आनन्दगिरिटीका (गीताभाष्य)
तृतीयोऽध्यायः
पूर्वोत्तराध्याययोः सम्बन्धं वक्तुं पूर्वस्मिन्नध्याये वृत्तमर्थं सङ्क्षिप्यानुवदति -
शास्त्रस्येति ।
गीताशास्त्रप्रारम्भापेक्षितं हेतुफलभूतं बुद्धिद्वयं भगवतोपदिष्टमित्यर्थः ।
प्रष्टुरर्जुनस्याभिप्रायं निर्देष्टुं प्रवृत्तमर्थान्तरमनुवदति -
तत्रेति ।
अध्यायो बुद्धिद्वयनिर्धारणं वा सप्तम्यर्थः । पारमार्थिके तत्त्वे यज्ज्ञानं तन्निष्ठानामशेषकामत्यागिनां कामयुक्तानां कर्मिणामपि प्रतिपत्तिकर्मवत् त्यागं कर्तव्यत्वेन भगवानुक्तवानित्यर्थः ।
तथाऽपि मोक्षसाधने विकल्पसमुच्चययोरन्यतरस्य विवक्षितत्वबुद्ध्या समनन्तरप्रश्नप्रवृत्तिरित्याशङ्क्याह -
उक्तेति ।
अर्जुनस्य मनसि व्याकुलत्वं प्रश्नबीजं दर्शयितुमुक्तमर्थान्तरमनुभाषते -
अर्जुनाय चेति ।
साङ्ख्यबुद्धिमाश्रित्य कर्मत्यागमुक्त्वा, पुनस्तस्यैव कर्तव्यत्वं कथं मिथो विरुद्धं ब्रवीति ? इत्याशङ्क्याह -
योगेति ।
यथा साङ्ख्यबुद्धिमाश्रितानां संन्यासद्वारा तन्निष्ठानां कृतार्थतोक्ता, तथा योगबुद्धिमाश्रित्य कर्म कुर्वतोऽपि कृतार्थत्वमुक्तमित्याशङ्क्याह -
न तत एवेति ।
‘दूरेण ह्यवरं कर्म बुद्धियोगात्’(भ. गी. २-४९) इति दर्शनादिति शेषः ।
बुद्धिव्याकुलत्वं प्रश्नबीजं प्रतिलभ्य प्रश्नं करोतीत्याह -
तदेतदिति ।
साक्षादेव श्रेयःसाधनं ज्ञानमन्येभ्यो दर्शितं - तदित्युच्यते । तद्विपरीतं कर्म स्वस्यानुष्ठेयत्वेनोक्तम् - एतदिति निर्दिश्यते । भगवदुक्तेऽर्थे सन्दिह्यमानस्य निर्णयाकाङ्क्षया प्रश्नप्रवृत्तेरस्ति पूर्वोत्तराध्याययोरुत्थाप्योत्थापकलक्षणा सङ्गतिरित्यर्थः ।
अर्जुनस्य प्रश्ननिमित्तं पर्याकुलत्वं प्रपञ्चयति -
कथमित्यादिना ।
यद्धि साक्षादेव श्रेयःसाधनं साङ्ख्यशब्दितपरमार्थतत्त्वविषयबुद्धौ निष्ठारूपं, तद् अन्यस्मै श्रेयोऽर्थिने भक्ताय श्रावयित्वा, मां पुनरभक्तम् अश्रेयोऽर्थिनमिव कर्मणि पूर्वोक्तविपरीते कथं भगवान् नियोक्तुमर्हतीत्यर्जुनस्य पर्याकुलीभावो युक्त इति सम्बन्धः ।
ज्ञाननिष्ठातो वैपरीत्यं स्फोरयितुं कर्म विशिनष्टि -
दृष्टेति ।
युद्धे हि क्षत्रकर्मणि दृष्टोऽनेकोऽनर्थो गुरुभ्रातृहिंसादिः तेन सम्बद्धे बुद्धिशुद्धिद्वाराऽपि वर्तमाने जन्मन्येव फलमित्यनियते । मम -भक्तस्य श्रेयोऽर्थिनो नियोगो भगवता युक्तो न भवतीति शेषः ।
यथोक्तं निमित्तं प्रश्नस्य युक्तं तदनुगुणत्वात् तस्येति द्योतकमाह -
तदनुरूपश्चेति ।
ज्ञाननिष्ठानां कृतार्थता, कर्मनिष्ठानां तु न तथेत्युक्तम् ।
विभागभागि शास्त्रमित्यत्र ‘लोकेऽस्मिन्’(भ. गी. ३-३) इत्यादिवाक्यस्यापि द्योतकत्वं दर्शयति -
प्रश्नेति ॥
साक्षादेव श्रेयःसाधनमन्येभ्यो भगवतोक्तम्, न तु मह्यमिति मत्वा व्याकुलीभूतः सन् पृच्छतीति स्वाभिप्रायेण सम्बन्धमुक्त्वा वृत्तिकाराभिप्रायं दूषयति -
केचित्त्विति ।
ज्ञानकर्मणोः समुच्चयमवधारयितुं प्रश्नाङ्गीकारे समुच्चयावधारणेनैव प्रतिवचनमुचितम् । न च तथा भगवता प्रतिवचनमुक्तम् । तथा च प्रश्नस्य समुच्चयविषयत्वोपगमात् प्रत्युक्तेश्चासमुच्चयविषयत्वात् तयोर्मिथो विरोधो वृत्तिकारमते स्यादित्यर्थः ।
किञ्च, केवलं प्रश्नप्रतिवचनयोरेव परमते परस्परविरोधो न भवति, अपि तु परेषां स्वग्रन्थेऽपि पूर्वापरविरोधोऽस्तीत्याह -
यथा चेति ।
आत्मना - वृत्तिकारैरिति यावत् । सम्बन्धग्रन्थः - गीताशास्रारम्भोपोद्घातः । इहेति तृतीयाध्यायारम्भं परामृशति । तदेव विवृण्वन्नाकाङ्क्षामाह -
कथमिति ।
पूर्वापरविरोधं स्फोरयितुं सम्बन्धग्रन्थोक्तमनुवदति -
तत्रेति ।
परकीया वृत्तिः सप्तम्या समुल्लिख्यते । सम्बन्धग्रन्थे तावदयमर्थ उक्त इति सम्बन्धः ।
तमेवार्थं विशदयति -
सर्वेषामिति ।
सर्वकर्मसंन्यासपूर्वकज्ञानादेव केवलात् कैवल्यमित्यस्मिन्नर्थे शास्त्रस्य पर्यवसानान्न समुच्चयो विवक्षितस्तत्रेत्याशङ्क्याह -
पुनरिति ।
उक्तगीतार्थो वृत्तिकारैरेव कर्मत्यागायोगेन विशेषितत्वान्नाविवक्षितोऽलं भवितुमुत्सहते । तथा च श्रौतानि कर्माणि त्यक्त्वा ज्ञानादेव केवलान्मुक्तिर्भवतीत्येतन्मतं नियमेनैव यावज्जीवश्रुतिभिर्विप्रतिषिद्धत्वात् नाभ्युपगन्तुमुचितमित्यर्थः।
तथाऽपि कथं मिथो विरोधधीरित्याशङ्क्याह -
इह त्विति ।
प्रथमतो हि सम्बन्धग्रन्थे समुच्चयो गीतार्थप्रतिपाद्यत्वेन वृत्तिकृता प्रतिज्ञातः । श्रौतकर्मपरित्यागश्च श्रुतिविरोधादेव न सम्भवतीत्युक्तम् । तृतीयाध्यायारम्भे पुनः संन्यासिनां ज्ञाननिष्ठा, कर्मिणां कर्मनिष्ठेत्याश्रमविभागमभिदधता पूर्वप्रतिषिद्धकर्मत्यागाभ्युपगमान्मिथो विरोधो दर्शितः स्यादित्यर्थः ।
ननु यथा भगवता प्रतिपादितं, तथैव वृत्तिकृता व्याख्यातमिति न तस्यापराधोऽस्तीत्याशङ्क्याह -
तत्कथमिति ।
न हीह भगवान् विरुद्धमर्थमभिधत्ते, सर्वज्ञस्य परमाप्तस्य विरुद्धार्थवादित्वायोगात् । किन्तु तदभिप्रायापरिज्ञानादेव व्याख्यातुर्विरुद्धार्थवादितेत्यर्थः ।
भगवतो विरुद्धार्थवादित्वाभावेऽपि श्रोतुर्विरुद्धार्थप्रतिपत्तिं प्रतीत्य व्याचक्षाणो वृत्तिकारो नापराध्यतीत्याशङ्क्याह -
श्रोता वेति ।
अर्जुनो हि श्रोता । सोऽपि बुद्धिपूर्वकारी भगवदुक्तमेवावधारयन् न विरुद्धमर्थमवधारयितुमर्हति । तथा च परस्यैव विरुद्धार्थवादितेत्यर्थः ॥
विरोधं परिहरन् आशङ्कते -
तत्रेति ।
सम्बन्धग्रन्थे हि वृत्तिकारस्यैतदभिप्रेतम् - गृहस्थानामेव सतां परिपक्कज्ञानमन्तरेण यावज्जीवश्रुतिचोदिताग्निहोत्रादित्यागेन केवलादेवापातिकादात्मज्ञानात् मोक्षमपेक्षमाणानां यावज्जीवादिशास्रैरसौ निषिध्यते, न तु स्वरूपेणैव कर्मत्यागो ज्ञानान्मोक्षो वा निषेद्धुमिष्यते । तृतीये पुनरध्याये कर्मत्यागिनां गृहस्थेभ्यो व्यतिरिक्तानामेव केवलादात्मज्ञानान्मोक्षो विवक्ष्यते । अतो भिन्नाविषयत्वान्निषेधाभ्यनुज्ञानयोर्नविरोधाशंकेत्यर्थः।
विरोधान्तरेण विरोधं दर्शयन्नुत्तरमाह -
एतदपीति ।
विरोधमेवाकाङ्क्षाद्वारा साधयति -
कथमित्यादिना ।
श्रौतं कर्म गृहस्थानामवश्यमनुष्ठेयमित्यनेनाभिप्रायेण तेषां केवलादात्मज्ञानान्मोक्षो निषिध्यते । न तु गृहस्थानां ज्ञानमात्रायत्तं मोक्षं प्रतिषिध्य अन्येषां केवलज्ञानाधीनो मोक्षो विवक्ष्यते, आश्रमान्तराणामपि स्मार्तेन कर्मणा समुच्चयाभ्युपगमादिति चोदयति -
अथेति ।
एतत्परामृष्टं वचनमेवाभिनयति -
केवलादिति ।
ननु गृहस्थानां श्रौतकर्मराहित्येऽपि, सति स्मार्ते कर्मणि कुतो ज्ञानस्य केवलत्वं लभ्यते ? येन निषेधोक्तिरर्थवती, तत्राह -
तत्रेति ।
प्रकृतवचनमेव सप्तम्यर्थः, प्रधानं हि श्रौतं कर्म । तद्राहित्ये सति, स्मार्तस्य कर्मणः सतोऽप्यसद्भावमभिप्रेत्य ज्ञानस्य केवलत्वमुक्तमिति युक्ता निषेधोक्तिरित्यर्थः ।
गृहस्थानामेव श्रौतकर्मसमुच्चयो नान्येषाम् , अन्येषां तु स्मार्तेनेति पक्षपाते हेत्वभावं मन्वानः सन् परिहरति -
एतदपीति ।
तमेव हेतभावं प्रश्नद्वारा विवृणोति -
कथमित्यादिना ।
गृहस्थानां श्रौतस्मार्तकर्मसमुच्चितं ज्ञानं मुक्तिहेतुरित्यभ्युपगमात् केवलस्मार्तकर्मसमुच्चितात् ततो न मुक्तिरिति निषेधो युज्यते । ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मुक्तिरिति विभागे नास्ति हेतुरित्यर्थः ।
पक्षपाते कारणं नास्तीत्युक्त्वा पक्षपातपरित्यागे कारणमस्तीत्याह -
किञ्चेति ।
गृहस्थानामपि ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षसाधनं, ब्रह्मज्ञानत्वादूर्ध्वरेतःसु व्यवस्थितब्रह्मज्ञानवदिति पक्षपातत्यागे हेतुं स्फुटयति -
यदीत्यादिना ॥
यदि गृहस्थानां ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षहेतुरिति विवक्षितं, तदा तान् प्रति यावज्जीवश्रुतिर्विरुध्येत । यदि स्मार्तैरपि कर्मभिः समुच्चितं तदीयं ज्ञानं मोक्षसाधनं विवक्ष्यते, तदा सिद्धसाध्यतेति प्रागुक्तमभिप्रेत्य चोदयति -
अथेति ।
आश्रमान्तराणां तर्हि केवलादेव ज्ञानान्मुक्तिरिति प्रागुक्तविरोधतादवस्थ्यमित्याशङ्क्याह -
ऊर्ध्वरेतसां त्विति ।
यथोक्ते विभागे, गार्हस्थ्यं क्लेशात्मककर्मबाहुल्यादनुपादेयमापद्येतेति दूषयति -
तत्रेति ।
साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य शङ्कते -
अथेति ।
क्लेशबाहुल्योपेतं श्रौतं स्मार्तं च बहु कर्म । तस्यानुष्ठानाद् गृहस्थस्य मोक्षः स्यादेवेत्यर्थः ।
एवकारनिरस्यं दर्शयति -
नाश्रमान्तराणामिति ।
तेषां नास्ति मुक्तिरित्यत्र यावज्जीवादिश्रुतिविहितावश्यानुष्ठेयकर्मराहित्यं हेतुं सूचयति -
श्रौतेति ।
शास्त्रविरोधिन्यायस्य निरवकाशत्वमभिप्रेत्य दूषयति -
तदपीति ।
ऐकाश्रम्यस्मृत्या गार्हस्थ्यस्यैव प्राधान्यादनधिकृतान्धादिविषयं कर्मसंन्यासविधानमित्याशङ्क्याह -
ज्ञानाङ्गत्वेनेति ।
न खल्वनधिकृतानामन्धादीनां संन्यासः श्रवणाद्यावृत्तिद्वारा ज्ञानाङ्गं भवितुमलम्, तेषां श्रवणाद्यभ्यासासामर्थ्यात् । अतः श्रुत्यादीनां विरोधे नास्ति गार्हस्थ्यस्य प्राधान्यमित्यर्थः ।
तस्य प्राधान्याभावे हेत्वन्तरमाह -
आश्रमेति ।
‘ब्रह्मचर्यं समाप्य गृही भवेद् , गृहाद्वनी भूत्वा प्रव्रजेद् , यदि वा इतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद् वा वनाद् वा‘(जा. उ. ४., या. उ. १) इति श्रुतौ, ‘तस्याश्रमविकल्पमेके ब्रुवते’(गौ. ध. ३-१) इति ‘यमिच्छेत् तमावसेत्’(व. ८-२ ?) इत्यादिस्मृतौ च आश्रमाणां समुच्चयेन विकल्पेन चाश्रमान्तरमिच्छन्तं प्रति विधानान्न गार्हस्थ्यस्य प्रधानत्वमित्यर्थः ॥
यदि सर्वेषामाश्रमाणां श्रुतिस्मृतिमूलत्वं, तर्हि तत्तदाश्रमविहितकर्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते -
सिद्धस्तर्हीति ।
यद्यपि ज्ञानोत्पत्तावाश्रमकर्मणां साधनत्वं, तथाऽपि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षते, अन्यथा संन्यासविध्यनुपपत्तेरिति दूषयति -
न मुमुक्षोरिति ।
संन्यासविधानमेवानुक्रामति -
व्युत्थायेत्यादिना ।
एषणाभ्यो वैमुख्येनोत्थानं - तत्परित्यागः ।
आश्रमसम्पत्त्यनन्तरं तत्र विहितधर्मकलापानुष्ठानमपि कर्तव्यमित्याह -
अथेति ।
प्रागुक्तानां सत्यादीनामल्पफलत्वाद् न्यासस्य च ज्ञानद्वारा मोक्षफलत्वादित्याह -
तस्मादिति ।
अतिरिक्तम् -अतिशयवन्तं, महाफलमिति यावत् ।
प्रकृतकर्मभ्यः सकाशान्न्यास एवातिशयवान् आसीदित्युक्तेऽर्थे वाक्यान्तरं पठति -
न्यास एवेति ।
लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद् विरक्ताः संन्यासपूर्वकादात्मज्ञानादेव प्राप्तवन्तो मोक्षमित्याह -
न कर्मणेति ।
सति वैराग्य नास्ति कर्मापेक्षा, सत्यां सामग्र्यां कार्याक्षेपानुपपत्तेरित्याह -
ब्रह्मचर्यादेवेति ।
इत्याद्याः - सर्वकर्मसंन्यासविधायिन्यः, श्रुतयः, भवन्तीति शेषः ।
‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४-४-२२) इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । तत्रैव स्मृतिमुदाहरति -
त्यजेति ।
धर्माधर्मयोः सत्यानृतयोश्च संसारारम्भ्कत्वाद् मुमुक्षुणा तत्त्यागे प्रयतितव्यमित्यर्थः ।
त्यक्तृत्वाभिमानस्यापि तत्त्वतः स्वरूपसम्बन्धाभावात् त्याज्यत्वमविशिष्टमित्याह -
येनेति ।
अनुभवानुसारेण प्रमातृताप्रमुखरय संसारस्य दुःखफलत्वमालक्ष्य मोक्षहेतुसम्यग्ज्ञानसिद्धये ब्रह्मचर्यादेव पारिव्रज्यमनुष्ठेयमित्युत्पत्तिविधिमुपन्यस्यति -
संसारमिति ।
तत्त्वज्ञानमुद्दिश्य ब्रह्मचर्यादेव कर्मसंन्याससामग्रीमभिदधानो विनियोगविधिं सूचयति -
परमिति ।
ज्ञानकर्मणोरसमुच्चयार्थं फलविभागं कथयति -
कर्मणेति ।
उक्तं फलविभागमनूद्य ज्ञाननिष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह -
तस्मादिति ।
वाक्यशेषेऽपि सर्वकर्मसंन्यासो विवक्षितोऽस्तीत्याह -
इहापीति ॥
ज्ञानार्थिनो मुमुक्षोः संन्यासविध्यनुपपत्तिबाधितं समुच्चयविधिवचनमित्युक्तम् ; इदानाीं मोक्षस्वभावालोचनयाऽपि समुच्चयवचनमनुचितमित्याह -
मोक्षस्य चेति ।
‘अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ॥‘(मनु ११ - १४)
इति स्मृतेः मुमुक्षुणाऽपि प्रत्यवायनिवृत्तये कर्तव्यं नित्यकर्मेति शङ्कते -
नित्यानीति ।
यो यस्मिन् कर्मण्यधिकृतस्तस्य तदकरणात् प्रत्यवायो भवति, न तु कर्मानधिकारिणः संन्यासिनस्तदकरणात् प्रत्यवायः सम्भवतीति दूषयति -
नासंन्यासीति ।
तदेव स्पष्टयति -
न हीति ।
समिद्धोमाध्ययनाद्यकरणात् प्रत्यवायः संन्यासिनो नास्तीत्यर्थः ।
तत्र व्यतिरेकोदाहरणमाह -
यथेति ।
अकरणात् प्रत्यवायोत्पत्तिमभ्युपेत्योक्तं ; सम्प्रति प्रतिषिद्धकरणादेव प्रत्यवायो न त्वकरणात् अभावाद् भावोत्पत्तेर्लोकवेदविरुद्धत्वादित्याह -
न तावदिति ।
ननु नित्यकर्मविधायी वेदस्तदकरणात् प्रत्यवायो भवतीति ब्रवीति, तत् कथमकरणात् प्रत्यवायो न भवतीति श्रुतिमाश्रित्योच्यते, श्रुत्यन्तरविरोधादिति, तत्राह -
यदीति ।
विहितस्याकरणे सति अनर्थप्राप्तेर्न नित्यकर्मविधायी वेदोऽनर्थकरत्वेनाप्रमाणमित्याशङ्क्याह -
विहितस्येति ।
न विहितस्य करणे पितृलोकप्राप्तिलक्षणं फलं भवतेष्यते, धूमादिना नयनपीडादिदुःखं तु प्रत्यक्षमेव, अकरणे च प्रत्यवायोत्पत्तिः, उभयथाऽपि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः ।
नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यति, तथा च विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति, नेत्याह -
तथा चेति ।
लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारात् अपूर्वशक्त्याधानायोगाद् ज्ञापकमेव शास्त्रमित्यर्थः ।
कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह -
कारकमिति ।
भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्यपौरुषेयतया शेषदोषानागान्धितत्वाद् मैवमित्याह -
न चेति ।
अनिर्वाच्यानुपलम्भस्य संवेदनमभावज्ञाने कारणं, समीहितसाधनज्ञानं तु चरणन्यासादि प्रवृत्तिक्रारणमित्यङ्गीकृत्योपसंहरति -
तस्मादिति ।
अकरणात् प्रत्यवायोत्पत्यसम्भवस्तच्छब्दार्थः ।
संन्यासिनां - ज्ञाननिष्ठानां, कर्मसंन्यासित्वादेव कर्मासम्भवे फलितमाह -
अत इति ।
समुच्चयानुपपत्तौ हेत्वन्तरमाह -
ज्यायसीति ।
प्रश्नानुपपत्तिमेव प्रपञ्चयति -
यदि हीति ।
समुच्चयोपदेशे प्रश्नैकदेशानुपपत्तेश्च न तदुपदेशोपपत्तिरित्याह -
अर्जुनायेति ।
‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’(भ. गी. २-४७) इत्यर्जुनं प्रत्युपदेशात् तं प्रति ज्यायसी बुद्धिर्नोक्तेति युक्तं, ‘तत् किम्’(भ. गी. ३-१) इत्याद्युपालम्भवचनमित्याशङ्क्याह -
नचेति ।
येन कल्पनेन ‘ज्यायसी चेद्’(भ. गी. ३-१) इत्यारभ्यं ‘तत्किं कर्मणि’(भ. गी. ३-१) इत्युपालम्भात्मा प्रश्नः स्यात् तथा न युक्तं कल्पयितुम् ‘एषा तेऽभिहिता साङ्ख्ये बुद्धि’(भ. गी. २-३९) इति वचनविरोधादिति योजना ।
कस्मिन् पक्षे तर्हि प्रश्नस्योपपत्तिरित्याशङ्क्याह -
यदीति ।
भगवदुक्तेऽर्थे प्रष्टुर्विवेकाभावात् प्रश्नः स्यादित्याशङ्क्य पूर्वोक्तमेवाधिकविवक्षया स्मारयति -
अविवेकत इति ।
भगवतोऽपि प्रतिवचनम् अज्ञाननिमित्तं प्रश्नाननुरूपत्वादित्याशङ्क्य अधिकं दर्शयति -
नचेति ।
भगवतः सर्वज्ञत्वप्रसिद्धिविरोधाद् अज्ञानाधीनप्रतिवचनायोगादित्यर्थः ।
इतश्च समुच्चयः शास्त्रार्थो न भवतीत्याह -
अस्माच्चेति ।
कस्तर्हि शास्त्रार्थो विवक्षितः ? तत्राह -
केवलादिति ।
ज्ञानकर्मणोः समुच्चयानुपपत्तौ कारणान्तरमाह -
ज्ञानेति ।
वाक्यशेषवशादपि समुच्चयस्याशास्त्रार्थतेत्याह -
कुरु कर्मैवेति ।
प्राथमिकेन सम्बन्धग्रन्थेन समस्तशास्त्रार्थसङ्ग्राहकेण तद्विवरणात्मनोऽस्य सन्दर्भस्य नास्ति पौनरुक्त्यामिति मत्वा, प्रतिपदं व्याख्यातुं प्रश्नैकदेशं समुत्थापयति -
ज्यायसी चेदिति ।
वेदाश्चेत् प्रमाणमितिवत् चेदित्यस्य निश्चयार्थत्वं व्यावर्तयति -
यदीति ।
बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यवच्छिनत्ति -
ज्ञानमिति ।
पूर्वार्धस्याक्षरयोजनां कृत्वा समुच्चयाभावे तात्पर्यमाह -
यदीति ।
इष्टे,भगवतेति शेषः । एकं ज्ञानं कर्म च समुच्चितमिति यावत् । ज्ञानकर्मणोरभीष्टे समुच्चये समुच्चितस्य श्रेयःसाधनस्यैकत्वात् कर्मणः सकाशाद् ज्ञानस्य पृथक्करणमयुक्तमित्यर्थः ।
एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादित्याशङ्क्याह -
नहीति ।
नच केवलात् कर्मणो ज्ञानस्य केवलस्य फलतोऽतिरिक्तत्वं विवक्षित्वा पृथक्करणं, समुच्चयपक्षे प्रत्येकं श्रेयः साधनत्वानभ्युपगमादिति भावः ।
पूर्वार्धस्येवोत्तरार्धस्यापि समुच्चयपक्षे तुल्यानुपपत्तिरित्याह -
तथेति ।
‘दूरेण ह्यवरं कर्म ‘(भ. गी. २-३०) इत्यत्र कर्मणः सकाशाद् बुद्धिः श्रेयस्करी भगवतोक्ता । कर्म च बुद्धेः सकाशादश्रेयस्करमुक्तम् । तथाऽपि तदेव कर्म ‘कर्मण्येवाधिकारस्ते मा फलेषु’(भ. गी. २-४७) इति स्निग्धं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति, तत्र कारणानुपलम्भादयुक्तम् , अतिक्रूरे कर्मणि भगवतो मन्नियोजनमिति यदर्जुनो ब्रवीति, तच्च समुच्चयपक्षेऽनुपपन्नः स्यादित्यर्थः ।
यत्तु वृत्तिकारैुरुक्तं ‘श्रौतेन स्मार्तेन च कर्मणा समुच्चयो गृहस्थानां श्रेयःसाधनम् , इतरेषां स्मार्तेनैवेति भगवतोक्तमर्जुनेन च निर्धारितम्’ इति, तदेतदनुवदति –
अथेति ।
तत्रापि ’तत्किम्’इत्याद्युपालम्भवचनमनुपपन्नं, कर्ममात्रसमुच्चयवादिनो भगवतो नियोजनाभावादिति दूषयति –
तत्किमिति
॥१॥
इतश्च प्रश्नः समुच्चयानुसारी न भवतीत्याह –
किञ्चेति ।
भगवतो विविक्तार्थवादित्वादयुक्तं व्यामिश्रेणेत्यादिवचनमित्याशङ्क्याह –
यद्यपीति ।
यदि भगवद्वचनं सङ्कीर्णमिव ते भाति, तर्हि तेन त्वदीयबुद्धिव्यामोहनमेव तस्य विवक्षितमिति, किमिति मोहयसीवेत्युच्यते ? तत्राह –
ममेति ।
ज्ञानकर्मणि मिथो विरोधाद् युगपदेकपुरुषाननुष्ठेयतया भिन्नकर्तृके कथ्येते, तथा च तयोरन्यतरस्मिन्नेव त्वं नियुक्तः, न तु ते बुद्धिव्यामोहनमभिमतमिति, भगवतो मतमनुवदति –
त्वं त्विति ।
तदेकमित्यादिश्लोकार्धेनोत्तरमाह –
तत्रेति ।
उक्तं भागवतमतं सप्तम्या परामृश्यते । एकमित्युक्तप्रकारोक्तिः ।
एकमित्युक्तमेव स्फुटयति –
बुद्धिमिति ।
निश्चयप्रकारं प्रकटयति –
इदमिति ।
योग्यत्वं स्पष्टयति –
बुद्धीति ।
अस्य क्षत्रियस्य सतोऽन्तःकरणस्य देहशक्तेः समरसमारम्भावस्थायाश्चेदमेव ज्ञानं वा अनुगुणमिति निर्धार्य ब्रूहीत्यर्थः ।
निश्चित्यान्यतरोक्तौ तेन श्रोतुः श्रेयोऽवाप्तिं फलमाह -
येनेति ।
तदेकमित्यादिवाक्यस्याक्षरोत्थमर्थमुक्त्वा, समुच्चयस्य शास्त्रार्थत्वाभावे तात्पर्यमाह -
यदि हीति ।
गुणभूतमपीत्यादिना प्रधानभूतमपि वेति विवक्षितम् ।
ननु उभयप्राप्त्यसम्भवमात्मनो मन्यमानस्यार्जुनस्यान्यतरविषया शुश्रूषा भविष्यति ? नेत्याह -
न हीति ।
यथोक्तभगवद्वचनाभावे द्वयप्राप्त्यसम्भवबुद्ध्या नान्यतरप्रार्थना सम्भवतीत्याह -
येनेति ।
नहि तथाविधं भगवद्वचनं भवतेष्टं, भगवतः समुच्चयवादित्वाङ्गीकारात् । अतस्तदभावादुक्तबुद्ध्या न युक्ताऽन्यतरप्रार्थनेत्यर्थः ॥ २ ॥
सम्मुच्चयविरोधितया प्रश्नं व्याख्याय तद्विरोधित्वेनैव प्रतिवचनमुत्थापयति -
प्रश्नेति।
येयं व्यवहारभूमिरुपलभ्यते, तत्र त्रैवर्णिकाः ज्ञानं कर्म वा शास्त्रीयमनुष्ठातुमधिक्रियन्ते। तेषां द्विधा स्थितिर्मया प्रोक्तेति पूर्वार्धं योजयति -
लोकेऽस्मिन्निति।
स्थितिमेव व्याकरोति -
अनुष्ठेयेति।
पूर्वं प्रवचनप्रसङ्गं प्रदर्शयन् प्रवक्तारं विशिनष्टि -
सर्गादाविति।
प्रवचनस्यायथार्थत्वशङ्कां वारयति -
सर्वज्ञेनेति।
अर्जुनस्य भगवदुपदेशयोग्यत्वं सूचयति -
अनघेति।
निर्धारणार्थे तत्रेति सप्तमी । ज्ञानं - परमार्थवस्तुविषयं तदेव योगशब्दितं, युज्यतेऽनेन ब्रह्मणेति व्युत्पत्तेस्तेन । निष्ठेत्यनुवर्तते।
उक्तज्ञानोपायमुपदिदिक्षुः साङ्ख्यशब्दार्थमाह -
आत्मेति।
तेषामेव कर्मनिष्ठत्वं व्यावर्तयति -
ब्रह्मचर्येति।
तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति -
वेदान्तेति।
उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति -
परमहंसेति।
कर्म - वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्थेन निष्ठा कर्मिणां प्रोक्तेत्यनुषङ्गं दर्शयन्नाह -
कर्मैवेत्यादिना ।
एवं प्रतिवचनवाक्यस्थान्यक्षराणि व्याख्याय तस्यैव तात्पर्यार्थं कथयति -
यदि चेति।
इष्टस्यापि दुर्बोधत्वमाशङ्क्याह -
उक्तमिति।
ज्ञानस्यापि मूलविकलतया विभ्रमत्चमाशङ्क्याह -
वेदेष्विति।
तस्याशिष्यत्वबुद्ध्या अन्यथाकथनमित्याशङ्क्याह -
उपसन्नायेति।
तथापि तस्मिन् औदासीन्यादन्यथोक्तिरित्याशङ्क्याह -
प्रियायेति।
ब्रवीति च भिन्नपुरुषकर्तृकं निष्ठाद्वयं, तेन समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः।
नन्वर्जुनस्य प्रेक्षापूर्वकारित्वाद् ज्ञानकर्मश्रवणानन्तरमुभयनिर्देशानुउपपत्त्या समुच्चयानुष्ठानं सम्पत्स्यते, तद्व्यतिरिक्तानां तु ज्ञानकर्मणोर्भिन्नपुरुषानुष्ठेयत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते, तस्यार्जुनेऽनुरागातिरेकादितरेषु च तदभावादिति तत्राह -
यदि पुनरिति।
अप्रमाणभूतत्वम् - अनाप्तत्वम् ।न च भगवतो रागादिमत्त्वेनाप्तत्वं युक्तम्, ’समं सर्वेषु भूतेषु तिष्ठन्तम्’ इत्यादिविरोधादित्याह -
तच्चेति।
निष्ठाद्वयस्य भिन्नपुरुषानुष्ठेयत्वनिर्देशफलमुपसंहरति -
तस्मादिति।
॥३॥
किमिति भगवता बुद्धेर्ज्यायस्त्वं ’ज्यायसी चेद्’ इत्यत्रोक्तमुपेक्षितमिति, तत्राह -
यदर्जुनेनेति।
किं च ज्ञाननिष्ठायां संन्यासिनामेवाधिकारो भगवतोऽभिप्रेतः, अन्यथा तदीयविभागवचनविरोधादिति विभागवचनसामर्थ्यसिद्धमर्थमाह -
तस्याश्चेति
॥३॥
तर्हि विभागवचनानुरोधादर्जुनस्यापि संन्यासपूर्विकायां ज्ञाननिष्ठायामेवाधिकारो भविष्यति, नेत्याह -
मां चेति ।
बुद्धेर्ज्यायस्त्वमुपेत्यापीति चकारार्थः । अर्जुनमालक्ष्य भगवानाहेति सम्बन्धः ।
अन्तरेणापि कर्माणि, श्रवणादिभिर्ज्ञानावाप्तिर्भविष्यतीति परबुद्धिमनुरुध्य विशिनष्टि -
कर्मेति ।
विभागवचनवशादसमुच्चयश्चेद् उभयोरपि ज्ञानकर्मणोः स्वातन्त्र्येण पुरुषार्थहेतुत्वम् , अन्यथा कर्मवद् ज्ञानमपि न स्वातन्त्र्येण पुरुषार्थं साधयेद् इत्याशङ्क्य सम्बन्धान्तरमाह -
अथवेति ।
तर्हि ज्ञाननिष्ठाऽपि कर्मनिष्ठावन्निष्ठात्वाविशेषान्न स्वातन्त्र्येण पुरुषार्थहेतुरिति । समुच्चयसिद्धिरित्याशङ्क्याह -
ज्ञाननिष्ठा त्विति ।
नहि रज्जुतत्त्वज्ञानमुत्पन्नं फलसिद्धौ सहकारिसापेक्षमालक्ष्यते । तथेदमपि च उत्पन्नं मोक्षाय नान्यदपेक्षते । तदाह -
अन्येति ।
‘यस्य वा एतत् कर्म’(कौ. उ. ४. १७) इति श्रुताविव कर्मशब्दस्य क्रियमाणवस्तुविषयत्वमाशङ्क्य व्याचष्टे -
क्रियाणामिति ।
ताश्चनित्यनैमित्तिकत्वेन विभजते -
यज्ञादीनामिति ।
अस्मिन्नेव जन्मनि अनुष्ठितानां कर्मणां बुद्धिशुद्धिद्वारा ज्ञानकारणत्वे, ब्रह्मचारिणां कुतो ज्ञानोत्पत्तिर्जन्मान्तरकृतानां कर्मणां वा तथात्वे, गृहस्थादीनामैहिकानि कर्माणि न ज्ञानहेतवः स्युरित्याशङ्क्य अनियमं दर्शयति -
इहेति ।
नेमानि सत्त्वशुद्धिकारणानि उपात्तदुरितप्रतिबन्धादित्याशङ्क्याह -
उपात्तेति ।
तर्हि तावतैव कृतार्थानां कुतो ज्ञाननिष्ठाहेतुत्वं, तत्राह -
तत्कारणत्वेनेति ।
कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वे मानमाह -
ज्ञानमिति ।
अनारम्भशब्दस्योपक्रमविपरीतविषयत्वं व्यावर्तयति-
अननुष्ठानादिति ।
निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्कर्म्यमिति व्याचष्टे -
निष्कर्मेति ।
कर्माभावावस्थां व्यवच्छिनत्ति -
ज्ञानयोगेनेति ।
तस्याः साधनपक्षपातित्वं व्यावर्तयति -
निष्क्रियेति ।
कर्मानुष्ठानोपायलब्धा ज्ञाननिष्ठा स्वतन्त्रा पुमर्थहेतुरिति प्रकृतार्थसमर्थनार्थं व्यतिरेकवचनस्यान्वये पर्यवसानं मत्वा व्याचष्टे -
कर्मणामिति ।
तद्विपर्ययमेव व्याचष्टे -
तेषामिति ।
उक्तेऽर्थे हेतुं पृच्छति -
कस्मादिति ।
जिज्ञासितं हेतुमाह -
उच्यत इति ।
उपायत्वेऽपि तदभावे कुतो नैष्कर्म्यासिद्धिरित्याशङ्क्याह -
नहीति ।
ज्ञानयोगं प्रति कर्मयोगस्योपायत्वे श्रुतिस्मृती प्रमाणयति -
कर्मयोगेति ।
श्रौतमुपायोपेयत्वप्रतिपादनं प्रकटयति -
श्रुताविति ।
यत्तु गीताशास्त्रे कर्मयोगस्य ज्ञानयोगं प्रत्युपायत्वोपपादनं, तदिदानीमुदाहरति -
इहापि चेति ।
न कर्मणामित्यादिना पूर्वार्धं व्याख्याय, उत्तरार्धं व्याख्यातुमाशङ्कयति -
नन्विति ।
आदिशब्देन ‘शान्तो दान्त उपरतस्तितिक्षुः’(बृ. उ. ४-४-२३) , ‘संन्यासयोगाद् यतयः शुद्धसत्त्वाः’(मु. उ. ३-२-६) इत्यादि गृह्यते ।
तत्रैव लोकप्रसिद्धिमनुकूलयति -
लोके चेति ।
प्रसिद्धतरं, ‘यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥‘(सं. शा. ३. ३६४) इत्यादिदर्शनादिति शेषः ।
लौकिकवैदिकप्रसिद्धिभ्यां सिद्धमर्थमाह -
अतश्चेति ।
तत्रोत्तरत्वेनोत्तरार्धमवतार्य, व्याकरोति -
अत आहेत्यादिना ।
एवकारार्थमाह -
केवलादिति ।
तदेव स्पष्टयति -
कर्मेति ।
उक्तमेव नञमनुकृष्य क्रियापदेन सङ्गतिं दर्शयति -
न प्राप्नोतीति
॥ ४ ॥
उक्तेऽर्थे बुभुत्सितं हेतुं वक्तुमुत्तरश्लोकमुत्थापयति -
कस्मादिति ।
कस्मान्न कर्मसंन्यासादेव सिद्धिमधिगच्छतीति पूर्वेण सम्बन्धः ।
कदाचित् - क्षणमात्रमपि, न कश्चिदकर्मकृत् तिष्ठतीत्यत्र हेतुत्वेनोत्तरार्धं व्याचष्टे -
कस्मादिति ।
सर्वशब्दाद् ज्ञानवानपि गुणैरवशः सन् कर्म कार्यते । ततश्च ज्ञानवतः संन्यासवचनमनवकाशं स्यादित्याशङ्क्याह -
अज्ञ इतीति ।
तमेव वाक्यशेषं वाक्यशेषावष्टम्भेन स्पष्टयति -
यत इति ।
आत्मज्ञानवतो गुणैरविचाल्यतया गुणातीतत्ववचनादज्ञस्यैव सत्त्वादिगुणैरिच्छाभेदेन कार्यकरणसङ्घातं प्रवर्तयितुमशक्तस्य अजितकार्यकरणसङ्घातस्य क्रियासु प्रवर्तमानत्वमित्यर्थः ।
ज्ञानयोगेनेत्यादिना उक्तन्यायाच्च वाक्यशेषोपपत्तिरित्याह -
साङ्ख्यानामिति ।
ज्ञानिनां गुणप्रयुक्तचलनाभावेऽपि स्वाभाविकचलनबलात् कर्मयोगो भविष्यतीत्याशङ्क्याह -
ज्ञानिनां त्विति ।
प्रत्यगात्मनि स्वारसिकचलनासम्भवे प्रागुक्तं न्यायं स्मारयति -
तथा चेति
॥ ५ ॥
आत्मज्ञवदनात्मज्ञस्यापि तर्हि कर्माकुर्वतो न प्रत्यवायः, शरीरेन्द्रियसङ्घातं नियन्तुमसमर्थस्य मूर्खस्यापि संन्याससम्भवादित्याशङ्क्याह -
यस्त्विति ।
तस्य चोदिताकरणं तच्छब्देन परामृश्यते -
तदसदिति ।
मिथ्याचारत्वादिति भावः ।
मिथ्याचारतामेव वर्णयति -
कर्मेन्द्रियाणीति
॥ ६ ॥
अनात्मज्ञस्य चोदितमकुर्वतो जाग्रतो विषयान्तरदर्शनध्रौव्यात् मिथ्याचारत्वेन प्रत्यवायित्वमुक्त्वा विहितमनुतिष्ठतस्तस्यैव फलाभिलाषविकलस्य सदाचारत्वेन वैशिष्ट्यमाचष्टे -
यस्त्विन्द्रियाणीति ।
विहितमनुतिष्ठतो, मूर्खात् कर्म त्यजतो वैशिष्ट्यमक्षरयोजनया स्पष्टयति -
यस्तु पुनरिति
॥ ७ ॥
कर्मानुष्ठायिनो वैशिष्ट्यमुपदिष्टमनूद्य तदनुष्ठानमधिकृतेन कर्तव्यमिति निगमयति -
यत इति ।
उक्तमेव हेतुं भगवदनुमतिकथनेन स्फुटयति -
कर्मेति ।
इतश्च त्वया कर्तव्यं कर्मेत्याह -
शरीरेति ।
तन्नियत तस्याधिकृतस्येति सम्बन्धः ।
स्वर्गादिफले दर्शपूर्णमासादावधिकृतस्य तस्य तदपि नित्यं स्यादित्याशङ्क्य विशिनष्टि -
फलायेति ।
नित्यं - नियमेन कर्तव्यमित्यत्र हेतुमाह -
यत इति ।
हिशब्दोपात्तमुक्तमेव हेतुमनुवदति -
यस्मादिति ।
करणस्य अकरणाज्ज्यायस्त्वं प्रश्नपूर्वकं प्रकटयति -
कथमित्यादिना ।
सत्येव कर्मणि देहादिचेष्टाद्वारा शरीरं स्थातुं पारयति, तदभावे जीवनमेव दुर्लभं भवेदिति फलितमाह -
अत इति
॥ ८ ॥
‘कर्मणा बध्यते जन्तुः’(म. भा. १२-२४१-७) इति स्मृतेर्बन्धार्थं कर्म, तत्र श्रेयोऽर्थिना कर्तव्यमित्याशङ्कामनूद्य दूषयति -
यच्चेत्यादिना ।
कर्माधिकृतस्य तदकरणमयुक्तमिति प्रतिज्ञातं प्रश्नपूर्वकं विवृणोति -
कथमित्यादिना ।
फलाभिसन्धिमन्तरेण यज्ञार्थं कर्म कुर्वाणस्य बन्धाभावात् तादर्थ्येन कर्म कर्तव्यमित्याह -
तदर्थमिति ।
यज्ञार्थं कर्मेत्ययुक्तं, नहि कर्मार्थमेव कर्मेत्याशङ्क्य, व्याचष्टे -
यज्ञो वै विष्णुरिति ।
कथं तर्हि ‘कर्मणा बध्यते जन्तुः’(म. भा. १२-२४१-७) इति स्मृतिः ? तत्राह -
तस्मादिति ।
ईश्वरार्पणबुद्ध्या कृतस्य कर्मणो बन्धार्थत्वाभावे फलितमाह -
अत इति
॥ ९ ॥
नित्यस्य कर्मणो नैमित्तिकसहितस्य अधिकृतेन कर्तव्यत्वे हेत्वन्तरपरत्वेनानन्तरश्लोकमवतारयति -
इतश्चेति ।
कथं पुनरनेन यज्ञेन वृद्धिरस्माभिः शक्या कर्तुमित्याशङ्क्याह -
एष इति
॥ १० ॥
कथं पुनरभीष्टफलविशेषहेतुत्वं यज्ञस्य विज्ञायते ? नहि देवताप्रसादादृते स्वर्गादिरभ्युदयो लभ्यते, नापि सम्यग्दर्शनमन्तरेण निश्श्रेयसं सेद्धुं पारयतीति शङ्कते -
कथमिति ।
तत्र श्लोकेनोत्तरमाह -
देवानिति ।
मुमुक्षुत्वबुभुक्षुत्वविभागेन श्रेयसि विकल्पः ॥ ११ ॥
इतश्चाधिकृतेन कर्म कर्तव्यमित्याह -
किञ्चेति ।
कथमस्माभिर्भाविताः सन्तो देवा भावयिष्यन्ति अस्मानिति, तदाह -
इष्टानिति ।
यज्ञानुष्ठानेन पूर्वोक्तरीत्या स्वर्गापवर्गयोर्भावेऽपि, कथं स्त्रीपशुपुत्रादिसिद्धिरित्याशङ्क्य, पूर्वार्धं व्याकरोति -
इष्टान् अभिप्रेतानिति ।
पश्वादिभिश्च यज्ञानुष्ठानद्वारा भोगो निर्वर्तनीयः, अन्यथा प्रत्यवायप्रसङ्गादित्युत्तरार्धं व्याचष्टे -
तैरिति ।
आनृण्यमकृत्वा इत्यस्य अयमर्थः - देवानामृषीणां पितृणां च यज्ञेन ब्रह्मचर्येण प्रजया च सन्तोषमनापाद्य, स्वकीयं कार्यकरणसङ्घातमेव पोष्टुं भुञ्जानस्तस्करो भवतीति ॥ १२ ॥
देवादिभ्यः संविभागमकृत्वा भुञ्जानानां प्रत्यवायित्वमुक्त्वा, तदन्येषां सर्वदोषराहित्यं दर्शयति -
ये पुनरिति ।
यज्ञशिष्टाशिनो ये पुनस्ते तादृशाः सन्तः सर्वकिल्बिषैर्मुच्यन्त इति योजना ।
तैर्दत्तानित्यादिनोक्तं निगमयति -
भुञ्जत इति ।
देवयज्ञादीन् इति आदिशब्देन पितृयज्ञो मनुष्ययज्ञो भूतयज्ञो ब्रह्मयज्ञश्चेति चत्वारो यज्ञाः गृह्यन्ते । चुल्लीशब्देन पिठरधारणाद्यर्थक्रियां कुर्वन्तो विन्यासविशेषवन्तस्त्रयो ग्रावाणो विवक्ष्यन्ते । आदिशब्देन कण्डनी पेषणी मार्जनी उदकुम्भश्चेत्येते हिंसाहेतवो गृहीताः । तान्येतानि पञ्च, प्राणिनां सूनास्थानानि - हिंसाकारणानि, तत्प्रयुक्तैः सर्वैरपि बुद्ध्यबुद्धिपूर्वकदुरितैर्मुच्यन्त इति सम्बन्धः ।
प्रमादः -
विचारव्यतिरेकेणाबुद्धिपूर्वकमुपनतं पादपातादिकर्म, तेन प्राणिनां हिंसा सम्भाव्यते । आदिशब्देनाशुचिसंस्पर्शादिगृहीतं, तदुत्थैश्च पापैर्महायज्ञकारिणो मुच्यन्ते । उक्तं हि‘कण्डनं पेषणं चु्ल्ली उदकुम्भश्च मार्जनी ।पञ्च सूना गृहस्थस्य पञ्चयज्ञात् प्रणश्यति ॥ ‘(मनुः - ३ -६८) इति ।
‘पञ्च सूना गृहस्थस्य चुल्ली पेषण्यवस्करः ।
कण्डनी चैव (चोद) कुम्मश्च वध्यन्ते यांस्तु वाहयन्'
इति च । अस्यायमर्थः - या यथोक्ताः पञ्चसङ्ख्याका गृहस्थस्य सूनास्ता यो वाहयन् - आपादयन् वर्तते, तेन प्राणिनो बुद्धिपूर्वकमबुद्धिपूर्वकं च वध्यन्ते ।
तत्प्रयुक्तं सर्वमपि पापं महायज्ञानुष्ठानात् प्रणश्यतीति महायज्ञानुष्ठानस्तुत्यर्थम् तदनुष्ठानविमुखान् निन्दति -
ये त्विति ।
आत्मम्भरित्वमेव स्फोरयति -
ये पचन्तीति ।
स्वदेहेन्द्रियपोषणार्थमेव पाकं कुर्वतां देवयज्ञादिपराङ्मुखानां पापभूयस्त्वं दर्शयति -
भुञ्जत इति ।
पाठक्रमस्त्वर्थक्रमादपबाधनीयः ॥ १३ ॥
देवयज्ञादिकं कर्माधिकृतेन कर्तव्यमित्यत्र हेत्वन्तरमितःशब्दोपात्तमेव दर्शयति -
जगदिति ।
ननु भुक्तमन्नं रेतोलोहितपरिणतिक्रमेण प्रजारूपेण जायते, तच्चान्नं वृष्टिसम्भवं प्रत्यक्षदृष्टं, तत् कथं कर्मणो जगच्चक्रप्रवर्तकत्वमिति शङ्कते -
कथमिति ।
पारम्पर्येण कर्मणस्तद्धेतुत्वं साधयति -
उच्यत इति ।
उक्तेऽर्थे स्मृत्यन्तरं संवादयति -
अग्नाविति ।
तत्र हि देवताभिध्यानपूर्वकं तदुद्देशेन प्रहिताहुतिरपूर्वतां गता रश्मिद्वारेणादित्यमारुह्य, वृष्ट्यात्मना पृथिवीं प्राप्य, व्रिहियवाद्यन्नभावमापद्य, संस्कृतोपभुक्ता शुक्रशोणितरूपेण परिणता प्रजाभावं प्राप्नोतीत्यर्थः ।
‘यज्ञः कर्मसमुद्भवः’(भ. गी. ३-१४) इत्ययुक्तं, स्वस्यैव स्वोद्भवे कारणत्वायोगादित्याशङ्क्याह -
ऋत्विगिति ।
द्रव्यदेवतयोः सङ्ग्राहकश्चकारः ॥ १४ ॥
यत् अपूर्वहेतुत्वेन कर्मोक्तं, तत् किं चैत्यवन्दनादि ? किं वाऽग्निहोत्रादीति सन्दिहानं प्रत्याह -
कर्मेति ।
किमिति कर्मणो ब्रह्मोद्भवत्वमुच्यते ? सर्वस्य तदुद्भवत्वाविशेषादित्याशङ्क्याह -
ब्रह्म वेद इति ।
ब्रह्म तर्हि वेदाख्यमनादिनिधनमिति, तत्राह -
ब्रह्म पुनरिति ।
अक्षरात्मनो वेदस्य पुनरक्षरेभ्यः सकाशादेव समुद्भवो न सम्भवतीत्याशङ्क्याह -
अक्षरमिति ।
ब्रह्मेत्यक्षरमेवोक्तं, तत् कथं तस्मादेवोद्भवतीत्याशङ्क्य, ब्रह्मशब्दार्थमुक्तमेव स्मारयति -
ब्रह्म वेद इति ।
ननु ब्रह्मशब्दितस्य वेदस्यापि पौरुषेयत्वात् प्रामाण्यसन्देहात् कथं तदुक्तमग्निहोत्रादिकं कर्म निर्धारयितुं शक्यते ? तत्राह -
यस्मादिति ।
कथं तर्हि तस्य यज्ञे प्रतिष्ठितत्वं ? सर्वगतत्वे विशेषायोगादित्याशङ्क्याह -
सर्वगतमपीति
॥ १५ ॥
अधिकृतेन अध्ययनादिद्वारा जगच्चक्रमनुवर्तनीयम् , अन्यथेश्वराज्ञातिलङ्घिनस्तस्य प्रत्यवायः स्यादित्याह -
एवमिति ।
‘न कर्मणामनारम्भात्’(भ. गी. ३-४) इत्यादिनोक्तमुपसंहरति -
तस्मादिति ।
जगच्चक्रस्य प्रागुक्तप्रकारेणानुवर्तने वृथा जीवनमघसाधनं यस्मात् तस्माज्जीवता नियतं कर्म कर्तव्यमित्यर्थः ।
यद्यधिकृतेन कर्तव्यमेव कर्म, तर्हि किमिति अज्ञेनेति विशिष्यते ? ज्ञाननिष्टेनापि तत् कर्तव्यमेवाधिकृतत्वाविशेषादित्याश्ङ्क्य, पूर्वोक्तमनुवदति -
प्रागिति ।
नहि ज्ञानकर्मणोर्विरोधाज्ज्ञाननिष्ठेन कर्म कर्तुं शक्यते । तथा चानात्मज्ञेनैव चित्तशुद्ध्यादिपरम्परया ज्ञानार्थं कर्मानु्ष्ठेयमिति प्रतिपादितमित्यर्थः ।
तर्हि ‘यज्ञार्थात्’(भ. गी. ३-९) इत्यादि किमर्थं, नहि तत्र ज्ञाननिष्ठा प्रतिपाद्यते, कर्मनिष्ठा तु पूर्वमेवोक्तत्वान्नात्र वक्तव्येत्याशङ्क्य, वृत्तमर्थान्तरमनुवदति -
प्रतिपाद्येति ।
प्रासङ्गिकम् - अज्ञस्य कर्मकर्तव्यतोक्तिप्रसङ्गादागतमिति यावत् । बहुकारणम् - ईश्वरप्रसादो देवताप्रीतिश्चेत्यादि । दोषसङ्कीर्तनं - ‘तैर्दत्तान् अप्रदाय’(भ. गी. ३-१२) इत्यादि ॥ १६ ॥
वृत्तमर्थमेवं विभज्यानूद्य अनन्तरश्लोकमाशङ्कोत्तरत्वेनावतारयति -
एवमिति ।
अर्जुनस्य प्रश्नमित्येवमर्थमाशङ्क्याह भगवानिति सम्बन्धः ।
नन्वेषा आशङ्का नावकाशमासादयति, अनात्मज्ञेन कर्तव्यं कर्मेति बहुशो विशेषितत्वादित्याशङ्क्याह -
स्वयमेवेति ।
किमर्थं श्रुत्यर्थं स्वयमेव भगवानत्र प्रतिपादयतीत्याशङ्क्याह -
शास्त्रार्थस्येति ।
गीताशास्त्रस्य ससंन्यासं ज्ञानमेव मुक्तिसाधनमर्थः, नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थं कीर्तयतीत्यर्थः ।
तमेव श्रुत्यर्थं सङ्क्षिपति -
एतमिति ।
सिद्धं चेदात्मवेदनम् , अनर्थकं तर्हि व्युत्थानादि, इत्याशङ्क्यापातिकविज्ञानफलमाह -
निवृत्तेति ।
ब्राह्मणग्रहणं तेषामेव व्युत्थाने मुख्यमधिकारित्वमिति ज्ञापनार्थम् ।
क्लेशात्मकत्वात् एषणानां ताभ्यो व्युत्थानं सर्वेषां स्वाभाविकत्वात् अविधित्सितमित्याशङ्क्याह -
मिथ्येति ।
‘भिक्षाचर्यं चरन्ति’(बृ. उ. ३-५-१) इति वचनं व्युत्थानविरुद्धमित्याशङ्क्याह -
शरीरेति ।
तर्हि तद्वदेव तेषामग्निहोत्रादि अपि कर्तव्यमापद्येत, इत्याशङ्क्य, व्युत्थायिनामाश्रमधर्मवदग्निहोत्रादेरनुष्ठापकाभावाद् मैवमित्याह -
न तेषामिति ।
यथोक्तं श्रुत्यर्थमस्मिन् गीताशास्त्रे पौर्वापर्येण पर्यालोच्यमाने प्रतिपादयितुमिष्टं प्रकटीकुर्वन् कर्तव्यमेव कर्म जीवतेति नियमे ‘ज्ञानयोगेन साङ्ख्यानाम्’(भ. गी. ३-३) इति कथमुक्तमिति परिचोद्यपरिहारमुदर्शयतीत्याह -
इत्येवमिति ।
आत्मनिष्ठस्य विषयसङ्गराहित्यं दृष्टं, तदनात्मज्ञेन जिज्ञासुना कर्तव्यमिति मत्वाऽऽह -
यस्तु साङ्ख्य इति ।
किञ्च, आत्मज्ञस्य ज्ञानेनात्मनैव परितृप्तत्वात् नान्नपानादिना साध्या तृ्प्तिरिष्टा । तेन विद्यार्थिना संन्यासिनाऽपि नान्नरसादौ आसक्तिर्युक्ता कर्तुमित्याह -
आत्मतृप्त इति ।
किञ्चात्मविदः सर्वतो वैतृष्ण्यं दृष्टं, तदनात्मविदा विद्यार्थिना कर्तव्यमित्याह -
आत्मन्येवेति ।
रतितृप्तिसन्तोषाणां मोदप्रमोदानन्दवत् अवान्तरभेदः । अथवा रतिर्विषयासक्तिः, तृप्तिर्विषयविशेषसम्पर्कजं सुखं, सन्तोषोऽभीष्टविषयमात्रलाभाधीनं सुखसामान्यमिति भेदः ।
ननु आत्मरतेरात्मतृप्तस्यात्मन्येव सन्तुष्टस्यापि किञ्चित् कर्तव्यं मुक्तये भविष्यतीति, नेत्याह -
य ईदृश इति
॥ १७ ॥
इतश्चात्मविदो न किञ्चित् कर्तव्यमित्याह -
किञ्चेति ।
अभ्युदयनिःश्रेयसयोरन्यतरत् प्रयोजनं कृतेन -सुकृतेनात्मविदो भविष्यतीत्याशङ्क्याह -
नैवेति ।
प्रत्यवायनिवृत्तये स्वरूपप्रच्युतिप्रत्याख्यानाय वा कर्म स्यादित्याशङ्क्याह -
नेत्यादिना ।
ब्रह्मादिषु स्थावरान्तेषु भूतेषु कञ्चिद् भूतविशेषमाश्रित्य कश्चिदर्थो विदुषः साध्यो भविष्यति, तदर्थं तेन कर्तव्यं कर्मेत्याशङ्क्याह -
नचेति ।
तत्राद्यं पादमादत्ते -
नैवेति ।
तं व्याचष्टे -
तस्येति ।
आत्मविदः स्वर्गाद्यभ्युदयानर्थित्वात् निःश्रेयसस्य च प्राप्तत्वान्न कृतं - कर्मार्थवदित्यर्थः ।
आत्मविदा चेत् कर्म न क्रियते, तर्हि तेनाकृतेन तस्यानर्थो भविष्यतीति तत्प्रत्याख्यानार्थं तस्य कर्तव्यं कर्मेति शङ्कते -
तर्हीति ।
द्वितीयपादेनोत्तरमाह -
नेत्यादिना ।
अतो न तन्निवृत्त्यर्थं कृतमर्थवदिति शेषः ।
द्वितीयं भागं विभजते -
नचास्येति ।
व्यपाश्रयणम् - आलम्बनं, नेति सम्बन्धः ।
पदार्थमुक्त्वा वाक्यार्थमाह -
कञ्चिदिति ।
भूतविशेषस्याश्रितस्यापि क्रियाद्वारा प्रयोजनप्रसवहेतुत्वमिति मत्वाऽऽह -
येनेति ।
तर्हि मयाऽऽपि यथोक्तं तत्त्वमाश्रित्य त्याज्यमेव कर्मेत्यर्जुनस्य मतमाशङ्क्याह -
न त्वमिति
॥ १८ ॥
सम्यग्ज्ञाननिष्ठत्वाभावे कर्मानुष्ठानमावश्यकमित्याह -
यत इति ।
तस्मात्-ज्ञाननिष्ठाराहित्यादिति यावत् ।
मोक्षमेवापेक्षमाणस्य कथं कर्मणि फलन्तरवति नियोगः स्यादित्यशङ्क्याह -
असक्तो हीति
॥ १९ ॥
यद्यपि जितन्द्रियोऽपि विवेकी श्रवणादिभिरजस्रं ब्रह्मणि निष्ठातुं शक्नोति, तथाऽपि क्षत्रियेण त्वया विहितं कर्म न त्याज्यमित्याह -
यस्माच्चेति ।
तस्मात् त्वमपि कर्म कर्तुमर्हसीति सम्बन्धः ।
इतोऽपि त्वया विहितं कर्म कर्तव्यमित्याह -
लोकेति
॥ २० ॥
ज्ञानवता कृतार्थेन लोकसङ्ग्रहार्थमपि न प्रवर्तितव्यमित्याशङ्कामुत्थाप्य, परिहरति -
लोकेत्यादिना ।
श्रुताध्ययनसम्पन्नत्वेनाभिमतो यद्यद् - विहितं प्रतिषिद्धं वा कर्मानुतिष्ठति, तत्तदेव प्राकृतो जनोऽनुवर्तते । तेन विद्यावताऽपि लोकमर्यादास्थापनार्थं विहितं कर्म कर्तव्यमित्यर्थः ।
श्रेष्ठानुसारित्वमितरेषामाचारे दर्शयित्वा, प्रतिपत्तावपि दर्शयति -
किञ्चेति
॥ २१ ॥
कृतार्थस्यापि लोकसङ्ग्रहार्थं विहितं कर्म कर्तव्यमित्युक्त्वा, तत्रैव भगवन्तमुदाहरणत्वेनोपन्यस्यति -
यदीत्यादिना ।
अप्राप्तस्य प्राप्तये तवापि कर्तृत्वसम्भवाद् न किञ्चिदपि विद्यते कर्तव्यमिति कथमुक्तमित्याशङ्क्याह -
नानवाप्तमिति ।
प्रतीकमुपादाय व्याख्यानद्वारा विद्यावतोऽपि कर्मप्रवृत्तिं सम्भावयति -
नेत्यादिना ।
अन्वयार्थं पुनर्नञोऽनुवादः ।
भगवतो नास्ति कर्तव्यमित्येतदाकाङ्क्षाद्वारा स्फोरयति -
कस्मादित्यादिना ।
प्रयोजनाभावे त्वयाऽपि नानुष्ठेयं कर्मेत्याशङ्क्य लोकसङ्ग्रहार्थं ममापि कर्मानुष्ठानमिति मत्वाऽऽह -
तथापीति ।
॥ २२ ॥
लोकसङ्ग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्क्याह -
यदि हीति
॥ २३ ॥
श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेवेत्याशङ्क्य, दूषयति -
तथाचेत्यादिना ।
ईश्वरस्य कर्मण्यप्रवृत्तौ तदनुवर्तिनामपि कर्मानुपपत्तेरिति हेतुमाह -
लोकस्थितीति ।
इतश्चेश्वरेण कर्म कर्तव्यमित्याह -
किञ्चेति ।
यदि कर्म न कुर्यामिति शेषः ।
सङ्करकरणस्य कार्यं कथयति -
तेनेति ।
प्रजोपहतिः परिप्राप्यते चेत् , किं तया तव स्यादिति, तत्राह -
प्रजानामिति
॥ २४ ॥
त्वामनाचरन्तमनुवर्ततां सर्वेषां को दोषः स्यात् ? इत्यपेक्षायामीश्वरस्य कृतार्थतया कर्मानुष्ठानाभावे तदनुवर्तिनामपि तदभावादेव स्थितिहेत्वभावात् , पृथिव्यादिभूतानां विनाशप्रसङ्गाद् वर्णाश्रमधर्मव्यवस्थानुपपत्तेश्चाधिकृतानां प्राणभृतां पापोपहतत्वप्रसङ्गात् परानुग्रहार्थं प्रवृ्त्तिरीश्वरस्येत्युक्तम् । सम्प्रति लोकसङ्ग्रहाय कर्म कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवे प्राप्ते, प्रत्याह -
यदि पुनरिति ।
कृतार्थबुद्धित्वे हेतुमाह -
आत्मविदिति ।
यथावदात्मानमवगच्छन् कर्तृत्वाद्यभिमानाभावात् कृतार्थो भवत्येवेत्यर्थः ।
अर्जुनादन्यत्रापि ज्ञानवति कृतार्थबुद्धित्वं कर्तव्यत्वाद्यभिमानहीने तुल्यमित्याह -
अन्यो वेति ।
तस्य तर्हि कर्मानुष्ठानमफलत्वात् अनवकाशमित्याशङ्क्याह -
तस्यापीति ।
>कर्तव्य इति आत्मविदाऽपि परानुग्रहाय कर्तव्यमेव कर्मेति, आहेति शेषः ।
दृष्टान्तदार्ष्टान्तिकरूपं श्लोकं व्याकरोति -
सक्ता इत्यादिना ।
असक्तः सन् कर्तृत्वाभिमानं फलभिसन्धिं वा कुर्वन्निति यावत् ॥ २५ ॥
वृत्तमनूद्योत्तरश्लोकमवतारयति -
एवमिति ।
कर्तव्यं,कर्मेति शेषः ।
पूर्वार्धमेवं व्याख्यायोत्तरार्धं प्रश्नपूर्वकमवतार्य व्याचष्टे -
किं नु कुर्यादिति ।
सर्वकर्माणि कारयेत् , तेषु प्रीतिं कुर्वन्निति शेषः ।
कथं कारयेदित्याकाङ्क्षायामाह -
तदेवेति
॥ २६ ॥
‘अज्ञानां कर्मसङ्गिनाम्’(भ. गी. ३-२६) इत्युक्तं ; तेनोत्तरश्लोकस्य सङ्गतिमाह -
अविद्वानिति ।
कर्तृत्वमात्मनः अवास्तवम् इत्यभ्युपगमाद् विद्वान् कथं कुर्वन्नेव तस्याभावं पश्यतीत्याशङ्क्याह -
प्रकृतेरिति ।
कर्मसु अविदुषः सक्तिप्रकारं प्रकटयन् व्याकरोति -
प्रकृतेरित्यादिना ।
प्रधान शब्देन मायाशक्तिरुच्यते । अविद्ययेत्युभयतः सम्बध्यते ॥ २७ ॥
अज्ञस्य कर्मसु सक्तिमुक्त्वा विदुषस्तदभावमभिदधाति -
यः पुनरिति ।
तत्त्वं याथार्थ्यं वेत्तीति व्युत्पत्त्या तत्त्वविदिति ।
तुशब्देनाज्ञाद् विशिष्टे निर्दिष्ठप्रश्नपूर्वकं द्वितीयपादमवतार्य व्याचष्टे -
कस्येत्यादिना ।
गुणानामेव गुणेषु वर्तमानत्वमयुक्तं, निर्गुणत्वात् तेषामित्याशङ्क्य विभजते -
गुणा इति ।
कार्यकरणानामेव विषयेषु प्रवृत्तिः, आत्मनस्तु कूटस्थत्वात् मैवमिति ज्ञात्वा, तत्त्ववित् कर्मसु दृढतरं कर्तव्याभिमानं न करोतीत्यर्थः ॥ २८ ॥
विद्वान् अविद्वानित्युभावपि प्रकृत्य, विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युपसंहरति -
ये पुनरिति ।
प्रकृतेरुक्तगुणैर्देहादिभिर्विकारैः संमूढाः - तानेव आत्मत्वेन मन्यमाना ये ते ।
गुणानां - तेषामेव देहादीनां कर्मसु -व्यापारेषु, सज्जन्ते - सक्तिं दृढतरामात्मीयबुद्धिं कुर्वन्तीत्याह -
प्रकृतेरित्यादिना ।
तेषामनात्मविदां स्वयमात्मविद् बुद्धिभेदं नापादयेदित्याह -
तानित्यादिना
॥ २९ ॥
यद्यपि कर्मण्यज्ञोऽधिक्रियते, तथाऽपि मोक्षमाणेन तेन कर्म त्यक्तव्यं, मोक्षस्य कर्मासाध्यत्वात् , न तु तेन कर्म कर्तुं शक्या, कर्मणः स्वापेक्षितविरोधित्वादिति शङ्कते -
कथमिति ।
श्लोकेनोत्तरमाह -
उच्यत इति ।
यथोक्ते परस्मिन्नात्मनि सर्वकर्मणां समर्पणे कारणमाह -
अध्यात्मेति ।
विवेकबुद्धिमेव व्याकरोति -
अहमिति ।
दर्शितरीत्या कर्मसु प्रवृत्तस्य कर्तव्यान्तरमाह -
किञ्चेति ।
त्यक्ताशीः फलप्रार्थनाहीनः सन्नित्यर्थः । निर्ममोभूत्वा , पुत्रभ्रात्रादिष्विति शेषः ।
ननु युद्धे नियोगो नोपपद्यते, पुत्रभ्रात्रादिहिंसात्मनस्तस्य सन्तापहेतोर्नियोगविषयत्वायोगादिति, तत्राह -
विगतेति
॥ ३० ॥
प्रकृतं भगवतो मतमुक्तप्रकारमनुसृत्यैवानुतिष्ठतां क्रममुक्तिफलं कथयति -
यदेतदिति ।
शास्त्राचार्योपदिष्टेऽदृष्ठार्थे विश्वासवत्त्वं - श्रद्दधानत्वम् । गुणेषु दोषाविष्करणम् - असूया । अपिर्यथोक्ताया मुक्तेरमुख्यत्वद्योतनार्थः ॥ ३१ ॥
भगवन्मताननुवर्तिनां प्रत्यवायित्वं प्रत्याययति -
ये त्विति ।
तद्विपरीतत्वं भगवन्मतानुवर्तिभ्यो वैपरीत्यम् । तदेव दर्शयति -
एतदित्यादिना ।
अभ्यसूयन्तः - तत्रासन्तमपि दोषमुद्भावयन्त इत्यर्थः । सर्वज्ञानानि - सगुणनिर्गुणविषयाणि । प्रमाणप्रमेयप्रयोजनविभागतो विविधत्वम् ॥ ३२ ॥
भगवन्मतानुवर्तनमन्तरेण परधर्मानुष्ठाने स्वधर्माननुष्ठाने च कारणं पृच्छति -
कस्मादिति ।
भगवत्प्रतिकूलत्वमेव तत्र कारणमित्याशङ्क्याह -
त्वत्प्रतिकूला इति ।
राजानुशासनातिक्रमे दोषदर्शनाद् भगवदनुशासनातिक्रमेऽपि दोषसम्भवात् प्रतिकूलत्वं भयकारणमित्यर्थः ।
उत्तरत्वेन श्लोकमवतारयति -
सदृशमिति । तत्राहेति ।
सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे कैमुतिकन्यायं सूचयति -
ज्ञानवानपीति ।
सर्वाण्यपि भूतानि अनिच्छन्त्यपि प्रकृतिसदृशीं चेष्टां गच्छन्तीति निगमयति -
प्रकृतिमिति ।
भूतानां प्रकृत्यधीनत्वेऽपि, प्रकृतिर्भगवता निग्राह्येत्याशङ्क्याह -
निग्रह इति ।
का पुनरियं प्रकृतिः ? यदनुसारिणी भूतानां चेष्टेति पृच्छति -
प्रकृतिर्नामेति ।
भगवदभिप्रेतां प्रकृतिं प्रकटयति -
पूर्वेति ।
आदिशब्देन ज्ञानेच्छादि सङ्गृह्यते ।
यथोक्तः संस्कारः स्वसत्तया प्रवर्तकश्वेत् , प्रलयेऽपि प्रवृत्तिः स्यादित्याशङ्क्य, विशिनष्टि -
वर्तमानेति ।
सर्वो जन्तुरित्ययुक्तं, विवेकिप्रवृत्तेरतथात्वादित्याशङ्क्य, ‘पश्वादिभिश्चाविशेषात्’ इति न्यायमनुसरन्नाह -
ज्ञानवानिति ।
ज्ञानवतामज्ञानवतां च प्रकृत्यधीनत्वाविशेषे फलितमाह -
तस्मादिति ।
प्रकृतिं यान्ति- प्रकृतिसदृशीं चेष्टां गच्छन्ति, अनिच्छन्त्यपि सर्वाणि भूतानीत्यर्थः ।
प्रकृतेर्भगवता तत्तुल्येन वा केनचिन्निग्रहमाशङ्क्य अवतारितचतुर्थपादस्यार्थापेक्षितं पूरयति -
मम वेति
॥ ३३ ॥
सर्वस्य भूतवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावात् विधिनिषेधानर्थक्यमितिशङ्कते -
यदीति ।
ननु यस्य न प्रकृतिरस्ति, तस्य पुरुषकारसम्भवादर्थवत्त्वं तद्विषये विधिनिषेधयोर्भविष्यति, नेत्याह -
नचेति ।
शङ्कितदोषं श्लोकेन परिहरति -
इदमित्यादिना ।
वीप्सायाः सर्वकरणागोचरत्वं दर्शयति -
सर्वेति ।
प्रत्यर्थं रागद्वेषयोरव्यवस्थायाः प्राप्तौ प्रत्यादिशति -
इष्ट इति ।
प्रतिविषयं विभागेन तयोरन्यतरस्यावश्यकत्वेऽपि पुरुषकारविषयाभावप्रयुक्त्या प्रागुक्तं दूषणं कथं समाधेयमित्याशङ्क्याह -
तत्रेति ।
तयोरित्याद्यवतारितं भागं विभजते -
शास्त्रार्थ इति ।
प्रकृतिवशत्वात् जन्तोर्नैव नियोज्यत्वमित्याशङ्क्याह -
या हीति ।
रागद्वेषद्वारा प्रकृतिवशवर्तित्वे स्वधर्मत्यागादि दुर्वारमित्युक्तम् , इदानीं विवेकविज्ञानेन रागादिनिवारणे शास्त्रीयदृष्ट्या प्रकृतिपारवश्यं परिहर्तुं शक्यमित्याह -
यदेति ।
मिथ्याज्ञाननिबन्धनौ हि रागद्वेषौ । तत्प्रतिपक्षत्वं विवेकविज्ञानस्य मिथ्याज्ञानविरोधित्वादवधेयम् ।
रागद्वेषयोर्मूलनिवृत्त्या निवृत्तौ प्रतिबन्धध्वंसे कार्यसिद्धिमभिसन्धायोक्तं -
तदेति ।
एवकारस्यान्ययोगव्यवच्छेदकत्वं दर्शयति -
नेति ।
पूर्वोक्तं नियोगमुपसंहरति -
तस्मादिति ।
तत्र हेतुमाह -
यत इति ।
हिशब्दोपात्ताो हेतुर्यत इति प्रकटितः । स च पूर्वेण तच्छब्देन सम्बन्धनीयः ।
पुरुषपरिपन्थित्वमेव तयोः सोदाहरणं स्फोरयति -
श्रेयोमार्गस्येति
॥ ३४ ॥
रागद्वेषयोः श्रेयोमार्गप्रतिपक्षत्वं प्रकटयितुं परमतोपन्यासद्वारा समनन्तरश्लोकमवतारयति -
तत्रेत्यादिना ।
व्यवहारभूमिः सप्तम्यर्थः ।
शास्त्रार्थस्यान्यथाप्रतिपत्तिमेव प्रत्याययति -
परधर्मोऽपीति ।
स्वधर्मवदित्यप्यर्थः ।
अनुमानं दूषयन्नुत्तरत्वेन श्लोकमुत्थापयति -
तदसदिति ।
क्षत्रधर्माद् युद्धाद् दुरनुष्ठानात् परिव्राड्धर्मस्य भिक्षाशनादिलक्षणस्य स्वनुष्ठेयतयाऽपि कर्तव्यत्वं प्राप्तमित्याशङ्क्य, व्याचष्टे -
श्रेयानिति ।
उक्तेऽर्थे प्रश्नपूर्वकं हेतुमाह -
कस्मादित्यादिना ।
स्वधर्ममवधूय परधर्ममनुतिष्ठतः स्वधर्मातिक्रमकृतदोषस्य दुष्परिहरत्वान्न तत्त्यागः साधीयानित्यर्थः ॥ ३५ ॥
प्रागेवानर्थमूलस्योक्तत्वात् पुनस्तज्जिज्ञासया प्रश्नानुपपत्तिः - इत्याशङ्क्याह -
यद्यपीति ।
विक्षिप्तं- विविधेषु प्रदेशेषु क्षिप्तं, दर्शितमिति यावत् । अनवधारितम्, अनेकत्रोक्तात्वादनेकधा अविवेककामादिभिर्विकल्पितत्वादित्यर्थः ।
नन्वनर्थमूलं परिहर्तव्यं, तत्किमिति ज्ञातुमिष्यते ? तत्राह -
ज्ञाते हीति । कुर्यामिति ।
तज्ज्ञानमर्थवदिति शेषः ।
वाक्यारम्भार्थत्वमथशब्दस्य गृहीत्वा, प्रश्नवाक्यं व्याकरोति -
अथेत्यादिना ।
अनिच्छतोऽपि बलादेव दुश्चरितप्रेरितत्वे दृष्टान्तमाचष्टे -
राज्ञेवेति ।
विनियोज्यत्वस्येच्छासापेक्षत्वात् तदभावे तदसिद्धिमाशङ्क्य, प्रागुक्तं स्मारयति -
राज्ञेवेत्युक्त इति
॥ ३६ ॥
सम्प्रति प्रतिवचनं प्रस्तौति -
श्रृण्विति ।
तस्य वैरित्वं स्फोरयति -
सर्वेति ।
अप्रस्तुतं किमिति प्रस्तूयते ? तत्राह -
यं त्वमिति ।
भगवच्छब्दार्थं निर्धारयितुं पौराणिकं वचनमुदाहरति -
ऐश्वर्यस्येति ।
समग्रस्येत्येतत् प्रत्येकं विशेषणैः सम्बध्यते । अथ शब्दस्तथाशब्दपर्यायः समुच्चयार्थः । मोक्षशब्देन तदुपायो ज्ञानं विवक्ष्यते ।
उदाहृतवचसस्तात्पर्यमाह -
ऐश्वर्यादीति ।
स वाच्यो भगवानिति सम्बन्धः ।
तत्रैव पौराणिकं वाक्यान्तरं पठति -
उत्पत्तिमिति ।
भृतानामिति प्रत्येकमुत्पत्त्यादिभिः सम्बध्यते । कारणार्थौ च उत्पत्तिप्रलयशब्दौ । क्रियामात्रस्य पुरुषान्तरगोचरत्वसम्भवात् । आगतिर्गतिश्चेत्यागामिन्यौ सम्पदापदौ सूच्येते ।
वाक्यान्तरस्यापि तात्पर्यमाह -
उत्पत्त्यादीति ।
वेत्तीत्युक्तः साक्षात्कारो विज्ञानमित्युच्यते । समग्रैश्वर्यादिसम्पत्तिसमुच्चयार्थश्चकारः ।
उक्तलक्षणो भगवान् किमुक्तवानिति, तदाह -
काम इति ।
कामस्य सर्वलोकशत्रुत्वं विशदयति -
यन्निमित्तेति ।
तथाऽपि कथं तस्यैव कोधत्वं, तदाह -
स एष इति ।
कामक्रोधयोरेव हेयत्वद्योतनार्थं कारणं कथयति -
रजोगुणेति ।
कारणद्वारा कामादेरेव हेयत्वमुक्त्वा, कार्यद्वाराऽपि तस्य हेयत्वं सूचयति -
रजोगुणस्येति ।
कामस्य पुरुषप्रवर्तकत्वमेव, न रजोगुणजनकत्वम् , इत्याशङ्क्याह -
कामो हीति ।
तत्रैवानुभवानुसारिणीं लोकप्रसिद्धि प्रमाणयति -
तृष्णया हीति ।
तस्य योग्यायोग्यविभागमन्तरेण बहुविषयत्वं दर्शयति -
महाशन इति ।
बहुविषयत्वप्रयुक्तं कर्म निर्दिशति -
अत इति ।
सर्वविषयत्वेऽस्य पापत्वमित्याशङ्क्याह -
कामेनेति ।
कामस्योक्तविशेषणवत्त्वे फलितमाह -
अत इति
॥ ३७ ॥
उत्तरश्लोकमवतास्यति -
कथमिति ।
अनेकदृष्टान्तोपादानं प्रतिपत्तिसौकर्यार्थम् ।
सहजस्य धूमस्य प्रकाशात्मकवह्निं प्रति आवरकत्वसिद्ध्यर्थं विशिनष्टि -
अप्रकाशात्मकेनेति
॥ ३८ ॥
सामान्यतो निर्दिष्टं विशेषतो निर्देष्टुमाकाङ्क्षापूर्वकमनन्तरश्लोकमवतारयति -
किं पुनरिति ।
कामस्य ज्ञानं प्रति आवरणसिद्ध्यर्थं ज्ञानिनो नित्यवैरिणेत्यादिविशेषणम् ।
प्रतीकमादाय व्याकरोति -
आवृतमित्यादिना ।
ज्ञानिनां प्रति वैरित्वेऽपि, नित्यवैरित्वं कामस्य कथमित्याशङ्क्याह -
ज्ञानी हीति ।
अनर्थप्राप्तिमन्तरेण कामस्य प्रसङ्गावस्था पूर्वमेवेत्युच्यते । अतः शब्देन कामप्रसक्तिरेव परामृश्यते । नित्यमेवेत्युत्पत्त्यवस्था च कामस्य कथ्यते ।
ननु सर्वस्यापि कामात्मता ऩ प्रशस्तेति कामो नित्यवैरी भवति, ततः कुतो ज्ञानिविशेषणमित्याशङ्क्याह -
न त्विति ।
अज्ञस्य नासौ नित्यवैरीत्येतदुपपादयति -
स हीति ।
कार्यप्राप्तिप्रागवस्था पूर्वमित्युक्ता ।
अज्ञम्प्रति वैरित्वे सत्यपि कामस्य नित्यवैरित्वाभावे फलितमाह -
अत इति ।
स्वरूपतो नित्यवैरित्वाविशेषेऽपि ज्ञानाज्ञानाभ्यामवान्तरभेदसिद्धिरित्यर्थः ।
आकाङ्क्षाद्वारा प्रकृतं वैरिणमेव स्फोरयति -
किंरूपेणेत्यादिना
॥ ३९ ॥
कामस्य निराश्रयस्य कार्यकारकत्वाभावं मत्वा प्रश्नपूर्वकमाश्रयं दर्शयति -
किमधिष्ठान इति ।
कामस्य नित्यवैरित्वेन परिजिहीर्षितस्य किमित्यधिष्ठानं ज्ञाप्यते, तत्राह -
इन्द्रियादिभिरिति
॥ ४० ॥
तेषां कामाश्रयत्वे सिद्धे, साश्रयस्य तस्य परिहर्तव्यत्वमाह -
यत इति ।
तस्मात् - इन्द्रियादीनामाश्रयत्वादिति यावत् । पूर्वं - कामनिरोधात् प्रागवस्थायामित्यर्थः । तेषु नियमितेषु मनोबुद्ध्योर्नियमः सिध्यति, तत्प्रवृत्तेरितरप्रवृत्तिव्यतिरेकेणाफलत्वादिति भावः ।
पापमूलतया कामस्य तच्छब्दवाच्यत्वमुन्नेयम् । कामस्य परित्याज्यत्वे वैरित्वं हेतुं साधयति -
ज्ञानेति ।
ज्ञानविज्ञानशब्दयोरर्थभेदमावेदयति -
ज्ञानमित्यादिना
॥ ४१ ॥
पूर्वोक्तमनूद्य कामत्यागस्य दुष्करत्वं मन्वानो ‘रसोऽप्यस्य’(भ. गी. २-५९) इत्यत्रोक्तमेव स्पष्टीकर्तुं प्रश्नपूर्वकं श्लोकान्तरमवतारयति -
इन्द्रियाणीत्यादिना ।
पञ्चेति । ज्ञानेन्द्रियवत् । कर्मेन्द्रियाण्यपि वागादीनि गृह्यन्ते ।
किमपेक्षया तेषां परत्वं ? तत्राह -
देहमिति ।
तथाऽपि केन प्रकारेण परत्वं ? तदाह -
सौक्ष्म्येति ।
आदिशब्देन कारणत्वादि गृह्यते ।
इन्द्रियापेक्षया सूक्ष्मत्वादिना मनसः स्वरूपोक्तिपूर्वकं परत्वं कथयति -
तथेति ।
मनसि दर्शितं न्यायं बुद्धावतिदिशति -
तथा मनसस्त्विति ।
‘यो बुद्धेः’(भ. गी. ३-४२) इत्यादि व्याचष्टे -
तथेत्यादिना ।
आत्मनो यथोक्तविशेषणस्याप्रकृतत्वमाशङ्क्याह -
यं देहिनमिति
॥ ४२ ॥
इन्द्रियादिसमाधानपूर्वकमात्मज्ञानात् कामजयो भवतीत्युपसंहरति -
एवमित्यादिना ।
संस्कृतं मनो मनः समाधाने हेतुरिति सूचयति -
संस्तभ्येति ।
प्रकृतं शत्रुमेव विशिनष्टि -
कामरूपमिति ।
तस्य दुरासदत्वे हेतुमाह -
दूर्विज्ञेयेति ।
अनेकविशेषोऽतादृशो महाशनत्वादिः, तदनेनोपायभूता कर्मनिष्ठा प्राधान्येनोक्ता, उपेया तु ज्ञाननिष्ठा गुणत्वेनेति विवेक्तव्यम् ॥ ४३ ॥
तत्सत् इति श्रीमत्परमहंसपरिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने तृतीयोऽध्यायः ॥ ३ ॥