अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

पञ्चमोऽध्यायः

पूर्वो­त्त­रा­ध्या­ययोः सम्बन्धमभिदधानो वृत्ता­नु­वा­द­पू­र्व­कम् अर्जु­न­प्र­श्न­स्या­भि­प्रायं प्रदर्शयितुं प्रक्रमते - कर्मणीत्यादिना इत्यारभ्य कर्म­ण्य­क­र्म­द­र्श­न­मुक्त्वा तत्प्रशंसा प्रसारिता, इत्याह -
स युक्त इति ।

ज्ञानवन्तं सर्वाणि कर्माणि लोकसङ्ग्रहार्थं कुर्वन्तं ज्ञान­ल­क्ष­णे­ना­ग्निना दग्धसर्वकर्माणं - कर्म­प्र­यु­क्त­ब­न्ध­वि­धुरं, विवेकवन्तो वदन्तीति, ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन् विविदिषोः साधनरूपमपि संन्यासं भग­वा­न्वि­व­क्षि­त­वान् , इत्याह -
ज्ञानाग्नीति ।

निरा­शी­रि­त्या­रभ्य शरी­र­स्थि­ति­मा­त्र­का­रणं कर्म, शरीरस्थितावपि सङ्गरहितः सन् आचरन् , धर्माधर्मफलभागी न भवतीत्यपि पूर्वो­त्त­रा­भ्या­म­ध्या­याभ्यां द्विविधं संन्यासं सूचितवान् , इत्याह -
शारीरमिति ।

यदृ­च्छे­त्या­दा­वपि संन्यासः सूचितः तद्ध­र्म­फ­ला­यो­प­दे­शात् , इत्याह -
यदृच्छेति ।

ज्ञानस्य यज्ञ­त्व­स­म्पा­द­न­पू­र्वकं प्रशंसावचनादपि कर्मसंन्यासो दर्शितो ज्ञाननिष्ठस्य, इत्याह -
ब्रह्मार्पणमिति ।

ज्ञान­य­ज्ञ­स्तु­त्यर्थं नानाविधान् यज्ञान् अनूद्य तेषां देहा­दि­व्या­पा­र­ज­न्य­त्व­व­च­नेन आत्मनो निर्व्या­पा­र­त्व­वि­ज्ञ­न­फ­ला­भि­ला­षा­दपि यथोक्तमात्मानं विविदिषोः सर्व­क­र्मं­स­न्या­सेऽ­धि­कारो ध्वनित, इत्याह -
कर्मजानिति ।

समस्तस्यैव अवशेषवर्जितस्य कर्मणो ज्ञाने पर्य­व­सा­ना­भि­धा­नाच्च जिज्ञासोः सर्वकर्मसन्यासः सूचितः, इत्याह –
सर्वमिति ।

‘तद्विद्धि’ इत्यादिना ज्ञान­प्रा­प्त्यु­पायं प्रणिपातादि प्रदर्श्य, प्राप्तेन ज्ञाने­ना­ति­श­य­प्रा­हा­त्म्य­वता सर्वकर्मणां निवृत्तिरेव, इति वदता च, ज्ञानार्थिनः संन्यासेऽधिकारो दर्शितो भगवता, इत्याह -
ज्ञानाग्निरिति ।

ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात्कर्माणि संन्यस्य व्यव­स्थि­त­म­प्र­मत्तं - वशी­कृ­त­का­र्य­क­र­ण­स­ङ्घा­त­वन्तं प्रातिभासिकानि कर्माणि न निबध्नन्ति, इत्यपि द्विविधः संन्यासो भगवतोक्तः, इत्याह -
योगेति ।

‘कर्मणी’ त्यारभ्य ‘योग­सं­न्य­स्त­क­र्मा­णम्’ इत्य­न्तै­रु­दा­हृ­तै­र्व­चनैः उक्तं संन्या­स­मु­प­सं­ह­रति -
इत्यन्तैरिति ।

तर्हि कर्म­सं­न्या­स­स्यैव जिज्ञासुना ज्ञानवता च आदरणीयत्वात् कर्मानुष्ठानम् अना­दे­य­मा­प­न्न­मि­त्या­शङ्क्य, उक्त­म­र्था­न्त­र­म­नु­व­दति -
छित्त्वैनमिति ।

कर्म­त­त्त्या­ग­यो­रु­क्तयोः एकेनैव पुुरु­षे­णा­नु­ष्ठे­य­त्व­स­म्भ­वात् न विरोधोऽस्ति इत्याशङ्क्य, युगपद्वा क्रमेण वा अनुष्ठानम् , इति विकल्प्य, आद्यं दूषयति
उभयोश्चेति ।

द्वितीयं प्रत्याह -
कालभेदेनेति ।

उक्त­यो­र्द्व­यो­रे­केन पुरु­षे­णा­नु­ष्ठे­य­त्वा­स­म्भवे, कथं कर्त­व्य­त्व­सिद्धिः ? इत्याशङ्क्याह -
अर्थादिति ।
द्वयो­रु­क्त­यो­रे­केन युग­प­त्क्र­मा­भ्याम् अनु­ष्ठा­ना­नु­प­प­त्ते­रि­त्यर्थः ।

अन्यतरस्य कर्तव्यत्वे, कतरस्येति कुतो निर्णय ? द्वयोः संनि­धा­ना­वि­शे­षात् इत्याशङ्क्य, आह -
यत्प्र­श­स्य­त­र­मिति ।

भगवता कर्मणां संन्यासो योगश्चोक्तः, नच तयो समु­च्चि­त्या­नु­ष्ठा­नम् । तेन अन्यतरस्य श्रेष्ठस्य अनुष्ठेयत्वे, तद्बुभुत्सया प्रश्नोपपत्तिः, इत्युपसंहरति -
इत्येवमिति ।

नायं प्रष्टु­र­भि­प्रायः, कर्म­सं­न्या­स­क­र्म­यो­ग­यो­र्भि­न्न­पु­रु­षा­नु­ष्ठे­य­त्व­स्यो­क्त­त्वात् , एकस्मिन्पुरुषे प्राप्त्यभावात् इति शङ्कते -
नन्विति ।

चोद्यमङ्गीकृत्य परिहरति -
सत्यमेवेति ।

कीदृशस्तर्हि प्रष्ठु­र­भि­प्रायः ? येन प्रश्न­प्र­वृत्तिः इति पृच्छति -
कथमिति ।

एकस्मिन्पुरुषे कर्मतत्त्यागयोः अस्ति प्राप्तिः, इति प्रष्टु­र­भि­प्रायं प्रतिनिर्देष्टं प्रारभते -
पूर्वो­दा­हृ­तै­रिति ।
यथा ‘स्वर्गकामो यजेत’ इति स्वर्ग­का­मो­द्दे­शेन यागो विधीयते, नतु तस्यैवाधिकारो नान्यस्य इत्यपि प्रतिपाद्यते, वाक्य­भे­द­प्र­स­ङ्गात् ; तथा अनात्मवित् कर्ता संन्यासे पक्षे प्राप्तोऽ­नू­द्यते, नचा­त्म­वि­त्क­र्तृ­क­त्व­मेव संन्यासस्य नियम्यते, वैरा­ग्य­मा­त्रे­णा­ज्ञ­स्यापि संन्या­स­वि­धि­द­र्श­नात् । तस्मात् कर्म तत्त्यागयोः अवि­द्व­त्क­र्तृ­क­त्व­मस्ति, इति मन्वा­न­स्या­र्जु­नस्य प्रश्नः सम्भवतीति भावः ।

भवतु संन्यसस्य कर्त­व्य­त्व­वि­वक्षा, तथापि कथं प्रश­स्य­त­र­बु­भु­त्सया प्रश्न­प्र­वृत्तिः ? इत्याशङ्क्य, आह -
प्राधान्यमिति ।

तथापि कथ­मे­क­स्मि­न्पु­रुषे तयोरप्राप्तौ उक्ताभिप्रायेण प्रश्नवचनं प्रकल्प्यते ? तत्राह -
अनात्मविदपीति ।
आत्मविदो विद्या­सा­म­र्थ्यात् कर्म­त्या­ग­ध्रौ­व्य­वत् इतरस्यापि सति वैराग्ये, तत्त्या­ग­स्या­व­श्य­क­त्वात् तत्र कर्ताऽसौ प्राप्तः अत्रानूद्यते । तथाच कर्मतत्त्यागयोः एकस्मिन् अविदुषि प्राप्ते­र्व्य­क्त­त्वात् उक्ताभिप्रायेण प्रश्न­प­वृ­त्ति­र­वि­रुद्धा इत्यर्थः ।

संन्यासस्य आत्म­वि­त्क­र्तृ­क­त्व­मे­वात्र विवक्षित किं न स्यात् ? इत्याशङ्क्य, कर्त्र­न्त­र­प­र्यु­दासः संन्यासविधिश्च इत्यर्थभेदे वाक्य­भे­द­प्र­स­ङ्गात् मैवमित्याह -
न पुनरिति ।
इतिशब्दः वाक्य­भे­द­प्र­स­ङ्ग­हे­तु­द्यो­त­नार्थः ।

ततः किम् ? इत्याशङ्क्य, फलितमाह -
एवमिति ।
कर्मा­नु­ष्ठा­न­क­र्म­सं­न्या­सयोः अवि­द्व­त्क­र्तृ­क­त्व­म­प्यस्ति, इत्ये­वं­म­न्वा­न­स्या­र्जु­नस्य प्रश­स्य­त­र­वि­वि­दि­षया प्रश्नो नानुपपन्न इति सम्बन्धः ।

तयोः समुच्चित्य अनुष्ठानसम्भवे कथं प्रश­स्य­त­र­वि­वि­दिषा ? इत्याशङ्क्य आह -
पूर्वोक्तेनेति ।
उभयोश्चेत्यादौ उक्चप्रकारेण कर्म­त­त्त्या­ग­यो­र्मिथो विरोधात् न समु­च्चि­त्या­नु­ष्ठानं सावकाशमित्यर्थः ।

भवतु तार्हि यस्य कस्य­चि­द­न्य­त­र­स्या­नु­ष्ठे­य­त्व­मिति, कुत उक्ताभिप्रायेण प्रश्न­प्र­वृत्तिः ? इत्याशङ्क्य आह -
अन्यतरस्येति ।
उभयप्राप्तौ समु­च्च­या­नु­प­पत्तौ अन्यतरपरिग्रहे विशे­ष­स्या­न्वे­ष्य­त्वात् उक्ताभिप्रायेण प्रशनोपपत्तिः इत्यर्थः ।

इतश्च अवि­द्व­त्क­र्तृ­कयोः संन्या­स­क­र्म­यो­गयोः कतरः श्रेयान् ? इति प्रष्टु­र­भि­प्रायो भाति, इत्याह -
प्रतिवचनेति ।

किं तत्प्रतिवचनं ? कथं वा तन्निरूपणम् ? इति पृच्छति -
कथमिति ।

तत्र प्रतिवचनं दर्शयति -
संन्यासेति ।

तन्निरूपणं कथयति -
एतदिति ।
तदुभयमिति निःश्रेयसकरत्वं कर्मयोगस्य श्रेष्ठत्वं च इत्यर्थः ।

गुण­दो­ष­वि­भा­ग­वि­वे­कार्थं पृच्छति - किञ्चेति । अतः अस्मिन् आद्ये पक्षे किं दूषणम् ? अस्मिन्वा द्वितीये पक्षे किं फलम् ? इति प्रश्नार्थः । तत्र सिद्धान्ती प्रथमपक्षे दोषमादर्शयति -
अत्रेत्यादिना ।

तदे­वा­नु­प­प­न्नत्वं व्यतिरेकद्वारा विवृणोति -
यदीत्यादिना ।
निःश्रे­य­स­क­र­त्वो­क्ति­रि­त्यत्र पारम्पर्येणेति द्रष्टव्यम् । विशि­ष्ट­त्वा­भि­धा­न­मिति प्रति­यो­गि­नोऽ­स­हा­य­त्वाद् अस्य च शुद्धिद्वारा ज्ञानार्थत्वात् इत्यर्थः ।

आत्मज्ञस्य कर्म­सं­न्या­स­क­र्म­यो­गयोः असम्भवे दर्शिते, चोदयति -
अत्राहेति ।

चोदयिता निर्धारणार्थं विमृशति -
किमित्यादिना ।

अन्य­त­रा­स­म्भ­वेऽपि सन्देहात् प्रश्नोऽवतरति इत्याह -
यदा चेति ।

यस्य कस्यचिदन्यतरस्य असम्भवो भविष्यति इत्याशङ्क्य, कार­ण­म­न्त­रे­णा­स­म्भवो भवन् अतिप्रसङ्गी स्यात् , इति मन्वानःसन् आह -
असम्भव इति ।

आत्मविदः सकारणं कर्मयोगासम्भवं सिद्धान्ती दर्शयति -
अत्रेति ।

सङ्ग्रहवाक्यं विवृण्वन् आत्मावित्त्वं विवृणोति -
जन्मादीति ।
तस्य यदुक्तं निवृ­त्त­मि­थ्या­ज्ञा­नत्वं, तदिदानीं व्यनक्ति सम्यगिति ।

विप­र्य­य­ज्ञा­न­मू­ल­स्ये­त्या­दिना उक्तं प्रपञ्चयति -
निष्क्रियेति ।
यथो­क्त­सं­न्या­स­मुक्त्वा ततो विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः ।

वैपरीत्यं स्फोरयन् कर्मयोगमेव विशिनष्टि -
मिथ्याज्ञानेति ।
मिथ्या च तत् अज्ञानं चेति अना­द्य­नि­र्वा­च्य­म­ज्ञानं, तन्मूलः अहं कर्ता इत्यात्मनि कर्तृत्वाभिमानः तज्जन्यः, तस्येति यावत् ।

यथोक्तं संन्यासमुक्त्वा यथो­क्त­क­र्म­यो­गस्य अस­म्भ­व­प्र­ति­पा­दने हेतुमाह -
सम्यग्ज्ञानेति ।

कुत्र तदभावप्रतिपादनं ? तदाह -
इहेति ।

उक्तं हेतुं कृत्वा आत्मज्ञस्य कर्मयोगासम्भवे फलितमाह -
यस्मादिति ।

इह शास्त्रे तत्र तत्रेत्यादौ उक्तमेव व्यक्तीकर्तुं पृच्छति -
केषु केष्विति ।

तानेव प्रदे­शा­न्द­र्श­यति -
अत्रेति ।

आत्म­स्व­रू­प­नि­रू­प­ण­प्र­दे­शेषु संन्या­स­प्र­ति­पा­द­नाद् आत्मविदः संन्यासो विवक्षितश्चेत् , तर्हि कर्मयोगोऽपि तस्य कस्मान्न भवति ? प्रकरणाविशेषात् , इति शङ्कते -
ननु चेति ।

आत्म­वि­द्या­प्र­क­रणे कर्म­यो­ग­प्र­ति­पा­द­न­मु­दा­ह­रति -
तद्यथेति ।

प्रकरणात् आत्मविदोऽपि कर्मयोगस्य सम्भवे फलितमाह -
अतश्चेति ।

आत्म­ज्ञा­नो­पा­य­त्वे­नापि प्रकरणपाठसिद्धौ ज्ञानादूर्ध्वं न्यायविरुद्धं कर्म कल्प­यि­तु­म­श­क्य­मिति परिहरति -
अत्रोच्यत इति ।
सम्य­ग्ज्ञा­न­मि­थ्या­ज्ञा­नयोः तत्कार्ययोश्च भ्रम­नि­वृ­त्ति­भ्र­म­स­द्भा­वयोः मिथो विरो­धा­त्क­र्तृ­त्वा­दि­भ्र­म­मूलं कर्म सम्य­ग्ज्ञा­ना­दूर्ध्वं न सम्भवतीत्यर्थः ।

आत्मज्ञस्य कर्मयोगासम्भवे हेत्वन्तरमाह -
ज्ञानयोगेनेति ।

इतश्चात्मविदो ज्ञानादूर्ध्वं कर्मयोगो न युक्तिमान् , इत्याह -
कृत­कृ­त्य­त्वे­नेति ।

ज्ञानवतो नास्ति कर्म इत्यत्र कारणान्तरमाह -
तस्येति ।

तर्हि ज्ञानवता कर्मयोगस्य हेयत्ववत् जिज्ञासुनापि तस्य त्याज्यत्वं, ज्ञानप्राप्त्या तस्यापि पुरु­षा­र्थ­सिद्धेः, इत्याशङ्क्य, जिज्ञासोरस्ति कर्मयोगापेक्षा इत्याह -
न कर्मणामिति ।
स्वरू­पो­प­का­र्य­ङ्ग­म­न्त­रेण अङ्गि­स्व­रू­पा­नि­ष्पत्तेः । ज्ञानानार्थिना कर्मयोगस्य शुद्ध्या­दि­द्वारा ज्ञान­हे­तो­रा­दे­य­त्व­मि­त्यर्थः ।

तर्हि ज्ञानवतमपि ज्ञान­फ­लो­प­का­रि­त्वेन कर्मयोगो मृग्यताम् , इत्याशङ्क्य आह -
योगारूढस्येति ।

उत्प­न्न­स­म्य­ग्ज्ञा­नस्य कर्माभावे शरी­र­स्थि­ति­हे­तो­रपि कर्मणोऽसम्भावत् न तस्य शरीरस्थितिः, तदस्थितौ च कुतो जीवन्मुक्तिः ? तदभावे च कस्यो­प­दे­ष्टृ­त्वम् ? उपदेशाभावे च कुतो ज्ञानोदयः स्यात् ? इत्याशङ्क्य, आह -
शारीरमिति ।

विदुषोऽपि शरी­र­स्थि­ति­रा­स्थिता चेत् , तन्मा­त्र­प्र­यु­क्तेषु दर्शनश्रवणादिषु कर्तृ­त्वा­भि­मा­नोऽपि स्यात् , इत्याशङ्क्य आह -
नैवेति ।
तत्त्ववित् इत्यनेन च समाहितचेतस्तया करोमीति प्रत्ययस्य सदैव अक­र्त­व्य­त्वो­प­दे­शा­दिति सम्बन्धः ।

यत्तु विदुषः शरी­र­स्थि­ति­नि­मि­त्त­क­र्मा­भ्य­नु­ज्ञाने तस्मि­न्क­र्तृ­त्वा­भि­मा­नोऽपि स्यादिति, तत्राह -
शरीरेति ।
आत्म­या­था­त्म्य­विदः तेष्वपि नाहं करोमीति प्रत्ययस्य नैव किञ्चि­त्क­रो­मी­त्यादौ अक­र्तृ­त्वो­प­दे­शात् न कर्तृ­त्वा­भि­मा­न­स­म्भा­वना इत्यर्थः ।

यथो­क्तो­प­दे­शा­नु­स­न्धा­ना­भावे विदुषोऽपि करोमीति स्वाभा­वि­क­प्र­त्य­य­द्वारा कर्मयोगः स्यात् , इत्याशङ्क्य, आह -
आत्मतत्त्वेति ।
यद्यपि विद्वान् यथोक्तमुपदेशं कदाचित् नानुसन्धत्ते, तथापि तत्त्व­वि­द्या­वि­रो­धात् मिथ्याज्ञानं तन्निमित्तं कर्म वा तस्य सम्भा­व­यि­तु­म­श­क्य­मि­त्यर्थः ।

आत्म­वि­त्क­र्तृ­कयोः संन्या­स­क­र्म­यो­ग­यो­र­यो­गात् तयोर्निः श्रेयसकरत्वम् अन्यतरस्य विशिष्टत्वम् , इत्ये­त­द­यु­क्त­मिति सिद्धत्वात् द्वितीयं पक्षमङ्गीकरोति -
यस्मादित्यादिना ।
तदीयाश्च कर्मसंन्यासात् कर्मयोगस्य विशि­ष्ट­त्वा­भि­धा­न­मिति सम्बन्धः ।

ननु कर्मयोगेन शुद्धबुद्धेः संन्यासो जायमानः तस्या­दु­त्कृ­ष्यते, कथं तस्मा­त्क­र्म­यो­ग­स्यो­त्कृ­ष्ट­त्व­वा­चो­यु­क्ति­र्युक्ता ? इति तत्राह -
पूर्वोक्तेति ।

वैलक्षण्यमेव स्पष्टयति -
सत्येवेति ।

स्वाश्र­म­वि­हि­त­श्र­व­णादौ कर्तृ­त्व­वि­ज्ञाने सत्येव पूर्वा­श्र­मो­पा­त्त­क­र्मै­क­देश - विषयसंन्यासात् कर्मयोगस्य श्रेयस्त्ववचनं ‘नैतादृशं ब्राह्म­ण­स्यास्ति वित्तम् ‘(म.भा. १२ - १७५ .३७) इत्या­दि­स्मृ­ति­वि­रु­द्धम् , इत्याशङ्क्य, आह -
यमनियमादीति ।
‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।
प्रीतिः प्रसादो माधु­र्य­म­क्रो­धश्च यमा दश ॥
दानमिज्या तपो ध्यानं स्वाध्या­यो­प­स्थ­नि­ग्रहौ ।
व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥ ‘
इत्यु­क्तै­र्य­म­निय मैः अन्यै­श्चा­श्र­म­धर्मैः विशि­ष्ट­त्वे­ना­नु­ष्ठा­तु­म­श­क्य­त्वात् , उक्त­सं­न्या­सा­त्क­र्म­यो­गस्य विशि­ष्ट­त्वो­क्ति­र्युक्ता इत्यर्थः ।

नहि कश्चिदिति न्यायेन कर्मयोगस्य इतरापेक्षया सुकरत्वाच्च तस्य विशिष्टत्ववचनं श्लिष्टमित्याह -
सुकरत्वेन चेति ।

प्रति­व­च­न­वा­क्या­र्था­लो­च­ना­त्सि­द्ध­म­र्थ­मु­प­सं­ह­रति -
इत्येवमिति ।
संन्या­स­क­र्म­यो­ग­यो­र्मि­थो­वि­रु­द्धयोः समु­च्चि­त्या­नु­ष्ठा­तु­म­श­क्ययोः अन्यतरस्य कर्तव्यत्वे, प्रशस्यतरस्य तद्भावात् तद्भावस्य चानि­र्धा­रि­त­त्वात् , तन्नि­र्दि­धा­र­यि­षया प्रश्नः स्यादिति, प्रश्न­वा­क्या­र्थ­प­र्या­लो­च­नया प्रष्टु­र­भि­प्रायो यथा पूर्वमुपदिष्टः, तथा प्रति­व­च­ना­र्थ­नि­रू­प­णे­नापि तस्य निश्चितत्वात् प्रश्नोपपत्तिः सिद्धा इत्यर्थः ।

ननु तृतीये यथोक्तप्रश्नस्य भगवता निर्णीतत्वात् नात्र प्रश्न­प्र­ति­व­च­नयोः साव­का­श­त्व­मि­त्या­शङ्क्य, विस्तरेण उक्तमेव सम्बन्धं पुनः सङ्क्षेपतो दर्शयति -
ज्यायसी चेदिति ।
साङ्ख्य­यो­ग­यो­र्भि­न्न­पु­रु­षा­नु­ष्ठे­य­त्वेन निर्णीतत्वात् न पुनः प्रश्न­यो­ग्य­त्व­मि­त्यर्थः ।

इतोऽपि न तयोः प्रश्नविषयत्वम् , इत्याह -
नचेति ।
एवकारविशेषणात् ज्ञान­स­हि­सं­न्या­सस्य सिद्धसाधनत्वं भगवतोऽभिमतम् । ‘छित्त्वैनं संशयं योग­मा­तिष्ठ'(भ.गी.४ - ४२) इति च कर्मयोगस्य विधानात् तस्यापि सिद्ध­सा­ध­न­त्व­मि­ष्टम् । ततश्च निर्णीतत्वात् न प्रश्नः तद्विषयः सिध्यतीत्यर्थः ।

केनाभिप्रायेण तर्हि प्रश्नः स्यात् ? इत्याशङ्क्य, ज्ञान­र­हि­त­सं­न्या­सात् कर्मयोगस्य प्रश­स्य­त­र­त्व­बु­भु­त्सया, इत्याह -
ज्ञानरहित इति ।

प्रष्टु­र­भि­प्रा­यम् एवं प्रदर्श्य प्रश्नो­प­प­त्ति­मुक्त्वा प्रश्न­मु­त्था­प­यति -
संन्यासमिति ।

तर्हि द्वयं त्वया­नु­ष्ठे­य­मि­त्या­शङ्क्य, तद­श­क्ते­रु­क्त­त्वात् प्रश­स्य­त­र­स्या­नु­ष्ठा­नार्थं तदिदम् इति निश्चित्य वक्तव्यम् , इत्याह -
यच्छ्रेय इति ।

काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते, न सर्वेषाम् , इत्याशङ्क्य, कर्मण्यकर्म (४ - १८) इत्यादौ विशेषदर्शनात् , मैवम् इत्याह -
शास्त्री­या­णा­मिति ।

अस्तु तर्हि शास्त्री­या­शा­स्त्री­य­यो­र­शे­ष­यो­रपि कर्मणोः त्यागः, नेत्याह -
पुनरिति ।

तर्हि कर्मत्यागः तद्योगश्च, इत्यु­भ­य­मा­ह­र्त­व्य­मि­त्या­शङ्क्य, विरोधात् मैवम् इत्यभिप्रेत्य आह -
अत इति ।

द्वयोः एकेन अनु­ष्ठा­ना­यो­ग­स्यो­क्त­त्वात् कर्त­व्य­त्वो­क्तेश्च संशयो जायते । तमेव संशयं विशदयति -
किं कर्मेति ।

प्रश­स्य­त­र­बु­भुत्सा किमर्था ? इत्याशङ्क्य आह -
प्रशस्यतरं चेति ।

तस्यै­वा­नु­ष्ठे­यत्वे प्रश्नस्य सावकाशत्वमाह - अतश्चेति । तदेव प्रशस्यतरं विशिनष्टि -
यदनुष्ठानादिति ।
तदेकम् - अन्यतरत् , मेब्रूहीति । सबन्धः ।

उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते ? तत्राह -
सहेति ।
कर्म­त­त्त्या­ग­यो­र्मिथो विरोधादित्यर्थः ॥ १ ॥

प्रश्न­मे­व­मु­त्थाप्य, प्रति­व­च­न­मु­त्था­प­यति -
स्वाभिप्रायमिति ।
निर्णयाय तद्वारेण परस्य संश­य­नि­वृ­त्त्य­र्थ­मि­त्यर्थः ।

एवं प्रश्ने प्रवृत्ते कर्मयोगस्य सौक­र्य­म­भि­प्रेत्य प्रश­स्य­त­र­त्व­म­भि­धित्सुः भगवान् प्रतिवचनं किमुक्तवान् ? इत्याशङ्क्य, आह -
संन्यास इति ।

उभयोरपि तुल्यत्वशङ्कां वारयति -
तयोस्त्विति ।

कथं तर्हि ज्ञानस्यैव मोक्षोपायत्वं विवक्ष्यते ? तत्राह -
ज्ञानोत्पत्तीति ।

तर्हि द्वयोरपि प्रशस्यत्वम् अप्रशस्यत्वं वा तुल्यम् , इत्याशङ्क्य, आह –
उभाविति ।

ज्ञानसहायस्य कर्मसंन्यासस्य कर्मयोगापेक्षया विशि­ष्ट­त्व­वि­व­क्षया विशिनष्टि -
केवलादिति
॥ २ ॥

कर्म हि बन्धकारणं प्रसिद्धं, तत्कथं निःश्रेयसकरं स्याद् ? इति शङ्कते -
कस्मादिति ।

अक­र्त्रा­त्म­वि­ज्ञा­ना­त्प्रा­गपि सर्वदा असौ संन्यासी ज्ञेयः, यो रागद्वेषौ क्कचिदपि न करोति, इत्याह -
इत्याहेति ।

यथा अनुष्ठीयमानानि कर्माणि संन्यासिनं न निबध्नन्ति, कृतानि च वैरा­ग्ये­न्द्रि­य­सं­य­मा­दिना निवर्तन्ते ; तथैव अनभिसंहितफलानि नित्य­नै­मि­त्ति­कानि योगिनमपि न निबध्नन्ति, निवर्तयन्ति च सञ्चितं दुरितम् , इत्यभिप्रेत्य, आह -
निर्द्वन्द्वो हीति ।

कर्मयोगिनो नित्य­सं­न्या­सि­त्व­ज्ञा­नम् अन्य­था­ज्ञा­न­त्वात् मिथ्याज्ञानम् , इत्याशङ्क्य, आह -
एवंविध इति ।
कर्मिणोऽपि रागद्वेषाभावेन संन्यासित्वं ज्ञातुमुचितम् इत्यर्थः ।

रागद्वेषरहितस्य अनायासेन बन्ध­प्र­ध्वं­स­सि­द्धेश्च युक्तं तस्य संन्यासित्वम् , इत्याह -
निर्द्वन्द्व इति
॥ ३ ॥

यदुक्तं संन्या­स­क­र्म­यो­ग­यो­र्निः­श्रे­य­स­क­रत्वं, तद् आक्षिपति -
संन्यासेति ।

तत्र उत्तरत्वेन उत्त­र­श्लो­क­म­व­ता­र­यति -
इति प्राप्त इति ।

विवेकिनः तर्हि कथं वदन्ति ? इत्या­का­ङ्क्षा­याम् , आह -
एकमिति ।

संस्व्याम् आत्मसमीक्षाम् अर्हतीति साङ्ख्यं - संन्यासः, योगस्तु कर्मयोगः, तावुभावपि । पृथगित्यस्य अर्थमाह -
विरुद्धेति ।
शास्त्रा­र्थ­वि­वे­क­शू­न्यत्वं बालत्वम् ।

उत्त­रा­र्ध­म­व­ता­र­यितुं भूमिकां करोति -
पण्डितास्त्विति ।
ज्ञानिनो योगिनश्चेति शेषः ।

द्वयोः अवि­रु­द्ध­फ­ल­त्व­मेव प्रश्नपूर्वकं प्रकटयति -
कथमित्यादिना ।

एकं साधनमनुष्ठितवतः द्वयोरपि फलं भवतीति विरुद्धम् , इत्याशङ्क्य आह -
उभयोरिति ।
साङ्ख्ययोगयोः संन्या­स­क­र्मा­नु­ष्ठा­नयोः तत्त्व­ज्ञा­न­द्वारा निःश्रे­य­स­फ­ल­त्वात् न विरु­द्ध­फ­ल­त्व­शङ्का इत्यर्थः ।

साङ्ख्यायोगयोः एकफलत्ववचनं प्रकरणाननुगुणम् , इति शङ्कते -
नन्विति ।

अप्र­कृ­त­त्व­म­सि­द्धम् , इति परिहरति -
नैष दोष इति ।

संन्यासं कर्म­णा­मि­त्या­दिना संन्यासं कर्मयोगं चाङ्गीकृत्य प्रश्ने, संन्यासः कर्म­यो­ग­श्चे­त्या­दिना तथैव प्रतिवचने च, कथं साङ्ख्ययोगयोः एकफलत्वम् अप्रकृतं न भवति ? इत्युच्यते, तत्राह –
यद्यपीति ।

प्रतिवचनमपि तदनुरूपमेव भगवता निरूपितमिति विशे­षा­नु­प­पत्तिः, इत्याशङ्क्य, आह -
भगवांस्त्विति ।
तदपरित्यागेन इत्यत्र तत्पदेन प्रष्ट्र प्रतिनिर्दिष्टौ कर्मं­सं­न्या­स­क­र्म­योगौ उच्येते । साङ्ख्ययोगाविति शब्दा­न्त­र­वा­च्य­तया तयोरेव संन्या­स­क­र्म­यो­गयोः अत्यागेन स्वाभिप्रेतं च विशेषं संयोज्य भगवान् प्रतिवचनं ददौ, इति योजना ।

यदुक्तं - स्वाभिप्रेतं च विशेषं संयोज्य - इति, तदेतत् व्याक्तीकरोति -
तावेवेति ।
समबुद्धित्वादि इत्यादिशब्देन ज्ञानोपायभूतः शमादिः आदीयते ।

प्रकृतयोरेव संन्या­स­क­र्म­यो­गयोः उपादाने फलितमाह -
अत इति ।
साङ्ख्ययोगौ इत्या­दि­श्लो­क­व्या­ख्या­न­स­माप्तिः इतिशब्दार्थः ॥ ४ ॥

प्रश्नपूर्वकं श्लोका­न्त­र­म­व­ता­र­यति -
एकस्यापीति ।

केचिदेव तयोरेकफलत्वं पश्यन्ति इत्याशङ्य, तेषामेव सम्य­ग्द­र्शित्वं, नेतरेषाम् , इत्याह -
एकमिति ।

तिष्ठत्यस्मिन् , न च्यवते पुनः इति व्युत्प­त्ति­मा­श्रित्य आह -
मोक्षाख्यमिति ।

योगशब्दार्थमाह -
ज्ञानप्राप्तीति ।
ये हि जिज्ञासवः सर्वाणि कर्माणि भग­व­त्प्री­त्य­र्थ­त्वेन तेषां फलाभिलाषमकृत्वा ज्ञानप्राप्तौ बुद्धि­शु­द्धि­द्वा­रेण उपायत्वेन अनुतिष्ठन्ति, ते अत्र योगाः विवक्ष्यन्ते ।

अच्प्रत्ययस्य मत्वर्थत्वं गृहीत्वा, उक्तं -
योगिन इति ।

सर्वोऽपि द्वैतप्रपञ्चो न वस्तुभूतः, मायाविलासत्वात् , आत्मा तु, अविक्रियो अद्वितीयो वस्तुसन् इति प्रयोजकज्ञानं परमार्थज्ञानं, तत्पू­र्व­क­सं­न्या­स­द्वा­रेण कर्मिभिरपि तदेव स्थानं प्राप्याम् , इत्येकफलत्वं संन्या­स­क­र्म­यो­गयोः अविरुद्धं, इत्याह -
तैरपीति ।

फलैकत्वे फलितमाह -
अत इति
॥ ५ ॥

यदि यथो­क्त­ज्ञा­न­पू­र्व­क­सं­न्या­स­द्वारा कर्मिणामपि श्रेयेऽ­वा­प्ति­रिष्टा, तर्हि संन्यासस्यैव श्रेयस्त्वं प्राप्तम् , इति चोदयति -
एवं तर्हीति ।

संन्यासस्य श्रेष्ठत्वे कर्मयोगस्य प्रश­स्य­त्व­व­च­न­म­नु­चि­तम् , इत्याह -
कथं तर्हिति ।

पूवोक्तमेव अभिप्रायं स्मारयन् परिहरति -
श्रृण्विति ।

कर्मयोगस्य विशिष्टत्ववचनं तत्रेति परामृष्टम् । तदेव कारणं कथयति -
त्वयेत्यादिना ।
केवलं विज्ञानरहितमिति यावत् । तयोरन्यतरः कः श्रेयानिति इति­श­ब्दोऽ­ध्या­ह­र्तव्यः ।

त्वदीयं प्रश्नमनुसृत्य तदनुगुणं प्रतिवचनं ज्ञानमनपेक्ष्य, तद्रहितात् केवलादेव संन्यासात् योगस्य विशिष्टत्वमिति यथोक्तम् , इत्याह-
तदनुरूपमिति ।

ज्ञानापेक्षः संन्यासः तर्हि कीदृक् ? इत्याशङ्क्याह -
ज्ञानेति ।

तर्हि कर्मयोगे कथं योगशब्दः संन्यासशब्दो वा प्रयुज्यते ? तत्राह -
यस्त्विति ।
तादर्थ्यात् पर­मा­र्थ­ज्ञा­न­शे­ष­त्वात् इति यावत् ।

तदेव तादर्थ्यं प्रश्नपूर्वकं प्रसाधयति -
कथमित्यादिना ।

कर्मा­नु­ष्ठा­ना­भावे बुद्धि­शु­द्ध्य­भा­वात् पर­मा­र्थ­सं­न्या­सस्य सम्य­ग्ज्ञा­ना­त्मनो न प्राप्तिः इति व्यति­रे­क­मु­प­न्यस्य, अन्व­य­मु­प­न्य­स्यति -
योगेति ।

पारमार्थिकः सम्य­ग्ज्ञा­ना­त्मकः । सामग्र्यभावे कार्य­प्रा­प्ति­र­युक्ता, इति मत्वा आह -
दुःखमिति ।

योगयुक्तत्वं व्याचष्टे -
वैदिकेनेति ।
ईश्वरस्वरूपस्य सविशेषस्येति शेषः ।

ब्रह्मेति व्याख्येयं पदम् उपादाय व्याचष्टे -
प्रकृत इति ।

तत्र ब्रह्म­श­ब्द­प्र­योगे हेतुमाह -
परमात्मेति ।

लक्षणशब्दो गमकविषयः । संन्यासे ब्रह्म­श­ब्द­प्र­योेगे तैत्ति­री­य­क­श्रुतिं प्रमाणयति -
न्यास इति ।

कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते ? द्वयोरपि परत्वाविशेषात् , इत्याह -
ब्रह्मा हीति ।

ब्रह्मशब्दस्य संन्यासविषयत्वे फलितं वाक्यार्थमाह -
ब्रह्मेत्यादिना ।
नद्याः स्रोतांसीव निम्नप्रवणानि कर्मभिः अतितरां परिपक्ककषायस्य करणानि सर्वतो व्यापृतानि निर­स्त­शे­ष­कू­ट­स्थ­प्र­त्य­गा­त्मा­न्वे­ष­ण­प्र­व­णानि भवन्ति इति ।

कर्मयोगस्य पर­मा­र्थ­सं­न्या­स­प्रा­प्त्यु­पा­यत्वे फलितमाह -
अत इति
॥ ६ ॥

ननु पारिव्राज्यं परिगृह्य श्रवणादिसाधनम् असकृदनुतिष्ठतो लब्ध­स­म्य­ग्बो­ध­स्यापि यथापूर्वं कर्माणि उपलभ्यन्ते । तानि च बन्धहेतवो भविष्यन्ति, इत्याशङ्क्य, श्लोकान्तरम् अवतारयति -
यदा पुनरिति ।
सम्य­ग्द­र्श­न­प्रा­प्त्यु­पा­य­त्वेन यदा पुनः अयं पुरुषो योग­यु­क्त­त्वा­दि­वि­शे­षणः सम्यग्दर्शी सम्पद्यते, तदा प्रातिभासिकीं प्रवृत्तिम् अनुसृत्य कुर्वन्नपि न लिप्यत इति योजना । योगेन - नित्य­नै­मि­त्ति­क­क­र्मा­नु­ष्ठा­नेन, इति यावत् ।

आदौ नित्या­द्य­नु­ष्ठा­न­वतो रज­स्त­मो­म­ला­भ्याम् अकलुषितं सत्त्वं सिध्यति, इत्याह -
विशुद्धेति ।

बुद्धिशुद्धौ, कार्य­क­र­ण­स­ङ्घा­त­स्यापि स्वाधीनत्वं भवति, इत्याह -
विजितेति ।

तस्य यथोक्तविशेषणवतो जायते सम्य­ग्द­र्शि­त्वम् , इत्याह -
सर्वभूतेति ।

सम्यग्दर्शिनः तर्हि कर्मानुष्ठानं कुतस्त्यं ? तदनुष्ठाने वा कुतो बन्ध­वि­श्ले­ष­सिद्धिः ? इत्याशङ्क्य, आह -
स तत्रेति ।
सम्यग्दर्शनं सप्तम्यर्थः
॥ ७ ॥

कर्माणि अङ्गीकृत्य तैः अस्य विदुषो बन्धो नास्ति इत्युक्तम् । इदानीं वस्तुतः तस्य कर्माण्येव न सन्ति, इत्याह -
नचेति ।
॥ ८ ॥

लोकदृष्ट्या विदुषोऽपि कर्माणि सन्ति, इत्याशङ्क्य, स्वदृष्ट्या तद­भा­व­म­भि­प्रेत्य, आह -
नैवेति

सार्धं समनन्तरश्लोकम् आका­ङ्क्षा­पू­र्व­कम् उत्थापयति -
कदेत्यादिना ।
चक्षु­रा­दि­ज्ञा­ने­न्द्रियैः वागा­दि­क­र्मे­न्द्रियैः प्राणा­दि­वा­यु­भेदैः अन्तः­क­र­ण­च­तु­ष्ट­येन च तत्त­च्चे­ष्टा­नि­र्व­र्त­ना­व­स्थायां तत्तदर्थेषु सर्वा प्रवृत्तिः इन्द्रियाणामेव, इत्यनुसन्दधानः नैव किञ्चित्करोमीति विद्वान् प्रतिपद्यते, इत्यर्थः ।

यथोक्तस्य विदुषः विध्यभावेऽपि विद्या­सा­म­र्थ्यात् प्रति­प­त्ति­क­र्म­भूतं कर्मसंन्यासं फलात्मकम् अभिलषति -
यस्येति ।

अज्ञस्येव विदुषोऽपि कर्मसु प्रवृ­त्ति­स­म्भ­वात् , कुतः संन्यासे अधिकारः स्याद् ? इत्याशङ्क्य, आह -
नहीति
॥ ९ ॥

तर्हि विद्वानिव, अविद्वानपि कर्मणि न प्रवर्तेत, पापो­प­ह­ति­स­म्भ­वात् , इत्याशङ्क्य, आह -
यस्त्विति ।
यथा भृत्यः स्वाम्यर्थं कर्माणि करोति न स्वफलमपेक्षते, तथैव यो अविद्वान् मोक्षेऽपि सङ्गं त्यक्त्वा भगवदर्थमेव सर्वाणि कर्माणि करोति, न स स्वकर्मणा बध्यते । नहि पद्मपत्रम् अम्भसा सम्बध्यते, तद्वत् इत्यर्थः ॥ १० ॥

विदुषः तर्हि कृतेन कर्मणा किं स्याद् ? इत्याशङ्क्य, आह -
केवलमिति ।

अज्ञस्य ईश्व­रा­र्प­ण­बुद्ध्या अनुष्ठितं कर्म बुद्धिशद्धिफलम् , इत्यत्रैव हेतुमाह -
यस्मादिति ।

केवलशब्दस्य प्रत्येकं सम्बन्धे प्रयोजनम् आह -
सर्व­व्या­पा­रे­ष्विति ।

कर्मणः चित्त­शु­द्धि­फ­लत्वे तादर्थ्येन कर्मानुष्ठानमेव तव कर्तव्यमिति, यस्मा­दि­त्य­स्या­पे­क्षितं वदन् फलितम् आह -
तस्मादिति
॥ ११ ॥

इतश्च सङ्गं त्यक्त्वा कर्मानुष्ठानं त्वया कर्तव्यम् , इत्याह -
यस्माच्चेति ।

युक्तः सन् फलं त्यक्त्वा कर्म कुर्वन् मोक्षाख्यां शान्तिं यस्यादाप्नोति, तस्माच्च त्वया सङ्गं त्यक्त्वा कर्म कर्तव्यम् , इति योजन । विपक्षे दोषमाह -
अयुक्त इति ।

युक्तत्वं व्याकरोति -
ईश्वरायेति ।
फलं परित्यज्य कर्म कुर्वन् , इति शेषः ।

नैष्ठिकी शान्तिः इत्येतदेव विशदयति -
सत्त्वेति ।

द्वितीयम् अर्धं विभजते -
यस्त्विति ।

असमाधाने दोषात् अर्जुनस्य नियोगं दर्शयति -
अतस्त्वमिति
॥ १२ ॥

तर्हि फले सक्तिं त्यक्त्वा, सर्वैरपि कर्तव्यमिति कर्मसंन्यासस्य निरवकाशत्वम् इत्याशङ्क्य, अविदुषः सकाशाद् विदुषो विशेषं दर्शयति -
यस्त्विति ।

सर्व­क­र्म­प­रि­त्यागे प्राप्तं मरणं व्यावर्तयति -
आस्त इति ।

वृत्तिं लभमानोऽपि शरीरतापेन आध्यात्मिकादिना तप्यमानः तिष्ठति इति चेत् , नेत्याह -
सुखमिति ।

कार्य­क­र­ण­स­ङ्घा­त­पा­र­वश्यं पर्युदस्यति -
वशीति ।

आसनस्य अपेक्षितम् अधिकरणं निर्दिशति -
नवेति ।

देह­स­म्ब­न्धा­मि­मा­ना­भा­स­व­त्त्वम् आह -
देहीति ।

मनसा सर्व­क­र्म­स­न्या­सेऽपि लोकसङ्ग्रहार्थं बहिः सर्वं कर्म कर्तव्यम् , इति प्राप्तं प्रत्याह -
नैवेति ।

तान्येव सर्वाणि कर्माणि परित्याज्यानि विशिनष्टि -
नित्यमिति ।

तेषां परित्यागे हेतुमाह -
तानीति ।

यदुक्तं सुखमास्त इति, तद् उपपादयति -
त्यक्तेति ।
जितेन्द्रियत्वं कायवशीकारस्यापि उपलक्षणम् । द्वे श्रोत्रे, द्वे चक्षुषी, द्वे नासिके, वागेका, इति सप्त शीर्षण्यानि शिरोगतानि शब्दा­द्यु­प­ल­ब्धि­द्वा­राणि ।

अथापि कथं नवद्वारत्वम् ? अधोगताभ्यां पायूपस्थाभ्यां सह, इत्याह -
अर्वागिति ।

शरीरस्य पुरसाम्यं स्वामिना पौरैश्च अधिष्ठितत्वेन दर्शयति -
आत्मेत्यादिना ।

यद्यपि देहे जीवनत्वात् देह­स­म्ब­न्धा­भि­मा­ना­भा­स­वान् अवतिष्ठते, तथापि प्रवासीव परगेहे तत्पू­जा­प­रि­भ­वा­दि­भि­र­प्र­हृ­ष्यन् अविषीदन् व्यामो­हा­दि­र­हि­तश्च तिष्ठति, इति मत्वा, आह -
तस्मिन्निति ।

विशेषणम् आक्षिपति -
किमिति ।

तदनुपपत्तिमेव दर्शयति -
सर्वो हीति ।

सर्वसाधारणे देहावस्थाने, संन्यस्य देहे तिष्ठति विद्वान् , इति विशेषणम् अकिञ्चित्करमिति फलितमाह -
तत्रेति ।

विशेषणफलं दर्शयन् उत्तरम् प्राह -
उच्यत इति ।

किमविवेकिनं प्रति विशेषणानर्थक्यं चोद्यते ! किं वा विवेकिनं प्रति ? इति विकल्प्य, आद्यम् अङ्गीकरोति -
यस्त्विति ।

अज्ञत्वं देहित्वे हेतुः । तदेव देहित्वं स्फुटयति -
देहेति ।

सङ्घा­ता­त्म­द­र्शि­नोऽपि देहे स्थितिप्रतिभासः स्याद् , इति चेत् नेत्याह -
नहीति ।

द्वितीयं दूषयति -
देहादीति ।
गृहादिषु देस्यावस्थानेन आत्मा­व­स्था­न­भ्र­म­व्या­वृ­त्त्यर्थं देहे विद्वान् आस्त इति विशेषणम् उपपद्यते ; विवेकवतो देहे अव­स्था­न­प्र­ति­भा­स­स­म्भ­वात् इत्यर्थः ।

ननु विवेकिनो देहा­व­स्था­न­प्र­ति­भा­नेऽपि वाङ्म­नो­दे­ह­व्या­पा­रा­त्मनां कर्मणां तस्मिन् प्रसङ्गाभावात् , तत्त्यागेन कुतः तस्य देहेऽवस्थानम् उच्यते ? तत्राह -
परकर्मणां चेति ।

ननु विवेकिनो दिगा­द्य­न­व­च्छि­न्न­बा­ह्या­भ्य­न्त­रा­वि­क्रि­य­ब्र­ह्मा­त्मतां मन्यमानस्य कुतो देहे अवस्थानम् आस्थातुं शक्यते ? तत्राह -
उत्पन्नेति ।

तत्र हेतुमाह -
प्रारब्धेति ।
यदि प्रारब्धफलं धर्माधर्मात्मकं कर्म तस्योपभुक्तस्य शेषात् अनु­प­भु­क्ता­द्दे­हा­दि­सं­स्का­रोऽ­नु­व­र्तते तदनुवृत्त्या च तत्रैव देहे विशेषविज्ञानम् अवस्थानविषयम् उपपद्यते ; अतो विवेकवतः संन्यासिनो देहे अवस्थानव्यपदेशः सम्भवति, इत्यर्थः ।

अवि­द्व­त्प्र­त्य­या­पे­क्षया विशे­ष­णा­स­म्भ­वेऽपि विद्व­त्प्र­त्य­या­पे­क्षया विशेषणम् अर्थवत् , इति उपसंहरति -
देह एवेति ।

देहे स्वावस्थानविषयो विद्व­त्प्र­त्ययः, तद­वि­ष­य­श्चा­वि­द्व­त्प्र­त्ययः, तयो एवं भेदे विद्व­त्प्र­त्य­या­पे­क्षया विशेषणम् अर्थवत् , इति उपसंहरन्नेव हेतुं विशदयति -
विद्वदिति ।

आरो­पि­त­क­र्तृ­त्वा­द्य­भा­वेपि स्वग­त­क­र्तृ­त्वादि दुर्वारम् , इति आशङ्कामनूद्य, दूषयति -
यद्यपीत्यादिना ।
क्रियासु प्रवर्तयन् आस्त इति पूर्वेण सम्बन्धः, पूर्वस्यापि शतुः एवमेव सम्बन्धः ।

कर्तृत्वं कारयितृत्वं च आत्मनो न, इत्यत्र विचारयति -
किमिति ।
यत्कर्तृत्वं कारयितृत्वं च, तत्किं देहिनः स्वात्मसमवायि सदेव संन्यासात् न भवतीत्युच्यते ? यथा गच्छतो देवदत्तस्य स्वगतैव गतिः, तत्स्थित्या त्यागान्न भवति, अथवा स्वारस्येन कर्तृत्वं कारयितृत्वं च आत्मनो नास्तीति वक्तव्यम् ; आद्ये सक्रियत्वं, द्वितीय कूट­स्थ­त्व­मि­त्यर्थः ।

द्वितीयं पक्षमाश्रित्य उत्तरमाह -
अत्रेति ।

उक्तेऽर्थे वाक्योपक्रमम् अनुकूलयति -
उक्तं हीति ।

तत्रैव वाक्यशेषमपि संवादयति -
शरीरस्थोऽपीति ।

स्मृत्यु­क्तेऽर्थे श्रुतिमपि दर्शयति -
ध्यायतीवेति ।
उपाधिगतैव सर्वा विक्रिया, न आत्मनि स्वतो अस्ति, इत्यर्थः ॥ १३ ॥

आत्मनो यदुक्तं कारयितृत्वं नास्तीति, तत्प्रपञ्चयति -
नेत्यादिना ।
यद्यपि लोकस्य कर्तृत्वं न सृजति, इति नास्ति कारयितृत्वं, तथापि रथशकटादीनि कुर्वन् भवति कर्ता, इत्याशङ्य, आह - न कर्माणीति ।

तथापि भोजयितृत्वेन विक्रियावत्त्वं दुष्परिहरम् , इत्याशङ्क्य, आह -
न कर्माणीति ।

कस्य तर्हि प्रवर्तकत्वं ? तदाह -
स्वभावस्त्विति ।
कुर्विति कर्तृत्वं लोकस्य न सृजति आत्मा, इति सम्बन्धः ।

रथादीनां कर्मत्वं साधयति -
ईप्सितेति ।
आत्मनो देहा­दि­स्वा­मि­त्वेन प्रभुत्वम् ।

रथादिकृतवतो लोकस्य रथादिफलेन सम्बन्धमपि न सृजति आत्मा, इत्यात्मनो भोजयितृत्वं प्रत्याचष्टे -
नापीति ।

चतुर्थपादं शङ्कोत्तरत्वेन अवतारयति -
यदीत्यादिना ।

स्वभा­व­वा­द­स्तर्हि, इत्याशङ्क्य, व्याकरोति -
अविद्यालक्षणेति ।
प्रकृतेः विद्याभावत्वं व्युदसितुं ‘माया’ इत्युक्तम् ।

सा च सप्तमे वक्ष्यते । तेन प्रधानविलक्षणा, इत्याह -
दैवी हीति
॥ १४ ॥

कर्तृ­त्व­भो­क्तृ­त्वै­श्व­र्याणि आत्मनः अविद्याकृतानि इत्युक्तम् । इदानीमीश्वरे संन्य­स्त­स­म­स्त­व्या­पा­रस्य तदेकशरणस्य दुरितं सुकृतं वा तदनुग्रहार्थं भगवान् आदत्ते, मदेकशरणो मत्प्रीत्यर्थं कर्म कुर्वाणो दुष्कृ­ता­द्य­नु­मो­द­नेन अनुग्राह्यो मयेति प्रत्य­य­भा­क्त्वात् , इत्याशङ्क्य, सोऽपि परमार्थतो न अस्य अस्ति अविक्रियत्वात् , इत्याह -
पर­मा­र्थ­त­स्त्विति ।

पूर्वार्धगतानि अक्षराणि व्याख्याय आका­ङ्क्षा­पू­र्व­कम् उत्त­रा­र्ध­म­व­तार्थ व्याचष्टे -
किम­र्थ­मि­त्या­दिना
॥ १५ ॥

तर्हि सर्वेषाम् अना­द्य­ज्ञा­ना­वृ­त­ज्ञा­न­त्वात् व्यामोहाभावाच्च कुतः संसारनिवृत्तिः ? इति ? तत्राह -
ज्ञानेनेति ।
सर्वमिति पूर्णत्वमुच्यते ।

ज्ञेयस्यैव वस्तुनः तत्परमिति विशेषणम् । तद्व्याचष्टे -
पर­मा­र्थ­त­त्त्व­मिति
॥ १६ ॥

विदुषां विविदिषूणां च अन्तरङ्गाणि विद्या­प­रि­पा­क­सा­ध­नानि इति उपदिदिक्षुः उत्तरश्लोकस्य अपेक्षितं पूरयति -
यत्परमिति ।

तस्मिन् परमार्थतत्त्वे परस्मिन् ब्रह्मणि, बाह्यं विषयमपोह्य, गता - प्रवृत्ता श्रव­ण­म­न­न­नि­दि­ध्या­सनैः अस­कृ­द­नु­ष्ठि­तै­र्बुद्धिः - साक्षा­त्का­र­ल­क्षणा, येषां ते, तथा, इति प्रथमविशेषणं विभजते -
तस्मिन्निति ।

तर्हि बोद्धा - जीवः, बोद्धव्यं - ब्रह्म इति, जीव­ब्र­ह्म­भे­दा­भ्यु­प­गमः ? नेत्याह -
तदात्मान इति ।

कल्पितं बोद्धृ­बो­द्ध­व्यत्वं वस्तुतस्तु न भेदोऽस्ति इति अङ्गीकृत्य व्याचष्टे -
तदेवेति ।

ननु देहादौ आत्माभिमानमपनीय ब्रह्मण्येव ‘अहमस्मि’ इत्यवस्थानं तत्त­द­नु­ष्ठी­य­मा­न­क­र्म­प्र­ति­ब­न्धात् न सिध्यति, इत्याशङ्क्य, विशे­ष­णा­न्त­र­मा­दत्ते -
तन्निष्ठा इति ।

तत्र निष्ठाशब्दार्थं दर्शयन् विवक्षितम् अर्थमाह -
निष्ठेत्यादिना ।

तथापि पुरु­षा­र्था­न्त­रा­पे­क्षा­प्र­ति­ब­न्धात् कथं यथोक्ते ब्रह्मण्येव अवस्थानं सेद्धुं पारयति ? तत्राह -
तत्परायणाश्चेति ।

यथो­क्ता­ना­म­धि­का­रिणां परमपुरुषार्थस्य उक्त­ब्र­ह्मा­न­ति­रे­कात् नान्य­त्रा­सक्तिः, इति तात्पर्यार्थमाह -
केवलेति ।

ननु यथो­क्त­वि­शे­ष­ण­वतां वर्त­मा­न­दे­ह­पा­तेऽपि देहा­न्त­र­प­रि­ग्र­ह­व्य­ग्र­तया कुतो यथोक्ते ब्रह्म­ण्य­व­स्था­नम् आस्थातुं शक्यते ? तत्राह -
ते गच्छन्तीति ।

सति संसारकारणे दुरितादौ, संसारप्रसरस्य दुर्वारत्वात् न अपु­न­रा­वृ­त्ति­सिद्धिः, इत्याशङ्क्य, आह -
ज्ञानेति ।

उक्त­वि­शे­ष­स­म्पत्त्या दर्शि­त­फ­ल­शा­लि­त्वम् आश्र­मा­न्त­रे­ष्व­स­म्भा­वि­तम् , इति मन्वानः विशिनष्टि -
यतय इति
॥ १७ ॥

यद् अपु­न­रा­वृ­त्ति­सा­धनं तत्त्वज्ञानं, तदेव प्रश्नद्वारेण विवृणोति -
येषामित्यादिना ।

विद्या - वेदा­र्थ­वि­ज्ञा­नम् , इत्यङ्गीकृत्य विनयं व्याचष्टे -
विनय इति ।

उपशमः - निरहङ्कारत्वम् - अनौद्धत्यम् । पदार्थम् एवमुक्त्वा वाक्यार्थं दर्शयति -
विद्वानिति ।

‘गवि’ इत्यादि अनूद्य वाक्यार्थं कथयति-
विद्येति ।
हस्त्यादौ पण्डिताः ‘समदर्शिन’ इति उत्तरत्र सम्बन्धः ।

तत्र तत्र प्राणिभेदेषु तत्तद्गुणैः तत्त­न्नि­मि­त्त­सं­स्का­रैश्च संस्पृ­ष्ट­त्व­स­म्भ­वात् न ब्रह्मणः समत्वम् , इत्याशङ्क्य आह -
सत्त्वादीति ।
‘तज्जैश्च’ इत्यत्र तच्छब्देन सत्त्वमेव गृह्यते ।

सात्त्वि­क­सं­स्का­रै­रिव राजससंस्काररैपि सर्व­थै­वा­सं­स्पृष्टं ब्रह्म इत्याह -
तथेति ।

राजसैरिव तामसैरपि संस्कारैः ब्रह्म अत्यन्तमेव अस्पृष्टम् , इत्याह -
तथा तामसैरिति ।

ब्रह्म­णोऽ­द्वि­ती­यत्वं कूट­स्थ­त्व­म­स­ङ्गत्वं च उक्तेऽर्थे हेतुः, इति मत्वा समशब्दार्थमाह -
सममिति ।

समदर्शित्वमेव पाण्डित्यम् , तद्व्याचष्टे -
ब्रह्मेति
॥ १८ ॥

सात्त्विकेषु राजसेषु तामसेषु च सत्वेषु समत्वदर्शनम् अनुचितम् , इति शङ्कते -
नन्विति ।
सर्वत्र समदर्शिनः तच्छब्देन परामृश्यन्ते ।

तेषां दोषवत्त्वाद् अभोज्यान्नत्वम् इत्यत्र प्रमाणमाह -
समासमाभ्यामिति ।
समानाम् - अध्ययनादिभिः समानधर्मकाणां, वस्रा­ल­ङ्का­रा­दि­पू­जया विषमे प्रति­प­त्ति­वि­शेषे क्रियमाणे सति, असमानाञ्च असमानधर्मकाणां - कस्यचित् एकवेदत्वम् , अपरस्य द्विवे­द­त्व­मि­त्या­दि­ध­र्म­वतां, प्रागुक्तया पूजया समे प्रति­प­त्ति­वि­शेषे, पूजयिता पुरुषविशेषं ज्ञात्वा प्रति­प­त्ति­म­कु­र्वन् , धनात् धर्माच्च हीयते । तेन सात्त्विके राजसतामसयोश्च समबुद्धिं कुर्वन् प्रत्यवैति, इत्यर्थः ।

उत्तरत्वेन उत्त­र­श्लो­क­म­व­ता­र­यति -
न ते दोषवन्त इति ।

स्मृत्य­व­ष्ट­म्भेन सर्वसत्त्वेषु समत्वदर्शिनां दोषवत्त्वमुक्तं कथं नास्ति ? इति, प्रति­ज्ञा­मा­त्रेण सिध्यति, इति शङ्कते -
कथमिति ।

स्मृतेर्गतिम् अग्रे वदिष्यन् निर्दोषत्वं समत्वदर्शिनां विशदयति -
इहैवेति ।

सर्वेषां चेतनानां साम्ये प्रवणमनसां ब्रह्म­लो­क­ग­म­न­म­न्त­रेण तस्मिन्नेव देहे परिभूतजन्मनाम् अशेषदोषराहित्ये हेतुमाह -
निर्दोषं हीति ।

वर्तमानो देहः सप्तम्या परिगृह्यते । तानेव समदर्शिनो विशिनष्टि -
येषामिति ।

ननु ब्रह्मणो निर्दो­ष­त्व­म­सिद्धं, दोषवत्सु श्वपाकादिषु तद्दो­षै­र्दो­ष­व­त्त्वो­प­ल­म्भ­स­म्भ­वात् , तत्राह -
यद्यपीति ।
यस्मात् तत् निर्दोषं, तस्मात् तस्मिन्ब्रह्मणि स्थितैः­नि­र्दोषैः सर्गो जितः, इति सम्बन्धः ।

ब्रह्मणो गुणभूयस्त्वात् अल्पी­या­न्दो­षोऽपि स्यात् इत्याशङ्क्य, आह -
नापीति ।

चेतनस्य गुण­वि­शे­ष­वि­शि­ष्ट­त्व­म­निष्टं निर्गु­ण­त्व­श्र­व­णात् इत्ययुक्तम् , इच्छादीनां परिशेषाद् आत्मधर्मत्वस्य कैश्चित् निश्चितत्वात् , इत्याशङ्क्य, आह -
वक्ष्यति चेति ।

आत्मनो निर्गुणत्वे वाक्यशेषं प्रमाणयति -
अनादित्वादिति ।
चकारः, वक्ष्यतीत्यनेन सम्बन्धार्थः ।

गुणदोषवशाद् आत्मानो भेदाभावेऽपि भेदः अन्त्य­वि­शे­षेभ्यो भविष्यति, इति प्रसङ्गात् आशङ्क्य, दूषयति -
नापीति ।

प्रतिशरीरम् आत्मभेदसिद्धौ तद्धेतुत्वेन तेषां सत्त्वं, तेषां च सत्त्वे प्रतिशरीरम् आत्मनो भेदसिद्धिः, इति पर­स्प­रा­श्र­य­त्व­म­भि­प्रेत्य हेतुमाह -
प्रतिशरीरमिति ।

आत्मानो भेदकाभावे फलितमाह -
अत इति ।

समत्वमेव व्याकरोति -
एकं चेति ।

ब्रह्मणो निर्विशेषत्वेन एकत्वाज्जीवानां च भेदकाभावेन एक­त्व­स्यो­क्त­त्वाद् एकलक्षणत्वात् एकत्वं जीवब्रह्मणोः एष्टव्यम् , इत्याह -
तस्मादिति ।

जीवब्रह्मणो एकत्वे जीावानां ब्रह्मवत् निर्देषत्वं सिध्यति, इत्याह -
तस्मान्नेति ।

तच्छब्दार्थमेव स्फोरयति -
देहादीति ।

यदि सर्वसत्त्वेषु सम­त्व­द­र्श­न­म­दु­ष्ट­मिष्टं, तर्हि कथं गौतमसूत्रम् ? इत्याशङ्क्य, आह -
देहादिसङ्घातेति ।

सूत्रस्य यथो­क्ता­भि­मा­न­व­द्वि­ष­यत्वे गमकमाह -
पूजेति ।
यदि वा चतुर्वेदानामेव सप्तां पूजया वैषम्यं, यदि वा चतुर्वेदानां षडङ्गविदां च पूजया साम्यं, तदा, तेषाम् उक्त­पू­जा­वि­ष­याणां केषाञ्चित् मनोविकारसम्भवे कर्ता प्रत्यवैति, इति अवि­द्व­द्वि­ष­यत्वं सूत्रस्य प्रतिभाति, इत्यर्थः ।

तत्रैव च अनुभवम् अऩुकूलत्वेन उदाहरति -
दृश्यते हीति ।

देहा­दि­स­ङ्घा­ता­भि­मा­न­वतां गुण­दो­ष­स­म्ब­न्ध­स­म्भ­वात् तद्विषयं सूत्रम् , इत्युक्तम् । इदानीं ब्रह्मा­त्म­द­र्श­ना­भि­मा­न­वतां गुण­दो­षा­स­म्ब­न्धात् न तद्विषय सूत्रम् , इत्यभिप्रेत्याह -
ब्रह्म त्विति ।

इतश्च नेदं सूत्रं ब्रह्म­वि­द्वि­ष­यम् , इत्याह -
कर्मीति ।
तत्रैव पूजा­प­रि­भ­व­स­म्भ­वात् इत्यर्थः ।

ननु यत्र समत्वदर्शनं, तत्रैव तु इदं सूत्रं, नतु कर्मिणि अकर्मिणि वा इति विभागोऽस्ति, तत्राह -
इदं त्विति ।

समत्वदर्शनस्य संन्या­सि­वि­ष­य­त्वेन प्रस्तुतत्वे हेतुमाह -
सर्वकर्माणीति ।
आऽध्या­य­प­रि­स­माप्तेः ‘सर्वकर्माणि’ इत्यारभ्य तत्र तत्र सर्व­क­र्म­सं­न्या­सा­भि­धा­नात् तद्विषयम् इदं समत्वदर्शनं गम्यते । तत्र तन्निरहङ्कारे निरवकाशं सूत्रमित्यर्थः ॥ १९ ॥

ननु - इष्टा­नि­ष्ट­प्रा­प्तिभ्यां हर्षविषादौ विद्वानपि कुर्वन् निर्दोषे ब्रह्मणि कथं स्थितिं लभेत ? इत्याशङ्क्य, आकाङ्क्षितं पूरयन् उत्त­र­श्लो­क­मु­त्था­प­यति -
यस्मादिति ।
आत्म­ज्ञा­न­नि­ष्ठा­वतो विदुषो हर्ष­वि­षा­द­नि­मि­त्ता­भा­वात् न तौ उचितौ, इत्याह - स्थिरबुद्धिरिति ।

ननु हर्ष­वि­षा­द­नि­मि­त्तत्वं प्रियाप्रिययोः सिद्धम् , इति कथं तत्प्राप्त्या हर्षोद्वेगौ न कर्तव्यौ ? इति नियुज्यते, तत्राह -
देहेति ।

विदुषोऽपि प्रिया­प्रि­य­प्रा­प्ति­सा­म­र्थ्या­देव हर्षविषादौ दुर्वारौ, इत्याशङ्क्य, आह -
न केवलेति ।
अद्वि­ती­या­त्म­द­र्श­न­शी­लस्य व्यति­रि­क्त­प्रि­या­प्रि­य­प्रा­प्त्य­यो­गात् न तन्निमित्तौ हर्षविषादौ इत्यर्थः ।

इतोऽपि विदुषो हर्ष­वि­षा­दा­व­स­म्भा­वितौ इत्याह -
किञ्चेति ।
निर्दोषे ब्रह्मणि प्रागुक्ते दृढप्रतिपत्तिः, संमोहेन हर्षादिहेतुना रहितः, यथोक्ते सर्वदोषरहिते ब्रह्मणि ‘अहं अस्मि’ इति विद्यावान् , अशेषदोषशून्ये तस्मिन्नेव ब्रह्मणि स्थितः तदनुरोधात् कर्माणि अमृष्यमाणः नैव हर्षविषादभागी भवि­तु­म­ल­मि­त्यर्थः ॥ २० ॥

शब्दा­दि­वि­ष­य­प्री­ति­प्र­ति­ब­न्धात् न कस्यचिदपि ब्रह्मणि स्थितिः सिध्येत् , इत्याशङ्क्य, आह -
किञ्चेति ।
न केवलं पूर्वोक्तरीत्या ब्रह्मणि स्थितो हर्षविषादरहितः, किन्तु विधान्तरेणापि इत्यर्थः ।

यावद्यावत् विषयेषु रागरूपमावरणं निवर्तते, तावत्तावत् आत्म­स्व­रू­प­सु­ख­म­भि­व्यक्तं भवति, इत्याह -
बाह्येति ।

न केवलम् असक्तात्मा शमवशादेव सुखं विन्दते, किन्तु ब्रह्मसमाधिना समाहितान्तःकरणः सुखमनन्तं प्राप्नोति, इत्याह -
स ब्रह्मेति ।

तत्र पूर्वार्धं व्याचष्टे -
बाह्याश्चेति ।

समा­धि­स­म्य­ग्ज्ञा­न­द्वारा निर­ति­श­य­सु­ख­प्रा­प्ति­मु­त्त­रा­र्ध­व्या­ख्या­नेन कथयति -
ब्रह्य­णी­त्या­दिना ।

शब्दा­दि­वि­ष­य­वि­मु­खस्य अन­न्त­सु­खा­प्ति­स­म्भ­वात् तदर्थिना, प्रयत्नेन विषयवैमुख्यं कर्तव्यम् , इति शिष्य­शि­क्षा­र्थम् आह -
तस्मादिति
॥ २१ ॥

तत्रैव हेत्व­न्त­र­प­र­त्वेन उत्त­र­श्लो­क­मु­दा­ह­रति -
इतश्चेति ।
विषयेभ्यः सकाशात् इन्द्रियाणि, इति शेषः ।

वैराग्यार्थमेव वैषयिकाणि सुखानि दूषयति -
ये हीति ।

ननु विष­ये­न्द्रि­य­स­म्प्र­यो­ग­स­म्प्र­सू­तेषु भोगेषु जन्तूमाम् अभिरुचिदर्शनात् कुतस्तेषां दुःखयोनित्वम् ? इत्याशङ्क्य, अविवेकिनां तेष्वासङ्गेऽपि न विवेकिनाम् , इत्याह -
आद्यन्तवन्त इति ।
यस्मात् आधि­व्या­धि­ज­रा­म­र­णा­दि­स­हि­तेभ्यः समा­ग­म­ना­दि­क्ले­श­रू­प­भा­गि­भ्यश्च विषयेन्द्रिय - सम्बन्धेभ्यो भोगाः सुखलवानुभवा जायन्ते, तस्मात् ते दुःखहेतवो भवन्ति, इति योजना ।

अवि­द्या­का­र्य­त्वात् दुःखानां कुतो भोगजन्यत्वम् ? इत्याशङ्क्य, भोगानाम् अवि­द्या­प्र­यु­क्त­त्वात् तन्निबन्धनत्वं दुःखानां युक्तम् , इत्यभिप्रेत्य आह -
अविद्येति ।

भोगानां दुःखयोनित्वे मानवमनुभवम् उपन्यस्यति -
दृश्यन्ते हीति ।

ऐहिकानां भोगानां दुःख­नि­मि­त्त­त्वेऽपि न आमुष्मिकाणां तथात्वम् , अनुभवाभावात् , इत्याशङ्क्य, अव­धा­र­ण­सा­म­र्थ्य­सि­द्ध­म­र्थम् आह -
यथेति ।

पूर्वार्धस्य अक्ष­रा­र्थ­मुक्त्वा तात्पर्यार्थमाह -
नेत्यादिना ।

इतश्च विषयेभ्यः सकाशात् इन्द्रियाणि निव­र्त­यि­त्व्यानि, इत्याह -
न केवलमिति ।
आद्यन्तवत्त्वे मध्य­क्ष­ण­व­र्ति­त्वेन क्षण­भ­ङ्गु­र­त्वात् उपेक्षणीयत्त्वं भोगानां सिध्यति ।

अस्ति हि तेषां क्षणभङ्गुरत्वं क्षणि­क­वि­ष­या­का­र­म­नो­वृ­त्ति­व्य­ङ्ग्य­त्वात् , इति मन्वानः सन् आह -
अत इति ।

बुद्धि­पू­र्व­का­रिणां विवेकवतां भोगेषु उपे­क्षो­प­ल­ब्धेश्च तेषामाभासत्वं प्रतिभाति, इत्याह -
न तेष्विति ।
प्रती­को­पा­दा­न­मा­द्य­मिदं पुन­र्व्या­ख्या­न­मिति, न पुनरुक्तिः ।

ननु केषाञ्चिद् भोगेष्वभिरुचिः उपलभ्यते, तत्राह -
अत्यन्तेति
॥ २२ ॥

उत्तरश्लोकस्य तात्पर्यमाह -
अयं चेति ।

श्रेयो­मा­र्ग­प्र­ति­प­क्षत्वं कष्टतमत्वे हेतुः, तत्रैव हेत्वन्तरमाह -
सर्वेति ।

प्रय­त्ना­धि­क्यस्य कर्तव्यत्वे हेतुं सूचयति -
दुर्निवार्य इति ।

प्रसिद्धं हि काम­क्रो­धो­द्भ­वस्य वेगस्य दुर्निवारत्वं, येन मातरमपि चाधिरोहति, पितरमपि हन्ति, तमवश्यं परिहर्तव्यं दर्शयति -
शक्नोतीति ।

यथोक्तं वेगं बहिरनर्थरूपेण परि­णा­मा­त्प्रा­गेव देहा­न्त­रु­त्पन्नं यः सोढुं क्षमते, तं स्तौति -
स युक्त इति ।

मरणसीमाकरणस्य तात्पर्यमाह -
मरणेति ।

प्रसिद्धौ हि शब्दः । तत्र हेतुमाह -
अनन्तेति ।

व्याध्युपहतानां वृद्धानां च कामादिवेगो न भवति, इत्याशङ्क्य, आह -
यावदिति ।

कामक्रोधोद्भवं वेगं व्याख्यातुम् आदौ कामं मनो­वि­का­र­वि­शे­ष­त्वेन व्याचष्टे -
काम इति ।

कथमस्य मनो­वि­का­र­वि­शे­षत्वं ? तदाह -
इन्द्रियेति ।
कामः, गार्धिः, तृष्णा इति पार्यांयाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः । क्रोधश्च मनोविकारविशेषः तद्वतः, तृष्णा इति पर्यायाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः ।

क्रोधश्च मनोविकारविशेषः तद्वत् , इत्याह -
क्रोधश्चेति ।

तमेव क्रोधं स्पष्टयति -
आत्मन इति ।

एवं कामक्रोधौ व्याख्याय, तयो­रु­त्क­ट­त्वा­व­स्था­त्मनो वेगस्य ताभ्या­मु­त्प­त्ति­मु­प­न्य­स्यति -
ताविति ।

यथो­क्त­वे­गा­व­ग­मो­पा­य­मु­प­दि­शति -
रोमा­ञ्च­न­प्र­हृ­ष्ट­ने­त्रे­त्या­दिना ।
उभयविधवेगं यो जीवन्नेव सोढुं शक्नोति, तं पुरुषधौरेयत्वेन स्तौति - तमित्यादिना ॥ २३ ॥

ज्ञानस्य अत्य­न्त­म­न्त­र­ङ्ग­मा­त्म­नि­ष्ठत्वं दर्शयन् प्रकृतं ब्रह्मविदमेव विशिनष्टि -
कथम्भूतश्चेति ।

यथा अन्तरेव सुखं न बाह्यविषयैः, तथा अन्तरेव ज्योतिर्न श्रोत्रादिभिः । अतो विष­या­न्त­र­वि­ज्ञा­न­र­हितः, इत्याह -
तथेति ।

यथो­क्त­वि­शे­ष­ण­स­मा­धि­मान् जीवन्नेव मुक्ति­म­धि­ग­च्छति, इत्याह -
स योगीति ।
आत्मनि अन्तः - सुखमिति वाह्य­वि­ष­य­नि­र­पे­क्षत्वं विवक्षितम् । अन्तरारामत्वं च स्त्र्यादि­वि­ष­या­पे­क्षा­मा­न्त­रेण क्रीडा­प्र­यु­क्त­फ­ल­भा­क्त्वम् मतम् । इन्द्रि­या­दि­ज­न्य­प्र­का­श­शू­न्य­त्वम् आत्म­ज्यो­ति­ष्ट्वम् इष्टम् । यथो­क्त­वि­शे­ष­ण­स­म्पन्नः समाहितश्च जीवन्नेव ब्रह्मभावं प्राप्नोति ।

ब्रह्मणि परिपूर्णे निर्वृतिं - सर्वा­न­र्थ­नि­वृ­त्त्यु­प­ल­क्षितां स्थिति­म­न­ति­श­या­न­न्दा­वि­र्भा­व­ल­क्षणां, प्राप्नोति, इत्याह -
य ईदृश इति
॥ २४ ॥

मुक्ति­हे­तो­र्ज्ञा­नस्य साधनान्तरमाह -
किञ्चेति ।

यज्ञा­दि­नि­त्य­क­र्मा­नु­ष्ठा­नात् पापादिलक्षणं कल्मषं क्षीयते, ततश्च श्रव­णा­द्या­वृत्तेः सम्यग्दर्शनं जायते ततो मुक्ति­र­प्र­य­त्नेन भवति, इत्याह -
लभन्त इति ।

ज्ञान­प्रा­प्त्यु­पा­या­न्तरं दर्शयति -
छिन्नेति ।
श्रवणादिना संशयनिरसनं कार्यकरणनियमनं च, दयालुत्वेन अहिंसकत्वम् इत्येतदपि सम्य­ग्ज्ञा­न­प्राप्तौ कारणमित्यर्थः । अक्ष­र­व्या­स्व्यानं स्पष्टत्वात् न व्याख्यायते ॥ २५ ॥

पूर्वं काम­क्रो­ध­यो­र्वेगः सोढव्यो दर्शितः । सम्प्रति तावेव त्याज्यौ इत्याह -
किञ्चेति ।

ननु - दर्शि­त­वि­शे­ष­ण­वतां मृतानामेव मोक्ष, नतु जीवताम् - इति चेत् ; न, इत्याह -
अभित इति ।

अस्मादादीनामपि तर्हि प्रभू­त­का­मा­दि­प्र­भा­व­वि­धु­राणां किमिति मोक्षो न भवति ? इत्याशङ्क्य, सम्य­ग्द­र्श­न­वै­शे­ष्या­भा­वात् , इत्याह -
विदितेति ।

उक्तेऽर्थे श्लोका­क्ष­रा­णा­म­न्व­य­मा­चष्टे -
काम­क्रो­धे­त्या­दिना
॥ २६ ॥

वृत्तम् अनूद्य उत्त­र­श्लो­क­त्र­यस्य तात्पर्यार्थम् आह -
सम्यग्दर्शनेति ।
ईश्व­रा­र्पि­त­स­र्व­भा­वे­नेति । भगवति परस्मिन् ईश्वरे समर्पितः, सर्वेषां - देहे­न्द्रि­य­म­न­साम् , भावः - चेष्टाविशेषः, न क्कचिदपि बहिः तेषां व्यापारः, तेन इत्यर्थः । कर्मयोगस्य तत्फलस्य च अभि­धा­ना­न­न्त­र­मिति अथशब्दार्थः ।
॥ २७ ॥

स्वतो बाह्यानां विषयाणां कुतो बहिष्करणम् ? इत्याशङ्क्य, आह -
श्रोत्रादीति ।

तेषां बहिष्करणं कीदृक् ? इत्याशङ्क्य, आह -
तानिति

विषयप्रावण्यं परित्यज्य, चक्षुरपि भ्रुवोर्मध्ये विक्षे­प­प­रि­हा­रार्थं कृत्वा, प्राणापानौ नासा­भ्य­न्त­र­च­र­ण­शीलौ समौ - न्यूना­धि­कं­व­र्जितौ कुम्भकेन निरुद्धौ कृत्वा, करणानि सर्वाणि एवं संयम्य प्राणायामपरो भत्वा, किं कुर्यात् ? इत्यपेक्षायाम् , आह -
यतेन्द्रियेति ।
इन्द्रि­या­दि­सं­यमं कृत्वा मोक्षमेव अपेक्षमाणो मननशीलः स्यात् , इत्यर्थः ।

ज्ञाना­ति­श­य­नि­ष्ठस्य सर्वदा इच्छादिशून्यस्य सन्यासिनो मुक्तेः अना­या­स­सि­द्ध­त्वात् न तस्य किञ्चिदपि कर्तव्यम् अस्ति, इत्याह -
विगतेति ।

पूर्वा­र्धा­क्ष­राणि व्याकरोति -
यतेत्यादिना ।

द्विती­या­र्धा­क्ष­राणि व्याचष्टे -
विगतेत्यादिना
॥ २८ ॥

अधिकारिणो यथोक्तस्य कर्तव्याभावे ज्ञातव्यमपि नास्ति, इत्याशङ्क्य, परिहरति -
एवमित्यादिना ।

प्रसिद्धं भोक्तारं व्यवच्छिनत्ति -
सर्वलोकेति ।

‘ततो ह्यस्य बन्धविपर्ययौ’(ब्र. सू. ३-२-५) इति न्यायेन सर्वफलदातृत्वं दर्शयति -
सुहृदमिति ।

उक्तेश्वरज्ञाने फलं कथयति -
ज्ञात्वेति ।

यज्ञेषु तपस्सु च द्विधा भोक्तृत्वं व्यनक्ति -
कर्तृरूपेणेति ।

हिर­ण्य­ग­र्भा­दि­व्य­व­च्छे­दार्थं विशिनष्टि -
महान्तमिति ।

स्वप­रि­क­रो­प­का­रिणं राजानं व्यावर्तयति -
प्रत्युपकारेति ।

ईश्वरस्य ताटस्थ्यं व्युदस्यति -
सर्वभूतानामिति ।

तर्हि तत्र तत्र व्यव­स्थि­त­क­र्म­त­त्फ­ल­सं­स­र्गित्वं स्यात् , इत्याशङ्क्य, आह -
सर्वकर्मेति ।

न च तस्य बुद्धि­त­द्वृ­त्ति­स­म्ब­न्धोऽपि वस्तुतोऽस्ति, इत्याह -
सर्वप्रत्ययेति ।

यथो­क्ते­श्व­र­प­रि­ज्ञा­न­फ­लम् आभिदधाति -
मां नारायणमिति ।
तदेवं कर्मयोगस्य अमुख्य सन्यासापेक्षया प्रशस्तत्वेऽपि ततो मुख्यसंन्यासस्य आधिक्यात् तद्वतो बुद्धि­शु­द्ध्या­दि­यु­क्तस्य कामक्रोधोद्भवं वेगम् इहैव सोढुं शक्तस्य शमदमादिमतो योगाधिकृतस्य त्वम्प­दा­र्था­भि­ज्ञस्य परमात्मानं प्रत्यक्त्वेन जानतो मुक्तिः इति सिद्धम् ॥ २९ ॥
इति आन­न्द­गि­रि­कृ­त­टी­कायां पञ्चमोऽध्यायः ॥ ५ ॥