेति ।
निकृष्टं कर्मैव विशिनष्टि -
फलार्थिनेति ।
कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टम् ? इत्याशङ्क्य, प्रतीकमुपादाय व्याचष्टे -
बुद्धीत्यादिना ।
फलाभिलाषेण क्रियमाणस्य कर्मणो निकृष्टत्वे हेतुमाह -
जन्मेति ।
समत्वबुद्धियुक्तात् कर्मणः तद्धीनस्य कर्मणो जन्मादिहेतुत्वेन निकृष्टत्वे फलितमाह -
यत इति ।
योगविषया बुद्धिः समत्वबुद्धिः ।
बुद्धिशब्दस्य अर्थान्तरमाह -
तत्परिपाकेति ।
तच्छब्देन समत्वबुद्धिसमन्वितं कर्म गृह्यते । तस्य परिपाकः - तत्फलभूता बुद्धिशुद्धिः ।
शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह -
अभयेति ।
सप्तमीमविवक्षित्वा द्वितीयं पक्षं गृहीत्वा वाक्यार्थमाह -
परमार्थेति ।
तथाविधज्ञानशरणत्वे हेतुमाह -
यत इति ।
फलहेतुत्वं विवृणोति -
फलेति ।
तेन परमार्थज्ञानशरणतैव युक्तेति शेषः ।
परमार्थज्ञानबहिर्मुखानां कृपणत्वे श्रुतिं प्रमाणयति -
यो वा इति ।
अस्थूलादिविशेषणं एतदित्युच्यते ॥ ४९ ॥
पूर्वोक्तसमत्वबुद्धियुक्तस्य स्वधर्मानुष्ठाने प्रवृत्तस्य किं स्यात् ? इत्याशङ्क्याह -
समत्वेति ।
बुद्धियुक्तः स्वधर्माख्यं कर्म अनुतिष्ठन्निति शेषः ।
बुद्धियोगस्य फलवत्त्वे फलितमाह -
तस्मादिति ।
पूर्वार्धं व्याचष्टे -
बुद्धीत्यादिना ।
ननु - समत्वबुद्धिमात्रात् न पुण्यपापनिवृत्तिर्युक्ता, परमार्थदर्शनवतस्तन्निवृत्तिप्रसिद्धेः, इति तत्राह -
सत्त्वेति ।
उत्तरार्धं व्याचष्टे -
तस्मादिति ।
स्वधर्ममनुतिष्ठतो यथोक्तयोगार्थं किमर्थं मनो योजनीयम् ? इत्याशङ्क्याह -
योगो हीति ।
तर्हि यथोक्तयोगसामर्थ्यादेव दर्शितफलसिद्धेरनास्था स्वधर्मानुष्ठाने प्राप्ता, इत्याशङ्क्याह -
स्वधर्माख्येष्विति ।
ईश्वरार्पितचेतस्तया कर्मसु वर्तमानस्य - अनुष्ठाननिष्ठस्य या यथोक्ता बुद्धिः, तत् तेषु कौशलम् इति योजना ।
कर्मणां बन्धस्वभावत्वात् तदनुष्ठाने बन्धानुबन्धः स्यात् , इत्याशङ्क्य कौशलमेव विशदयति -
तद्धीति ।
समत्वबुद्धेरेवंफलत्वे स्थिते फलितमुपसंहरति -
तस्मादिति
॥ ५० ॥
समत्वबुद्धियुक्तस्य सुकृतदुष्कृततत्फलपरित्यागेऽपि कथं मोक्षः स्यात् ? इत्याशङ्क्याह -
यस्मादिति ।
समत्वबुद्ध्या यस्मात् कर्मानुष्ठीयमानं दुरितादि त्याजयति, तस्मात् परम्परया असौ मुक्तिहेतुरित्यर्थः ।
मनीषिणो हि ज्ञानातिशयवन्तो बुद्धियुक्ताः सन्तः स्वधर्माख्यं कर्मानुतिष्ठन्तः, ततो जातं फलं देहप्रभेदं हित्वा जन्मलक्षणाद्बन्धात् विनिर्मुक्ताः वैष्णवं पदं सर्वसंसारसंस्पर्शशून्यं प्राप्नुवन्तीति श्लोकोक्तमर्थं श्लोकयोजनया दर्शयति -
कर्मजमित्यादिना ।
इष्टो देहो देवादिलक्षणः, अनिष्टो देहः तिर्यगादिलक्षणः । तत्प्राप्तिरेव कर्मणो जातं फलम् । तत् यथोक्तबुद्धियुक्ता ज्ञानिनो भूत्वा तद्बलादेव परित्यज्य बन्धविनिर्मोकपूर्वकं जीवन्मुक्ताः सन्तो विदेहकैवल्यभाजो भवन्तीत्यर्थः ।
बुद्धियोगादित्यादौ बुद्धिशब्दस्य समत्वबुद्धिरर्थो व्याख्यातः, सम्प्रति परम्परां परिहृत्य सुकृतदुष्कृतप्रहाणहेतुत्वस्य समत्वबुद्धावसिद्धेः, बुद्धिशब्दस्य योग्यमर्थान्तरं कथयति -
अथवेति ।
अनवच्छिन्नवस्तुगोचरत्वेन अनवच्छिन्नत्वं तस्याः सूचयन् बुद्ध्यन्तराद्विशेषं दर्शयति -
सर्वत इति ।
असाधारणं निमित्तन्तस्या निर्दिशति - कर्मेति ।
यथोक्तबुद्धेर्बुद्धिशब्दार्थत्वे हेतुमाह -
साक्षादिति ।
जन्मबन्धविनिर्मोकादिः आदिशब्दार्थः । यस्मिन् कर्मणि क्रियमाणे परमार्थदर्शनलक्षणा बुद्धिरुद्देश्यतया युज्यते, तस्मात् कर्मणः, सकाशादितरत् कर्म तथाविधोद्देश्यभूतबुद्धिसम्बन्धविधुरमतिशयेन निष्कृष्यते । ततश्च परमार्थबुद्धिमुद्देश्यत्वेनाश्रित्य कर्म अनुष्ठातव्यम् , परिच्छिन्नफलान्तरमुद्दिश्य तदनुष्ठाने कार्पण्यप्रसङ्गात् । किञ्च - परमार्थबुद्धिमुद्देश्यमाश्रित्य कर्म अनुतिष्ठन् अन्तःकरणशुद्धिद्वारा परमार्थदर्शनसिद्धौ, जीवत्येव देहे सुकृतादि हित्वा मोक्षमधिगच्छति । तथाच - परमार्थदर्शनलक्षणयोगार्थं मनो धारयितव्यम् । योगशब्दितं हि परमार्थदर्शनमुद्देश्यतया कर्मस्वनुतिष्ठतो नैपुण्यमिष्यते - यदि च परमार्थदर्शनमुद्दिश्य तद्युताः सन्तः समारभेरन् कर्माणि, तदा तदनुष्ठानजनितबुद्धिशुद्ध्या ज्ञानिनो भूत्वा कर्मजं फलं परित्यज्य, निर्मुक्तबन्धनाः मुक्तिभाजो भवन्ति - इत्येवमस्मिन् पक्षे श्लोकत्रयाक्षराणि व्याख्यातव्यानि ॥ ५१ ॥
यथोक्तबुद्धिप्राप्तिकालं प्रश्नपूर्वकं प्रकटयति-
योगेति ।
श्रुतं श्रोतव्यं दृष्ठं द्रष्टव्यमित्यादौ फलाभिलाषप्रतिबन्धात् नोक्ता बुद्धिरुदेष्यति, इत्याशङ्क्याह -
यदेति ।
विेवेकपरिपाकावस्था कालशब्देनोच्यते । कालुष्यस्य दोषपर्यवसायित्वं दर्शयन् विशिनष्टि -
येनेति ।
तत् - अनर्थरूपं कालुष्यम् । तवेत्यन्वयार्थं पुनर्वचनम् ।
बुद्धिशुद्धिफलस्य विवेकस्य प्राप्त्या वैराग्याप्तिं दर्शयति -
तदेति ।
अध्यात्मशास्त्रातिरिक्तं शास्त्रं श्रोतव्यादिशब्देन गृह्यते ।
उक्तं वैराग्यमेव स्फोरयति -
श्रोतव्यमिति ।
यथोक्तविवेकसिद्धौ सर्वस्मिन् अनात्मविषये नैष्फल्यं प्रतिभातीत्यर्थः ॥ ५२ ॥
बुद्धिशुद्धिविवेकवैराग्यसिद्धावपि पूर्वोक्तबुद्धिप्राप्तिकालो दर्शितो न भवतीति शङ्कते -
मोहेति ।
प्रागुक्तविवेकादियुक्तबुद्धेरात्मनि स्थैर्यावस्थायां प्रकृतबुद्धिसिद्धिरित्याह -
तत् शृण्विति ।
पृष्टं कालविशेषाख्यं वस्तु तच्छब्देन गृह्यते ।
बुद्धेः श्रृतिविप्रतिपन्नत्वं विशदयति -
अनेकेति ।
नानाश्रुतिप्रतिपन्नत्वमेव सङ्क्षिपति-
विक्षिप्तेति ।
उक्तं हेतुद्वयमनुरुध्य वैराग्यपरिपाकावस्था कालशब्दार्थः । नैश्चल्यम् - विक्षेपराहित्यम् , अचलत्वम् - विकल्पशून्यत्वम् , विक्षेपः - विपर्ययः, विकल्पः - संशयः - इति विवेकः । विवेकद्वारा जाता प्रज्ञा प्रागुक्ता बुद्धिः । समाधिः - तत्रैव निष्ठा ॥ ५३ ॥
संन्यासिनो ज्ञाननिष्ठातत्प्राप्तिवचनं प्रश्नबीजम् । पृच्छतोऽर्जुनस्याभिप्रायमाह -
लब्धेति ।
लब्धा समाधौ - आत्मनि, समाधानेन वा प्रज्ञा परमार्थदर्शनलक्षणा येन तस्येति यावत् ।
ननु - तस्य भाषा तत्कार्यानुरोधिनी भविष्यति, किमित्यसौ विजिज्ञास्यते ? तत्राह -
कथमिति ।
ज्ञाननिष्ठस्य लक्षणविवक्षया प्रश्नमवतार्य तन्निष्ठासाधनबुभुत्सया विशिनष्ठि -
समाधिस्थस्येति ।
तस्यैवार्थक्रियां पृच्छति -
स्थितधीरिति
॥ ५४ ॥
प्रतिवचनमवतारयितुं पातनिकां करोति -
यो हीति ।
हिशब्देन कर्मसंन्यासकारणीभूतविरागतासम्पत्तिः सूच्यते । आदितः - ब्रह्मचर्यावस्थायामिति यावत् । ज्ञानमेव योगो ब्रह्मात्मभावप्रापकत्वात् , तस्मिन् निष्ठा - परिसमाप्तिः, तस्यामित्यर्थः । कर्मैव योगस्तेन, कर्माण्यसंन्यस्य तन्निष्ठायामेव प्रवृत्त इति शेषः ।
ननु - तत् कथमेकेन वाक्येन अर्थद्वयमुपदिश्यते ? द्वैयर्थ्ये वाक्यभेदात् । नच लक्षणमेव साधनम् , कृतार्थलक्षणस्य तत्स्वरूपत्वेन फलत्वे साधनत्वानुपपत्तेः, इति तत्राह-
सर्वत्रैवेति ।
यद्यपि कृतार्थस्य - ज्ञानिनो लक्षणं तद्रूपेण फलत्वान्न साधनत्वमधिगच्छति, तथापि जिज्ञासोस्तदेव प्रयत्नसाध्यतया साधनं सम्पद्यते । लक्षणं चात्र ज्ञानसामर्थ्यलब्धमनूद्यते । न विधीयते, विदुषो विधिनिषेधागोचरत्वात् । तेन जिज्ञासोः साधनानुष्ठानाय लक्षणानुवादात् एकस्मिन्नेव साधनानुष्ठाने तात्पर्यमित्यर्थः ।
उक्तेऽर्थे भगवद्वाक्यमुत्थापयति -
यानीति ।
लक्षणानि च ज्ञानसामर्थ्यलभ्यानि, अयत्नसाध्यानीति शेषः ।
स्थितप्रज्ञस्य का भाषा ? इति प्रथमप्रश्नस्योत्तरमाह -
प्रजहातीति ।
कामत्यागस्य प्रकर्षः - वासनाराहित्यम् । कामानामात्मनिष्ठत्वं कैश्विदिष्यते । तदयुक्तम् , तेषां मनोनिष्ठत्वश्रुतेः, इत्याशयवानाह -
मनोगतानिति ।
‘आत्मन्येवात्मना’(भ. गी. २-५५) इत्याद्युत्तरभागनिरस्यं चोद्यमनुवदति -
सर्वकामेति ।
तर्हि प्रवर्तकाभावाद्विदुषः सर्वप्रवृत्तेरुपशान्तिरिति, नेत्याह -
शरीरेति ।
उन्मादवान् उन्मत्तः - विवेकविरहितबुद्धिभ्रमभागी । प्रकर्षेण मदमनुभवन् विद्यमानमपि विवेकं निरस्यन् भ्रान्तवद्व्यवहरन् प्रमत्तः इति विभागः ।
उत्तरार्धमवतार्य व्याकरोति -
उच्यत इति ।
आत्मन्येव इत्येवकारस्य ‘आत्मना’ इत्यत्रापि सम्बन्धं द्योतयति -
स्वेनैवेति ।
बाह्मलाभनिरपेक्षत्वेन तुष्टिमेव स्पष्टयति -
परमार्थेति ।
स्थितप्रज्ञपदं विभजते -
स्थितेति ।
प्रज्ञाप्रतिबन्घकसर्वकामविगमावस्था तदेति निर्दिश्यते ।
उक्तमेव प्रपञ्चयति -
त्यक्तेति ।
आत्मानं जिज्ञासमानो वैराग्यद्वारा सर्वैषणात्यागात्मकं संन्यासमासाद्य, श्रवणाद्यावृत्त्या तज्ज्ञानं प्राप्य, तस्मिन्नेव आसक्त्या विषयवैमुख्येन तत्फलभूतां परितुष्टिं तत्रैव प्रतिलभमानः स्थितप्रज्ञव्यपदेशभाक् इत्यर्थः ॥ ५५ ॥
लक्षणभेदानुवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति -
किञ्चेति ।
ज्वरशिरोरोगादिकृतानि दुःखानि आध्यात्मिकानि । आदिशब्देन आधिभौतिकानि व्याघ्रसर्पादिप्रयुक्तानि, आधिदैविकानि च अतिवातवर्षादिनिमित्तानि दुःखानि गृह्यन्ते । तेषूपलब्धेष्वपि नोद्विग्नं मनो यस्य स तथेति सम्बन्धः । नोद्विग्नमित्येतद्व्याचष्टे -
न प्रक्षुभितमिति ।
दुःखानामुक्तानां प्राप्तौ परिहाराक्षमस्य तदनुभवपरिभावितं दुःखमुद्वेगः । तेन सहितं मनो यस्य न भवति, स तथेत्याह -
दुःखप्राप्ताविति ।
मनो यस्य नोद्विग्नमिति पूर्वेण सम्बन्धः । सुखान्यपि दुःखवत् त्रिविधानीति मत्वा तथेत्युक्तम् । तेषु प्राप्तेषु सत्सु तेभ्यो विगता स्पृहा तृष्णा यस्य सः विगतस्पृहः - इति योजना ।
अज्ञस्य हि प्राप्तानि सुखान्यनु विवर्धते तृष्णा । विदुषस्तु नैवम् , इत्यत्र वैधर्म्यदृष्टान्तमाह -
नाग्निरिवेति ।
यथा हि दाह्यस्य इन्धनादेः अभ्याधाने वह्निर्विवर्धते, तथा अज्ञस्य सुखानि उपनतानि अनुविवर्घमानापि तृष्णा विदुषो न तान्यनु विवर्धते । नहि वह्निरदाह्यमुपगतमपि दग्धुं विवृद्धिमधिगच्छति । तेन जिज्ञासुना सुखदुःखयोस्तृष्णोद्वेगौ न कर्तव्यावित्यर्थः ।
रागादयश्च तेन कर्तव्या न भवन्तीत्याह -
वीतेति ।
अनुभूताभिनिवेशे विषयेषु रञ्जनात्मकस्तृष्णाभेदो रागः । परेणापकृतस्य गात्रनेत्रादिविकारकारणं भयम् । क्रोधस्तु परवशीकृत्य आत्मानं स्वपरापकारप्रवृत्तिहेतुर्बुद्धिवृत्तिविशेषः ।
मनुते इति मुनिः, आत्मवित् इत्यङ्गीकृत्याह -
संन्यासीति ।
सुखादिविषयतृष्णादेः, रागादेश्च अभावावस्था तदेत्युच्यते ॥ ५६ ॥
लक्षणभेदानुवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति -
किञ्चेति ।
विवेकवतो विदुषो विवेकजन्या प्रज्ञा कथं प्रतिष्ठां प्रतिपद्यताम् ? इत्याशङ्क्याह -
यः सर्वत्रेति ।
ननु - देहजीवनादौ स्पृहा, शुभाशुभप्राप्तौ हर्षविषादौ विदुषो विविदिषोश्च अवर्जनीयौ ? इति प्रज्ञास्थैर्यासिद्धिः, तत्राह -
यो मुनिरिति ।
तत्तदिति शोभनवत्त्वेन अशोभनवत्त्वेन वा प्रसिद्धत्वं प्रतिनिर्दिश्यते । तदेव विभजते -
शुभमिति ।
विषयेषु अभिषङ्गाभावः शुभादिप्राप्तौ हर्षाद्यभावश्च प्रज्ञास्थैर्ये कारणमित्याह -
तस्येति
॥ ५७ ॥
जिज्ञासोरेव कर्तव्यान्तरं सूचयति -
किञ्चेति ।
इन्द्रियाणां विषयेभ्यो वैमुख्यस्य प्रज्ञास्थैर्ये कारणत्वात् , आदौ जिज्ञासुना तदनुष्ठेयम् , इत्याह -
यदेति ।
मुमुक्षुणा - मोक्षहेतुं प्रज्ञां प्रार्थयमानेन सर्वेभ्यो विषयेभ्यः सर्वाणीन्द्रियाणि विमुखानि कर्तव्यानि, इति श्लोकव्याख्यानेन कथयति -
यदेत्यादिना ।
उपसंहारः - स्ववशत्वापादनम् । तस्य च सम्यक्त्वं - अतिदृढत्वम् ।
अयमिति प्रकृतस्थितप्रज्ञग्रहणं व्यावर्तयति -
ज्ञाननिष्ठायामिति ।
इन्द्रियोपसंहारस्य प्रलयरूपत्वं व्यावर्त्य, सङ्कोचात्मकत्वं दृष्टान्तेन दर्शयति -
कूर्म इति ।
दृष्टान्तं व्याकरोति -
यथेति ।
दार्ष्टान्तिके योजयन् ज्ञाननिष्ठापदं तत्र प्रवर्तयति -
एवमिति ।
इन्द्रियाणां विषयेभ्यो वैमुख्यकरणं प्रज्ञास्थैर्यहेतुः, इत्युक्तमुपसंहरति -
तस्येति
॥ ५८ ॥
इन्द्रियाणां विषयेभ्यो वैमुख्येऽपि तद्विषयरागानुवृत्तौ कथं प्रज्ञालाभः स्यात् ? इति शङ्कते -
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः । विषयान् अनाहरतः - तदुपभोगविमुखस्येत्यर्थः ।
रागश्चेन्नोपसंह्रियते, न तर्हि प्रज्ञालाभः सम्भवति, रागस्य तत्परिपन्थित्वात् इति मत्वा आह -
स कथमिति ।
रागनिवृत्त्युपायमुपदिशन्नुत्तरमाह -
उच्यत इति ।
विषयोपभोगपराङ्मुखस्य कुतो विषयपरावृत्तिः ? तत्परावृत्तिश्च अप्रस्तुता, इत्याशङ्क्याह -
यद्यपीति ।
निराहारस्येत्यस्य व्याख्याानम् - अनाह्रियमाणविषयस्येति । यो हि विषयप्रवणो न भवति, तस्य आत्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापि इन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संह्रियन्ते, तथापि रागोऽवशिष्यते । स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः ।
रसशब्दस्य माधुर्यादिषङ्विधरसविषत्वं निषेधति-
रसशब्द इति ।
वृद्धप्रयोगमन्तरेण कथं प्रसिद्धिः ? इत्याशङ्क्याह -
स्वरसेनेति ।
स्वेच्छयेति यावत् । रसिकः - स्वेच्छावशवर्ती । रसज्ञः - विवक्षितापेक्षितज्ञातेत्यर्थः ।
कथं तर्हि तस्य निवृत्तिः ? तत्राह-
सोऽपीति ।
दृष्टिमेवोपलब्धिपर्यायां स्पष्टयति -
अहमेवेति ।
रागापगमे सिद्धमर्थमाह -
निर्बीजमिति ।
ननु - सम्यग्ज्ञानमन्तरेण रागो नापगच्छति इति चेत् , तदपगमादृते रागवतः सम्यग्ज्ञानोदयायोगात् इतरेतराश्रयता इति, नेत्याह -
नासतीति ।
इन्द्रियाणां विषयपारवश्ये विवेकद्वारा परिहृते स्थूलो रागो व्यावर्तते । ततश्च सम्यग्ज्ञानोत्पत्त्या सूक्ष्मस्यापि रागस्य सर्वात्मना निवृत्त्युपपत्तेः, न इतरेतराश्रयता - इत्यर्थः ।
प्रज्ञास्थैर्यस्य सफलत्वे स्थिते फलितमाह -
तस्मादिति
॥ ५९ ॥
श्लोकान्तरमवतारयति -
सम्यग्दर्शनेति ।
मनसः स्ववशत्वादेव प्रज्ञास्थैर्यसम्भवे किमर्थमिन्द्रियाणां स्ववशत्वापादनम् ? इत्याशङ्क्याह-
यस्मादिति ।
ननु - विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वयमेवेन्द्रियाणि व्यावर्तन्ते, किं तत्र प्रज्ञास्थैर्यं चिकीर्षता कर्तव्यम् ? इति, तत्राह -
यततो हीति ।
विषयेषु भूयो भूयो दोषदर्शनमेवप्रयत्नः ।
अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति सम्बन्धं गृहीत्वा, सम्बन्धान्तरमाह -
पुरुषस्येति ।
प्रमथनशीलत्वं प्रकटयति -
विषयेति ।
विक्षोभस्य आकुलीकरणस्य फलमाह -
आकुलीकृत्येति ।
प्रकाशमेवेत्युक्तं विशदयति -
पश्यत इति ।
विपश्चितः - विदुषोऽपि, प्रकाशमेव - प्रकाशशब्दितविवेकाख्यविज्ञानेन युक्तमेव मनो हरन्तीन्द्रियाणीति सम्बन्धः ।
॥ ६० ॥
इन्द्रियाणां स्ववशत्वसम्पादनानन्तरं कर्तव्यमर्थमाह -
तानीति ।
एवमासीनस्य किं स्यात् ? इति तदाह -
वशे हीति ।
समाहितस्य - विक्षेपविकलस्य कथमासनम् ? इत्यपेक्षायामाह -
मत्पर इति ।
परापरभेदशङ्कामपाकृत्य आसनमेव स्फोरयति - नान्योऽहमिति ।
उत्तरार्धं व्याकरोति -
एवमिति ।
हिशब्दार्थं स्फुटयति -
अभ्यासेति ।
परस्मादात्मनो नाहमन्योऽस्मीति प्रागुक्तानुसन्धानस्य आदरेण नैरन्तर्यदीर्घकालानुष्ठानसामर्थ्यादित्यर्थः ।अथवा - विषयेषु दोषदर्शनाभ्याससामर्थ्यात् इन्द्रियाणि संयतानीत्यर्थः ॥ ६१ ॥
समनन्तरश्लोकद्वयतात्पर्यमाह -
अथेति ।
पुरुषार्थोपायोपदेशानन्तर्यमथशब्दार्थः ।
तन्निष्ठत्वराहित्यावस्थां दर्शयति -
इदानीमिति ।
पराभविष्यतः - महान्तमनर्थं गमिष्यतः । विवेकविज्ञानविहीनस्येति यावत् । सर्वानर्थमूलं विषयाभिध्यानं तस्य तथात्वमनुभवसिद्धमिति वक्तुमिदमित्युक्तम् । विषयेषु विशेषत्वमारोपितरमणीयत्वम् । प्रीतिरासक्तिरिति साधारणासक्तिमात्रं गृह्यते । तृष्णेति उद्रिक्ता सक्तिरुक्ता । प्रतिबन्धेन प्रणाशेन वा प्रतिहतिः ॥ ६२ ॥
क्रोधस्य संमोहहेतुत्वमनुभवेन द्रढयति -
क्रुद्धो हीति ।
आक्रोशति - अधिक्षिपति । तदयोग्यत्वमपेरर्थः ।
संमोहकार्यं कथयति -
संमोहादिति ।
स्मृतेर्निमित्तनिवेदनद्वारा स्वरूपं निरूपयति -
शास्त्रेति ।
क्षणिकत्वादेवतस्याः स्वतो नाशसम्भवात् , न संमोहाधीनत्वं तस्येत्याशङ्क्याह -
स्मृतीति ।
स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति ? तत्राह -
कार्येति ।
ननु - पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न कल्पते, तत्राह -
तावदेवेति ।
कार्याकार्यविवेचनयोग्यान्तःकरणाभावे सतोऽपि पुरुषस्य करणाभावात् , अपगततत्त्वविवेकविवक्षया नष्टत्वव्यपदेशः ।
तदेतदाह -
पुरुषार्थेति
॥ ६३ ॥
विषयाणां स्मरणमपि चेदनर्थकारणम् , सुतरां तर्हि भोगः, तेन जीवनार्थं भुञ्जानो विषयान् अनर्थं कथं न प्रतिपद्यते ? इत्याशङ्क्य, वृत्तानुवादपूर्वकमुत्तरश्लोकतात्पर्यमाह -
सर्वानर्थस्येति ।
अनर्थमूलकथनानन्तर्यमथशब्दार्थः ।
परिहर्तव्ये निर्णीते तत्परिहारोपायजिज्ञासां दर्शयति -
इदानीमिति ।
रागद्वेषपूर्विका प्रवृत्तिः, इत्यत्र अनुभवदर्शनार्थो हिशब्दः । शास्त्रीयप्रवृत्तिव्यासेधार्थं स्वाभाविकी इत्युक्तम् । तत्रेत्यधिकृतान् अधिकृत्य प्रयोगः । अवर्जनीयान् अशनपानादीन् , देहस्थितिहेतूनिति यावत् ।
इन्द्रियाणां विषयेषु प्रवृतिश्चेत् , नियमानुपपत्त्या वर्जनीयेष्वपि सा स्यात् , इत्याशङ्क्याह -
आत्मेति ।
अन्तःकरणाधीनत्वेऽपि इन्द्रियाणां तदनियमात् तेषामपि नियमानुपपत्तिः, इत्याशङ्क्याह -
विधेयात्मेति
॥ ६४ ॥
तथापि नानाविधदुःखाभिभूतत्वात् न स्वास्थ्यमास्थातुं शक्यम् , इत्याशयेन पृच्छति -
प्रसाद इति ।
श्लोकार्धेनोत्तरमाह -
उच्यत इति ।
सर्वदुःखहान्या बुद्धिस्वास्थ्येऽपि, प्रकृतं प्रज्ञास्थैर्यं कथं सिद्धम् ? इत्याशङ्क्याह -
प्रसन्नेति ।
बुद्धिप्रसादस्यैव फलान्तरमाह -
किञ्चेति ।
तस्मात् बुद्धिप्रसादार्थं प्रयतितव्यमिति शेषः ।
श्लोकद्वयस्य अक्षरोत्थमर्थमुक्त्वा, तात्पर्यार्थमुपसंहरति -
एवमिति ।
युक्तः - समाहितः - विषयपारवश्यशून्यः सन्निति यावत् ॥ ६५ ॥
किं पुनः सत्त्वशुद्ध्यैव यथोक्तबुद्धिः सिध्यति ? नेत्याह -
सेयमिति ।
असमाहितस्यापि बुद्धिमात्रमुत्पद्यमानं प्रतिभाति, इत्याशङ्क्य विशिनष्टि -
आत्मस्वरूपेति ।
नहि विक्षिप्तचित्तस्य आत्मस्वरूपविषया बुद्धिरुदेतुमर्हति, इत्यत्र हेतुमाह -
नचेति ।
आत्मज्ञाने शब्दादापाततो जाते, स्मृतिसन्तानकरणं साक्षात्कारार्थमभिनिवेशो भावनेतिचोच्यते । न चासौ विक्षिप्तबुद्धेः सिध्यति, इति हेत्वर्थं विवक्षित्वाह -
आत्मज्ञानेति ।
भावनाद्वारा साक्षात्काराभावेऽपि का क्षतिः ? इत्याशङ्क्याह -
तथेति ।
असमाहितस्य भावनाभाववदिति यावत् ।
आत्मनि आपाततो ज्ञाते श्रवणाद्यावृत्तिरूपां स्मृतिम् अनातन्वानस्य अपरोक्षबुद्ध्यभावे, न अनर्थनिवृत्तिः सिध्यतीत्याह -
उपशम इति ।
अनिवृत्तानर्थस्य परमानन्दसागराद्विभक्तस्य संसारवारिधौ निमग्नस्य सुखाविर्भावो न सम्भवतीत्याह -
अशान्तस्येति ।
तस्यापि विषयसेवातो वैषयिकं सुखं सम्भवति, इत्याशङ्क्याह -
इन्द्रियाणां हीति ।
तृष्णाक्षयस्य शास्त्रप्रसिद्धमानुभविकं च सुखत्वमिति वक्तुं हिशब्दः ।
विषयसेवातृष्णयापि विषयोपभोगद्वारा सुखमुपलब्धम् , इत्याशङ्क्याह -
दुःखमेवेति ।
तत्रापि हिशब्दः अनुभवद्योती ।
तदेव स्पष्टयति -
नेत्यादिना
॥ ६६ ॥
आकाङ्क्षाद्वारा श्लोकान्तरमुत्थापयति -
अयुक्तस्येति ।
विक्षिप्तचेतसो भावनाभावे साक्षात्कारलक्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति -
इन्द्रियाणामिति ।
यत्पदोपात्तं मनः, तत्पदेनापि गृह्यते । इन्द्रियाणां - श्रोत्रादीनां, विषयाः - शब्दादयः, तेषां विकल्पनं - मिथो विभज्य ग्रहणम् , तेनेति यावत् ।
दृष्टान्तं व्याकरोति -
उदक इति ।
करोति यस्मात् तस्मात् अयुक्तस्य नोत्पद्यते बुद्धिरिति योजना ॥ ६७ ॥
‘यततो हि’(भ. गी. २-६०) इत्यादिश्लोकाभ्यामुक्तस्यैवार्थस्य प्रकृतश्लोकाभ्यामपि कथ्यमानत्वात् अस्ति पुनरुक्तिः, इत्याशङ्क्य परिहरति -
यततो हीत्यादीना ।
‘ध्यायतो विषयान्’(भ. गी. २-६२) इत्यादिना उपपत्तिवचनमुन्नेयम् ।
तच्छब्दापेक्षितार्थोक्तिद्वारा श्लोकमवतारयति -
इन्द्रियाणामिति ।
असमाहितेन मनसा यस्मात् अनुविधीयमानानि इन्द्रियाणि प्रसह्य प्रज्ञामपहरन्ति, तस्मात् इति योजना ॥ ६८ ॥
आत्मविदः स्थितप्रज्ञस्य सर्वकर्मपरित्यागेऽधिकारः, तद्विपरीतस्य अज्ञस्य कर्मणि, इत्येतस्मिन्नर्थे समनन्तरश्लोकमवतारयति-
योऽयमिति ।
अविद्यानिवृत्तौ सर्वकर्मनिवृत्तिश्चेत् , तन्निवृत्तिरेव कथम् ? इत्याशङ्क्याह -
अविद्यायाश्चेति ।
स्फुटीकुर्वन् बाह्याभ्यन्तरकरणानां पराक्प्रत्यक्प्रवृत्तिवत् तथाविधे दर्शने च मिथो विरुध्येते, पराग्दर्शनस्य अनाद्यात्मावरणाविद्याकार्यत्वात् , आत्मदर्शनस्य च तन्निवर्तकत्वात् , ततश्च आत्मदर्शनार्थमिन्द्रियाण्यर्थेभ्यो निगृह्णीयात् इत्याहेति योजना
सर्वप्राणिनां निशा पदार्थाविवेककरी इत्यत्र हेतुमाह -
तमःस्वभावत्वादिति ।
सर्वप्राणिसाधारणीं प्रसिद्धां निशां दर्शयित्वा, तामेव प्रकृतानुगुणत्वेन प्रश्नपूर्वकं विशदयति -
किं तदित्यादिना ।
स्थितप्रज्ञविषयस्य परमार्थतत्त्वस्य प्रकाशैकस्वभावस्य कथमज्ञानं प्रति निशात्वम् ? इत्याशङ्क्याह -
यथेति ।
तत्र हेतुमाह-
अगोचरत्वादिति ।
अतद्बुद्धीनां परमार्थतत्त्वातिरिक्ते द्वैतप्रपञ्चे प्रवृत्तबुद्धीनाम् अप्रतिपन्नत्वात् परमार्थतत्त्वं निशेव अविदुषामित्यर्थः ।
तस्यामित्यादि व्याचष्टे -
तस्यामिति ।
निशावदुक्तायामवस्थायामिति यावत् । योगीति ज्ञानी कथ्यते ।
द्वितीयार्धं विभजते -
यस्यामिति ।
प्रसुप्तानां जागरणं विरुद्धम् , इत्याशङ्क्याह -
प्रसुप्ता इवेति ।
परमार्थतत्त्वमनुभवतो निवृत्ताविद्यस्य संन्यासिनो द्वैतावस्था निशा इत्यत्र हेतुमाह -
अविद्यारूपत्वादिति ।
परमार्थावस्था निशेव अविदुषाम् , विदुषां तु द्वैतावस्था तथा, इति स्थिते फलितमाह -
अत इति ।
अविद्यावस्थायामेव क्रियाकारकफलभेदप्रतिभानादित्यर्थः ।
विद्योदयेऽपि तत्प्रतिभानाविशेषात् पूर्वमिव कर्माणि विधीयेरन् , इत्याशङ्क्याह -
विद्यायामिति ।
अविद्यानिवृत्तौ बाधितानुवृत्त्या विभागभानेऽपि नास्ति कर्मविधिः, विभागाभिनिवेशाभावादित्यर्थः ।
अविद्यावस्थायामेव कर्मणीत्युक्तं व्यक्तीकरोति -
प्रागिति ।
विद्योदयात् पूर्वं बाधकाभावादबाधिता विद्या क्रियादिभेदमापाद्य प्रमाणरूपया बुद्ध्या ग्राह्यतां प्राप्य कर्महेतुर्भवति, क्रियादिभेदाभिमानस्य तद्धेतुत्वादित्यर्थः ।
न विद्यावस्थायामित्युक्तं प्रपञ्चयति -
न अप्रमाणेति ।
उत्पन्नायां च विद्यायां अविद्याया निवृत्तत्वात् क्रियादिभेदभानमप्रमाणमिति बुद्धिरुत्पद्यते, तया गृह्यमाणा यथोक्तविभागभागिन्यपि अविद्या न कर्महेतुत्वं प्रतिपद्यते, बाधितत्वेन आभासतया तद्धेतुत्वायोगादित्यर्थः ।
विद्याविद्याविभागेनोक्तमेव विशेषं विवृणोति -
प्रमाणभूतेनेति ।
यथोक्तेन वेदेन कामनाजीवनादिमतो मम कर्म विहितम् , तेन मया तत् कर्तव्यम् इति मन्वानः सन् कर्मणि अज्ञोऽधिक्रियते, तं प्रति साधनविशेषवादिनो वेदस्य प्रवर्तकत्वादित्यर्थः ।
सर्वमेवेदमविद्यामात्रं द्वैतं निषेवेत इति मन्वानस्तु न प्रवर्तते कर्मणि, इति व्यावर्त्यमाह -
नाविद्येति ।
विदुषो न कर्मण्यधिकारश्चेत् तस्याधिकारस्तर्हि कुत्र ? इत्याशङ्क्याह -
यस्येति ।
तस्य आत्मज्ञस्य फलभूतसंन्यासाधिकारे वाक्यशेषं प्रमाणयति -
तथा चेति ।
प्रवर्तकं प्रमाणं विधिः, तदभावे कर्मस्विव विदुषो ज्ञाननिष्ठायामपि प्रवृत्तेरनुपपत्तेः, आश्रयणीयो ज्ञानवतोऽपि विधिरिति शङ्कते -
तत्रापीति ।
किमात्मज्ञानं विधिमपेक्षते ? किं वा आत्मा ? नाद्यः । तस्य स्वरूपविषयस्य यथाप्रमाणप्रमेयमुत्पत्तेर्विध्यनपेक्षत्वादित्याह -
न स्वात्मेति ।
न द्वितीय इत्याह-
नहीति ।
प्रवर्तकप्रमाणशब्दितस्य विधेः साध्यविषयत्वात् आत्मनश्चासाध्यत्वादिति हेतुमाह -
आत्मत्वादेवेति ।
आत्मतज्ज्ञानयोर्विघ्यनपेक्षत्वेऽपि ज्ञानिनो मानमेव व्यवहारं प्रति नियमार्थं विध्यपेक्षा स्यात् , इत्याशङ्क्याह -
तदन्तत्वाच्चेति ।
सर्वेषां प्रमाणानां प्रामाण्यस्य आत्मज्ञानोदयावसानत्वात् तस्मिन्नुत्पन्ने व्यवहारस्य निरवकाशत्वात् , न तत्प्रति नियमाय ज्ञानिनो विधिरित्यर्थः ।
उक्तमेव व्यक्तीकरोति -
नहीति ।
धर्माधिगमवदात्माधिगमेऽपि किमिति यथोक्तो व्यवहारो न भवति ? इत्याशङ्क्याह -
प्रमातृत्वं हीति ।
तन्निवृत्तौ कथमद्वैतज्ञानस्य प्रामाण्यम् ? इत्याशङ्क्याह -
निवर्तयदेवेति ।
निवर्तयत् अद्वैतज्ञानं स्वयं निवृत्तेर्न प्रमाणम् , इत्यत्र दृष्टान्तमाह -
स्वप्नेति ।
आत्मज्ञानस्य विध्यनपेक्षत्वे हेत्वन्तरमाह -
लोके चेति ।
व्यवहारभूमौ हि प्रमाणस्य वस्तुनिश्वयफलपर्यन्तत्वे सति प्रवर्तकविधिसापेक्षत्वानुपलम्भात् अद्वैतज्ञानमपि प्रमाणत्वात् न विधिमपेक्षते, रज्ज्वादिज्ञानवदित्यर्थः ।
आत्मज्ञानवतस्तन्निष्ठाविधिमन्तरेण ज्ञानमाहत्म्येनैव सिद्धत्वात् , तस्य कर्मसंन्यासेऽधिकारः, न कर्मणि, इत्युपसंहरति -
तस्मादिति
॥ ६९ ॥
ननु - असंन्यासिनापि विद्यावतां विद्याफलस्य मोक्षस्य लब्धुं शक्यत्वात् किमिति विदुषः संन्यासो नियम्यते ? तत्राह -
विदुष इति ।
आपातज्ञानवतो विवेकवैराग्यादिविशिष्टस्य एषणाभ्यः सर्वाभ्योऽभ्युत्थितस्य श्रवणादिद्वारा समुत्पन्नसाक्षात्कारवतो मुख्यस्य संन्यासिनो मोक्षः, न अन्यस्य विषयतृष्णापरिभूतस्य, इत्येतत् दृष्टान्तेन प्रतिपादयितुमिच्छन् , ‘रागद्वेषवियुक्तैस्तु’ (भ. गी. २. ६४) इति श्लोकोक्तमेवार्थं पुनराहेति योजना ।
अद्भिः समुद्रस्य समन्तात् पूर्यमाणत्वे वृद्धिह्रासवती तदीया स्थितिरापतेत् , इत्याशङ्क्याह -
अचलेति ।
नहि समुद्रस्योदकात्मकं प्रतिनियतं रूपं कदाचिद्विवर्धते ह्रसते वा । तेन तदीया स्थितिरेकरूपैवेत्यर्थः ।
तत्तन्नादेयाश्चेदापः समुद्रान्तर्गच्छन्ति, तर्हि तस्य विक्रियावत्त्वादप्रतिष्ठा स्यात् , इत्याशङ्क्याह -
स्वात्मस्थमिति ।
इच्छाविशेषा विषयाणामसंनिधौ विदुषि निर्विकारे प्रविशन्तोऽपि संनिधाने तस्मिन् प्रविशन्तो विकारमापादयेयुः, इत्याशङ्क्याह -
विषयेति ।
प्रवेशं विशदयति -
सर्वत इति ।
‘योऽकामः’(बृ. ४.४.६) इत्यादिश्रुतेः, विषयविमुखस्य निष्कामस्य मोक्षः, न कामकामुकस्येत्याह -
स शान्तिमिति
॥ ७० ॥
यदि गृहस्थेनापि मनसा समस्ताभिमानं हित्वा कूटस्थं ब्रह्म आत्मानं परिभावयता ब्रह्मनिर्वाणमाप्यते, प्राप्तं तर्हि मौढ्यादिविडम्बनमेव, इत्याशङ्क्याह -
यस्मादिति ।
शब्दादिविषयप्रवणस्य ततदिच्छाभेदमानिनो न मुक्तिः, इति व्यतिरेकस्य सिद्धत्वात् , पूर्वोक्तमन्वयं निगमयितुमनन्तरं वाक्यमित्यर्थः ।
अशेषविषयत्यागे जीवनमपि कथम् ? इत्याशङ्क्याह -
जीवनेति ।
सम्भवद्रागद्वेषादिके देशे निवासव्यावृत्त्यर्थं चरतीत्येतद् व्याचष्टे-
पर्यटतीति ।
‘विहाय कामान्’(भ. गी. २-७१) इत्यनेन पुनरुक्तिं परिहरति-
शरीरेति ।
निःस्पृहत्वमुक्त्वा निर्ममत्वं पुनर्वदन् , कथं पुनरुक्तिमार्थिकीं न पश्यसि ? इत्याशङ्क्याह -
शरीरजीवनेति ।
सत्यहङ्कारे ममकारस्य आवश्यकत्वात् निरहङ्कारत्वं व्याकरोति -
विद्यावत्त्वादीति ।
‘स शान्तिमाप्नोति’ इत्युक्तमुपसंहरति -
स एवंभूत इति ।
संन्यासिनो मोक्षमपेक्षमाणस्य सर्वकामपरित्यागादीनि श्लोकोक्तानि विशेषणानि यत्नसाध्यानि, तत्संमतिफलं तु कैवल्यमित्यर्थः ॥ ७१ ॥
तत्र तत्र सङ्क्षेपविस्तराभ्यां प्रदर्शितां ज्ञाननिष्ठामधिकारिप्रवृत्त्यर्थत्वेन स्तोतुमुत्तरश्लोकमवतारयति -
सैषेति ।
गृहस्थः संन्यासी इत्युभावपि चेन्मुक्तिभोगिनौ, किं तर्हि कष्टेन सर्वथैव संन्यासेन इत्याशङ्क्य, संन्यासिव्यतिरिक्तानामन्तरायसम्भवात् अपेक्षितः संन्यासो मुमुक्षोः, इत्याह -
एषेति ।
स्थितिमेव व्याचष्टे -
सर्वमिति ।
न विमुह्यतीति पुनर्नञोऽनुकर्षणमन्वयार्थम् । संन्यासिनो विमोहाभावेऽपि गृहस्थो धनहान्यादिनिमित्तं प्रायेण विमुह्यति । विक्षिप्तः सन् परमार्थविवेकरहितो भवतीत्यर्थः । यथोक्ता ब्राह्मी स्थितिः - सर्वकर्मसंन्यासपूर्विका ब्रह्मनिष्ठा, तस्यां स्थित्वा तामिमाम् , आयुषश्चतुर्थेऽपि भागे कृत्वेत्यर्थः ।
अपिशब्दसूचितं कैमुतिकन्यायमाह -
किमु वक्तव्यमिति ।
तदेवं तत्त्वम्पदार्थौ, तदैक्यम् , वाक्यार्थः, तज्ज्ञानादेकाकिनो मुक्तिः, तदुपायश्च - इत्येतेषामेकैकत्र श्लोके प्राधान्येन प्रदर्शितमिति निष्ठाद्वयमुपायोपेयभूतमध्यायेन सिद्धम् ॥ ७२ ॥