अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

सप्तमोऽध्यायः

कर्म­सं­न्या­सा­त्म­क­सा­ध­न­प्र­धानं त्वम्प­दा­र्थ­प्र­धानं च प्रथमषट्कं व्याख्याय, मध्यमषट्कम् उपास्यनिष्ठं तत्पदार्थनिष्ठं च व्याख्यातुम् आरभमाणः, समनन्तराध्यायम् अवतारयति -
योगिनामिति ।
अतीताध्यायान्ते मद्गतेन अन्तरात्मना यो भजते मां इति प्रश्नबीजं प्रदर्श्य, कीदृशं भगवतस्तत्त्वम् ? कथं वा मदूगतान्तरात्मा स्यात् ? इति अर्जुनस्य प्रश्नद्वये जाते, स्वयमेव भगवान् अपृष्टम् एतद्वक्तुम् इच्छन् उक्तवान् इत्यर्थः ।

परमेश्वरस्य वक्ष्य­मा­ण­वि­शे­ष­णत्वं सक­ल­ज­ग­दा­य­त­न­त्वा­दि­ना­ना­वि­ध­वि­भू­ति­भा­गि­त्वम् , तत्र आसक्तिः - मनसः विष­या­न्त­र­प­रि­हा­रेण तन्निष्ठत्वम् । मनसः भगवत्येव आसक्तौ हेतुमाह -
योगमिति ।
विष­या­न्त­र­प­रि­हारे हि गोचरम् आलोच्यमाने भगवत्येव प्रतिष्ठितं भवति इत्यर्थः ।

तथापि स्वाश्रये पुरुषः मनः स्थापयति, नान्यत्र, इत्याशङ्क्य, अाह -
मदाश्रय इति ।

योगिनः यद् ईश्वराश्रयत्वेन तस्मिन्नेव आसक्तमनसस्त्वम् उपन्यस्तम् , तद् उपपादयति -
यो हीति ।

ईश्व­रा­ख्या­श्र­यस्य प्रतिपत्तिमेव प्रकटयति -
हित्वेति ।

अस्तु योगिनः त्वदा­श्र­य­प्र­ति­पत्त्या मनसः त्वय्येव आसक्तिः, तथापि मम किमायातम् ? इत्याशङ्क्य, द्वितीयार्धं व्याचष्टे -
यस्त्वमेवमिति ।
एवंभूतः - यथो­क्त­ध्या­न­नि­ष्ठ­पु­रु­ष­व­देव मय्यासक्तमनाः यः त्वं, स त्वं तथाविधस्सन् , असंशयम् - अविद्यमानः संशयः यत्र ज्ञाने तद् यथा स्यात् , तथा, मां समग्रं ज्ञास्यसि इति सम्बन्धः ।

समग्रं इत्यस्य अर्थमाह -
समस्तमिति ।
विभूतिः - नाना­वि­धै­श्व­र्यो­पा­य­स­म्पत्तिः, बलं - शरीरगतं सामर्थ्यम् , शक्तिः - मनोगतं प्रागल्भ्यं, ऐश्वर्यम् - ईशितव्यविषयम् ईशनसामर्थ्यम् , आदिशब्देन ज्ञानेच्छादयः गृह्यन्ते ।

असंशयमिति पदस्य क्रिया­वि­शे­ष­णत्वं विशदयन् क्रियापदेन सम्बन्धं कथयति -
संशयमिति ।

विना संशयं भग­व­त्त­त्त्व­प­रि­ज्ञा­न­मेव स्फोरयति -
एवमेवेति ।

भगवत्तत्त्वे ज्ञातव्ये, कथं मम ज्ञानमुदेष्यति? न हि त्वामृते तदुपदेष्टा कश्चिदस्ति, इत्याशङक्य, आह -
तच्छृण्विति
॥ १ ॥

ज्ञास्यसि इत्युक्त्या परो­क्ष­ज्ञा­न­श­ङ्कायां तन्निवृत्यर्थं तदु­क्ति­प्र­का­र­मेव विवृणोति -
तच्चेति ।

इदं - अपरोक्षं ज्ञानं चैतन्यम् । तस्य सविज्ञानस्य प्रतिलम्भे किं स्यात्? इत्याशङ्क्य, आह -
यज्ज्ञात्वेति ।
इदमा चैतन्यस्य परोक्षत्वं व्यावर्त्यते । तदेव सविज्ञानमिति विशेषणेन स्फुटयति ।

अनवशेषेण तद्वे­द­न­फ­लो­प­न्या­सेन श्रोतारं तच्छ्रवणप्रवणं करोति -
तद्ज्ञानमिति ।

एकविज्ञानेन सर्व­वि­ज्ञा­न­श्रु­ति­मा­श्रित्य उत्त­रा­र्ध­ता­त्प­र्य­माह -
यद्ज्ञात्वेति ।

भग­व­त्त­त्त्व­ज्ञा­नस्य विशि­ष्ट­फ­ल­त्व­मुक्त्वा फलितमाह -
अत इति
॥ २ ॥

ज्ञानस्य दुर्लभत्वं प्रश्नपूर्वकं प्रकटयति -
कथमित्यादिना ।

सहस्रशब्दस्य बहुवाचकत्वम् उपेत्य व्याकरोति -
अनेकेष्विति ।
सिद्धये - सत्त्व­शु­द्धि­द्वारा ज्ञानो­त्प­त्त्य­र्थम् इत्यर्थः ।

सिद्ध्यर्थं यतमानानां कथं सिद्धत्त्वम्? इत्याशङ्क्य आह -
सिद्धा एवेति ।

सर्वेषामेव तेषां ज्ञानोदयात् तस्य सुलभत्वम् , इत्याशङ्क्य, आह -
तेषामिति
॥ ३ ॥

ज्ञानार्थं प्रयत्नस्य, तद्द्वारा ज्ञानलाभस्य, तदुभयद्वारेण मुक्तेश्च, दुर्ल­भ­त्वा­भि­धा­नस्य श्रोतृप्ररोचनं फलम् , इति मत्वा आह -
श्रोतारमिति ।

आत्मनः सर्वात्मकत्वेन परिपूर्णत्वम् अवतारयन् आदौ अपरां प्रकृतिम् उपन्यस्यति -
आहेति ।

भूमिशब्दस्य व्यव­हा­र­यो­ग्य­स्थू­ल­पृ­थि­वी­वि­ष­यत्वं व्यावर्तयति -
भूमिरितीति ।

तत्र हेतुमाह -
भिन्नेति ।
प्रकृ­ति­स­म­भि­व्या­हा­रात् गन्धतन्मात्रं स्थूल­पृ­थि­वी­प्र­कृतिः, उत्तरविकारो भूमिरिति उच्यते, न विशेष इत्यर्थः ।

भूमिशब्दवत् अबादिशब्दानामपि सूक्ष्म­भू­त­वि­ष­य­त्वम् आह -
तथेति ।
तेषामपि प्रकृ­ति­स­मा­ना­धि­कृ­त­त्वा­वि­शे­षात् , तन्मात्राणां पूर्व­पू­र्व­प्र­कृ­ती­नाम् उत्त­रो­त्त­र­वि­का­रणां न विशे­ष­त्वा­सिद्धिः इत्यर्थः ।

मनःशब्दस्य सङ्क­ल्प­वि­क­ल्पा­त्म­क­क­र­ण­वि­ष­य­त्वम् आशङ्क्य, आह -
मन इतीति ।
न खलु अहङ्काराभावे सङ्क­ल्प­वि­क­ल्पयोः असम्भवात् तदात्मकं मनः सम्भवति इत्यर्थः ।

निश्चयलक्षणा बुद्धिः इति अभ्युपगमात् बुद्धिशब्दस्य निश्च­या­त्म­क­क­र­ण­वि­ष­य­त्वम् आशङ्क्य, आह -
बुद्धिरितीति ।
न हि हिर­ण्य­ग­र्भ­स­म­ष्टि­बु­द्धि­रू­पम् अन्तरेण व्यष्टिबुद्धिः सिद्ध्यति इत्यर्थः ।

अहङ्कारस्य अभि­मा­न­वि­शे­ष­णा­त्म­क­त्वेन अन्तः­क­र­ण­प्र­भे­दत्वं व्यावर्तयति -
अहङ्कार इति ।
अवि­द्या­सं­यु­क्त­मिति - अविद्यात्मकम् इत्यर्थः ।

कथं मूलकारणस्य अह­ङ्का­र­श­ब्द­त्वम्? इत्याशङ्क्य, उक्तमर्थं दृष्टान्तेन स्पष्टयति -
यथेत्यादिना ।

मूलकारणस्य अहङ्कारशब्दत्वे हेतुमाह -
प्रव­र्त­क­त्वा­दिति ।

तस्य प्रवर्तकत्वं प्रपञ्चयति -
अहङ्कार एवेति ।
सत्येव अहङ्कारे, ममाकरो भवति, तयोश्च भावे, सर्वा प्रवृत्तिः इति प्रसिद्धम् इत्यर्थः ।

उक्तां प्रकृतिम् उपसंहरति -
इतीयमिति ।
इयमिति अपरोक्षा, साक्षिदृश्या इति यावत् ।

ऐश्वरी तदाश्रया तदै­श्व­र्यो­पा­धि­भूता । प्रक्रियते महदाद्याकारेण इति प्रकृतिः त्रिगुणं जगदुपादानं प्रधानमिति मतं व्युदस्यति -
मायेति ।

तस्याः तत्कार्याकारेण परिणामयोग्यत्वं द्योतयति -
शक्तिरिति ।

अष्टधेति ।
अष्टभिः प्रकारैः इति यावत्
॥ ४ ॥

अचेतनवर्गम् एकीकर्तुं प्रकृतेः अष्टधा परिणामम् अभिधाय, विका­रा­व­च्छि­न्न­का­र्य­कल्पं चेतनवर्गम् एकीकर्तुं पुरुषस्य चैतन्यस्य अवि­द्या­श­क्त्य­व­च्छि­न्न­स्यापि प्रकृतित्वं कल्पयितुम् उक्तां प्रकृतिम् अनूद्य दर्शयति -
अपरेति ।

निकृष्टत्वं स्पष्टयति -
अनर्थकरीति ।

अनर्थकत्वमेव स्फोरयति -
संसारेति ।
कथञ्चिदपि अन­न्य­त्व­व्या­वृ­त्यर्थः तुशब्दः । अन्याम् अत्य­न्त­वि­ल­क्ष­णाम् , इति यावत् ।

अन्यत्वमेव स्पष्टयति -
विशुद्धामिति ।

प्रकृतिशब्दस्य अत्र प्रयुक्तस्य अर्थान्तरम् आह -
ममेति ।

प्रकृष्टत्वमेव भोक्तृत्वेन स्पष्टयति -
जीवभूतामिति ।

प्रकृत्यन्तरात् अस्याः प्रकृतेः अवान्तरविशेषम् आह -
ययेति ।

न हि जीवरहितं जगद् धारयितुम् शक्यम् इत्याशयेन आह -
अन्तरिति
॥ ५ ॥

उक्त­प्र­कृ­ति­द्वये कार्यलिङ्गकम् अनुमानं प्रमाणयति -
एतद्योनीनीति ।

प्रकृतिद्वयस्य जगत्कारणत्वे कथम् ईश्वरस्य जगत्कारणत्वं तदुपगदतम्? इत्याशङ्क्य आह –
अहमिति ।

एतद्योनीनि इत्युक्ते सम­न­न्त­र­प्र­कृ­त­जी­व­भू­त­प्र­कृतौ एतच्छब्दस्य अव्यवधानात् प्रवृत्तिम् आशङ्क्य, व्याकरोति -
एतदिति ।
सर्वाणि चेतनाचेतनानि, जनिमन्ति इत्यर्थः ।

सर्व­भू­त­का­र­ण­त्वेन प्रकृतिद्वयम् अङ्गीकृतं चेत् , कथम् अह­मि­त्या­द्यु­क्तम्? इत्याशङ्क्याह -
यस्मादिति ।
मम प्रकृती - परमेश्वरस्य उपाधितया स्थिते, इत्यर्थः ।

तर्हि, प्रकृतिद्वयं कारणम् ईश्वरश्च, इति जगतः अने­क­वि­ध­का­र­णा­ङ्गी­क­रणं स्यात् , इत्याशङ्क्य, आह -
प्रकृतीति ।

अपरप्रकृतेः अचेतनत्वात् परप्रकृतेः चेतनत्वेऽपि किञ्चिं­ज्ञ­त्वात् ईश्वरस्यैव सर्वकारणत्वं युक्तम् , इत्याह -
सर्वज्ञेति
॥ ६ ॥

प्रधानात् परतः अक्षरात् पुरुषवत् परमात्मनोऽपि परात् अन्यत् - परं स्यात् , इत्याशङ्क्य, प्रकृ­ति­द्व­य­द्वारा सर्वकारणत्वम् ईश्वरस्य उक्तम् उपजीव्य परिहरति -
यतः तस्मादिति ।

नान्यदस्ति परम् , इत्यत्र हेतुम् आह -
मयीति ।

परतरशब्दार्थम् आह -
अन्यदिति ।
स्वात­न्त्र्य­व्या­वृ­त्त्य­र्थम् अन्तरशब्दः ।

निषेधफलं कथयति -
अहमेवेति ।

सर्व­ज­ग­त्का­र­ण­त्वेन सिद्धम् अर्थं द्वीती­या­र्ध­व्या­ख्या­नेन विशदयति -
यस्मादिति ।

अतो (यथा) दीर्घोषु तिर्यक्षु च पटघटितेषु तन्तुषु पटस्य अनुगतिः अवगम्यते, तद्वत् मय्येव अनुगतं जगत् , इत्याह -
दीर्घेति ।

यथा च मणयः सूत्रे अनुस्यूताः तेनैव ध्रियन्ते तदभावे विप्रकीर्यन्ते, तथा मयैव आत्मभूतेन सर्वं व्याप्तं ततो निष्कृष्टं विनष्टमेव स्यात् इति श्लोकोक्तं दृष्टान्तम् आह -
सूत्र इति
॥ ७ ॥

अबादीनां रसादिषु प्रोत­त्व­प्र­तीतेः ‘त्वय्येव सर्वं प्रोतम् ‘ इति अयुक्तम् , इति मत्वा पृच्छति -
केनेति ।

तत्र उत्तरम् उत्तरग्रन्थेन दर्शयति -
उच्यत इति ।
सारो मधुरो हेतुः, इति यावत् ।

रसोऽहमिति कथम्? तत्र आह -
तस्मिन्निति ।

अप्सु यो रसः - सारः, तस्मिन् मयि मधुररसे कारणभूते प्रोताः आप इतिवत् , उत्तरत्र सर्वत्र व्याख्यानं कर्तव्यम् , इत्याह -
एवमिति ।

उक्तम् अर्थं दृष्टान्तं कृत्वा प्रभास्मि इत्यादि व्याचष्टे -
यथेति ।
चन्द्रादित्ययोः या प्रभा, तद्भूते मयि तौ प्रोतौ, इत्यर्थः ।

तत्र वाक्यार्थं कथयति -
तस्मिन्निति ।

प्रणवभूते तस्मिन् वेदानां प्रोतत्ववत् आकाशे यः सारभूतः शब्दः तद्रूपे परमेश्वरे प्रोतम् आकाशम् , इत्याह -
तथेति ।

‘पौरुषं नृषु’ इति भागं पूर्ववत् विभजते -
तथेत्यादिना ।

पुरुषत्वमेव विशदयति -
यत इति ।
पुंस्त्व­सा­मा­न्या­त्मके परस्मिन् ईश्वरे प्रोताः तद्विशेषाः, तदुपादानत्वेन तत्स्वभावत्वात् , इत्यर्थः
॥ ८ ॥

‘मयि सर्वमिदं प्रोतम् ’ [भ.गी.७ - ७] इत्यस्यैव परिमाणार्थं प्रकारान्तरम् आह -
पुण्य इति ।

पृथिव्यां पुण्यशब्दितो यः सुरभिगन्धः, सोऽहमस्मि, इत्यत्र वाक्यार्थं कथयति
तस्मिन्निति ।

कथं पृथिव्यां गन्धस्य पुण्यत्वम्? तत्र आह-
पुण्यत्वमिति ।

यत्तु पृथिव्यां गन्धस्य स्वाभाविकं पुण्यत्वं दर्शितं, तत् अबादिषु रसादेरपि स्वाभा­वि­क­पु­ण्य­त्वस्य उपलक्षणार्थं, इत्याह -
पृथिव्यामिति ।
प्रथमोत्पन्नाः पञ्चापि गुणाः पुण्या एव, सिद्धादिभिरेव भोग्यत्वात् , इति भावः ।

कथं तर्हि गन्धादीनाम् अपु­ण्य­त्व­प्र­ति­भा­नम्? तत्र आह -
अपुण्यत्वं त्विति ।

तदेव स्फुटयति -
संसारिणामिति ।
गन्धादयः स्वकार्यैः भूतैः सह परिणममानाः प्राणिनां पापादिवशात् अपुण्याः सम्पद्यन्ते, इत्यर्थः ।

यच्च अग्नेः तेजः, तद्भूते मयि प्रोतः अग्निः, इत्याह -
तेज इति ।

जीवनभूते च मयि सर्वाणि भूतानि प्रोतानि इत्याह -
तथेति ।

जीवनशब्दार्थं आह -
येनेति ।
अन्नरसेन अमृताख्येन, इत्यर्थः ।

‘तपश्चास्मि’ इत्यादेः तात्पर्यार्थम् आह -
तस्मिन्निति ।
चित्तैकाग्र्यम् अनाशकादि वा तपः, तदात्मनि ईश्वरे प्रोताः तपस्विनः, विशेषणाभावे विशिष्टस्य वस्तुनः अभावात् , इत्यर्थः
॥ ९ ॥

ननु - सर्वाणि भूतानि स्वकारणे प्रोतानि, कथं तेषां त्वयि प्रोतत्वम्? तत्र आह -
बीजमिति ।

बीजा­न्त­रा­पे­क्षया अनवस्थां वारयति -
सनातनमिति ।

चैतन्यस्य अभिव्यञ्जकं तत्व­नि­श्च­य­सा­मर्थ्यं बुद्धिः, तद्वतां या बुद्धिः तद्भूते मयि सर्वे बुद्धिमन्तः प्रोता भवन्ति, इत्याह -
किं चेति ।

प्रागल्भ्यवतां यत् प्रागल्भ्यं तद्भूते मति तद्वन्तः प्रोताः, इत्याह -
तेज इति ।
तद्धि प्रागल्भ्यम् , यत् परा­भि­भ­व­सा­मर्थ्यं परैश्च अप्रधृष्यत्वम्
॥ १० ॥

यच्च बलवतां बलम् , तद्भूते मयि तेषां प्रोतत्वम् , इत्याह -
बलमिति ।

काम - क्रोधा­दि­पू­र्व­क­स्यापि बलस्य अनुमतिं वारयति -
तच्चेति ।

कामरागयोः एकार्थत्वम् आशङ्क्य अर्थभेदम् आवेदयति -
कामः - तृष्णा, इत्यादिना ।

विशे­ष­ण­सा­म­र्थ्य­सिद्धं व्यावर्त्य दर्शयति -
न तु इति ।

शास्रा­र्था­वि­रु­द्ध­का­म­भूते मयि तथाविधकामवतां भूतानां प्रोतत्वं विवक्षित्वा, आह -
किं चेति ।

धर्माविरुद्धं कामम् उदाहरति -
यथेति
॥ ११ ॥

चिदानन्दयोः अभिव्यञ्जकानां भावानाम् ईश्व­रा­त्म­त्वा­भि­धा­नात् अन्येषाम् अत­दा­त्म­त्व­प्राप्तौ उक्तम् -
किञ्चेति ।

प्राणिनां त्रैविध्ये हेतुं दर्शयन् वाक्यार्थम् आह -
ये केचिदिति ।

तर्हि पितुरिव पुत्राधीनत्वं त्वत्तः जायमानात् तदधीनत्वं तवापि स्यात् , इति विक्रि­या­व­त्त्व­दू­ष्य­त्व­प्र­सक्तिः, इत्याशङ्क्य, आह -
यद्यपीति ।

मम परमार्थत्वात् तेषां कल्पितत्वात् न तदूगुणदोषौ मयि स्याताम् , इत्यार्थः तेषामपि तद्वदेव स्वत­न्त्र­ता­स­म्भ­वात् किमिति कल्पितत्वम्? इत्याशङ्क्य, आह -
ते पुनरिति ।
त्रिविधानां भावानां न स्वातन्त्र्यम् , ईश्वरकार्यत्वेन तदधीनत्वात् । तथा च, कल्पितस्य अधि­ष्ठा­न­स­त्ताा­प्र­ती­ति­भ्याम् एव तद्वत्वात् तन्मा­त्र­त्व­सिद्धिः, इत्यर्थः
॥ १२ ॥

सति ईश्वरस्य स्वातन्त्र्ये नित्य­शु­द्ध­त्वादौ च, कुतो जगतः तदात्मकस्य संसारित्वम् ? इत्याशङ्क्य, तदज्ञानात् इत्याह -
एवंभूतमपीति ।

यदि अप्रपञ्चः अविक्रियश्च त्वम् , कस्मात् त्वाम् आत्मभूतं स्वयम्प्रकाशं सर्वो जनः तथा न जानाति ? इति मत्वा, शङ्कते -
तच्चेति ।

श्लोकेन उत्तरम् आह -
उच्यत इति ।
‘एभ्यः परम् ‘ इति अप्रपञ्चकत्वम् उच्यते, ‘अव्ययम् ‘ इति सर्व­वि­क्रि­या­रा­हि­त्यम्
॥ १३ ॥

यथो­क्ता­ना­दि­सि­द्ध­मा­या­पा­र­व­श्य­प­रि­व­र्ज­ना­यो­गात् जगतः न कदाचिदपि तत्त्व­बो­ध­स­मु­द­य­स­म्भा­वना, इति आशङ्कते -
कथं पुनरिति ।

भगवदेकशरणतया तत्त्व­ज्ञा­न­द्वा­रेण मायातिक्रमः सम्भवति, इति परिहरति -
उच्यत इति ।

कथं दुरत्ययत्वेन तदत्ययः स्यात् ? इति, तत्र आह -
मामेवेेति ।

प्रधानस्येव स्वातन्त्र्यं मायाया व्युदस्यति -
देवस्येति ।

स्वातन्त्र्ये माया­त्वा­नु­प­पत्तिं हिशब्दद्योतितां हेतूकरोति -
यस्मादिति ।

अनुभवसिद्धा सा न अकस्मात् अपलापम् अर्हति, इत्याह -
एषेति ।
जगतः तत्त्व­प्र­ति­प­त्ति­प्र­ति­ब­न्ध­भूताः गुणाः सत्वादयः ।

‘मम’ इति प्रागुक्तमेव मायायाः सम्बन्धम् अनू­द्य­वि­धि­त्सितं दुरत्ययत्वं विभजते -
दुःखेनेति ।

‘मामेव’ इत्यादि व्याचष्ठे -
तत्रेति ।
तस्मिन् मायारूपे यथोक्तरीत्या दुरत्यये सति, इति यावत् । ‘मामेव’ इति एवकारेण मायाया वेद्य­को­टि­नि­वे­शा­भावः विवक्ष्यते । सर्वात्मना - कर्मा­नु­ष्ठा­ना­दि­व्य­ग्र­ता­म­न्त­रेण, इत्यर्थः ।

मायातिक्रमे मोहातिक्रमो भवति, इति मत्वा विशिनष्टि -
सर्वेति ।

माया­त­त्प्र­यु­क्त­मो­हयोः अतिक्रमेऽपि कथं पुरु­षा­र्थ­सिद्धिः? इति आशङ्क्य, आह -
संसारेति
॥ १४ ॥

भगवन्निष्ठाया माया­ति­क्र­म­हे­तुत्वे तदेकनिष्ठत्वमेव सर्वेषाम् उचितम् , इति पृच्छति -
यदीति ।

पापकारित्वेन अविवेकभूयस्तया हिंसाऽ­नृ­ता­दि­भू­य­स्त्वात् भूयसां जन्तूनां न भग­व­न्नि­ष्ठ­त्व­सिद्धिः, इत्याह -
उच्यत इति ।
मौढ्यं पापकारित्वे हेतुः । अत एव निकर्षः । सम्मुषितमिव - तिरस्कृतम् , ज्ञानम् - स्वरूपचैतन्यम् येषाम् इति, ते तथा
॥ १५ ॥

केषां तर्हि तन्निष्ठता सुकरा ? इति, तत्र आह -
ये पुनरिति ।
ते भजन्ते भगवन्तम् , इति शेषः ।

ये त्वां भजन्ते, ते किं सर्वे मायां तरन्ति ? नैवम् , प्रार्थ­ना­वै­चि­त्र्यात् इत्याह -
चतुर्विधा इति ।
आपन्नः तन्निवृत्तिम् इच्छन् , इति शेषः । तत्त्वविदिति । शाब्दज्ञानवान् आत्म­त­त्त्व­सा­क्षा­त्का­र­मा­त्रार्थी मुमुक्षुः, इत्यर्थः
॥ १६ ॥

चतुर्विधानां तेषां सुकृतिनां भगवदभिमुखानां तुल्यत्वम् आशङ्क्य, आह -
तेषामिति ।

तस्य विशिष्यमाणत्वे हेतुम् आह -
प्रियो हीति ।

नित्ययुक्तत्वं भगवति आत्मनि सदा समा­हि­त­चे­त­स्त्वम् । असारे संसारे भगवानेव सारः, ‘सोऽहमस्मि’ इति एकस्मिन् अद्वितीये स्वस्मात् अत्यन्तमभिन्ने भगवति भक्तिः स्नेहविशेषः अस्येति, एकभक्तिः । तस्य आधिक्ये हेतुं विवृणोति -
प्रियो हीत्यादिना ।

भगवतो ज्ञानिनश्च परस्परं प्रेमास्पदत्वे प्रसिद्धिं प्रमाणयति -
प्रसिद्धं हीति ।

आत्मनो ज्ञानिनं प्रति प्रियत्वेऽपि भगवतो वासुदेवस्य कथं तं प्रति प्रियत्वम् , इत्याशङ्क्य, आह -
तस्मादिति ।
अहं ज्ञानिनो निरु­पा­धि­क­प्रे­मा­स्पदं, पर­म­पु­रु­षा­र्थ­त्वेन आत्मत्वेन च गृहीतत्वात् , इत्यर्थः । ज्ञानिनोऽपि भगवन्तं प्रति प्रियत्वं प्रकटयति - स चेति
॥ १७ ॥

ज्ञानी चेत् अत्यर्थम् ईश्वरस्य प्रियो भवति, तर्हि विशे­ष­ण­सा­म­र्थ्यात् इतरेषाम् अप्रियत्वं प्राप्तम् , इति शङ्कते -
न तर्हीति ।

तेषां भगवन्तं प्रति प्रियत्वम् , अत्र विवक्षितम् , इत्याह -
नेति ।

अत्यर्थमिति विशेषणस्य तर्हि किं प्रयोजनम् ? इति पृच्छति -
किं तर्हीति ।

सर्वेषां भगवदभिमुखत्वात् उत्कर्षेऽपि ज्ञानिनि तदतिरेकम् अङ्गीकृत्य विशेषणम् , इ्त्याह -
उदारा इति ।

किं तत्र प्रमाणम् ? इत्याशङ्क्य, ईश्वरज्ञानम् , इत्याह -
मे मतमिति ।

ज्ञानी तु आत्मैव इत्यत्र हेतुम् आह -
आस्थित इति ।

सर्वशब्दस्य ज्ञानि­व्य­ति­रि­क्त­वि­ष­य­त्वम् आह -
त्रयोऽपीति ।

ज्ञानि­व्य­ति­रि­क्तानां भग­व­द­भि­मु­ख­त्वेऽपि ज्ञाना­भा­वा­प­रा­धात् न भग­व­त्प्री­ति­वि­ष­यता, इत्याशङ्क्य, आह -
न हीति ।

कस्तर्हि ज्ञानवति विशेषः । तत्र आह -
ज्ञानी त्विति ।

तमेव विशेषं प्रश्नपूर्वकं प्रकटयति -
तत्क­स्मा­दि­त्या­दिना ।

सर्वमात्मानं पश्यतोऽपि तस्य तव कथं यथोक्तो निश्चयः स्यात् ? इत्याशङ्क्य, आस्थित इत्येतत् व्याकरोति -
आरोढुमिति ।

आरोहे हेतुं सूचयति -
स ज्ञानीति ।

आरोढुं प्रवृत्तत्वमेव स्फुटयति -
मामेवेति
॥ १८ ॥

उत्तरश्लोकस्य गतार्थत्वं परिहरति -
ज्ञानीति ।
ज्ञाना­र्थ­सं­स्कारः - वासना तत्तज्जन्मनि पुण्य­क­र्मा­नु­ष्ठा­न­ज­निता बुद्धिशुद्धिः, तदाश्रयाणां - तद्वताम् अनन्तानां जन्मनाम् , इति यावत् ।

ज्ञानवत्वं प्राक्तनेष्वपि जन्मसु सम्भावितम् , इत्याशङ्क्य, आह -
प्राप्तेति ।

ज्ञानवतो भग­व­त्प्र­ति­पत्तिं प्रश्नद्वारा विवृणोति -
कथमिति ।

यथोक्तज्ञानस्य तद्वतश्च दुर्लभत्वं सूचयति -
य एवमिति ।

महत् - सर्वोत्कृष्टम् आत्मशब्दितं वैभवम् अस्य, इति महात्मा । महात्मत्वे फलितम् आह -
अत इति ।

तत्र वाक्यो­प­क्र­मा­नु­कूल्यं कथयति -
मनुष्याणामिति
॥ १९ ॥

किमिति तर्हि सर्वेषां प्रत्यग्भूते भगवति यथोक्तज्ञानं नोदोति? इत्याशङ्क्य, ‘न माम् ‘ इत्यत्र उक्तं हृदि निधाय, ज्ञाानानुदये हेत्वन्तरम् आह -
आत्मैवेति ।

कामैः नानाविधैः अप­हृ­त­वि­वे­क­वि­ज्ञा­नस्य देव­ता­न्त­र­नि­ष्ठ­त्व­मेव प्रत्य­ग्भू­त­प­र­दे­व­ता­प्र­ति­प­त्त्य­भावे कारणम् , इत्याह -
कामैरिति ।

देव­ता­न्त­र­नि­ष्ठत्वे हेतुम् आह -
तं तमिति ।

प्रसिद्धो नियमः जपो­प­वा­स­प्र­द­क्षि­ण­न­म­स्का­रादिः । निय­म­वि­शे­षा­श्र­यणे कारणम् आह -
प्रकृत्येति
॥ २० ॥

तत्त­द्दे­व­ता­प्र­सा­दात् कामिनामपि सर्वेश्वरे सर्वात्मके वासुदेवे क्रमेण भक्ति­र्भ­वि­ष्यति, इत्याशङ्क्य, आह -
तेषां चेति
॥ २१ ॥

स्वभावतः - जन्मा­न्त­री­य­सं­स्का­र­व­शात् , इत्यर्थः । भगवद्विहितया स्थिरया श्रद्धया संस्काराधीनया देवताविशेषम् आराधयतोऽपि भगवदनुग्रहादेव फलप्राप्तिः, इत्याह -
यो यां इति ।
ईहते - निर्वर्तयति, इत्यर्थः ।

आरा­धि­त­दे­व­ता­प्र­सा­दात् फलप्राप्तौ किम् ईश्वरेण ? इत्याशङ्क्य, तस्य सर्वज्ञस्य कर्म­फ­ल­वि­भा­गा­भि­ज्ञस्य तत्त­द्दे­व­ता­धि­ष्ठा­तृ­त्वात् तस्यैव फलदातृत्वम् , इत्याह -
सर्वज्ञेनेति ।

‘एको बहूनां यो विदधाति कामान् ‘ इत्यादिश्रुतिम् आश्रित्य हि, तान् इति पदद्वयं व्याचष्टे -
यस्मादिति ।

हितान् इत्येकं पदम् इति पक्षं प्रत्याह -
हितानिति ।

मुख्यत्वसम्भवे किमिति औपचारिकत्वम् इत्याशङ्क्य, आह -
न हीति
॥ २२ ॥

प्रेक्षा­पू­र्व­का­रिणि कामानां हितत्वाभावे हेतुमाह -
यस्मादिति ।

किञ्च, ये कामिनः ते न विवेकिनः, ततश्च अवि­वे­क­पू­र्व­क­त्वात् कामानां कुतो हितत्वाशङ्का ? इत्याह -
अविवेकिन इति ।

कामानाम् आनन्त्यफलत्वेन हितत्वम् आशङ्क्य, आह -
अत इति।
तेषाम् अवि­वे­क­पू­र्व­क­त्वम् अतश्शब्दार्थः । तुशब्दः अवधारणार्थः ।

कामफलस्य विनाशित्वे किमिति कामनिष्ठत्वं जन्तूनाम् ? इत्याशङ्क्य, प्रज्ञा­मा­न्द्या­दि­त्याह -
अल्पेति ।

किं तर्हि साधनम् अनन्तफलाय इत्याशङ्क्य, भग­व­द्भ­क्ति­रि­त्याह -
मद्भक्ता इति ।

अक्षरार्थम् उक्त्वा श्लोकस्य तात्पर्यार्थमाह -
एवमिति ।
देवताप्राप्तौ चेति शेषः ।

मामेव इत्यादौ देवताविशेषं प्रपद्यन्ते अन्तवत्फलाय इति वक्तव्यम् । उक्तवैपरीत्ये कारणम् अविवेकातिरिक्तं नास्ति इत्यभिप्रेत्य आह -
अहो खल्विति
॥ २३ ॥

भगवद्भजनस्य उत्तमफलत्वेऽपि प्राणिनां प्रायेण तन्नि­ष्ठ­त्वा­भावे प्रश्नपूर्वकं निमित्तं निवेदयति -
किं निमि­त्त­मि­त्या­दिना ।
अप्रकाशम् , शरीरग्रहणात् पूर्वम् इति शेषः । इदानीम् - लीला­वि­ग्र­ह­प­रि­ग्र­हा­व­स्था­याम् , इत्यर्थः ।

प्रकाशस्य तर्हि कादाचित्कत्वं भगवति प्राप्तम् , नेत्याह -
नित्येति ।

कथं तर्हि भगवन्तम् आगन्तुकप्रकाशं मन्यन्ते तत्र अबुद्धय इति उत्तरम् । तद्विवृणोति -
परमिति ।
परम् , अनुत्तमम् इति विशेषणद्वयं सोपा­धि­क­नि­रू­पा­धि­क­भा­वा­र्थम्
॥ २४ ॥

अविवेकरूपम् अज्ञानं भग­व­न्नि­ष्ठा­प्र­ति­ब­न्ध­कम् उक्तम् । तस्मिन्नपि निमित्तं प्रश्नपूर्वकम् अनाद्यज्ञानम् उपन्यस्यति -
तदीयम् अज्ञानम् इत्यादिना ।

‘त्रिभि­र्गु­ण­मयैः’ इति अनौपाधिकरूपस्य अप्रतिपत्तौ कारणम् उक्तम् , अत्र तु सोपाधिकस्यापि, इति विशेषं गृहीत्वा व्याचष्टे -
नाहमिति ।

तर्हि भगवद्भक्तिः अनुपयुक्ता, इत्याशङ्क्य, आह -
केषांचिदिति ।

सर्वस्य लोकस्य न प्रकाशोऽहम् , इत्यत्र हेतुम् आह -
योगेति ।

अना­द्य­नि­र्वा­च्या­ज्ञा­ना­च्छ­न्न­त्वा­देव मद्विषये लोकस्य मौढ्यम् , ततश्च मदी­य­स्व­रू­प­वि­वे­का­भा­वात् मन्नि­ष्ठ­त्व­रा­हि­त्यम् , इत्याह-
अत एवेति

मायया भगवान् आवृतश्चेत् तस्यापि लोकस्येव ज्ञानप्रतिबन्धः स्यात् इत्याशङ्क्य, आह -
ययेति ।
न हि इयं माया, मायाविनो विज्ञानं प्रतिबध्नाति, मायात्वात् , लोकिकमायावत् , अथवा, न, ईश्वरः, माया­प्र­ति­ब­द्ध­ज्ञानः, मायावित्वात् , लौकिकमायाविवत् इत्यर्थः ।
॥ २५ ॥

भगवतो माया­प्र­ति­ब­द्ध­ज्ञा­न­त्वा­भा­वेन सर्वज्ञत्वम् अप्रतिबद्धं सिद्धम् , इत्याह -
यत इति ।

लोकस्य माया­प्र­ति­ब­द्ध­वि­ज्ञा­न­त्वा­देव भग­व­दा­भि­मु­ख्य­शू­न्य­त्वम् , इत्याह -
मान्त्विति ।
काल­त्र­य­प­रि­च्छि­न्न­स­म­स्त­व­स्तु­प­रि­ज्ञाने प्रतिबन्धो न ईश्वरस्य अस्ति, इति द्योतनार्थः तुशब्दः । ‘मां तु’ इति लोकस्य भग­व­त्त­त्व­वि­ज्ञा­न­प्र­ति­बन्धं द्योतयति ।

तर्हि त्वद्भक्तिः विफला, इत्याशङ्क्य, आह-
मद्भक्तमिति ।

तर्हि सर्वोऽपि त्वद्भ­क्ति­द्वारा त्वां ज्ञास्यति, नेत्याह -
मत्तत्त्वेति ।
विवेकवतो मद्भजनम् , न तु विवेकशून्यस्य सर्वस्यापि, इत्यर्थः
॥ २६ ॥

भग­व­त्त­त्त्व­वि­ज्ञा­न­प्र­ति­ब­न्धकं मूला­ज्ञा­ना­ति­रिक्तं प्रश्नद्वारेण उदाहरति -
केनेत्यादिना ।
पुनश्शब्दात् प्रति­ब­न्ध­का­न्त­र­वि­वक्षा गम्यते । अपरोक्षम् अवा­न्त­र­प्र­ति­ब­न्ध­कम् इदमा गृह्यते ।

विशेषम् आका­ङ्क्षा­पू­र्वकं निक्षिपति -
केनेति ।
विशे­षा­पे­क्षा­या­मिति ।

द्वन्द्वशब्देन गृहीतयोरपि इच्छाद्वेषयोः ग्रहणं द्वन्द्व­श­ब्दा­र्थो­प­ल­क्ष­णा­र्थम् , इत्यभिप्रेत्य आह -
तावेवेति ।

तयोः अपर्यायम् एकत्र अनुपपत्तिं गृहीत्वा विशिनष्टि-
यथाकालमिति ।

न च तयोः अनधिकरणं किञ्चिदपि भूतं संसारमण्डले सम्भवति, इत्याह -
सर्वभूतैरिति ।

तथापि कथं तयोः मोहहेतुत्वम्? इत्याशङ्क्य, आह -
तत्रेति ।
तयोः आश्रयः सप्तम्यर्थः ।

उक्तमेवार्थं कैमुतिकन्यायेन प्रपञ्चयति -
नहीति ।

पूर्व­भा­गा­नु­वा­द­पू­र्व­कम् उत्तरभागेन फलितम् आह -
अत इति ।
प्रत्यगात्मनि अह­ङ्का­रा­दि­प्र­ति­ब­न्ध­प्र­भा­वतः ज्ञानोत्पत्तेः असम्भवः अतश्शब्दार्थः ।

कुल­प्र­सू­त्य­भि­मा­नेन स्वरूपशक्त्या च युक्तस्यैव यथोक्तप्रतिबन्ध - प्रति­वि­धा­न­सा­म­र्थ्यम् इति द्योतनार्थम् , भारत! परन्तप! इति सम्बोधनद्वयम् । तत्त्व­ज्ञा­न­प्र­ति­बन्धे प्रकृतम् अवान्तरकारणम् उपसंहरति -
मोहेति ।

जायमानभूतानां मोहपरतन्त्रत्वे फलितम् आह -
यत इति ।

भग­व­त­त्त्व­वे­द­ना­भावे तन्नि­ष्ठ­त्व­वै­धुर्यं फलति, इत्याह -
अत एवेति
॥ २७ ॥

यदि सर्वाणि भूतानि जन्म प्रतिपद्यमानानि संमूढानि सन्ति भग­व­त्त­त्त्व­प­रि­ज्ञा­न­शू­न्यानि भग­व­द्भ­ज­न­प­रा­ङ्मु­खानि, तर्हि शास्त्रानुरोधेन भगवद्भजनम् उच्यमानम् अधिकार्यभावात् अनर्थकम् आपद्येत, इति शङ्कते -
के पुनरिति ।

अनेकेषु जन्मसु सुकृतवशात् अपाकृतदुरितानां द्वन्द्व­प्र­यु­क्त­मो­ह­वि­र­हिणां ब्रह्म­च­र्या­दि­नि­य­म­वतां भग­व­द्भ­ज­ना­धि­का­रि­त्वात् न शास्त्र­वि­रो­धोऽस्ति, इति परिहरति -
उच्यत इति ।

तुशब्दद्योत्यम् अर्थम् आह -
पुनरिति ।
उक्ता­र्थ­मा­त्र­सि­ध्यर्थं समाप्तप्रायम् , इत्युक्तम् ।

प्रकृतोपयोगं पुण्यस्य कर्मणो दर्शयितुं विशिनष्टि -
सत्त्वेति ।

उभयविधशुद्धेः द्वन्द्व­नि­मि­त्त­मो­ह­नि­वृ­त्ति­फ­लम् आह -
ते द्वन्द्वेति ।

मोहनिवृत्तेः भग­व­न्नि­ष्ठा­प­र्य­न्त­त्वम् आह -
भजन्त इति ।

तेषां नानापरिग्रहवतां भग­व­द्भ­ज­न­प्र­ति­ह­तिम् आशङ्क्य, आह -
दृढेति
॥ २८ ॥

यथोक्तानाम् अधिकारिणां भगवद्भजनफलं प्रश्नद्वारा दर्शयति -
ते किमर्थमिति ।
जरामरणादिलक्षणो यो बन्धः तद्विश्लेषार्थं भगवद्भजनम् , इत्यर्थः ।

सम्प्रति सगुणस्य सप्रपञ्चस्य मध्य­मा­नु­ग्र­हार्थं ध्येयत्वम् आह -
मामाश्रित्येति ।

जरा­दि­सं­सा­र­नि­वृ­त्त्यर्थं निर्गुणं निष्प्रपञ्चं माम् उत्तमाधिकारिणो जानन्ति इत्युक्तम् ‘मामेव ये प्रपद्यन्ते’(भ. गी. ७-१४) इत्यादौ, इत्याह -
जरेति ।

मध्यमाधिकारिणः प्रति आह -
मामेति ।

परमेश्वराश्रयणं नाम विषयविमुखत्वेन भग­व­दे­क­नि­ष्ठ­त्वम् , इत्याह -
मत्समाहितेति ।
प्रयतनं भव­न­न्नि­ष्ठा­सि­द्ध्यर्थं बहिरङ्गाणां यज्ञादीनाम् , अन्तरङ्गाणाञ्च श्रवणादीनाम् अनुष्ठानम् ।

प्रागुक्तं जगदुपादानं परं ब्रह्म । कथं ब्रह्म विदुः ? इत्यपेक्षायाम् , सम­स्ता­ध्या­त्म­व­स्तु­त्वेन सकलकर्मत्वेन च तद्विदुः इत्याह -
कृत्स्नमिति
॥ २९ ॥

न केवलं भगवन्निष्ठानां सर्वा­ध्या­त्मि­क­क­र्मा­त्म­क­ब्र­ह्म­वि­त्त्व­मेव, किन्तु अधिभूतादि सहितं तद्वेदित्वमपि सिध्यति, इत्याह -
साधिभूतेति ।

अध्यात्मम् , कर्म, अधिभूतम् , अधिदैवम् , अधियज्ञश्च इति पञ्चकम् एतद्ब्रह्म ये विदुः, तेषां यथोक्तज्ञानवतां समाहितचेतसाम् आपदवस्थायामपि भग­व­त्त­त्त्व­ज्ञा­नम् अप्रतिहतं तिष्ठति, इत्याह -
प्रयाणेति ।
अपि, च, इति निपाताभ्याम् , तस्याम् अवस्थायां करणग्रामस्य व्यग्रतया ज्ञानासम्भवेऽपि मयि समा­हि­त­चि­त्ता­नाम् उक्तज्ञानवतां भग­व­त्त­त्त्व­ज्ञा­नम् अयत्नलभ्यम् , इति द्योत्यते । तद् अनेन सप्तमेन उत्तमम् अधिकारिणं प्रति ज्ञेयं निरूपयता तदर्थमेव सर्वा­त्म­क­त्वा­दि­कम् उपदिशता प्रकृ­ति­द्व­य­द्वा­रेण सर्वकारणत्वात् इति च वदता तत्पदवाच्यं तल्लक्ष्यं च उपक्षिप्तम् ॥ ३० ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने सप्तमोऽध्यायः ॥ ७ ॥