अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

चतुर्थोऽध्यायः

पूर्वा­भ्या­म­ध्या­याभ्यां निष्ठा­द्व­या­त्मनो योगस्य गीतत्वाद् वेदार्थस्य च समाप्तत्वाद् वक्त­व्य­शे­षा­भा­वाद् उक्तयोगस्य कृत्रि­म­त्व­श­ङ्का­नि­वृ­त्तये वंशकथनपूर्विकां स्तुतिं भगवान् उक्तवानित्याह -
श्रीभगवानिति ।

तदेतद्भगवद्वचनं वृत्ता­नु­वा­द­द्वा­रेण प्रस्तौति -
योऽयमिति ।

उक्तमेव योगं विभज्यानुवदति-
ज्ञानेति ।
संन्यासेन इतिकर्तव्यतया सहितस्य ज्ञानात्मनो योगस्य कर्माख्यो योगो हेतुः, अत­श्चो­पा­यो­पे­य­भूतं निष्ठाद्वयं प्रति­ष्ठा­पि­त­मि­त्यर्थः ।

उक्ते योगद्वये प्रमा­ण­मु­प­न्य­स्यति -
यस्मिन्निति ।

अथवा, ज्ञानयोगस्य कर्म­यो­गो­पा­य­त्व­मेव स्फृटयति -
यस्मिन्निति ।
प्रवृत्त्या लक्ष्यते -ज्ञायते कर्मयोगः, निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः ।

यद्यपि पूर्वस्मिन् अध्यायद्वये यथो­क्त­नि­ष्ठा­द्वयं व्याख्यातं, तथाऽपि वक्ष्य­मा­णा­ध्या­येषु वक्त­व्या­न्त­र­म­स्ती­त्या­श­ङ्क्याह -
गीतासु चेति ।

कथं तर्हि सम­न­न्त­रा­ध्या­यस्य प्रवृत्तिः ? अत आह -
अत इति ।
वंशकथनं -सम्प्र­दा­यो­प­न्यासः । सम्प्र­दा­यो­प­दे­शश्च कृत्रि­म­त्व­श­ङ्का­नि­वृत्त्या योगस्तुतौ पर्यवस्यति ।

गुरु­शि­ष्य­प­र­म्प­रो­प­न्या­स­मे­वा­नु­क्रा­मति -
इममिति ।

इममित्यस्य सन्निहितं विषयं दर्शयति -
अध्यायेति ।
योगं - ज्ञान­नि­ष्ठा­ल­क्षणं, कर्म­यो­गो­पा­य­ल­भ्य­मि­त्यर्थः ।

स्वयम्‌ अकृतार्थानां प्रयो­ज­न­व्य­ग्राणां परा­र्थ­प्र­वृ­त्त्य­स­म्भ­वाद्‌ भग­व­त­स्त­था­वि­ध­प्र­वृ­त्ति­द­र्श­नात् कृतार्थता कल्पनीयेत्याह -
विवस्वत इति ।
अव्य­य­वे­द­मू­ल­त्वा­द­व्य­यत्वं योगस्य गमयितव्यम् ।

किमिति भगवता कृतार्थेनापि योगप्रवचनं कृतमिति, तदाह -
जगदिति ।

कथं यथोक्तेन योगेन क्षत्रियाणां बलाधानं ? तदाह -
तेनेति ।
युक्ताः, क्षत्रिया इति शेषः ।

ब्रह्मशब्देन ब्राह्म­ण­त्व­जा­ति­रु­च्यते । यद्यपि योगप्रवचनेन क्षत्रं रक्षितं, तेन च ब्राह्मणत्वं, तथाऽपि कथं रक्षणीयं जगदशेषं रक्षितम् ? इत्याशङ्क्याह -
ब्रह्मेति ।
ताभ्यां हि कर्मफलभूतं जगद् अनुष्ठानद्वारा रक्षितुं शक्यमित्यर्थः ।

योगस्याव्ययत्वे हेत्वन्तरमाह -
अव्ययफलत्वादिति ।

ननु कर्मफलवत् उक्तयोगफलस्यापि साध्यत्वेन क्षयि­ष्णु­त्व­म­नु­मी­यते, नेत्याह -
नहीति ।
अपु­न­रा­वृ­त्ति­श्रु­ति­प्र­ति­ह­त­म­नु­मानं न प्रमाणीभवतीति भावः ।

भगवता विवस्वते प्रोक्तो योगस्तत्रैव पर्यवस्यति, इत्याशङ्क्याह -
स चेति ।
स्वपु­त्रा­ये­त्यु­भ­यत्र सम्बध्यते । आदिराजायेति इक्ष्वाकोः सूर्य­वं­श­प्र­व­र्त­क­त्वेन वैशि­ष्ट्य­मु­च्यते ॥ १ ॥

यथोक्ते योगे परम्परागते विशि­ष्ट­ज­न­स­म्म­ति­मु­दा­ह­रति -
एवमिति ।

तस्य कथं सम्प्रति वक्तव्यत्वं, तदाह -
स कालेनेति ।

पूर्वार्धं व्याकरोति -
एवमित्यादिना ।
ऐश्वर्यसम्पत्ती राजत्वं येषां, तेषामेव सृक्ष्मा­र्थ­नि­री­क्ष­ण­क्ष­म­त्व­मृ­षि­त्वम् । इहेति भगवतोऽर्जुनेन सह संव्यवहारकालो गृह्यते ।

परन्तपेति सम्बोधनं विभजते -
आत्मन इति
॥ २ ॥

किमिति वर्तमाने काले प्रकृतो योगः सम्प्र­दा­य­र­हि­तोऽ­भू­दि­त्या­शङ्क्य, अधि­का­र्य­भा­वा­दि­त्याह -
दुर्बलानिति ।

तदेव दौर्बल्यं प्रकृ­तो­प­यो­गि­त्वेन व्याकरोति -
अजि­ते­न्द्रि­या­निति ।

यद्यपि काम­क्रो­धा­दि­प्र­धा­नान् पुरुषान् प्रतिलभ्य काम­क्रो­धा­दि­भि­र­भि­भू­य­मानो योगः नष्टः - विच्छि­न्न­स­म्प्र­दायः सञ्जातः, तथाऽपि योगादृते पुरुषार्थो लोकस्य लभ्यते चेत् - किमनेन योगो­प­दे­शे­ने­त्या­शङ्क्य, यथोक्तयोगाभाबे पर­म­पु­रु­षा­र्था­प्रा­प्ते­र्मै­व­मि­त्यह -
लोकं चेति ।

पूर्वो योगो विच्छि­न्न­स­म्प्र­दायः, अधुना तु अन्यो योगो मदर्थमुच्यते भगवता, इत्याशङ्क्याह -
स एवेति ।

कस्मादन्यस्मै यस्मैकस्मैचित् पुरातनो योगो नोक्तो भग­व­ते­त्या­श­ङ्क्याह -
भक्तोऽसीति ।

उक्तमधिकारिणं प्रति योगस्य वक्तव्यत्वे हेतुमाह -
रहस्यं हीति ।
अना­दि­वे­द­मू­ल­त्वाद् योगस्य पुरातनत्वम् । भक्तिः - शरणबुद्ध्या प्रीतिः, तया युक्तः । निजरूपमवेक्ष्य भक्तो विवक्षितः । समानवयाः स्निग्धः सहायः सखेत्युच्यते ।

एतदिति कथं योगो विशेष्यते, तत्राह -
ज्ञानमिति
॥ ३ ॥

भगवति लोक­स्या­नी­श्व­र­त्व­शङ्कां निवर्तयितुं चोद्यमुद्भावयति -
भगवतेति ।
परि­हा­रा­र्थं­भ­ग­वतो मनु­ष्य­व­द­व­स्थि­त­स्या­नी­श्व­र­त्व­मु­पेत्य तद्वचने शङ्कि­त­वि­प्र­ति­षे­ध­स्येति शेषः । भगवतो निजरूपमुपेत्य नेदं चोद्यं, किन्तु लीलाविग्रहं ग्रहीत्वेति वक्तुं चोद्य­मि­वे­त्यु­क्तम् ।

एतच्छब्दार्थमेव स्फुटयति -
यस्त्वमिति
॥ ४ ॥

भग­व­त्य­ज्ञा­ना­न्म­नु­ष्य­त्व­शङ्कां वारयितुं प्रति­व­च­न­म­व­ता­र­यति -
या वासुदेव इति ।

अन्यथाप्रश्ने कथमाशङ्कान्तरं परिहर्तुं भग­व­द्व­च­न­मि­त्या­शङ्क्य, प्रश्न­प्र­ति­व­च­न­यो­रे­का­र्थ­त्व­माह -
यदर्थो हीति ।
यस्य शङ्कितस्य विरोधस्य परिहारार्थो यस्य प्रश्नः, तमेव परिहारं वक्तुं भग­व­द्व­च­न­मि­त्यर्थः ।

अती­ता­ने­क­ज­न्म­वत्त्वं ममैव नासाधारणं, किन्तु सर्व­प्रा­णि­सा­धा­र­ण­मि­त्याह -
तव चेति ।

तानि प्रमाणाभावान्न प्रति­भा­न्ती­त्या­श­ङ्क्याह -
तानीति ।
ईश्व­र­स्या­ना­वृ­त­ज्ञा­न­त्वा­दि­त्यर्थः ।

किमिति तर्हि तानि मम न प्रतीयन्ते ? तवा­वृ­त­ज्ञा­न­त्वा­दि­त्याह -
न त्वमिति ।

परान् परिकल्प्य तत्परिभवार्थं प्रवृत्तत्वात् तव ज्ञानावरणं विज्ञेयमित्याह -
परन्तपेति ।

अर्जुनस्य भगवता सहा­ती­ता­ने­क­ज­न्म­वत्त्वे तुल्येऽपि, ज्ञानवैषम्ये हेतुमाह -
धर्मेति ।
आदिशब्देन रागलोभादयो गृह्यन्ते ।

ईश्व­र­स्या­ती­ता­ना­ग­त­व­र्त­मा­न­स­र्वा­र्थ­वि­ष­य­ज्ञा­न­वत्त्वे हेतुमाह -
अहमिति
॥ ५ ॥

ईश्वरस्य कारणाभावात्‌ जन्मैवायुक्तम् , अती­ता­ने­क­ज­न्म­वत्त्वं तु दूरोत्सारितमिति शङ्कते -
कथमिति ।

वस्तुतो जन्माभावेऽपि मायावशाज्जन्म सम्भ­व­ती­त्यु­त्त­र­माह -
उच्यत इति ।

पार­मा­र्थि­क­ज­न्मा­योगे कारणं पूर्वा­र्धे­ना­नूद्य, प्राति­भा­सि­क­ज­न्म­स­म्भवे कारणमाह -
प्रकृतिमिति ।
प्रकृतिशब्दस्य स्वरूपविषयत्वं प्रत्यादेष्टुम् आत्ममायया इत्युक्तम् ।

वस्तुतो जन्माभावे कारणानुवादभागं विवृणोति -
अजोऽपीत्यादिना ।

प्राति­भा­सि­क­ज­न्म­स­म्भवे कार­ण­क­थ­न­प­र­मु­त्त­रार्धं विभजते -
प्रकृ­ति­मि­त्या­दिना ।

प्रकृतिशब्दस्य स्वरू­प­श­ब्द­प­र्या­यत्वं वारयति -
मायामिति ।

तस्याः स्वातन्त्र्यं निराकृत्य भगवदधीनत्वमाह -
ममेति ।

तस्या­श्चा­धि­क­र­ण­द्वा­रे­णा­व­च्छि­न्नत्वं सूचयति -
वैष्णवीमिति ।

मायाशब्दस्यापि प्रज्ञानामसु पाठाद् विज्ञा­न­श­क्ति­वि­ष­य­त्व­मा­श­ङ्क्याह -
त्रिगु­णा­त्मि­का­मिति ।

तस्याः कार्य­लि­ङ्ग­क­म­नु­मानं सूचयति -
यस्या इति ।

जगतो माया­व­श­व­र्ति­त्व­मेव स्फुटयति -
ययेति ।

यथा लोके कश्चिज्जातो देह­वा­ना­ल­क्ष्यते, एवमहमपि माया­मा­श्रि­त्यत्या स्ववशया सम्भवामि - जन्म­व्य­व­हा­र­म­नु­भ­वामि, तेन मायामयमीश्वरस्य जन्मेत्याह -
तां प्रकृ­ति­मि­त्या­दिना ।

सम्भ­वा­मी­त्यु­क्त­मेव विभजते -
देहवानिति ।

अस्मदादेरिव तवापि पर­मा­र्थ­त्वा­भि­मानो जन्मादिविषये स्यादि­त्या­शङ्क्य, प्रागु­क्त­स्व­रू­प­प­रि­ज्ञा­न­व­त्त्वा­दी­श्व­रस्य मैवमित्याह –
न परमार्थत इति ।

आवृतज्ञानवतो लोकस्य जन्मादिविषये पर­मा­र्थ­त्वा­भि­मानः सम्भवतीत्याह -
लोकवदिति
॥ ६ ॥

यदीश्वरस्य मायानिबन्धनं जन्मेत्युक्तं, तस्य प्रश्नपूर्वकं कालं कथयति -
तच्चेत्यादिना ।

चातुरर्वर्ण्ये चातुराश्रम्ये च यथा­व­द­नु­ष्ठी­य­माने नास्ति धर्महानिरिति मन्वानो विशिनष्टि -
वर्णेति ।
वर्णै­रा­श्र­मै­स्त­दा­चा­रैश्च लक्ष्यते - ज्ञायते धर्मः, तस्येति यावत् ।

धर्महानौ सम­स्त­पु­रु­षा­र्थ­भङ्गो भव­ती­त्य­भि­प्रे­त्याह -
प्राणिनामिति ।

नच यथोक्तस्य धर्मस्य हानिं सोढुं शक्तो भवानित्याह -
भारतेति ।

न केवलं प्राणिनां धर्महानिरेव भगवतो मायाविग्रहस्य परिग्रहे हेतुः, अपि तु तेषा­म­ध­र्म­प्र­वृ­त्ति­रपि, इत्याह -
अभ्युत्थानमिति ।
यदा यदेति पूर्वेण सम्बन्धः
॥ ७ ॥

यथोक्ते काले कृतकृत्यस्य भगवतो मायाकृते जन्मनि प्रश्नपूर्वकं प्रयोजनमाह -
किम­र्थ­मि­त्या­दिना ।

यथा साधूनां रक्षणम् , असाधूनां निग्रहश्च भगवदवतारफलं, तथा फलान्तरमपि तस्यास्तीत्याह -
किञ्चेति ।
धर्मे हि स्थापिते जगदेव स्थापितं भवति, अन्यथा भिन्नमर्यादं जग­द­स­न्ग­त­मा­प­द्ये­ते­त्यर्थः
॥ ८ ॥

मायामयमीश्वरस्य जन्म, न वास्तवं, तस्यैव च जगत्परिपालनं कर्म, नान्यस्य, इति जानतः श्रेयोऽ­वा­प्ति­न्द­र्श­यन् , विपक्षे प्रत्यवायं सूचयति -
तज्ज­न्मे­त्या­दिना ।
यथोक्तं - मायामयं, कल्पितमिति यावत् । वेदनस्य यथावत्वं, वेद्यस्य जन्मा­दे­रु­क्त­रू­पा­न­ति­व­र्ति­त्वम् । यदि पुनर्भगवतो वास्तवं जन्म, साधु­ज­न­प­रि­पा­ल­नादि चान्यस्यैव कर्म क्षत्रियस्येति विवक्ष्यते, तदा तत्त्वा­प­रि­ज्ञा­ना­प्र­युक्तो जन्मादिः संसारो दुर्वारः स्यादिति भावः
॥ ९ ॥

सम्प्रति प्रस्तु­त­मो­क्ष­मा­र्गस्य नूत­न­त्वे­ना­व्य­व­स्थि­त­त्व­मा­शङ्क्य, परिहरति -
नैष इति ।

मन्मयत्वस्य मद्भा­व­ग­म­ने­ना­पौ­न­रु­त्तयं दर्शयति -
ब्रह्मविद इति ।

आत्मनो भिन्नत्वेन, भिन्ना­भि­न्न­त्वेन वा ब्रह्मणो वेदनं व्यावर्तयति -
ईश्वरेति ।

अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे -
मामेवेति ।

तदुपाश्रयत्वमेव विशदयति -
केवलेति ।

मामुपाश्रिता इति केव­ल­ज्ञा­न­नि­ष्ठ­त्व­मुक्त्वा, ‘ज्ञानतपसा पूताः’(भ. गी. ४-१०) इति किमर्थं पुनरुच्यते ? तत्राह -
इतरेति
॥ १० ॥

ईश्वरः सर्वेभ्यो भूतेभ्यो मोक्षं प्रयच्छति चेत् , प्रागु­क्त­वि­शे­ष­ण­वै­यर्थ्यं ; यदि तु केभ्यश्चिदेव मोक्षं प्रयच्छेत् , तर्हि, तस्य रागा­दि­म­त्त्वा­द­नी­श्व­र­त्वा­पत्तिः, इति शङ्कते -
तव तर्हीति ।

ये मुमुक्षवः, तेभ्यो मोक्षमीश्वरो ज्ञान­स­म्पा­द­न­द्वारा प्रयच्छति, फला­न्त­रा­र्थि­भ्यस्तु तत्त­दु­पा­या­नु­ष्ठा­नेन तत्तदेव ददातीति, नास्य रागद्वेषौ इति परिहरति -
उच्यत इति ।

मुमु­क्षू­णा­मी­श्व­रा­नु­सा­रि­त्वेऽपि फलान्तरार्थिनां कुत­स्त­द­नु­सा­रि­त्वम् ? इत्याशङ्क्य ‘फलमत उपपत्ते’(ब्र. सू. ३-२-३८) इति न्यायेन तत्फ­ल­स्ये­श्व­रा­य­त्त­त्वात् तद­नु­व­र्ति­त्व­मा­व­श्य­कम् , इत्याह -
ममेति ।

भगवद्भजनभागिनां सर्वेषामेव कैवल्यमेकरूपं किमिति नानुगृह्यते ? तत्राह -
तेषामिति ।

अभ्यु­द­य­निः­श्रे­य­सा­र्थित्वं प्रार्थ­ना­वै­चि­त्र्या­दे­क­स्यैव किं न स्याद् ? इत्याशङ्क्य, पर्यायेण तदनुपपत्तिं साधयति -
नहीति ।

मुमुक्षूणां फलार्थिनां च विभागे स्थिते सति अनुग्रहविभागं फलितमाह -
अत इति ।
फल­प्र­दा­ने­ना­नु­गृ­ह्णा­मीति सम्बन्धः ।

नित्य­नै­मि­त्ति­क­क­र्मा­नु­ष्ठा­यि­ना­मेव फलार्थित्वाभावे सति, मुमुक्षुत्वे कथं तेष्वनुग्रहः स्यात् ? इति तत्राह -
ये यथोक्तेति ।
ज्ञानप्रदानेन भजा­मी­त्यु­त्त­रत्र सम्बन्धः ।

सन्ति केचित् त्यक्त­स­र्व­क­र्माणो ज्ञानिनो मोक्ष­मे­वा­पे­क्ष­माणाः, तेष्व­नु­ग्र­ह­प्र­कारं प्रकटयति -
ये ज्ञानिन इति ।

केचिदार्ताः सन्तो ज्ञाना­दि­सा­ध­ना­न्त­र­र­हिता भग­व­न्त­मे­वा­र्ति­म­प­ह­र्तु­म­नु­व­र्तन्ते, तेषु भग­व­तोऽ­नु­ग्र­ह­वि­शेषं दर्शयति-
तथेति ।

पूर्वा­र्ध­व्या­ख्या­न­मु­प­सं­ह­रति -
इत्येवमिति ।

भगवतोऽनुग्रहे निमित्तान्तरं निवारयति -
न पुनरिति ।

फलार्थित्वे मुमुक्षुत्वे च जन्तूनां भग­व­द­नु­स­र­ण­मा­व­श्य­कम् इत्युत्तरार्धं विभजते -
सर्वथाऽपीति ।
सर्वावस्थत्वं - तेन तेनात्मना पर­स्यै­वे­श्व­र­स्या­व­स्था­नम् ।

मार्गः - ज्ञानकर्मलक्षणः । मनुष्यग्रहणाद् इत­रे­षा­मी­श्व­र­मा­र्गा­नु­व­र्ति­त्व­प­र्यु­दासः स्याद् , इत्याशङ्क्याह -
यत्फलेति ।
सर्वप्रकारैर्मम मार्गमनुवर्तन्त इति पूर्वेण सम्बन्धः
॥ ११ ॥

अनुग्राह्याणां ज्ञान­क­र्मा­नु­रो­धेन भगवता तेष्व­नु­ग्र­ह­वि­धा­नात् तस्य रागद्वेषौ यदि न भवतः, तर्हि तस्य रागाद्यभावादेव सर्वेषु प्राणि­ष्व­नु­ग्र­हेच्छा तुल्या प्राप्ता, नच तस्यां सत्यामेव फलस्याल्पीयसः सम्पादने सामर्थ्यं, नतु भगवतो महतो मोक्षाख्यस्य फलस्य प्रदा­नेऽ­श­क्ति­रिति युक्तम् , अप्र­ति­ह­त­ज्ञा­ने­च्छा­क्रि­या­श­क्ति­म­त­स्तव सर्वफलप्रदान सामर्थ्यात् । तथाच यथो­क्ता­नु­जि­घृ­क्षायां सत्यां, त्वयि च यथो­क्त­सा­म­र्थ्य­वति सति, सर्वे फल्गुफलाद् अभ्यु­द­या­द्वि­मुखा मोक्ष­मे­वा­पे­क्ष­माणा ज्ञानेन त्वामेव किमिति न प्रतिपद्येरन् ? इति चोदयति -
यदीति ।

मोक्षा­पे­क्षा­भा­वात् तदु­पा­य­भू­त­ज्ञा­ना­दपि वैमुख्याद् भग­व­त्प्रा­प्त्य­भावे हेतुमभिदधानः समाधत्ते -
श्रृण्विति ।

कर्म­फ­ल­सि­द्धि­मि­च्छता किमिति मानुषे लोके देव­ता­पू­ज­न­मि­ष्यते ? तत्राह -
क्षिप्रं हीति ।

कर्म­फ­ल­स­म्प­त्त्य­र्थिनां यष्टृ­य­ष्ट­व्य­वि­भा­ग­द­र्शिनां तद्दर्शने कार­ण­मा­त्मा­ज्ञा­नम् , इत्यत्र बृह­दा­र­ण्य­क­श्रु­ति­मु­दा­ह­रति -
अथेति ।
अवि­द्या­प्र­क­र­णो­प­क्र­मा­र्थ­म­थे­त्यु­क्तम् ।

उपासनं भेद­द­र्श­न­मि­त्य­नूद्य, कार­ण­मा­त्मा­ज्ञानं तत्र, इति दर्शयति -
नेति ।

यथा अस्मदादीनां हलवहनादिना पशुरुपकरोति, एवमज्ञो देवादीनां यागा­दि­भि­रु­प­क­रोति, इत्याह -
यथेति ।

किमिति ते फलाकाङूक्षिणो भिन्न­दे­व­ता­या­दिनो ज्ञानमार्गं नापेक्षन्ते ? तत्रो­त्त­रा­र्ध­मु­त्त­र­त्वेन योजयति -
तेषामित्यादिना ।
यस्माद् यथो­क्ता­ना­म­धि­का­रिणां कर्मप्रयुक्तं फलं लोकविशिषे झटिति सिध्यति, तस्मात् तेषांं मोक्ष­मा­र्गा­दस्ति वैमु­ख्य­मि­त्यर्थः ।

मानुषलोकविशेषणं किमर्थम् ? इत्याशङ्क्याह -
मनुष्यलोके हीति ।

लोकान्तरेषु तर्हि कर्म­फ­ल­सि­द्धि­र्नास्ति, इत्याशङ्क्य, क्षिप्र­वि­शे­ष­णस्य तात्पर्यमाह -
क्षिप्रमिति ।

क्वचित् कर्म­फ­ल­सि­द्धि­र­वि­ल­म्बेन भवति, अन्यत्र तु विलम्बेन इति विभागे को हेतुः ? इत्याशङ्क्य, साम­ग्राी­भा­वा­भा­वा­भ्याम् , इत्याह -
मानुष इति ।

मनुष्यलोके कर्मफलसिद्धेः शैघ्र्यात् तदभिमुखानां ज्ञान­मा­र्ग­वै­मुख्यं प्रायि­क­मि­त्यु­प­सं­ह­रति -
तेषामिति
॥ १२ ॥

मनुष्यलोके ‘चातुर्वर्ण्यं, चातुराश्रम्यम् ‘ इत्यनेन द्वारेण कर्माधिकारनियमे कारणं पृच्छति -
मानुष एवेति ।
आदि­श­ब्दे­ना­व­स्था­वि­शेषा विवक्ष्यन्ते ।

प्रकारान्तरेण वृत्ता­नु­वा­द­पू­र्वकं चोद्यमुत्थापयति -
अथवेत्यादिना ।

प्रश्नद्वयं परिहरति -
उच्यत इति ।

तर्हि, तव कर्तृ­त्व­भो­क्तृ­त्व­स­म्भ­वात् अस्म­दा­दि­तु­ल्य­त्वे­ना­नी­श्व­र­त्वम् , इत्याशङ्क्याह -
तस्येति ।

ईश्वरस्य विषमसृष्टिं विदधानस्य सृष्टि­वै­ष­म्य­नि­र्वा­हकं कथयति -
गुणेति ।

गुणविभागेन कर्मविभागः । तेन चातुर्वर्ण्यस्य सृष्टि­मे­वो­प­दिष्टां स्पष्टयति -
तत्रेत्यादिना ।

प्रश्न­द्व­य­प्र­ति­वि­धानं प्रकृ­त­मु­प­स­म्ह­रति -
तच्चेदमिति ।
मनुष्यलोके परं वर्णा­श्र­मा­दि­पू­र्वके कर्मण्यधिकारः, तत्रैव वर्णादेरीश्वरेण सृष्टत्वात् , न लोकान्तरेषु, तत्र वर्णाद्यभावात् , ईश्वरमेव चातु­र्व­र्ण्या­श्र­मा­दि­वि­भा­गि­नोऽ­धि­का­रि­णोऽ­नु­व­र्तन्ते, तेनैव वर्णा­दे­स्त­द्व्या­पा­रस्य च सृष्टत्वात् तदनुवर्तनस्य युक्त­त्वा­दि­त्यर्थः ।

तस्येत्यादि द्विती­य­भा­गा­पोह्यं चोद्यमनुद्रवति -
हन्तेति ।
यदि चातु­र्व­र्ण्या­दि­क­र्तृ­त्वा­दी­श्व­रस्य प्रागुक्तो नियमोऽभिमतः, तर्हि, तद्वि­ष­य­सृ­ष्ट्यादेः तन्नि­ष्ठ­व्या­पा­रस्य च धर्मा­दे­र्नि­व­र्त­क­त्वात् तत्फलस्य कर्तृगामित्वात् कर्तृ­त्व­भो­क्तृ­त्व­यो­स्त्वयि प्रसङ्गात् नित्य­मु­क्त­त्वादि ते न स्यादित्यर्थः ।

मायया कर्तृत्वं, पर­मा­र्थ­त­श्चा­क­र्तृ­त्वम् , इत्यभ्युपगमात् नित्य­मु­क्त­त्वादि सिध्यति, इत्युत्तरमाह -
उच्यत इति ।
माया­वृ­त्त्या­दि­सं­व्य­व­हा­रेण चातु­र्व­ण­र्या­दे­स्त­त्क­र्म­णश्च यद्यपि कर्ताऽहं, तथाऽपि तथाविधं मां पर­मा­र्थ­तोऽ­क­र्तारं विद्धीति योजना ।

अक­र्तृ­त्वा­दे­वा­भो­क्तृ­त्व­सिद्धिः, इत्याह -
अत एवेति
॥ १३ ॥

ईश्वरस्य कर्तृ­त्व­भो­क्तृ­त्व­यो­र्व­स्तु­तोऽ­भावे कर्म­त­त्फ­ल­स­म्ब­न्ध­वै­धुर्यं फलति, इत्याह -
येषां त्विति ।

कर्म­त­त्फ­ल­सं­स्प­र्श­शू­न्य­मी­श्वरं पश्यतो दर्शनानुरूपं फलं दर्शयति -
न मामिति ।
तानि कर्माणीति येषां कर्मणामहं कर्ता तवाभिमतः, तानीति यावत् ।

देहे­न्द्रि­या­द्या­र­म्भ­क­त्वेन तेषां कर्मणामीश्वरे संस्पर्शाभावे, तस्य तत्क­र­णा­व­स्था­या­म­ह­ङ्का­रा­भावं हेतुं करोति -
अह­ङ्का­रा­भा­वा­दिति ।

कर्म­फ­ल­तृ­ष्णा­भा­वा­च्चे­श्वरं कर्माणि न लिम्पन्ति, इत्याह-
नचेति ।

उक्तमेव प्रपञ्चयति -
येषां त्विति ।
तदभावात् -कर्मसु ‘अहं कर्ता’ इत्यभिमानस्य, तत्फलेषु स्पृहा­या­श्चा­भा­वा­दि­त्यर्थः ।

ईश्वरस्य कर्म­नि­र्ले­पेऽपि, क्षेत्रज्ञस्य किमायातम् ? इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -
इत्येवमिति ।

अभि­ज्ञा­न­प्र­का­र­म­भि­न­यति -
नाहमिति ।

ज्ञानफलं कथयति -
स कर्मभिरिति ।

कर्मासम्बन्धं विदुषि विशदयति -
तस्यापीति
॥ १४ ॥

तव कर्म­त­त्फ­ल­स­म्ब­न्धा­भावे, तथा ज्ञानवतश्च तदसम्बन्धे, ममापि किं कर्मणा इत्याशङ्क्य, कर्मणि कर्तृ­त्वा­भि­मानं, तत्फले स्पृहां चाकृत्वा, मुमुक्षुवत् त्वया कर्म कर्तव्यमेव, इत्याह -
नाहमित्यादिना ।
नाहं कर्तेत्येवमादि एवमा परामृश्यते । तेन - पूर्वैे­र्मु­मु­क्षु­भि­र­नु­ष्ठि­त­त्वेन हेतुनेत्यर्थः ।

कर्मै­वे­त्ये­व­का­रा­र्थ­माह -
नेत्यादिना ।
त्वं शब्दस्य क्रियापदेन सम्बन्धः ।

तस्मा­दि­त्यु­क्त­मेव स्फुटयति -
पूर्वैरिति ।

यदुक्तं किं मम कर्मणेति, तत्र त्वमज्ञो वा, तत्त्वविद्वा ? । यद्यज्ञः, तदा चित्त­शु­द्ध्यर्थं कुरु कर्म इत्याह -
यदीति ।

द्वितीयं प्रत्याह -
तत्त्वविदिति ।
कुरु कर्मेति सम्बन्धः ।

पूर्वै­र्मू­ढै­रा­च­रि­त­मि­त्ये­ता­वता किमिति विवेकवता मया तत्कर्तव्यम् ? इत्याशङ्क्याह -
जनकादिभिरिति ।

ते तावत् एवं सम्पाद्य कर्म कृतवन्तो, न तदि­दा­नी­म­प्रा­मा­णि­क­त्वा­द­नु­ष्ठे­यम् , इत्याशङ्क्याह -
पूर्वतरमिति
॥ १५ ॥

कर्म­वि­शे­ष­ण­मा­क्षि­पति -
तत्रेति ।
मनुष्यलोकः सप्तम्यर्थः ।

कर्मणि महतो वैषम्यस्य विद्यमानत्वात् तस्य पूर्वै­र­नु­ष्ठि­त­त्वेन पूर्वतरत्वेन च विशेषितत्वे, तस्मिन् प्रवृत्तिस्तव सुकरा, इति युक्तं विशेषणम् , इति परिहरति -
उच्यत इति ।

कर्मणि देहा­दि­चे­ष्टा­रूपे लोकप्रसिद्धे नास्ति वैषम्यम् , इति शङ्कते -
कथमिति ।

विज्ञानवतामपि कर्मादिविषये व्यामो­हो­प­पत्तेः, सुतरामेव तव तद्विषये व्यामोहसम्भवात् , तद­पो­हा­र्थ­मा­प्त­वा­क्या­पे­क्ष­णाद् , अस्ति कर्मणि वैषम्यम् , इत्युत्तरमाह -
किं कर्मेति ।
‘तत् ते कर्म’(भ. गी. ४-१६) इत्यत्र अका­रा­नु­ब­न्धे­नापि पदं छेत्तव्यम् ।

कर्मा­दि­प्र­व­च­नस्य प्रयोजनमाह -
यज्ज्ञात्वेति ।
तत् कर्माकर्म चेति सम्बन्धः । अतः मेधाविनामपि यथोक्ते विषये व्यामोहस्य सत्त्वा­दि­त्यर्थः ।
॥ १६ ॥

कर्मणोऽकर्मणश्च प्रसिद्धत्वात् तद्विषये न किञ्चिद् बोद्धव्यम् , इति चोद्यमनूद्य निरस्यति -
नचेति

तत्र हेत्वा­का­ङू­क्षा­पू­र्व­क­म­न­न्तरं श्लोकमवतारयति -
कस्मादिति ।
त्रिष्वपि कर्मा­क­र्म­वि­क­र्मसु बोद्धव्यमस्तीति यस्मात् अध्याहारः, तस्माद् मदीयं प्रवचनमर्थवदिति योजना ।

बोद्धव्यसद्भावे हेतुमाह -
यस्मादिति ।

त्रितयं प्रकृत्य अन्यतमस्य गह­न­त्व­व­च­न­म­यु­क्त­मि­त्या­शङ्क्य, अन्य­त­म­ग्र­ह­ण­स्यो­प­ल­क्ष­णा­र्थ­त्व­मु­पेत्य, विवक्षितमर्थमाह -
कर्मादीनामिति
॥ १७ ॥

उत्त­र­श्लो­क­मा­का­ङ्क्षा­पू­र्व­क­मु­पा­दत्ते -
किं पुनरिति ।

प्रथ­म­पा­द­स्या­क्ष­रो­त्थ­मर्थं कथयति -
कर्मणीत्यादिना ।

द्विती­य­पा­द­स्यापि शब्द­प्र­का­शि­त­मर्थं निर्दिशति -
अकर्मणि चेति ।
कर्माभावे यः कर्म पश्यतीति सम्बन्धः ।

प्रवृत्तेरेव कर्मत्वात् निवृ­त्ते­स्त­द­भा­व­त्वात् तत्र कथं कर्म­द­र्श­न­मि­त्या­शङ्क्य, द्वयोरपि कार­का­धी­न­त्वे­ना­वि­शे­ष­म­भि­प्रो­याह -
कर्तृ­त­न्त्र­त्वा­दिति ।
प्रवृत्ताविव निवृत्तावपि, कर्म­द­र्श­न­म­वि­रु­द्ध­मिति शेषः ।

ननु निवृ­त्ते­र्व­स्त्व­धी­न­त्वात् कार­क­नि­ब­न्ध­ना­भा­वान्न तत्र कर्मदर्शनं युज्यते, तत्राह -
वस्त्विति ।
क्रिया­का­र­क­फ­ल­व्य­व­हा­रस्य सर्व­स्या­वि­द्या­व­स्था­या­मेव प्रवृत्तत्वाद् वस्तु­सं­स्प­र्श­शू­न्य­त्वात् प्रवृ­त्ति­व­न्नि­वृ­त्ता­वपि यः कर्म पश्यति, स मनुष्येषु बुद्धिमानिति सम्बन्धः ।

कर्मण्यकर्म अकर्मणि च कर्म पश्यतो बुद्धिमत्त्वं, युक्तत्वं सम­स्त­क­र्म­कृत्त्वं च कथ­मि­त्या­श­ङ्क्याह -
इति स्तूयत इति ।

श्लोकस्य शब्दोत्थेऽर्थे दर्शिते, तात्प­र्या­र्था­प­रि­ज्ञा­ना­न्मिथो विरोधं शङ्क्तते -
नन्विति ।

कथमिदं विरुद्धम् ? इत्याशङ्क्य, कर्मणीति विषयसप्तमी वा स्यात् ? अधिकरणसप्तमी वा ? इति विकल्प्य, आद्ये - अन्याकारं ज्ञान­म­न्या­व­ल­म्ब­न­मिति स्पष्टो विरोधः स्याद् , इत्याह -
नहीति ।
अन्य­स्या­न्या­त्म­ता­यो­गात् कर्मा­क­र्म­णो­र­भे­दा­स­म्भ­वा­द­क­र्मा­कारं कर्मावलम्बनं ज्ञानम् अयुक्तमित्यर्थः ।

द्वितीयं दूषयति -
तत्रेति ।
कर्मण्यधिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे । नहि कर्मा­क­र्म­णो­र्मिथो विरु­द्ध­यो­रा­धा­रा­धे­य­भावः सम्भवतीत्यर्थः ।

विष­य­स­प्त­मी­म­भ्यु­पेत्य सिद्धान्ती परिहरति -
नन्वकर्मैवेति ।
लोकस्य मूढ­दृ­ष्टे­र्वि­वे­क­व­र्जि­तस्य परमार्थतो ब्रह्म अकर्म अक्रियमेव सद् , भ्रान्त्या, कर्मसहितं क्रियावदिव प्रति­भा­ती­त्य­क्ष­रार्थः ।

पर­स्प­रा­ध्य­स­म­भ्यु­पे­त्यो­क्तम् -
तथेति ।
यथा खल्वकर्म ब्रह्म कर्मवदुपलभ्यते तथा कर्म सक्रियमेव द्वैतमक्रिये ब्रह्म­ण्य­धि­ष्ठाने संसृष्टं तद्वद् भाती­त्य­क्ष­र­यो­जना ।

कर्मा­क­र्म­णो­रि­त­रे­त­रा­ध्यासे सिद्धे, सम्य­ग्द­र्श­न­सि­द्ध्यर्थं भगवतो वचनमुचितम् , इत्याह -
तत्रेति ।

यथा, यत् , इन्दं रजतमिति प्रतिपन्नं, तत् , इदानीं शुक्तिशकलं पश्येति भ्रम­सि­द्ध­र­ज­त­रू­प­वि­ष­या­नु­वा­देन तदधिष्ठानं शुक्ति­मा­त्र­मु­प­दि­श्यते, तथा भ्रम­सि­द्ध­क­र्मा­द्या­त्म­क­वि­ष­या­नु­वा­देन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता व्यपदिश्यते । तथाच भग­व­द्व­च­न­म­वि­रु­द्ध­मि­त्यह -
अत इति ।

इत­श्चा­ध्या­रो­पि­त­क­र्मा­द्य­नु­वा­द­पू­र्वकं तदधिष्ठानस्य कर्मादिरहितस्य निर्विशोषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरो­धा­श­ङ्का­व­काशो भवतीत्याह -
बुद्धि­म­त्त्वा­दीति ।
कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वात् अन्यज्ञानाद् बुद्धि­म­त्त्व­यु­क्त­त्व­स­र्व­क­र्म­कृ­त्त्वा­ना­म­नु­प­पत्तेः, अत्र च ‘स बुद्धिमान् ‘ इत्यादिना बुद्धि­म­त्त्वा­दि­नि­र्दे­शाद् ब्रह्मज्ञानादेव तदुपपत्तेः, सर्व­वि­क्रि­या­र­हि­त­ब्र­ह्म­ज्ञा­न­मेव विव­क्षि­त­मि­त्यर्थः ।

बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्मा­क­र्म­वि­क­र्मणां स्वरूपं बोद्धव्यस्तीति वदता सम्य­ग्ज्ञा­नो­प­दे­शस्य विवक्षितत्वादपि कूटस्थं ब्रह्म­त्रा­भि­प्रे­तम् इत्याह -
बोद्धव्यमिति चेति ।

फल­व­च­न­प­र्या­लो­च­ना­या­मपि कूटस्थं ब्रह्मा­त्रा­भि­प्रेतं प्रतिभाति इत्याह -
नचेति ।

सम्य­ग्ज्ञा­ना­धी­न­फ­ल­मत्र न श्रुतम् , इत्याशङ्क्याह -
यज्ज्ञात्वेति ।

अध्या­रो­पा­प­वा­दार्थं भाग­व­द्व­च­न­म­वि­रु­द्धम् , इत्यु­प­पा­दि­त­मु­प­सं­ह­रति -
तस्मादिति ।
‘तद्विपर्यय’ इत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते ।

विष­य­म­प्त­मी­प­रि­ग्र­हेण परिहारमभिवाय, अधि­क­र­ण­स­प्त­मी­पक्षे दर्शित्ं दूषणमनङ्गीकारेण परिहरति -
नचेति ।
व्यव­हा­र­भू­मि­र­त्रे­त्यु­च्यते । योग्यत्वे सत्य­नु­प­ल­ब्धे­रि­त्यर्थः ।

अकर्माधिकरणं कर्म न सम्भवति इत्यत्र हेत्वन्तरमाह -
कर्मा­भा­व­त्वा­दिति ।
नहि तुच्छस्याधिकरणं क्कचिद् दृष्टमिष्टं चेत्यर्थः ।

निरूप्यमाणे कर्मा­क­र्म­णो­र­धि­क­र­णा­धि­क­र्त­व्य­भा­वा­स­म्भवे फलितमाह -
अत इति ।

शास्त्र­प­रि­च­य­वि­र­हि­णा­म­ध्या­रो­प­मु­दा­ह­रति -
यथेति ।

कर्मा­क­र्म­णो­रा­रो­पि­त­त्व­मु­क्त­म­मृ­ष्य­माणाः सन्नाशङ्कते -
नन्विति ।
कर्म कर्मैवेत्यत्र अकर्म चाकर्मैवेति द्रष्टव्यम् । विमतं सत्य­म­व्य­भि­चा­रि­त्वाद् ब्रह्म­व­दि­त्यर्थः ।

तत्र कर्म तत्त्वतो नाव्यभिचारि, कर्मत्वात् , नौस्थस्य तट­स्थ­वृ­क्ष­ग­म­न­वत् ,इत्य­व्य­भि­चा­रित्वं कर्म­ण्य­सि­द्ध­मिति परिहरति -
तन्नेति ।

अकर्म च तत्त्वतो नाव्यभिचारि, कर्माभावत्वाद्, दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा सन्नि­धा­न­वि­धु­रेषु दृश्य­मा­न­ग­त्य­भा­व­वत् , इत्याह -
दूरेष्विति ।
दूरत्वादेव विशेषतः सन्नि­क­र्ष­वि­र­हि­तेषु तेषु स्वरूपेण चक्षुः संनिकृष्टेषु चक्षुषा गत्य­भा­व­द­र्श­ना­दिति योजना ।

गातिरहितेषु तरुषु गतिदर्शनवत् प्रकृते ब्रह्म­ण्य­वि­क्रिये कर्मदर्शनं, सक्रिये च द्वैतप्रपञ्चे गतिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतस्य दर्शनं येन हेतुना सम्भवति, तेन तस्य विपरीतदर्शनस्य निरसनार्थं भगवद्वचनमिति दार्ष्टान्तिकं निगमयति -
एवमित्यादिना ।

ननु कर्म­त­द­भा­व­यो­रा­रो­पि­त­त्वात् अविक्रियस्य ब्रह्मणो ज्ञान­म­त्रा­भि­प्रेतं चेत् ‘अव्य­क्तोऽ­य­म­चि­न्त्योऽयं’(भ. गी. २-२५) ‘न जायते म्रियते’(भ. गी. २ -१८) इत्यादिना पौनरुक्त्यं प्राप्तं, तत्रैव ब्रह्मात्मनो निर्वि­का­र­त्व­स्यो­क्त­त्वा­दिति, तत्राह -
तदेतदिति ।
तदेतत् -आत्मनि शङ्कितं सक्रियत्वम् अस­कृ­दु­क्त­प्र­ति­व­च­न­मपि निर्वि­का­रा­त्म­व­स्त्व­पे­क्षया अत्य­न्त­वि­प­री­त­द­र्शनं - मिथ्याज्ञानं, तेन भावितत्वं -तत्सं­स्का­र­प्र­च­य­वत्त्वं, ततोऽतिशयेन मोहमापद्यमानो लोकः श्रुतमपि तत्त्वं विस्मृत्य पुन­र्य­त्किं­चि­त्प्र­स­ङ्ग­मा­पाद्य, सक्रियत्वमेव आत्मन श्चोदयतीति, पुनः पुन­स्त­त्त्व­भू­त­मु­त्तरं भगवानभिधत्ते । वस्तुनश्च दुर्वि­ज्ञे­य­त्वात् पुनःपुनः प्रतिपादनं तत्त­द्भ्र­म­नि­रा­क­र­णा­र्थ­मु­प­यु­ज्यते । तथाच नास्ति पुन­रु­क्ति­रि­त्यर्थः ।

अस­कृ­दु­क्त­प्र­ति­व­च­न­मे­वा­नु­व­दति -
अव्यक्तोऽयमिति ।
कर्माभाव उक्त इति सम्बन्धः ।

उक्तस्य ‘न जायते म्रियते वा विपश्चित् ‘(क. १.२. १८) इत्यादिश्रुतौ प्रकृ­त­स्मृ­ता­व­स­ङ्ग­त्वा­दि­न्या­येन च प्रसि­द्ध­त्व­मस्ति, इत्याह -
श्रुतीति ।

न केवलमुक्तः कर्माभावः, किन्तु, ‘सर्वकर्माणि मनसा संन्यस्य’(भ. गी. ५-१३) इत्यादौ वक्ष्य­मा­ण­श्चे­त्याह -
वक्ष्यमाणश्चेति ।

ननु कर्मणो देहा­दि­नि­र्व­र्त्य­त्वेन त्रैविध्यात् कूट­स्थ­स्व­भा­व­स्या­त्म­नोऽ­स­ङ्ग­त्वात् तद्व्या­पा­र­रू­पस्य कर्म­णोऽ­प्र­सि­द्ध­त्वान्न तस्मिन्नकर्मणि विपरीतस्य कर्मणो दर्शनं सिध्यति, इत्याशङ्क्याह -
तस्मिन्निति ।
कर्मैव विपरीतं, तस्य दर्शनमिति यावत् । अहं कर्ते­त्या­त्म­स­मा­ना­धि­क­र­णस्य व्यापा­र­स्या­नु­भ­वात् कर्मभ्रमस्तावत् आत्म­न्य­त्य­न्त­रू­ढोऽ­स्ती­त्यर्थः ।

आत्मनि कर्म­वि­भ्र­मोऽ­स्ती­त्यत्र हेतुमाह -
यत इति ।

आत्मनो निष्क्रियत्वे कुतस्तस्मिन् यथोक्तो विभ्रमः सम्भवेत ? इत्याशङ्क्याह -
देहेति ।

इदानीमात्मनि अक­र्म­भ्र­म­मु­दा­ह­रति -
तथेत्यादिना ।

यथा शुक्तौ स्वाभा­वि­क­म­रू­प्यत्वं, रूप्य­त्व­मा­रो­पितं, तद­भा­वोऽ­प्या­रो­प्या­भा­व­त्वात् आरोपपक्षपाती । तथा आत्मनोऽपि स्वाभा­वि­क­म­वि­क्रि­यत्वं, सक्रियत्वं पुनरध्यस्तं, तदभावत्वात् , कर्म­भा­वोऽ­प्य­ध्यस्त एवेति मन्वानः सन्नुपसंहरति -
तत्रेदमिति ।
आत्मनि कर्मादिविभ्रमे लौकिके सिद्धे सति इदं - ‘कर्माणि’ इत्यादिवचनंं, तत्परिहारार्थं भग­वा­नु­क्त­वा­नि­त्यर्थः ।

संप्र­त्यु­क्तेऽर्थे श्लोका­क्ष­र­स­म­न्वयं दर्शयितुं ‘कर्मणि’ इत्यादि व्याचि­ख्या­सु­र्भू­मिकां करोति -
अत्र चेति ।

व्यवहारभूमौ कार्यकरणाधिकरणं कर्म स्वेनैव रूपेण व्यवस्थितं सत् , आत्मन्यविक्रिये कार्य­क­र­णा­रो­प­ण­द्वा­रेण सर्वै­रा­रो­पि­त­मि­त्यत्र हेतुमाह -
यत इति ।

अविवेकिनां तु कर्तुत्वाभिमानः सुतरामिति वक्तुमपिशब्दः । एवमात्मनि कर्मा­रो­प­मु­प­पाद्य प्रथमपादं व्याटष्टे -
अत इति ।

आत्मानि कर्मरहिते कर्मारोपे दृष्टान्तमाह -
नदीति ।

आरो­प­व­शा­दा­त्म­नि­ष्ठ­त्वेन कर्मणि सर्व­लो­क­प्र­सिद्धे कर्माभावं यः पश्येत् , स बुद्धिमानिति सम्बन्धः । अकर्मदर्शनस्य यथाभूतत्वं सम्यक्त्वम् । तत्र दृष्टान्तमाह -
गत्यभावमिवेति ।

द्वितीयपादं व्याकरोति -
अकर्मणि चेति ।

अध्यरोपमभिनयति -
तूष्णीमिति ।

अकर्मणि कर्मदर्शने युक्तिमाह -
अहङ्कारेति ।

पूर्वा­र्धे­नो­क्त­म­नूद्य, उत्तरार्धं विभजते -
य एवमिति ।

आत्मनि कार्य­क­र­ण­स­ङ्घा­त­स­मा­रो­प­द्वा­रेण तद्व्या­पा­र­मात्रे कर्मणि, शुक्तिकायामिव रज­त­स­मा­रो­पि­त­वि­षये तदभावम् - अकर्म, वस्तुतो यो रज­ता­भा­व­व­द­नु­भ­वति, अकर्मणि च सङ्घा­त­व्या­पा­रो­प­रमे तद्द्वारा स्वात्मनि ‘अहं तूष्णीमासे सुखम्’ इत्यारोपित गोचरे कर्म - अहङ्कारहेतुकं यस्तत्त्वतो मन्यते, स रूप्य­त­द­भा­व­वि­भा­ग­ही­न­शु­क्ति­मा­त्र­वत् आत्ममात्रं कर्म­त­द­भा­व­वि­भा­ग­शून्यं कूटस्थं पर­मा­र्थ­तोऽ­व­ग­च्छन् बुद्धिमान् इत्या­दि­स्तु­ति­यो­ग्यतां गच्छति, इत्येवं स्वाभिप्रायेण श्लोकं व्याख्याय, अत्र वृत्ति­का­र­व्या­ख्या­न­मु­त्था­प­यति -
अयमिति ।

अन्य­था­व्या­ख्या­न­मेव प्रश्नद्वारा प्रकटयति -
कथमित्यादिना ।

ईश्व­रा­र्थे­ना­नु­ष्ठाने फलाभववचनं व्याहतम् , इति मत्वाऽऽह -
किलेति ।

नित्या­ना­म­क­र्म­त्व­म­प्र­सि­द्धम् इ्त्याशङ्क्य, फल­रा­हि­त्य­गु­ण­यो­गात् तेष्व­क­र्म­त्व­व्य­व­हारः सिध्यतीत्याह -
गौण्येति ।

नित्यानामकारणं मुख्य­वृ­त्त्यै­वा­कर्म वाच्यम् , इत्याह -
तेषां चेति ।

तत्र कर्मशब्दस्य प्रत्य­वा­या­ख्य­फ­ल­हे­तु­त्व­गु­ण­यो­गाद् गौण्यैव वृत्त्या प्रवृ­त्ति­रि­त्याह -
तच्चेति ।

पातनिकामेवं कृत्वा श्लोकाक्षराणि व्याचष्टे -
तत्रेत्यादिना

अकर्मणि चेत्यादि व्याकरोति -
तथेति ।
स बुद्धि­मा­नि­त्यादि पूर्ववत् ।

परकीयं व्याख्यानं व्युदस्यति -
नैतदिति ।
नित्यं कर्माकर्म, नित्याकरणं कर्मेति ज्ञानाद् दुरि­त­नि­वृ­त्त्य­नु­प­प­त्ते­र्भ­ग­व­द्व­चनं वृत्तिकारमते बाधितं स्यादित्यर्थः ।

‘धर्मेण पापमपनुदति’(म. ना. उ. २-१) इति श्रूते­र्नि­त्या­नु­ष्ठा­नाद् दुरि­त­नि­ब­र्ह­ण­प्र­सि­द्धे­स्त­द­नु­ष्ठा­नस्य फलान्तराभावात् तदकर्मेति ज्ञात्वा अनुष्ठाने क्रियमाणे कथमशुभक्षयो नेति शङ्कते -
कथमिति ।

‘क्षेत्र­ज्ञ­स्ये­श्व­र­ज्ञा­ना­द्वि­शुद्धिः परमा मता’(या. स्मृ. ३-३४) इति स्मरणात् कर्म­णा­त्य­न्ति­का­शु­भ­क्ष­या­भा­वेऽ­प्य­ङ्गी­कृत्य परिहरति -
नित्यानामिति ।

नित्या­नु­ष्ठा­ना­द­शु­भ­क्ष­येऽपि नास्मिन् प्रकरणे तद्विवक्षितं ; ‘यज्ज्ञात्वा मोक्ष्य­सेऽ­शु­भात् ‘(भ. गी. ४-१६) इति ज्ञाना­द­शु­भ­क्ष­यस्य प्रति­ज्ञा­त­त्वात् , नच तज्ज्ञानं फला­भा­व­वि­ष­य­मे­षि­त­व्य­मि­त्याह -
नत्विति ।
अशुभस्य फला­भा­व­ज्ञा­न­का­र्य­त्वा­भा­वान्न फलाभावज्ञानात् क्षयः सिध्यतीत्यर्थः । किञ्चा­ती­न्द्रि­योऽर्थः शास्त्रा­न्नि­श्ची­यते ।

नच नित्यकर्मणां फला­भा­व­ज्ञा­ना­द­शु­भ­नि­वृ­त्ति­रि­त्यत्र शास्त्र­म­स्ती­त्याह -
नहीति ।

नित्याकरणं कर्मेति ज्ञानमपि, नाशु­भ­नि­वृ­त्ति­फ­ल­त्वेन चोदितमस्तीत्याह -
नित्यकर्मेति ।

भगवद्वचनमेवात्र प्रमा­ण­मि­त्या­श­ङ्क्याह -
नचेति ।
साधारणमेव ‘यज्ज्ञात्वा’ इत्यादि भगवतो वचनं, नतु नित्यानां फलाभावं ज्ञात्वेति विशे­ष­वि­ष­य­मि­त्यर्थः ।

अशु­भ­मो­क्ष­णा­स­म्भ­व­प्र­द­र्श­नेन कर्म­ण्य­क­र्म­द­र्श­न­नि­रा­क­र­ण­न्या­येन अकर्मणि कर्मदर्शनं निराकरोति -
एतेनेति ।

नामादिषु फलाय ब्रह्मदृष्टिवत् अकर्मण्यपि फलार्थं कर्म­दृ­ष्टि­वि­धा­ना­न्ना­शु­भ­मो­क्ष­णा­नु­प­प­त्ति­रि­त्या­शङ्क्य, आह -
नहीति ।

अत्र हि श्लोके नित्यस्य कर्तव्यतामात्रं परमते विवक्षितम् । अतश्चाकर्मणि कर्मदर्शनं विधीयते तत्त्फलायेति कल्पना परस्य सिद्धा­न्त­वि­रु­द्धे­त्याह -
नित्यस्य त्विति ।

परमतेऽपि नित्यस्य कर्त­व्य­ता­मा­त्र­मत्र श्लोके न विवक्षितं, किन्तु नित्यानुष्ठाने प्रवृ­त्ति­सि­द्ध्यर्थं नित्याकरणात् प्रत्यवायो भवतीति ज्ञानमपि कर्त­व्य­त्वे­नात्र विव­क्षि­त­मे­वे­त्या­शङ्य अह -
नचेति ।
न तावत् प्रवृत्तिरस्य विज्ञानस्य फल, नियोगादेव तदुपपत्तेः । नापि फलान्तरम् अनुपलम्भात् ; अतोऽ­फ­ल­त्वा­द­क­र­णात् प्रत्यवायो भवतीति ज्ञानं नात्र कर्तव्यत्वेन विव­क्षि­त­मि­त्यर्थः ।

किञ्चाकरणे कर्म­दृ­ष्टि­वि­धा­व­क­र­ण­स्या­ल­म्ब­न­त्वेन प्रधानत्वात् ज्ञेयत्वं वक्तव्यं, तच्च तुच्छ­त्वा­द­नु­प­प­न्न­मि­त्याह-
नापीति ।

अकरणस्यासतो नामा­दि­व­दा­श्र­य­त्वेन दर्श­ना­स­म्भ­वेऽपि, सामानाधिकरण्येन इदं रजतमितिवद् दर्शनं भवि­ष्य­ती­त्या­श­ङ्क्याह -
नापि कर्मेति ।
आदिशब्देन सर्वोत्कर्षादि गृह्यते । फलवत्त्वं स्तुतिर्वा सम्यग्ज्ञानस्य युक्तं, न मिथ्याज्ञानस्य, अनु­प­प­त्ते­रि­त्यर्थः ।

स्वप्ने मिथ्याज्ञानमपि फल­व­दु­प­ल­ब्ध­मि­त्या­शङ्क्य, मिथ्या­ज्ञा­न­स्या­शु­भा­वि­रो­धि­त्वान्न तस्मात् तन्नि­वृ­त्ति­रि­त्याह -
मिथ्या­ज्ञा­न­मे­वेति ।

अशु­भा­दे­वा­शु­भा­नि­वृत्तौ दृष्टान्तमाह -
नहीति ।

अविवेकपूर्वकम् , इदं रजतमिति, सदसतोः सामा­ना­धि­क­र­ण्या­न्मि­थ्या­ज्ञानं युक्तं, कर्माकर्मणोस्तु विवेकेन भासमानयोः सामा­ना­धि­क­र­ण्या­धीनं ज्ञानं -सिंह­दे­व­द­त्त­यो­रिव गौणं, न मिथ्याज्ञानमिति शङ्कते -
नन्विति ।

कर्माकर्मेति दर्शने फलाभावो गुणः, अकर्म कर्मेति दर्शने तु फलाभावो गुणः, तन्निमित्तमिदं ज्ञानं गौणमित्याह -
फलेति ।

यथोक्तज्ञानस्य गौपत्वेऽपि प्रामा­णि­क­फ­ला­भा­वान्न तद्नौणतोचितेति दूषयति -
नेत्यादिना ।

कर्मा­क­र्मे­त्या­दि­गौ­ण­वि­ज्ञा­नो­प­न्या­स­व्या­जेन नित्याकर्मणः कर्तव्यतायाः विव­क्षि­त­त्वा­द्नौ­ण­ज्ञा­न­स्या­फ­ल­त्व­म­दू­ष­ण­मि­त्या­श­ङ्क्याह -
नापीति ।
ज्ञाना­द­शु­भ­मो­क्ष­णस्य श्रुतस्य हानिः, अश्रुतस्य नित्या­नु­ष्ठा­नस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद्विशेषः सिध्यतीत्यर्थः ।

उक्तमेव प्रपञ्चयति -
स्वशब्देनेति ।
नरकपातः स्यादतो विधे­रे­वा­नु­ष्ठे­यानि तानीति शेषः ।

यथो­क्त­वा­च­क­श­ब्द­प्र­यो­गा­देव अपे­क्षि­ता­र्थ­सि­द्धि­स­म्भवे भगवतो व्याज­व­च­न­क­ल्प­न­म­नु­चि­त­मि­त्याह -
तत्रेति ।

प्रकृते श्लोके वृत्तिकृतां व्याख्यानेन परमाप्तस्यैव भगवतो विप्र­ल­म्भ­क­त्व­मा­पा­दि­त­मिति तदीयं व्याख्या­न­मु­पे­क्षि­त­व्य­मिति फलितमाह -
तत्रैवमिति ।

नित्य­क­र्मा­नु­ष्ठा­न­सि­द्ध्यर्थं व्याजरूपमिति भग­व­द्व­च­न­मु­चि­त­मि­त्या­शङ्क्य, स्वश­ब्दे­ना­पी­त्या­दि­प्रा­गु­क्त­प­रि­पाट्या तद­नु­ष्ठा­न­बो­ध­न­स­म्भ­वाद् मैवमित्याह -
नचैतदिति ।

वस्तुशब्देन नित्य­क­र्मा­नु­ष्ठा­न­मु­च्यते । यथा­त्म­प्र­ति­पा­दनं सुबो­ध­त्व­सि­द्ध्यर्थं पौनःपुन्येन क्रियते, तथा नित्यानामपि कर्मणामनुष्ठानं ‘कर्मण्यकर्म’(भ. गी. ४-१८) इत्या­दि­श­ब्दा­न्त­रे­णो­च्य­मानं सुबोधं स्यादिति भगवतः शब्दान्तरं युक्त­मि­त्या­शङ्क्य, तस्य नित्या­नु­ष्ठा­न­वा­च­क­त्वा­भा­वा­न्मै­व­मि­त्याह -
नापीति ।

किञ्च, पूर्वमेव नित्या­नु­ष्ठा­नस्य स्पष्ट­मु­प­दि­ष्ट­त्वान्न तस्य सुबोधनार्थं शब्दा­न्त­र­म­पे­क्षि­त­मि­त्यह –
कर्मण्येवेति ।

कर्मा­क­र्मा­दि­वि­ज्ञा­न­व्या­जेन नित्या­क­र्मा­नु­ष्ठा­न­क­र्त­व्य­तायां तात्प­र्य­मि­त्ये­त­न्नि­रा­कृत्य, कर्मा­क­र्मा­दि­द­र्शनं गौणमिति पक्षे दूषणान्तरमाह -
सर्वत्र चेति ।
लोके वेदे च यथा प्रशस्तं देवतादितत्त्वं, यच्च कर्त­व्य­म­नु­ष्ठा­ना­र्ह­म­ग्नि­हो­त्रादि, तदेव बोद्ध­व्य­मि­त्यु­च्यते ; न निष्फलं काकदन्तादि । कर्मणि अक­र्म­द­र्श­न­म­क­र्मणि च कर्मदर्शनं गौण­त्वा­दे­वा­प्र­श­स्त­म­क­र्तव्यं च । नातः तद् बोद्धव्यमिति वच­न­म­र्ह­ती­त्यर्थः ।

किञ्च, कर्मा­दे­र्मा­या­मा­त्र­त्वाद् गौणमपि तद्विषयं ज्ञानं मिथ्या­ज्ञा­न­मिति, न तस्य बोद्ध­व्य­त्व­सि­द्धि­रि­त्याह -
नचेति ।

मिथ्याज्ञानस्य बोद्ध­व्य­त्वा­भा­वेऽपि तद्विषयस्य बोद्धव्यता सिध्ये­दि­त्या­श­ङ्क्याह वस्त्वा­भा­स­त्वात् मैवमित्याह -
तत्प्र­त्यु­प­स्था­पितं वेति ।

यत्पुनरकरणस्य प्रत्य­वा­य­हे­तु­त्वम् , अकरणे गौण्या वृत्त्या कर्मशब्दप्रयोगे निमित्तमिति, तद् दूषयति -
नापीति ।

अकरणात् प्रत्यवायो भवतीत्यत्र श्रृति­स्मृ­ति­वि­रो­ध­म­भि­द­धाय, युक्ति­वि­रो­ध­म­भि­धाति -
असत इति ।

असतः सद्रूपेण भवनमभवनं च निःस्व­रू­प­त्वा­द­नु­प­प­न्नम् - निर­स्त­स­म­स्त­त­त्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्व­प्र­मा­णा­ना­म­प्रा­मा­ण्य­स­द्रू­पेण भवनमभवनं च निः स्वरू­प­त्वा­द­नु­प­प­न्नम् - निर­स्त­स­म­स्त­त­त्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्व­प्र­मा­णा­ना­म­प्रा­माण्य प्रसङ्गादित्याह -
तच्चेति ।

यत्तु नित्यानां फलराहित्यं तत्रा­क­र्म­श­ब्द­प्र­योगे निमित्तमिति, तन्निरस्यति -
नचेति ।

न केवलं विध्युद्देशे स्वफ­ला­भा­वा­न्नि­त्यानां विध्यनुपपत्तिः, अपितु धात्वर्थस्य क्लेशा­त्म­क­त्वात् तत्र श्रुतफलाभावे नैव विधि­र­व­का­श­मा­सा­द­ये­दि­त्याह -
दुःखेति ।

दुःखरूपस्यापि धात्वर्थस्य साध्यत्वेन कार्यत्वात् तद्विषयो विधिः स्यादिति चेन्नेत्याह -
दुःखस्य चेति ।

स्वर्गा­दि­फ­ला­भा­वेऽपि नित्या­ना­म­क­र­ण­नि­मि­त्त­नि­र­य­नि­रा­सार्थं दुःखरूपाणामपि स्याद­नु­ष्ठे­य­त्व­मि­त्या­शङ्क्य आह -
तदकरणे चेति ।

फलान्तराभावेऽपि मोक्षसाधनत्वाद् मुमुक्षुणा नित्यानि कर्मा­ण्य­नु­ष्ठे­या­नी­त्या­श­ङ्क्याह -
स्वाभ्युपगमेति ।

वृत्ति­का­र­व्या­ख्या­ना­स­द्भावे फलितमुपसंहरति -
तस्मादिति ।

कोऽसौ यथाश्रुतोऽर्थः श्लोक­स्ये­त्या­शङ्क्य आह -
तथाचेति
॥ १८ ॥

कर्म­ण्य­क­र्म­द­र्शनं पूर्वोक्तं स्तोतु­मु­त्त­र­श्लोकं प्रस्तौति -
तदेतदिति ।
यथोक्तदर्शित्वं - पूर्वो­क्त­द­र्श­न­स­म्प­न्न­त्वम् ।

समारम्भशब्दस्य कर्मविषयत्वं न रूढ्या, किन्तु व्युत्प­त्त्ये­त्याह -
समारभ्यन्त इतीति ।

काम­स­ङ्क­ल्प­व­र्जि­तत्वे कथं कर्म­णा­म­नु­ष्ठा­न­मि­त्या­श­ङ्क्याह -
मुधैवेति ।

उद्देश्यफलाभावे तेषामनुष्ठानं यादृच्छिकं स्यादि­त्या­शङ्क्य, प्रवृत्तेन निवृत्तेन वा तेषामनुष्ठानं यादृच्छिकं स्यादिति विकल्प्य, क्रमेण निरस्यति -
प्रवृ­त्ते­ने­त्या­दिना ।

ज्ञानग्नीत्यादि विभजते -
कर्मादाविति ।
यथोक्तज्ञानं योग्यमेव दहति, नायोग्यमिति विवक्षितत्वात् तस्मि­न्न­ग्नि­प­दम् ।

यथो­क्त­वि­ज्ञा­न­वि­र­हि­णा­मपि वैशेषिकादीनां पण्डि­त­त्व­प्र­सि­द्धि­मा­शङ्क्य, तेषां पण्डिताभासत्वं विवक्षित्वा विशिनष्टि -
परमार्थत इति
॥ १९ ॥

विवेकात् पूर्वं कर्मणि प्रवृत्तावपि, सति विवेके तत्र न प्रवृ­त्ति­रि­त्या­श­ङ्क्या­ङ्गी­क­रोति -
यस्त्विति ।
विवेकात् पूर्वमभिनिवेशेन प्रवृत्तस्य विवे­का­न­न्त­र­म­भि­नि­वे­शा­भा­वात् प्रवृ­त्त्य­स­म्भ­वेऽपि जीव­न­मा­त्र­मु­द्दिश्य प्रवृत्त्याभास सम्भवतीत्यर्थः ।

सत्यपि विवेके तत्त्व­सा­क्षा­त्का­रा­नु­द­यात् कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादि­त्या­श­ङ्क्याह -
यस्तु प्रारब्धेति ।

त्यक्त्वा इत्यादि सम­न­न्त­र­श्लो­क­म­व­ता­र­यितुं भूमिकां कृत्वा, तदवतारणप्रकारं दर्शयति -
स कुतश्चिदिति ।
लोकसङ्ग्रहादि, निमित्तं विवक्षितम् । कर्म­प­रि­त्या­गा­स­म्भवे सति तस्मिन् प्रवृत्तोऽपि नैव करोति किञ्चिदिति सम्बन्धः ।

कर्मणि प्रवृत्तो न करोति कर्मेति कथमुच्यते ? तत्राह -
स्वप्र­यो­ज­ना­भा­वा­दिति ।

कथं तहि कर्मणि प्रवर्तते ? तत्राह-
लोकेति ।

प्रवृ­त्ते­र­र्थ­क्रि­या­का­रि­त्वा­भावं ‘पश्वा­दि­भि­श्चा­वि­शे­षात्’ इति न्यायेन व्यावर्तयति -
पूर्ववदिति ।

कथं तर्हि विवे­कि­ना­म­वि­वे­किनां च विशेषः स्यादि­त्या­शङ्क्य, कर्मादौ सङ्गा­स­ङ्गा­भ्या­मि­त्याह -
कर्मणीति ।

उक्तेऽर्थे सम­न­न्त­र­श्लो­क­म­व­ता­र­यति -
ज्ञानाग्नीति ।
एतमर्थं दर्शयिष्यन्निमं श्लोकमाहेति योजना ।

यथोक्तं ज्ञानं कूट­स्था­त्म­द­र्शनं, तेन स्वरूपभूतं सुखं साक्षादनुभूय, कर्मणि तत्फले च सङ्गमपास्य, विषयेषु निर­पे­क्ष­श्चे­ष्टते विद्वानित्याह -
त्यक्त्वे­त्या­दिना ।

इष्ट­सा­ध­न­सा­पे­क्षस्य कुतो निर­पे­क्ष­त्व­मि­त्या­शङ्क्य, विशिनष्टि -
निराश्रय इति ।
यदाश्रित्येति यच्छब्देन फलसाधनमुच्यते ।

आश्र­य­र­हि­त­मि­त्य­स्यार्थं स्पष्टयति -
दृष्टेति ।
तेन ज्ञानवता पुरुषेण एवंभूतेन - त्यकत्वा कर्म­फ­ला­स­ङ्ग­मि­त्या­दिना विशे­षि­ते­ने­त्यर्थः । ततः - ससाधनात् कर्मणः सकाशादिति यावत् ।

निर्गमासम्भवे हेतुमाह -
लोकेत्यादिना ।
पूर्ववत् -ज्ञानोदयात् - प्राग­व­स्था­या­मि­वे­त्यर्थः । अभिप्रवृत्तोऽपि लोकदृष्ट्येति शेषः । नैव करोति किञ्चिदिति स्वदृष्ट्येति द्रष्टव्यम् ॥ २० ॥

सत्यपि विक्षेपके कर्मणि, कूट­स्था­त्मा­नु­स­न्धा­नस्य सिद्धे कैवल्यहेतुत्वे, विक्षेपाभावे सुतरां तस्य तद्दे­तु­त्व­सि­द्धि­रि­त्य­भि­प्रे­त्याह -
यः पुनरिति ।

पूर्वो­क्त­वि­प­री­तत्वं लोक­स­ङ्ग्र­हा­दि­नि­र­पे­क्ष­त्वम् । तदेव वैपरीत्यं स्फोरयति -
प्रागेवेति ।

ससा­ध­न­स­र्व­क­र्म­सं­न्यासे शरीरस्थितिरपि कथम् ? इत्याशङ्क्याह -
शरीरेति ।

तर्हि तथा­वि­ध­चे­ष्टा­नि­वि­ष्ट­चे­त­स्तया सम्य­ग्ज्ञा­न­ब­हि­र्मु­खस्य कुतो मुक्तिः ? इत्याशङ्क्य यथो­प­दि­ष्ट­चे­ष्टा­या­म­ना­द­रात् नैवमित्याह -
ज्ञाननिष्ठ इति ।
इति दर्शयितुमिमं श्लोकं प्राहेति पूर्ववत् । आशिषः प्रार्थ­ना­भे­दा­स्तृ­ष्णा­वि­शेषाः ।

आशिषां विदुषो निर्गतत्वे हेतुमाह -
यतेति ।

चित्तवत् आत्मनः सन्यमनं कथम् ? इत्याशङ्क्याह -
आत्मा बाह्य इति ।

द्वयोः संयमने सति अर्थ­सि­द्ध­म­र्थ­माह -
त्यक्तेति ।

सर्व­प­रि­ग्र­ह­प­रि­त्यागे देहस्थितिरपि दुःस्था स्यात् , इत्याशङ्र्याह -
शरीरमिति ।

मात्रशब्देन पौन­रु­क्त्या­द­न­र्थकं केवलपदम् , इत्याशङ्क्याह-
तत्रापीति ।

शारीरं केवलमित्यादौ शारीरपदार्थं स्फुटी­क­र्तु­मु­भ­यथा सम्भावनया विकल्पयति -
शारीरमिति ।

शरीरनिर्वर्त्यं शारी­र­मि­त्य­स्मिन् पक्षे किं दूषणं ? शरी­र­स्थि­ति­मा­त्र­प्र­यो­जनं शारी­र­मि­त्य­स्मिन् वा पक्षे किं फलम् ? इति पूर्ववादी पृच्छति -
किञ्चात इति ।

शरीरनिर्वर्त्यं शारी­र­मि­त्य­स्मिन् पक्षे सिद्धान्ती दूषणमाह -
उच्यत इति ।

शरीरेण यन्निर्वर्त्यं, तत्किं प्रतिषिद्ध ? विहितं वा ? प्रथमे, विरोधः स्यादित्याह -
यदेति ।
प्रति­षि­द्धा­च­र­णेऽपि नानि­ष्ट­प्रा­प्ति­रि­त्युक्ते प्रति­षे­ध­शा­स्र­वि­रोधः स्यादित्यर्थः ।

द्वितीये, विहितकरणे सति अनि­ष्ट­प्रा­प्त्य­भा­वा­द­प्रा­प्त­ति­षेधः स्यादित्याह -
शास्त्रीयं चेति ।
दृष्टप्रयोजनं कारीर्यादिकं कर्म, अदृष्टप्रयोजनं स्वर्गसाधनं ज्योति­ष्टो­मा­दिकं कर्मेति विभागः ।

शरीरनिर्वर्त्यं कर्म शारीरमभिमतम् , इति पक्षे दूषणान्तरमाह -
शारीरमिति ।

वाचा मनसा चाक­र्म­णोऽ­नु­ष्ठाने संन्यासिनो भवत्येव किल्बि­ष­प्राप्तिः, इत्याशङ्क्याह -
तत्रापीति ।

वाङूमनसाभ्यां विहितानुष्ठाने वा, प्रतिषिद्धकरणे वा किल्बि­ष­प्राप्तिः संन्यासिनः स्यात् , इति विकल्प्य, आद्ये जपध्यानविधिरोधः स्यादि­त्युक्त्वा, द्वितीयं दूषयति -
प्रतिषिद्धेति ।

शरीरनिर्वर्त्यं कर्म शारीरमिति पक्षमेवं प्रतिक्षिप्य, द्वितीयपक्षे लाभं दर्शयति -
यदा त्विति ।
अन्यत् देह­स्थि­ति­प्र­यो­ज­नात् कर्मणः सकाशाद् इति शेषः ।

तत्रापि विदुषः स्वदृष्ट्या न प्रवृत्तिरिति सूचयति -
लोकेति ।

विद्वान् उक्तया रीत्या वर्तमानो नाप्नोति किल्बिषमित्यत्र विवक्षितमर्थमाह -
एवंभूतस्येति ।
विधिनिषेधगम्यं कर्म देह­स्थि­ति­हे­तु­व्य­ति­रि­क्त­म­कु­र्वत इत्यर्थः ।

‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्‘(भ. गी. ४-२१) इत्यस्योक्तेन प्रकारेण परिग्रहे ‘शारीरं केवल’ मिति विशेषणद्वयं निर्दोषं सिध्यतीति फलितमाह -
एवमिति
॥ २१ ॥

पूर्वश्लोकेन सङ्गतिं दर्शयन् उत्त­र­श्लो­क­मु­त्था­प­यति -
त्यक्तेति ।
अन्ना­दे­रि­त्या­दि­श­ब्देन पादुकाच्छादनादि गृह्यते । याच­ना­दि­ने­त्या­दि­प­देन सेवा­कृ­ष्या­द्यु­पा­दी­यते । भिक्षा­ट­ना­र्थ­मु­द्यो­गात् प्राक्काले केनापि योग्येन निवेदितं भैक्ष्यमयाचितम् । अभिशस्तं पतितं च वर्जयित्वा सङ्कल्पमन्तरेण पञ्चभ्यः सप्तभ्यो वा गृहेभ्यः समानीतं भैक्ष्यम् असङ्क्लृप्तम् । सिद्धमन्नं भक्तजनैः स्वस­मी­प­मु­पा­नी­त­मु­प­प­न्नम् । यदृच्छया - स्वकी­य­प्र­य­त्न­व्य­ति­रे­के­णेति यावत् । आदिशब्देन ‘माधू­क­र­म­स­ङ्क्लृप्तं प्राक्प्र­णी­त­म­या­चि­तम् ।
तत्त­त्का­लो­प­पन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ ‘
(सं. उ. ६५)
इत्यादि गृृह्यते । आवि­ष्कु­र्व­न्निदं वाक्यमाहेति योजनीयम् ।

परो­त्क­र्षा­म­र्ष­पू­र्विका स्वस्यो­त्क­र्षा­भि­वाञ्छा विगता यस्मादिति व्युत्प­त्ति­मा­श्रित्य विवक्षितमर्थमाह -
निर्वैरेति ।

सङ्क्षेपतो दर्शितमर्थं विशदयति -
य एवंभूत इति ।

तथाऽपि प्रकृतस्य यते­र्भि­क्षा­ट­नादौ कर्तृत्वं प्रतिभाति, तदभावे भिक्षा­ट­ना­द्य­भा­वेन जीव­ना­भा­व­प्र­स­ङ्गा­दि­त्या­श­ङ्क्याह -
लोकेति ।
लौकि­कै­र­वि­वे­किभिः सह व्यवहारस्य स्नाना­च­म­न­भो­ज­ना­दि­ल­क्ष­णस्य विदुषाऽपि सामान्येन दर्शनात् तदनुसारेण लौकि­कै­र­ध्या­रो­पि­त­क­र्तृ­त्व­भो­क्तृ­त्वाद् विद्वानपि लोकदृष्ट्या भिक्षाटनादौ कर्तृ­त्व­म­नु­भ­व­ती­त्यर्थः ।

कथं तर्हि तस्याकर्तृत्वं ? तत्राह -
स्वानुभवेनेति ।

यदृ­च्छे­त्या­दि­पा­द­त्रयं व्याख्याय, कृत्वाऽ­पी­त्या­दि­च­तु­र्थ­पादं व्याचष्टे -
स एवमिति ।

भिक्षाटनादिना प्रातिभासिकेन कर्मणा विदुषो बद्धत्वाभावेऽपि कर्मान्तरेण निबद्धत्वं भवि­ष्य­ती­त्या­श­ङ्क्याह -
बन्धेति ।
ज्ञाना­ग्नि­द­ग्ध­त्वा­दि­त्येवं ‘शारीरं केवलम्’(भ. गी. ४-२१) इत्या­दा­वु­क्त­स्या­य­म­नु­वाद इति योजना । यथोक्तस्य कर्मणो युत्तया महा­वि­रो­धा­भ्यु­प­ग­म­सू­च­नार्थः अपिशब्दः ॥ २२ ॥

गत­स­ङ्ग­स्ये­त्या­दि­श्लो­कस्य व्यवहितेन सम्बन्धं वक्तुं वृत्तं कीर्तयति -
त्यक्त्वेति ।
अनेन श्लोकेन ‘नैव किञ्चित् करोति सः’(भ. गी. ४-२०) इत्यत्र कर्माभावः प्रदर्शितः इति सबन्धः ।

कस्य कर्मा­भा­व­प्र­द­र्श­नम् ? इत्याशङ्क्याह -
यः प्रारब्धेति ।

प्रारब्धकर्मा सन् योऽवतिष्ठते, तस्य कर्माभावः प्रदर्शितश्चेत् विरोधः स्यात् इत्याशङ्क्य, अवस्थाविशेषे तत्प्र­द­र्श­ना­न्मै­व­मि­त्याह -
यदेति ।

ननु ज्ञानवतः क्रिया­का­र­क­फ­ला­भा­व­द­र्शिनः कर्म­प­रि­त्या­ग­ध्रौ­व्यात् कर्मा­भा­व­व­च­न­म­प्रा­प्त­प्र­ति­षेधः स्यात् , इत्याशङ्क्याह -
आत्मन इति ।

लोकसङ्ग्रहादि निमित्तं प्रागेवोक्तम् । अवि­द्या­व­स्था­या­मि­वेति पूर्व­व­दि­त्यु­क्तम् । एवं वृत्त­म­नू­द्यो­त्त­र­श्लो­क­म­व­ता­र­यति -
यस्येति ।

यथोक्तस्यापि विद्यावतो मुक्तस्य भग­व­त्प्री­त्यर्थं कर्मा­नु­ष्ठा­नो­प­ल­म्भात् ततो बन्धारम्भः सम्भाव्येत, इत्याशङ्क्याह -
यज्ञायेति ।
धर्मा­ध­र्मा­दी­त्या­दि­श­ब्देन राग­द्वे­षा­दि­स­ङ्ग्रहः । तस्य बन्धनत्वं कर­ण­व्यु­त्पत्त्या प्रतिपत्तव्यम् । यज्ञ­नि­र्वृ­त्त्यर्थं - यज्ञशब्दितस्य भगवतो विष्णो­र्ना­रा­य­णस्य प्रीति­स­म्प­त्त्य­र्थ­मिति यावत् ।

ज्ञानमेव वाञ्छतो ज्ञानस्य प्रतिबन्धकं कर्म परिशङ्कितं परिहरति -
कर्मेति ।

सम­ग्रे­णे­त्य­ङ्गी­कृत्य व्याचष्टे -
सहेत्यादिना
॥ २३ ॥

‘नाभुक्तं क्षीयते कर्म’(ब्रह्म­वै­व­र्त­पु­राणे ?) इति स्मृतिमाश्रित्य शङ्कते -
कस्मादिति ।

समस्तस्य - क्रिया­का­र­क­फ­ला­त्म­कस्य द्वैतस्य ब्रह्म­मा­त्र­त्वेन बाधितत्वाद् ब्रह्मविदो ब्रह्ममात्रस्य कर्म प्रविलीयते सर्वम् , इति युक्तमित्याह-
उच्यत इति ।

ब्रह्मविदो ब्रह्मैव सर्व­क्रि­या­का­र­क­फ­ल­जातं द्वैतमित्यत्र हेतु­त्वे­ना­न­न्त­र­श्लो­क­म­व­ता­र­यति -
यत इति ।

अर्पणशब्दस्य करणविषयत्वं दर्शयन्नर्पणं ब्रह्मेति पदद्वयपक्षे सामानाधिकरण्यं साधयति -
येनेति ।

यद्रजतं सा शुक्तिरितिवद् बाधायामिदं सामा­ना­धि­क­र­ण्य­मि­त्याह -
तस्येति ।

तत्र दृष्टान्तमाह -
यथेति ।

उक्तेऽर्थे पदद्वयमवतारयति -
तद्वदुच्यत इति ।

उक्तमेवार्थं स्पष्टयति -
यथा यदिति ।

समासशङ्कां व्यावर्तयति -
ब्रह्मेति ।

पदद्वयपक्षे विवक्षितमर्थं कथयति -
यदर्पणेति ।

ब्रह्म हविरिति पदद्वयमवतार्य व्याचष्टे -
ब्रह्मेत्यादिना ।

यदर्पणबुद्ध्या गृह्यते तद्ब्रह्मविदो ब्रह्मैवेति यथोक्तं, तथेहापीत्याह -
तथेति ।
अस्येति षष्ठी ब्रह्म­वि­द­म­धि­क­रोति ।

पूर्व­व­द­स­मा­स­मा­शङ्क्य व्यावर्तयन् पदान्तरमवतार्य व्याकरोति -
तथेति ।
प्रागु­क्ता­स­मा­स­व­दिति व्यतिरेकः ।

तत्र विवक्षितमर्थमाह -
अग्निरपीति ।

ब्रह्मणेति पद­स्या­भि­म­त­म­र्थ­माह -
ब्रह्मणेति ।
कर्त्रा हूयत इति सम्बन्धः ।

कर्ता ब्रह्मणः सकाशाद् व्यतिरिक्तो नास्ती­त्ये­त­द­भि­म­तम् , इत्याह -
ब्रह्मैवेति ।

हुतमित्यस्य विवक्षितमर्थमाह -
यत्तेनेति ।

ब्रह्मैव तेनेत्यादि भागं विभजते -
ब्रह्मै­वे­त्या­दिना ।

‘ब्रह्म कर्म’ इत्याद्यवतार्य व्याकरोति -
ब्रह्मेति ।
कर्मत्वं ब्रह्मणो ज्ञेयत्वात् प्राप्यत्वाच्च प्रतिपत्तव्यम् ।

एवं ब्रह्मा­र्प­ण­म­न्त्र­स्या­क्ष­रा­र्थ­मुक्त्वा तात्पर्यार्थमाह -
एवमिति ।

निवृत्तकर्माणं संन्यासिनं प्रति कथमस्य मन्त्रस्य प्रवृत्तिः ? इत्याशङ्क्याह -
निवृत्तेति ।
यथा बाह्य­य­ज्ञा­नु­ष्ठा­ना­स­म­र्थ­स्या­ज्ञस्य सङ्क­ल्पा­त्म­क­यज्ञो दृष्टः, तथा ज्ञानस्य यज्ञत्वसम्पादनं स्तुत्यर्थं सुतरामुपपद्यते, तेन स्तुतिलाभात् कल्पनायाः स्वाधी­न­त्वा­च्चे­त्यर्थः ।

ज्ञानस्य यज्ञ­त्व­स­म्पा­द­न­म­भि­न­यति -
यदर्पणादीति ।

केन प्रमाणेनात्र यज्ञ­त्व­स­म्पा­द­न­म­व­ग­तम् ? इत्याशङ्क्य, अर्पणादीनां विशेषतो ब्रह्म­त्वा­भि­धा­ना­नु­प­पत्त्या, इत्वाह -
अन्यथेति ।

ज्ञानस्य यज्ञत्वे सम्पादिते फलितमाह -
तस्मादिति ।

‘आत्मैवेदं सर्वम्’(छा. उ. ७-२५-२) इत्या­त्म­व्य­ति­रे­केण सर्व­स्या­व­स्तुत्व प्रति­पा­द्य­मा­नस्य कर्माभावे हेत्वन्तरमाह -
कारकेति ।

कार­क­बु­द्धे­स्ते­ष्व­भि­मा­न­स्या­भा­वेऽपि किमिति कर्म न स्याद् ? इत्याशङ्क्याह -
नहीति ।

उक्त­मे­वा­न्व­य­व्य­ति­रे­काभ्यां द्राढयति -
सर्वमेवेति ।
‘इन्द्राय’ इत्यादिना शब्देन समर्पितो देवताविशेषः सम्प्रदानं कारकम् , आदि शब्दाद् व्रीह्या­दि­क­र­ण­का­रकं तद्वि­ष­य­बु­द्धि­मत् , कर्ताऽ स्मीत्य­भि­मा­न­पू­र्वकं भोक्ष्ये फलमस्येति फलभिसन्धिमच्च कर्म दृष्टमिति योजना ।

अन्वयमुक्त्वा व्यतिरेकमाह -
नेत्यादिना ।
उपमृदिता क्रिया­दि­भे­द­वि­षया बुद्धिर्यस्य तत्कर्म । तथा कर्तृ­त्वा­भि­मा­न­पू­र्वको भोक्ष्ये फलमस्येति योऽभिसन्धिस्तेन रहितं च न कर्म दृष्टमित्यन्वयः ।

तथाऽपि ब्रह्मविदो भासमानकर्माभावे किमायातम् ? इत्याशङ्क्याह -
इदमिति ।
यदिदं ब्रह्मविदो दृश्यमानम् कर्म, तदहमस्मि ब्रह्मेति बुद्ध्या निरा­कृ­त­का­र­का­दि­भे­द­वि­ष­य­बु­द्धि­मत् । अतश्च कर्मैव न भवति । तत्त्वज्ञाने सति व्यापकं कारकादि, व्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति । तत्त्वविदः शरीरादिचेष्टा, कर्माभावः कर्म­व्या­प­क­र­हि­त­त्वात् सुषु­प्त­चे­ष्टा­व­दि­त्यर्थः ।

ज्ञानवतो दृश्यमानं कर्म अकर्मैवेत्यत्र भगवदनुमतिमाह -
तथाचेति ।

ब्रह्मविदो दृष्टं कर्म नास्ती­त्यु­क्तेऽपि तत्का­र­णा­नु­प­म­र्दात् पुनर्भविष्यति इत्याशङ्क्याह -
तथाच दर्शयन्निति ।

अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते । तथाऽपि तस्य कर्म अकर्मैव इत्यत्र दृष्टान्तमाह -
दृष्टा चेति ।

विद्वत्कर्मापि कर्म­त्वा­वि­शे­षा­दि­त­र­क­र्म­वत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह -
तथेति ।

इदं कर्म एवं कर्तव्यम् , अस्य च फलं भोक्त­व्य­मि­ति­मतिः, तत्पूर्वकाणि अतत्पूर्वकाणि च कर्माणि । तेषा­म­वा­न्त­र­भे­द­स­ङ्ग्र­स­न्ग्र­हा­र्थ­मा­दि­प­दम् । दार्ष्टा­न्ति­क­माह -
तथेति ।

सप्तम्या विद्वत्प्रकरणं परामृष्टम् । षष्ठ्यौ समानाधिकरणे । उक्तेऽर्थे पूर्व­वा­क्य­म­नु­कू­ल­यति -
अत इति ।

ब्रह्मा­र्प­ण­म­न्त्रस्य स्वव्या­ख्या­न­मुक्त्वा, स्वयू­थ्य­व्या­ख्या­न­म­नु­व­दति -
अत्रेति ।

प्रसि­द्धो­द्दे­शे­ना­प्र­सि­द्ध­वि­धा­नस्य न्याय्य­त्वा­द­प्र­सि­द्धो­द्दे­शेन प्रसिद्धविधानं कथम् ? इत्याशङ्क्याह -
ब्रह्मैवेति ।
किलेत्यस्मिन् व्याख्याने सिद्धा­न्ति­नोऽ­स­म्प्र­ति­पत्तिं सूचयति । कर्तृ­क­र्म­क­र­ण­स­म्प्र­दा­ना­धि­क­र­ण­रू­पेण पञ्चविेधेन ब्रह्मैव व्यवस्थितं कर्म करो­ती­त्य­ङ्गी­का­रात् तद­प्र­सि­द्ध्य­भा­वात् तद­नु­वा­दे­ना­र्प­णा­दि­ष्व­वि­रुद्धः तद्दृ­ष्टि­वि­धि­रि­त्यर्थः ।

दृष्टिविधिपक्षे सिद्धा­न्ता­द्वि­शेषं दर्शयति -
तत्रेति ।

अर्पणादिषु कर्तव्यां ब्रह्मबुद्धिं दृष्टान्ताभ्यां स्पष्टयति -
यथेत्यादिना ।

दृष्टिविधाने विधे­य­दृ­ष्टे­र्मा­न­स­क्रि­या­त्वेन सम्य­ग्ज्ञा­न­त्वा­भा­वात् प्रकरणभङ्गः स्यात् , इत्यभिप्रेत्य परिहरति -
सत्यमेवमिति ।

विधि­त्सि­त­दृ­ष्टि­स्तु­ति­प­र­मेव प्रकरणं, न ज्ञानस्तुतिपरम् , इत्याशङ्क्य, प्रक­र­ण­प­र्या­लो­च­नया ज्ञान­स्तु­ति­रे­वात्र प्रतिभातीति प्रतिपादयति -
अत्र त्विति ।

किञ्च ब्रह्मा­र्प­ण­म­न्त्र­स्यापि सम्य­ग्ज्ञा­न­स्तुतौ सामर्थ्यं प्रतिभतीत्याह -
अत्र चेति ।

ननु अर्पणादिषु ब्रह्मदृष्टिं कुर्वतामपि ब्रह्म­वि­द्यै­वात्र विवक्षितेति पक्ष­भे­दा­सि­द्धि­रिति चेत् , तत्राह -
ये त्विति ।
यथा ब्रह्मदृष्ट्या नामा­दि­क­मु­पास्यं, तथाऽर्पणादिषु ब्रह्म­दृ­ष्टि­क­रणे सति अर्पणादिकमेव प्राधान्येन ज्ञेयमिति, ब्रह्मविद्या यथोक्तेन वाक्येन विवक्षिता न स्यादित्यर्थः ।

किञ्च ‘ब्रह्मैव तेन गन्तव्यम् ‘इति ब्रह्म­प्रा­प्ति­फ­ला­भि­धा­ना­दपि दृष्टि­वि­धा­न­म­श्लि­ष्ट­मि­त्याह -
नचेति ।
नचा­र्प­णा­द्या­ल­म्बना दृष्टिर्ब्रह्म प्रापयति, ‘अप्र­ती­का­ल­म्ब­नान् नयति’(ब्र. सू. ४-३-१५) इति न्याय­वि­रो­धा­दि­ति­भावः ।

दृष्टिविधानेऽपि नियोगबलादेन स्वर्गवददृष्टो मोक्षो भविष्यति, इत्याशङ्क्याह -
विरुद्धं चेति ।
ज्ञानादेव कैवल्यमुक्त्वा मार्गा­न्त­रा­प­वा­दिन्या श्रुत्या विरुद्धं मोक्ष­स्या­वि­द्या­नि­वृ­त्ति­ल­क्ष­णस्य दृष्टस्य नैयो­गि­क­त्व­व­च­न­मि­त्यर्थः ।

दृष्टि­नि­यो­गा­न्मोक्षो भवतीत्येतत् प्रकरणविरुद्धं च इत्याह-
प्रकृतेति ।

तदेव प्रपञ्चयति -
सम्यग्दर्शनं चेति ।

अन्ते च सम्यग्दर्शनं प्रकृतमिति सम्बन्धः । तत्र हेतुः -
तस्यैवेति ।

सम्य­ग्ज्ञा­ने­नो­प­क्रम्य तेनै­वो­प­सं­हा­रेऽपि मध्ये किञ्चि­द­न्य­दु­क्त­मिति प्रक­र­ण­स्या­त­द्वि­ष­य­त्वम् , इत्याशङ्क्याह -
श्रेयानिति ।

प्रकरणे सम्य­ग्ज्ञा­न­वि­षये सति अनुपपन्नो दर्शनविधिरिति फलितमाह -
तत्रेति ।

ब्रह्मा­र्प­ण­मन्त्रे पर­की­य­व्या­ख्या­ना­स­म्भवे स्वकी­य­व्या­ख्यानं व्यवस्थितम् , इत्युपसंहरति -
तस्मादिति
॥ २४ ॥

ज्ञानस्य यज्ञत्वं सम्पाद्य पूर्वश्लोके स्थिते सति, अधुना तस्यैव ज्ञानस्य स्तुत्यर्थं यज्ञा­न्त­र­नि­र्दे­शा­र्थ­मु­त्त­र­ग्र­न्थ­प्र­वृत्तिः, इत्याह -
तत्रेति ।

सर्वस्य श्रेयःसाधनस्य मुख्य­गौ­ण­वृ­त्तिभ्यां यज्ञत्वं दर्शयन्नादौ यज्ञ­द्व­य­मा­द­र्श­यति -
दैवमेवेत्यादिना ।

प्रतीकमादाय दैवयज्ञं व्याचष्टे -
देवा इति ।

सम्य­ग्ज्ञा­नाख्यं यज्ञं विभजते -
ब्रह्माग्नाविति ।

तत्र ब्रह्मशब्दार्थं श्रृत्य­व­ष्ट­म्भेन स्पष्टयति -
सत्यमिति ।

यदजडम् अनृतविपरीतम् अपरिच्छिन्नं ब्रह्म, तस्य परमानन्दत्वेन पर­म­पु­रु­षा­र्थ­त्व­माह -
विज्ञानमिति ।

तस्य ज्ञाना­धि­क­र­ण­त्वेन ज्ञान­त्व­मौ­प­चा­रि­कम् , इत्याशङ्क्याह -
यत्साक्षादिति ।

जीवब्रह्मविभागे कथ­म­प­रि­च्छि­न्न­त्वम् ? इत्याशङ्क्य विशिनष्टि -
य आत्मेति ।

परस्यैवात्मत्वं सर्वस्माद् देहा­दे­र­व्या­कृ­ता­न्तात् आन्तरत्वेन साधयति -
सर्वान्तर इति ।
विधिमुखं सर्व­मे­वो­प­नि­ष­द्वाक्यं ब्रह्म­वि­ष­य­मा­दि­श­ब्दार्थः ।

निषेधमुखं ब्रह्म­वि­ष­य­मु­प­नि­ष­द्वा­क्य­म­शे­ष­मे­वा­र्थतो निबध्नाति -
अशनायेति ।

ब्रह्म­ण्य­ग्नि­श­ब्द­प्र­योगे निमित्तमाह -
स होमेति ।
बुद्ध्यारूढतया सर्वस्य दाहकत्वात् विलयस्य वा हेतुत्वादिति द्रष्टव्यम् ।

यज्ञ­श­ब्द­स्या­त्मनि त्वम्पदार्थे प्रयोगे हेतुमाह -
आत्मनामस्विति ।

आधाराधेयभावेन वास्तवभेदं ब्रह्मा­त्म­नो­र्व्या­व­र्त­यतिं -
परमार्थत इति ।

कथं तर्हि होमः ? नहि तस्यैव तत्र होमः सम्भवति, इत्याशङ्क्याह -
बुद्ध्यादीति ।

उपाधिसम्योगफलं कथयति -
अध्यस्तेति ।

उपा­ध्य­ध्या­स­द्वारा तद्धर्माध्यासे प्राप्तमर्थं निर्दिशति -
आहुतीति ।

इत्थ­म्भू­त­ल­क्षणां तृतीयामेव व्याकरोति -
उक्तेति ।
अश­ना­या­दि­स­र्व­सं­सा­र­ध­र्म­व­र्जि­तेन निर्विशेषेण स्वरूपेणेति यावत् ।

आत्मनो ब्रह्मणि होममेव प्रकटयति -
सोपाधिकस्येति ।

अपर इत्यस्यार्थं स्फोरयति -
ब्रह्मेति ।

उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु ‘ब्रह्मार्पणम्’ इत्या­दि­श्लो­कै­रू­प­क्षि­प्य­मा­णत्वं दर्शयति -
सोऽयमिति ।

उप­क्षे­प­प्र­यो­ज­न­माह -
श्रेयानिति
॥ २५ ॥

सम्प्रति यज्ञ­द्व­य­मु­प­न्य­स्यति -
श्रोत्रादीनीति ।

बाह्यानां करणानां मनसि संयमस्यैकत्वात् कथं संयमाग्निष्विति बहुवचनम् ? इत्याशङ्क्याह -
प्रती­न्द्रि­य­मिति ।

सम्यमानां प्रत्या­हा­रा­धि­क­र­ण­त्वेन व्यवस्थितानां मनोरूपाणां होमा­धा­र­त्वा­द­ग्नित्वं व्यपदिशति -
संयमा इति ।

विष­ये­भ्योऽ­न्त­र्बा­ह्या­नी­न्द्रि­याणि प्रत्याहरन्तीति सम्यमयज्ञं सन्क्षिप्य दर्शयति -
इन्द्रियेति ।

श्रोत्रा­दी­न्द्रि­या­ग्निषु शब्दा­दि­वि­ष­य­हो­मस्य तत्त­दि­न्द्रि­यै­स्त­त्त­द्वि­ष­यो­प­भो­ग­ल­क्ष­णस्य सर्व­सा­धा­र­ण­त्व­मा­शङ्क्य, प्रतिषिद्धान् वर्जयित्वा रागद्वेषरहितो भूत्वा प्राप्तान् विषयानुपभुञ्जते तैस्तै­रि­न्द्रियैः इति विवक्षितं होमं विशदयति-
श्रोत्रा­दि­भि­रिति
॥ २६ ॥

यज्ञान्तरं कथयति -
किञ्चेति ।

इन्द्रियाणां कर्माणि -श्रवणवदनादीनि, आत्मनि संयमो धार­णा­ध्या­न­स­मा­धि­ल­क्षणः । सर्वमपि व्यापारं निरुध्य आत्मनि चित्तसमाधानं कुर्वन्ति, इत्याह -
विवेकेति
॥ २७ ॥

यज्ञ­ष­ट्क­म­व­ता­र­यति -
द्रव्येति ।

तत्र द्रव्ययज्ञान् पुरुषानुपादाय विभजते -
तीर्थेष्विति ।
तपस्विनां यज्ञबुद्ध्या तपोऽनुतिष्ठन्तो नियमवन्त इत्यर्थः । प्रत्या­हा­रा­दी­त्या­दि­श­ब्देन यम­नि­य­मा­स­न­ध्या­न­धा­र­णा­स­मा­धयो गृह्यन्ते । यथाविधि प्रामु­ख­त्व­प­वि­त्र­पा­णि­त्वा­द्य­ङ्ग­वि­धि­म­न­ति­क्र­म्येति यावत् । व्रतानां तीक्ष्णी­क­र­ण­म­ति­दृ­ढ­त्वम् ॥ २८ ॥

प्राणायामाख्यं यज्ञमुदाहरति -
किञ्चेति ।

प्राणा­या­म­प­रा­यणाः सन्तो रेचकं पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह -
प्राणेति
॥ २९ ॥

प्राणा­पा­न­यो­र्गती - श्वासप्रश्वासौ निरुध्य किं कुर्वन्ति ? इत्यपेक्षायामाह -
किञ्चेति ।
प्राणा­पा­न­ग­ति­नि­रो­ध­रूपं कुम्भकं कृत्वा पुनः­पु­न­र्वा­यु­जयं कुर्व­न्ती­त्यर्थः । आहारस्य परिमितत्वं हित­त्व­मे­ध्य­त्वो­प­ल­क्ष­णा­र्थम् ।

प्राणानां प्राणेषु होममेव विभजते -
यस्येति ।

जितेषु वायु­भे­दे­ष्व­जि­तानां तेषां होमप्रकारं प्रकटयति -
ते तत्रेति ।

प्रकृतान् यज्ञानुपसंहरति -
सर्वेऽपीति
॥ ३० ॥

यथो­क्त­य­ज्ञ­नि­र्व­र्त­ना­न­न्तरं क्षीणे कल्मषे किं स्यात् ? इत्याशङ्क्य आह -
एवमिति ।

यथोक्तानां यज्ञानां मध्ये केनचिदपि यज्ञेन अविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति -
नायमिति ।

कथं यथो­क्त­य­ज्ञा­नु­ष्ठा­यि­नाम् अवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिः ? इत्याशङ्क्य, मुमुक्षुत्वे सति चित्त­शु­द्धि­द्वारा, इत्याह - मुमु­क्ष­व­श्चे­दिति । तत्किमिदानीं साक्षादेव मोक्षो विविक्षितः ? तथाच गतिश्रुतिविरोधः स्याद् , इत्याशङ्क्य, गति­नि­र्दे­श­सा­म­र्थ्यात् क्रममुक्तिः अत्राभिप्रेता, इत्याह -
कालातीति ।

तृतीयं पादं व्याचष्टे -
नायमिति ।
विवक्षितं कैमुतिकन्यायमाह - कुत इति । साधारणलोकाभावे पुन­र­सा­धा­र­ण­लो­क­प्राप्तिः दूरनिरस्ता इत्यर्थः । यथोक्तेऽर्थे बुद्धिसमाधानं कुरु­कु­ल­प्र­धा­नस्य अर्जुनस्य अनायासलभ्यमिति वक्तुं कुरुसत्तम इत्युक्तम् ॥ ३१ ॥

उक्तानां यज्ञानां वेदमूलकत्वेन उत्प्रे­क्षा­नि­ब­न्ध­नत्वं निरस्यति -
एवमिति ।

आत्म­व्या­पा­र­सा­ध्य­त्वम् उक्त­क­र्म­णा­मा­शङ्क्य, दूषयति -
कर्मजानिति ।

आत्मनो निर्व्या­पा­र­त्व­ज्ञाने फलमाह-
एवमिति ।

कथं यथोक्तानां यज्ञानां वेदस्य मुखे विस्तीर्णत्वम् ? इत्याशङ्क्य आह -
वेदद्वारेणेति ।

तेन अवगम्यमानत्वमेव उदाहरति - तद्यथेति । ‘एतद्ध स्म वै तत्पूर्वे विद्वांस आहुः’(बृ. उ. ४-४-२२) इत्युपक्रम्य अध्य­य­ना­द्या­क्षिप्य, हेत्वा­का­ङ्क्षा­या­मुक्तं -
वाचि हीति ।
ज्ञान­श­क्ति­म­द्वि­षये क्रिया­श­क्ति­म­दु­पं­स­हारः अत्र विवक्षितः, ‘प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः’(एे. आ. ३-२-६) इति वाक्यम् आदिशब्दार्थः ।

ज्ञानशक्तिमतां क्रियाशक्तिमतां च अन्यो­न्यो­त्प­त्ति­प्र­ल­य­त्वात् तदभावे नाध्य­य­ना­दि­सिद्धिः इत्यर्थः कर्मणाम् आत्म­ज­न्य­त्वा­भावे हेतुमाह -
निर्व्या­पा­रो­हीति ।

तस्य च निर्व्यापारत्वं फलवत्त्वात् ज्ञातव्यम् , इत्याह -
अत इति ।

एवं ज्ञानमेव ज्ञापयन् उक्तं व्यनक्ति -
नेत्यादिना
॥ ३२ ॥

कर्मयोगेऽनेकधा अभिहिते, सर्वस्व श्रेयःसाधनस्य कर्मा­त्म­क­त्व­प्र­ति­पत्त्या केवलं ज्ञानम् अनाद्रियमाणम् अर्जुनमालक्ष्य, वृत्ता­नु­वा­द­पू­र्व­कम् उत्तरश्लोकस्य तात्पर्यमाह -
ब्रह्मेत्यादिना ।

सिद्धेति ।
सिद्धं पुरु­षा­र्थ­भू­त­म्पु­रु­षा­पे­क्षित लक्षणं प्रयोजनं येषां यज्ञानां, तैः । अन­न्त­रो­प­दि­ष्टै­रिति यावत् ।

प्रश्नपूर्वकं स्तुतिप्रकारं प्रकटयति -
कथमित्यादिना ।

ज्ञानयज्ञस्य द्रव्यज्ञात् प्रशस्यतरत्वे हेतुमाह -
सर्वमिति ।

द्रव्य­सा­ध­न­सा­ध्याद् इत्युपलक्षणं स्वाध्यायादेरपि । ततोऽपि ज्ञानयज्ञस्य श्रेय­स्त्वा­वि­शे­षात् , द्रव्य­म­या­दि­य­ज्ञेभ्यो ज्ञानयज्ञस्य प्रशस्यतरत्वं प्रपञ्चयति -
द्रव्यमयो हिति ।
फलस्य -अभ्यु­द­य­स्ये­त्यर्थः । न फलारम्भकः -न कस्य­चि­त्फ­ल­स्यो­त्पा­दकः । किन्तु नित्यसिद्धस्य मोक्ष­स्या­भि­व्य­ञ्जक इत्यर्थः ।

तस्य प्रशस्यतरत्वे हेत्वन्तरमाह -
यत इति ।
सपस्तं कर्मेति अग्नि­हो­त्रा­दि­क­मु­च्यते । अखिलम् - अविद्यमानं खिलं - शेषः अस्येति, अनल्पम् । महत्तरमिति यावत् ।

सर्वम् अखिलम् - इति पद­द्व­यो­पा­दा­न­म­स­ङ्को­चा­र्थम् । सर्वं कर्म ज्ञानेऽ­न्त­र्भ­वति इत्यत्र छान्दो­ग्य­श्रुतिं प्रमाणयति -
यथेति ।

चतुरायके हि द्यूते कश्चिदायः चतुरङ्कस्सन् कृतशब्देनोच्यते - तस्मै विजिताय कृताय तादर्थ्येन अधरेयाः तस्मात् अधस्ताद्भाविनः त्रिद्व्ये­काङ्काः त्रेता­द्वा­प­र­क­लि­ना­मानः, संयन्ति - आयाः सङ्गच्छन्ते । चतुरङ्के खलु आये त्रिद् व्यका­ङ्का­ना­मा­या­नाम् अन्तर्मावो भवति । महा­सं­ख्या­या­म­वा­न्त­र­स­ङ्ख्या­न्त­र्भा­वा­व­श्य­म्भा­वात् । एवम् एनं विद्यावन्तं पुरुषं, सर्वं तदाभिमुख्येन समेति - सङ्गच्छते । किं तत्सर्वं ? यद्विदुषि पुरु­षेऽ­न्त­र्भ­वति, तदाह -
यत्किञ्चिदिति ।
प्रजाः सर्वाः यत्किंचिदपि साधु कर्म कुर्वन्ति, तत्स­र्व­मि­त्यर्थः ।

एन­म­भि­स­मे­ती­त्युक्तं, तमेव विद्यावन्तं पुरुषं विशिनष्टि -
यस्तदिति ।
किं तदित्युक्तं, तदेव विशदयति -यत्स इति । स रैक्को यत् तत्त्वं वेद, तत् तत्त्वं योऽन्योऽपि जानाति, तमेनं सर्वं साधु कर्म अभिसमेतीति योजना ॥ ३३ ॥

यद्येवं प्रशस्यतरमिदं ज्ञानं, तर्हि केनोपायेन तत्प्राप्तिः, इति पृच्छति -
तदेतदिति ।

ज्ञानप्राप्तौ प्रत्या­स­न्न­मु­पा­यम् उपदिशति -
उच्यत इति ।

तद्विज्ञानं गुरुभ्यो विद्धि, गुरवश्व प्रणि­पा­ता­दि­भि­रु­पायैः आव­र्जि­त­चे­त­सो­व­दि­ष्यन्ति, इत्याह -
तद्विद्धीति ।

उपदेष्टृत्वम् - उपदेशकर्तुत्वम् । परो­क्ष­ज्ञा­न­मा­त्रेण न भवति, इत्याह -
उपदेक्ष्यन्तीति ।
तदिति प्रेप्सितं ज्ञानसाधनं गृह्यते । येन विधिना इति शेषदर्शनात् । यद्वा, येन आचा­र्या­व­र्ज­न­प्र­का­रेण तदुपदेशवशात् अपेक्षितं ज्ञानं लभ्यते, तथा तज्ज्ञा­न­मा­चा­र्येभ्यो लभस्व इत्यर्थः ।

तदेव स्फुटयति -
आचार्या इति ।
एवमादिना इति आदिशब्देन शमादयो गृह्यन्ते, एवमादिना विद्धीति पूर्वेण सम्बन्धः ।

उत्तरार्धं व्याचष्टे-
प्रश्रयेणेति ।
प्रश्रयः - भक्ति­श्र­द्धा­पू­र्वको निरतिशयो नातिविशेषः । यथोक्तविशेषणं पूर्वोक्तेन प्रकारेण प्रश­स्य­त­म­मि­त्यर्थः ।

विशेषणस्य पौन­रु­क्त्य­प­रि­हा­रा­र्थम् अर्थभेदं कथयति -
ज्ञानवन्तोऽपीति ।

ज्ञनिन इत्युक्त्वा पुन­स्त­त्त्व­द­र्शिन इति ब्रुवतो भग­व­तोऽ­भि­प्रा­य­माह -
ये सम्यगिति ।
बहुवचनं चैतत् आचार्यविषयं, बहुभ्यः श्रोतव्यं बहुधा चेति­सा­मा­न्या­न्या­या­भ्य­नु­ज्ञा­ना­र्थम् । न त्वात्म­ज्ञा­न­म­धि­कृत्य आचार्यवहुत्वं विवक्षितम् । तस्य तत्त्व­सा­क्षा­त्का­र­व­दा­चा­र्य­मा­त्रो­प­दे­शा­देव उदयसम्भवात् ॥ ३४ ॥

विशि­ष्टै­रा­चार्यैः उपदिष्टे ज्ञाने कार्यक्षमे प्राप्ते सति, समनन्तरवचनमपि योग्यविषयम् अर्थवद्भवति इत्याह -
तथाचेति ।
अतः, तस्मिन्विशिष्टे ज्ञाने कार्यक्षमे त्वदी­य­मो­हा­पो­ह­हेतौ निष्ठावता भवितव्यम् , इति शेषः ।

तत्र निष्ठा­प्र­ति­ष्ठायै तदेव ज्ञानं पुनर्विशिनष्टि -
येनेति ।

‘यज्ज्ञात्वा’ इत्ययुक्तं, ज्ञाने ज्ञानायोगात् , इत्याशङ्क्य, प्राप्त्य­र्थ­त्व­म­धि­पू­र्वस्य गमेरङ्गीकृत्य व्याकरोति -
अधिगम्येति ।

इतश्च आचा­र्यो­प­दे­श­लभ्ये ज्ञाने फलवति प्रतिष्ठावता भवितव्यम् , इत्याह -
किञ्चेति ।

जीवे चेश्वरे चोभयत्र भूतानां प्रति­ष्ठि­त­त्व­प्र­ति­नि­र्देशे मेदवादानुमतिः स्याद् ? इत्याशङ्क्याह -
क्षेत्रज्ञेति ।

मूलप्रमाणाभावे कथं तदेत्वदर्शनं स्याद् ? इत्याशङ्क्य आह -
सर्वेति
॥ ३५ ॥

ज्ञानस्य प्रकारान्तरेण प्रशम्सां प्रस्तौति -
किञ्चेति ।

पापकारिभ्यः सर्वेभ्यः सकाशात् अतिशयेन पापकारित्वम् एकस्मिन् असम्भावितमपि ज्ञान­मा­हा­त्म्य­प्र­सि­द्य­र्थ­म­ङ्गी­कृत्य, ब्रवीति -
अपिचेदिति ।

ब्रह्मा­त्मै­क्य­ज्ञा­नस्य सर्व­पा­प­नि­व­र्त­क­त्वेन माहात्म्यम् इदानीं प्रकटयति -
सर्वमिति ।

अधर्मे निवृत्तेऽपि धर्म­प्र­ति­ब­न्धात् ज्ञानवतोऽपि न मोक्षः सम्भवति इत्याशङ्क्य आह –
धर्मोऽपीति ।
इहेति अध्या­त्म­शास्त्रं गृह्यते ॥ ३६ ॥

ज्ञाने सत्यपि धर्मा­ध­र्म­यो­रु­प­ल­म्भात् कुतस्ततो निवृत्तिः ? इत्याशङ्क्य, ज्ञानस्य धर्मा­ध­र्म­नि­व­र्त­कत्वं दृष्टान्तेन दर्शयितुम् अन­न्त­र­श्लो­क­म­व­ता­र­यति -
ज्ञानमिति ।

योग्या­यो­ग्य­वि­भा­गेन निव­र्त­क­त्वा­नि­व­र्त­क­त्व­वि­भा­ग­मु­दा­ह­रति -
यथेति ।

दृष्टा­न्ता­नु­रूपं दार्ष्टा­न्ति­क­मा­चष्टे -
ज्ञानाग्निरिति ।

योग्यविषयेऽपि दाहकत्वम् अग्नेः अप्र­ति­ब­न्धा­पे­क्षया, इति विवक्षित्वा विशिनष्टि -
सम्यक् इति ।

दार्ष्टन्तिकं व्याचष्टे -
ज्ञानमेवेति ।

ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति नोच्यते, नीर्बीजीकरोति कर्म इति किमिति व्याख्यानम् ? इत्याशङ्क्य, आह -
नहीति ।
ज्ञानस्य स्वप्र­मे­या­व­र­णा­ज्ञा­ना­पा­क­रणे सामर्थ्यस्य लोके दृष्टत्वात् अवि­क्रि­य­ब्र­ह्मा­त्म­ज्ञा­न­मपि तदज्ञानं निवर्तयत् तज्ज­न्य­क­र्तृ­त्व­भ्रमं कर्मबीजभूतं निवर्तयति । तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति । नतु साक्षात्कर्मणां निवर्तकम् । ज्ञनमज्ञानस्यैव निवर्तकमिति व्याप्तेः तदनिवृत्तौ तु पुनरपि कर्मो­द्भ­व­स­म्भ­वात् इत्यर्थंः ।

ज्ञानस्य साक्षा­त्क­र्म­नि­व­र्त­क­त्वा­भावे फलितमाह -
तस्मादिति ।

सम्यग्ज्ञानं मूल­भू­ता­ज्ञा­न­नि­व­र्त­नेन कर्मनिवर्तकम् इष्टं चेत् , आरब्वफलस्यापि कर्मणो निवृ­त्ति­प्र­स­ङ्गात् ज्ञानो­द­य­स­म­का­ल­मेव शरीरपातः स्यात् इत्याशङ्क्य, आह -
सामर्थ्यादिति ।
ज्ञानो­द­य­स­म­स­म­य­मेव देहापोहे तत्त्वदर्शिभिः उपदिष्टं ज्ञानं फलवत् इति भगवदभिप्रायस्य बाधि­त­त्व­प्र­स­ङ्गात् आचा­र्य­ला­भा­न्या­था­नु­प­पत्त्या प्रवृ­त्त­फ­ल­क­र्म­स­म्पा­द­क­म­ज्ञा­न­लेशं न नाशयति ज्ञानमित्यर्थः ।

कथं तर्हि प्रारब्धफलं कर्म नश्यति ? इत्याशङ्क्य, आह -
येनेति ।

तर्हि कथं ज्ञानाग्निः सर्वकर्माणि भस्मसात् करोतीत्युक्तम् ? तत्राह -
अत इति ।
ज्ञाना­दा­र­ब्ध­फ­लानां कर्मणां निवृ­त्त्य­नु­प­पत्तेः अनारब्धफलानि यानि कर्माणि पूर्वं ज्ञानोदयात् अस्मिन्नेव जन्मनि कृतानि ज्ञानेन च सह वर्तमानानि, प्रचीनेषु चानेकेषु जन्मसु अर्जितानि, तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निव­र्त­य­ती­त्यर्थः ॥ ३७ ॥

ननु अन्येनैव परिशुद्धिकरेण केन­चि­द­श्व­मे­धा­दिना पर­म­पु­रु­षा­र्थ­सिद्धेः अलम् आत्मज्ञानेन, इत्याशङ्क्य, आह -
यत इति ।
पृर्वोक्तेन प्रकारेण ज्ञानमाहात्म्यं यतः सिद्धम् , अतः तेन ज्ञानेन तुल्यं परिशुद्धिकरं पर­म­पु­रु­षा­र्थौ­प­यि­कम् , इह - व्यवहारभूमौ, नास्तीत्यर्थः ।

तत्पु­न­रा­त्म­वि­षयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते ? तत्राह -
तत्स्वयमिति ।
महता कालेन यथोक्तेन साधनेन योग्यतामापन्नः तदधिकृतः स्वयं तत् आत्मनि ज्ञानं विन्दतीति योजना । सर्वेषां झटिति ज्ञानानुदयो योग्य­ता­वै­धु­र्या­दिति भावः ॥ ३८ ॥

कर्मयोगेन समाधियोगेन च सम्पन्नस्य ज्ञानोत्पत्तौ अन्तरङ्गं साधनमुपदिशति -
येनेति ।

ज्ञान­ला­भ­प्र­यो­ज­न­माह -
ज्ञानमिति ।

न केवलं श्रद्धा­लु­त्व­मे­वा­स­हायं ज्ञानलाभे हेतुः, अपि तु तात्पर्यमपि, इत्याह -
श्रद्धा­लु­त्वेऽ­पीति ।

मन्द­प्र­स्था­नत्वं - तात्प­र्य­वि­धु­र­त्वम् । नच तस्योपदिष्टमपि ज्ञान­मु­त्प­त्तु­मीष्टे । तेन तात्पर्यमपि तत्र कारणं भवति इत्याह -
अत आहेति ।

अभियुक्तः - निष्ठावान् । उपासनादौ - इत्यादिशब्देन श्रवणादि गृह्यते । नच श्रद्धा तात्पर्यं च इत्युभयमेव ज्ञानकारणं, किन्तु संय­ते­न्द्रि­य­त्व­मपि । तदभावे श्रद्धादेः अकि­ञ्चि­त्क­र­त्वात् इत्याशयेनाह -
श्रद्धावानिति ।

उक्तसाधनानां ज्ञानेन सह ऐकान्तिकत्वमाह -
य एवंभूत इति ।

‘तद्विद्धि प्रणिपातेन’(भ. गी. ४-३४) इत्यादौ प्रागेव प्रणि­पा­ता­दे­र्ज्ञा­न­हे­तो­रु­क्त­त्वात् किमितीदानीं हेत्व­न्त­र­मु­च्यते ? तत्राह -
प्रणि­पा­ता­दि­स्त्विति ।
तद्धि बहिरङ्गम् , इदं पुनरन्तरङ्गं, न च तत्र ज्ञाने प्रतिनियमः, मनसि अन्यथा कृत्वा बहिः अन्य­था­प्र­द­र्श­ना­त्मनो मायावित्वस्य सम्भवात् । विप्र­ल­म्भ­क­त्वा­दे­रपि सम्भा­व­नो­प­नी­त­त्वात् इत्यर्थः ।

मायावित्वादेः श्रद्धा­व­त्त्व­ता­त्प­र्या­दा­वपि सम्भवात् अनै­का­न्ति­क­त्व­म­वि­शि­ष्टम् , इत्याशङ्क्य, आह -
नत्विति ।
नहि मायया विप्रलम्भेन वा श्रद्धा­ता­त्प­र्य­सं­य­मा­भि­यो­ग­तोऽ­नु­ष्टा­तु­म­र्हन्ति इत्यर्थः ।

उत्तरार्धं प्रश्नपूर्वकम् अवतार्य व्याकरोति -
किम्पु­न­रि­त्या­दिना ।

सम्यग्ज्ञानात् अभ्या­सा­दि­सा­घ­ना­न­पे­क्षात् मेक्षो भवति इत्यत्र प्रमाणमाह -
सम्य­ग्द­र्श­ना­दिति ।
शास्त्रशब्देन तमेव विदित्वा (श्वे.उ. ३ - ८), ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि विवक्षितम् । न्यायस्तु ज्ञाना­द­ज्ञा­न­नि­वृत्तेः रज्ज्वादौ प्रसिद्धत्वात् आप्तज्ञानादपि निरपेक्षात् अज्ञा­न­त­त्का­र्य­प्र­क्ष­य­ल­क्षणो मोक्षः स्यात् , इत्येवं लक्षणः ॥ ३९ ॥

उतरश्लोकस्य पातनिकां करोति -
अत्रेति ।
यथोक्तसाधनवान् उपदेशमपेक्ष्य अचिरेण ब्रह्म साक्षात्करोति । साक्षा­त्कृ­त­ब्र­ह्मत्वे अचिरेणैव मोक्षं प्राप्नोति इत्येषोऽर्थः सप्तम्या परामृश्यते ।

संश­य­स्या­क­र्त­व्यत्वे हेतुमाह -
पापिष्ठो हीति ।

उक्तं हेतुं प्रश्न­पू­र्व­क­मु­त्त­र­श्लो­केन साधयति-
कथमिति ।

अज्ञात् अश्रद्दधानाच्च संशयचित्तस्य विशेषमादर्शयति -
नायमिति ।

द्विती­य­वि­भा­ग­वि­भ­ज­नार्थं भूमिकां करोति -
अज्ञेति ।

अज्ञादीनां मध्ये संशयात्मानः यत् पापिष्ठत्वं, तत् प्रश्नद्वारा प्रकटयति -
कथमिति ।

लोकद्वयस्य तत्प्र­यु­क्त­सु­खस्य च अभावे हेतुमाह -
तत्रापीति ।
संशयचित्तस्य सर्वत्र संश­य­प्र­वृ­त्ते­र्दु­र्नि­वा­र­त्वा­दि­त्यर्थः ।

संश­य­स्या­न­र्थ­मू­लत्वे स्थिते फलितमाह -
तस्मादिति
॥ ४० ॥

यद्यपि संशयः सर्वा­न­र्थ­हे­तु­त्वात् कर्तव्यो न भवति, तथाऽपि निवर्तकाभावे तद­क­र­ण­म­स्वा­धी­न­मिति शङ्कते -
कस्मादिति ।

श्रुति­यु­क्ति­प्र­यु­क्त­मै­क्य­ज्ञानं तन्निवर्तकं इत्युत्तरमाह -
ज्ञानेति ।

संशयरहितस्यापि कर्माणि अनर्थहेतवो भव­न्ती­त्या­शङ्क्य, आह-
योगेति ।

विषयपरवशस्य पुंसो योगायोगात् कुतो योग­सं­न्य­स्त­क­र्म­त्वम् ? इत्याशङ्क्य, आह -
आत्मवन्तमिति ।

परमार्थदर्शनतः संशयोच्छित्तौ तदु­च्छे­द­क­ज्ञा­न­मा­हा­त्म्या­देव कर्मणां च निवृत्तौ, अप्रमत्तस्य प्रातिभासिकानि कर्माणि बन्धहेतवो न भवन्ति इत्याह -
न कर्माणीति ।

कर्मयोगादेव कर्म­सं­न्या­स­स्या­नु­प­प­त्तिम् आशङ्क्य आद्यं पादं विभजते -
परमार्थेति ।
तच्च वैधसंन्यासपक्षे परोक्षम् , फलसंन्यासपक्षे तु अपरोक्षमिति विवेकः ।

यथोक्तज्ञानेन संन्य­स्त­क­र्म­त्व­मेव, सति संशये न सिध्यति, संश­य­व­त­स्त­द­यो­गात् , इति शङ्कते -
कथमिति ।

द्वितीय पादं व्याकुर्वन् परिहरति -
आहेत्यादिना ।

पाठ­क्र­मा­द­र्थ­क्र­मस्य बलीयस्त्वात् आदौ द्वितीयं पादं व्याख्याय पश्चादाद्यं पादं व्याचक्षीत इत्याह -
य एवमिति ।

सर्वमिदं प्रमादवतो विषयपरवशस्य न सिध्यति, इत्यभिसन्धाय, आत्मवन्तं व्याकरोति -
अप्रमत्तमिति ।

‘न कर्माणि’ इत्यादिफलोक्तिं व्याचष्टे -
गुणचेष्टेति ।
‘अनिष्टादि’ इत्यादिशब्देन इष्टं मिश्रं च गृह्यते ॥ ४१ ॥

तस्मा­दि­त्या­दि­स­म­न­न्त­र­श्लो­क­ग­त­त­त्प­दा­पे­क्षि­त­म­र्थ­माह -
यस्मादिति ।

सतां कर्म­णा­म­स्म­दा­दिषु फला­र­म्भ­क­त्वो­प­ल­म्भाद् विदुष्यपि तेषां तद्भा­व्य­म­न­प­वा­धम् , इत्याशङ्क्य आह -
ज्ञानाग्नीति ।

ननु सन्दिहानस्य तत्प्रतिबन्धात् न कर्म­यो­गा­नु­ष्ठानं, नापि तद्धेतुकज्ञानं, तत्रापि संशयावतारात् , इत्याशङ्क्य, आह -
यस्माच्चेति ।

श्लोकाक्षराणि व्याचष्टे -
तस्मादित्यादिना ।

पापिष्ठमिति संशयस्य सर्वा­न­र्थ­मू­ल­त्वेन त्याज्यत्वं सूच्यते । विवे­का­ग्र­ह­प्र­सू­त­त्वा­दपि तस्यावहेयत्वम् , अवि­वे­क­स्या­न­र्थ­क­र­त्व­प्र­सिद्धेः, इत्याह -
अविवेकादिति ।

नच तस्य चैत­न्य­व­दा­त्म­नि­ष्ठ­त्वात् अत्याज्यत्वं शङ्कितव्यम् , इत्याह -
हृदीति ।

शोक­मो­हा­भ्या­म­भि­भृ­तस्य पुंसो मनसि प्रादुर्भवतः संशयस्य प्रब­ल­प्र­ति­ब­न्ध­का­भावे नैव प्रध्वंसः सिध्येत् , इत्याशङ्क्याह -
ज्ञानासिनेति ।

स्वाश्रयस्य संशयस्य स्वाश्रयेणैव ज्ञानेन समु­च्छे­द­स­म्भ­वात् किमिति स्वस्येति विशेषणम् ? इत्याशङ्क्य, आह -
आत्म­वि­ष­य­त्वा­दिति ।

स्थाण्वादिविषयः संशयः, तद्विषयेण ज्ञानेन देवदत्तनिष्ठेन तन्निष्ठः व्यावर्त्यते । प्रकृते तु आत्मविषयः तदाश्रयश्च संशयः तथाविधेन ज्ञानेन अपनीयते । तेन विशे­ष­ण­म­र्थ­व­दि­त्यर्थः । तदेव प्रपञ्चयति -
न हीति ।

आत्माश्रयत्वस्य प्रकृते संशये सिद्ध­त्वे­ना­वि­व­क्षि­त­त्वात् , तद्विषयस्य तद्विषयेणैव तस्य तेन निवृ­त्ति­र्वि­व­क्षिता, इत्युपसंहरति -
अत इति ।

संश­य­स­मु­च्छि­त्त्य­न­न्तरं कर्तव्यमुपदिशति -
छित्त्वैनमिति ।

अग्निहोत्रादिकं कर्म भगवदाज्ञया क्रमेण करिष्यामि, युद्धात्पुनः उपरिरंस इव, इत्याशङ्क्याह-
उत्तिष्ठेति ।

भरतान्वये महति क्षत्रियवंशे प्रसूतस्य समु­प­स्थि­त­स­म­र­वि­मु­ख­त्व­म­नु­चि­त­मिति मन्वानः सन् आह -
भारतेति ।
तत् अनेन योगस्य कृत्रिमत्वं भग­व­तोऽ­नी­श्व­रत्वं च निराकृत्य कर्मादौ अक­र्मा­दि­द­र्श­नाद् आत्मनः सम्यग्ज्ञानात् प्रणि­पा­ता­दे­र्ब­हि­र­ङ्गात् अन्तरङ्गाच्च श्रद्धा­दे­रु­द्भू­तात् , अशे­षा­न­र्थ­नि­वृत्त्या ब्रह्म­भा­व­म­भि­द­धता, सर्व­स्मा­दु­त्कृष्टे तस्मिन् असं­श­या­न­स्या­धि­का­रा­द­शे­ष­दो­ष­व­न्तम् । संशयं हित्वा उत्तमस्य ज्ञाननिष्ठा, अपरस्य कर्मनिष्ठा, इति स्थापितम् ॥ ४२ ॥
इत्या­न­न्द­गि­रि­कृ­त­गी­ता­भा­ष्य­टी­कायां चतुर्थोऽध्यायः ॥ ४ ॥