आनन्दगिरिटीका (गीताभाष्य)
चतुर्थोऽध्यायः
पूर्वाभ्यामध्यायाभ्यां निष्ठाद्वयात्मनो योगस्य गीतत्वाद् वेदार्थस्य च समाप्तत्वाद् वक्तव्यशेषाभावाद् उक्तयोगस्य कृत्रिमत्वशङ्कानिवृत्तये वंशकथनपूर्विकां स्तुतिं भगवान् उक्तवानित्याह -
श्रीभगवानिति ।
तदेतद्भगवद्वचनं वृत्तानुवादद्वारेण प्रस्तौति -
योऽयमिति ।
उक्तमेव योगं विभज्यानुवदति-
ज्ञानेति ।
संन्यासेन इतिकर्तव्यतया सहितस्य ज्ञानात्मनो योगस्य कर्माख्यो योगो हेतुः, अतश्चोपायोपेयभूतं निष्ठाद्वयं प्रतिष्ठापितमित्यर्थः ।
उक्ते योगद्वये प्रमाणमुपन्यस्यति -
यस्मिन्निति ।
अथवा, ज्ञानयोगस्य कर्मयोगोपायत्वमेव स्फृटयति -
यस्मिन्निति ।
प्रवृत्त्या लक्ष्यते -ज्ञायते कर्मयोगः, निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः ।
यद्यपि पूर्वस्मिन् अध्यायद्वये यथोक्तनिष्ठाद्वयं व्याख्यातं, तथाऽपि वक्ष्यमाणाध्यायेषु वक्तव्यान्तरमस्तीत्याशङ्क्याह -
गीतासु चेति ।
कथं तर्हि समनन्तराध्यायस्य प्रवृत्तिः ? अत आह -
अत इति ।
वंशकथनं -सम्प्रदायोपन्यासः । सम्प्रदायोपदेशश्च कृत्रिमत्वशङ्कानिवृत्त्या योगस्तुतौ पर्यवस्यति ।
गुरुशिष्यपरम्परोपन्यासमेवानुक्रामति -
इममिति ।
इममित्यस्य सन्निहितं विषयं दर्शयति -
अध्यायेति ।
योगं - ज्ञाननिष्ठालक्षणं, कर्मयोगोपायलभ्यमित्यर्थः ।
स्वयम् अकृतार्थानां प्रयोजनव्यग्राणां परार्थप्रवृत्त्यसम्भवाद् भगवतस्तथाविधप्रवृत्तिदर्शनात् कृतार्थता कल्पनीयेत्याह -
विवस्वत इति ।
अव्ययवेदमूलत्वादव्ययत्वं योगस्य गमयितव्यम् ।
किमिति भगवता कृतार्थेनापि योगप्रवचनं कृतमिति, तदाह -
जगदिति ।
कथं यथोक्तेन योगेन क्षत्रियाणां बलाधानं ? तदाह -
तेनेति ।
युक्ताः, क्षत्रिया इति शेषः ।
ब्रह्मशब्देन ब्राह्मणत्वजातिरुच्यते । यद्यपि योगप्रवचनेन क्षत्रं रक्षितं, तेन च ब्राह्मणत्वं, तथाऽपि कथं रक्षणीयं जगदशेषं रक्षितम् ? इत्याशङ्क्याह -
ब्रह्मेति ।
ताभ्यां हि कर्मफलभूतं जगद् अनुष्ठानद्वारा रक्षितुं शक्यमित्यर्थः ।
योगस्याव्ययत्वे हेत्वन्तरमाह -
अव्ययफलत्वादिति ।
ननु कर्मफलवत् उक्तयोगफलस्यापि साध्यत्वेन क्षयिष्णुत्वमनुमीयते, नेत्याह -
नहीति ।
अपुनरावृत्तिश्रुतिप्रतिहतमनुमानं न प्रमाणीभवतीति भावः ।
भगवता विवस्वते प्रोक्तो योगस्तत्रैव पर्यवस्यति, इत्याशङ्क्याह -
स चेति ।
स्वपुत्रायेत्युभयत्र सम्बध्यते । आदिराजायेति इक्ष्वाकोः सूर्यवंशप्रवर्तकत्वेन वैशिष्ट्यमुच्यते ॥ १ ॥
यथोक्ते योगे परम्परागते विशिष्टजनसम्मतिमुदाहरति -
एवमिति ।
तस्य कथं सम्प्रति वक्तव्यत्वं, तदाह -
स कालेनेति ।
पूर्वार्धं व्याकरोति -
एवमित्यादिना ।
ऐश्वर्यसम्पत्ती राजत्वं येषां, तेषामेव सृक्ष्मार्थनिरीक्षणक्षमत्वमृषित्वम् । इहेति भगवतोऽर्जुनेन सह संव्यवहारकालो गृह्यते ।
परन्तपेति सम्बोधनं विभजते -
आत्मन इति
॥ २ ॥
किमिति वर्तमाने काले प्रकृतो योगः सम्प्रदायरहितोऽभूदित्याशङ्क्य, अधिकार्यभावादित्याह -
दुर्बलानिति ।
तदेव दौर्बल्यं प्रकृतोपयोगित्वेन व्याकरोति -
अजितेन्द्रियानिति ।
यद्यपि कामक्रोधादिप्रधानान् पुरुषान् प्रतिलभ्य कामक्रोधादिभिरभिभूयमानो योगः नष्टः - विच्छिन्नसम्प्रदायः सञ्जातः, तथाऽपि योगादृते पुरुषार्थो लोकस्य लभ्यते चेत् - किमनेन योगोपदेशेनेत्याशङ्क्य, यथोक्तयोगाभाबे परमपुरुषार्थाप्राप्तेर्मैवमित्यह -
लोकं चेति ।
पूर्वो योगो विच्छिन्नसम्प्रदायः, अधुना तु अन्यो योगो मदर्थमुच्यते भगवता, इत्याशङ्क्याह -
स एवेति ।
कस्मादन्यस्मै यस्मैकस्मैचित् पुरातनो योगो नोक्तो भगवतेत्याशङ्क्याह -
भक्तोऽसीति ।
उक्तमधिकारिणं प्रति योगस्य वक्तव्यत्वे हेतुमाह -
रहस्यं हीति ।
अनादिवेदमूलत्वाद् योगस्य पुरातनत्वम् । भक्तिः - शरणबुद्ध्या प्रीतिः, तया युक्तः । निजरूपमवेक्ष्य भक्तो विवक्षितः । समानवयाः स्निग्धः सहायः सखेत्युच्यते ।
एतदिति कथं योगो विशेष्यते, तत्राह -
ज्ञानमिति
॥ ३ ॥
भगवति लोकस्यानीश्वरत्वशङ्कां निवर्तयितुं चोद्यमुद्भावयति -
भगवतेति ।
परिहारार्थंभगवतो मनुष्यवदवस्थितस्यानीश्वरत्वमुपेत्य तद्वचने शङ्कितविप्रतिषेधस्येति शेषः । भगवतो निजरूपमुपेत्य नेदं चोद्यं, किन्तु लीलाविग्रहं ग्रहीत्वेति वक्तुं चोद्यमिवेत्युक्तम् ।
एतच्छब्दार्थमेव स्फुटयति -
यस्त्वमिति
॥ ४ ॥
भगवत्यज्ञानान्मनुष्यत्वशङ्कां वारयितुं प्रतिवचनमवतारयति -
या वासुदेव इति ।
अन्यथाप्रश्ने कथमाशङ्कान्तरं परिहर्तुं भगवद्वचनमित्याशङ्क्य, प्रश्नप्रतिवचनयोरेकार्थत्वमाह -
यदर्थो हीति ।
यस्य शङ्कितस्य विरोधस्य परिहारार्थो यस्य प्रश्नः, तमेव परिहारं वक्तुं भगवद्वचनमित्यर्थः ।
अतीतानेकजन्मवत्त्वं ममैव नासाधारणं, किन्तु सर्वप्राणिसाधारणमित्याह -
तव चेति ।
तानि प्रमाणाभावान्न प्रतिभान्तीत्याशङ्क्याह -
तानीति ।
ईश्वरस्यानावृतज्ञानत्वादित्यर्थः ।
किमिति तर्हि तानि मम न प्रतीयन्ते ? तवावृतज्ञानत्वादित्याह -
न त्वमिति ।
परान् परिकल्प्य तत्परिभवार्थं प्रवृत्तत्वात् तव ज्ञानावरणं विज्ञेयमित्याह -
परन्तपेति ।
अर्जुनस्य भगवता सहातीतानेकजन्मवत्त्वे तुल्येऽपि, ज्ञानवैषम्ये हेतुमाह -
धर्मेति ।
आदिशब्देन रागलोभादयो गृह्यन्ते ।
ईश्वरस्यातीतानागतवर्तमानसर्वार्थविषयज्ञानवत्त्वे हेतुमाह -
अहमिति
॥ ५ ॥
ईश्वरस्य कारणाभावात् जन्मैवायुक्तम् , अतीतानेकजन्मवत्त्वं तु दूरोत्सारितमिति शङ्कते -
कथमिति ।
वस्तुतो जन्माभावेऽपि मायावशाज्जन्म सम्भवतीत्युत्तरमाह -
उच्यत इति ।
पारमार्थिकजन्मायोगे कारणं पूर्वार्धेनानूद्य, प्रातिभासिकजन्मसम्भवे कारणमाह -
प्रकृतिमिति ।
प्रकृतिशब्दस्य स्वरूपविषयत्वं प्रत्यादेष्टुम् आत्ममायया इत्युक्तम् ।
वस्तुतो जन्माभावे कारणानुवादभागं विवृणोति -
अजोऽपीत्यादिना ।
प्रातिभासिकजन्मसम्भवे कारणकथनपरमुत्तरार्धं विभजते -
प्रकृतिमित्यादिना ।
प्रकृतिशब्दस्य स्वरूपशब्दपर्यायत्वं वारयति -
मायामिति ।
तस्याः स्वातन्त्र्यं निराकृत्य भगवदधीनत्वमाह -
ममेति ।
तस्याश्चाधिकरणद्वारेणावच्छिन्नत्वं सूचयति -
वैष्णवीमिति ।
मायाशब्दस्यापि प्रज्ञानामसु पाठाद् विज्ञानशक्तिविषयत्वमाशङ्क्याह -
त्रिगुणात्मिकामिति ।
तस्याः कार्यलिङ्गकमनुमानं सूचयति -
यस्या इति ।
जगतो मायावशवर्तित्वमेव स्फुटयति -
ययेति ।
यथा लोके कश्चिज्जातो देहवानालक्ष्यते, एवमहमपि मायामाश्रित्यत्या स्ववशया सम्भवामि - जन्मव्यवहारमनुभवामि, तेन मायामयमीश्वरस्य जन्मेत्याह -
तां प्रकृतिमित्यादिना ।
सम्भवामीत्युक्तमेव विभजते -
देहवानिति ।
अस्मदादेरिव तवापि परमार्थत्वाभिमानो जन्मादिविषये स्यादित्याशङ्क्य, प्रागुक्तस्वरूपपरिज्ञानवत्त्वादीश्वरस्य मैवमित्याह –
न परमार्थत इति ।
आवृतज्ञानवतो लोकस्य जन्मादिविषये परमार्थत्वाभिमानः सम्भवतीत्याह -
लोकवदिति
॥ ६ ॥
यदीश्वरस्य मायानिबन्धनं जन्मेत्युक्तं, तस्य प्रश्नपूर्वकं कालं कथयति -
तच्चेत्यादिना ।
चातुरर्वर्ण्ये चातुराश्रम्ये च यथावदनुष्ठीयमाने नास्ति धर्महानिरिति मन्वानो विशिनष्टि -
वर्णेति ।
वर्णैराश्रमैस्तदाचारैश्च लक्ष्यते - ज्ञायते धर्मः, तस्येति यावत् ।
धर्महानौ समस्तपुरुषार्थभङ्गो भवतीत्यभिप्रेत्याह -
प्राणिनामिति ।
नच यथोक्तस्य धर्मस्य हानिं सोढुं शक्तो भवानित्याह -
भारतेति ।
न केवलं प्राणिनां धर्महानिरेव भगवतो मायाविग्रहस्य परिग्रहे हेतुः, अपि तु तेषामधर्मप्रवृत्तिरपि, इत्याह -
अभ्युत्थानमिति ।
यदा यदेति पूर्वेण सम्बन्धः
॥ ७ ॥
यथोक्ते काले कृतकृत्यस्य भगवतो मायाकृते जन्मनि प्रश्नपूर्वकं प्रयोजनमाह -
किमर्थमित्यादिना ।
यथा साधूनां रक्षणम् , असाधूनां निग्रहश्च भगवदवतारफलं, तथा फलान्तरमपि तस्यास्तीत्याह -
किञ्चेति ।
धर्मे हि स्थापिते जगदेव स्थापितं भवति, अन्यथा भिन्नमर्यादं जगदसन्गतमापद्येतेत्यर्थः
॥ ८ ॥
मायामयमीश्वरस्य जन्म, न वास्तवं, तस्यैव च जगत्परिपालनं कर्म, नान्यस्य, इति जानतः श्रेयोऽवाप्तिन्दर्शयन् , विपक्षे प्रत्यवायं सूचयति -
तज्जन्मेत्यादिना ।
यथोक्तं - मायामयं, कल्पितमिति यावत् । वेदनस्य यथावत्वं, वेद्यस्य जन्मादेरुक्तरूपानतिवर्तित्वम् । यदि पुनर्भगवतो वास्तवं जन्म, साधुजनपरिपालनादि चान्यस्यैव कर्म क्षत्रियस्येति विवक्ष्यते, तदा तत्त्वापरिज्ञानाप्रयुक्तो जन्मादिः संसारो दुर्वारः स्यादिति भावः
॥ ९ ॥
सम्प्रति प्रस्तुतमोक्षमार्गस्य नूतनत्वेनाव्यवस्थितत्वमाशङ्क्य, परिहरति -
नैष इति ।
मन्मयत्वस्य मद्भावगमनेनापौनरुत्तयं दर्शयति -
ब्रह्मविद इति ।
आत्मनो भिन्नत्वेन, भिन्नाभिन्नत्वेन वा ब्रह्मणो वेदनं व्यावर्तयति -
ईश्वरेति ।
अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे -
मामेवेति ।
तदुपाश्रयत्वमेव विशदयति -
केवलेति ।
मामुपाश्रिता इति केवलज्ञाननिष्ठत्वमुक्त्वा, ‘ज्ञानतपसा पूताः’(भ. गी. ४-१०) इति किमर्थं पुनरुच्यते ? तत्राह -
इतरेति
॥ १० ॥
ईश्वरः सर्वेभ्यो भूतेभ्यो मोक्षं प्रयच्छति चेत् , प्रागुक्तविशेषणवैयर्थ्यं ; यदि तु केभ्यश्चिदेव मोक्षं प्रयच्छेत् , तर्हि, तस्य रागादिमत्त्वादनीश्वरत्वापत्तिः, इति शङ्कते -
तव तर्हीति ।
ये मुमुक्षवः, तेभ्यो मोक्षमीश्वरो ज्ञानसम्पादनद्वारा प्रयच्छति, फलान्तरार्थिभ्यस्तु तत्तदुपायानुष्ठानेन तत्तदेव ददातीति, नास्य रागद्वेषौ इति परिहरति -
उच्यत इति ।
मुमुक्षूणामीश्वरानुसारित्वेऽपि फलान्तरार्थिनां कुतस्तदनुसारित्वम् ? इत्याशङ्क्य ‘फलमत उपपत्ते’(ब्र. सू. ३-२-३८) इति न्यायेन तत्फलस्येश्वरायत्तत्वात् तदनुवर्तित्वमावश्यकम् , इत्याह -
ममेति ।
भगवद्भजनभागिनां सर्वेषामेव कैवल्यमेकरूपं किमिति नानुगृह्यते ? तत्राह -
तेषामिति ।
अभ्युदयनिःश्रेयसार्थित्वं प्रार्थनावैचित्र्यादेकस्यैव किं न स्याद् ? इत्याशङ्क्य, पर्यायेण तदनुपपत्तिं साधयति -
नहीति ।
मुमुक्षूणां फलार्थिनां च विभागे स्थिते सति अनुग्रहविभागं फलितमाह -
अत इति ।
फलप्रदानेनानुगृह्णामीति सम्बन्धः ।
नित्यनैमित्तिककर्मानुष्ठायिनामेव फलार्थित्वाभावे सति, मुमुक्षुत्वे कथं तेष्वनुग्रहः स्यात् ? इति तत्राह -
ये यथोक्तेति ।
ज्ञानप्रदानेन भजामीत्युत्तरत्र सम्बन्धः ।
सन्ति केचित् त्यक्तसर्वकर्माणो ज्ञानिनो मोक्षमेवापेक्षमाणाः, तेष्वनुग्रहप्रकारं प्रकटयति -
ये ज्ञानिन इति ।
केचिदार्ताः सन्तो ज्ञानादिसाधनान्तररहिता भगवन्तमेवार्तिमपहर्तुमनुवर्तन्ते, तेषु भगवतोऽनुग्रहविशेषं दर्शयति-
तथेति ।
पूर्वार्धव्याख्यानमुपसंहरति -
इत्येवमिति ।
भगवतोऽनुग्रहे निमित्तान्तरं निवारयति -
न पुनरिति ।
फलार्थित्वे मुमुक्षुत्वे च जन्तूनां भगवदनुसरणमावश्यकम् इत्युत्तरार्धं विभजते -
सर्वथाऽपीति ।
सर्वावस्थत्वं - तेन तेनात्मना परस्यैवेश्वरस्यावस्थानम् ।
मार्गः - ज्ञानकर्मलक्षणः । मनुष्यग्रहणाद् इतरेषामीश्वरमार्गानुवर्तित्वपर्युदासः स्याद् , इत्याशङ्क्याह -
यत्फलेति ।
सर्वप्रकारैर्मम मार्गमनुवर्तन्त इति पूर्वेण सम्बन्धः
॥ ११ ॥
अनुग्राह्याणां ज्ञानकर्मानुरोधेन भगवता तेष्वनुग्रहविधानात् तस्य रागद्वेषौ यदि न भवतः, तर्हि तस्य रागाद्यभावादेव सर्वेषु प्राणिष्वनुग्रहेच्छा तुल्या प्राप्ता, नच तस्यां सत्यामेव फलस्याल्पीयसः सम्पादने सामर्थ्यं, नतु भगवतो महतो मोक्षाख्यस्य फलस्य प्रदानेऽशक्तिरिति युक्तम् , अप्रतिहतज्ञानेच्छाक्रियाशक्तिमतस्तव सर्वफलप्रदान सामर्थ्यात् । तथाच यथोक्तानुजिघृक्षायां सत्यां, त्वयि च यथोक्तसामर्थ्यवति सति, सर्वे फल्गुफलाद् अभ्युदयाद्विमुखा मोक्षमेवापेक्षमाणा ज्ञानेन त्वामेव किमिति न प्रतिपद्येरन् ? इति चोदयति -
यदीति ।
मोक्षापेक्षाभावात् तदुपायभूतज्ञानादपि वैमुख्याद् भगवत्प्राप्त्यभावे हेतुमभिदधानः समाधत्ते -
श्रृण्विति ।
कर्मफलसिद्धिमिच्छता किमिति मानुषे लोके देवतापूजनमिष्यते ? तत्राह -
क्षिप्रं हीति ।
कर्मफलसम्पत्त्यर्थिनां यष्टृयष्टव्यविभागदर्शिनां तद्दर्शने कारणमात्माज्ञानम् , इत्यत्र बृहदारण्यकश्रुतिमुदाहरति -
अथेति ।
अविद्याप्रकरणोपक्रमार्थमथेत्युक्तम् ।
उपासनं भेददर्शनमित्यनूद्य, कारणमात्माज्ञानं तत्र, इति दर्शयति -
नेति ।
यथा अस्मदादीनां हलवहनादिना पशुरुपकरोति, एवमज्ञो देवादीनां यागादिभिरुपकरोति, इत्याह -
यथेति ।
किमिति ते फलाकाङूक्षिणो भिन्नदेवतायादिनो ज्ञानमार्गं नापेक्षन्ते ? तत्रोत्तरार्धमुत्तरत्वेन योजयति -
तेषामित्यादिना ।
यस्माद् यथोक्तानामधिकारिणां कर्मप्रयुक्तं फलं लोकविशिषे झटिति सिध्यति, तस्मात् तेषांं मोक्षमार्गादस्ति वैमुख्यमित्यर्थः ।
मानुषलोकविशेषणं किमर्थम् ? इत्याशङ्क्याह -
मनुष्यलोके हीति ।
लोकान्तरेषु तर्हि कर्मफलसिद्धिर्नास्ति, इत्याशङ्क्य, क्षिप्रविशेषणस्य तात्पर्यमाह -
क्षिप्रमिति ।
क्वचित् कर्मफलसिद्धिरविलम्बेन भवति, अन्यत्र तु विलम्बेन इति विभागे को हेतुः ? इत्याशङ्क्य, सामग्राीभावाभावाभ्याम् , इत्याह -
मानुष इति ।
मनुष्यलोके कर्मफलसिद्धेः शैघ्र्यात् तदभिमुखानां ज्ञानमार्गवैमुख्यं प्रायिकमित्युपसंहरति -
तेषामिति
॥ १२ ॥
मनुष्यलोके ‘चातुर्वर्ण्यं, चातुराश्रम्यम् ‘ इत्यनेन द्वारेण कर्माधिकारनियमे कारणं पृच्छति -
मानुष एवेति ।
आदिशब्देनावस्थाविशेषा विवक्ष्यन्ते ।
प्रकारान्तरेण वृत्तानुवादपूर्वकं चोद्यमुत्थापयति -
अथवेत्यादिना ।
प्रश्नद्वयं परिहरति -
उच्यत इति ।
तर्हि, तव कर्तृत्वभोक्तृत्वसम्भवात् अस्मदादितुल्यत्वेनानीश्वरत्वम् , इत्याशङ्क्याह -
तस्येति ।
ईश्वरस्य विषमसृष्टिं विदधानस्य सृष्टिवैषम्यनिर्वाहकं कथयति -
गुणेति ।
गुणविभागेन कर्मविभागः । तेन चातुर्वर्ण्यस्य सृष्टिमेवोपदिष्टां स्पष्टयति -
तत्रेत्यादिना ।
प्रश्नद्वयप्रतिविधानं प्रकृतमुपसम्हरति -
तच्चेदमिति ।
मनुष्यलोके परं वर्णाश्रमादिपूर्वके कर्मण्यधिकारः, तत्रैव वर्णादेरीश्वरेण सृष्टत्वात् , न लोकान्तरेषु, तत्र वर्णाद्यभावात् , ईश्वरमेव चातुर्वर्ण्याश्रमादिविभागिनोऽधिकारिणोऽनुवर्तन्ते, तेनैव वर्णादेस्तद्व्यापारस्य च सृष्टत्वात् तदनुवर्तनस्य युक्तत्वादित्यर्थः ।
तस्येत्यादि द्वितीयभागापोह्यं चोद्यमनुद्रवति -
हन्तेति ।
यदि चातुर्वर्ण्यादिकर्तृत्वादीश्वरस्य प्रागुक्तो नियमोऽभिमतः, तर्हि, तद्विषयसृष्ट्यादेः तन्निष्ठव्यापारस्य च धर्मादेर्निवर्तकत्वात् तत्फलस्य कर्तृगामित्वात् कर्तृत्वभोक्तृत्वयोस्त्वयि प्रसङ्गात् नित्यमुक्तत्वादि ते न स्यादित्यर्थः ।
मायया कर्तृत्वं, परमार्थतश्चाकर्तृत्वम् , इत्यभ्युपगमात् नित्यमुक्तत्वादि सिध्यति, इत्युत्तरमाह -
उच्यत इति ।
मायावृत्त्यादिसंव्यवहारेण चातुर्वणर्यादेस्तत्कर्मणश्च यद्यपि कर्ताऽहं, तथाऽपि तथाविधं मां परमार्थतोऽकर्तारं विद्धीति योजना ।
अकर्तृत्वादेवाभोक्तृत्वसिद्धिः, इत्याह -
अत एवेति
॥ १३ ॥
ईश्वरस्य कर्तृत्वभोक्तृत्वयोर्वस्तुतोऽभावे कर्मतत्फलसम्बन्धवैधुर्यं फलति, इत्याह -
येषां त्विति ।
कर्मतत्फलसंस्पर्शशून्यमीश्वरं पश्यतो दर्शनानुरूपं फलं दर्शयति -
न मामिति ।
तानि कर्माणीति येषां कर्मणामहं कर्ता तवाभिमतः, तानीति यावत् ।
देहेन्द्रियाद्यारम्भकत्वेन तेषां कर्मणामीश्वरे संस्पर्शाभावे, तस्य तत्करणावस्थायामहङ्काराभावं हेतुं करोति -
अहङ्काराभावादिति ।
कर्मफलतृष्णाभावाच्चेश्वरं कर्माणि न लिम्पन्ति, इत्याह-
नचेति ।
उक्तमेव प्रपञ्चयति -
येषां त्विति ।
तदभावात् -कर्मसु ‘अहं कर्ता’ इत्यभिमानस्य, तत्फलेषु स्पृहायाश्चाभावादित्यर्थः ।
ईश्वरस्य कर्मनिर्लेपेऽपि, क्षेत्रज्ञस्य किमायातम् ? इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -
इत्येवमिति ।
अभिज्ञानप्रकारमभिनयति -
नाहमिति ।
ज्ञानफलं कथयति -
स कर्मभिरिति ।
कर्मासम्बन्धं विदुषि विशदयति -
तस्यापीति
॥ १४ ॥
तव कर्मतत्फलसम्बन्धाभावे, तथा ज्ञानवतश्च तदसम्बन्धे, ममापि किं कर्मणा इत्याशङ्क्य, कर्मणि कर्तृत्वाभिमानं, तत्फले स्पृहां चाकृत्वा, मुमुक्षुवत् त्वया कर्म कर्तव्यमेव, इत्याह -
नाहमित्यादिना ।
नाहं कर्तेत्येवमादि एवमा परामृश्यते । तेन - पूर्वैेर्मुमुक्षुभिरनुष्ठितत्वेन हेतुनेत्यर्थः ।
कर्मैवेत्येवकारार्थमाह -
नेत्यादिना ।
त्वं शब्दस्य क्रियापदेन सम्बन्धः ।
तस्मादित्युक्तमेव स्फुटयति -
पूर्वैरिति ।
यदुक्तं किं मम कर्मणेति, तत्र त्वमज्ञो वा, तत्त्वविद्वा ? । यद्यज्ञः, तदा चित्तशुद्ध्यर्थं कुरु कर्म इत्याह -
यदीति ।
द्वितीयं प्रत्याह -
तत्त्वविदिति ।
कुरु कर्मेति सम्बन्धः ।
पूर्वैर्मूढैराचरितमित्येतावता किमिति विवेकवता मया तत्कर्तव्यम् ? इत्याशङ्क्याह -
जनकादिभिरिति ।
ते तावत् एवं सम्पाद्य कर्म कृतवन्तो, न तदिदानीमप्रामाणिकत्वादनुष्ठेयम् , इत्याशङ्क्याह -
पूर्वतरमिति
॥ १५ ॥
कर्मविशेषणमाक्षिपति -
तत्रेति ।
मनुष्यलोकः सप्तम्यर्थः ।
कर्मणि महतो वैषम्यस्य विद्यमानत्वात् तस्य पूर्वैरनुष्ठितत्वेन पूर्वतरत्वेन च विशेषितत्वे, तस्मिन् प्रवृत्तिस्तव सुकरा, इति युक्तं विशेषणम् , इति परिहरति -
उच्यत इति ।
कर्मणि देहादिचेष्टारूपे लोकप्रसिद्धे नास्ति वैषम्यम् , इति शङ्कते -
कथमिति ।
विज्ञानवतामपि कर्मादिविषये व्यामोहोपपत्तेः, सुतरामेव तव तद्विषये व्यामोहसम्भवात् , तदपोहार्थमाप्तवाक्यापेक्षणाद् , अस्ति कर्मणि वैषम्यम् , इत्युत्तरमाह -
किं कर्मेति ।
‘तत् ते कर्म’(भ. गी. ४-१६) इत्यत्र अकारानुबन्धेनापि पदं छेत्तव्यम् ।
कर्मादिप्रवचनस्य प्रयोजनमाह -
यज्ज्ञात्वेति ।
तत् कर्माकर्म चेति सम्बन्धः । अतः मेधाविनामपि यथोक्ते विषये व्यामोहस्य सत्त्वादित्यर्थः ।
॥ १६ ॥
कर्मणोऽकर्मणश्च प्रसिद्धत्वात् तद्विषये न किञ्चिद् बोद्धव्यम् , इति चोद्यमनूद्य निरस्यति -
नचेति
तत्र हेत्वाकाङूक्षापूर्वकमनन्तरं श्लोकमवतारयति -
कस्मादिति ।
त्रिष्वपि कर्माकर्मविकर्मसु बोद्धव्यमस्तीति यस्मात् अध्याहारः, तस्माद् मदीयं प्रवचनमर्थवदिति योजना ।
बोद्धव्यसद्भावे हेतुमाह -
यस्मादिति ।
त्रितयं प्रकृत्य अन्यतमस्य गहनत्ववचनमयुक्तमित्याशङ्क्य, अन्यतमग्रहणस्योपलक्षणार्थत्वमुपेत्य, विवक्षितमर्थमाह -
कर्मादीनामिति
॥ १७ ॥
उत्तरश्लोकमाकाङ्क्षापूर्वकमुपादत्ते -
किं पुनरिति ।
प्रथमपादस्याक्षरोत्थमर्थं कथयति -
कर्मणीत्यादिना ।
द्वितीयपादस्यापि शब्दप्रकाशितमर्थं निर्दिशति -
अकर्मणि चेति ।
कर्माभावे यः कर्म पश्यतीति सम्बन्धः ।
प्रवृत्तेरेव कर्मत्वात् निवृत्तेस्तदभावत्वात् तत्र कथं कर्मदर्शनमित्याशङ्क्य, द्वयोरपि कारकाधीनत्वेनाविशेषमभिप्रोयाह -
कर्तृतन्त्रत्वादिति ।
प्रवृत्ताविव निवृत्तावपि, कर्मदर्शनमविरुद्धमिति शेषः ।
ननु निवृत्तेर्वस्त्वधीनत्वात् कारकनिबन्धनाभावान्न तत्र कर्मदर्शनं युज्यते, तत्राह -
वस्त्विति ।
क्रियाकारकफलव्यवहारस्य सर्वस्याविद्यावस्थायामेव प्रवृत्तत्वाद् वस्तुसंस्पर्शशून्यत्वात् प्रवृत्तिवन्निवृत्तावपि यः कर्म पश्यति, स मनुष्येषु बुद्धिमानिति सम्बन्धः ।
कर्मण्यकर्म अकर्मणि च कर्म पश्यतो बुद्धिमत्त्वं, युक्तत्वं समस्तकर्मकृत्त्वं च कथमित्याशङ्क्याह -
इति स्तूयत इति ।
श्लोकस्य शब्दोत्थेऽर्थे दर्शिते, तात्पर्यार्थापरिज्ञानान्मिथो विरोधं शङ्क्तते -
नन्विति ।
कथमिदं विरुद्धम् ? इत्याशङ्क्य, कर्मणीति विषयसप्तमी वा स्यात् ? अधिकरणसप्तमी वा ? इति विकल्प्य, आद्ये - अन्याकारं ज्ञानमन्यावलम्बनमिति स्पष्टो विरोधः स्याद् , इत्याह -
नहीति ।
अन्यस्यान्यात्मतायोगात् कर्माकर्मणोरभेदासम्भवादकर्माकारं कर्मावलम्बनं ज्ञानम् अयुक्तमित्यर्थः ।
द्वितीयं दूषयति -
तत्रेति ।
कर्मण्यधिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे । नहि कर्माकर्मणोर्मिथो विरुद्धयोराधाराधेयभावः सम्भवतीत्यर्थः ।
विषयसप्तमीमभ्युपेत्य सिद्धान्ती परिहरति -
नन्वकर्मैवेति ।
लोकस्य मूढदृष्टेर्विवेकवर्जितस्य परमार्थतो ब्रह्म अकर्म अक्रियमेव सद् , भ्रान्त्या, कर्मसहितं क्रियावदिव प्रतिभातीत्यक्षरार्थः ।
परस्पराध्यसमभ्युपेत्योक्तम् -
तथेति ।
यथा खल्वकर्म ब्रह्म कर्मवदुपलभ्यते तथा कर्म सक्रियमेव द्वैतमक्रिये ब्रह्मण्यधिष्ठाने संसृष्टं तद्वद् भातीत्यक्षरयोजना ।
कर्माकर्मणोरितरेतराध्यासे सिद्धे, सम्यग्दर्शनसिद्ध्यर्थं भगवतो वचनमुचितम् , इत्याह -
तत्रेति ।
यथा, यत् , इन्दं रजतमिति प्रतिपन्नं, तत् , इदानीं शुक्तिशकलं पश्येति भ्रमसिद्धरजतरूपविषयानुवादेन तदधिष्ठानं शुक्तिमात्रमुपदिश्यते, तथा भ्रमसिद्धकर्माद्यात्मकविषयानुवादेन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता व्यपदिश्यते । तथाच भगवद्वचनमविरुद्धमित्यह -
अत इति ।
इतश्चाध्यारोपितकर्माद्यनुवादपूर्वकं तदधिष्ठानस्य कर्मादिरहितस्य निर्विशोषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरोधाशङ्कावकाशो भवतीत्याह -
बुद्धिमत्त्वादीति ।
कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वात् अन्यज्ञानाद् बुद्धिमत्त्वयुक्तत्वसर्वकर्मकृत्त्वानामनुपपत्तेः, अत्र च ‘स बुद्धिमान् ‘ इत्यादिना बुद्धिमत्त्वादिनिर्देशाद् ब्रह्मज्ञानादेव तदुपपत्तेः, सर्वविक्रियारहितब्रह्मज्ञानमेव विवक्षितमित्यर्थः ।
बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपं बोद्धव्यस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्वादपि कूटस्थं ब्रह्मत्राभिप्रेतम् इत्याह -
बोद्धव्यमिति चेति ।
फलवचनपर्यालोचनायामपि कूटस्थं ब्रह्मात्राभिप्रेतं प्रतिभाति इत्याह -
नचेति ।
सम्यग्ज्ञानाधीनफलमत्र न श्रुतम् , इत्याशङ्क्याह -
यज्ज्ञात्वेति ।
अध्यारोपापवादार्थं भागवद्वचनमविरुद्धम् , इत्युपपादितमुपसंहरति -
तस्मादिति ।
‘तद्विपर्यय’ इत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते ।
विषयमप्तमीपरिग्रहेण परिहारमभिवाय, अधिकरणसप्तमीपक्षे दर्शित्ं दूषणमनङ्गीकारेण परिहरति -
नचेति ।
व्यवहारभूमिरत्रेत्युच्यते । योग्यत्वे सत्यनुपलब्धेरित्यर्थः ।
अकर्माधिकरणं कर्म न सम्भवति इत्यत्र हेत्वन्तरमाह -
कर्माभावत्वादिति ।
नहि तुच्छस्याधिकरणं क्कचिद् दृष्टमिष्टं चेत्यर्थः ।
निरूप्यमाणे कर्माकर्मणोरधिकरणाधिकर्तव्यभावासम्भवे फलितमाह -
अत इति ।
शास्त्रपरिचयविरहिणामध्यारोपमुदाहरति -
यथेति ।
कर्माकर्मणोरारोपितत्वमुक्तममृष्यमाणाः सन्नाशङ्कते -
नन्विति ।
कर्म कर्मैवेत्यत्र अकर्म चाकर्मैवेति द्रष्टव्यम् । विमतं सत्यमव्यभिचारित्वाद् ब्रह्मवदित्यर्थः ।
तत्र कर्म तत्त्वतो नाव्यभिचारि, कर्मत्वात् , नौस्थस्य तटस्थवृक्षगमनवत् ,इत्यव्यभिचारित्वं कर्मण्यसिद्धमिति परिहरति -
तन्नेति ।
अकर्म च तत्त्वतो नाव्यभिचारि, कर्माभावत्वाद्, दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा सन्निधानविधुरेषु दृश्यमानगत्यभाववत् , इत्याह -
दूरेष्विति ।
दूरत्वादेव विशेषतः सन्निकर्षविरहितेषु तेषु स्वरूपेण चक्षुः संनिकृष्टेषु चक्षुषा गत्यभावदर्शनादिति योजना ।
गातिरहितेषु तरुषु गतिदर्शनवत् प्रकृते ब्रह्मण्यविक्रिये कर्मदर्शनं, सक्रिये च द्वैतप्रपञ्चे गतिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतस्य दर्शनं येन हेतुना सम्भवति, तेन तस्य विपरीतदर्शनस्य निरसनार्थं भगवद्वचनमिति दार्ष्टान्तिकं निगमयति -
एवमित्यादिना ।
ननु कर्मतदभावयोरारोपितत्वात् अविक्रियस्य ब्रह्मणो ज्ञानमत्राभिप्रेतं चेत् ‘अव्यक्तोऽयमचिन्त्योऽयं’(भ. गी. २-२५) ‘न जायते म्रियते’(भ. गी. २ -१८) इत्यादिना पौनरुक्त्यं प्राप्तं, तत्रैव ब्रह्मात्मनो निर्विकारत्वस्योक्तत्वादिति, तत्राह -
तदेतदिति ।
तदेतत् -आत्मनि शङ्कितं सक्रियत्वम् असकृदुक्तप्रतिवचनमपि निर्विकारात्मवस्त्वपेक्षया अत्यन्तविपरीतदर्शनं - मिथ्याज्ञानं, तेन भावितत्वं -तत्संस्कारप्रचयवत्त्वं, ततोऽतिशयेन मोहमापद्यमानो लोकः श्रुतमपि तत्त्वं विस्मृत्य पुनर्यत्किंचित्प्रसङ्गमापाद्य, सक्रियत्वमेव आत्मन श्चोदयतीति, पुनः पुनस्तत्त्वभूतमुत्तरं भगवानभिधत्ते । वस्तुनश्च दुर्विज्ञेयत्वात् पुनःपुनः प्रतिपादनं तत्तद्भ्रमनिराकरणार्थमुपयुज्यते । तथाच नास्ति पुनरुक्तिरित्यर्थः ।
असकृदुक्तप्रतिवचनमेवानुवदति -
अव्यक्तोऽयमिति ।
कर्माभाव उक्त इति सम्बन्धः ।
उक्तस्य ‘न जायते म्रियते वा विपश्चित् ‘(क. १.२. १८) इत्यादिश्रुतौ प्रकृतस्मृतावसङ्गत्वादिन्यायेन च प्रसिद्धत्वमस्ति, इत्याह -
श्रुतीति ।
न केवलमुक्तः कर्माभावः, किन्तु, ‘सर्वकर्माणि मनसा संन्यस्य’(भ. गी. ५-१३) इत्यादौ वक्ष्यमाणश्चेत्याह -
वक्ष्यमाणश्चेति ।
ननु कर्मणो देहादिनिर्वर्त्यत्वेन त्रैविध्यात् कूटस्थस्वभावस्यात्मनोऽसङ्गत्वात् तद्व्यापाररूपस्य कर्मणोऽप्रसिद्धत्वान्न तस्मिन्नकर्मणि विपरीतस्य कर्मणो दर्शनं सिध्यति, इत्याशङ्क्याह -
तस्मिन्निति ।
कर्मैव विपरीतं, तस्य दर्शनमिति यावत् । अहं कर्तेत्यात्मसमानाधिकरणस्य व्यापारस्यानुभवात् कर्मभ्रमस्तावत् आत्मन्यत्यन्तरूढोऽस्तीत्यर्थः ।
आत्मनि कर्मविभ्रमोऽस्तीत्यत्र हेतुमाह -
यत इति ।
आत्मनो निष्क्रियत्वे कुतस्तस्मिन् यथोक्तो विभ्रमः सम्भवेत ? इत्याशङ्क्याह -
देहेति ।
इदानीमात्मनि अकर्मभ्रममुदाहरति -
तथेत्यादिना ।
यथा शुक्तौ स्वाभाविकमरूप्यत्वं, रूप्यत्वमारोपितं, तदभावोऽप्यारोप्याभावत्वात् आरोपपक्षपाती । तथा आत्मनोऽपि स्वाभाविकमविक्रियत्वं, सक्रियत्वं पुनरध्यस्तं, तदभावत्वात् , कर्मभावोऽप्यध्यस्त एवेति मन्वानः सन्नुपसंहरति -
तत्रेदमिति ।
आत्मनि कर्मादिविभ्रमे लौकिके सिद्धे सति इदं - ‘कर्माणि’ इत्यादिवचनंं, तत्परिहारार्थं भगवानुक्तवानित्यर्थः ।
संप्रत्युक्तेऽर्थे श्लोकाक्षरसमन्वयं दर्शयितुं ‘कर्मणि’ इत्यादि व्याचिख्यासुर्भूमिकां करोति -
अत्र चेति ।
व्यवहारभूमौ कार्यकरणाधिकरणं कर्म स्वेनैव रूपेण व्यवस्थितं सत् , आत्मन्यविक्रिये कार्यकरणारोपणद्वारेण सर्वैरारोपितमित्यत्र हेतुमाह -
यत इति ।
अविवेकिनां तु कर्तुत्वाभिमानः सुतरामिति वक्तुमपिशब्दः । एवमात्मनि कर्मारोपमुपपाद्य प्रथमपादं व्याटष्टे -
अत इति ।
आत्मानि कर्मरहिते कर्मारोपे दृष्टान्तमाह -
नदीति ।
आरोपवशादात्मनिष्ठत्वेन कर्मणि सर्वलोकप्रसिद्धे कर्माभावं यः पश्येत् , स बुद्धिमानिति सम्बन्धः । अकर्मदर्शनस्य यथाभूतत्वं सम्यक्त्वम् । तत्र दृष्टान्तमाह -
गत्यभावमिवेति ।
द्वितीयपादं व्याकरोति -
अकर्मणि चेति ।
अध्यरोपमभिनयति -
तूष्णीमिति ।
अकर्मणि कर्मदर्शने युक्तिमाह -
अहङ्कारेति ।
पूर्वार्धेनोक्तमनूद्य, उत्तरार्धं विभजते -
य एवमिति ।
आत्मनि कार्यकरणसङ्घातसमारोपद्वारेण तद्व्यापारमात्रे कर्मणि, शुक्तिकायामिव रजतसमारोपितविषये तदभावम् - अकर्म, वस्तुतो यो रजताभाववदनुभवति, अकर्मणि च सङ्घातव्यापारोपरमे तद्द्वारा स्वात्मनि ‘अहं तूष्णीमासे सुखम्’ इत्यारोपित गोचरे कर्म - अहङ्कारहेतुकं यस्तत्त्वतो मन्यते, स रूप्यतदभावविभागहीनशुक्तिमात्रवत् आत्ममात्रं कर्मतदभावविभागशून्यं कूटस्थं परमार्थतोऽवगच्छन् बुद्धिमान् इत्यादिस्तुतियोग्यतां गच्छति, इत्येवं स्वाभिप्रायेण श्लोकं व्याख्याय, अत्र वृत्तिकारव्याख्यानमुत्थापयति -
अयमिति ।
अन्यथाव्याख्यानमेव प्रश्नद्वारा प्रकटयति -
कथमित्यादिना ।
ईश्वरार्थेनानुष्ठाने फलाभववचनं व्याहतम् , इति मत्वाऽऽह -
किलेति ।
नित्यानामकर्मत्वमप्रसिद्धम् इ्त्याशङ्क्य, फलराहित्यगुणयोगात् तेष्वकर्मत्वव्यवहारः सिध्यतीत्याह -
गौण्येति ।
नित्यानामकारणं मुख्यवृत्त्यैवाकर्म वाच्यम् , इत्याह -
तेषां चेति ।
तत्र कर्मशब्दस्य प्रत्यवायाख्यफलहेतुत्वगुणयोगाद् गौण्यैव वृत्त्या प्रवृत्तिरित्याह -
तच्चेति ।
पातनिकामेवं कृत्वा श्लोकाक्षराणि व्याचष्टे -
तत्रेत्यादिना
अकर्मणि चेत्यादि व्याकरोति -
तथेति ।
स बुद्धिमानित्यादि पूर्ववत् ।
परकीयं व्याख्यानं व्युदस्यति -
नैतदिति ।
नित्यं कर्माकर्म, नित्याकरणं कर्मेति ज्ञानाद् दुरितनिवृत्त्यनुपपत्तेर्भगवद्वचनं वृत्तिकारमते बाधितं स्यादित्यर्थः ।
‘धर्मेण पापमपनुदति’(म. ना. उ. २-१) इति श्रूतेर्नित्यानुष्ठानाद् दुरितनिबर्हणप्रसिद्धेस्तदनुष्ठानस्य फलान्तराभावात् तदकर्मेति ज्ञात्वा अनुष्ठाने क्रियमाणे कथमशुभक्षयो नेति शङ्कते -
कथमिति ।
‘क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता’(या. स्मृ. ३-३४) इति स्मरणात् कर्मणात्यन्तिकाशुभक्षयाभावेऽप्यङ्गीकृत्य परिहरति -
नित्यानामिति ।
नित्यानुष्ठानादशुभक्षयेऽपि नास्मिन् प्रकरणे तद्विवक्षितं ; ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ‘(भ. गी. ४-१६) इति ज्ञानादशुभक्षयस्य प्रतिज्ञातत्वात् , नच तज्ज्ञानं फलाभावविषयमेषितव्यमित्याह -
नत्विति ।
अशुभस्य फलाभावज्ञानकार्यत्वाभावान्न फलाभावज्ञानात् क्षयः सिध्यतीत्यर्थः । किञ्चातीन्द्रियोऽर्थः शास्त्रान्निश्चीयते ।
नच नित्यकर्मणां फलाभावज्ञानादशुभनिवृत्तिरित्यत्र शास्त्रमस्तीत्याह -
नहीति ।
नित्याकरणं कर्मेति ज्ञानमपि, नाशुभनिवृत्तिफलत्वेन चोदितमस्तीत्याह -
नित्यकर्मेति ।
भगवद्वचनमेवात्र प्रमाणमित्याशङ्क्याह -
नचेति ।
साधारणमेव ‘यज्ज्ञात्वा’ इत्यादि भगवतो वचनं, नतु नित्यानां फलाभावं ज्ञात्वेति विशेषविषयमित्यर्थः ।
अशुभमोक्षणासम्भवप्रदर्शनेन कर्मण्यकर्मदर्शननिराकरणन्यायेन अकर्मणि कर्मदर्शनं निराकरोति -
एतेनेति ।
नामादिषु फलाय ब्रह्मदृष्टिवत् अकर्मण्यपि फलार्थं कर्मदृष्टिविधानान्नाशुभमोक्षणानुपपत्तिरित्याशङ्क्य, आह -
नहीति ।
अत्र हि श्लोके नित्यस्य कर्तव्यतामात्रं परमते विवक्षितम् । अतश्चाकर्मणि कर्मदर्शनं विधीयते तत्त्फलायेति कल्पना परस्य सिद्धान्तविरुद्धेत्याह -
नित्यस्य त्विति ।
परमतेऽपि नित्यस्य कर्तव्यतामात्रमत्र श्लोके न विवक्षितं, किन्तु नित्यानुष्ठाने प्रवृत्तिसिद्ध्यर्थं नित्याकरणात् प्रत्यवायो भवतीति ज्ञानमपि कर्तव्यत्वेनात्र विवक्षितमेवेत्याशङ्य अह -
नचेति ।
न तावत् प्रवृत्तिरस्य विज्ञानस्य फल, नियोगादेव तदुपपत्तेः । नापि फलान्तरम् अनुपलम्भात् ; अतोऽफलत्वादकरणात् प्रत्यवायो भवतीति ज्ञानं नात्र कर्तव्यत्वेन विवक्षितमित्यर्थः ।
किञ्चाकरणे कर्मदृष्टिविधावकरणस्यालम्बनत्वेन प्रधानत्वात् ज्ञेयत्वं वक्तव्यं, तच्च तुच्छत्वादनुपपन्नमित्याह-
नापीति ।
अकरणस्यासतो नामादिवदाश्रयत्वेन दर्शनासम्भवेऽपि, सामानाधिकरण्येन इदं रजतमितिवद् दर्शनं भविष्यतीत्याशङ्क्याह -
नापि कर्मेति ।
आदिशब्देन सर्वोत्कर्षादि गृह्यते । फलवत्त्वं स्तुतिर्वा सम्यग्ज्ञानस्य युक्तं, न मिथ्याज्ञानस्य, अनुपपत्तेरित्यर्थः ।
स्वप्ने मिथ्याज्ञानमपि फलवदुपलब्धमित्याशङ्क्य, मिथ्याज्ञानस्याशुभाविरोधित्वान्न तस्मात् तन्निवृत्तिरित्याह -
मिथ्याज्ञानमेवेति ।
अशुभादेवाशुभानिवृत्तौ दृष्टान्तमाह -
नहीति ।
अविवेकपूर्वकम् , इदं रजतमिति, सदसतोः सामानाधिकरण्यान्मिथ्याज्ञानं युक्तं, कर्माकर्मणोस्तु विवेकेन भासमानयोः सामानाधिकरण्याधीनं ज्ञानं -सिंहदेवदत्तयोरिव गौणं, न मिथ्याज्ञानमिति शङ्कते -
नन्विति ।
कर्माकर्मेति दर्शने फलाभावो गुणः, अकर्म कर्मेति दर्शने तु फलाभावो गुणः, तन्निमित्तमिदं ज्ञानं गौणमित्याह -
फलेति ।
यथोक्तज्ञानस्य गौपत्वेऽपि प्रामाणिकफलाभावान्न तद्नौणतोचितेति दूषयति -
नेत्यादिना ।
कर्माकर्मेत्यादिगौणविज्ञानोपन्यासव्याजेन नित्याकर्मणः कर्तव्यतायाः विवक्षितत्वाद्नौणज्ञानस्याफलत्वमदूषणमित्याशङ्क्याह -
नापीति ।
ज्ञानादशुभमोक्षणस्य श्रुतस्य हानिः, अश्रुतस्य नित्यानुष्ठानस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद्विशेषः सिध्यतीत्यर्थः ।
उक्तमेव प्रपञ्चयति -
स्वशब्देनेति ।
नरकपातः स्यादतो विधेरेवानुष्ठेयानि तानीति शेषः ।
यथोक्तवाचकशब्दप्रयोगादेव अपेक्षितार्थसिद्धिसम्भवे भगवतो व्याजवचनकल्पनमनुचितमित्याह -
तत्रेति ।
प्रकृते श्लोके वृत्तिकृतां व्याख्यानेन परमाप्तस्यैव भगवतो विप्रलम्भकत्वमापादितमिति तदीयं व्याख्यानमुपेक्षितव्यमिति फलितमाह -
तत्रैवमिति ।
नित्यकर्मानुष्ठानसिद्ध्यर्थं व्याजरूपमिति भगवद्वचनमुचितमित्याशङ्क्य, स्वशब्देनापीत्यादिप्रागुक्तपरिपाट्या तदनुष्ठानबोधनसम्भवाद् मैवमित्याह -
नचैतदिति ।
वस्तुशब्देन नित्यकर्मानुष्ठानमुच्यते । यथात्मप्रतिपादनं सुबोधत्वसिद्ध्यर्थं पौनःपुन्येन क्रियते, तथा नित्यानामपि कर्मणामनुष्ठानं ‘कर्मण्यकर्म’(भ. गी. ४-१८) इत्यादिशब्दान्तरेणोच्यमानं सुबोधं स्यादिति भगवतः शब्दान्तरं युक्तमित्याशङ्क्य, तस्य नित्यानुष्ठानवाचकत्वाभावान्मैवमित्याह -
नापीति ।
किञ्च, पूर्वमेव नित्यानुष्ठानस्य स्पष्टमुपदिष्टत्वान्न तस्य सुबोधनार्थं शब्दान्तरमपेक्षितमित्यह –
कर्मण्येवेति ।
कर्माकर्मादिविज्ञानव्याजेन नित्याकर्मानुष्ठानकर्तव्यतायां तात्पर्यमित्येतन्निराकृत्य, कर्माकर्मादिदर्शनं गौणमिति पक्षे दूषणान्तरमाह -
सर्वत्र चेति ।
लोके वेदे च यथा प्रशस्तं देवतादितत्त्वं, यच्च कर्तव्यमनुष्ठानार्हमग्निहोत्रादि, तदेव बोद्धव्यमित्युच्यते ; न निष्फलं काकदन्तादि । कर्मणि अकर्मदर्शनमकर्मणि च कर्मदर्शनं गौणत्वादेवाप्रशस्तमकर्तव्यं च । नातः तद् बोद्धव्यमिति वचनमर्हतीत्यर्थः ।
किञ्च, कर्मादेर्मायामात्रत्वाद् गौणमपि तद्विषयं ज्ञानं मिथ्याज्ञानमिति, न तस्य बोद्धव्यत्वसिद्धिरित्याह -
नचेति ।
मिथ्याज्ञानस्य बोद्धव्यत्वाभावेऽपि तद्विषयस्य बोद्धव्यता सिध्येदित्याशङ्क्याह वस्त्वाभासत्वात् मैवमित्याह -
तत्प्रत्युपस्थापितं वेति ।
यत्पुनरकरणस्य प्रत्यवायहेतुत्वम् , अकरणे गौण्या वृत्त्या कर्मशब्दप्रयोगे निमित्तमिति, तद् दूषयति -
नापीति ।
अकरणात् प्रत्यवायो भवतीत्यत्र श्रृतिस्मृतिविरोधमभिदधाय, युक्तिविरोधमभिधाति -
असत इति ।
असतः सद्रूपेण भवनमभवनं च निःस्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्यसद्रूपेण भवनमभवनं च निः स्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्य प्रसङ्गादित्याह -
तच्चेति ।
यत्तु नित्यानां फलराहित्यं तत्राकर्मशब्दप्रयोगे निमित्तमिति, तन्निरस्यति -
नचेति ।
न केवलं विध्युद्देशे स्वफलाभावान्नित्यानां विध्यनुपपत्तिः, अपितु धात्वर्थस्य क्लेशात्मकत्वात् तत्र श्रुतफलाभावे नैव विधिरवकाशमासादयेदित्याह -
दुःखेति ।
दुःखरूपस्यापि धात्वर्थस्य साध्यत्वेन कार्यत्वात् तद्विषयो विधिः स्यादिति चेन्नेत्याह -
दुःखस्य चेति ।
स्वर्गादिफलाभावेऽपि नित्यानामकरणनिमित्तनिरयनिरासार्थं दुःखरूपाणामपि स्यादनुष्ठेयत्वमित्याशङ्क्य आह -
तदकरणे चेति ।
फलान्तराभावेऽपि मोक्षसाधनत्वाद् मुमुक्षुणा नित्यानि कर्माण्यनुष्ठेयानीत्याशङ्क्याह -
स्वाभ्युपगमेति ।
वृत्तिकारव्याख्यानासद्भावे फलितमुपसंहरति -
तस्मादिति ।
कोऽसौ यथाश्रुतोऽर्थः श्लोकस्येत्याशङ्क्य आह -
तथाचेति
॥ १८ ॥
कर्मण्यकर्मदर्शनं पूर्वोक्तं स्तोतुमुत्तरश्लोकं प्रस्तौति -
तदेतदिति ।
यथोक्तदर्शित्वं - पूर्वोक्तदर्शनसम्पन्नत्वम् ।
समारम्भशब्दस्य कर्मविषयत्वं न रूढ्या, किन्तु व्युत्पत्त्येत्याह -
समारभ्यन्त इतीति ।
कामसङ्कल्पवर्जितत्वे कथं कर्मणामनुष्ठानमित्याशङ्क्याह -
मुधैवेति ।
उद्देश्यफलाभावे तेषामनुष्ठानं यादृच्छिकं स्यादित्याशङ्क्य, प्रवृत्तेन निवृत्तेन वा तेषामनुष्ठानं यादृच्छिकं स्यादिति विकल्प्य, क्रमेण निरस्यति -
प्रवृत्तेनेत्यादिना ।
ज्ञानग्नीत्यादि विभजते -
कर्मादाविति ।
यथोक्तज्ञानं योग्यमेव दहति, नायोग्यमिति विवक्षितत्वात् तस्मिन्नग्निपदम् ।
यथोक्तविज्ञानविरहिणामपि वैशेषिकादीनां पण्डितत्वप्रसिद्धिमाशङ्क्य, तेषां पण्डिताभासत्वं विवक्षित्वा विशिनष्टि -
परमार्थत इति
॥ १९ ॥
विवेकात् पूर्वं कर्मणि प्रवृत्तावपि, सति विवेके तत्र न प्रवृत्तिरित्याशङ्क्याङ्गीकरोति -
यस्त्विति ।
विवेकात् पूर्वमभिनिवेशेन प्रवृत्तस्य विवेकानन्तरमभिनिवेशाभावात् प्रवृत्त्यसम्भवेऽपि जीवनमात्रमुद्दिश्य प्रवृत्त्याभास सम्भवतीत्यर्थः ।
सत्यपि विवेके तत्त्वसाक्षात्कारानुदयात् कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादित्याशङ्क्याह -
यस्तु प्रारब्धेति ।
त्यक्त्वा इत्यादि समनन्तरश्लोकमवतारयितुं भूमिकां कृत्वा, तदवतारणप्रकारं दर्शयति -
स कुतश्चिदिति ।
लोकसङ्ग्रहादि, निमित्तं विवक्षितम् । कर्मपरित्यागासम्भवे सति तस्मिन् प्रवृत्तोऽपि नैव करोति किञ्चिदिति सम्बन्धः ।
कर्मणि प्रवृत्तो न करोति कर्मेति कथमुच्यते ? तत्राह -
स्वप्रयोजनाभावादिति ।
कथं तहि कर्मणि प्रवर्तते ? तत्राह-
लोकेति ।
प्रवृत्तेरर्थक्रियाकारित्वाभावं ‘पश्वादिभिश्चाविशेषात्’ इति न्यायेन व्यावर्तयति -
पूर्ववदिति ।
कथं तर्हि विवेकिनामविवेकिनां च विशेषः स्यादित्याशङ्क्य, कर्मादौ सङ्गासङ्गाभ्यामित्याह -
कर्मणीति ।
उक्तेऽर्थे समनन्तरश्लोकमवतारयति -
ज्ञानाग्नीति ।
एतमर्थं दर्शयिष्यन्निमं श्लोकमाहेति योजना ।
यथोक्तं ज्ञानं कूटस्थात्मदर्शनं, तेन स्वरूपभूतं सुखं साक्षादनुभूय, कर्मणि तत्फले च सङ्गमपास्य, विषयेषु निरपेक्षश्चेष्टते विद्वानित्याह -
त्यक्त्वेत्यादिना ।
इष्टसाधनसापेक्षस्य कुतो निरपेक्षत्वमित्याशङ्क्य, विशिनष्टि -
निराश्रय इति ।
यदाश्रित्येति यच्छब्देन फलसाधनमुच्यते ।
आश्रयरहितमित्यस्यार्थं स्पष्टयति -
दृष्टेति ।
तेन ज्ञानवता पुरुषेण एवंभूतेन - त्यकत्वा कर्मफलासङ्गमित्यादिना विशेषितेनेत्यर्थः । ततः - ससाधनात् कर्मणः सकाशादिति यावत् ।
निर्गमासम्भवे हेतुमाह -
लोकेत्यादिना ।
पूर्ववत् -ज्ञानोदयात् - प्रागवस्थायामिवेत्यर्थः । अभिप्रवृत्तोऽपि लोकदृष्ट्येति शेषः । नैव करोति किञ्चिदिति स्वदृष्ट्येति द्रष्टव्यम् ॥ २० ॥
सत्यपि विक्षेपके कर्मणि, कूटस्थात्मानुसन्धानस्य सिद्धे कैवल्यहेतुत्वे, विक्षेपाभावे सुतरां तस्य तद्देतुत्वसिद्धिरित्यभिप्रेत्याह -
यः पुनरिति ।
पूर्वोक्तविपरीतत्वं लोकसङ्ग्रहादिनिरपेक्षत्वम् । तदेव वैपरीत्यं स्फोरयति -
प्रागेवेति ।
ससाधनसर्वकर्मसंन्यासे शरीरस्थितिरपि कथम् ? इत्याशङ्क्याह -
शरीरेति ।
तर्हि तथाविधचेष्टानिविष्टचेतस्तया सम्यग्ज्ञानबहिर्मुखस्य कुतो मुक्तिः ? इत्याशङ्क्य यथोपदिष्टचेष्टायामनादरात् नैवमित्याह -
ज्ञाननिष्ठ इति ।
इति दर्शयितुमिमं श्लोकं प्राहेति पूर्ववत् । आशिषः प्रार्थनाभेदास्तृष्णाविशेषाः ।
आशिषां विदुषो निर्गतत्वे हेतुमाह -
यतेति ।
चित्तवत् आत्मनः सन्यमनं कथम् ? इत्याशङ्क्याह -
आत्मा बाह्य इति ।
द्वयोः संयमने सति अर्थसिद्धमर्थमाह -
त्यक्तेति ।
सर्वपरिग्रहपरित्यागे देहस्थितिरपि दुःस्था स्यात् , इत्याशङ्र्याह -
शरीरमिति ।
मात्रशब्देन पौनरुक्त्यादनर्थकं केवलपदम् , इत्याशङ्क्याह-
तत्रापीति ।
शारीरं केवलमित्यादौ शारीरपदार्थं स्फुटीकर्तुमुभयथा सम्भावनया विकल्पयति -
शारीरमिति ।
शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे किं दूषणं ? शरीरस्थितिमात्रप्रयोजनं शारीरमित्यस्मिन् वा पक्षे किं फलम् ? इति पूर्ववादी पृच्छति -
किञ्चात इति ।
शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे सिद्धान्ती दूषणमाह -
उच्यत इति ।
शरीरेण यन्निर्वर्त्यं, तत्किं प्रतिषिद्ध ? विहितं वा ? प्रथमे, विरोधः स्यादित्याह -
यदेति ।
प्रतिषिद्धाचरणेऽपि नानिष्टप्राप्तिरित्युक्ते प्रतिषेधशास्रविरोधः स्यादित्यर्थः ।
द्वितीये, विहितकरणे सति अनिष्टप्राप्त्यभावादप्राप्ततिषेधः स्यादित्याह -
शास्त्रीयं चेति ।
दृष्टप्रयोजनं कारीर्यादिकं कर्म, अदृष्टप्रयोजनं स्वर्गसाधनं ज्योतिष्टोमादिकं कर्मेति विभागः ।
शरीरनिर्वर्त्यं कर्म शारीरमभिमतम् , इति पक्षे दूषणान्तरमाह -
शारीरमिति ।
वाचा मनसा चाकर्मणोऽनुष्ठाने संन्यासिनो भवत्येव किल्बिषप्राप्तिः, इत्याशङ्क्याह -
तत्रापीति ।
वाङूमनसाभ्यां विहितानुष्ठाने वा, प्रतिषिद्धकरणे वा किल्बिषप्राप्तिः संन्यासिनः स्यात् , इति विकल्प्य, आद्ये जपध्यानविधिरोधः स्यादित्युक्त्वा, द्वितीयं दूषयति -
प्रतिषिद्धेति ।
शरीरनिर्वर्त्यं कर्म शारीरमिति पक्षमेवं प्रतिक्षिप्य, द्वितीयपक्षे लाभं दर्शयति -
यदा त्विति ।
अन्यत् देहस्थितिप्रयोजनात् कर्मणः सकाशाद् इति शेषः ।
तत्रापि विदुषः स्वदृष्ट्या न प्रवृत्तिरिति सूचयति -
लोकेति ।
विद्वान् उक्तया रीत्या वर्तमानो नाप्नोति किल्बिषमित्यत्र विवक्षितमर्थमाह -
एवंभूतस्येति ।
विधिनिषेधगम्यं कर्म देहस्थितिहेतुव्यतिरिक्तमकुर्वत इत्यर्थः ।
‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्‘(भ. गी. ४-२१) इत्यस्योक्तेन प्रकारेण परिग्रहे ‘शारीरं केवल’ मिति विशेषणद्वयं निर्दोषं सिध्यतीति फलितमाह -
एवमिति
॥ २१ ॥
पूर्वश्लोकेन सङ्गतिं दर्शयन् उत्तरश्लोकमुत्थापयति -
त्यक्तेति ।
अन्नादेरित्यादिशब्देन पादुकाच्छादनादि गृह्यते । याचनादिनेत्यादिपदेन सेवाकृष्याद्युपादीयते । भिक्षाटनार्थमुद्योगात् प्राक्काले केनापि योग्येन निवेदितं भैक्ष्यमयाचितम् । अभिशस्तं पतितं च वर्जयित्वा सङ्कल्पमन्तरेण पञ्चभ्यः सप्तभ्यो वा गृहेभ्यः समानीतं भैक्ष्यम् असङ्क्लृप्तम् । सिद्धमन्नं भक्तजनैः स्वसमीपमुपानीतमुपपन्नम् । यदृच्छया - स्वकीयप्रयत्नव्यतिरेकेणेति यावत् । आदिशब्देन ‘माधूकरमसङ्क्लृप्तं प्राक्प्रणीतमयाचितम् ।
तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ ‘(सं. उ. ६५)
इत्यादि गृृह्यते । आविष्कुर्वन्निदं वाक्यमाहेति योजनीयम् ।
परोत्कर्षामर्षपूर्विका स्वस्योत्कर्षाभिवाञ्छा विगता यस्मादिति व्युत्पत्तिमाश्रित्य विवक्षितमर्थमाह -
निर्वैरेति ।
सङ्क्षेपतो दर्शितमर्थं विशदयति -
य एवंभूत इति ।
तथाऽपि प्रकृतस्य यतेर्भिक्षाटनादौ कर्तृत्वं प्रतिभाति, तदभावे भिक्षाटनाद्यभावेन जीवनाभावप्रसङ्गादित्याशङ्क्याह -
लोकेति ।
लौकिकैरविवेकिभिः सह व्यवहारस्य स्नानाचमनभोजनादिलक्षणस्य विदुषाऽपि सामान्येन दर्शनात् तदनुसारेण लौकिकैरध्यारोपितकर्तृत्वभोक्तृत्वाद् विद्वानपि लोकदृष्ट्या भिक्षाटनादौ कर्तृत्वमनुभवतीत्यर्थः ।
कथं तर्हि तस्याकर्तृत्वं ? तत्राह -
स्वानुभवेनेति ।
यदृच्छेत्यादिपादत्रयं व्याख्याय, कृत्वाऽपीत्यादिचतुर्थपादं व्याचष्टे -
स एवमिति ।
भिक्षाटनादिना प्रातिभासिकेन कर्मणा विदुषो बद्धत्वाभावेऽपि कर्मान्तरेण निबद्धत्वं भविष्यतीत्याशङ्क्याह -
बन्धेति ।
ज्ञानाग्निदग्धत्वादित्येवं ‘शारीरं केवलम्’(भ. गी. ४-२१) इत्यादावुक्तस्यायमनुवाद इति योजना । यथोक्तस्य कर्मणो युत्तया महाविरोधाभ्युपगमसूचनार्थः अपिशब्दः ॥ २२ ॥
गतसङ्गस्येत्यादिश्लोकस्य व्यवहितेन सम्बन्धं वक्तुं वृत्तं कीर्तयति -
त्यक्त्वेति ।
अनेन श्लोकेन ‘नैव किञ्चित् करोति सः’(भ. गी. ४-२०) इत्यत्र कर्माभावः प्रदर्शितः इति सबन्धः ।
कस्य कर्माभावप्रदर्शनम् ? इत्याशङ्क्याह -
यः प्रारब्धेति ।
प्रारब्धकर्मा सन् योऽवतिष्ठते, तस्य कर्माभावः प्रदर्शितश्चेत् विरोधः स्यात् इत्याशङ्क्य, अवस्थाविशेषे तत्प्रदर्शनान्मैवमित्याह -
यदेति ।
ननु ज्ञानवतः क्रियाकारकफलाभावदर्शिनः कर्मपरित्यागध्रौव्यात् कर्माभाववचनमप्राप्तप्रतिषेधः स्यात् , इत्याशङ्क्याह -
आत्मन इति ।
लोकसङ्ग्रहादि निमित्तं प्रागेवोक्तम् । अविद्यावस्थायामिवेति पूर्ववदित्युक्तम् । एवं वृत्तमनूद्योत्तरश्लोकमवतारयति -
यस्येति ।
यथोक्तस्यापि विद्यावतो मुक्तस्य भगवत्प्रीत्यर्थं कर्मानुष्ठानोपलम्भात् ततो बन्धारम्भः सम्भाव्येत, इत्याशङ्क्याह -
यज्ञायेति ।
धर्माधर्मादीत्यादिशब्देन रागद्वेषादिसङ्ग्रहः । तस्य बन्धनत्वं करणव्युत्पत्त्या प्रतिपत्तव्यम् । यज्ञनिर्वृत्त्यर्थं - यज्ञशब्दितस्य भगवतो विष्णोर्नारायणस्य प्रीतिसम्पत्त्यर्थमिति यावत् ।
ज्ञानमेव वाञ्छतो ज्ञानस्य प्रतिबन्धकं कर्म परिशङ्कितं परिहरति -
कर्मेति ।
समग्रेणेत्यङ्गीकृत्य व्याचष्टे -
सहेत्यादिना
॥ २३ ॥
‘नाभुक्तं क्षीयते कर्म’(ब्रह्मवैवर्तपुराणे ?) इति स्मृतिमाश्रित्य शङ्कते -
कस्मादिति ।
समस्तस्य - क्रियाकारकफलात्मकस्य द्वैतस्य ब्रह्ममात्रत्वेन बाधितत्वाद् ब्रह्मविदो ब्रह्ममात्रस्य कर्म प्रविलीयते सर्वम् , इति युक्तमित्याह-
उच्यत इति ।
ब्रह्मविदो ब्रह्मैव सर्वक्रियाकारकफलजातं द्वैतमित्यत्र हेतुत्वेनानन्तरश्लोकमवतारयति -
यत इति ।
अर्पणशब्दस्य करणविषयत्वं दर्शयन्नर्पणं ब्रह्मेति पदद्वयपक्षे सामानाधिकरण्यं साधयति -
येनेति ।
यद्रजतं सा शुक्तिरितिवद् बाधायामिदं सामानाधिकरण्यमित्याह -
तस्येति ।
तत्र दृष्टान्तमाह -
यथेति ।
उक्तेऽर्थे पदद्वयमवतारयति -
तद्वदुच्यत इति ।
उक्तमेवार्थं स्पष्टयति -
यथा यदिति ।
समासशङ्कां व्यावर्तयति -
ब्रह्मेति ।
पदद्वयपक्षे विवक्षितमर्थं कथयति -
यदर्पणेति ।
ब्रह्म हविरिति पदद्वयमवतार्य व्याचष्टे -
ब्रह्मेत्यादिना ।
यदर्पणबुद्ध्या गृह्यते तद्ब्रह्मविदो ब्रह्मैवेति यथोक्तं, तथेहापीत्याह -
तथेति ।
अस्येति षष्ठी ब्रह्मविदमधिकरोति ।
पूर्ववदसमासमाशङ्क्य व्यावर्तयन् पदान्तरमवतार्य व्याकरोति -
तथेति ।
प्रागुक्तासमासवदिति व्यतिरेकः ।
तत्र विवक्षितमर्थमाह -
अग्निरपीति ।
ब्रह्मणेति पदस्याभिमतमर्थमाह -
ब्रह्मणेति ।
कर्त्रा हूयत इति सम्बन्धः ।
कर्ता ब्रह्मणः सकाशाद् व्यतिरिक्तो नास्तीत्येतदभिमतम् , इत्याह -
ब्रह्मैवेति ।
हुतमित्यस्य विवक्षितमर्थमाह -
यत्तेनेति ।
ब्रह्मैव तेनेत्यादि भागं विभजते -
ब्रह्मैवेत्यादिना ।
‘ब्रह्म कर्म’ इत्याद्यवतार्य व्याकरोति -
ब्रह्मेति ।
कर्मत्वं ब्रह्मणो ज्ञेयत्वात् प्राप्यत्वाच्च प्रतिपत्तव्यम् ।
एवं ब्रह्मार्पणमन्त्रस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह -
एवमिति ।
निवृत्तकर्माणं संन्यासिनं प्रति कथमस्य मन्त्रस्य प्रवृत्तिः ? इत्याशङ्क्याह -
निवृत्तेति ।
यथा बाह्ययज्ञानुष्ठानासमर्थस्याज्ञस्य सङ्कल्पात्मकयज्ञो दृष्टः, तथा ज्ञानस्य यज्ञत्वसम्पादनं स्तुत्यर्थं सुतरामुपपद्यते, तेन स्तुतिलाभात् कल्पनायाः स्वाधीनत्वाच्चेत्यर्थः ।
ज्ञानस्य यज्ञत्वसम्पादनमभिनयति -
यदर्पणादीति ।
केन प्रमाणेनात्र यज्ञत्वसम्पादनमवगतम् ? इत्याशङ्क्य, अर्पणादीनां विशेषतो ब्रह्मत्वाभिधानानुपपत्त्या, इत्वाह -
अन्यथेति ।
ज्ञानस्य यज्ञत्वे सम्पादिते फलितमाह -
तस्मादिति ।
‘आत्मैवेदं सर्वम्’(छा. उ. ७-२५-२) इत्यात्मव्यतिरेकेण सर्वस्यावस्तुत्व प्रतिपाद्यमानस्य कर्माभावे हेत्वन्तरमाह -
कारकेति ।
कारकबुद्धेस्तेष्वभिमानस्याभावेऽपि किमिति कर्म न स्याद् ? इत्याशङ्क्याह -
नहीति ।
उक्तमेवान्वयव्यतिरेकाभ्यां द्राढयति -
सर्वमेवेति ।
‘इन्द्राय’ इत्यादिना शब्देन समर्पितो देवताविशेषः सम्प्रदानं कारकम् , आदि शब्दाद् व्रीह्यादिकरणकारकं तद्विषयबुद्धिमत् , कर्ताऽ स्मीत्यभिमानपूर्वकं भोक्ष्ये फलमस्येति फलभिसन्धिमच्च कर्म दृष्टमिति योजना ।
अन्वयमुक्त्वा व्यतिरेकमाह -
नेत्यादिना ।
उपमृदिता क्रियादिभेदविषया बुद्धिर्यस्य तत्कर्म । तथा कर्तृत्वाभिमानपूर्वको भोक्ष्ये फलमस्येति योऽभिसन्धिस्तेन रहितं च न कर्म दृष्टमित्यन्वयः ।
तथाऽपि ब्रह्मविदो भासमानकर्माभावे किमायातम् ? इत्याशङ्क्याह -
इदमिति ।
यदिदं ब्रह्मविदो दृश्यमानम् कर्म, तदहमस्मि ब्रह्मेति बुद्ध्या निराकृतकारकादिभेदविषयबुद्धिमत् । अतश्च कर्मैव न भवति । तत्त्वज्ञाने सति व्यापकं कारकादि, व्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति । तत्त्वविदः शरीरादिचेष्टा, कर्माभावः कर्मव्यापकरहितत्वात् सुषुप्तचेष्टावदित्यर्थः ।
ज्ञानवतो दृश्यमानं कर्म अकर्मैवेत्यत्र भगवदनुमतिमाह -
तथाचेति ।
ब्रह्मविदो दृष्टं कर्म नास्तीत्युक्तेऽपि तत्कारणानुपमर्दात् पुनर्भविष्यति इत्याशङ्क्याह -
तथाच दर्शयन्निति ।
अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते । तथाऽपि तस्य कर्म अकर्मैव इत्यत्र दृष्टान्तमाह -
दृष्टा चेति ।
विद्वत्कर्मापि कर्मत्वाविशेषादितरकर्मवत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह -
तथेति ।
इदं कर्म एवं कर्तव्यम् , अस्य च फलं भोक्तव्यमितिमतिः, तत्पूर्वकाणि अतत्पूर्वकाणि च कर्माणि । तेषामवान्तरभेदसङ्ग्रसन्ग्रहार्थमादिपदम् । दार्ष्टान्तिकमाह -
तथेति ।
सप्तम्या विद्वत्प्रकरणं परामृष्टम् । षष्ठ्यौ समानाधिकरणे । उक्तेऽर्थे पूर्ववाक्यमनुकूलयति -
अत इति ।
ब्रह्मार्पणमन्त्रस्य स्वव्याख्यानमुक्त्वा, स्वयूथ्यव्याख्यानमनुवदति -
अत्रेति ।
प्रसिद्धोद्देशेनाप्रसिद्धविधानस्य न्याय्यत्वादप्रसिद्धोद्देशेन प्रसिद्धविधानं कथम् ? इत्याशङ्क्याह -
ब्रह्मैवेति ।
किलेत्यस्मिन् व्याख्याने सिद्धान्तिनोऽसम्प्रतिपत्तिं सूचयति । कर्तृकर्मकरणसम्प्रदानाधिकरणरूपेण पञ्चविेधेन ब्रह्मैव व्यवस्थितं कर्म करोतीत्यङ्गीकारात् तदप्रसिद्ध्यभावात् तदनुवादेनार्पणादिष्वविरुद्धः तद्दृष्टिविधिरित्यर्थः ।
दृष्टिविधिपक्षे सिद्धान्ताद्विशेषं दर्शयति -
तत्रेति ।
अर्पणादिषु कर्तव्यां ब्रह्मबुद्धिं दृष्टान्ताभ्यां स्पष्टयति -
यथेत्यादिना ।
दृष्टिविधाने विधेयदृष्टेर्मानसक्रियात्वेन सम्यग्ज्ञानत्वाभावात् प्रकरणभङ्गः स्यात् , इत्यभिप्रेत्य परिहरति -
सत्यमेवमिति ।
विधित्सितदृष्टिस्तुतिपरमेव प्रकरणं, न ज्ञानस्तुतिपरम् , इत्याशङ्क्य, प्रकरणपर्यालोचनया ज्ञानस्तुतिरेवात्र प्रतिभातीति प्रतिपादयति -
अत्र त्विति ।
किञ्च ब्रह्मार्पणमन्त्रस्यापि सम्यग्ज्ञानस्तुतौ सामर्थ्यं प्रतिभतीत्याह -
अत्र चेति ।
ननु अर्पणादिषु ब्रह्मदृष्टिं कुर्वतामपि ब्रह्मविद्यैवात्र विवक्षितेति पक्षभेदासिद्धिरिति चेत् , तत्राह -
ये त्विति ।
यथा ब्रह्मदृष्ट्या नामादिकमुपास्यं, तथाऽर्पणादिषु ब्रह्मदृष्टिकरणे सति अर्पणादिकमेव प्राधान्येन ज्ञेयमिति, ब्रह्मविद्या यथोक्तेन वाक्येन विवक्षिता न स्यादित्यर्थः ।
किञ्च ‘ब्रह्मैव तेन गन्तव्यम् ‘इति ब्रह्मप्राप्तिफलाभिधानादपि दृष्टिविधानमश्लिष्टमित्याह -
नचेति ।
नचार्पणाद्यालम्बना दृष्टिर्ब्रह्म प्रापयति, ‘अप्रतीकालम्बनान् नयति’(ब्र. सू. ४-३-१५) इति न्यायविरोधादितिभावः ।
दृष्टिविधानेऽपि नियोगबलादेन स्वर्गवददृष्टो मोक्षो भविष्यति, इत्याशङ्क्याह -
विरुद्धं चेति ।
ज्ञानादेव कैवल्यमुक्त्वा मार्गान्तरापवादिन्या श्रुत्या विरुद्धं मोक्षस्याविद्यानिवृत्तिलक्षणस्य दृष्टस्य नैयोगिकत्ववचनमित्यर्थः ।
दृष्टिनियोगान्मोक्षो भवतीत्येतत् प्रकरणविरुद्धं च इत्याह-
प्रकृतेति ।
तदेव प्रपञ्चयति -
सम्यग्दर्शनं चेति ।
अन्ते च सम्यग्दर्शनं प्रकृतमिति सम्बन्धः । तत्र हेतुः -
तस्यैवेति ।
सम्यग्ज्ञानेनोपक्रम्य तेनैवोपसंहारेऽपि मध्ये किञ्चिदन्यदुक्तमिति प्रकरणस्यातद्विषयत्वम् , इत्याशङ्क्याह -
श्रेयानिति ।
प्रकरणे सम्यग्ज्ञानविषये सति अनुपपन्नो दर्शनविधिरिति फलितमाह -
तत्रेति ।
ब्रह्मार्पणमन्त्रे परकीयव्याख्यानासम्भवे स्वकीयव्याख्यानं व्यवस्थितम् , इत्युपसंहरति -
तस्मादिति
॥ २४ ॥
ज्ञानस्य यज्ञत्वं सम्पाद्य पूर्वश्लोके स्थिते सति, अधुना तस्यैव ज्ञानस्य स्तुत्यर्थं यज्ञान्तरनिर्देशार्थमुत्तरग्रन्थप्रवृत्तिः, इत्याह -
तत्रेति ।
सर्वस्य श्रेयःसाधनस्य मुख्यगौणवृत्तिभ्यां यज्ञत्वं दर्शयन्नादौ यज्ञद्वयमादर्शयति -
दैवमेवेत्यादिना ।
प्रतीकमादाय दैवयज्ञं व्याचष्टे -
देवा इति ।
सम्यग्ज्ञानाख्यं यज्ञं विभजते -
ब्रह्माग्नाविति ।
तत्र ब्रह्मशब्दार्थं श्रृत्यवष्टम्भेन स्पष्टयति -
सत्यमिति ।
यदजडम् अनृतविपरीतम् अपरिच्छिन्नं ब्रह्म, तस्य परमानन्दत्वेन परमपुरुषार्थत्वमाह -
विज्ञानमिति ।
तस्य ज्ञानाधिकरणत्वेन ज्ञानत्वमौपचारिकम् , इत्याशङ्क्याह -
यत्साक्षादिति ।
जीवब्रह्मविभागे कथमपरिच्छिन्नत्वम् ? इत्याशङ्क्य विशिनष्टि -
य आत्मेति ।
परस्यैवात्मत्वं सर्वस्माद् देहादेरव्याकृतान्तात् आन्तरत्वेन साधयति -
सर्वान्तर इति ।
विधिमुखं सर्वमेवोपनिषद्वाक्यं ब्रह्मविषयमादिशब्दार्थः ।
निषेधमुखं ब्रह्मविषयमुपनिषद्वाक्यमशेषमेवार्थतो निबध्नाति -
अशनायेति ।
ब्रह्मण्यग्निशब्दप्रयोगे निमित्तमाह -
स होमेति ।
बुद्ध्यारूढतया सर्वस्य दाहकत्वात् विलयस्य वा हेतुत्वादिति द्रष्टव्यम् ।
यज्ञशब्दस्यात्मनि त्वम्पदार्थे प्रयोगे हेतुमाह -
आत्मनामस्विति ।
आधाराधेयभावेन वास्तवभेदं ब्रह्मात्मनोर्व्यावर्तयतिं -
परमार्थत इति ।
कथं तर्हि होमः ? नहि तस्यैव तत्र होमः सम्भवति, इत्याशङ्क्याह -
बुद्ध्यादीति ।
उपाधिसम्योगफलं कथयति -
अध्यस्तेति ।
उपाध्यध्यासद्वारा तद्धर्माध्यासे प्राप्तमर्थं निर्दिशति -
आहुतीति ।
इत्थम्भूतलक्षणां तृतीयामेव व्याकरोति -
उक्तेति ।
अशनायादिसर्वसंसारधर्मवर्जितेन निर्विशेषेण स्वरूपेणेति यावत् ।
आत्मनो ब्रह्मणि होममेव प्रकटयति -
सोपाधिकस्येति ।
अपर इत्यस्यार्थं स्फोरयति -
ब्रह्मेति ।
उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु ‘ब्रह्मार्पणम्’ इत्यादिश्लोकैरूपक्षिप्यमाणत्वं दर्शयति -
सोऽयमिति ।
उपक्षेपप्रयोजनमाह -
श्रेयानिति
॥ २५ ॥
सम्प्रति यज्ञद्वयमुपन्यस्यति -
श्रोत्रादीनीति ।
बाह्यानां करणानां मनसि संयमस्यैकत्वात् कथं संयमाग्निष्विति बहुवचनम् ? इत्याशङ्क्याह -
प्रतीन्द्रियमिति ।
सम्यमानां प्रत्याहाराधिकरणत्वेन व्यवस्थितानां मनोरूपाणां होमाधारत्वादग्नित्वं व्यपदिशति -
संयमा इति ।
विषयेभ्योऽन्तर्बाह्यानीन्द्रियाणि प्रत्याहरन्तीति सम्यमयज्ञं सन्क्षिप्य दर्शयति -
इन्द्रियेति ।
श्रोत्रादीन्द्रियाग्निषु शब्दादिविषयहोमस्य तत्तदिन्द्रियैस्तत्तद्विषयोपभोगलक्षणस्य सर्वसाधारणत्वमाशङ्क्य, प्रतिषिद्धान् वर्जयित्वा रागद्वेषरहितो भूत्वा प्राप्तान् विषयानुपभुञ्जते तैस्तैरिन्द्रियैः इति विवक्षितं होमं विशदयति-
श्रोत्रादिभिरिति
॥ २६ ॥
यज्ञान्तरं कथयति -
किञ्चेति ।
इन्द्रियाणां कर्माणि -श्रवणवदनादीनि, आत्मनि संयमो धारणाध्यानसमाधिलक्षणः । सर्वमपि व्यापारं निरुध्य आत्मनि चित्तसमाधानं कुर्वन्ति, इत्याह -
विवेकेति
॥ २७ ॥
यज्ञषट्कमवतारयति -
द्रव्येति ।
तत्र द्रव्ययज्ञान् पुरुषानुपादाय विभजते -
तीर्थेष्विति ।
तपस्विनां यज्ञबुद्ध्या तपोऽनुतिष्ठन्तो नियमवन्त इत्यर्थः । प्रत्याहारादीत्यादिशब्देन यमनियमासनध्यानधारणासमाधयो गृह्यन्ते । यथाविधि प्रामुखत्वपवित्रपाणित्वाद्यङ्गविधिमनतिक्रम्येति यावत् । व्रतानां तीक्ष्णीकरणमतिदृढत्वम् ॥ २८ ॥
प्राणायामाख्यं यज्ञमुदाहरति -
किञ्चेति ।
प्राणायामपरायणाः सन्तो रेचकं पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह -
प्राणेति
॥ २९ ॥
प्राणापानयोर्गती - श्वासप्रश्वासौ निरुध्य किं कुर्वन्ति ? इत्यपेक्षायामाह -
किञ्चेति ।
प्राणापानगतिनिरोधरूपं कुम्भकं कृत्वा पुनःपुनर्वायुजयं कुर्वन्तीत्यर्थः । आहारस्य परिमितत्वं हितत्वमेध्यत्वोपलक्षणार्थम् ।
प्राणानां प्राणेषु होममेव विभजते -
यस्येति ।
जितेषु वायुभेदेष्वजितानां तेषां होमप्रकारं प्रकटयति -
ते तत्रेति ।
प्रकृतान् यज्ञानुपसंहरति -
सर्वेऽपीति
॥ ३० ॥
यथोक्तयज्ञनिर्वर्तनानन्तरं क्षीणे कल्मषे किं स्यात् ? इत्याशङ्क्य आह -
एवमिति ।
यथोक्तानां यज्ञानां मध्ये केनचिदपि यज्ञेन अविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति -
नायमिति ।
कथं यथोक्तयज्ञानुष्ठायिनाम् अवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिः ? इत्याशङ्क्य, मुमुक्षुत्वे सति चित्तशुद्धिद्वारा, इत्याह - मुमुक्षवश्चेदिति । तत्किमिदानीं साक्षादेव मोक्षो विविक्षितः ? तथाच गतिश्रुतिविरोधः स्याद् , इत्याशङ्क्य, गतिनिर्देशसामर्थ्यात् क्रममुक्तिः अत्राभिप्रेता, इत्याह -
कालातीति ।
तृतीयं पादं व्याचष्टे -
नायमिति ।
विवक्षितं कैमुतिकन्यायमाह - कुत इति । साधारणलोकाभावे पुनरसाधारणलोकप्राप्तिः दूरनिरस्ता इत्यर्थः । यथोक्तेऽर्थे बुद्धिसमाधानं कुरुकुलप्रधानस्य अर्जुनस्य अनायासलभ्यमिति वक्तुं कुरुसत्तम इत्युक्तम् ॥ ३१ ॥
उक्तानां यज्ञानां वेदमूलकत्वेन उत्प्रेक्षानिबन्धनत्वं निरस्यति -
एवमिति ।
आत्मव्यापारसाध्यत्वम् उक्तकर्मणामाशङ्क्य, दूषयति -
कर्मजानिति ।
आत्मनो निर्व्यापारत्वज्ञाने फलमाह-
एवमिति ।
कथं यथोक्तानां यज्ञानां वेदस्य मुखे विस्तीर्णत्वम् ? इत्याशङ्क्य आह -
वेदद्वारेणेति ।
तेन अवगम्यमानत्वमेव उदाहरति - तद्यथेति । ‘एतद्ध स्म वै तत्पूर्वे विद्वांस आहुः’(बृ. उ. ४-४-२२) इत्युपक्रम्य अध्ययनाद्याक्षिप्य, हेत्वाकाङ्क्षायामुक्तं -
वाचि हीति ।
ज्ञानशक्तिमद्विषये क्रियाशक्तिमदुपंसहारः अत्र विवक्षितः, ‘प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः’(एे. आ. ३-२-६) इति वाक्यम् आदिशब्दार्थः ।
ज्ञानशक्तिमतां क्रियाशक्तिमतां च अन्योन्योत्पत्तिप्रलयत्वात् तदभावे नाध्ययनादिसिद्धिः इत्यर्थः कर्मणाम् आत्मजन्यत्वाभावे हेतुमाह -
निर्व्यापारोहीति ।
तस्य च निर्व्यापारत्वं फलवत्त्वात् ज्ञातव्यम् , इत्याह -
अत इति ।
एवं ज्ञानमेव ज्ञापयन् उक्तं व्यनक्ति -
नेत्यादिना
॥ ३२ ॥
कर्मयोगेऽनेकधा अभिहिते, सर्वस्व श्रेयःसाधनस्य कर्मात्मकत्वप्रतिपत्त्या केवलं ज्ञानम् अनाद्रियमाणम् अर्जुनमालक्ष्य, वृत्तानुवादपूर्वकम् उत्तरश्लोकस्य तात्पर्यमाह -
ब्रह्मेत्यादिना ।
सिद्धेति ।
सिद्धं पुरुषार्थभूतम्पुरुषापेक्षित लक्षणं प्रयोजनं येषां यज्ञानां, तैः । अनन्तरोपदिष्टैरिति यावत् ।
प्रश्नपूर्वकं स्तुतिप्रकारं प्रकटयति -
कथमित्यादिना ।
ज्ञानयज्ञस्य द्रव्यज्ञात् प्रशस्यतरत्वे हेतुमाह -
सर्वमिति ।
द्रव्यसाधनसाध्याद् इत्युपलक्षणं स्वाध्यायादेरपि । ततोऽपि ज्ञानयज्ञस्य श्रेयस्त्वाविशेषात् , द्रव्यमयादियज्ञेभ्यो ज्ञानयज्ञस्य प्रशस्यतरत्वं प्रपञ्चयति -
द्रव्यमयो हिति ।
फलस्य -अभ्युदयस्येत्यर्थः । न फलारम्भकः -न कस्यचित्फलस्योत्पादकः । किन्तु नित्यसिद्धस्य मोक्षस्याभिव्यञ्जक इत्यर्थः ।
तस्य प्रशस्यतरत्वे हेत्वन्तरमाह -
यत इति ।
सपस्तं कर्मेति अग्निहोत्रादिकमुच्यते । अखिलम् - अविद्यमानं खिलं - शेषः अस्येति, अनल्पम् । महत्तरमिति यावत् ।
सर्वम् अखिलम् - इति पदद्वयोपादानमसङ्कोचार्थम् । सर्वं कर्म ज्ञानेऽन्तर्भवति इत्यत्र छान्दोग्यश्रुतिं प्रमाणयति -
यथेति ।
चतुरायके हि द्यूते कश्चिदायः चतुरङ्कस्सन् कृतशब्देनोच्यते - तस्मै विजिताय कृताय तादर्थ्येन अधरेयाः तस्मात् अधस्ताद्भाविनः त्रिद्व्येकाङ्काः त्रेताद्वापरकलिनामानः, संयन्ति - आयाः सङ्गच्छन्ते । चतुरङ्के खलु आये त्रिद् व्यकाङ्कानामायानाम् अन्तर्मावो भवति । महासंख्यायामवान्तरसङ्ख्यान्तर्भावावश्यम्भावात् । एवम् एनं विद्यावन्तं पुरुषं, सर्वं तदाभिमुख्येन समेति - सङ्गच्छते । किं तत्सर्वं ? यद्विदुषि पुरुषेऽन्तर्भवति, तदाह -
यत्किञ्चिदिति ।
प्रजाः सर्वाः यत्किंचिदपि साधु कर्म कुर्वन्ति, तत्सर्वमित्यर्थः ।
एनमभिसमेतीत्युक्तं, तमेव विद्यावन्तं पुरुषं विशिनष्टि -
यस्तदिति ।
किं तदित्युक्तं, तदेव विशदयति -यत्स इति । स रैक्को यत् तत्त्वं वेद, तत् तत्त्वं योऽन्योऽपि जानाति, तमेनं सर्वं साधु कर्म अभिसमेतीति योजना ॥ ३३ ॥
यद्येवं प्रशस्यतरमिदं ज्ञानं, तर्हि केनोपायेन तत्प्राप्तिः, इति पृच्छति -
तदेतदिति ।
ज्ञानप्राप्तौ प्रत्यासन्नमुपायम् उपदिशति -
उच्यत इति ।
तद्विज्ञानं गुरुभ्यो विद्धि, गुरवश्व प्रणिपातादिभिरुपायैः आवर्जितचेतसोवदिष्यन्ति, इत्याह -
तद्विद्धीति ।
उपदेष्टृत्वम् - उपदेशकर्तुत्वम् । परोक्षज्ञानमात्रेण न भवति, इत्याह -
उपदेक्ष्यन्तीति ।
तदिति प्रेप्सितं ज्ञानसाधनं गृह्यते । येन विधिना इति शेषदर्शनात् । यद्वा, येन आचार्यावर्जनप्रकारेण तदुपदेशवशात् अपेक्षितं ज्ञानं लभ्यते, तथा तज्ज्ञानमाचार्येभ्यो लभस्व इत्यर्थः ।
तदेव स्फुटयति -
आचार्या इति ।
एवमादिना इति आदिशब्देन शमादयो गृह्यन्ते, एवमादिना विद्धीति पूर्वेण सम्बन्धः ।
उत्तरार्धं व्याचष्टे-
प्रश्रयेणेति ।
प्रश्रयः - भक्तिश्रद्धापूर्वको निरतिशयो नातिविशेषः । यथोक्तविशेषणं पूर्वोक्तेन प्रकारेण प्रशस्यतममित्यर्थः ।
विशेषणस्य पौनरुक्त्यपरिहारार्थम् अर्थभेदं कथयति -
ज्ञानवन्तोऽपीति ।
ज्ञनिन इत्युक्त्वा पुनस्तत्त्वदर्शिन इति ब्रुवतो भगवतोऽभिप्रायमाह -
ये सम्यगिति ।
बहुवचनं चैतत् आचार्यविषयं, बहुभ्यः श्रोतव्यं बहुधा चेतिसामान्यान्यायाभ्यनुज्ञानार्थम् । न त्वात्मज्ञानमधिकृत्य आचार्यवहुत्वं विवक्षितम् । तस्य तत्त्वसाक्षात्कारवदाचार्यमात्रोपदेशादेव उदयसम्भवात् ॥ ३४ ॥
विशिष्टैराचार्यैः उपदिष्टे ज्ञाने कार्यक्षमे प्राप्ते सति, समनन्तरवचनमपि योग्यविषयम् अर्थवद्भवति इत्याह -
तथाचेति ।
अतः, तस्मिन्विशिष्टे ज्ञाने कार्यक्षमे त्वदीयमोहापोहहेतौ निष्ठावता भवितव्यम् , इति शेषः ।
तत्र निष्ठाप्रतिष्ठायै तदेव ज्ञानं पुनर्विशिनष्टि -
येनेति ।
‘यज्ज्ञात्वा’ इत्ययुक्तं, ज्ञाने ज्ञानायोगात् , इत्याशङ्क्य, प्राप्त्यर्थत्वमधिपूर्वस्य गमेरङ्गीकृत्य व्याकरोति -
अधिगम्येति ।
इतश्च आचार्योपदेशलभ्ये ज्ञाने फलवति प्रतिष्ठावता भवितव्यम् , इत्याह -
किञ्चेति ।
जीवे चेश्वरे चोभयत्र भूतानां प्रतिष्ठितत्वप्रतिनिर्देशे मेदवादानुमतिः स्याद् ? इत्याशङ्क्याह -
क्षेत्रज्ञेति ।
मूलप्रमाणाभावे कथं तदेत्वदर्शनं स्याद् ? इत्याशङ्क्य आह -
सर्वेति
॥ ३५ ॥
ज्ञानस्य प्रकारान्तरेण प्रशम्सां प्रस्तौति -
किञ्चेति ।
पापकारिभ्यः सर्वेभ्यः सकाशात् अतिशयेन पापकारित्वम् एकस्मिन् असम्भावितमपि ज्ञानमाहात्म्यप्रसिद्यर्थमङ्गीकृत्य, ब्रवीति -
अपिचेदिति ।
ब्रह्मात्मैक्यज्ञानस्य सर्वपापनिवर्तकत्वेन माहात्म्यम् इदानीं प्रकटयति -
सर्वमिति ।
अधर्मे निवृत्तेऽपि धर्मप्रतिबन्धात् ज्ञानवतोऽपि न मोक्षः सम्भवति इत्याशङ्क्य आह –
धर्मोऽपीति ।
इहेति अध्यात्मशास्त्रं गृह्यते ॥ ३६ ॥
ज्ञाने सत्यपि धर्माधर्मयोरुपलम्भात् कुतस्ततो निवृत्तिः ? इत्याशङ्क्य, ज्ञानस्य धर्माधर्मनिवर्तकत्वं दृष्टान्तेन दर्शयितुम् अनन्तरश्लोकमवतारयति -
ज्ञानमिति ।
योग्यायोग्यविभागेन निवर्तकत्वानिवर्तकत्वविभागमुदाहरति -
यथेति ।
दृष्टान्तानुरूपं दार्ष्टान्तिकमाचष्टे -
ज्ञानाग्निरिति ।
योग्यविषयेऽपि दाहकत्वम् अग्नेः अप्रतिबन्धापेक्षया, इति विवक्षित्वा विशिनष्टि -
सम्यक् इति ।
दार्ष्टन्तिकं व्याचष्टे -
ज्ञानमेवेति ।
ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति नोच्यते, नीर्बीजीकरोति कर्म इति किमिति व्याख्यानम् ? इत्याशङ्क्य, आह -
नहीति ।
ज्ञानस्य स्वप्रमेयावरणाज्ञानापाकरणे सामर्थ्यस्य लोके दृष्टत्वात् अविक्रियब्रह्मात्मज्ञानमपि तदज्ञानं निवर्तयत् तज्जन्यकर्तृत्वभ्रमं कर्मबीजभूतं निवर्तयति । तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति । नतु साक्षात्कर्मणां निवर्तकम् । ज्ञनमज्ञानस्यैव निवर्तकमिति व्याप्तेः तदनिवृत्तौ तु पुनरपि कर्मोद्भवसम्भवात् इत्यर्थंः ।
ज्ञानस्य साक्षात्कर्मनिवर्तकत्वाभावे फलितमाह -
तस्मादिति ।
सम्यग्ज्ञानं मूलभूताज्ञाननिवर्तनेन कर्मनिवर्तकम् इष्टं चेत् , आरब्वफलस्यापि कर्मणो निवृत्तिप्रसङ्गात् ज्ञानोदयसमकालमेव शरीरपातः स्यात् इत्याशङ्क्य, आह -
सामर्थ्यादिति ।
ज्ञानोदयसमसमयमेव देहापोहे तत्त्वदर्शिभिः उपदिष्टं ज्ञानं फलवत् इति भगवदभिप्रायस्य बाधितत्वप्रसङ्गात् आचार्यलाभान्याथानुपपत्त्या प्रवृत्तफलकर्मसम्पादकमज्ञानलेशं न नाशयति ज्ञानमित्यर्थः ।
कथं तर्हि प्रारब्धफलं कर्म नश्यति ? इत्याशङ्क्य, आह -
येनेति ।
तर्हि कथं ज्ञानाग्निः सर्वकर्माणि भस्मसात् करोतीत्युक्तम् ? तत्राह -
अत इति ।
ज्ञानादारब्धफलानां कर्मणां निवृत्त्यनुपपत्तेः अनारब्धफलानि यानि कर्माणि पूर्वं ज्ञानोदयात् अस्मिन्नेव जन्मनि कृतानि ज्ञानेन च सह वर्तमानानि, प्रचीनेषु चानेकेषु जन्मसु अर्जितानि, तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निवर्तयतीत्यर्थः ॥ ३७ ॥
ननु अन्येनैव परिशुद्धिकरेण केनचिदश्वमेधादिना परमपुरुषार्थसिद्धेः अलम् आत्मज्ञानेन, इत्याशङ्क्य, आह -
यत इति ।
पृर्वोक्तेन प्रकारेण ज्ञानमाहात्म्यं यतः सिद्धम् , अतः तेन ज्ञानेन तुल्यं परिशुद्धिकरं परमपुरुषार्थौपयिकम् , इह - व्यवहारभूमौ, नास्तीत्यर्थः ।
तत्पुनरात्मविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते ? तत्राह -
तत्स्वयमिति ।
महता कालेन यथोक्तेन साधनेन योग्यतामापन्नः तदधिकृतः स्वयं तत् आत्मनि ज्ञानं विन्दतीति योजना । सर्वेषां झटिति ज्ञानानुदयो योग्यतावैधुर्यादिति भावः ॥ ३८ ॥
कर्मयोगेन समाधियोगेन च सम्पन्नस्य ज्ञानोत्पत्तौ अन्तरङ्गं साधनमुपदिशति -
येनेति ।
ज्ञानलाभप्रयोजनमाह -
ज्ञानमिति ।
न केवलं श्रद्धालुत्वमेवासहायं ज्ञानलाभे हेतुः, अपि तु तात्पर्यमपि, इत्याह -
श्रद्धालुत्वेऽपीति ।
मन्दप्रस्थानत्वं - तात्पर्यविधुरत्वम् । नच तस्योपदिष्टमपि ज्ञानमुत्पत्तुमीष्टे । तेन तात्पर्यमपि तत्र कारणं भवति इत्याह -
अत आहेति ।
अभियुक्तः - निष्ठावान् । उपासनादौ - इत्यादिशब्देन श्रवणादि गृह्यते । नच श्रद्धा तात्पर्यं च इत्युभयमेव ज्ञानकारणं, किन्तु संयतेन्द्रियत्वमपि । तदभावे श्रद्धादेः अकिञ्चित्करत्वात् इत्याशयेनाह -
श्रद्धावानिति ।
उक्तसाधनानां ज्ञानेन सह ऐकान्तिकत्वमाह -
य एवंभूत इति ।
‘तद्विद्धि प्रणिपातेन’(भ. गी. ४-३४) इत्यादौ प्रागेव प्रणिपातादेर्ज्ञानहेतोरुक्तत्वात् किमितीदानीं हेत्वन्तरमुच्यते ? तत्राह -
प्रणिपातादिस्त्विति ।
तद्धि बहिरङ्गम् , इदं पुनरन्तरङ्गं, न च तत्र ज्ञाने प्रतिनियमः, मनसि अन्यथा कृत्वा बहिः अन्यथाप्रदर्शनात्मनो मायावित्वस्य सम्भवात् । विप्रलम्भकत्वादेरपि सम्भावनोपनीतत्वात् इत्यर्थः ।
मायावित्वादेः श्रद्धावत्त्वतात्पर्यादावपि सम्भवात् अनैकान्तिकत्वमविशिष्टम् , इत्याशङ्क्य, आह -
नत्विति ।
नहि मायया विप्रलम्भेन वा श्रद्धातात्पर्यसंयमाभियोगतोऽनुष्टातुमर्हन्ति इत्यर्थः ।
उत्तरार्धं प्रश्नपूर्वकम् अवतार्य व्याकरोति -
किम्पुनरित्यादिना ।
सम्यग्ज्ञानात् अभ्यासादिसाघनानपेक्षात् मेक्षो भवति इत्यत्र प्रमाणमाह -
सम्यग्दर्शनादिति ।
शास्त्रशब्देन तमेव विदित्वा (श्वे.उ. ३ - ८), ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि विवक्षितम् । न्यायस्तु ज्ञानादज्ञाननिवृत्तेः रज्ज्वादौ प्रसिद्धत्वात् आप्तज्ञानादपि निरपेक्षात् अज्ञानतत्कार्यप्रक्षयलक्षणो मोक्षः स्यात् , इत्येवं लक्षणः ॥ ३९ ॥
उतरश्लोकस्य पातनिकां करोति -
अत्रेति ।
यथोक्तसाधनवान् उपदेशमपेक्ष्य अचिरेण ब्रह्म साक्षात्करोति । साक्षात्कृतब्रह्मत्वे अचिरेणैव मोक्षं प्राप्नोति इत्येषोऽर्थः सप्तम्या परामृश्यते ।
संशयस्याकर्तव्यत्वे हेतुमाह -
पापिष्ठो हीति ।
उक्तं हेतुं प्रश्नपूर्वकमुत्तरश्लोकेन साधयति-
कथमिति ।
अज्ञात् अश्रद्दधानाच्च संशयचित्तस्य विशेषमादर्शयति -
नायमिति ।
द्वितीयविभागविभजनार्थं भूमिकां करोति -
अज्ञेति ।
अज्ञादीनां मध्ये संशयात्मानः यत् पापिष्ठत्वं, तत् प्रश्नद्वारा प्रकटयति -
कथमिति ।
लोकद्वयस्य तत्प्रयुक्तसुखस्य च अभावे हेतुमाह -
तत्रापीति ।
संशयचित्तस्य सर्वत्र संशयप्रवृत्तेर्दुर्निवारत्वादित्यर्थः ।
संशयस्यानर्थमूलत्वे स्थिते फलितमाह -
तस्मादिति
॥ ४० ॥
यद्यपि संशयः सर्वानर्थहेतुत्वात् कर्तव्यो न भवति, तथाऽपि निवर्तकाभावे तदकरणमस्वाधीनमिति शङ्कते -
कस्मादिति ।
श्रुतियुक्तिप्रयुक्तमैक्यज्ञानं तन्निवर्तकं इत्युत्तरमाह -
ज्ञानेति ।
संशयरहितस्यापि कर्माणि अनर्थहेतवो भवन्तीत्याशङ्क्य, आह-
योगेति ।
विषयपरवशस्य पुंसो योगायोगात् कुतो योगसंन्यस्तकर्मत्वम् ? इत्याशङ्क्य, आह -
आत्मवन्तमिति ।
परमार्थदर्शनतः संशयोच्छित्तौ तदुच्छेदकज्ञानमाहात्म्यादेव कर्मणां च निवृत्तौ, अप्रमत्तस्य प्रातिभासिकानि कर्माणि बन्धहेतवो न भवन्ति इत्याह -
न कर्माणीति ।
कर्मयोगादेव कर्मसंन्यासस्यानुपपत्तिम् आशङ्क्य आद्यं पादं विभजते -
परमार्थेति ।
तच्च वैधसंन्यासपक्षे परोक्षम् , फलसंन्यासपक्षे तु अपरोक्षमिति विवेकः ।
यथोक्तज्ञानेन संन्यस्तकर्मत्वमेव, सति संशये न सिध्यति, संशयवतस्तदयोगात् , इति शङ्कते -
कथमिति ।
द्वितीय पादं व्याकुर्वन् परिहरति -
आहेत्यादिना ।
पाठक्रमादर्थक्रमस्य बलीयस्त्वात् आदौ द्वितीयं पादं व्याख्याय पश्चादाद्यं पादं व्याचक्षीत इत्याह -
य एवमिति ।
सर्वमिदं प्रमादवतो विषयपरवशस्य न सिध्यति, इत्यभिसन्धाय, आत्मवन्तं व्याकरोति -
अप्रमत्तमिति ।
‘न कर्माणि’ इत्यादिफलोक्तिं व्याचष्टे -
गुणचेष्टेति ।
‘अनिष्टादि’ इत्यादिशब्देन इष्टं मिश्रं च गृह्यते ॥ ४१ ॥
तस्मादित्यादिसमनन्तरश्लोकगततत्पदापेक्षितमर्थमाह -
यस्मादिति ।
सतां कर्मणामस्मदादिषु फलारम्भकत्वोपलम्भाद् विदुष्यपि तेषां तद्भाव्यमनपवाधम् , इत्याशङ्क्य आह -
ज्ञानाग्नीति ।
ननु सन्दिहानस्य तत्प्रतिबन्धात् न कर्मयोगानुष्ठानं, नापि तद्धेतुकज्ञानं, तत्रापि संशयावतारात् , इत्याशङ्क्य, आह -
यस्माच्चेति ।
श्लोकाक्षराणि व्याचष्टे -
तस्मादित्यादिना ।
पापिष्ठमिति संशयस्य सर्वानर्थमूलत्वेन त्याज्यत्वं सूच्यते । विवेकाग्रहप्रसूतत्वादपि तस्यावहेयत्वम् , अविवेकस्यानर्थकरत्वप्रसिद्धेः, इत्याह -
अविवेकादिति ।
नच तस्य चैतन्यवदात्मनिष्ठत्वात् अत्याज्यत्वं शङ्कितव्यम् , इत्याह -
हृदीति ।
शोकमोहाभ्यामभिभृतस्य पुंसो मनसि प्रादुर्भवतः संशयस्य प्रबलप्रतिबन्धकाभावे नैव प्रध्वंसः सिध्येत् , इत्याशङ्क्याह -
ज्ञानासिनेति ।
स्वाश्रयस्य संशयस्य स्वाश्रयेणैव ज्ञानेन समुच्छेदसम्भवात् किमिति स्वस्येति विशेषणम् ? इत्याशङ्क्य, आह -
आत्मविषयत्वादिति ।
स्थाण्वादिविषयः संशयः, तद्विषयेण ज्ञानेन देवदत्तनिष्ठेन तन्निष्ठः व्यावर्त्यते । प्रकृते तु आत्मविषयः तदाश्रयश्च संशयः तथाविधेन ज्ञानेन अपनीयते । तेन विशेषणमर्थवदित्यर्थः । तदेव प्रपञ्चयति -
न हीति ।
आत्माश्रयत्वस्य प्रकृते संशये सिद्धत्वेनाविवक्षितत्वात् , तद्विषयस्य तद्विषयेणैव तस्य तेन निवृत्तिर्विवक्षिता, इत्युपसंहरति -
अत इति ।
संशयसमुच्छित्त्यनन्तरं कर्तव्यमुपदिशति -
छित्त्वैनमिति ।
अग्निहोत्रादिकं कर्म भगवदाज्ञया क्रमेण करिष्यामि, युद्धात्पुनः उपरिरंस इव, इत्याशङ्क्याह-
उत्तिष्ठेति ।
भरतान्वये महति क्षत्रियवंशे प्रसूतस्य समुपस्थितसमरविमुखत्वमनुचितमिति मन्वानः सन् आह -
भारतेति ।
तत् अनेन योगस्य कृत्रिमत्वं भगवतोऽनीश्वरत्वं च निराकृत्य कर्मादौ अकर्मादिदर्शनाद् आत्मनः सम्यग्ज्ञानात् प्रणिपातादेर्बहिरङ्गात् अन्तरङ्गाच्च श्रद्धादेरुद्भूतात् , अशेषानर्थनिवृत्त्या ब्रह्मभावमभिदधता, सर्वस्मादुत्कृष्टे तस्मिन् असंशयानस्याधिकारादशेषदोषवन्तम् । संशयं हित्वा उत्तमस्य ज्ञाननिष्ठा, अपरस्य कर्मनिष्ठा, इति स्थापितम् ॥ ४२ ॥
इत्यानन्दगिरिकृतगीताभाष्यटीकायां चतुर्थोऽध्यायः ॥ ४ ॥