आनन्दगिरिटीका (गीताभाष्य)
पञ्चमोऽध्यायः
पूर्वोत्तराध्याययोः सम्बन्धमभिदधानो वृत्तानुवादपूर्वकम् अर्जुनप्रश्नस्याभिप्रायं प्रदर्शयितुं प्रक्रमते - कर्मणीत्यादिना इत्यारभ्य कर्मण्यकर्मदर्शनमुक्त्वा तत्प्रशंसा प्रसारिता, इत्याह -
स युक्त इति ।
ज्ञानवन्तं सर्वाणि कर्माणि लोकसङ्ग्रहार्थं कुर्वन्तं ज्ञानलक्षणेनाग्निना दग्धसर्वकर्माणं - कर्मप्रयुक्तबन्धविधुरं, विवेकवन्तो वदन्तीति, ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन् विविदिषोः साधनरूपमपि संन्यासं भगवान्विवक्षितवान् , इत्याह -
ज्ञानाग्नीति ।
निराशीरित्यारभ्य शरीरस्थितिमात्रकारणं कर्म, शरीरस्थितावपि सङ्गरहितः सन् आचरन् , धर्माधर्मफलभागी न भवतीत्यपि पूर्वोत्तराभ्यामध्यायाभ्यां द्विविधं संन्यासं सूचितवान् , इत्याह -
शारीरमिति ।
यदृच्छेत्यादावपि संन्यासः सूचितः तद्धर्मफलायोपदेशात् , इत्याह -
यदृच्छेति ।
ज्ञानस्य यज्ञत्वसम्पादनपूर्वकं प्रशंसावचनादपि कर्मसंन्यासो दर्शितो ज्ञाननिष्ठस्य, इत्याह -
ब्रह्मार्पणमिति ।
ज्ञानयज्ञस्तुत्यर्थं नानाविधान् यज्ञान् अनूद्य तेषां देहादिव्यापारजन्यत्ववचनेन आत्मनो निर्व्यापारत्वविज्ञनफलाभिलाषादपि यथोक्तमात्मानं विविदिषोः सर्वकर्मंसन्यासेऽधिकारो ध्वनित, इत्याह -
कर्मजानिति ।
समस्तस्यैव अवशेषवर्जितस्य कर्मणो ज्ञाने पर्यवसानाभिधानाच्च जिज्ञासोः सर्वकर्मसन्यासः सूचितः, इत्याह –
सर्वमिति ।
‘तद्विद्धि’ इत्यादिना ज्ञानप्राप्त्युपायं प्रणिपातादि प्रदर्श्य, प्राप्तेन ज्ञानेनातिशयप्राहात्म्यवता सर्वकर्मणां निवृत्तिरेव, इति वदता च, ज्ञानार्थिनः संन्यासेऽधिकारो दर्शितो भगवता, इत्याह -
ज्ञानाग्निरिति ।
ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात्कर्माणि संन्यस्य व्यवस्थितमप्रमत्तं - वशीकृतकार्यकरणसङ्घातवन्तं प्रातिभासिकानि कर्माणि न निबध्नन्ति, इत्यपि द्विविधः संन्यासो भगवतोक्तः, इत्याह -
योगेति ।
‘कर्मणी’ त्यारभ्य ‘योगसंन्यस्तकर्माणम्’ इत्यन्तैरुदाहृतैर्वचनैः उक्तं संन्यासमुपसंहरति -
इत्यन्तैरिति ।
तर्हि कर्मसंन्यासस्यैव जिज्ञासुना ज्ञानवता च आदरणीयत्वात् कर्मानुष्ठानम् अनादेयमापन्नमित्याशङ्क्य, उक्तमर्थान्तरमनुवदति -
छित्त्वैनमिति ।
कर्मतत्त्यागयोरुक्तयोः एकेनैव पुुरुषेणानुष्ठेयत्वसम्भवात् न विरोधोऽस्ति इत्याशङ्क्य, युगपद्वा क्रमेण वा अनुष्ठानम् , इति विकल्प्य, आद्यं दूषयति
उभयोश्चेति ।
द्वितीयं प्रत्याह -
कालभेदेनेति ।
उक्तयोर्द्वयोरेकेन पुरुषेणानुष्ठेयत्वासम्भवे, कथं कर्तव्यत्वसिद्धिः ? इत्याशङ्क्याह -
अर्थादिति ।
द्वयोरुक्तयोरेकेन युगपत्क्रमाभ्याम् अनुष्ठानानुपपत्तेरित्यर्थः ।
अन्यतरस्य कर्तव्यत्वे, कतरस्येति कुतो निर्णय ? द्वयोः संनिधानाविशेषात् इत्याशङ्क्य, आह -
यत्प्रशस्यतरमिति ।
भगवता कर्मणां संन्यासो योगश्चोक्तः, नच तयो समुच्चित्यानुष्ठानम् । तेन अन्यतरस्य श्रेष्ठस्य अनुष्ठेयत्वे, तद्बुभुत्सया प्रश्नोपपत्तिः, इत्युपसंहरति -
इत्येवमिति ।
नायं प्रष्टुरभिप्रायः, कर्मसंन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेयत्वस्योक्तत्वात् , एकस्मिन्पुरुषे प्राप्त्यभावात् इति शङ्कते -
नन्विति ।
चोद्यमङ्गीकृत्य परिहरति -
सत्यमेवेति ।
कीदृशस्तर्हि प्रष्ठुरभिप्रायः ? येन प्रश्नप्रवृत्तिः इति पृच्छति -
कथमिति ।
एकस्मिन्पुरुषे कर्मतत्त्यागयोः अस्ति प्राप्तिः, इति प्रष्टुरभिप्रायं प्रतिनिर्देष्टं प्रारभते -
पूर्वोदाहृतैरिति ।
यथा ‘स्वर्गकामो यजेत’ इति स्वर्गकामोद्देशेन यागो विधीयते, नतु तस्यैवाधिकारो नान्यस्य इत्यपि प्रतिपाद्यते, वाक्यभेदप्रसङ्गात् ; तथा अनात्मवित् कर्ता संन्यासे पक्षे प्राप्तोऽनूद्यते, नचात्मवित्कर्तृकत्वमेव संन्यासस्य नियम्यते, वैराग्यमात्रेणाज्ञस्यापि संन्यासविधिदर्शनात् । तस्मात् कर्म तत्त्यागयोः अविद्वत्कर्तृकत्वमस्ति, इति मन्वानस्यार्जुनस्य प्रश्नः सम्भवतीति भावः ।
भवतु संन्यसस्य कर्तव्यत्वविवक्षा, तथापि कथं प्रशस्यतरबुभुत्सया प्रश्नप्रवृत्तिः ? इत्याशङ्क्य, आह -
प्राधान्यमिति ।
तथापि कथमेकस्मिन्पुरुषे तयोरप्राप्तौ उक्ताभिप्रायेण प्रश्नवचनं प्रकल्प्यते ? तत्राह -
अनात्मविदपीति ।
आत्मविदो विद्यासामर्थ्यात् कर्मत्यागध्रौव्यवत् इतरस्यापि सति वैराग्ये, तत्त्यागस्यावश्यकत्वात् तत्र कर्ताऽसौ प्राप्तः अत्रानूद्यते । तथाच कर्मतत्त्यागयोः एकस्मिन् अविदुषि प्राप्तेर्व्यक्तत्वात् उक्ताभिप्रायेण प्रश्नपवृत्तिरविरुद्धा इत्यर्थः ।
संन्यासस्य आत्मवित्कर्तृकत्वमेवात्र विवक्षित किं न स्यात् ? इत्याशङ्क्य, कर्त्रन्तरपर्युदासः संन्यासविधिश्च इत्यर्थभेदे वाक्यभेदप्रसङ्गात् मैवमित्याह -
न पुनरिति ।
इतिशब्दः वाक्यभेदप्रसङ्गहेतुद्योतनार्थः ।
ततः किम् ? इत्याशङ्क्य, फलितमाह -
एवमिति ।
कर्मानुष्ठानकर्मसंन्यासयोः अविद्वत्कर्तृकत्वमप्यस्ति, इत्येवंमन्वानस्यार्जुनस्य प्रशस्यतरविविदिषया प्रश्नो नानुपपन्न इति सम्बन्धः ।
तयोः समुच्चित्य अनुष्ठानसम्भवे कथं प्रशस्यतरविविदिषा ? इत्याशङ्क्य आह -
पूर्वोक्तेनेति ।
उभयोश्चेत्यादौ उक्चप्रकारेण कर्मतत्त्यागयोर्मिथो विरोधात् न समुच्चित्यानुष्ठानं सावकाशमित्यर्थः ।
भवतु तार्हि यस्य कस्यचिदन्यतरस्यानुष्ठेयत्वमिति, कुत उक्ताभिप्रायेण प्रश्नप्रवृत्तिः ? इत्याशङ्क्य आह -
अन्यतरस्येति ।
उभयप्राप्तौ समुच्चयानुपपत्तौ अन्यतरपरिग्रहे विशेषस्यान्वेष्यत्वात् उक्ताभिप्रायेण प्रशनोपपत्तिः इत्यर्थः ।
इतश्च अविद्वत्कर्तृकयोः संन्यासकर्मयोगयोः कतरः श्रेयान् ? इति प्रष्टुरभिप्रायो भाति, इत्याह -
प्रतिवचनेति ।
किं तत्प्रतिवचनं ? कथं वा तन्निरूपणम् ? इति पृच्छति -
कथमिति ।
तत्र प्रतिवचनं दर्शयति -
संन्यासेति ।
तन्निरूपणं कथयति -
एतदिति ।
तदुभयमिति निःश्रेयसकरत्वं कर्मयोगस्य श्रेष्ठत्वं च इत्यर्थः ।
गुणदोषविभागविवेकार्थं पृच्छति - किञ्चेति । अतः अस्मिन् आद्ये पक्षे किं दूषणम् ? अस्मिन्वा द्वितीये पक्षे किं फलम् ? इति प्रश्नार्थः । तत्र सिद्धान्ती प्रथमपक्षे दोषमादर्शयति -
अत्रेत्यादिना ।
तदेवानुपपन्नत्वं व्यतिरेकद्वारा विवृणोति -
यदीत्यादिना ।
निःश्रेयसकरत्वोक्तिरित्यत्र पारम्पर्येणेति द्रष्टव्यम् । विशिष्टत्वाभिधानमिति प्रतियोगिनोऽसहायत्वाद् अस्य च शुद्धिद्वारा ज्ञानार्थत्वात् इत्यर्थः ।
आत्मज्ञस्य कर्मसंन्यासकर्मयोगयोः असम्भवे दर्शिते, चोदयति -
अत्राहेति ।
चोदयिता निर्धारणार्थं विमृशति -
किमित्यादिना ।
अन्यतरासम्भवेऽपि सन्देहात् प्रश्नोऽवतरति इत्याह -
यदा चेति ।
यस्य कस्यचिदन्यतरस्य असम्भवो भविष्यति इत्याशङ्क्य, कारणमन्तरेणासम्भवो भवन् अतिप्रसङ्गी स्यात् , इति मन्वानःसन् आह -
असम्भव इति ।
आत्मविदः सकारणं कर्मयोगासम्भवं सिद्धान्ती दर्शयति -
अत्रेति ।
सङ्ग्रहवाक्यं विवृण्वन् आत्मावित्त्वं विवृणोति -
जन्मादीति ।
तस्य यदुक्तं निवृत्तमिथ्याज्ञानत्वं, तदिदानीं व्यनक्ति सम्यगिति ।
विपर्ययज्ञानमूलस्येत्यादिना उक्तं प्रपञ्चयति -
निष्क्रियेति ।
यथोक्तसंन्यासमुक्त्वा ततो विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः ।
वैपरीत्यं स्फोरयन् कर्मयोगमेव विशिनष्टि -
मिथ्याज्ञानेति ।
मिथ्या च तत् अज्ञानं चेति अनाद्यनिर्वाच्यमज्ञानं, तन्मूलः अहं कर्ता इत्यात्मनि कर्तृत्वाभिमानः तज्जन्यः, तस्येति यावत् ।
यथोक्तं संन्यासमुक्त्वा यथोक्तकर्मयोगस्य असम्भवप्रतिपादने हेतुमाह -
सम्यग्ज्ञानेति ।
कुत्र तदभावप्रतिपादनं ? तदाह -
इहेति ।
उक्तं हेतुं कृत्वा आत्मज्ञस्य कर्मयोगासम्भवे फलितमाह -
यस्मादिति ।
इह शास्त्रे तत्र तत्रेत्यादौ उक्तमेव व्यक्तीकर्तुं पृच्छति -
केषु केष्विति ।
तानेव प्रदेशान्दर्शयति -
अत्रेति ।
आत्मस्वरूपनिरूपणप्रदेशेषु संन्यासप्रतिपादनाद् आत्मविदः संन्यासो विवक्षितश्चेत् , तर्हि कर्मयोगोऽपि तस्य कस्मान्न भवति ? प्रकरणाविशेषात् , इति शङ्कते -
ननु चेति ।
आत्मविद्याप्रकरणे कर्मयोगप्रतिपादनमुदाहरति -
तद्यथेति ।
प्रकरणात् आत्मविदोऽपि कर्मयोगस्य सम्भवे फलितमाह -
अतश्चेति ।
आत्मज्ञानोपायत्वेनापि प्रकरणपाठसिद्धौ ज्ञानादूर्ध्वं न्यायविरुद्धं कर्म कल्पयितुमशक्यमिति परिहरति -
अत्रोच्यत इति ।
सम्यग्ज्ञानमिथ्याज्ञानयोः तत्कार्ययोश्च भ्रमनिवृत्तिभ्रमसद्भावयोः मिथो विरोधात्कर्तृत्वादिभ्रममूलं कर्म सम्यग्ज्ञानादूर्ध्वं न सम्भवतीत्यर्थः ।
आत्मज्ञस्य कर्मयोगासम्भवे हेत्वन्तरमाह -
ज्ञानयोगेनेति ।
इतश्चात्मविदो ज्ञानादूर्ध्वं कर्मयोगो न युक्तिमान् , इत्याह -
कृतकृत्यत्वेनेति ।
ज्ञानवतो नास्ति कर्म इत्यत्र कारणान्तरमाह -
तस्येति ।
तर्हि ज्ञानवता कर्मयोगस्य हेयत्ववत् जिज्ञासुनापि तस्य त्याज्यत्वं, ज्ञानप्राप्त्या तस्यापि पुरुषार्थसिद्धेः, इत्याशङ्क्य, जिज्ञासोरस्ति कर्मयोगापेक्षा इत्याह -
न कर्मणामिति ।
स्वरूपोपकार्यङ्गमन्तरेण अङ्गिस्वरूपानिष्पत्तेः । ज्ञानानार्थिना कर्मयोगस्य शुद्ध्यादिद्वारा ज्ञानहेतोरादेयत्वमित्यर्थः ।
तर्हि ज्ञानवतमपि ज्ञानफलोपकारित्वेन कर्मयोगो मृग्यताम् , इत्याशङ्क्य आह -
योगारूढस्येति ।
उत्पन्नसम्यग्ज्ञानस्य कर्माभावे शरीरस्थितिहेतोरपि कर्मणोऽसम्भावत् न तस्य शरीरस्थितिः, तदस्थितौ च कुतो जीवन्मुक्तिः ? तदभावे च कस्योपदेष्टृत्वम् ? उपदेशाभावे च कुतो ज्ञानोदयः स्यात् ? इत्याशङ्क्य, आह -
शारीरमिति ।
विदुषोऽपि शरीरस्थितिरास्थिता चेत् , तन्मात्रप्रयुक्तेषु दर्शनश्रवणादिषु कर्तृत्वाभिमानोऽपि स्यात् , इत्याशङ्क्य आह -
नैवेति ।
तत्त्ववित् इत्यनेन च समाहितचेतस्तया करोमीति प्रत्ययस्य सदैव अकर्तव्यत्वोपदेशादिति सम्बन्धः ।
यत्तु विदुषः शरीरस्थितिनिमित्तकर्माभ्यनुज्ञाने तस्मिन्कर्तृत्वाभिमानोऽपि स्यादिति, तत्राह -
शरीरेति ।
आत्मयाथात्म्यविदः तेष्वपि नाहं करोमीति प्रत्ययस्य नैव किञ्चित्करोमीत्यादौ अकर्तृत्वोपदेशात् न कर्तृत्वाभिमानसम्भावना इत्यर्थः ।
यथोक्तोपदेशानुसन्धानाभावे विदुषोऽपि करोमीति स्वाभाविकप्रत्ययद्वारा कर्मयोगः स्यात् , इत्याशङ्क्य, आह -
आत्मतत्त्वेति ।
यद्यपि विद्वान् यथोक्तमुपदेशं कदाचित् नानुसन्धत्ते, तथापि तत्त्वविद्याविरोधात् मिथ्याज्ञानं तन्निमित्तं कर्म वा तस्य सम्भावयितुमशक्यमित्यर्थः ।
आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरयोगात् तयोर्निः श्रेयसकरत्वम् अन्यतरस्य विशिष्टत्वम् , इत्येतदयुक्तमिति सिद्धत्वात् द्वितीयं पक्षमङ्गीकरोति -
यस्मादित्यादिना ।
तदीयाश्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमिति सम्बन्धः ।
ननु कर्मयोगेन शुद्धबुद्धेः संन्यासो जायमानः तस्यादुत्कृष्यते, कथं तस्मात्कर्मयोगस्योत्कृष्टत्ववाचोयुक्तिर्युक्ता ? इति तत्राह -
पूर्वोक्तेति ।
वैलक्षण्यमेव स्पष्टयति -
सत्येवेति ।
स्वाश्रमविहितश्रवणादौ कर्तृत्वविज्ञाने सत्येव पूर्वाश्रमोपात्तकर्मैकदेश - विषयसंन्यासात् कर्मयोगस्य श्रेयस्त्ववचनं ‘नैतादृशं ब्राह्मणस्यास्ति वित्तम् ‘(म.भा. १२ - १७५ .३७) इत्यादिस्मृतिविरुद्धम् , इत्याशङ्क्य, आह -
यमनियमादीति ।
‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।
प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश ॥
दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ ।
व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥ ‘
इत्युक्तैर्यमनिय मैः अन्यैश्चाश्रमधर्मैः विशिष्टत्वेनानुष्ठातुमशक्यत्वात् , उक्तसंन्यासात्कर्मयोगस्य विशिष्टत्वोक्तिर्युक्ता इत्यर्थः ।
नहि कश्चिदिति न्यायेन कर्मयोगस्य इतरापेक्षया सुकरत्वाच्च तस्य विशिष्टत्ववचनं श्लिष्टमित्याह -
सुकरत्वेन चेति ।
प्रतिवचनवाक्यार्थालोचनात्सिद्धमर्थमुपसंहरति -
इत्येवमिति ।
संन्यासकर्मयोगयोर्मिथोविरुद्धयोः समुच्चित्यानुष्ठातुमशक्ययोः अन्यतरस्य कर्तव्यत्वे, प्रशस्यतरस्य तद्भावात् तद्भावस्य चानिर्धारितत्वात् , तन्निर्दिधारयिषया प्रश्नः स्यादिति, प्रश्नवाक्यार्थपर्यालोचनया प्रष्टुरभिप्रायो यथा पूर्वमुपदिष्टः, तथा प्रतिवचनार्थनिरूपणेनापि तस्य निश्चितत्वात् प्रश्नोपपत्तिः सिद्धा इत्यर्थः ।
ननु तृतीये यथोक्तप्रश्नस्य भगवता निर्णीतत्वात् नात्र प्रश्नप्रतिवचनयोः सावकाशत्वमित्याशङ्क्य, विस्तरेण उक्तमेव सम्बन्धं पुनः सङ्क्षेपतो दर्शयति -
ज्यायसी चेदिति ।
साङ्ख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वात् न पुनः प्रश्नयोग्यत्वमित्यर्थः ।
इतोऽपि न तयोः प्रश्नविषयत्वम् , इत्याह -
नचेति ।
एवकारविशेषणात् ज्ञानसहिसंन्यासस्य सिद्धसाधनत्वं भगवतोऽभिमतम् । ‘छित्त्वैनं संशयं योगमातिष्ठ'(भ.गी.४ - ४२) इति च कर्मयोगस्य विधानात् तस्यापि सिद्धसाधनत्वमिष्टम् । ततश्च निर्णीतत्वात् न प्रश्नः तद्विषयः सिध्यतीत्यर्थः ।
केनाभिप्रायेण तर्हि प्रश्नः स्यात् ? इत्याशङ्क्य, ज्ञानरहितसंन्यासात् कर्मयोगस्य प्रशस्यतरत्वबुभुत्सया, इत्याह -
ज्ञानरहित इति ।
प्रष्टुरभिप्रायम् एवं प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति -
संन्यासमिति ।
तर्हि द्वयं त्वयानुष्ठेयमित्याशङ्क्य, तदशक्तेरुक्तत्वात् प्रशस्यतरस्यानुष्ठानार्थं तदिदम् इति निश्चित्य वक्तव्यम् , इत्याह -
यच्छ्रेय इति ।
काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते, न सर्वेषाम् , इत्याशङ्क्य, कर्मण्यकर्म (४ - १८) इत्यादौ विशेषदर्शनात् , मैवम् इत्याह -
शास्त्रीयाणामिति ।
अस्तु तर्हि शास्त्रीयाशास्त्रीययोरशेषयोरपि कर्मणोः त्यागः, नेत्याह -
पुनरिति ।
तर्हि कर्मत्यागः तद्योगश्च, इत्युभयमाहर्तव्यमित्याशङ्क्य, विरोधात् मैवम् इत्यभिप्रेत्य आह -
अत इति ।
द्वयोः एकेन अनुष्ठानायोगस्योक्तत्वात् कर्तव्यत्वोक्तेश्च संशयो जायते । तमेव संशयं विशदयति -
किं कर्मेति ।
प्रशस्यतरबुभुत्सा किमर्था ? इत्याशङ्क्य आह -
प्रशस्यतरं चेति ।
तस्यैवानुष्ठेयत्वे प्रश्नस्य सावकाशत्वमाह - अतश्चेति । तदेव प्रशस्यतरं विशिनष्टि -
यदनुष्ठानादिति ।
तदेकम् - अन्यतरत् , मेब्रूहीति । सबन्धः ।
उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते ? तत्राह -
सहेति ।
कर्मतत्त्यागयोर्मिथो विरोधादित्यर्थः ॥ १ ॥
प्रश्नमेवमुत्थाप्य, प्रतिवचनमुत्थापयति -
स्वाभिप्रायमिति ।
निर्णयाय तद्वारेण परस्य संशयनिवृत्त्यर्थमित्यर्थः ।
एवं प्रश्ने प्रवृत्ते कर्मयोगस्य सौकर्यमभिप्रेत्य प्रशस्यतरत्वमभिधित्सुः भगवान् प्रतिवचनं किमुक्तवान् ? इत्याशङ्क्य, आह -
संन्यास इति ।
उभयोरपि तुल्यत्वशङ्कां वारयति -
तयोस्त्विति ।
कथं तर्हि ज्ञानस्यैव मोक्षोपायत्वं विवक्ष्यते ? तत्राह -
ज्ञानोत्पत्तीति ।
तर्हि द्वयोरपि प्रशस्यत्वम् अप्रशस्यत्वं वा तुल्यम् , इत्याशङ्क्य, आह –
उभाविति ।
ज्ञानसहायस्य कर्मसंन्यासस्य कर्मयोगापेक्षया विशिष्टत्वविवक्षया विशिनष्टि -
केवलादिति
॥ २ ॥
कर्म हि बन्धकारणं प्रसिद्धं, तत्कथं निःश्रेयसकरं स्याद् ? इति शङ्कते -
कस्मादिति ।
अकर्त्रात्मविज्ञानात्प्रागपि सर्वदा असौ संन्यासी ज्ञेयः, यो रागद्वेषौ क्कचिदपि न करोति, इत्याह -
इत्याहेति ।
यथा अनुष्ठीयमानानि कर्माणि संन्यासिनं न निबध्नन्ति, कृतानि च वैराग्येन्द्रियसंयमादिना निवर्तन्ते ; तथैव अनभिसंहितफलानि नित्यनैमित्तिकानि योगिनमपि न निबध्नन्ति, निवर्तयन्ति च सञ्चितं दुरितम् , इत्यभिप्रेत्य, आह -
निर्द्वन्द्वो हीति ।
कर्मयोगिनो नित्यसंन्यासित्वज्ञानम् अन्यथाज्ञानत्वात् मिथ्याज्ञानम् , इत्याशङ्क्य, आह -
एवंविध इति ।
कर्मिणोऽपि रागद्वेषाभावेन संन्यासित्वं ज्ञातुमुचितम् इत्यर्थः ।
रागद्वेषरहितस्य अनायासेन बन्धप्रध्वंससिद्धेश्च युक्तं तस्य संन्यासित्वम् , इत्याह -
निर्द्वन्द्व इति
॥ ३ ॥
यदुक्तं संन्यासकर्मयोगयोर्निःश्रेयसकरत्वं, तद् आक्षिपति -
संन्यासेति ।
तत्र उत्तरत्वेन उत्तरश्लोकमवतारयति -
इति प्राप्त इति ।
विवेकिनः तर्हि कथं वदन्ति ? इत्याकाङ्क्षायाम् , आह -
एकमिति ।
संस्व्याम् आत्मसमीक्षाम् अर्हतीति साङ्ख्यं - संन्यासः, योगस्तु कर्मयोगः, तावुभावपि । पृथगित्यस्य अर्थमाह -
विरुद्धेति ।
शास्त्रार्थविवेकशून्यत्वं बालत्वम् ।
उत्तरार्धमवतारयितुं भूमिकां करोति -
पण्डितास्त्विति ।
ज्ञानिनो योगिनश्चेति शेषः ।
द्वयोः अविरुद्धफलत्वमेव प्रश्नपूर्वकं प्रकटयति -
कथमित्यादिना ।
एकं साधनमनुष्ठितवतः द्वयोरपि फलं भवतीति विरुद्धम् , इत्याशङ्क्य आह -
उभयोरिति ।
साङ्ख्ययोगयोः संन्यासकर्मानुष्ठानयोः तत्त्वज्ञानद्वारा निःश्रेयसफलत्वात् न विरुद्धफलत्वशङ्का इत्यर्थः ।
साङ्ख्यायोगयोः एकफलत्ववचनं प्रकरणाननुगुणम् , इति शङ्कते -
नन्विति ।
अप्रकृतत्वमसिद्धम् , इति परिहरति -
नैष दोष इति ।
संन्यासं कर्मणामित्यादिना संन्यासं कर्मयोगं चाङ्गीकृत्य प्रश्ने, संन्यासः कर्मयोगश्चेत्यादिना तथैव प्रतिवचने च, कथं साङ्ख्ययोगयोः एकफलत्वम् अप्रकृतं न भवति ? इत्युच्यते, तत्राह –
यद्यपीति ।
प्रतिवचनमपि तदनुरूपमेव भगवता निरूपितमिति विशेषानुपपत्तिः, इत्याशङ्क्य, आह -
भगवांस्त्विति ।
तदपरित्यागेन इत्यत्र तत्पदेन प्रष्ट्र प्रतिनिर्दिष्टौ कर्मंसंन्यासकर्मयोगौ उच्येते । साङ्ख्ययोगाविति शब्दान्तरवाच्यतया तयोरेव संन्यासकर्मयोगयोः अत्यागेन स्वाभिप्रेतं च विशेषं संयोज्य भगवान् प्रतिवचनं ददौ, इति योजना ।
यदुक्तं - स्वाभिप्रेतं च विशेषं संयोज्य - इति, तदेतत् व्याक्तीकरोति -
तावेवेति ।
समबुद्धित्वादि इत्यादिशब्देन ज्ञानोपायभूतः शमादिः आदीयते ।
प्रकृतयोरेव संन्यासकर्मयोगयोः उपादाने फलितमाह -
अत इति ।
साङ्ख्ययोगौ इत्यादिश्लोकव्याख्यानसमाप्तिः इतिशब्दार्थः ॥ ४ ॥
प्रश्नपूर्वकं श्लोकान्तरमवतारयति -
एकस्यापीति ।
केचिदेव तयोरेकफलत्वं पश्यन्ति इत्याशङ्य, तेषामेव सम्यग्दर्शित्वं, नेतरेषाम् , इत्याह -
एकमिति ।
तिष्ठत्यस्मिन् , न च्यवते पुनः इति व्युत्पत्तिमाश्रित्य आह -
मोक्षाख्यमिति ।
योगशब्दार्थमाह -
ज्ञानप्राप्तीति ।
ये हि जिज्ञासवः सर्वाणि कर्माणि भगवत्प्रीत्यर्थत्वेन तेषां फलाभिलाषमकृत्वा ज्ञानप्राप्तौ बुद्धिशुद्धिद्वारेण उपायत्वेन अनुतिष्ठन्ति, ते अत्र योगाः विवक्ष्यन्ते ।
अच्प्रत्ययस्य मत्वर्थत्वं गृहीत्वा, उक्तं -
योगिन इति ।
सर्वोऽपि द्वैतप्रपञ्चो न वस्तुभूतः, मायाविलासत्वात् , आत्मा तु, अविक्रियो अद्वितीयो वस्तुसन् इति प्रयोजकज्ञानं परमार्थज्ञानं, तत्पूर्वकसंन्यासद्वारेण कर्मिभिरपि तदेव स्थानं प्राप्याम् , इत्येकफलत्वं संन्यासकर्मयोगयोः अविरुद्धं, इत्याह -
तैरपीति ।
फलैकत्वे फलितमाह -
अत इति
॥ ५ ॥
यदि यथोक्तज्ञानपूर्वकसंन्यासद्वारा कर्मिणामपि श्रेयेऽवाप्तिरिष्टा, तर्हि संन्यासस्यैव श्रेयस्त्वं प्राप्तम् , इति चोदयति -
एवं तर्हीति ।
संन्यासस्य श्रेष्ठत्वे कर्मयोगस्य प्रशस्यत्ववचनमनुचितम् , इत्याह -
कथं तर्हिति ।
पूवोक्तमेव अभिप्रायं स्मारयन् परिहरति -
श्रृण्विति ।
कर्मयोगस्य विशिष्टत्ववचनं तत्रेति परामृष्टम् । तदेव कारणं कथयति -
त्वयेत्यादिना ।
केवलं विज्ञानरहितमिति यावत् । तयोरन्यतरः कः श्रेयानिति इतिशब्दोऽध्याहर्तव्यः ।
त्वदीयं प्रश्नमनुसृत्य तदनुगुणं प्रतिवचनं ज्ञानमनपेक्ष्य, तद्रहितात् केवलादेव संन्यासात् योगस्य विशिष्टत्वमिति यथोक्तम् , इत्याह-
तदनुरूपमिति ।
ज्ञानापेक्षः संन्यासः तर्हि कीदृक् ? इत्याशङ्क्याह -
ज्ञानेति ।
तर्हि कर्मयोगे कथं योगशब्दः संन्यासशब्दो वा प्रयुज्यते ? तत्राह -
यस्त्विति ।
तादर्थ्यात् परमार्थज्ञानशेषत्वात् इति यावत् ।
तदेव तादर्थ्यं प्रश्नपूर्वकं प्रसाधयति -
कथमित्यादिना ।
कर्मानुष्ठानाभावे बुद्धिशुद्ध्यभावात् परमार्थसंन्यासस्य सम्यग्ज्ञानात्मनो न प्राप्तिः इति व्यतिरेकमुपन्यस्य, अन्वयमुपन्यस्यति -
योगेति ।
पारमार्थिकः सम्यग्ज्ञानात्मकः । सामग्र्यभावे कार्यप्राप्तिरयुक्ता, इति मत्वा आह -
दुःखमिति ।
योगयुक्तत्वं व्याचष्टे -
वैदिकेनेति ।
ईश्वरस्वरूपस्य सविशेषस्येति शेषः ।
ब्रह्मेति व्याख्येयं पदम् उपादाय व्याचष्टे -
प्रकृत इति ।
तत्र ब्रह्मशब्दप्रयोगे हेतुमाह -
परमात्मेति ।
लक्षणशब्दो गमकविषयः । संन्यासे ब्रह्मशब्दप्रयोेगे तैत्तिरीयकश्रुतिं प्रमाणयति -
न्यास इति ।
कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते ? द्वयोरपि परत्वाविशेषात् , इत्याह -
ब्रह्मा हीति ।
ब्रह्मशब्दस्य संन्यासविषयत्वे फलितं वाक्यार्थमाह -
ब्रह्मेत्यादिना ।
नद्याः स्रोतांसीव निम्नप्रवणानि कर्मभिः अतितरां परिपक्ककषायस्य करणानि सर्वतो व्यापृतानि निरस्तशेषकूटस्थप्रत्यगात्मान्वेषणप्रवणानि भवन्ति इति ।
कर्मयोगस्य परमार्थसंन्यासप्राप्त्युपायत्वे फलितमाह -
अत इति
॥ ६ ॥
ननु पारिव्राज्यं परिगृह्य श्रवणादिसाधनम् असकृदनुतिष्ठतो लब्धसम्यग्बोधस्यापि यथापूर्वं कर्माणि उपलभ्यन्ते । तानि च बन्धहेतवो भविष्यन्ति, इत्याशङ्क्य, श्लोकान्तरम् अवतारयति -
यदा पुनरिति ।
सम्यग्दर्शनप्राप्त्युपायत्वेन यदा पुनः अयं पुरुषो योगयुक्तत्वादिविशेषणः सम्यग्दर्शी सम्पद्यते, तदा प्रातिभासिकीं प्रवृत्तिम् अनुसृत्य कुर्वन्नपि न लिप्यत इति योजना । योगेन - नित्यनैमित्तिककर्मानुष्ठानेन, इति यावत् ।
आदौ नित्याद्यनुष्ठानवतो रजस्तमोमलाभ्याम् अकलुषितं सत्त्वं सिध्यति, इत्याह -
विशुद्धेति ।
बुद्धिशुद्धौ, कार्यकरणसङ्घातस्यापि स्वाधीनत्वं भवति, इत्याह -
विजितेति ।
तस्य यथोक्तविशेषणवतो जायते सम्यग्दर्शित्वम् , इत्याह -
सर्वभूतेति ।
सम्यग्दर्शिनः तर्हि कर्मानुष्ठानं कुतस्त्यं ? तदनुष्ठाने वा कुतो बन्धविश्लेषसिद्धिः ? इत्याशङ्क्य, आह -
स तत्रेति ।
सम्यग्दर्शनं सप्तम्यर्थः
॥ ७ ॥
कर्माणि अङ्गीकृत्य तैः अस्य विदुषो बन्धो नास्ति इत्युक्तम् । इदानीं वस्तुतः तस्य कर्माण्येव न सन्ति, इत्याह -
नचेति ।
॥ ८ ॥
लोकदृष्ट्या विदुषोऽपि कर्माणि सन्ति, इत्याशङ्क्य, स्वदृष्ट्या तदभावमभिप्रेत्य, आह -
नैवेति
सार्धं समनन्तरश्लोकम् आकाङ्क्षापूर्वकम् उत्थापयति -
कदेत्यादिना ।
चक्षुरादिज्ञानेन्द्रियैः वागादिकर्मेन्द्रियैः प्राणादिवायुभेदैः अन्तःकरणचतुष्टयेन च तत्तच्चेष्टानिर्वर्तनावस्थायां तत्तदर्थेषु सर्वा प्रवृत्तिः इन्द्रियाणामेव, इत्यनुसन्दधानः नैव किञ्चित्करोमीति विद्वान् प्रतिपद्यते, इत्यर्थः ।
यथोक्तस्य विदुषः विध्यभावेऽपि विद्यासामर्थ्यात् प्रतिपत्तिकर्मभूतं कर्मसंन्यासं फलात्मकम् अभिलषति -
यस्येति ।
अज्ञस्येव विदुषोऽपि कर्मसु प्रवृत्तिसम्भवात् , कुतः संन्यासे अधिकारः स्याद् ? इत्याशङ्क्य, आह -
नहीति
॥ ९ ॥
तर्हि विद्वानिव, अविद्वानपि कर्मणि न प्रवर्तेत, पापोपहतिसम्भवात् , इत्याशङ्क्य, आह -
यस्त्विति ।
यथा भृत्यः स्वाम्यर्थं कर्माणि करोति न स्वफलमपेक्षते, तथैव यो अविद्वान् मोक्षेऽपि सङ्गं त्यक्त्वा भगवदर्थमेव सर्वाणि कर्माणि करोति, न स स्वकर्मणा बध्यते । नहि पद्मपत्रम् अम्भसा सम्बध्यते, तद्वत् इत्यर्थः ॥ १० ॥
विदुषः तर्हि कृतेन कर्मणा किं स्याद् ? इत्याशङ्क्य, आह -
केवलमिति ।
अज्ञस्य ईश्वरार्पणबुद्ध्या अनुष्ठितं कर्म बुद्धिशद्धिफलम् , इत्यत्रैव हेतुमाह -
यस्मादिति ।
केवलशब्दस्य प्रत्येकं सम्बन्धे प्रयोजनम् आह -
सर्वव्यापारेष्विति ।
कर्मणः चित्तशुद्धिफलत्वे तादर्थ्येन कर्मानुष्ठानमेव तव कर्तव्यमिति, यस्मादित्यस्यापेक्षितं वदन् फलितम् आह -
तस्मादिति
॥ ११ ॥
इतश्च सङ्गं त्यक्त्वा कर्मानुष्ठानं त्वया कर्तव्यम् , इत्याह -
यस्माच्चेति ।
युक्तः सन् फलं त्यक्त्वा कर्म कुर्वन् मोक्षाख्यां शान्तिं यस्यादाप्नोति, तस्माच्च त्वया सङ्गं त्यक्त्वा कर्म कर्तव्यम् , इति योजन । विपक्षे दोषमाह -
अयुक्त इति ।
युक्तत्वं व्याकरोति -
ईश्वरायेति ।
फलं परित्यज्य कर्म कुर्वन् , इति शेषः ।
नैष्ठिकी शान्तिः इत्येतदेव विशदयति -
सत्त्वेति ।
द्वितीयम् अर्धं विभजते -
यस्त्विति ।
असमाधाने दोषात् अर्जुनस्य नियोगं दर्शयति -
अतस्त्वमिति
॥ १२ ॥
तर्हि फले सक्तिं त्यक्त्वा, सर्वैरपि कर्तव्यमिति कर्मसंन्यासस्य निरवकाशत्वम् इत्याशङ्क्य, अविदुषः सकाशाद् विदुषो विशेषं दर्शयति -
यस्त्विति ।
सर्वकर्मपरित्यागे प्राप्तं मरणं व्यावर्तयति -
आस्त इति ।
वृत्तिं लभमानोऽपि शरीरतापेन आध्यात्मिकादिना तप्यमानः तिष्ठति इति चेत् , नेत्याह -
सुखमिति ।
कार्यकरणसङ्घातपारवश्यं पर्युदस्यति -
वशीति ।
आसनस्य अपेक्षितम् अधिकरणं निर्दिशति -
नवेति ।
देहसम्बन्धामिमानाभासवत्त्वम् आह -
देहीति ।
मनसा सर्वकर्मसन्यासेऽपि लोकसङ्ग्रहार्थं बहिः सर्वं कर्म कर्तव्यम् , इति प्राप्तं प्रत्याह -
नैवेति ।
तान्येव सर्वाणि कर्माणि परित्याज्यानि विशिनष्टि -
नित्यमिति ।
तेषां परित्यागे हेतुमाह -
तानीति ।
यदुक्तं सुखमास्त इति, तद् उपपादयति -
त्यक्तेति ।
जितेन्द्रियत्वं कायवशीकारस्यापि उपलक्षणम् । द्वे श्रोत्रे, द्वे चक्षुषी, द्वे नासिके, वागेका, इति सप्त शीर्षण्यानि शिरोगतानि शब्दाद्युपलब्धिद्वाराणि ।
अथापि कथं नवद्वारत्वम् ? अधोगताभ्यां पायूपस्थाभ्यां सह, इत्याह -
अर्वागिति ।
शरीरस्य पुरसाम्यं स्वामिना पौरैश्च अधिष्ठितत्वेन दर्शयति -
आत्मेत्यादिना ।
यद्यपि देहे जीवनत्वात् देहसम्बन्धाभिमानाभासवान् अवतिष्ठते, तथापि प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन् अविषीदन् व्यामोहादिरहितश्च तिष्ठति, इति मत्वा, आह -
तस्मिन्निति ।
विशेषणम् आक्षिपति -
किमिति ।
तदनुपपत्तिमेव दर्शयति -
सर्वो हीति ।
सर्वसाधारणे देहावस्थाने, संन्यस्य देहे तिष्ठति विद्वान् , इति विशेषणम् अकिञ्चित्करमिति फलितमाह -
तत्रेति ।
विशेषणफलं दर्शयन् उत्तरम् प्राह -
उच्यत इति ।
किमविवेकिनं प्रति विशेषणानर्थक्यं चोद्यते ! किं वा विवेकिनं प्रति ? इति विकल्प्य, आद्यम् अङ्गीकरोति -
यस्त्विति ।
अज्ञत्वं देहित्वे हेतुः । तदेव देहित्वं स्फुटयति -
देहेति ।
सङ्घातात्मदर्शिनोऽपि देहे स्थितिप्रतिभासः स्याद् , इति चेत् नेत्याह -
नहीति ।
द्वितीयं दूषयति -
देहादीति ।
गृहादिषु देस्यावस्थानेन आत्मावस्थानभ्रमव्यावृत्त्यर्थं देहे विद्वान् आस्त इति विशेषणम् उपपद्यते ; विवेकवतो देहे अवस्थानप्रतिभाससम्भवात् इत्यर्थः ।
ननु विवेकिनो देहावस्थानप्रतिभानेऽपि वाङ्मनोदेहव्यापारात्मनां कर्मणां तस्मिन् प्रसङ्गाभावात् , तत्त्यागेन कुतः तस्य देहेऽवस्थानम् उच्यते ? तत्राह -
परकर्मणां चेति ।
ननु विवेकिनो दिगाद्यनवच्छिन्नबाह्याभ्यन्तराविक्रियब्रह्मात्मतां मन्यमानस्य कुतो देहे अवस्थानम् आस्थातुं शक्यते ? तत्राह -
उत्पन्नेति ।
तत्र हेतुमाह -
प्रारब्धेति ।
यदि प्रारब्धफलं धर्माधर्मात्मकं कर्म तस्योपभुक्तस्य शेषात् अनुपभुक्ताद्देहादिसंस्कारोऽनुवर्तते तदनुवृत्त्या च तत्रैव देहे विशेषविज्ञानम् अवस्थानविषयम् उपपद्यते ; अतो विवेकवतः संन्यासिनो देहे अवस्थानव्यपदेशः सम्भवति, इत्यर्थः ।
अविद्वत्प्रत्ययापेक्षया विशेषणासम्भवेऽपि विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरति -
देह एवेति ।
देहे स्वावस्थानविषयो विद्वत्प्रत्ययः, तदविषयश्चाविद्वत्प्रत्ययः, तयो एवं भेदे विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरन्नेव हेतुं विशदयति -
विद्वदिति ।
आरोपितकर्तृत्वाद्यभावेपि स्वगतकर्तृत्वादि दुर्वारम् , इति आशङ्कामनूद्य, दूषयति -
यद्यपीत्यादिना ।
क्रियासु प्रवर्तयन् आस्त इति पूर्वेण सम्बन्धः, पूर्वस्यापि शतुः एवमेव सम्बन्धः ।
कर्तृत्वं कारयितृत्वं च आत्मनो न, इत्यत्र विचारयति -
किमिति ।
यत्कर्तृत्वं कारयितृत्वं च, तत्किं देहिनः स्वात्मसमवायि सदेव संन्यासात् न भवतीत्युच्यते ? यथा गच्छतो देवदत्तस्य स्वगतैव गतिः, तत्स्थित्या त्यागान्न भवति, अथवा स्वारस्येन कर्तृत्वं कारयितृत्वं च आत्मनो नास्तीति वक्तव्यम् ; आद्ये सक्रियत्वं, द्वितीय कूटस्थत्वमित्यर्थः ।
द्वितीयं पक्षमाश्रित्य उत्तरमाह -
अत्रेति ।
उक्तेऽर्थे वाक्योपक्रमम् अनुकूलयति -
उक्तं हीति ।
तत्रैव वाक्यशेषमपि संवादयति -
शरीरस्थोऽपीति ।
स्मृत्युक्तेऽर्थे श्रुतिमपि दर्शयति -
ध्यायतीवेति ।
उपाधिगतैव सर्वा विक्रिया, न आत्मनि स्वतो अस्ति, इत्यर्थः ॥ १३ ॥
आत्मनो यदुक्तं कारयितृत्वं नास्तीति, तत्प्रपञ्चयति -
नेत्यादिना ।
यद्यपि लोकस्य कर्तृत्वं न सृजति, इति नास्ति कारयितृत्वं, तथापि रथशकटादीनि कुर्वन् भवति कर्ता, इत्याशङ्य, आह - न कर्माणीति ।
तथापि भोजयितृत्वेन विक्रियावत्त्वं दुष्परिहरम् , इत्याशङ्क्य, आह -
न कर्माणीति ।
कस्य तर्हि प्रवर्तकत्वं ? तदाह -
स्वभावस्त्विति ।
कुर्विति कर्तृत्वं लोकस्य न सृजति आत्मा, इति सम्बन्धः ।
रथादीनां कर्मत्वं साधयति -
ईप्सितेति ।
आत्मनो देहादिस्वामित्वेन प्रभुत्वम् ।
रथादिकृतवतो लोकस्य रथादिफलेन सम्बन्धमपि न सृजति आत्मा, इत्यात्मनो भोजयितृत्वं प्रत्याचष्टे -
नापीति ।
चतुर्थपादं शङ्कोत्तरत्वेन अवतारयति -
यदीत्यादिना ।
स्वभाववादस्तर्हि, इत्याशङ्क्य, व्याकरोति -
अविद्यालक्षणेति ।
प्रकृतेः विद्याभावत्वं व्युदसितुं ‘माया’ इत्युक्तम् ।
सा च सप्तमे वक्ष्यते । तेन प्रधानविलक्षणा, इत्याह -
दैवी हीति
॥ १४ ॥
कर्तृत्वभोक्तृत्वैश्वर्याणि आत्मनः अविद्याकृतानि इत्युक्तम् । इदानीमीश्वरे संन्यस्तसमस्तव्यापारस्य तदेकशरणस्य दुरितं सुकृतं वा तदनुग्रहार्थं भगवान् आदत्ते, मदेकशरणो मत्प्रीत्यर्थं कर्म कुर्वाणो दुष्कृताद्यनुमोदनेन अनुग्राह्यो मयेति प्रत्ययभाक्त्वात् , इत्याशङ्क्य, सोऽपि परमार्थतो न अस्य अस्ति अविक्रियत्वात् , इत्याह -
परमार्थतस्त्विति ।
पूर्वार्धगतानि अक्षराणि व्याख्याय आकाङ्क्षापूर्वकम् उत्तरार्धमवतार्थ व्याचष्टे -
किमर्थमित्यादिना
॥ १५ ॥
तर्हि सर्वेषाम् अनाद्यज्ञानावृतज्ञानत्वात् व्यामोहाभावाच्च कुतः संसारनिवृत्तिः ? इति ? तत्राह -
ज्ञानेनेति ।
सर्वमिति पूर्णत्वमुच्यते ।
ज्ञेयस्यैव वस्तुनः तत्परमिति विशेषणम् । तद्व्याचष्टे -
परमार्थतत्त्वमिति
॥ १६ ॥
विदुषां विविदिषूणां च अन्तरङ्गाणि विद्यापरिपाकसाधनानि इति उपदिदिक्षुः उत्तरश्लोकस्य अपेक्षितं पूरयति -
यत्परमिति ।
तस्मिन् परमार्थतत्त्वे परस्मिन् ब्रह्मणि, बाह्यं विषयमपोह्य, गता - प्रवृत्ता श्रवणमनननिदिध्यासनैः असकृदनुष्ठितैर्बुद्धिः - साक्षात्कारलक्षणा, येषां ते, तथा, इति प्रथमविशेषणं विभजते -
तस्मिन्निति ।
तर्हि बोद्धा - जीवः, बोद्धव्यं - ब्रह्म इति, जीवब्रह्मभेदाभ्युपगमः ? नेत्याह -
तदात्मान इति ।
कल्पितं बोद्धृबोद्धव्यत्वं वस्तुतस्तु न भेदोऽस्ति इति अङ्गीकृत्य व्याचष्टे -
तदेवेति ।
ननु देहादौ आत्माभिमानमपनीय ब्रह्मण्येव ‘अहमस्मि’ इत्यवस्थानं तत्तदनुष्ठीयमानकर्मप्रतिबन्धात् न सिध्यति, इत्याशङ्क्य, विशेषणान्तरमादत्ते -
तन्निष्ठा इति ।
तत्र निष्ठाशब्दार्थं दर्शयन् विवक्षितम् अर्थमाह -
निष्ठेत्यादिना ।
तथापि पुरुषार्थान्तरापेक्षाप्रतिबन्धात् कथं यथोक्ते ब्रह्मण्येव अवस्थानं सेद्धुं पारयति ? तत्राह -
तत्परायणाश्चेति ।
यथोक्तानामधिकारिणां परमपुरुषार्थस्य उक्तब्रह्मानतिरेकात् नान्यत्रासक्तिः, इति तात्पर्यार्थमाह -
केवलेति ।
ननु यथोक्तविशेषणवतां वर्तमानदेहपातेऽपि देहान्तरपरिग्रहव्यग्रतया कुतो यथोक्ते ब्रह्मण्यवस्थानम् आस्थातुं शक्यते ? तत्राह -
ते गच्छन्तीति ।
सति संसारकारणे दुरितादौ, संसारप्रसरस्य दुर्वारत्वात् न अपुनरावृत्तिसिद्धिः, इत्याशङ्क्य, आह -
ज्ञानेति ।
उक्तविशेषसम्पत्त्या दर्शितफलशालित्वम् आश्रमान्तरेष्वसम्भावितम् , इति मन्वानः विशिनष्टि -
यतय इति
॥ १७ ॥
यद् अपुनरावृत्तिसाधनं तत्त्वज्ञानं, तदेव प्रश्नद्वारेण विवृणोति -
येषामित्यादिना ।
विद्या - वेदार्थविज्ञानम् , इत्यङ्गीकृत्य विनयं व्याचष्टे -
विनय इति ।
उपशमः - निरहङ्कारत्वम् - अनौद्धत्यम् । पदार्थम् एवमुक्त्वा वाक्यार्थं दर्शयति -
विद्वानिति ।
‘गवि’ इत्यादि अनूद्य वाक्यार्थं कथयति-
विद्येति ।
हस्त्यादौ पण्डिताः ‘समदर्शिन’ इति उत्तरत्र सम्बन्धः ।
तत्र तत्र प्राणिभेदेषु तत्तद्गुणैः तत्तन्निमित्तसंस्कारैश्च संस्पृष्टत्वसम्भवात् न ब्रह्मणः समत्वम् , इत्याशङ्क्य आह -
सत्त्वादीति ।
‘तज्जैश्च’ इत्यत्र तच्छब्देन सत्त्वमेव गृह्यते ।
सात्त्विकसंस्कारैरिव राजससंस्काररैपि सर्वथैवासंस्पृष्टं ब्रह्म इत्याह -
तथेति ।
राजसैरिव तामसैरपि संस्कारैः ब्रह्म अत्यन्तमेव अस्पृष्टम् , इत्याह -
तथा तामसैरिति ।
ब्रह्मणोऽद्वितीयत्वं कूटस्थत्वमसङ्गत्वं च उक्तेऽर्थे हेतुः, इति मत्वा समशब्दार्थमाह -
सममिति ।
समदर्शित्वमेव पाण्डित्यम् , तद्व्याचष्टे -
ब्रह्मेति
॥ १८ ॥
सात्त्विकेषु राजसेषु तामसेषु च सत्वेषु समत्वदर्शनम् अनुचितम् , इति शङ्कते -
नन्विति ।
सर्वत्र समदर्शिनः तच्छब्देन परामृश्यन्ते ।
तेषां दोषवत्त्वाद् अभोज्यान्नत्वम् इत्यत्र प्रमाणमाह -
समासमाभ्यामिति ।
समानाम् - अध्ययनादिभिः समानधर्मकाणां, वस्रालङ्कारादिपूजया विषमे प्रतिपत्तिविशेषे क्रियमाणे सति, असमानाञ्च असमानधर्मकाणां - कस्यचित् एकवेदत्वम् , अपरस्य द्विवेदत्वमित्यादिधर्मवतां, प्रागुक्तया पूजया समे प्रतिपत्तिविशेषे, पूजयिता पुरुषविशेषं ज्ञात्वा प्रतिपत्तिमकुर्वन् , धनात् धर्माच्च हीयते । तेन सात्त्विके राजसतामसयोश्च समबुद्धिं कुर्वन् प्रत्यवैति, इत्यर्थः ।
उत्तरत्वेन उत्तरश्लोकमवतारयति -
न ते दोषवन्त इति ।
स्मृत्यवष्टम्भेन सर्वसत्त्वेषु समत्वदर्शिनां दोषवत्त्वमुक्तं कथं नास्ति ? इति, प्रतिज्ञामात्रेण सिध्यति, इति शङ्कते -
कथमिति ।
स्मृतेर्गतिम् अग्रे वदिष्यन् निर्दोषत्वं समत्वदर्शिनां विशदयति -
इहैवेति ।
सर्वेषां चेतनानां साम्ये प्रवणमनसां ब्रह्मलोकगमनमन्तरेण तस्मिन्नेव देहे परिभूतजन्मनाम् अशेषदोषराहित्ये हेतुमाह -
निर्दोषं हीति ।
वर्तमानो देहः सप्तम्या परिगृह्यते । तानेव समदर्शिनो विशिनष्टि -
येषामिति ।
ननु ब्रह्मणो निर्दोषत्वमसिद्धं, दोषवत्सु श्वपाकादिषु तद्दोषैर्दोषवत्त्वोपलम्भसम्भवात् , तत्राह -
यद्यपीति ।
यस्मात् तत् निर्दोषं, तस्मात् तस्मिन्ब्रह्मणि स्थितैःनिर्दोषैः सर्गो जितः, इति सम्बन्धः ।
ब्रह्मणो गुणभूयस्त्वात् अल्पीयान्दोषोऽपि स्यात् इत्याशङ्क्य, आह -
नापीति ।
चेतनस्य गुणविशेषविशिष्टत्वमनिष्टं निर्गुणत्वश्रवणात् इत्ययुक्तम् , इच्छादीनां परिशेषाद् आत्मधर्मत्वस्य कैश्चित् निश्चितत्वात् , इत्याशङ्क्य, आह -
वक्ष्यति चेति ।
आत्मनो निर्गुणत्वे वाक्यशेषं प्रमाणयति -
अनादित्वादिति ।
चकारः, वक्ष्यतीत्यनेन सम्बन्धार्थः ।
गुणदोषवशाद् आत्मानो भेदाभावेऽपि भेदः अन्त्यविशेषेभ्यो भविष्यति, इति प्रसङ्गात् आशङ्क्य, दूषयति -
नापीति ।
प्रतिशरीरम् आत्मभेदसिद्धौ तद्धेतुत्वेन तेषां सत्त्वं, तेषां च सत्त्वे प्रतिशरीरम् आत्मनो भेदसिद्धिः, इति परस्पराश्रयत्वमभिप्रेत्य हेतुमाह -
प्रतिशरीरमिति ।
आत्मानो भेदकाभावे फलितमाह -
अत इति ।
समत्वमेव व्याकरोति -
एकं चेति ।
ब्रह्मणो निर्विशेषत्वेन एकत्वाज्जीवानां च भेदकाभावेन एकत्वस्योक्तत्वाद् एकलक्षणत्वात् एकत्वं जीवब्रह्मणोः एष्टव्यम् , इत्याह -
तस्मादिति ।
जीवब्रह्मणो एकत्वे जीावानां ब्रह्मवत् निर्देषत्वं सिध्यति, इत्याह -
तस्मान्नेति ।
तच्छब्दार्थमेव स्फोरयति -
देहादीति ।
यदि सर्वसत्त्वेषु समत्वदर्शनमदुष्टमिष्टं, तर्हि कथं गौतमसूत्रम् ? इत्याशङ्क्य, आह -
देहादिसङ्घातेति ।
सूत्रस्य यथोक्ताभिमानवद्विषयत्वे गमकमाह -
पूजेति ।
यदि वा चतुर्वेदानामेव सप्तां पूजया वैषम्यं, यदि वा चतुर्वेदानां षडङ्गविदां च पूजया साम्यं, तदा, तेषाम् उक्तपूजाविषयाणां केषाञ्चित् मनोविकारसम्भवे कर्ता प्रत्यवैति, इति अविद्वद्विषयत्वं सूत्रस्य प्रतिभाति, इत्यर्थः ।
तत्रैव च अनुभवम् अऩुकूलत्वेन उदाहरति -
दृश्यते हीति ।
देहादिसङ्घाताभिमानवतां गुणदोषसम्बन्धसम्भवात् तद्विषयं सूत्रम् , इत्युक्तम् । इदानीं ब्रह्मात्मदर्शनाभिमानवतां गुणदोषासम्बन्धात् न तद्विषय सूत्रम् , इत्यभिप्रेत्याह -
ब्रह्म त्विति ।
इतश्च नेदं सूत्रं ब्रह्मविद्विषयम् , इत्याह -
कर्मीति ।
तत्रैव पूजापरिभवसम्भवात् इत्यर्थः ।
ननु यत्र समत्वदर्शनं, तत्रैव तु इदं सूत्रं, नतु कर्मिणि अकर्मिणि वा इति विभागोऽस्ति, तत्राह -
इदं त्विति ।
समत्वदर्शनस्य संन्यासिविषयत्वेन प्रस्तुतत्वे हेतुमाह -
सर्वकर्माणीति ।
आऽध्यायपरिसमाप्तेः ‘सर्वकर्माणि’ इत्यारभ्य तत्र तत्र सर्वकर्मसंन्यासाभिधानात् तद्विषयम् इदं समत्वदर्शनं गम्यते । तत्र तन्निरहङ्कारे निरवकाशं सूत्रमित्यर्थः ॥ १९ ॥
ननु - इष्टानिष्टप्राप्तिभ्यां हर्षविषादौ विद्वानपि कुर्वन् निर्दोषे ब्रह्मणि कथं स्थितिं लभेत ? इत्याशङ्क्य, आकाङ्क्षितं पूरयन् उत्तरश्लोकमुत्थापयति -
यस्मादिति ।
आत्मज्ञाननिष्ठावतो विदुषो हर्षविषादनिमित्ताभावात् न तौ उचितौ, इत्याह - स्थिरबुद्धिरिति ।
ननु हर्षविषादनिमित्तत्वं प्रियाप्रिययोः सिद्धम् , इति कथं तत्प्राप्त्या हर्षोद्वेगौ न कर्तव्यौ ? इति नियुज्यते, तत्राह -
देहेति ।
विदुषोऽपि प्रियाप्रियप्राप्तिसामर्थ्यादेव हर्षविषादौ दुर्वारौ, इत्याशङ्क्य, आह -
न केवलेति ।
अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्त्ययोगात् न तन्निमित्तौ हर्षविषादौ इत्यर्थः ।
इतोऽपि विदुषो हर्षविषादावसम्भावितौ इत्याह -
किञ्चेति ।
निर्दोषे ब्रह्मणि प्रागुक्ते दृढप्रतिपत्तिः, संमोहेन हर्षादिहेतुना रहितः, यथोक्ते सर्वदोषरहिते ब्रह्मणि ‘अहं अस्मि’ इति विद्यावान् , अशेषदोषशून्ये तस्मिन्नेव ब्रह्मणि स्थितः तदनुरोधात् कर्माणि अमृष्यमाणः नैव हर्षविषादभागी भवितुमलमित्यर्थः ॥ २० ॥
शब्दादिविषयप्रीतिप्रतिबन्धात् न कस्यचिदपि ब्रह्मणि स्थितिः सिध्येत् , इत्याशङ्क्य, आह -
किञ्चेति ।
न केवलं पूर्वोक्तरीत्या ब्रह्मणि स्थितो हर्षविषादरहितः, किन्तु विधान्तरेणापि इत्यर्थः ।
यावद्यावत् विषयेषु रागरूपमावरणं निवर्तते, तावत्तावत् आत्मस्वरूपसुखमभिव्यक्तं भवति, इत्याह -
बाह्येति ।
न केवलम् असक्तात्मा शमवशादेव सुखं विन्दते, किन्तु ब्रह्मसमाधिना समाहितान्तःकरणः सुखमनन्तं प्राप्नोति, इत्याह -
स ब्रह्मेति ।
तत्र पूर्वार्धं व्याचष्टे -
बाह्याश्चेति ।
समाधिसम्यग्ज्ञानद्वारा निरतिशयसुखप्राप्तिमुत्तरार्धव्याख्यानेन कथयति -
ब्रह्यणीत्यादिना ।
शब्दादिविषयविमुखस्य अनन्तसुखाप्तिसम्भवात् तदर्थिना, प्रयत्नेन विषयवैमुख्यं कर्तव्यम् , इति शिष्यशिक्षार्थम् आह -
तस्मादिति
॥ २१ ॥
तत्रैव हेत्वन्तरपरत्वेन उत्तरश्लोकमुदाहरति -
इतश्चेति ।
विषयेभ्यः सकाशात् इन्द्रियाणि, इति शेषः ।
वैराग्यार्थमेव वैषयिकाणि सुखानि दूषयति -
ये हीति ।
ननु विषयेन्द्रियसम्प्रयोगसम्प्रसूतेषु भोगेषु जन्तूमाम् अभिरुचिदर्शनात् कुतस्तेषां दुःखयोनित्वम् ? इत्याशङ्क्य, अविवेकिनां तेष्वासङ्गेऽपि न विवेकिनाम् , इत्याह -
आद्यन्तवन्त इति ।
यस्मात् आधिव्याधिजरामरणादिसहितेभ्यः समागमनादिक्लेशरूपभागिभ्यश्च विषयेन्द्रिय - सम्बन्धेभ्यो भोगाः सुखलवानुभवा जायन्ते, तस्मात् ते दुःखहेतवो भवन्ति, इति योजना ।
अविद्याकार्यत्वात् दुःखानां कुतो भोगजन्यत्वम् ? इत्याशङ्क्य, भोगानाम् अविद्याप्रयुक्तत्वात् तन्निबन्धनत्वं दुःखानां युक्तम् , इत्यभिप्रेत्य आह -
अविद्येति ।
भोगानां दुःखयोनित्वे मानवमनुभवम् उपन्यस्यति -
दृश्यन्ते हीति ।
ऐहिकानां भोगानां दुःखनिमित्तत्वेऽपि न आमुष्मिकाणां तथात्वम् , अनुभवाभावात् , इत्याशङ्क्य, अवधारणसामर्थ्यसिद्धमर्थम् आह -
यथेति ।
पूर्वार्धस्य अक्षरार्थमुक्त्वा तात्पर्यार्थमाह -
नेत्यादिना ।
इतश्च विषयेभ्यः सकाशात् इन्द्रियाणि निवर्तयित्व्यानि, इत्याह -
न केवलमिति ।
आद्यन्तवत्त्वे मध्यक्षणवर्तित्वेन क्षणभङ्गुरत्वात् उपेक्षणीयत्त्वं भोगानां सिध्यति ।
अस्ति हि तेषां क्षणभङ्गुरत्वं क्षणिकविषयाकारमनोवृत्तिव्यङ्ग्यत्वात् , इति मन्वानः सन् आह -
अत इति ।
बुद्धिपूर्वकारिणां विवेकवतां भोगेषु उपेक्षोपलब्धेश्च तेषामाभासत्वं प्रतिभाति, इत्याह -
न तेष्विति ।
प्रतीकोपादानमाद्यमिदं पुनर्व्याख्यानमिति, न पुनरुक्तिः ।
ननु केषाञ्चिद् भोगेष्वभिरुचिः उपलभ्यते, तत्राह -
अत्यन्तेति
॥ २२ ॥
उत्तरश्लोकस्य तात्पर्यमाह -
अयं चेति ।
श्रेयोमार्गप्रतिपक्षत्वं कष्टतमत्वे हेतुः, तत्रैव हेत्वन्तरमाह -
सर्वेति ।
प्रयत्नाधिक्यस्य कर्तव्यत्वे हेतुं सूचयति -
दुर्निवार्य इति ।
प्रसिद्धं हि कामक्रोधोद्भवस्य वेगस्य दुर्निवारत्वं, येन मातरमपि चाधिरोहति, पितरमपि हन्ति, तमवश्यं परिहर्तव्यं दर्शयति -
शक्नोतीति ।
यथोक्तं वेगं बहिरनर्थरूपेण परिणामात्प्रागेव देहान्तरुत्पन्नं यः सोढुं क्षमते, तं स्तौति -
स युक्त इति ।
मरणसीमाकरणस्य तात्पर्यमाह -
मरणेति ।
प्रसिद्धौ हि शब्दः । तत्र हेतुमाह -
अनन्तेति ।
व्याध्युपहतानां वृद्धानां च कामादिवेगो न भवति, इत्याशङ्क्य, आह -
यावदिति ।
कामक्रोधोद्भवं वेगं व्याख्यातुम् आदौ कामं मनोविकारविशेषत्वेन व्याचष्टे -
काम इति ।
कथमस्य मनोविकारविशेषत्वं ? तदाह -
इन्द्रियेति ।
कामः, गार्धिः, तृष्णा इति पार्यांयाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः । क्रोधश्च मनोविकारविशेषः तद्वतः, तृष्णा इति पर्यायाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः ।
क्रोधश्च मनोविकारविशेषः तद्वत् , इत्याह -
क्रोधश्चेति ।
तमेव क्रोधं स्पष्टयति -
आत्मन इति ।
एवं कामक्रोधौ व्याख्याय, तयोरुत्कटत्वावस्थात्मनो वेगस्य ताभ्यामुत्पत्तिमुपन्यस्यति -
ताविति ।
यथोक्तवेगावगमोपायमुपदिशति -
रोमाञ्चनप्रहृष्टनेत्रेत्यादिना ।
उभयविधवेगं यो जीवन्नेव सोढुं शक्नोति, तं पुरुषधौरेयत्वेन स्तौति - तमित्यादिना ॥ २३ ॥
ज्ञानस्य अत्यन्तमन्तरङ्गमात्मनिष्ठत्वं दर्शयन् प्रकृतं ब्रह्मविदमेव विशिनष्टि -
कथम्भूतश्चेति ।
यथा अन्तरेव सुखं न बाह्यविषयैः, तथा अन्तरेव ज्योतिर्न श्रोत्रादिभिः । अतो विषयान्तरविज्ञानरहितः, इत्याह -
तथेति ।
यथोक्तविशेषणसमाधिमान् जीवन्नेव मुक्तिमधिगच्छति, इत्याह -
स योगीति ।
आत्मनि अन्तः - सुखमिति वाह्यविषयनिरपेक्षत्वं विवक्षितम् । अन्तरारामत्वं च स्त्र्यादिविषयापेक्षामान्तरेण क्रीडाप्रयुक्तफलभाक्त्वम् मतम् । इन्द्रियादिजन्यप्रकाशशून्यत्वम् आत्मज्योतिष्ट्वम् इष्टम् । यथोक्तविशेषणसम्पन्नः समाहितश्च जीवन्नेव ब्रह्मभावं प्राप्नोति ।
ब्रह्मणि परिपूर्णे निर्वृतिं - सर्वानर्थनिवृत्त्युपलक्षितां स्थितिमनतिशयानन्दाविर्भावलक्षणां, प्राप्नोति, इत्याह -
य ईदृश इति
॥ २४ ॥
मुक्तिहेतोर्ज्ञानस्य साधनान्तरमाह -
किञ्चेति ।
यज्ञादिनित्यकर्मानुष्ठानात् पापादिलक्षणं कल्मषं क्षीयते, ततश्च श्रवणाद्यावृत्तेः सम्यग्दर्शनं जायते ततो मुक्तिरप्रयत्नेन भवति, इत्याह -
लभन्त इति ।
ज्ञानप्राप्त्युपायान्तरं दर्शयति -
छिन्नेति ।
श्रवणादिना संशयनिरसनं कार्यकरणनियमनं च, दयालुत्वेन अहिंसकत्वम् इत्येतदपि सम्यग्ज्ञानप्राप्तौ कारणमित्यर्थः । अक्षरव्यास्व्यानं स्पष्टत्वात् न व्याख्यायते ॥ २५ ॥
पूर्वं कामक्रोधयोर्वेगः सोढव्यो दर्शितः । सम्प्रति तावेव त्याज्यौ इत्याह -
किञ्चेति ।
ननु - दर्शितविशेषणवतां मृतानामेव मोक्ष, नतु जीवताम् - इति चेत् ; न, इत्याह -
अभित इति ।
अस्मादादीनामपि तर्हि प्रभूतकामादिप्रभावविधुराणां किमिति मोक्षो न भवति ? इत्याशङ्क्य, सम्यग्दर्शनवैशेष्याभावात् , इत्याह -
विदितेति ।
उक्तेऽर्थे श्लोकाक्षराणामन्वयमाचष्टे -
कामक्रोधेत्यादिना
॥ २६ ॥
वृत्तम् अनूद्य उत्तरश्लोकत्रयस्य तात्पर्यार्थम् आह -
सम्यग्दर्शनेति ।
ईश्वरार्पितसर्वभावेनेति । भगवति परस्मिन् ईश्वरे समर्पितः, सर्वेषां - देहेन्द्रियमनसाम् , भावः - चेष्टाविशेषः, न क्कचिदपि बहिः तेषां व्यापारः, तेन इत्यर्थः । कर्मयोगस्य तत्फलस्य च अभिधानानन्तरमिति अथशब्दार्थः ।
॥ २७ ॥
स्वतो बाह्यानां विषयाणां कुतो बहिष्करणम् ? इत्याशङ्क्य, आह -
श्रोत्रादीति ।
तेषां बहिष्करणं कीदृक् ? इत्याशङ्क्य, आह -
तानिति
विषयप्रावण्यं परित्यज्य, चक्षुरपि भ्रुवोर्मध्ये विक्षेपपरिहारार्थं कृत्वा, प्राणापानौ नासाभ्यन्तरचरणशीलौ समौ - न्यूनाधिकंवर्जितौ कुम्भकेन निरुद्धौ कृत्वा, करणानि सर्वाणि एवं संयम्य प्राणायामपरो भत्वा, किं कुर्यात् ? इत्यपेक्षायाम् , आह -
यतेन्द्रियेति ।
इन्द्रियादिसंयमं कृत्वा मोक्षमेव अपेक्षमाणो मननशीलः स्यात् , इत्यर्थः ।
ज्ञानातिशयनिष्ठस्य सर्वदा इच्छादिशून्यस्य सन्यासिनो मुक्तेः अनायाससिद्धत्वात् न तस्य किञ्चिदपि कर्तव्यम् अस्ति, इत्याह -
विगतेति ।
पूर्वार्धाक्षराणि व्याकरोति -
यतेत्यादिना ।
द्वितीयार्धाक्षराणि व्याचष्टे -
विगतेत्यादिना
॥ २८ ॥
अधिकारिणो यथोक्तस्य कर्तव्याभावे ज्ञातव्यमपि नास्ति, इत्याशङ्क्य, परिहरति -
एवमित्यादिना ।
प्रसिद्धं भोक्तारं व्यवच्छिनत्ति -
सर्वलोकेति ।
‘ततो ह्यस्य बन्धविपर्ययौ’(ब्र. सू. ३-२-५) इति न्यायेन सर्वफलदातृत्वं दर्शयति -
सुहृदमिति ।
उक्तेश्वरज्ञाने फलं कथयति -
ज्ञात्वेति ।
यज्ञेषु तपस्सु च द्विधा भोक्तृत्वं व्यनक्ति -
कर्तृरूपेणेति ।
हिरण्यगर्भादिव्यवच्छेदार्थं विशिनष्टि -
महान्तमिति ।
स्वपरिकरोपकारिणं राजानं व्यावर्तयति -
प्रत्युपकारेति ।
ईश्वरस्य ताटस्थ्यं व्युदस्यति -
सर्वभूतानामिति ।
तर्हि तत्र तत्र व्यवस्थितकर्मतत्फलसंसर्गित्वं स्यात् , इत्याशङ्क्य, आह -
सर्वकर्मेति ।
न च तस्य बुद्धितद्वृत्तिसम्बन्धोऽपि वस्तुतोऽस्ति, इत्याह -
सर्वप्रत्ययेति ।
यथोक्तेश्वरपरिज्ञानफलम् आभिदधाति -
मां नारायणमिति ।
तदेवं कर्मयोगस्य अमुख्य सन्यासापेक्षया प्रशस्तत्वेऽपि ततो मुख्यसंन्यासस्य आधिक्यात् तद्वतो बुद्धिशुद्ध्यादियुक्तस्य कामक्रोधोद्भवं वेगम् इहैव सोढुं शक्तस्य शमदमादिमतो योगाधिकृतस्य त्वम्पदार्थाभिज्ञस्य परमात्मानं प्रत्यक्त्वेन जानतो मुक्तिः इति सिद्धम् ॥ २९ ॥
इति आनन्दगिरिकृतटीकायां पञ्चमोऽध्यायः ॥ ५ ॥