अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

तृतीयोऽध्यायः

पूर्वो­त्त­रा­ध्या­ययोः सम्बन्धं वक्तुं पूर्व­स्मि­न्न­ध्याये वृत्तमर्थं सङ्क्षि­प्या­नु­व­दति -
शास्त्रस्येति ।
गीता­शा­स्त्र­प्रा­र­म्भा­पे­क्षितं हेतुफलभूतं बुद्धिद्वयं भग­व­तो­प­दि­ष्ट­मि­त्यर्थः ।

प्रष्टु­र­र्जु­न­स्या­भि­प्रायं निर्देष्टुं प्रवृ­त्त­म­र्था­न्त­र­म­नु­व­दति -
तत्रेति ।
अध्यायो बुद्धि­द्व­य­नि­र्धा­रणं वा सप्तम्यर्थः । पारमार्थिके तत्त्वे यज्ज्ञानं तन्नि­ष्ठा­ना­म­शे­ष­का­म­त्या­गिनां कामयुक्तानां कर्मिणामपि प्रति­प­त्ति­क­र्म­वत् त्यागं कर्तव्यत्वेन भग­वा­नु­क्त­वा­नि­त्यर्थः ।

तथाऽपि मोक्षसाधने विक­ल्प­स­मु­च्च­य­यो­र­न्य­त­रस्य विव­क्षि­त­त्व­बुद्ध्या सम­न­न्त­र­प्र­श्न­प्र­वृ­त्ति­रि­त्या­श­ङ्क्याह -
उक्तेति ।

अर्जुनस्य मनसि व्याकुलत्वं प्रश्नबीजं दर्श­यि­तु­मु­क्त­म­र्था­न्त­र­म­नु­भा­षते -
अर्जुनाय चेति ।

साङ्ख्य­बु­द्धि­मा­श्रित्य कर्म­त्या­ग­मुक्त्वा, पुनस्तस्यैव कर्तव्यत्वं कथं मिथो विरुद्धं ब्रवीति ? इत्याशङ्क्याह -
योगेति ।

यथा साङ्ख्य­बु­द्धि­मा­श्रि­तानां संन्यासद्वारा तन्निष्ठानां कृतार्थतोक्ता, तथा योग­बु­द्धि­मा­श्रित्य कर्म कुर्वतोऽपि कृता­र्थ­त्व­मु­क्त­मि­त्या­श­ङ्क्याह -
न तत एवेति ।
‘दूरेण ह्यवरं कर्म बुद्धियोगात्’(भ. गी. २-४९) इति दर्शनादिति शेषः ।

बुद्धि­व्या­कु­लत्वं प्रश्नबीजं प्रतिलभ्य प्रश्नं करोतीत्याह -
तदेतदिति ।
साक्षादेव श्रेयःसाधनं ज्ञानमन्येभ्यो दर्शितं - तदित्युच्यते । तद्विपरीतं कर्म स्वस्या­नु­ष्ठे­य­त्वे­नो­क्तम् - एतदिति निर्दिश्यते । भगवदुक्तेऽर्थे सन्दिह्यमानस्य निर्ण­या­का­ङ्क्षया प्रश्न­प्र­वृ­त्ते­रस्ति पूर्वो­त्त­रा­ध्या­य­यो­रु­त्था­प्यो­त्था­प­क­ल­क्षणा सङ्गतिरित्यर्थः ।

अर्जुनस्य प्रश्ननिमित्तं पर्याकुलत्वं प्रपञ्चयति -
कथमित्यादिना ।
यद्धि साक्षादेव श्रेयःसाधनं साङ्ख्य­श­ब्दि­त­प­र­मा­र्थ­त­त्त्व­वि­ष­य­बुद्धौ निष्ठारूपं, तद् अन्यस्मै श्रेयोऽर्थिने भक्ताय श्रावयित्वा, मां पुनरभक्तम् अश्रे­योऽ­र्थि­न­मिव कर्मणि पूर्वो­क्त­वि­प­रीते कथं भगवान् नियो­क्तु­म­र्ह­ती­त्य­र्जु­नस्य पर्याकुलीभावो युक्त इति सम्बन्धः ।

ज्ञाननिष्ठातो वैपरीत्यं स्फोरयितुं कर्म विशिनष्टि -
दृष्टेति ।
युद्धे हि क्षत्रकर्मणि दृष्टोऽ­ने­कोऽ­नर्थो गुरु­भ्रा­तृ­हिं­सादिः तेन सम्बद्धे बुद्धि­शु­द्धि­द्वा­राऽपि वर्तमाने जन्मन्येव फलमित्यनियते । मम -भक्तस्य श्रेयोऽर्थिनो नियोगो भगवता युक्तो न भवतीति शेषः ।

यथोक्तं निमित्तं प्रश्नस्य युक्तं तदनुगुणत्वात् तस्येति द्योतकमाह -
तदनुरूपश्चेति ।
ज्ञाननिष्ठानां कृतार्थता, कर्मनिष्ठानां तु न तथेत्युक्तम् ।

विभागभागि शास्त्रमित्यत्र ‘लोकेऽस्मिन्’(भ. गी. ३-३) इत्या­दि­वा­क्य­स्यापि द्योतकत्वं दर्शयति -
प्रश्नेति ॥

साक्षादेव श्रेयः­सा­ध­न­म­न्येभ्यो भगवतोक्तम्, न तु मह्यमिति मत्वा व्याकुलीभूतः सन् पृच्छतीति स्वाभिप्रायेण सम्बन्धमुक्त्वा वृत्ति­का­रा­भि­प्रायं दूषयति -
केचित्त्विति ।
ज्ञानकर्मणोः समु­च्च­य­म­व­धा­र­यितुं प्रश्नाङ्गीकारे समु­च्च­या­व­धा­र­णे­नैव प्रतिवचनमुचितम् । न च तथा भगवता प्रतिवचनमुक्तम् । तथा च प्रश्नस्य समु­च्च­य­वि­ष­य­त्वो­प­ग­मात् प्रत्यु­क्ते­श्चा­स­मु­च्च­य­वि­ष­य­त्वात् तयोर्मिथो विरोधो वृत्तिकारमते स्यादित्यर्थः ।

किञ्च, केवलं प्रश्न­प्र­ति­व­च­न­यो­रेव परमते परस्परविरोधो न भवति, अपि तु परेषां स्वग्रन्थेऽपि पूर्वा­प­र­वि­रो­धोऽ­स्ती­त्याह -
यथा चेति ।

आत्मना - वृत्तिकारैरिति यावत् । सम्बन्धग्रन्थः - गीता­शा­स्रा­र­म्भो­पो­द्घातः । इहेति तृती­या­ध्या­या­रम्भं परामृशति । तदेव विवृ­ण्व­न्ना­का­ङ्क्षा­माह -
कथमिति ।

पूर्वापरविरोधं स्फोरयितुं सम्ब­न्ध­ग्र­न्थो­क्त­म­नु­व­दति -
तत्रेति ।
परकीया वृत्तिः सप्तम्या समुल्लिख्यते । सम्बन्धग्रन्थे तावदयमर्थ उक्त इति सम्बन्धः ।

तमेवार्थं विशदयति -
सर्वेषामिति ।

सर्व­क­र्म­सं­न्या­स­पू­र्व­क­ज्ञा­ना­देव केवलात् कैव­ल्य­मि­त्य­स्मि­न्नर्थे शास्त्रस्य पर्यवसानान्न समुच्चयो विव­क्षि­त­स्त­त्रे­त्या­श­ङ्क्याह -
पुनरिति ।
उक्तगीतार्थो वृत्तिकारैरेव कर्मत्यागायोगेन विशे­षि­त­त्वा­न्ना­वि­व­क्षि­तोऽलं भवितुमुत्सहते । तथा च श्रौतानि कर्माणि त्यक्त्वा ज्ञानादेव केव­ला­न्मु­क्ति­र्भ­व­ती­त्ये­त­न्मतं नियमेनैव याव­ज्जी­व­श्रु­ति­भि­र्वि­प्र­ति­षि­द्ध­त्वात् नाभ्यु­प­ग­न्तु­मु­चि­त­मि­त्यर्थः।

तथाऽपि कथं मिथो विरो­ध­धी­रि­त्या­श­ङ्क्याह -
इह त्विति ।
प्रथमतो हि सम्बन्धग्रन्थे समुच्चयो गीता­र्थ­प्र­ति­पा­द्य­त्वेन वृत्तिकृता प्रतिज्ञातः । श्रौत­क­र्म­प­रि­त्या­गश्च श्रुतिविरोधादेव न सम्भ­व­ती­त्यु­क्तम् । तृती­या­ध्या­या­रम्भे पुनः संन्यासिनां ज्ञाननिष्ठा, कर्मिणां कर्म­नि­ष्ठे­त्या­श्र­म­वि­भा­ग­म­भि­द­धता पूर्व­प्र­ति­षि­द्ध­क­र्म­त्या­गा­भ्यु­प­ग­मा­न्मिथो विरोधो दर्शितः स्यादित्यर्थः ।

ननु यथा भगवता प्रतिपादितं, तथैव वृत्तिकृता व्याख्यातमिति न तस्या­प­रा­धोऽ­स्ती­त्या­श­ङ्क्याह -
तत्कथमिति ।
न हीह भगवान् विरु­द्ध­म­र्थ­म­भि­धत्ते, सर्वज्ञस्य परमाप्तस्य विरु­द्धा­र्थ­वा­दि­त्वा­यो­गात् । किन्तु तद­भि­प्रा­या­प­रि­ज्ञा­ना­देव व्याख्या­तु­र्वि­रु­द्धा­र्थ­वा­दि­ते­त्यर्थः ।

भगवतो विरु­द्धा­र्थ­वा­दि­त्वा­भा­वेऽपि श्रोतु­र्वि­रु­द्धा­र्थ­प्र­ति­पत्तिं प्रतीत्य व्याचक्षाणो वृत्तिकारो नाप­रा­ध्य­ती­त्या­श­ङ्क्याह -
श्रोता वेति ।
अर्जुनो हि श्रोता । सोऽपि बुद्धिपूर्वकारी भग­व­दु­क्त­मे­वा­व­धा­र­यन् न विरु­द्ध­म­र्थ­म­व­धा­र­यि­तु­म­र्हति । तथा च परस्यैव विरु­द्धा­र्थ­वा­दि­ते­त्यर्थः ॥

विरोधं परिहरन् आशङ्कते -
तत्रेति ।
सम्बन्धग्रन्थे हि वृत्ति­का­र­स्यै­त­द­भि­प्रे­तम् - गृहस्थानामेव सतां परि­प­क्क­ज्ञा­न­म­न्त­रेण याव­ज्जी­व­श्रु­ति­चो­दि­ता­ग्नि­हो­त्रा­दि­त्या­गेन केव­ला­दे­वा­पा­ति­का­दा­त्म­ज्ञा­नात् मोक्ष­म­पे­क्ष­मा­णानां याव­ज्जी­वा­दि­शा­स्रै­रसौ निषिध्यते, न तु स्वरूपेणैव कर्मत्यागो ज्ञानान्मोक्षो वा निषेद्धुमिष्यते । तृतीये पुनरध्याये कर्मत्यागिनां गृहस्थेभ्यो व्यति­रि­क्ता­ना­मेव केव­ला­दा­त्म­ज्ञा­ना­न्मोक्षो विवक्ष्यते । अतो भिन्ना­वि­ष­य­त्वा­न्नि­षे­धा­भ्य­नु­ज्ञा­न­यो­र्न­वि­रो­धा­शं­के­त्यर्थः।

विरोधान्तरेण विरोधं दर्श­य­न्नु­त्त­र­माह -
एतदपीति ।

विरो­ध­मे­वा­का­ङ्क्षा­द्वारा साधयति -
कथमित्यादिना ।

श्रौतं कर्म गृह­स्था­ना­म­व­श्य­म­नु­ष्ठे­य­मि­त्य­ने­ना­भि­प्रा­येण तेषां केव­ला­दा­त्म­ज्ञा­ना­न्मोक्षो निषिध्यते । न तु गृहस्थानां ज्ञान­मा­त्रा­यत्तं मोक्षं प्रतिषिध्य अन्येषां केवलज्ञानाधीनो मोक्षो विवक्ष्यते, आश्र­मा­न्त­रा­णा­मपि स्मार्तेन कर्मणा समु­च्च­या­भ्यु­प­ग­मा­दिति चोदयति -
अथेति ।

एतत्परामृष्टं वचनमेवाभिनयति -
केवलादिति ।

ननु गृहस्थानां श्रौत­क­र्म­रा­हि­त्येऽपि, सति स्मार्ते कर्मणि कुतो ज्ञानस्य केवलत्वं लभ्यते ? येन निषे­धो­क्ति­र­र्थ­वती, तत्राह -
तत्रेति ।
प्रकृतवचनमेव सप्तम्यर्थः, प्रधानं हि श्रौतं कर्म । तद्राहित्ये सति, स्मार्तस्य कर्मणः सतोऽ­प्य­स­द्भा­व­म­भि­प्रेत्य ज्ञानस्य केव­ल­त्व­मु­क्त­मिति युक्ता निषे­धो­क्ति­रि­त्यर्थः ।

गृहस्थानामेव श्रौत­क­र्म­स­मु­च्चयो नान्येषाम् , अन्येषां तु स्मार्तेनेति पक्षपाते हेत्वभावं मन्वानः सन् परिहरति -
एतदपीति ।

तमेव हेतभावं प्रश्नद्वारा विवृणोति -
कथमित्यादिना ।
गृहस्थानां श्रौत­स्मा­र्त­क­र्म­स­मु­च्चितं ज्ञानं मुक्ति­हे­तु­रि­त्य­भ्यु­प­ग­मात् केव­ल­स्मा­र्त­क­र्म­स­मु­च्चि­तात् ततो न मुक्तिरिति निषेधो युज्यते । ऊर्ध्वरेतसां तु स्मार्त­क­र्म­मा­त्र­स­मु­च्चि­ता­ज्ज्ञा­ना­न्मु­क्ति­रिति विभागे नास्ति हेतुरित्यर्थः ।

पक्षपाते कारणं नास्ती­त्युक्त्वा पक्ष­पा­त­प­रि­त्यागे कारणमस्तीत्याह -
किञ्चेति ।

गृहस्थानामपि ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षसाधनं, ब्रह्म­ज्ञा­न­त्वा­दू­र्ध्व­रे­तःसु व्यव­स्थि­त­ब्र­ह्म­ज्ञा­न­व­दिति पक्षपातत्यागे हेतुं स्फुटयति -
यदीत्यादिना ॥

यदि गृहस्थानां ब्रह्मज्ञानं स्मार्तैरेव कर्मभिः समुच्चितं मोक्षहेतुरिति विवक्षितं, तदा तान् प्रति याव­ज्जी­व­श्रु­ति­र्वि­रु­ध्येत । यदि स्मार्तैरपि कर्मभिः समुच्चितं तदीयं ज्ञानं मोक्षसाधनं विवक्ष्यते, तदा सिद्धसाध्यतेति प्रागु­क्त­म­भि­प्रेत्य चोदयति -
अथेति ।

आश्रमान्तराणां तर्हि केवलादेव ज्ञाना­न्मु­क्ति­रिति प्रागु­क्त­वि­रो­ध­ता­द­व­स्थ्य­मि­त्या­श­ङ्क्याह -
ऊर्ध्वरेतसां त्विति ।

यथोक्ते विभागे, गार्हस्थ्यं क्लेशा­त्म­क­क­र्म­बा­हु­ल्या­द­नु­पा­दे­य­मा­प­द्ये­तेति दूषयति -
तत्रेति ।

साधनभूयस्त्वे फलभूयस्त्वमिति न्यायमाश्रित्य शङ्कते -
अथेति ।
क्लेश­बा­हु­ल्यो­पेतं श्रौतं स्मार्तं च बहु कर्म । तस्यानुष्ठानाद् गृहस्थस्य मोक्षः स्यादेवेत्यर्थः ।

एवकारनिरस्यं दर्शयति -
नाश्र­मा­न्त­रा­णा­मिति ।

तेषां नास्ति मुक्तिरित्यत्र याव­ज्जी­वा­दि­श्रु­ति­वि­हि­ता­व­श्या­नु­ष्ठे­य­क­र्म­रा­हित्यं हेतुं सूचयति -
श्रौतेति ।

शास्त्र­वि­रो­धि­न्या­यस्य निर­व­का­श­त्व­म­भि­प्रेत्य दूषयति -
तदपीति ।

ऐका­श्र­म्य­स्मृत्या गार्हस्थ्यस्यैव प्राधा­न्या­द­न­धि­कृ­ता­न्धा­दि­वि­षयं कर्म­सं­न्या­स­वि­धा­न­मि­त्या­श­ङ्क्याह -
ज्ञाना­ङ्ग­त्वे­नेति ।
न खल्व­न­धि­कृ­ता­ना­म­न्धा­दीनां संन्यासः श्रव­णा­द्या­वृ­त्ति­द्वारा ज्ञानाङ्गं भवितुमलम्, तेषां श्रव­णा­द्य­भ्या­सा­सा­म­र्थ्यात् । अतः श्रुत्यादीनां विरोधे नास्ति गार्हस्थ्यस्य प्राधा­न्य­मि­त्यर्थः ।

तस्य प्राधान्याभावे हेत्वन्तरमाह -
आश्रमेति ।
‘ब्रह्मचर्यं समाप्य गृही भवेद् , गृहाद्वनी भूत्वा प्रव्रजेद् , यदि वा इतरथा ब्रह्मचर्यादेव प्रव्रजेद् गृहाद् वा वनाद् वा‘(जा. उ. ४., या. उ. १) इति श्रुतौ, ‘तस्या­श्र­म­वि­क­ल्प­मेके ब्रुवते’(गौ. ध. ३-१) इति ‘यमिच्छेत् तमावसेत्’(व. ८-२ ?) इत्यादिस्मृतौ च आश्रमाणां समुच्चयेन विकल्पेन चाश्र­मा­न्त­र­मि­च्छन्तं प्रति विधानान्न गार्हस्थ्यस्य प्रधा­न­त्व­मि­त्यर्थः ॥

यदि सर्वे­षा­मा­श्र­माणां श्रुति­स्मृ­ति­मू­लत्वं, तर्हि तत्त­दा­श्र­म­वि­हि­त­क­र्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते -
सिद्धस्तर्हीति ।

यद्यपि ज्ञानो­त्प­त्ता­वा­श्र­म­क­र्मणां साधनत्वं, तथाऽपि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षते, अन्यथा संन्या­स­वि­ध्य­नु­प­प­त्ते­रिति दूषयति -
न मुमुक्षोरिति ।

संन्या­स­वि­धा­न­मे­वा­नु­क्रा­मति -
व्युत्था­ये­त्या­दिना ।
एषणाभ्यो वैमु­ख्ये­नो­त्थानं - तत्परित्यागः ।

आश्र­म­स­म्प­त्त्य­न­न्तरं तत्र विहि­त­ध­र्म­क­ला­पा­नु­ष्ठा­न­मपि कर्तव्यमित्याह -
अथेति ।

प्रागुक्तानां सत्या­दी­ना­म­ल्प­फ­ल­त्वाद् न्यासस्य च ज्ञानद्वारा मोक्ष­फ­ल­त्वा­दि­त्याह -
तस्मादिति ।
अतिरिक्तम् -अतिशयवन्तं, महाफलमिति यावत् ।

प्रकृतकर्मभ्यः सकाशान्न्यास एवातिशयवान् आसी­दि­त्यु­क्तेऽर्थे वाक्यान्तरं पठति -
न्यास एवेति ।

लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद् विरक्ताः संन्या­स­पू­र्व­का­दा­त्म­ज्ञा­ना­देव प्राप्तवन्तो मोक्षमित्याह -
न कर्मणेति ।

सति वैराग्य नास्ति कर्मापेक्षा, सत्यां सामग्र्यां कार्या­क्षे­पा­नु­प­प­त्ते­रि­त्याह -
ब्रह्म­च­र्या­दे­वेति ।
इत्याद्याः - सर्व­क­र्म­सं­न्या­स­वि­धा­यिन्यः, श्रुतयः, भवन्तीति शेषः ।

‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ति’(बृ. उ. ४-४-२२) इत्या­दि­वा­क्य­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् । तत्रैव स्मृतिमुदाहरति -
त्यजेति ।
धर्माधर्मयोः सत्यानृतयोश्च संसा­रा­र­म्भ्क­त्वाद् मुमुक्षुणा तत्त्यागे प्रय­ति­त­व्य­मि­त्यर्थः ।

त्यक्तृ­त्वा­भि­मा­न­स्यापि तत्त्वतः स्वरू­प­स­म्ब­न्धा­भा­वात् त्याज्य­त्व­म­वि­शि­ष्ट­मि­त्याह -
येनेति ।

अनुभवानुसारेण प्रमा­तृ­ता­प्र­मु­ख­रय संसारस्य दुःख­फ­ल­त्व­मा­लक्ष्य मोक्ष­हे­तु­स­म्य­ग्ज्ञा­न­सि­द्धये ब्रह्मचर्यादेव पारि­व्र­ज्य­म­नु­ष्ठे­य­मि­त्यु­त्प­त्ति­वि­धि­मु­प­न्य­स्यति -
संसारमिति ।

तत्त्व­ज्ञा­न­मु­द्दिश्य ब्रह्मचर्यादेव कर्म­सं­न्या­स­सा­म­ग्री­म­भि­द­धानो विनियोगविधिं सूचयति -
परमिति ।

ज्ञान­क­र्म­णो­र­स­मु­च्च­यार्थं फलविभागं कथयति -
कर्मणेति ।

उक्तं फलविभागमनूद्य ज्ञाननिष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह -
तस्मादिति ।

वाक्यशेषेऽपि सर्व­क­र्म­सं­न्यासो विव­क्षि­तोऽ­स्ती­त्याह -
इहापीति ॥

ज्ञानार्थिनो मुमुक्षोः संन्या­स­वि­ध्य­नु­प­प­त्ति­बा­धितं समु­च्च­य­वि­धि­व­च­न­मि­त्यु­क्तम् ; इदानाीं मोक्ष­स्व­भा­वा­लो­च­न­याऽपि समु­च्च­य­व­च­न­म­नु­चि­त­मि­त्याह -
मोक्षस्य चेति ।

‘अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रस­ज्जं­श्चे­न्द्रि­या­र्थेषु नरः पतनमृच्छति ॥‘(मनु ११ - १४)
इति स्मृतेः मुमुक्षुणाऽपि प्रत्य­वा­य­नि­वृ­त्तये कर्तव्यं नित्यकर्मेति शङ्कते -
नित्यानीति ।

यो यस्मिन् कर्म­ण्य­धि­कृ­त­स्तस्य तदकरणात् प्रत्यवायो भवति, न तु कर्मानधिकारिणः संन्या­सि­न­स्त­द­क­र­णात् प्रत्यवायः सम्भवतीति दूषयति -
नासंन्यासीति ।

तदेव स्पष्टयति -
न हीति ।
समि­द्धो­मा­ध्य­य­ना­द्य­क­र­णात् प्रत्यवायः संन्यासिनो नास्तीत्यर्थः ।

तत्र व्यति­रे­को­दा­ह­र­ण­माह -
यथेति ।

अकरणात् प्रत्य­वा­यो­त्प­त्ति­म­भ्यु­पे­त्योक्तं ; सम्प्रति प्रति­षि­द्ध­क­र­णा­देव प्रत्यवायो न त्वकरणात् अभावाद् भावो­त्प­त्ते­र्लो­क­वे­द­वि­रु­द्ध­त्वा­दि­त्याह -
न तावदिति ।

ननु नित्यकर्मविधायी वेदस्तदकरणात् प्रत्यवायो भवतीति ब्रवीति, तत् कथमकरणात् प्रत्यवायो न भवतीति श्रुति­मा­श्रि­त्यो­च्यते, श्रुत्य­न्त­र­वि­रो­धा­दिति, तत्राह -
यदीति ।

विहितस्याकरणे सति अन­र्थ­प्रा­प्तेर्न नित्यकर्मविधायी वेदोऽ­न­र्थ­क­र­त्वे­ना­प्र­मा­ण­मि­त्या­श­ङ्क्याह -
विहितस्येति ।
न विहितस्य करणे पितृ­लो­क­प्रा­प्ति­ल­क्षणं फलं भवतेष्यते, धूमादिना नयनपीडादिदुःखं तु प्रत्यक्षमेव, अकरणे च प्रत्य­वा­यो­त्पत्तिः, उभयथाऽपि पुरु­ष­स्या­न­र्थ­करो वेदोऽप्रमाणमेव स्यादित्यर्थः ।

नन्वभावस्यापि भावो­त्पा­द­न­सा­मर्थ्यं वेदः सम्पादयिष्यति, तथा च विहि­ता­क­र­ण­प्र­त्य­वा­य­प­रि­हारो विहितकरणे फलिष्यतीति, नेत्याह -
तथा चेति ।
लोक­प्र­सि­द्ध­प­दा­र्थ­श­क्त्या­श्र­य­णेन शास्त्र­प्र­वृ­त्त्य­ङ्गी­का­रात् अपू­र्व­श­क्त्या­धा­ना­यो­गाद् ज्ञापकमेव शास्त्र­मि­त्यर्थः ।

कारकत्वे च तस्या­प्रा­मा­ण्य­म­प्र­त्यूहं स्यादित्याह -
कारकमिति ।

भवतु शास्त्र­स्या­प्रा­मा­ण्य­मि­त्या­श­ङ्क्य­पौ­रु­षे­य­तया शेष­दो­षा­ना­गा­न्धि­त­त्वाद् मैवमित्याह -
न चेति ।

अनि­र्वा­च्या­नु­प­ल­म्भस्य संवे­द­न­म­भा­व­ज्ञाने कारणं, समी­हि­त­सा­ध­न­ज्ञानं तु चरणन्यासादि प्रवृ­त्ति­क्रा­र­ण­मि­त्य­ङ्गी­कृ­त्यो­प­सं­ह­रति -
तस्मादिति ।
अकरणात् प्रत्य­वा­यो­त्प­त्य­स­म्भ­व­स्त­च्छ­ब्दार्थः ।

संन्यासिनां - ज्ञाननिष्ठानां, कर्म­सं­न्या­सि­त्वा­देव कर्मासम्भवे फलितमाह -
अत इति ।

समु­च्च­या­नु­प­पत्तौ हेत्वन्तरमाह -
ज्यायसीति ।

प्रश्ना­नु­प­प­त्ति­मेव प्रपञ्चयति -
यदि हीति ।

समुच्चयोपदेशे प्रश्नै­क­दे­शा­नु­प­प­त्तेश्च न तदु­प­दे­शो­प­प­त्ति­रि­त्याह -
अर्जुनायेति ।

‘कर्म­ण्ये­वा­धि­का­रस्ते मा फलेषु कदाचन’(भ. गी. २-४७) इत्यर्जुनं प्रत्युपदेशात् तं प्रति ज्यायसी बुद्धि­र्नो­क्तेति युक्तं, ‘तत् किम्’(भ. गी. ३-१) इत्या­द्यु­पा­ल­म्भ­व­च­न­मि­त्या­श­ङ्क्याह -
नचेति ।
येन कल्पनेन ‘ज्यायसी चेद्’(भ. गी. ३-१) इत्यारभ्यं ‘तत्किं कर्मणि’(भ. गी. ३-१) इत्यु­पा­ल­म्भात्मा प्रश्नः स्यात् तथा न युक्तं कल्पयितुम् ‘एषा तेऽभिहिता साङ्ख्ये बुद्धि’(भ. गी. २-३९) इति वचनविरोधादिति योजना ।

कस्मिन् पक्षे तर्हि प्रश्न­स्यो­प­प­त्ति­रि­त्या­श­ङ्क्याह -
यदीति ।

भगवदुक्तेऽर्थे प्रष्टु­र्वि­वे­का­भा­वात् प्रश्नः स्यादि­त्या­शङ्क्य पूर्वो­क्त­मे­वा­धि­क­वि­व­क्षया स्मारयति -
अविवेकत इति ।

भगवतोऽपि प्रतिवचनम् अज्ञाननिमित्तं प्रश्ना­न­नु­रू­प­त्वा­दि­त्या­शङ्क्य अधिकं दर्शयति -
नचेति ।
भगवतः सर्व­ज्ञ­त्व­प्र­सि­द्धि­वि­रो­धाद् अज्ञा­ना­धी­न­प्र­ति­व­च­ना­यो­गा­दि­त्यर्थः ।

इतश्च समुच्चयः शास्त्रार्थो न भवतीत्याह -
अस्माच्चेति ।

कस्तर्हि शास्त्रार्थो विवक्षितः ? तत्राह -
केवलादिति ।

ज्ञानकर्मणोः समु­च्च­या­नु­प­पत्तौ कारणान्तरमाह -
ज्ञानेति ।

वाक्यशेषवशादपि समु­च्च­य­स्या­शा­स्त्रा­र्थ­ते­त्याह -
कुरु कर्मैवेति ।

प्राथमिकेन सम्बन्धग्रन्थेन सम­स्त­शा­स्त्रा­र्थ­स­ङ्ग्रा­ह­केण तद्वि­व­र­णा­त्म­नोऽस्य सन्दर्भस्य नास्ति पौनरुक्त्यामिति मत्वा, प्रतिपदं व्याख्यातुं प्रश्नैकदेशं समुत्थापयति -
ज्यायसी चेदिति ।

वेदाश्चेत् प्रमाणमितिवत् चेदित्यस्य निश्चयार्थत्वं व्यावर्तयति -
यदीति ।

बुद्धि­श­ब्द­स्या­न्तः­क­र­ण­वि­ष­यत्वं व्यवच्छिनत्ति -
ज्ञानमिति ।

पूर्वा­र्ध­स्या­क्ष­र­यो­जनां कृत्वा समुच्चयाभावे तात्पर्यमाह -
यदीति ।
इष्टे,भगवतेति शेषः । एकं ज्ञानं कर्म च समुच्चितमिति यावत् । ज्ञान­क­र्म­णो­र­भीष्टे समुच्चये समुच्चितस्य श्रेयः­सा­ध­न­स्यै­क­त्वात् कर्मणः सकाशाद् ज्ञानस्य पृथ­क्क­र­ण­म­यु­क्त­मि­त्यर्थः ।

एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादि­त्या­श­ङ्क्याह -
नहीति ।
नच केवलात् कर्मणो ज्ञानस्य केवलस्य फल­तोऽ­ति­रि­क्तत्वं विवक्षित्वा पृथक्करणं, समुच्चयपक्षे प्रत्येकं श्रेयः साध­न­त्वा­न­भ्यु­प­ग­मा­दिति भावः ।

पूर्वा­र्ध­स्ये­वो­त्त­रा­र्ध­स्यापि समुच्चयपक्षे तुल्या­नु­प­प­त्ति­रि­त्याह -
तथेति ।
‘दूरेण ह्यवरं कर्म ‘(भ. गी. २-३०) इत्यत्र कर्मणः सकाशाद् बुद्धिः श्रेयस्करी भगवतोक्ता । कर्म च बुद्धेः सका­शा­द­श्रे­य­स्क­र­मु­क्तम् । तथाऽपि तदेव कर्म ‘कर्म­ण्ये­वा­धि­का­रस्ते मा फलेषु’(भ. गी. २-४७) इति स्निग्धं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति, तत्र कार­णा­नु­प­ल­म्भा­द­यु­क्तम् , अतिक्रूरे कर्मणि भगवतो मन्नियोजनमिति यदर्जुनो ब्रवीति, तच्च समु­च्च­य­प­क्षेऽ­नु­प­पन्नः स्यादित्यर्थः ।

यत्तु वृत्ति­का­रैु­रुक्तं ‘श्रौतेन स्मार्तेन च कर्मणा समुच्चयो गृहस्थानां श्रेयःसाधनम् , इतरेषां स्मार्तेनैवेति भग­व­तो­क्त­म­र्जु­नेन च निर्धारितम्’ इति, तदेतदनुवदति –
अथेति ।

तत्रापि ’तत्कि­म्’इ­त्या­द्यु­पा­ल­म्भ­व­च­न­म­नु­प­पन्नं, कर्म­मा­त्र­स­मु­च्च­य­वा­दिनो भगवतो नियोजनाभावादिति दूषयति –
तत्किमिति
॥१॥

इतश्च प्रश्नः समुच्चयानुसारी न भवतीत्याह –
किञ्चेति ।

भगवतो विवि­क्ता­र्थ­वा­दि­त्वा­द­युक्तं व्यामि­श्रे­णे­त्या­दि­व­च­न­मि­त्या­श­ङ्क्याह –
यद्यपीति ।

यदि भगवद्वचनं सङ्कीर्णमिव ते भाति, तर्हि तेन त्वदी­य­बु­द्धि­व्या­मो­ह­न­मेव तस्य विवक्षितमिति, किमिति मोह­य­सी­वे­त्यु­च्यते ? तत्राह –
ममेति ।

ज्ञानकर्मणि मिथो विरोधाद् युग­प­दे­क­पु­रु­षा­न­नु­ष्ठे­य­तया भिन्नकर्तृके कथ्येते, तथा च तयो­र­न्य­त­र­स्मि­न्नेव त्वं नियुक्तः, न तु ते बुद्धि­व्या­मो­ह­न­म­भि­म­त­मिति, भगवतो मतमनुवदति –
त्वं त्विति ।

तदे­क­मि­त्या­दि­श्लो­का­र्धे­नो­त्त­र­माह –
तत्रेति ।
उक्तं भागवतमतं सप्तम्या परामृश्यते । एक­मि­त्यु­क्त­प्र­का­रोक्तिः ।

एकमित्युक्तमेव स्फुटयति –
बुद्धिमिति ।

निश्चयप्रकारं प्रकटयति –
इदमिति ।

योग्यत्वं स्पष्टयति –
बुद्धीति ।
अस्य क्षत्रियस्य सतोऽन्तःकरणस्य देहशक्तेः सम­र­स­मा­र­म्भा­व­स्था­या­श्चे­द­मेव ज्ञानं वा अनुगुणमिति निर्धार्य ब्रूहीत्यर्थः ।

निश्चि­त्या­न्य­त­रोक्तौ तेन श्रोतुः श्रेयोऽवाप्तिं फलमाह -
येनेति ।

तदे­क­मि­त्या­दि­वा­क्य­स्या­क्ष­रो­त्थ­म­र्थ­मुक्त्वा, समुच्चयस्य शास्त्रा­र्थ­त्वा­भावे तात्पर्यमाह -
यदि हीति ।
गुण­भू­त­म­पी­त्या­दिना प्रधानभूतमपि वेति विवक्षितम् ।

ननु उभ­य­प्रा­प्त्य­स­म्भ­व­मा­त्मनो मन्य­मा­न­स्या­र्जु­न­स्या­न्य­त­र­वि­षया शुश्रूषा भविष्यति ? नेत्याह -
न हीति ।

यथो­क्त­भ­ग­व­द्व­च­ना­भावे द्वय­प्रा­प्त्य­स­म्भ­व­बुद्ध्या नान्य­त­र­प्रा­र्थना सम्भवतीत्याह -
येनेति ।
नहि तथाविधं भगवद्वचनं भवतेष्टं, भगवतः समु­च्च­य­वा­दि­त्वा­ङ्गी­का­रात् । अत­स्त­द­भा­वा­दु­क्त­बुद्ध्या न युक्ताऽ­न्य­त­र­प्रा­र्थ­ने­त्यर्थः ॥ २ ॥

सम्मु­च्च­य­वि­रो­धि­तया प्रश्नं व्याख्याय तद्वि­रो­धि­त्वे­नैव प्रति­व­च­न­मु­त्था­प­यति -
प्रश्नेति।

येयं व्यव­हा­र­भू­मि­रु­प­ल­भ्यते, तत्र त्रैवर्णिकाः ज्ञानं कर्म वा शास्त्री­य­म­नु­ष्ठा­तु­म­धि­क्रि­यन्ते। तेषां द्विधा स्थितिर्मया प्रोक्तेति पूर्वार्धं योजयति -
लोकेऽ­स्मि­न्निति।

स्थितिमेव व्याकरोति -
अनुष्ठेयेति।

पूर्वं प्रवचनप्रसङ्गं प्रदर्शयन् प्रवक्तारं विशिनष्टि -
सर्गादाविति।

प्रव­च­न­स्या­य­था­र्थ­त्व­शङ्कां वारयति -
सर्वज्ञेनेति।

अर्जुनस्य भग­व­दु­प­दे­श­यो­ग्यत्वं सूचयति -
अनघेति।
निर्धारणार्थे तत्रेति सप्तमी । ज्ञानं - पर­मा­र्थ­व­स्तु­वि­षयं तदेव योगशब्दितं, युज्यतेऽनेन ब्रह्मणेति व्युत्प­त्ते­स्तेन । निष्ठे­त्य­नु­व­र्तते।

उक्त­ज्ञा­नो­पा­य­मु­प­दि­दिक्षुः साङ्ख्य­श­ब्दा­र्थ­माह -
आत्मेति।

तेषामेव कर्मनिष्ठत्वं व्यावर्तयति -
ब्रह्मचर्येति।

तेषां जपादिपारवश्येन श्रव­णा­दि­प­रा­ङ्मु­खत्वं पराकरोति -
वेदान्तेति।

उक्तविशेषणवतां मुख्य­सं­न्या­सि­त्वेन फलावस्थत्वं दर्शयति -
परमहंसेति।

कर्म - वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्थेन निष्ठा कर्मिणां प्रोक्ते­त्य­नु­षङ्गं दर्शयन्नाह -
कर्मैवेत्यादिना ।

एवं प्रति­व­च­न­वा­क्य­स्था­न्य­क्ष­राणि व्याख्याय तस्यैव तात्पर्यार्थं कथयति -
यदि चेति।

इष्टस्यापि दुर्बो­ध­त्व­मा­श­ङ्क्याह -
उक्तमिति।

ज्ञानस्यापि मूलविकलतया विभ्र­म­त्च­मा­श­ङ्क्याह -
वेदेष्विति।

तस्या­शि­ष्य­त्व­बुद्ध्या अन्य­था­क­थ­न­मि­त्या­श­ङ्क्याह -
उपसन्नायेति।

तथापि तस्मिन् औदा­सी­न्या­द­न्य­थो­क्ति­रि­त्या­श­ङ्क्याह -
प्रियायेति।
ब्रवीति च भिन्न­पु­रु­ष­क­र्तृकं निष्ठाद्वयं, तेन समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः।

नन्वर्जुनस्य प्रेक्षा­पू­र्व­का­रि­त्वाद् ज्ञान­क­र्म­श्र­व­णा­न­न्त­र­मु­भ­य­नि­र्दे­शा­नु­उ­प­पत्त्या समु­च्च­या­नु­ष्ठानं सम्पत्स्यते, तद्व्य­ति­रि­क्तानां तु ज्ञान­क­र्म­णो­र्भि­न्न­पु­रु­षा­नु­ष्ठे­यत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते, तस्या­र्जु­नेऽ­नु­रा­गा­ति­रे­का­दि­त­रेषु च तदभावादिति तत्राह -
यदि पुनरिति।

अप्रमाणभूतत्वम् - अनाप्तत्वम् ।न च भगवतो रागा­दि­म­त्त्वे­ना­प्तत्वं युक्तम्, ’समं सर्वेषु भूतेषु तिष्ठन्तम्’ इत्या­दि­वि­रो­धा­दि­त्याह -
तच्चेति।

निष्ठाद्वयस्य भिन्न­पु­रु­षा­नु­ष्ठे­य­त्व­नि­र्दे­श­फ­ल­मु­प­सं­ह­रति -
तस्मादिति।
॥३॥

किमिति भगवता बुद्धे­र्ज्या­यस्त्वं ’ज्यायसी चेद्’ इत्य­त्रो­क्त­मु­पे­क्षि­त­मिति, तत्राह -
यदर्जुनेनेति।

किं च ज्ञाननिष्ठायां संन्या­सि­ना­मे­वा­धि­कारो भगवतोऽभिप्रेतः, अन्यथा तदी­य­वि­भा­ग­व­च­न­वि­रो­धा­दिति विभा­ग­व­च­न­सा­म­र्थ्य­सि­द्ध­म­र्थ­माह -
तस्याश्चेति
॥३॥

तर्हि विभा­ग­व­च­ना­नु­रो­धा­द­र्जु­न­स्यापि संन्या­स­पू­र्वि­कायां ज्ञान­नि­ष्ठा­या­मे­वा­धि­कारो भविष्यति, नेत्याह -
मां चेति ।
बुद्धे­र्ज्या­य­स्त्व­मु­पे­त्या­पीति चकारार्थः । अर्जुनमालक्ष्य भगवानाहेति सम्बन्धः ।

अन्तरेणापि कर्माणि, श्रव­णा­दि­भि­र्ज्ञा­ना­वा­प्ति­र्भ­वि­ष्य­तीति पर­बु­द्धि­म­नु­रुध्य विशिनष्टि -
कर्मेति ।

विभा­ग­व­च­न­व­शा­द­स­मु­च्च­य­श्चेद् उभयोरपि ज्ञानकर्मणोः स्वातन्त्र्येण पुरु­षा­र्थ­हे­तु­त्वम् , अन्यथा कर्मवद् ज्ञानमपि न स्वातन्त्र्येण पुरुषार्थं साधयेद् इत्याशङ्क्य सम्बन्धान्तरमाह -
अथवेति ।

तर्हि ज्ञाननिष्ठाऽपि कर्म­नि­ष्ठा­व­न्नि­ष्ठा­त्वा­वि­शे­षान्न स्वातन्त्र्येण पुरु­षा­र्थ­हे­तु­रिति । समु­च्च­य­सि­द्धि­रि­त्या­श­ङ्क्याह -
ज्ञाननिष्ठा त्विति ।

नहि रज्जु­त­त्त्व­ज्ञा­न­मु­त्पन्नं फलसिद्धौ सह­का­रि­सा­पे­क्ष­मा­ल­क्ष्यते । तथेदमपि च उत्पन्नं मोक्षाय नान्यदपेक्षते । तदाह -
अन्येति ।

‘यस्य वा एतत् कर्म’(कौ. उ. ४. १७) इति श्रुताविव कर्मशब्दस्य क्रिय­मा­ण­व­स्तु­वि­ष­य­त्व­मा­शङ्क्य व्याचष्टे -
क्रियाणामिति ।

ताश्च­नि­त्य­नै­मि­त्ति­क­त्वेन विभजते -
यज्ञादीनामिति ।

अस्मिन्नेव जन्मनि अनुष्ठितानां कर्मणां बुद्धि­शु­द्धि­द्वारा ज्ञानकारणत्वे, ब्रह्मचारिणां कुतो ज्ञानो­त्प­त्ति­र्ज­न्मा­न्त­र­कृ­तानां कर्मणां वा तथात्वे, गृह­स्था­दी­ना­मै­हि­कानि कर्माणि न ज्ञानहेतवः स्युरि­त्या­शङ्क्य अनियमं दर्शयति -
इहेति ।

नेमानि सत्त्व­शु­द्धि­का­र­णानि उपा­त्त­दु­रि­त­प्र­ति­ब­न्धा­दि­त्या­श­ङ्क्याह -
उपात्तेति ।

तर्हि तावतैव कृतार्थानां कुतो ज्ञान­नि­ष्ठा­हे­तुत्वं, तत्राह -
तत्कारणत्वेनेति ।

कर्मणां चित्त­शु­द्धि­द्वारा ज्ञानहेतुत्वे मानमाह -
ज्ञानमिति ।

अना­र­म्भ­श­ब्द­स्यो­प­क्र­म­वि­प­री­त­वि­ष­यत्वं व्यावर्तयति-
अननुष्ठानादिति ।

निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्कर्म्यमिति व्याचष्टे -
निष्कर्मेति ।

कर्माभावावस्थां व्यवच्छिनत्ति -
ज्ञानयोगेनेति ।

तस्याः साध­न­प­क्ष­पा­तित्वं व्यावर्तयति -
निष्क्रियेति ।

कर्मा­नु­ष्ठा­नो­पा­य­लब्धा ज्ञाननिष्ठा स्वतन्त्रा पुमर्थहेतुरिति प्रकृ­ता­र्थ­स­म­र्थ­नार्थं व्यति­रे­क­व­च­न­स्या­न्वये पर्यवसानं मत्वा व्याचष्टे -
कर्मणामिति ।

तद्विपर्ययमेव व्याचष्टे -
तेषामिति ।

उक्तेऽर्थे हेतुं पृच्छति -
कस्मादिति ।

जिज्ञासितं हेतुमाह -
उच्यत इति ।

उपायत्वेऽपि तदभावे कुतो नैष्क­र्म्या­सि­द्धि­रि­त्या­श­ङ्क्याह -
नहीति ।

ज्ञानयोगं प्रति कर्म­यो­ग­स्यो­पा­यत्वे श्रुतिस्मृती प्रमाणयति -
कर्मयोगेति ।

श्रौत­मु­पा­यो­पे­य­त्व­प्र­ति­पा­दनं प्रकटयति -
श्रुताविति ।

यत्तु गीताशास्त्रे कर्मयोगस्य ज्ञानयोगं प्रत्यु­पा­य­त्वो­प­पा­दनं, तदिदानीमुदाहरति -
इहापि चेति ।

न कर्म­णा­मि­त्या­दिना पूर्वार्धं व्याख्याय, उत्तरार्धं व्याख्या­तु­मा­श­ङ्क­यति -
नन्विति ।
आदिशब्देन ‘शान्तो दान्त उप­र­त­स्ति­तिक्षुः’(बृ. उ. ४-४-२३) , ‘संन्यासयोगाद् यतयः शुद्धसत्त्वाः’(मु. उ. ३-२-६) इत्यादि गृह्यते ।

तत्रैव लोक­प्र­सि­द्धि­म­नु­कू­ल­यति -
लोके चेति ।
प्रसिद्धतरं, ‘यतो यतो निवर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥‘(सं. शा. ३. ३६४) इत्या­दि­द­र्श­ना­दिति शेषः ।

लौकि­क­वै­दि­क­प्र­सि­द्धिभ्यां सिद्धमर्थमाह -
अतश्चेति ।

तत्रो­त्त­र­त्वे­नो­त्त­रा­र्ध­म­व­तार्य, व्याकरोति -
अत आहेत्यादिना ।

एवकारार्थमाह -
केवलादिति ।

तदेव स्पष्टयति -
कर्मेति ।

उक्तमेव नञमनुकृष्य क्रियापदेन सङ्गतिं दर्शयति -
न प्राप्नोतीति
॥ ४ ॥

उक्तेऽर्थे बुभुत्सितं हेतुं वक्तु­मु­त्त­र­श्लो­क­मु­त्था­प­यति -
कस्मादिति ।
कस्मान्न कर्मसंन्यासादेव सिद्धि­म­धि­ग­च्छ­तीति पूर्वेण सम्बन्धः ।

कदाचित् - क्षणमात्रमपि, न कश्चिदकर्मकृत् तिष्ठतीत्यत्र हेतु­त्वे­नो­त्त­रार्धं व्याचष्टे -
कस्मादिति ।

सर्वशब्दाद् ज्ञानवानपि गुणैरवशः सन् कर्म कार्यते । ततश्च ज्ञानवतः संन्या­स­व­च­न­म­न­व­काशं स्यादि­त्या­श­ङ्क्याह -
अज्ञ इतीति ।

तमेव वाक्यशेषं वाक्य­शे­षा­व­ष्ट­म्भेन स्पष्टयति -
यत इति ।
आत्मज्ञानवतो गुणैरविचाल्यतया गुणा­ती­त­त्व­व­च­ना­द­ज्ञ­स्यैव सत्त्वा­दि­गु­णै­रि­च्छा­भे­देन कार्यकरणसङ्घातं प्रव­र्त­यि­तु­म­श­क्तस्य अजि­त­का­र्य­क­र­ण­स­ङ्घा­तस्य क्रियासु प्रव­र्त­मा­न­त्व­मि­त्यर्थः ।

ज्ञान­यो­गे­ने­त्या­दिना उक्तन्यायाच्च वाक्य­शे­षो­प­प­त्ति­रि­त्याह -
साङ्ख्यानामिति ।

ज्ञानिनां गुण­प्र­यु­क्त­च­ल­ना­भा­वेऽपि स्वाभा­वि­क­च­ल­न­ब­लात् कर्मयोगो भवि­ष्य­ती­त्या­श­ङ्क्याह -
ज्ञानिनां त्विति ।

प्रत्यगात्मनि स्वार­सि­क­च­ल­ना­स­म्भवे प्रागुक्तं न्यायं स्मारयति -
तथा चेति
॥ ५ ॥

आत्म­ज्ञ­व­द­ना­त्म­ज्ञ­स्यापि तर्हि कर्माकुर्वतो न प्रत्यवायः, शरी­रे­न्द्रि­य­स­ङ्घातं निय­न्तु­म­स­म­र्थस्य मूर्खस्यापि संन्या­स­स­म्भ­वा­दि­त्या­श­ङ्क्याह -
यस्त्विति ।

तस्य चोदिताकरणं तच्छब्देन परामृश्यते -
तदसदिति ।
मिथ्या­चा­र­त्वा­दिति भावः ।

मिथ्याचारतामेव वर्णयति -
कर्मे­न्द्रि­या­णीति
॥ ६ ॥

अनात्मज्ञस्य चोदितमकुर्वतो जाग्रतो विष­या­न्त­र­द­र्श­न­ध्रौ­व्यात् मिथ्याचारत्वेन प्रत्य­वा­यि­त्व­मुक्त्वा विहि­त­म­नु­ति­ष्ठ­त­स्त­स्यैव फलाभिलाषविकलस्य सदाचारत्वेन वैशि­ष्ट्य­मा­चष्टे -
यस्त्वि­न्द्रि­या­णीति ।

विहि­त­म­नु­ति­ष्ठतो, मूर्खात् कर्म त्यजतो वैशि­ष्ट्य­म­क्ष­र­यो­ज­नया स्पष्टयति -
यस्तु पुनरिति
॥ ७ ॥

कर्मानुष्ठायिनो वैशि­ष्ट्य­मु­प­दि­ष्ट­म­नूद्य तद­नु­ष्ठा­न­म­धि­कृ­तेन कर्तव्यमिति निगमयति -
यत इति ।

उक्तमेव हेतुं भगवदनुमतिकथनेन स्फुटयति -
कर्मेति ।

इतश्च त्वया कर्तव्यं कर्मेत्याह -
शरीरेति ।
तन्नियत तस्या­धि­कृ­त­स्येति सम्बन्धः ।

स्वर्गादिफले दर्श­पू­र्ण­मा­सा­दा­व­धि­कृ­तस्य तस्य तदपि नित्यं स्यादि­त्या­शङ्क्य विशिनष्टि -
फलायेति ।

नित्यं - नियमेन कर्तव्यमित्यत्र हेतुमाह -
यत इति ।

हिश­ब्दो­पा­त्त­मु­क्त­मेव हेतुमनुवदति -
यस्मादिति ।

करणस्य अक­र­णा­ज्ज्या­यस्त्वं प्रश्नपूर्वकं प्रकटयति -
कथमित्यादिना ।

सत्येव कर्मणि देहा­दि­चे­ष्टा­द्वारा शरीरं स्थातुं पारयति, तदभावे जीवनमेव दुर्लभं भवेदिति फलितमाह -
अत इति
॥ ८ ॥

‘कर्मणा बध्यते जन्तुः’(म. भा. १२-२४१-७) इति स्मृते­र्ब­न्धार्थं कर्म, तत्र श्रेयोऽर्थिना कर्त­व्य­मि­त्या­श­ङ्का­म­नूद्य दूषयति -
यच्चेत्यादिना ।

कर्माधिकृतस्य तदकरणमयुक्तमिति प्रतिज्ञातं प्रश्नपूर्वकं विवृणोति -
कथमित्यादिना ।

फला­भि­स­न्धि­म­न्त­रेण यज्ञार्थं कर्म कुर्वाणस्य बन्धाभावात् तादर्थ्येन कर्म कर्तव्यमित्याह -
तदर्थमिति ।

यज्ञार्थं कर्मेत्ययुक्तं, नहि कर्मार्थमेव कर्मे­त्या­शङ्क्य, व्याचष्टे -
यज्ञो वै विष्णुरिति ।

कथं तर्हि ‘कर्मणा बध्यते जन्तुः’(म. भा. १२-२४१-७) इति स्मृतिः ? तत्राह -
तस्मादिति ।

ईश्व­रा­र्प­ण­बुद्ध्या कृतस्य कर्मणो बन्धा­र्थ­त्वा­भावे फलितमाह -
अत इति
॥ ९ ॥

नित्यस्य कर्मणो नैमि­त्ति­क­स­हि­तस्य अधिकृतेन कर्तव्यत्वे हेत्व­न्त­र­प­र­त्वे­ना­न­न्त­र­श्लो­क­म­व­ता­र­यति -
इतश्चेति ।

कथं पुनरनेन यज्ञेन वृद्धिरस्माभिः शक्या कर्तु­मि­त्या­श­ङ्क्याह -
एष इति
॥ १० ॥

कथं पुन­र­भी­ष्ट­फ­ल­वि­शे­ष­हे­तुत्वं यज्ञस्य विज्ञायते ? नहि देव­ता­प्र­सा­दा­दृते स्वर्गा­दि­र­भ्यु­दयो लभ्यते, नापि सम्य­ग्द­र्श­न­म­न्त­रेण निश्श्रेयसं सेद्धुं पारयतीति शङ्कते -
कथमिति ।

तत्र श्लोकेनोत्तरमाह -
देवानिति ।
मुमु­क्षु­त्व­बु­भु­क्षु­त्व­वि­भा­गेन श्रेयसि विकल्पः ॥ ११ ॥

इतश्चाधिकृतेन कर्म कर्तव्यमित्याह -
किञ्चेति ।

कथ­म­स्मा­भि­र्भा­विताः सन्तो देवा भावयिष्यन्ति अस्मानिति, तदाह -
इष्टानिति ।

यज्ञानुष्ठानेन पूर्वोक्तरीत्या स्वर्गा­प­व­र्ग­यो­र्भा­वेऽपि, कथं स्त्रीप­शु­पु­त्रा­दि­सि­द्धि­रि­त्या­शङ्क्य, पूर्वार्धं व्याकरोति -
इष्टान् अभिप्रेतानिति ।

पश्वादिभिश्च यज्ञा­नु­ष्ठा­न­द्वारा भोगो निर्वर्तनीयः, अन्यथा प्रत्य­वा­य­प्र­स­ङ्गा­दि­त्यु­त्त­रार्धं व्याचष्टे -
तैरिति ।
आनृण्यमकृत्वा इत्यस्य अयमर्थः - देवानामृषीणां पितृणां च यज्ञेन ब्रह्मचर्येण प्रजया च सन्तोषमनापाद्य, स्वकीयं कार्य­क­र­ण­स­ङ्घा­त­मेव पोष्टुं भुञ्जानस्तस्करो भवतीति ॥ १२ ॥

देवादिभ्यः संविभागमकृत्वा भुञ्जानानां प्रत्य­वा­यि­त्व­मुक्त्वा, तदन्येषां सर्वदोषराहित्यं दर्शयति -
ये पुनरिति ।
यज्ञशिष्टाशिनो ये पुनस्ते तादृशाः सन्तः सर्व­कि­ल्बि­षै­र्मु­च्यन्त इति योजना ।

तैर्द­त्ता­नि­त्या­दि­नोक्तं निगमयति -
भुञ्जत इति ।
देवयज्ञादीन् इति आदिशब्देन पितृयज्ञो मनुष्ययज्ञो भूतयज्ञो ब्रह्म­य­ज्ञ­श्चेति चत्वारो यज्ञाः गृह्यन्ते । चुल्लीशब्देन पिठ­र­धा­र­णा­द्य­र्थ­क्रियां कुर्वन्तो विन्या­स­वि­शे­ष­व­न्त­स्त्रयो ग्रावाणो विवक्ष्यन्ते । आदिशब्देन कण्डनी पेषणी मार्जनी उद­कु­म्भ­श्चे­त्येते हिंसाहेतवो गृहीताः । तान्येतानि पञ्च, प्राणिनां सूनास्थानानि - हिंसाकारणानि, तत्प्रयुक्तैः सर्वैरपि बुद्ध्य­बु­द्धि­पू­र्व­क­दु­रि­तै­र्मु­च्यन्त इति सम्बन्धः ।

प्रमादः -
विचा­र­व्य­ति­रे­के­णा­बु­द्धि­पू­र्व­क­मु­प­नतं पादपातादिकर्म, तेन प्राणिनां हिंसा सम्भाव्यते । आदि­श­ब्दे­ना­शु­चि­सं­स्प­र्शा­दि­गृ­हीतं, तदुत्थैश्च पापै­र्म­हा­य­ज्ञ­का­रिणो मुच्यन्ते । उक्तं हि‘कण्डनं पेषणं चु्ल्ली उदकुम्भश्च मार्जनी ।पञ्च सूना गृहस्थस्य पञ्चयज्ञात् प्रणश्यति ॥ ‘(मनुः - ३ -६८) इति ।
‘पञ्च सूना गृहस्थस्य चुल्ली पेषण्यवस्करः ।
कण्डनी चैव (चोद) कुम्मश्च वध्यन्ते यांस्तु वाहयन्'
इति च । अस्यायमर्थः - या यथोक्ताः पञ्चसङ्ख्याका गृहस्थस्य सूनास्ता यो वाहयन् - आपादयन् वर्तते, तेन प्राणिनो बुद्धि­पू­र्व­क­म­बु­द्धि­पू­र्वकं च वध्यन्ते ।

तत्प्रयुक्तं सर्वमपि पापं महा­य­ज्ञा­नु­ष्ठा­नात् प्रणश्यतीति महा­य­ज्ञा­नु­ष्ठा­न­स्तु­त्य­र्थम् तद­नु­ष्ठा­न­वि­मु­खान् निन्दति -
ये त्विति ।

आत्मम्भरित्वमेव स्फोरयति -
ये पचन्तीति ।

स्वदे­हे­न्द्रि­य­पो­ष­णा­र्थ­मेव पाकं कुर्वतां देव­य­ज्ञा­दि­प­रा­ङ्मु­खानां पापभूयस्त्वं दर्शयति -
भुञ्जत इति ।
पाठ­क्र­म­स्त्व­र्थ­क्र­मा­द­प­बा­ध­नीयः ॥ १३ ॥

देवयज्ञादिकं कर्माधिकृतेन कर्तव्यमित्यत्र हेत्व­न्त­र­मि­तः­श­ब्दो­पा­त्त­मेव दर्शयति -
जगदिति ।

ननु भुक्तमन्नं रेतो­लो­हि­त­प­रि­ण­ति­क्र­मेण प्रजारूपेण जायते, तच्चान्नं वृष्टिसम्भवं प्रत्य­क्ष­दृष्टं, तत् कथं कर्मणो जग­च्च­क्र­प्र­व­र्त­क­त्व­मिति शङ्कते -
कथमिति ।

पारम्पर्येण कर्म­ण­स्त­द्धे­तुत्वं साधयति -
उच्यत इति ।

उक्तेऽर्थे स्मृत्यन्तरं संवादयति -
अग्नाविति ।
तत्र हि देव­ता­भि­ध्या­न­पू­र्वकं तदुद्देशेन प्रहि­ता­हु­ति­र­पू­र्वतां गता रश्मि­द्वा­रे­णा­दि­त्य­मा­रुह्य, वृष्ट्यात्मना पृथिवीं प्राप्य, व्रिहि­य­वा­द्य­न्न­भा­व­मा­पद्य, संस्कृतोपभुक्ता शुक्रशोणितरूपेण परिणता प्रजाभावं प्राप्नो­ती­त्यर्थः ।

‘यज्ञः कर्मसमुद्भवः’(भ. गी. ३-१४) इत्ययुक्तं, स्वस्यैव स्वोद्भवे कार­ण­त्वा­यो­गा­दि­त्या­श­ङ्क्याह -
ऋत्विगिति ।
द्रव्यदेवतयोः सङ्ग्रा­ह­क­श्च­कारः ॥ १४ ॥

यत् अपूर्वहेतुत्वेन कर्मोक्तं, तत् किं चैत्यवन्दनादि ? किं वाऽग्नि­हो­त्रा­दीति सन्दिहानं प्रत्याह -
कर्मेति ।

किमिति कर्मणो ब्रह्मो­द्भ­व­त्व­मु­च्यते ? सर्वस्य तदु­द्भ­व­त्वा­वि­शे­षा­दि­त्या­श­ङ्क्याह -
ब्रह्म वेद इति ।

ब्रह्म तर्हि वेदा­ख्य­म­ना­दि­नि­ध­न­मिति, तत्राह -
ब्रह्म पुनरिति ।

अक्षरात्मनो वेदस्य पुनरक्षरेभ्यः सकाशादेव समुद्भवो न सम्भ­व­ती­त्या­श­ङ्क्याह -
अक्षरमिति ।

ब्रह्मे­त्य­क्ष­र­मे­वोक्तं, तत् कथं तस्मा­दे­वो­द्भ­व­ती­त्या­शङ्क्य, ब्रह्म­श­ब्दा­र्थ­मु­क्त­मेव स्मारयति -
ब्रह्म वेद इति ।

ननु ब्रह्मशब्दितस्य वेदस्यापि पौरुषेयत्वात् प्रामा­ण्य­स­न्दे­हात् कथं तदु­क्त­म­ग्नि­हो­त्रा­दिकं कर्म निर्धारयितुं शक्यते ? तत्राह -
यस्मादिति ।

कथं तर्हि तस्य यज्ञे प्रतिष्ठितत्वं ? सर्वगतत्वे विशे­षा­यो­गा­दि­त्या­श­ङ्क्याह -
सर्वगतमपीति
॥ १५ ॥

अधिकृतेन अध्ययनादिद्वारा जग­च्च­क्र­म­नु­व­र्त­नी­यम् , अन्य­थे­श्व­रा­ज्ञा­ति­ल­ङ्घि­न­स्तस्य प्रत्यवायः स्यादित्याह -
एवमिति ।

‘न कर्म­णा­म­ना­र­म्भात्’(भ. गी. ३-४) इत्या­दि­नो­क्त­मु­प­सं­ह­रति -
तस्मादिति ।
जगच्चक्रस्य प्रागु­क्त­प्र­का­रे­णा­नु­व­र्तने वृथा जीवनमघसाधनं यस्मात् तस्माज्जीवता नियतं कर्म कर्त­व्य­मि­त्यर्थः ।

यद्यधिकृतेन कर्तव्यमेव कर्म, तर्हि किमिति अज्ञेनेति विशिष्यते ? ज्ञाननिष्टेनापि तत् कर्त­व्य­मे­वा­धि­कृ­त­त्वा­वि­शे­षा­दि­त्याश्ङ्क्य, पूर्वो­क्त­म­नु­व­दति -
प्रागिति ।
नहि ज्ञान­क­र्म­णो­र्वि­रो­धा­ज्ज्ञा­न­नि­ष्ठेन कर्म कर्तुं शक्यते । तथा चानात्मज्ञेनैव चित्त­शु­द्ध्या­दि­प­र­म्प­रया ज्ञानार्थं कर्मा­नु्ष्ठे­य­मिति प्रति­पा­दि­त­मि­त्यर्थः ।

तर्हि ‘यज्ञार्थात्’(भ. गी. ३-९) इत्यादि किमर्थं, नहि तत्र ज्ञाननिष्ठा प्रतिपाद्यते, कर्मनिष्ठा तु पूर्व­मे­वो­क्त­त्वा­न्नात्र वक्त­व्ये­त्या­शङ्क्य, वृत्त­म­र्था­न्त­र­म­नु­व­दति -
प्रतिपाद्येति ।
प्रासङ्गिकम् - अज्ञस्य कर्म­क­र्त­व्य­तो­क्ति­प्र­स­ङ्गा­दा­ग­त­मिति यावत् । बहुकारणम् - ईश्वरप्रसादो देव­ता­प्री­ति­श्चे­त्यादि । दोषसङ्कीर्तनं - ‘तैर्दत्तान् अप्रदाय’(भ. गी. ३-१२) इत्यादि ॥ १६ ॥

वृत्तमर्थमेवं विभज्यानूद्य अन­न्त­र­श्लो­क­मा­श­ङ्को­त्त­र­त्वे­ना­व­ता­र­यति -
एवमिति ।
अर्जुनस्य प्रश्न­मि­त्ये­व­म­र्थ­मा­श­ङ्क्याह भगवानिति सम्बन्धः ।

नन्वेषा आशङ्का नावकाशमासादयति, अनात्मज्ञेन कर्तव्यं कर्मेति बहुशो विशे­षि­त­त्वा­दि­त्या­श­ङ्क्याह -
स्वयमेवेति ।

किमर्थं श्रुत्यर्थं स्वयमेव भगवानत्र प्रति­पा­द­य­ती­त्या­श­ङ्क्याह -
शास्त्रा­र्थ­स्येति ।
गीताशास्त्रस्य ससंन्यासं ज्ञानमेव मुक्ति­सा­ध­न­मर्थः, नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थं कीर्तयतीत्यर्थः ।

तमेव श्रुत्यर्थं सङ्क्षिपति -
एतमिति ।

सिद्धं चेदात्मवेदनम् , अनर्थकं तर्हि व्युत्थानादि, इत्या­श­ङ्क्या­पा­ति­क­वि­ज्ञा­न­फ­ल­माह -
निवृत्तेति ।
ब्राह्मणग्रहणं तेषामेव व्युत्थाने मुख्य­म­धि­का­रि­त्व­मिति ज्ञापनार्थम् ।

क्लेशा­त्म­क­त्वात् एषणानां ताभ्यो व्युत्थानं सर्वेषां स्वाभाविकत्वात् अवि­धि­त्सि­त­मि­त्या­श­ङ्क्याह -
मिथ्येति ।

‘भिक्षाचर्यं चरन्ति’(बृ. उ. ३-५-१) इति वचनं व्युत्था­न­वि­रु­द्ध­मि­त्या­श­ङ्क्याह -
शरीरेति ।

तर्हि तद्वदेव तेषा­म­ग्नि­हो­त्रादि अपि कर्त­व्य­मा­प­द्येत, इत्याशङ्क्य, व्युत्था­यि­ना­मा­श्र­म­ध­र्म­व­द­ग्नि­हो­त्रा­दे­र­नु­ष्ठा­प­का­भा­वाद् मैवमित्याह -
न तेषामिति ।

यथोक्तं श्रुत्य­र्थ­म­स्मिन् गीताशास्त्रे पौर्वापर्येण पर्यालोच्यमाने प्रति­पा­द­यि­तु­मिष्टं प्रकटीकुर्वन् कर्तव्यमेव कर्म जीवतेति नियमे ‘ज्ञानयोगेन साङ्ख्यानाम्’(भ. गी. ३-३) इति कथमुक्तमिति परि­चो­द्य­प­रि­हा­र­मु­द­र्श­य­ती­त्याह -
इत्येवमिति ।

आत्मनिष्ठस्य विष­य­स­ङ्ग­रा­हित्यं दृष्टं, तदनात्मज्ञेन जिज्ञासुना कर्तव्यमिति मत्वाऽऽह -
यस्तु साङ्ख्य इति ।

किञ्च, आत्मज्ञस्य ज्ञानेनात्मनैव परितृप्तत्वात् नान्नपानादिना साध्या तृ्प्तिरिष्टा । तेन विद्यार्थिना संन्यासिनाऽपि नान्नरसादौ आसक्तिर्युक्ता कर्तुमित्याह -
आत्मतृप्त इति ।

किञ्चात्मविदः सर्वतो वैतृष्ण्यं दृष्टं, तदनात्मविदा विद्यार्थिना कर्तव्यमित्याह -
आत्मन्येवेति ।
रति­तृ­प्ति­स­न्तो­षाणां मोद­प्र­मो­दा­न­न्द­वत् अवान्तरभेदः । अथवा रति­र्वि­ष­या­सक्तिः, तृप्ति­र्वि­ष­य­वि­शे­ष­स­म्प­र्कजं सुखं, सन्तो­षोऽ­भी­ष्ट­वि­ष­य­मा­त्र­ला­भा­धीनं सुखसामान्यमिति भेदः ।

ननु आत्म­र­ते­रा­त्म­तृ­प्त­स्या­त्म­न्येव सन्तुष्टस्यापि किञ्चित् कर्तव्यं मुक्तये भविष्यतीति, नेत्याह -
य ईदृश इति
॥ १७ ॥

इतश्चात्मविदो न किञ्चित् कर्तव्यमित्याह -
किञ्चेति ।

अभ्यु­द­य­निः­श्रे­य­स­यो­र­न्य­त­रत् प्रयोजनं कृतेन -सुकृ­ते­ना­त्म­विदो भवि­ष्य­ती­त्या­श­ङ्क्याह -
नैवेति ।

प्रत्य­वा­य­नि­वृ­त्तये स्वरू­प­प्र­च्यु­ति­प्र­त्या­ख्या­नाय वा कर्म स्यादि­त्या­श­ङ्क्याह -
नेत्यादिना ।

ब्रह्मादिषु स्थावरान्तेषु भूतेषु कञ्चिद् भूत­वि­शे­ष­मा­श्रित्य कश्चिदर्थो विदुषः साध्यो भविष्यति, तदर्थं तेन कर्तव्यं कर्मे­त्या­श­ङ्क्याह -
नचेति ।

तत्राद्यं पादमादत्ते -
नैवेति ।

तं व्याचष्टे -
तस्येति ।
आत्मविदः स्वर्गा­द्य­भ्यु­द­या­न­र्थि­त्वात् निःश्रेयसस्य च प्राप्तत्वान्न कृतं - कर्मा­र्थ­व­दि­त्यर्थः ।

आत्मविदा चेत् कर्म न क्रियते, तर्हि तेनाकृतेन तस्यानर्थो भविष्यतीति तत्प्र­त्या­ख्या­नार्थं तस्य कर्तव्यं कर्मेति शङ्कते -
तर्हीति ।

द्विती­य­पा­दे­नो­त्त­र­माह -
नेत्यादिना ।
अतो न तन्नि­वृ­त्त्यर्थं कृतमर्थवदिति शेषः ।

द्वितीयं भागं विभजते -
नचास्येति ।
व्यपाश्रयणम् - आलम्बनं, नेति सम्बन्धः ।

पदार्थमुक्त्वा वाक्यार्थमाह -
कञ्चिदिति ।

भूत­वि­शे­ष­स्या­श्रि­त­स्यापि क्रियाद्वारा प्रयो­ज­न­प्र­स­व­हे­तु­त्व­मिति मत्वाऽऽह -
येनेति ।

तर्हि मयाऽऽपि यथोक्तं तत्त्वमाश्रित्य त्याज्यमेव कर्मे­त्य­र्जु­नस्य मतमाशङ्क्याह -
न त्वमिति
॥ १८ ॥

सम्य­ग्ज्ञा­न­नि­ष्ठ­त्वा­भावे कर्मा­नु­ष्ठा­न­मा­व­श्य­क­मि­त्याह -
यत इति ।
तस्मा­त्-ज्ञा­न­नि­ष्ठा­रा­हि­त्या­दिति यावत् ।

मोक्ष­मे­वा­पे­क्ष­मा­णस्य कथं कर्मणि फलन्तरवति नियोगः स्यादि­त्य­श­ङ्क्याह -
असक्तो हीति
॥ १९ ॥

यद्यपि जितन्द्रियोऽपि विवेकी श्रव­णा­दि­भि­र­जस्रं ब्रह्मणि निष्ठातुं शक्नोति, तथाऽपि क्षत्रियेण त्वया विहितं कर्म न त्याज्यमित्याह -
यस्माच्चेति ।
तस्मात् त्वमपि कर्म कर्तुमर्हसीति सम्बन्धः ।

इतोऽपि त्वया विहितं कर्म कर्तव्यमित्याह -
लोकेति
॥ २० ॥

ज्ञानवता कृतार्थेन लोक­स­ङ्ग्र­हा­र्थ­मपि न प्रव­र्ति­त­व्य­मि­त्या­श­ङ्का­मु­त्थाप्य, परिहरति -
लोकेत्यादिना ।
श्रुता­ध्य­य­न­स­म्प­न्न­त्वे­ना­भि­मतो यद्यद् - विहितं प्रतिषिद्धं वा कर्मानुतिष्ठति, तत्तदेव प्राकृतो जनोऽनुवर्तते । तेन विद्यावताऽपि लोक­म­र्या­दा­स्था­प­नार्थं विहितं कर्म कर्त­व्य­मि­त्यर्थः ।

श्रेष्ठा­नु­सा­रि­त्व­मि­त­रे­षा­मा­चारे दर्शयित्वा, प्रतिपत्तावपि दर्शयति -
किञ्चेति
॥ २१ ॥

कृतार्थस्यापि लोकसङ्ग्रहार्थं विहितं कर्म कर्त­व्य­मि­त्युक्त्वा, तत्रैव भग­व­न्त­मु­दा­ह­र­ण­त्वे­नो­प­न्य­स्यति -
यदीत्यादिना ।

अप्राप्तस्य प्राप्तये तवापि कर्तृ­त्व­स­म्भ­वाद् न किञ्चिदपि विद्यते कर्तव्यमिति कथ­मु­क्त­मि­त्या­श­ङ्क्याह -
नानवाप्तमिति ।

प्रतीकमुपादाय व्याख्यानद्वारा विद्यावतोऽपि कर्मप्रवृत्तिं सम्भावयति -
नेत्यादिना ।
अन्वयार्थं पुनर्नञोऽनुवादः ।

भगवतो नास्ति कर्त­व्य­मि­त्ये­त­दा­का­ङ्क्षा­द्वारा स्फोरयति -
कस्मादित्यादिना ।

प्रयोजनाभावे त्वयाऽपि नानुष्ठेयं कर्मेत्याशङ्क्य लोकसङ्ग्रहार्थं ममापि कर्मा­नु­ष्ठा­न­मिति मत्वाऽऽह -
तथापीति ।
॥ २२ ॥

लोकसङ्ग्रहोऽपि न ते कर्तव्यो विफ­ल­त्वा­दि­त्या­श­ङ्क्याह -
यदि हीति
॥ २३ ॥

श्रेष्ठस्य तव मार्गा­नु­व­र्तित्वं मनु­ष्या­णा­मु­चि­त­मे­वे­त्या­शङ्क्य, दूषयति -
तथाचेत्यादिना ।

ईश्वरस्य कर्म­ण्य­प्र­वृत्तौ तदनुवर्तिनामपि कर्मा­नु­प­प­त्ते­रिति हेतुमाह -
लोकस्थितीति ।

इतश्चेश्वरेण कर्म कर्तव्यमित्याह -
किञ्चेति ।
यदि कर्म न कुर्यामिति शेषः ।

सङ्करकरणस्य कार्यं कथयति -
तेनेति ।

प्रजोपहतिः परिप्राप्यते चेत् , किं तया तव स्यादिति, तत्राह -
प्रजानामिति
॥ २४ ॥

त्वाम­ना­च­र­न्त­म­नु­व­र्ततां सर्वेषां को दोषः स्यात् ? इत्य­पे­क्षा­या­मी­श्व­रस्य कृतार्थतया कर्मा­नु­ष्ठा­ना­भावे तदनुवर्तिनामपि तदभावादेव स्थिति­हे­त्व­भा­वात् , पृथि­व्या­दि­भू­तानां विनाशप्रसङ्गाद् वर्णा­श्र­म­ध­र्म­व्य­व­स्था­नु­प­प­त्ते­श्चा­धि­कृ­तानां प्राणभृतां पापो­प­ह­त­त्व­प्र­स­ङ्गात् परानुग्रहार्थं प्रवृ्त्ति­री­श्व­र­स्ये­त्यु­क्तम् । सम्प्रति लोकसङ्ग्रहाय कर्म कुर्वाणस्य कर्तृ­त्वा­भि­मा­नेन ज्ञानाभिभवे प्राप्ते, प्रत्याह -
यदि पुनरिति ।

कृता­र्थ­बु­द्धित्वे हेतुमाह -
आत्मविदिति ।
यथा­व­दा­त्मा­न­म­व­ग­च्छन् कर्तृ­त्वा­द्य­भि­मा­ना­भा­वात् कृतार्थो भवत्येवेत्यर्थः ।

अर्जु­ना­द­न्य­त्रापि ज्ञानवति कृता­र्थ­बु­द्धित्वं कर्त­व्य­त्वा­द्य­भि­मा­न­हीने तुल्यमित्याह -
अन्यो वेति ।

तस्य तर्हि कर्मा­नु­ष्ठा­न­म­फ­ल­त्वात् अन­व­का­श­मि­त्या­श­ङ्क्याह -
तस्यापीति ।
>कर्तव्य इति आत्मविदाऽपि परानुग्रहाय कर्तव्यमेव कर्मेति, आहेति शेषः ।

दृष्टा­न्त­दा­र्ष्टा­न्ति­क­रूपं श्लोकं व्याकरोति -
सक्ता इत्यादिना ।
असक्तः सन् कर्तृत्वाभिमानं फलभिसन्धिं वा कुर्वन्निति यावत् ॥ २५ ॥

वृत्त­म­नू­द्यो­त्त­र­श्लो­क­म­व­ता­र­यति -
एवमिति ।
कर्त­व्यं,क­र्मेति शेषः ।

पूर्वार्धमेवं व्याख्या­यो­त्त­रार्धं प्रश्न­पू­र्व­क­म­व­तार्य व्याचष्टे -
किं नु कुर्यादिति ।
सर्वकर्माणि कारयेत् , तेषु प्रीतिं कुर्वन्निति शेषः ।

कथं कार­ये­दि­त्या­का­ङ्क्षा­या­माह -
तदेवेति
॥ २६ ॥

‘अज्ञानां कर्मसङ्गिनाम्’(भ. गी. ३-२६) इत्युक्तं ; तेनो­त्त­र­श्लो­कस्य सङ्गतिमाह -
अविद्वानिति ।

कर्तृत्वमात्मनः अवास्तवम् इत्यभ्युपगमाद् विद्वान् कथं कुर्वन्नेव तस्याभावं पश्य­ती­त्या­श­ङ्क्याह -
प्रकृतेरिति ।

कर्मसु अविदुषः सक्तिप्रकारं प्रकटयन् व्याकरोति -
प्रकृ­ते­रि­त्या­दिना ।
प्रधान शब्देन माया­श­क्ति­रु­च्यते । अवि­द्य­ये­त्यु­भ­यतः सम्बध्यते ॥ २७ ॥

अज्ञस्य कर्मसु सक्तिमुक्त्वा विदु­ष­स्त­द­भा­व­म­भि­द­धाति -
यः पुनरिति ।
तत्त्वं याथार्थ्यं वेत्तीति व्युत्पत्त्या तत्त्वविदिति ।

तुशब्देनाज्ञाद् विशिष्टे निर्दि­ष्ठ­प्र­श्न­पू­र्वकं द्विती­य­पा­द­म­व­तार्य व्याचष्टे -
कस्येत्यादिना ।

गुणानामेव गुणेषु वर्त­मा­न­त्व­म­युक्तं, निर्गुणत्वात् तेषा­मि­त्या­शङ्क्य विभजते -
गुणा इति ।
कार्यकरणानामेव विषयेषु प्रवृत्तिः, आत्मनस्तु कूटस्थत्वात् मैवमिति ज्ञात्वा, तत्त्ववित् कर्मसु दृढतरं कर्तव्याभिमानं न करोतीत्यर्थः ॥ २८ ॥

विद्वान् अवि­द्वा­नि­त्यु­भा­वपि प्रकृत्य, विद्वानविदुषो बुद्धिभेदं न कुर्या­दि­त्यु­प­सं­ह­रति -
ये पुनरिति ।
प्रकृ­ते­रु­क्त­गु­णै­र्दे­हा­दि­भि­र्वि­कारैः संमूढाः - तानेव आत्मत्वेन मन्यमाना ये ते ।

गुणानां - तेषामेव देहादीनां कर्मसु -व्यापारेषु, सज्जन्ते - सक्तिं दृढ­त­रा­मा­त्मी­य­बुद्धिं कुर्वन्तीत्याह -
प्रकृ­ते­रि­त्या­दिना ।

तेषामनात्मविदां स्वयमात्मविद् बुद्धिभेदं नापादयेदित्याह -
तानित्यादिना
॥ २९ ॥

यद्यपि कर्म­ण्य­ज्ञोऽ­धि­क्रि­यते, तथाऽपि मोक्षमाणेन तेन कर्म त्यक्तव्यं, मोक्षस्य कर्मा­सा­ध्य­त्वात् , न तु तेन कर्म कर्तुं शक्या, कर्मणः स्वापे­क्षि­त­वि­रो­धि­त्वा­दिति शङ्कते -
कथमिति ।

श्लोकेनोत्तरमाह -
उच्यत इति ।

यथोक्ते परस्मिन्नात्मनि सर्वकर्मणां समर्पणे कारणमाह -
अध्यात्मेति ।

विवेकबुद्धिमेव व्याकरोति -
अहमिति ।

दर्शितरीत्या कर्मसु प्रवृत्तस्य कर्तव्यान्तरमाह -
किञ्चेति ।
त्यक्ताशीः फलप्रार्थनाहीनः सन्नित्यर्थः । निर्ममोभूत्वा , पुत्र­भ्रा­त्रा­दि­ष्विति शेषः ।

ननु युद्धे नियोगो नोपपद्यते, पुत्र­भ्रा­त्रा­दि­हिं­सा­त्म­न­स्तस्य सन्ता­प­हे­तो­र्नि­यो­ग­वि­ष­य­त्वा­यो­गा­दिति, तत्राह -
विगतेति
॥ ३० ॥

प्रकृतं भगवतो मत­मु­क्त­प्र­का­र­म­नु­सृ­त्यै­वा­नु­ति­ष्ठतां क्रममुक्तिफलं कथयति -
यदेतदिति ।
शास्त्रा­चा­र्यो­प­दि­ष्टेऽ­दृ­ष्ठार्थे विश्वासवत्त्वं - श्रद्दधानत्वम् । गुणेषु दोषाविष्करणम् - असूया । अपिर्यथोक्ताया मुक्ते­र­मु­ख्य­त्व­द्यो­त­नार्थः ॥ ३१ ॥

भग­व­न्म­ता­न­नु­व­र्तिनां प्रत्यवायित्वं प्रत्याययति -
ये त्विति ।

तद्विपरीतत्वं भग­व­न्म­ता­नु­व­र्तिभ्यो वैपरीत्यम् । तदेव दर्शयति -
एतदित्यादिना ।
अभ्यसूयन्तः - तत्रासन्तमपि दोषमुद्भावयन्त इत्यर्थः । सर्वज्ञानानि - सगु­ण­नि­र्गु­ण­वि­ष­याणि । प्रमा­ण­प्र­मे­य­प्र­यो­ज­न­वि­भा­गतो विविधत्वम् ॥ ३२ ॥

भग­व­न्म­ता­नु­व­र्त­न­म­न्त­रेण परधर्मानुष्ठाने स्वध­र्मा­न­नु­ष्ठाने च कारणं पृच्छति -
कस्मादिति ।

भग­व­त्प्र­ति­कू­ल­त्व­मेव तत्र कार­ण­मि­त्या­श­ङ्क्याह -
त्वत्प्रतिकूला इति ।
राजा­नु­शा­स­ना­ति­क्रमे दोषदर्शनाद् भग­व­द­नु­शा­स­ना­ति­क्र­मेऽपि दोषसम्भवात् प्रतिकूलत्वं भयकारणमित्यर्थः ।

उत्तरत्वेन श्लोकमवतारयति -
सदृशमिति । तत्राहेति ।

सर्वस्य प्राणिवर्गस्य प्रकृ­ति­व­श­व­र्तित्वे कैमुतिकन्यायं सूचयति -
ज्ञानवानपीति ।

सर्वाण्यपि भूतानि अनिच्छन्त्यपि प्रकृतिसदृशीं चेष्टां गच्छन्तीति निगमयति -
प्रकृतिमिति ।

भूतानां प्रकृ­त्य­धी­न­त्वेऽपि, प्रकृतिर्भगवता निग्रा­ह्ये­त्या­श­ङ्क्याह -
निग्रह इति ।

का पुनरियं प्रकृतिः ? यदनुसारिणी भूतानां चेष्टेति पृच्छति -
प्रकृतिर्नामेति ।

भगवदभिप्रेतां प्रकृतिं प्रकटयति -
पूर्वेति ।
आदिशब्देन ज्ञानेच्छादि सङ्गृह्यते ।

यथोक्तः संस्कारः स्वसत्तया प्रवर्तकश्वेत् , प्रलयेऽपि प्रवृत्तिः स्यादि­त्या­शङ्क्य, विशिनष्टि -
वर्तमानेति ।

सर्वो जन्तु­रि­त्य­युक्तं, विवे­कि­प्र­वृ­त्ते­र­त­था­त्वा­दि­त्या­शङ्क्य, ‘पश्वा­दि­भि­श्चा­वि­शे­षात्’ इति न्यायमनुसरन्नाह -
ज्ञानवानिति ।

ज्ञान­व­ता­म­ज्ञा­न­वतां च प्रकृ­त्य­धी­न­त्वा­वि­शेषे फलितमाह -
तस्मादिति ।
प्रकृतिं यान्ति- प्रकृतिसदृशीं चेष्टां गच्छन्ति, अनिच्छन्त्यपि सर्वाणि भूतानीत्यर्थः ।

प्रकृतेर्भगवता तत्तुल्येन वा केन­चि­न्नि­ग्र­ह­मा­शङ्क्य अव­ता­रि­त­च­तु­र्थ­पा­द­स्या­र्था­पे­क्षितं पूरयति -
मम वेति
॥ ३३ ॥

सर्वस्य भूतवर्गस्य प्रकृ­ति­व­श­व­र्तित्वे लौकि­क­वै­दि­क­पु­रु­ष­का­र­वि­ष­या­भा­वात् विधि­नि­षे­धा­न­र्थ­क्य­मि­ति­श­ङ्कते -
यदीति ।

ननु यस्य न प्रकृतिरस्ति, तस्य पुरु­ष­का­र­स­म्भ­वा­द­र्थ­वत्त्वं तद्विषये विधि­नि­षे­ध­यो­र्भ­वि­ष्यति, नेत्याह -
नचेति ।

शङ्कितदोषं श्लोकेन परिहरति -
इदमित्यादिना ।

वीप्सायाः सर्व­क­र­णा­गो­च­रत्वं दर्शयति -
सर्वेति ।

प्रत्यर्थं राग­द्वे­ष­यो­र­व्य­व­स्थायाः प्राप्तौ प्रत्यादिशति -
इष्ट इति ।

प्रतिविषयं विभागेन तयो­र­न्य­त­र­स्या­व­श्य­क­त्वेऽपि पुरु­ष­का­र­वि­ष­या­भा­व­प्र­युक्त्या प्रागुक्तं दूषणं कथं समा­धे­य­मि­त्या­श­ङ्क्याह -
तत्रेति ।

तयो­रि­त्या­द्य­व­ता­रितं भागं विभजते -
शास्त्रार्थ इति ।

प्रकृतिवशत्वात् जन्तोर्नैव नियो­ज्य­त्व­मि­त्या­श­ङ्क्याह -
या हीति ।

रागद्वेषद्वारा प्रकृ­ति­व­श­व­र्तित्वे स्वधर्मत्यागादि दुर्वा­र­मि­त्यु­क्तम् , इदानीं विवेकविज्ञानेन रागादिनिवारणे शास्त्री­य­दृष्ट्या प्रकृतिपारवश्यं परिहर्तुं शक्यमित्याह -
यदेति ।
मिथ्या­ज्ञा­न­नि­ब­न्धनौ हि रागद्वेषौ । तत्प्र­ति­प­क्षत्वं विवेकविज्ञानस्य मिथ्या­ज्ञा­न­वि­रो­धि­त्वा­द­व­धे­यम् ।

राग­द्वे­ष­यो­र्मू­ल­नि­वृत्त्या निवृत्तौ प्रतिबन्धध्वंसे कार्य­सि­द्धि­म­भि­स­न्धा­योक्तं -
तदेति ।

एव­का­र­स्या­न्य­यो­ग­व्य­व­च्छे­द­कत्वं दर्शयति -
नेति ।

पूर्वोक्तं नियोगमुपसंहरति -
तस्मादिति ।

तत्र हेतुमाह -
यत इति ।
हिशब्दोपात्ताो हेतुर्यत इति प्रकटितः । स च पूर्वेण तच्छब्देन सम्बन्धनीयः ।

पुरु­ष­प­रि­प­न्थि­त्व­मेव तयोः सोदाहरणं स्फोरयति -
श्रेयो­मा­र्ग­स्येति
॥ ३४ ॥

रागद्वेषयोः श्रेयो­मा­र्ग­प्र­ति­प­क्षत्वं प्रकटयितुं पर­म­तो­प­न्या­स­द्वारा सम­न­न्त­र­श्लो­क­म­व­ता­र­यति -
तत्रेत्यादिना ।
व्यवहारभूमिः सप्तम्यर्थः ।

शास्त्रा­र्थ­स्या­न्य­था­प्र­ति­प­त्ति­मेव प्रत्याययति -
परधर्मोऽपीति ।
स्वध­र्म­व­दि­त्य­प्यर्थः ।

अनुमानं दूष­य­न्नु­त्त­र­त्वेन श्लोकमुत्थापयति -
तदसदिति ।

क्षत्रधर्माद् युद्धाद् दुरनुष्ठानात् परि­व्रा­ड्ध­र्मस्य भिक्षा­श­ना­दि­ल­क्ष­णस्य स्वनु­ष्ठे­य­त­याऽपि कर्तव्यत्वं प्राप्त­मि­त्या­शङ्क्य, व्याचष्टे -
श्रेयानिति ।

उक्तेऽर्थे प्रश्नपूर्वकं हेतुमाह -
कस्मादित्यादिना ।
स्वधर्ममवधूय पर­ध­र्म­म­नु­ति­ष्ठतः स्वध­र्मा­ति­क्र­म­कृ­त­दो­षस्य दुष्प­रि­ह­र­त्वान्न तत्त्यागः साधीयानित्यर्थः ॥ ३५ ॥

प्रागे­वा­न­र्थ­मू­ल­स्यो­क्त­त्वात् पुन­स्त­ज्जि­ज्ञा­सया प्रश्ना­नु­प­पत्तिः - इत्याशङ्क्याह -
यद्यपीति ।
विक्षिप्तं- विविधेषु प्रदेशेषु क्षिप्तं, दर्शितमिति यावत् । अनवधारितम्, अने­क­त्रो­क्ता­त्वा­द­ने­कधा अवि­वे­क­का­मा­दि­भि­र्वि­क­ल्पि­त­त्वा­दि­त्यर्थः ।

नन्वनर्थमूलं परिहर्तव्यं, तत्किमिति ज्ञातुमिष्यते ? तत्राह -
ज्ञाते हीति । कुर्यामिति ।
तज्ज्ञा­न­म­र्थ­व­दिति शेषः ।

वाक्या­र­म्भा­र्थ­त्व­म­थ­श­ब्दस्य गृहीत्वा, प्रश्नवाक्यं व्याकरोति -
अथेत्यादिना ।

अनिच्छतोऽपि बलादेव दुश्च­रि­त­प्रे­रि­तत्वे दृष्टा­न्त­मा­चष्टे -
राज्ञेवेति ।

विनि­यो­ज्य­त्व­स्ये­च्छा­सा­पे­क्ष­त्वात् तदभावे तद­सि­द्धि­मा­शङ्क्य, प्रागुक्तं स्मारयति -
राज्ञेवेत्युक्त इति
॥ ३६ ॥

सम्प्रति प्रतिवचनं प्रस्तौति -
श्रृण्विति ।

तस्य वैरित्वं स्फोरयति -
सर्वेति ।

अप्रस्तुतं किमिति प्रस्तूयते ? तत्राह -
यं त्वमिति ।

भगवच्छब्दार्थं निर्धारयितुं पौराणिकं वचनमुदाहरति -
ऐश्वर्यस्येति ।
सम­ग्र­स्ये­त्ये­तत् प्रत्येकं विशेषणैः सम्बध्यते । अथ शब्द­स्त­था­श­ब्द­प­र्यायः समुच्चयार्थः । मोक्षशब्देन तदुपायो ज्ञानं विवक्ष्यते ।

उदा­हृ­त­व­च­स­स्ता­त्प­र्य­माह -
ऐश्वर्यादीति ।
स वाच्यो भगवानिति सम्बन्धः ।

तत्रैव पौराणिकं वाक्यान्तरं पठति -
उत्पत्तिमिति ।
भृतानामिति प्रत्ये­क­मु­त्प­त्त्या­दिभिः सम्बध्यते । कारणार्थौ च उत्प­त्ति­प्र­ल­य­शब्दौ । क्रियामात्रस्य पुरु­षा­न्त­र­गो­च­र­त्व­स­म्भ­वात् । आग­ति­र्ग­ति­श्चे­त्या­गा­मिन्यौ सम्पदापदौ सूच्येते ।

वाक्या­न्त­र­स्यापि तात्पर्यमाह -
उत्पत्त्यादीति ।
वेत्तीत्युक्तः साक्षात्कारो विज्ञा­न­मि­त्यु­च्यते । सम­ग्रै­श्व­र्या­दि­स­म्प­त्ति­स­मु­च्च­या­र्थ­श्च­कारः ।

उक्तलक्षणो भगवान् किमुक्तवानिति, तदाह -
काम इति ।

कामस्य सर्व­लो­क­श­त्रुत्वं विशदयति -
यन्निमित्तेति ।

तथाऽपि कथं तस्यैव कोधत्वं, तदाह -
स एष इति ।

कामक्रोधयोरेव हेय­त्व­द्यो­त­नार्थं कारणं कथयति -
रजोगुणेति ।

कारणद्वारा कामादेरेव हेयत्वमुक्त्वा, कार्यद्वाराऽपि तस्य हेयत्वं सूचयति -
रजोगुणस्येति ।

कामस्य पुरु­ष­प्र­व­र्त­क­त्व­मेव, न रजोगुणजनकत्वम् , इत्याशङ्क्याह -
कामो हीति ।

तत्रै­वा­नु­भ­वा­नु­सा­रिणीं लोकप्रसिद्धि प्रमाणयति -
तृष्णया हीति ।

तस्य योग्या­यो­ग्य­वि­भा­ग­म­न्त­रेण बहुविषयत्वं दर्शयति -
महाशन इति ।

बहु­वि­ष­य­त्व­प्र­युक्तं कर्म निर्दिशति -
अत इति ।

सर्व­वि­ष­य­त्वेऽस्य पाप­त्व­मि­त्या­श­ङ्क्याह -
कामेनेति ।

काम­स्यो­क्त­वि­शे­ष­ण­वत्त्वे फलितमाह -
अत इति
॥ ३७ ॥

उत्त­र­श्लो­क­म­व­ता­स्यति -
कथमिति ।
अने­क­दृ­ष्टा­न्तो­पा­दानं प्रति­प­त्ति­सौ­क­र्या­र्थम् ।

सहजस्य धूमस्य प्रका­शा­त्म­क­वह्निं प्रति आव­र­क­त्व­सि­द्ध्यर्थं विशिनष्टि -
अप्र­का­शा­त्म­के­नेति
॥ ३८ ॥

सामान्यतो निर्दिष्टं विशेषतो निर्दे­ष्टु­मा­का­ङ्क्षा­पू­र्व­क­म­न­न्त­र­श्लो­क­म­व­ता­र­यति -
किं पुनरिति ।
कामस्य ज्ञानं प्रति आवरणसिद्ध्यर्थं ज्ञानिनो नित्य­वै­रि­णे­त्या­दि­वि­शे­ष­णम् ।

प्रतीकमादाय व्याकरोति -
आवृतमित्यादिना ।

ज्ञानिनां प्रति वैरित्वेऽपि, नित्यवैरित्वं कामस्य कथ­मि­त्या­श­ङ्क्याह -
ज्ञानी हीति ।
अन­र्थ­प्रा­प्ति­म­न्त­रेण कामस्य प्रसङ्गावस्था पूर्व­मे­वे­त्यु­च्यते । अतः शब्देन कामप्रसक्तिरेव परामृश्यते । नित्य­मे­वे­त्यु­त्प­त्त्य­वस्था च कामस्य कथ्यते ।

ननु सर्वस्यापि कामात्मता ऩ प्रशस्तेति कामो नित्यवैरी भवति, ततः कुतो ज्ञानि­वि­शे­ष­ण­मि­त्या­श­ङ्क्याह -
न त्विति ।

अज्ञस्य नासौ नित्य­वै­री­त्ये­त­दु­प­पा­द­यति -
स हीति ।
कार्य­प्रा­प्ति­प्रा­ग­वस्था पूर्वमित्युक्ता ।

अज्ञम्प्रति वैरित्वे सत्यपि कामस्य नित्य­वै­रि­त्वा­भावे फलितमाह -
अत इति ।
स्वरूपतो नित्य­वै­रि­त्वा­वि­शे­षेऽपि ज्ञाना­ज्ञा­ना­भ्या­म­वा­न्त­र­भे­द­सि­द्धि­रि­त्यर्थः ।

आकाङ्क्षाद्वारा प्रकृतं वैरिणमेव स्फोरयति -
किंरू­पे­णे­त्या­दिना
॥ ३९ ॥

कामस्य निराश्रयस्य कार्य­का­र­क­त्वा­भावं मत्वा प्रश्न­पू­र्व­क­मा­श्रयं दर्शयति -
किमधिष्ठान इति ।

कामस्य नित्यवैरित्वेन परिजिहीर्षितस्य किमित्यधिष्ठानं ज्ञाप्यते, तत्राह -
इन्द्रि­या­दि­भि­रिति
॥ ४० ॥

तेषां कामाश्रयत्वे सिद्धे, साश्रयस्य तस्य परि­ह­र्त­व्य­त्व­माह -
यत इति ।
तस्मात् - इन्द्रि­या­दी­ना­मा­श्र­य­त्वा­दिति यावत् । पूर्वं - कामनिरोधात् प्राग­व­स्था­या­मि­त्यर्थः । तेषु नियमितेषु मनो­बु­द्ध्यो­र्नि­यमः सिध्यति, तत्प्र­वृ­त्ते­रि­त­र­प्र­वृ­त्ति­व्य­ति­रे­के­णा­फ­ल­त्वा­दिति भावः ।

पापमूलतया कामस्य तच्छ­ब्द­वा­च्य­त्व­मु­न्ने­यम् । कामस्य परित्याज्यत्वे वैरित्वं हेतुं साधयति -
ज्ञानेति ।

ज्ञान­वि­ज्ञा­न­श­ब्द­यो­र­र्थ­भे­द­मा­वे­द­यति -
ज्ञानमित्यादिना
॥ ४१ ॥

पूर्वोक्तमनूद्य कामत्यागस्य दुष्करत्वं मन्वानो ‘रसोऽप्यस्य’(भ. गी. २-५९) इत्यत्रोक्तमेव स्पष्टीकर्तुं प्रश्नपूर्वकं श्लोका­न्त­र­म­व­ता­र­यति -
इन्द्रि­या­णी­त्या­दिना ।
पञ्चेति । ज्ञाने­न्द्रि­य­वत् । कर्मे­न्द्रि­या­ण्यपि वागादीनि गृह्यन्ते ।

किमपेक्षया तेषां परत्वं ? तत्राह -
देहमिति ।

तथाऽपि केन प्रकारेण परत्वं ? तदाह -
सौक्ष्म्येति ।
आदिशब्देन कारणत्वादि गृह्यते ।

इन्द्रि­या­पे­क्षया सूक्ष्मत्वादिना मनसः स्वरू­पो­क्ति­पू­र्वकं परत्वं कथयति -
तथेति ।

मनसि दर्शितं न्यायं बुद्धावतिदिशति -
तथा मनसस्त्विति ।

‘यो बुद्धेः’(भ. गी. ३-४२) इत्यादि व्याचष्टे -
तथेत्यादिना ।

आत्मनो यथो­क्त­वि­शे­ष­ण­स्या­प्र­कृ­त­त्व­मा­श­ङ्क्याह -
यं देहिनमिति
॥ ४२ ॥

इन्द्रि­या­दि­स­मा­धा­न­पू­र्व­क­मा­त्म­ज्ञा­नात् कामजयो भवतीत्युपसंहरति -
एवमित्यादिना ।

संस्कृतं मनो मनः समाधाने हेतुरिति सूचयति -
संस्तभ्येति ।

प्रकृतं शत्रुमेव विशिनष्टि -
कामरूपमिति ।

तस्य दुरासदत्वे हेतुमाह -
दूर्विज्ञेयेति ।
अने­क­वि­शे­षोऽ­ता­दृशो महाशनत्वादिः, तदनेनोपायभूता कर्मनिष्ठा प्राधा­न्ये­नोक्ता, उपेया तु ज्ञाननिष्ठा गुणत्वेनेति विवेक्तव्यम् ॥ ४३ ॥
तत्सत् इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­कृते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने तृतीयोऽध्यायः ॥ ३ ॥