आनन्दगिरिटीका (गीताभाष्य)
सप्तमोऽध्यायः
कर्मसंन्यासात्मकसाधनप्रधानं त्वम्पदार्थप्रधानं च प्रथमषट्कं व्याख्याय, मध्यमषट्कम् उपास्यनिष्ठं तत्पदार्थनिष्ठं च व्याख्यातुम् आरभमाणः, समनन्तराध्यायम् अवतारयति -
योगिनामिति ।
अतीताध्यायान्ते मद्गतेन अन्तरात्मना यो भजते मां इति प्रश्नबीजं प्रदर्श्य, कीदृशं भगवतस्तत्त्वम् ? कथं वा मदूगतान्तरात्मा स्यात् ? इति अर्जुनस्य प्रश्नद्वये जाते, स्वयमेव भगवान् अपृष्टम् एतद्वक्तुम् इच्छन् उक्तवान् इत्यर्थः ।
परमेश्वरस्य वक्ष्यमाणविशेषणत्वं सकलजगदायतनत्वादिनानाविधविभूतिभागित्वम् , तत्र आसक्तिः - मनसः विषयान्तरपरिहारेण तन्निष्ठत्वम् । मनसः भगवत्येव आसक्तौ हेतुमाह -
योगमिति ।
विषयान्तरपरिहारे हि गोचरम् आलोच्यमाने भगवत्येव प्रतिष्ठितं भवति इत्यर्थः ।
तथापि स्वाश्रये पुरुषः मनः स्थापयति, नान्यत्र, इत्याशङ्क्य, अाह -
मदाश्रय इति ।
योगिनः यद् ईश्वराश्रयत्वेन तस्मिन्नेव आसक्तमनसस्त्वम् उपन्यस्तम् , तद् उपपादयति -
यो हीति ।
ईश्वराख्याश्रयस्य प्रतिपत्तिमेव प्रकटयति -
हित्वेति ।
अस्तु योगिनः त्वदाश्रयप्रतिपत्त्या मनसः त्वय्येव आसक्तिः, तथापि मम किमायातम् ? इत्याशङ्क्य, द्वितीयार्धं व्याचष्टे -
यस्त्वमेवमिति ।
एवंभूतः - यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमनाः यः त्वं, स त्वं तथाविधस्सन् , असंशयम् - अविद्यमानः संशयः यत्र ज्ञाने तद् यथा स्यात् , तथा, मां समग्रं ज्ञास्यसि इति सम्बन्धः ।
समग्रं इत्यस्य अर्थमाह -
समस्तमिति ।
विभूतिः - नानाविधैश्वर्योपायसम्पत्तिः, बलं - शरीरगतं सामर्थ्यम् , शक्तिः - मनोगतं प्रागल्भ्यं, ऐश्वर्यम् - ईशितव्यविषयम् ईशनसामर्थ्यम् , आदिशब्देन ज्ञानेच्छादयः गृह्यन्ते ।
असंशयमिति पदस्य क्रियाविशेषणत्वं विशदयन् क्रियापदेन सम्बन्धं कथयति -
संशयमिति ।
विना संशयं भगवत्तत्त्वपरिज्ञानमेव स्फोरयति -
एवमेवेति ।
भगवत्तत्त्वे ज्ञातव्ये, कथं मम ज्ञानमुदेष्यति? न हि त्वामृते तदुपदेष्टा कश्चिदस्ति, इत्याशङक्य, आह -
तच्छृण्विति
॥ १ ॥
ज्ञास्यसि इत्युक्त्या परोक्षज्ञानशङ्कायां तन्निवृत्यर्थं तदुक्तिप्रकारमेव विवृणोति -
तच्चेति ।
इदं - अपरोक्षं ज्ञानं चैतन्यम् । तस्य सविज्ञानस्य प्रतिलम्भे किं स्यात्? इत्याशङ्क्य, आह -
यज्ज्ञात्वेति ।
इदमा चैतन्यस्य परोक्षत्वं व्यावर्त्यते । तदेव सविज्ञानमिति विशेषणेन स्फुटयति ।
अनवशेषेण तद्वेदनफलोपन्यासेन श्रोतारं तच्छ्रवणप्रवणं करोति -
तद्ज्ञानमिति ।
एकविज्ञानेन सर्वविज्ञानश्रुतिमाश्रित्य उत्तरार्धतात्पर्यमाह -
यद्ज्ञात्वेति ।
भगवत्तत्त्वज्ञानस्य विशिष्टफलत्वमुक्त्वा फलितमाह -
अत इति
॥ २ ॥
ज्ञानस्य दुर्लभत्वं प्रश्नपूर्वकं प्रकटयति -
कथमित्यादिना ।
सहस्रशब्दस्य बहुवाचकत्वम् उपेत्य व्याकरोति -
अनेकेष्विति ।
सिद्धये - सत्त्वशुद्धिद्वारा ज्ञानोत्पत्त्यर्थम् इत्यर्थः ।
सिद्ध्यर्थं यतमानानां कथं सिद्धत्त्वम्? इत्याशङ्क्य आह -
सिद्धा एवेति ।
सर्वेषामेव तेषां ज्ञानोदयात् तस्य सुलभत्वम् , इत्याशङ्क्य, आह -
तेषामिति
॥ ३ ॥
ज्ञानार्थं प्रयत्नस्य, तद्द्वारा ज्ञानलाभस्य, तदुभयद्वारेण मुक्तेश्च, दुर्लभत्वाभिधानस्य श्रोतृप्ररोचनं फलम् , इति मत्वा आह -
श्रोतारमिति ।
आत्मनः सर्वात्मकत्वेन परिपूर्णत्वम् अवतारयन् आदौ अपरां प्रकृतिम् उपन्यस्यति -
आहेति ।
भूमिशब्दस्य व्यवहारयोग्यस्थूलपृथिवीविषयत्वं व्यावर्तयति -
भूमिरितीति ।
तत्र हेतुमाह -
भिन्नेति ।
प्रकृतिसमभिव्याहारात् गन्धतन्मात्रं स्थूलपृथिवीप्रकृतिः, उत्तरविकारो भूमिरिति उच्यते, न विशेष इत्यर्थः ।
भूमिशब्दवत् अबादिशब्दानामपि सूक्ष्मभूतविषयत्वम् आह -
तथेति ।
तेषामपि प्रकृतिसमानाधिकृतत्वाविशेषात् , तन्मात्राणां पूर्वपूर्वप्रकृतीनाम् उत्तरोत्तरविकारणां न विशेषत्वासिद्धिः इत्यर्थः ।
मनःशब्दस्य सङ्कल्पविकल्पात्मककरणविषयत्वम् आशङ्क्य, आह -
मन इतीति ।
न खलु अहङ्काराभावे सङ्कल्पविकल्पयोः असम्भवात् तदात्मकं मनः सम्भवति इत्यर्थः ।
निश्चयलक्षणा बुद्धिः इति अभ्युपगमात् बुद्धिशब्दस्य निश्चयात्मककरणविषयत्वम् आशङ्क्य, आह -
बुद्धिरितीति ।
न हि हिरण्यगर्भसमष्टिबुद्धिरूपम् अन्तरेण व्यष्टिबुद्धिः सिद्ध्यति इत्यर्थः ।
अहङ्कारस्य अभिमानविशेषणात्मकत्वेन अन्तःकरणप्रभेदत्वं व्यावर्तयति -
अहङ्कार इति ।
अविद्यासंयुक्तमिति - अविद्यात्मकम् इत्यर्थः ।
कथं मूलकारणस्य अहङ्कारशब्दत्वम्? इत्याशङ्क्य, उक्तमर्थं दृष्टान्तेन स्पष्टयति -
यथेत्यादिना ।
मूलकारणस्य अहङ्कारशब्दत्वे हेतुमाह -
प्रवर्तकत्वादिति ।
तस्य प्रवर्तकत्वं प्रपञ्चयति -
अहङ्कार एवेति ।
सत्येव अहङ्कारे, ममाकरो भवति, तयोश्च भावे, सर्वा प्रवृत्तिः इति प्रसिद्धम् इत्यर्थः ।
उक्तां प्रकृतिम् उपसंहरति -
इतीयमिति ।
इयमिति अपरोक्षा, साक्षिदृश्या इति यावत् ।
ऐश्वरी तदाश्रया तदैश्वर्योपाधिभूता । प्रक्रियते महदाद्याकारेण इति प्रकृतिः त्रिगुणं जगदुपादानं प्रधानमिति मतं व्युदस्यति -
मायेति ।
तस्याः तत्कार्याकारेण परिणामयोग्यत्वं द्योतयति -
शक्तिरिति ।
अष्टधेति ।
अष्टभिः प्रकारैः इति यावत्
॥ ४ ॥
अचेतनवर्गम् एकीकर्तुं प्रकृतेः अष्टधा परिणामम् अभिधाय, विकारावच्छिन्नकार्यकल्पं चेतनवर्गम् एकीकर्तुं पुरुषस्य चैतन्यस्य अविद्याशक्त्यवच्छिन्नस्यापि प्रकृतित्वं कल्पयितुम् उक्तां प्रकृतिम् अनूद्य दर्शयति -
अपरेति ।
निकृष्टत्वं स्पष्टयति -
अनर्थकरीति ।
अनर्थकत्वमेव स्फोरयति -
संसारेति ।
कथञ्चिदपि अनन्यत्वव्यावृत्यर्थः तुशब्दः । अन्याम् अत्यन्तविलक्षणाम् , इति यावत् ।
अन्यत्वमेव स्पष्टयति -
विशुद्धामिति ।
प्रकृतिशब्दस्य अत्र प्रयुक्तस्य अर्थान्तरम् आह -
ममेति ।
प्रकृष्टत्वमेव भोक्तृत्वेन स्पष्टयति -
जीवभूतामिति ।
प्रकृत्यन्तरात् अस्याः प्रकृतेः अवान्तरविशेषम् आह -
ययेति ।
न हि जीवरहितं जगद् धारयितुम् शक्यम् इत्याशयेन आह -
अन्तरिति
॥ ५ ॥
उक्तप्रकृतिद्वये कार्यलिङ्गकम् अनुमानं प्रमाणयति -
एतद्योनीनीति ।
प्रकृतिद्वयस्य जगत्कारणत्वे कथम् ईश्वरस्य जगत्कारणत्वं तदुपगदतम्? इत्याशङ्क्य आह –
अहमिति ।
एतद्योनीनि इत्युक्ते समनन्तरप्रकृतजीवभूतप्रकृतौ एतच्छब्दस्य अव्यवधानात् प्रवृत्तिम् आशङ्क्य, व्याकरोति -
एतदिति ।
सर्वाणि चेतनाचेतनानि, जनिमन्ति इत्यर्थः ।
सर्वभूतकारणत्वेन प्रकृतिद्वयम् अङ्गीकृतं चेत् , कथम् अहमित्याद्युक्तम्? इत्याशङ्क्याह -
यस्मादिति ।
मम प्रकृती - परमेश्वरस्य उपाधितया स्थिते, इत्यर्थः ।
तर्हि, प्रकृतिद्वयं कारणम् ईश्वरश्च, इति जगतः अनेकविधकारणाङ्गीकरणं स्यात् , इत्याशङ्क्य, आह -
प्रकृतीति ।
अपरप्रकृतेः अचेतनत्वात् परप्रकृतेः चेतनत्वेऽपि किञ्चिंज्ञत्वात् ईश्वरस्यैव सर्वकारणत्वं युक्तम् , इत्याह -
सर्वज्ञेति
॥ ६ ॥
प्रधानात् परतः अक्षरात् पुरुषवत् परमात्मनोऽपि परात् अन्यत् - परं स्यात् , इत्याशङ्क्य, प्रकृतिद्वयद्वारा सर्वकारणत्वम् ईश्वरस्य उक्तम् उपजीव्य परिहरति -
यतः तस्मादिति ।
नान्यदस्ति परम् , इत्यत्र हेतुम् आह -
मयीति ।
परतरशब्दार्थम् आह -
अन्यदिति ।
स्वातन्त्र्यव्यावृत्त्यर्थम् अन्तरशब्दः ।
निषेधफलं कथयति -
अहमेवेति ।
सर्वजगत्कारणत्वेन सिद्धम् अर्थं द्वीतीयार्धव्याख्यानेन विशदयति -
यस्मादिति ।
अतो (यथा) दीर्घोषु तिर्यक्षु च पटघटितेषु तन्तुषु पटस्य अनुगतिः अवगम्यते, तद्वत् मय्येव अनुगतं जगत् , इत्याह -
दीर्घेति ।
यथा च मणयः सूत्रे अनुस्यूताः तेनैव ध्रियन्ते तदभावे विप्रकीर्यन्ते, तथा मयैव आत्मभूतेन सर्वं व्याप्तं ततो निष्कृष्टं विनष्टमेव स्यात् इति श्लोकोक्तं दृष्टान्तम् आह -
सूत्र इति
॥ ७ ॥
अबादीनां रसादिषु प्रोतत्वप्रतीतेः ‘त्वय्येव सर्वं प्रोतम् ‘ इति अयुक्तम् , इति मत्वा पृच्छति -
केनेति ।
तत्र उत्तरम् उत्तरग्रन्थेन दर्शयति -
उच्यत इति ।
सारो मधुरो हेतुः, इति यावत् ।
रसोऽहमिति कथम्? तत्र आह -
तस्मिन्निति ।
अप्सु यो रसः - सारः, तस्मिन् मयि मधुररसे कारणभूते प्रोताः आप इतिवत् , उत्तरत्र सर्वत्र व्याख्यानं कर्तव्यम् , इत्याह -
एवमिति ।
उक्तम् अर्थं दृष्टान्तं कृत्वा प्रभास्मि इत्यादि व्याचष्टे -
यथेति ।
चन्द्रादित्ययोः या प्रभा, तद्भूते मयि तौ प्रोतौ, इत्यर्थः ।
तत्र वाक्यार्थं कथयति -
तस्मिन्निति ।
प्रणवभूते तस्मिन् वेदानां प्रोतत्ववत् आकाशे यः सारभूतः शब्दः तद्रूपे परमेश्वरे प्रोतम् आकाशम् , इत्याह -
तथेति ।
‘पौरुषं नृषु’ इति भागं पूर्ववत् विभजते -
तथेत्यादिना ।
पुरुषत्वमेव विशदयति -
यत इति ।
पुंस्त्वसामान्यात्मके परस्मिन् ईश्वरे प्रोताः तद्विशेषाः, तदुपादानत्वेन तत्स्वभावत्वात् , इत्यर्थः
॥ ८ ॥
‘मयि सर्वमिदं प्रोतम् ’ [भ.गी.७ - ७] इत्यस्यैव परिमाणार्थं प्रकारान्तरम् आह -
पुण्य इति ।
पृथिव्यां पुण्यशब्दितो यः सुरभिगन्धः, सोऽहमस्मि, इत्यत्र वाक्यार्थं कथयति
तस्मिन्निति ।
कथं पृथिव्यां गन्धस्य पुण्यत्वम्? तत्र आह-
पुण्यत्वमिति ।
यत्तु पृथिव्यां गन्धस्य स्वाभाविकं पुण्यत्वं दर्शितं, तत् अबादिषु रसादेरपि स्वाभाविकपुण्यत्वस्य उपलक्षणार्थं, इत्याह -
पृथिव्यामिति ।
प्रथमोत्पन्नाः पञ्चापि गुणाः पुण्या एव, सिद्धादिभिरेव भोग्यत्वात् , इति भावः ।
कथं तर्हि गन्धादीनाम् अपुण्यत्वप्रतिभानम्? तत्र आह -
अपुण्यत्वं त्विति ।
तदेव स्फुटयति -
संसारिणामिति ।
गन्धादयः स्वकार्यैः भूतैः सह परिणममानाः प्राणिनां पापादिवशात् अपुण्याः सम्पद्यन्ते, इत्यर्थः ।
यच्च अग्नेः तेजः, तद्भूते मयि प्रोतः अग्निः, इत्याह -
तेज इति ।
जीवनभूते च मयि सर्वाणि भूतानि प्रोतानि इत्याह -
तथेति ।
जीवनशब्दार्थं आह -
येनेति ।
अन्नरसेन अमृताख्येन, इत्यर्थः ।
‘तपश्चास्मि’ इत्यादेः तात्पर्यार्थम् आह -
तस्मिन्निति ।
चित्तैकाग्र्यम् अनाशकादि वा तपः, तदात्मनि ईश्वरे प्रोताः तपस्विनः, विशेषणाभावे विशिष्टस्य वस्तुनः अभावात् , इत्यर्थः
॥ ९ ॥
ननु - सर्वाणि भूतानि स्वकारणे प्रोतानि, कथं तेषां त्वयि प्रोतत्वम्? तत्र आह -
बीजमिति ।
बीजान्तरापेक्षया अनवस्थां वारयति -
सनातनमिति ।
चैतन्यस्य अभिव्यञ्जकं तत्वनिश्चयसामर्थ्यं बुद्धिः, तद्वतां या बुद्धिः तद्भूते मयि सर्वे बुद्धिमन्तः प्रोता भवन्ति, इत्याह -
किं चेति ।
प्रागल्भ्यवतां यत् प्रागल्भ्यं तद्भूते मति तद्वन्तः प्रोताः, इत्याह -
तेज इति ।
तद्धि प्रागल्भ्यम् , यत् पराभिभवसामर्थ्यं परैश्च अप्रधृष्यत्वम्
॥ १० ॥
यच्च बलवतां बलम् , तद्भूते मयि तेषां प्रोतत्वम् , इत्याह -
बलमिति ।
काम - क्रोधादिपूर्वकस्यापि बलस्य अनुमतिं वारयति -
तच्चेति ।
कामरागयोः एकार्थत्वम् आशङ्क्य अर्थभेदम् आवेदयति -
कामः - तृष्णा, इत्यादिना ।
विशेषणसामर्थ्यसिद्धं व्यावर्त्य दर्शयति -
न तु इति ।
शास्रार्थाविरुद्धकामभूते मयि तथाविधकामवतां भूतानां प्रोतत्वं विवक्षित्वा, आह -
किं चेति ।
धर्माविरुद्धं कामम् उदाहरति -
यथेति
॥ ११ ॥
चिदानन्दयोः अभिव्यञ्जकानां भावानाम् ईश्वरात्मत्वाभिधानात् अन्येषाम् अतदात्मत्वप्राप्तौ उक्तम् -
किञ्चेति ।
प्राणिनां त्रैविध्ये हेतुं दर्शयन् वाक्यार्थम् आह -
ये केचिदिति ।
तर्हि पितुरिव पुत्राधीनत्वं त्वत्तः जायमानात् तदधीनत्वं तवापि स्यात् , इति विक्रियावत्त्वदूष्यत्वप्रसक्तिः, इत्याशङ्क्य, आह -
यद्यपीति ।
मम परमार्थत्वात् तेषां कल्पितत्वात् न तदूगुणदोषौ मयि स्याताम् , इत्यार्थः तेषामपि तद्वदेव स्वतन्त्रतासम्भवात् किमिति कल्पितत्वम्? इत्याशङ्क्य, आह -
ते पुनरिति ।
त्रिविधानां भावानां न स्वातन्त्र्यम् , ईश्वरकार्यत्वेन तदधीनत्वात् । तथा च, कल्पितस्य अधिष्ठानसत्तााप्रतीतिभ्याम् एव तद्वत्वात् तन्मात्रत्वसिद्धिः, इत्यर्थः
॥ १२ ॥
सति ईश्वरस्य स्वातन्त्र्ये नित्यशुद्धत्वादौ च, कुतो जगतः तदात्मकस्य संसारित्वम् ? इत्याशङ्क्य, तदज्ञानात् इत्याह -
एवंभूतमपीति ।
यदि अप्रपञ्चः अविक्रियश्च त्वम् , कस्मात् त्वाम् आत्मभूतं स्वयम्प्रकाशं सर्वो जनः तथा न जानाति ? इति मत्वा, शङ्कते -
तच्चेति ।
श्लोकेन उत्तरम् आह -
उच्यत इति ।
‘एभ्यः परम् ‘ इति अप्रपञ्चकत्वम् उच्यते, ‘अव्ययम् ‘ इति सर्वविक्रियाराहित्यम्
॥ १३ ॥
यथोक्तानादिसिद्धमायापारवश्यपरिवर्जनायोगात् जगतः न कदाचिदपि तत्त्वबोधसमुदयसम्भावना, इति आशङ्कते -
कथं पुनरिति ।
भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः सम्भवति, इति परिहरति -
उच्यत इति ।
कथं दुरत्ययत्वेन तदत्ययः स्यात् ? इति, तत्र आह -
मामेवेेति ।
प्रधानस्येव स्वातन्त्र्यं मायाया व्युदस्यति -
देवस्येति ।
स्वातन्त्र्ये मायात्वानुपपत्तिं हिशब्दद्योतितां हेतूकरोति -
यस्मादिति ।
अनुभवसिद्धा सा न अकस्मात् अपलापम् अर्हति, इत्याह -
एषेति ।
जगतः तत्त्वप्रतिपत्तिप्रतिबन्धभूताः गुणाः सत्वादयः ।
‘मम’ इति प्रागुक्तमेव मायायाः सम्बन्धम् अनूद्यविधित्सितं दुरत्ययत्वं विभजते -
दुःखेनेति ।
‘मामेव’ इत्यादि व्याचष्ठे -
तत्रेति ।
तस्मिन् मायारूपे यथोक्तरीत्या दुरत्यये सति, इति यावत् । ‘मामेव’ इति एवकारेण मायाया वेद्यकोटिनिवेशाभावः विवक्ष्यते । सर्वात्मना - कर्मानुष्ठानादिव्यग्रतामन्तरेण, इत्यर्थः ।
मायातिक्रमे मोहातिक्रमो भवति, इति मत्वा विशिनष्टि -
सर्वेति ।
मायातत्प्रयुक्तमोहयोः अतिक्रमेऽपि कथं पुरुषार्थसिद्धिः? इति आशङ्क्य, आह -
संसारेति
॥ १४ ॥
भगवन्निष्ठाया मायातिक्रमहेतुत्वे तदेकनिष्ठत्वमेव सर्वेषाम् उचितम् , इति पृच्छति -
यदीति ।
पापकारित्वेन अविवेकभूयस्तया हिंसाऽनृतादिभूयस्त्वात् भूयसां जन्तूनां न भगवन्निष्ठत्वसिद्धिः, इत्याह -
उच्यत इति ।
मौढ्यं पापकारित्वे हेतुः । अत एव निकर्षः । सम्मुषितमिव - तिरस्कृतम् , ज्ञानम् - स्वरूपचैतन्यम् येषाम् इति, ते तथा
॥ १५ ॥
केषां तर्हि तन्निष्ठता सुकरा ? इति, तत्र आह -
ये पुनरिति ।
ते भजन्ते भगवन्तम् , इति शेषः ।
ये त्वां भजन्ते, ते किं सर्वे मायां तरन्ति ? नैवम् , प्रार्थनावैचित्र्यात् इत्याह -
चतुर्विधा इति ।
आपन्नः तन्निवृत्तिम् इच्छन् , इति शेषः । तत्त्वविदिति । शाब्दज्ञानवान् आत्मतत्त्वसाक्षात्कारमात्रार्थी मुमुक्षुः, इत्यर्थः
॥ १६ ॥
चतुर्विधानां तेषां सुकृतिनां भगवदभिमुखानां तुल्यत्वम् आशङ्क्य, आह -
तेषामिति ।
तस्य विशिष्यमाणत्वे हेतुम् आह -
प्रियो हीति ।
नित्ययुक्तत्वं भगवति आत्मनि सदा समाहितचेतस्त्वम् । असारे संसारे भगवानेव सारः, ‘सोऽहमस्मि’ इति एकस्मिन् अद्वितीये स्वस्मात् अत्यन्तमभिन्ने भगवति भक्तिः स्नेहविशेषः अस्येति, एकभक्तिः । तस्य आधिक्ये हेतुं विवृणोति -
प्रियो हीत्यादिना ।
भगवतो ज्ञानिनश्च परस्परं प्रेमास्पदत्वे प्रसिद्धिं प्रमाणयति -
प्रसिद्धं हीति ।
आत्मनो ज्ञानिनं प्रति प्रियत्वेऽपि भगवतो वासुदेवस्य कथं तं प्रति प्रियत्वम् , इत्याशङ्क्य, आह -
तस्मादिति ।
अहं ज्ञानिनो निरुपाधिकप्रेमास्पदं, परमपुरुषार्थत्वेन आत्मत्वेन च गृहीतत्वात् , इत्यर्थः । ज्ञानिनोऽपि भगवन्तं प्रति प्रियत्वं प्रकटयति - स चेति
॥ १७ ॥
ज्ञानी चेत् अत्यर्थम् ईश्वरस्य प्रियो भवति, तर्हि विशेषणसामर्थ्यात् इतरेषाम् अप्रियत्वं प्राप्तम् , इति शङ्कते -
न तर्हीति ।
तेषां भगवन्तं प्रति प्रियत्वम् , अत्र विवक्षितम् , इत्याह -
नेति ।
अत्यर्थमिति विशेषणस्य तर्हि किं प्रयोजनम् ? इति पृच्छति -
किं तर्हीति ।
सर्वेषां भगवदभिमुखत्वात् उत्कर्षेऽपि ज्ञानिनि तदतिरेकम् अङ्गीकृत्य विशेषणम् , इ्त्याह -
उदारा इति ।
किं तत्र प्रमाणम् ? इत्याशङ्क्य, ईश्वरज्ञानम् , इत्याह -
मे मतमिति ।
ज्ञानी तु आत्मैव इत्यत्र हेतुम् आह -
आस्थित इति ।
सर्वशब्दस्य ज्ञानिव्यतिरिक्तविषयत्वम् आह -
त्रयोऽपीति ।
ज्ञानिव्यतिरिक्तानां भगवदभिमुखत्वेऽपि ज्ञानाभावापराधात् न भगवत्प्रीतिविषयता, इत्याशङ्क्य, आह -
न हीति ।
कस्तर्हि ज्ञानवति विशेषः । तत्र आह -
ज्ञानी त्विति ।
तमेव विशेषं प्रश्नपूर्वकं प्रकटयति -
तत्कस्मादित्यादिना ।
सर्वमात्मानं पश्यतोऽपि तस्य तव कथं यथोक्तो निश्चयः स्यात् ? इत्याशङ्क्य, आस्थित इत्येतत् व्याकरोति -
आरोढुमिति ।
आरोहे हेतुं सूचयति -
स ज्ञानीति ।
आरोढुं प्रवृत्तत्वमेव स्फुटयति -
मामेवेति
॥ १८ ॥
उत्तरश्लोकस्य गतार्थत्वं परिहरति -
ज्ञानीति ।
ज्ञानार्थसंस्कारः - वासना तत्तज्जन्मनि पुण्यकर्मानुष्ठानजनिता बुद्धिशुद्धिः, तदाश्रयाणां - तद्वताम् अनन्तानां जन्मनाम् , इति यावत् ।
ज्ञानवत्वं प्राक्तनेष्वपि जन्मसु सम्भावितम् , इत्याशङ्क्य, आह -
प्राप्तेति ।
ज्ञानवतो भगवत्प्रतिपत्तिं प्रश्नद्वारा विवृणोति -
कथमिति ।
यथोक्तज्ञानस्य तद्वतश्च दुर्लभत्वं सूचयति -
य एवमिति ।
महत् - सर्वोत्कृष्टम् आत्मशब्दितं वैभवम् अस्य, इति महात्मा । महात्मत्वे फलितम् आह -
अत इति ।
तत्र वाक्योपक्रमानुकूल्यं कथयति -
मनुष्याणामिति
॥ १९ ॥
किमिति तर्हि सर्वेषां प्रत्यग्भूते भगवति यथोक्तज्ञानं नोदोति? इत्याशङ्क्य, ‘न माम् ‘ इत्यत्र उक्तं हृदि निधाय, ज्ञाानानुदये हेत्वन्तरम् आह -
आत्मैवेति ।
कामैः नानाविधैः अपहृतविवेकविज्ञानस्य देवतान्तरनिष्ठत्वमेव प्रत्यग्भूतपरदेवताप्रतिपत्त्यभावे कारणम् , इत्याह -
कामैरिति ।
देवतान्तरनिष्ठत्वे हेतुम् आह -
तं तमिति ।
प्रसिद्धो नियमः जपोपवासप्रदक्षिणनमस्कारादिः । नियमविशेषाश्रयणे कारणम् आह -
प्रकृत्येति
॥ २० ॥
तत्तद्देवताप्रसादात् कामिनामपि सर्वेश्वरे सर्वात्मके वासुदेवे क्रमेण भक्तिर्भविष्यति, इत्याशङ्क्य, आह -
तेषां चेति
॥ २१ ॥
स्वभावतः - जन्मान्तरीयसंस्कारवशात् , इत्यर्थः । भगवद्विहितया स्थिरया श्रद्धया संस्काराधीनया देवताविशेषम् आराधयतोऽपि भगवदनुग्रहादेव फलप्राप्तिः, इत्याह -
यो यां इति ।
ईहते - निर्वर्तयति, इत्यर्थः ।
आराधितदेवताप्रसादात् फलप्राप्तौ किम् ईश्वरेण ? इत्याशङ्क्य, तस्य सर्वज्ञस्य कर्मफलविभागाभिज्ञस्य तत्तद्देवताधिष्ठातृत्वात् तस्यैव फलदातृत्वम् , इत्याह -
सर्वज्ञेनेति ।
‘एको बहूनां यो विदधाति कामान् ‘ इत्यादिश्रुतिम् आश्रित्य हि, तान् इति पदद्वयं व्याचष्टे -
यस्मादिति ।
हितान् इत्येकं पदम् इति पक्षं प्रत्याह -
हितानिति ।
मुख्यत्वसम्भवे किमिति औपचारिकत्वम् इत्याशङ्क्य, आह -
न हीति
॥ २२ ॥
प्रेक्षापूर्वकारिणि कामानां हितत्वाभावे हेतुमाह -
यस्मादिति ।
किञ्च, ये कामिनः ते न विवेकिनः, ततश्च अविवेकपूर्वकत्वात् कामानां कुतो हितत्वाशङ्का ? इत्याह -
अविवेकिन इति ।
कामानाम् आनन्त्यफलत्वेन हितत्वम् आशङ्क्य, आह -
अत इति।
तेषाम् अविवेकपूर्वकत्वम् अतश्शब्दार्थः । तुशब्दः अवधारणार्थः ।
कामफलस्य विनाशित्वे किमिति कामनिष्ठत्वं जन्तूनाम् ? इत्याशङ्क्य, प्रज्ञामान्द्यादित्याह -
अल्पेति ।
किं तर्हि साधनम् अनन्तफलाय इत्याशङ्क्य, भगवद्भक्तिरित्याह -
मद्भक्ता इति ।
अक्षरार्थम् उक्त्वा श्लोकस्य तात्पर्यार्थमाह -
एवमिति ।
देवताप्राप्तौ चेति शेषः ।
मामेव इत्यादौ देवताविशेषं प्रपद्यन्ते अन्तवत्फलाय इति वक्तव्यम् । उक्तवैपरीत्ये कारणम् अविवेकातिरिक्तं नास्ति इत्यभिप्रेत्य आह -
अहो खल्विति
॥ २३ ॥
भगवद्भजनस्य उत्तमफलत्वेऽपि प्राणिनां प्रायेण तन्निष्ठत्वाभावे प्रश्नपूर्वकं निमित्तं निवेदयति -
किं निमित्तमित्यादिना ।
अप्रकाशम् , शरीरग्रहणात् पूर्वम् इति शेषः । इदानीम् - लीलाविग्रहपरिग्रहावस्थायाम् , इत्यर्थः ।
प्रकाशस्य तर्हि कादाचित्कत्वं भगवति प्राप्तम् , नेत्याह -
नित्येति ।
कथं तर्हि भगवन्तम् आगन्तुकप्रकाशं मन्यन्ते तत्र अबुद्धय इति उत्तरम् । तद्विवृणोति -
परमिति ।
परम् , अनुत्तमम् इति विशेषणद्वयं सोपाधिकनिरूपाधिकभावार्थम्
॥ २४ ॥
अविवेकरूपम् अज्ञानं भगवन्निष्ठाप्रतिबन्धकम् उक्तम् । तस्मिन्नपि निमित्तं प्रश्नपूर्वकम् अनाद्यज्ञानम् उपन्यस्यति -
तदीयम् अज्ञानम् इत्यादिना ।
‘त्रिभिर्गुणमयैः’ इति अनौपाधिकरूपस्य अप्रतिपत्तौ कारणम् उक्तम् , अत्र तु सोपाधिकस्यापि, इति विशेषं गृहीत्वा व्याचष्टे -
नाहमिति ।
तर्हि भगवद्भक्तिः अनुपयुक्ता, इत्याशङ्क्य, आह -
केषांचिदिति ।
सर्वस्य लोकस्य न प्रकाशोऽहम् , इत्यत्र हेतुम् आह -
योगेति ।
अनाद्यनिर्वाच्याज्ञानाच्छन्नत्वादेव मद्विषये लोकस्य मौढ्यम् , ततश्च मदीयस्वरूपविवेकाभावात् मन्निष्ठत्वराहित्यम् , इत्याह-
अत एवेति
मायया भगवान् आवृतश्चेत् तस्यापि लोकस्येव ज्ञानप्रतिबन्धः स्यात् इत्याशङ्क्य, आह -
ययेति ।
न हि इयं माया, मायाविनो विज्ञानं प्रतिबध्नाति, मायात्वात् , लोकिकमायावत् , अथवा, न, ईश्वरः, मायाप्रतिबद्धज्ञानः, मायावित्वात् , लौकिकमायाविवत् इत्यर्थः ।
॥ २५ ॥
भगवतो मायाप्रतिबद्धज्ञानत्वाभावेन सर्वज्ञत्वम् अप्रतिबद्धं सिद्धम् , इत्याह -
यत इति ।
लोकस्य मायाप्रतिबद्धविज्ञानत्वादेव भगवदाभिमुख्यशून्यत्वम् , इत्याह -
मान्त्विति ।
कालत्रयपरिच्छिन्नसमस्तवस्तुपरिज्ञाने प्रतिबन्धो न ईश्वरस्य अस्ति, इति द्योतनार्थः तुशब्दः । ‘मां तु’ इति लोकस्य भगवत्तत्वविज्ञानप्रतिबन्धं द्योतयति ।
तर्हि त्वद्भक्तिः विफला, इत्याशङ्क्य, आह-
मद्भक्तमिति ।
तर्हि सर्वोऽपि त्वद्भक्तिद्वारा त्वां ज्ञास्यति, नेत्याह -
मत्तत्त्वेति ।
विवेकवतो मद्भजनम् , न तु विवेकशून्यस्य सर्वस्यापि, इत्यर्थः
॥ २६ ॥
भगवत्तत्त्वविज्ञानप्रतिबन्धकं मूलाज्ञानातिरिक्तं प्रश्नद्वारेण उदाहरति -
केनेत्यादिना ।
पुनश्शब्दात् प्रतिबन्धकान्तरविवक्षा गम्यते । अपरोक्षम् अवान्तरप्रतिबन्धकम् इदमा गृह्यते ।
विशेषम् आकाङ्क्षापूर्वकं निक्षिपति -
केनेति ।
विशेषापेक्षायामिति ।
द्वन्द्वशब्देन गृहीतयोरपि इच्छाद्वेषयोः ग्रहणं द्वन्द्वशब्दार्थोपलक्षणार्थम् , इत्यभिप्रेत्य आह -
तावेवेति ।
तयोः अपर्यायम् एकत्र अनुपपत्तिं गृहीत्वा विशिनष्टि-
यथाकालमिति ।
न च तयोः अनधिकरणं किञ्चिदपि भूतं संसारमण्डले सम्भवति, इत्याह -
सर्वभूतैरिति ।
तथापि कथं तयोः मोहहेतुत्वम्? इत्याशङ्क्य, आह -
तत्रेति ।
तयोः आश्रयः सप्तम्यर्थः ।
उक्तमेवार्थं कैमुतिकन्यायेन प्रपञ्चयति -
नहीति ।
पूर्वभागानुवादपूर्वकम् उत्तरभागेन फलितम् आह -
अत इति ।
प्रत्यगात्मनि अहङ्कारादिप्रतिबन्धप्रभावतः ज्ञानोत्पत्तेः असम्भवः अतश्शब्दार्थः ।
कुलप्रसूत्यभिमानेन स्वरूपशक्त्या च युक्तस्यैव यथोक्तप्रतिबन्ध - प्रतिविधानसामर्थ्यम् इति द्योतनार्थम् , भारत! परन्तप! इति सम्बोधनद्वयम् । तत्त्वज्ञानप्रतिबन्धे प्रकृतम् अवान्तरकारणम् उपसंहरति -
मोहेति ।
जायमानभूतानां मोहपरतन्त्रत्वे फलितम् आह -
यत इति ।
भगवतत्त्ववेदनाभावे तन्निष्ठत्ववैधुर्यं फलति, इत्याह -
अत एवेति
॥ २७ ॥
यदि सर्वाणि भूतानि जन्म प्रतिपद्यमानानि संमूढानि सन्ति भगवत्तत्त्वपरिज्ञानशून्यानि भगवद्भजनपराङ्मुखानि, तर्हि शास्त्रानुरोधेन भगवद्भजनम् उच्यमानम् अधिकार्यभावात् अनर्थकम् आपद्येत, इति शङ्कते -
के पुनरिति ।
अनेकेषु जन्मसु सुकृतवशात् अपाकृतदुरितानां द्वन्द्वप्रयुक्तमोहविरहिणां ब्रह्मचर्यादिनियमवतां भगवद्भजनाधिकारित्वात् न शास्त्रविरोधोऽस्ति, इति परिहरति -
उच्यत इति ।
तुशब्दद्योत्यम् अर्थम् आह -
पुनरिति ।
उक्तार्थमात्रसिध्यर्थं समाप्तप्रायम् , इत्युक्तम् ।
प्रकृतोपयोगं पुण्यस्य कर्मणो दर्शयितुं विशिनष्टि -
सत्त्वेति ।
उभयविधशुद्धेः द्वन्द्वनिमित्तमोहनिवृत्तिफलम् आह -
ते द्वन्द्वेति ।
मोहनिवृत्तेः भगवन्निष्ठापर्यन्तत्वम् आह -
भजन्त इति ।
तेषां नानापरिग्रहवतां भगवद्भजनप्रतिहतिम् आशङ्क्य, आह -
दृढेति
॥ २८ ॥
यथोक्तानाम् अधिकारिणां भगवद्भजनफलं प्रश्नद्वारा दर्शयति -
ते किमर्थमिति ।
जरामरणादिलक्षणो यो बन्धः तद्विश्लेषार्थं भगवद्भजनम् , इत्यर्थः ।
सम्प्रति सगुणस्य सप्रपञ्चस्य मध्यमानुग्रहार्थं ध्येयत्वम् आह -
मामाश्रित्येति ।
जरादिसंसारनिवृत्त्यर्थं निर्गुणं निष्प्रपञ्चं माम् उत्तमाधिकारिणो जानन्ति इत्युक्तम् ‘मामेव ये प्रपद्यन्ते’(भ. गी. ७-१४) इत्यादौ, इत्याह -
जरेति ।
मध्यमाधिकारिणः प्रति आह -
मामेति ।
परमेश्वराश्रयणं नाम विषयविमुखत्वेन भगवदेकनिष्ठत्वम् , इत्याह -
मत्समाहितेति ।
प्रयतनं भवनन्निष्ठासिद्ध्यर्थं बहिरङ्गाणां यज्ञादीनाम् , अन्तरङ्गाणाञ्च श्रवणादीनाम् अनुष्ठानम् ।
प्रागुक्तं जगदुपादानं परं ब्रह्म । कथं ब्रह्म विदुः ? इत्यपेक्षायाम् , समस्ताध्यात्मवस्तुत्वेन सकलकर्मत्वेन च तद्विदुः इत्याह -
कृत्स्नमिति
॥ २९ ॥
न केवलं भगवन्निष्ठानां सर्वाध्यात्मिककर्मात्मकब्रह्मवित्त्वमेव, किन्तु अधिभूतादि सहितं तद्वेदित्वमपि सिध्यति, इत्याह -
साधिभूतेति ।
अध्यात्मम् , कर्म, अधिभूतम् , अधिदैवम् , अधियज्ञश्च इति पञ्चकम् एतद्ब्रह्म ये विदुः, तेषां यथोक्तज्ञानवतां समाहितचेतसाम् आपदवस्थायामपि भगवत्तत्त्वज्ञानम् अप्रतिहतं तिष्ठति, इत्याह -
प्रयाणेति ।
अपि, च, इति निपाताभ्याम् , तस्याम् अवस्थायां करणग्रामस्य व्यग्रतया ज्ञानासम्भवेऽपि मयि समाहितचित्तानाम् उक्तज्ञानवतां भगवत्तत्त्वज्ञानम् अयत्नलभ्यम् , इति द्योत्यते । तद् अनेन सप्तमेन उत्तमम् अधिकारिणं प्रति ज्ञेयं निरूपयता तदर्थमेव सर्वात्मकत्वादिकम् उपदिशता प्रकृतिद्वयद्वारेण सर्वकारणत्वात् इति च वदता तत्पदवाच्यं तल्लक्ष्यं च उपक्षिप्तम् ॥ ३० ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने सप्तमोऽध्यायः ॥ ७ ॥