अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

अष्टमोऽध्यायः

सप्त­मा­ध्या­यान्ते ‘येषा­न्त्व­न्त­गतं पापम् ‘ इत्यादिना येषां ब्रह्मादीनाम् अनुसन्धानम् उक्तम् , यच्च प्रयाणकाले भगवतः स्मरणं दर्शितम् , तदिदं जिज्ञासमानः सन् पृच्छति, इति प्रश्नसमुदायम् अवतारयति -
ते ब्रह्म इति ।
प्रश्नबीजानि - तद्विषयभूतानि ब्रह्मादीनि वस्तूनि, इति यावत् ।

बुभु­त्सि­त­वि­ष­य­प्र­ति­ल­म्भा­न­न्तरं तेषां प्रश्नद्वारा निर्णयार्थम् आह -
अत इति ।

यदुक्तं ‘ते ब्रह्म तद्विदुरिति’ तत् किम् सोपा­धि­कं?नि­रु­पा­धिकं वा ?ब्रह्मशब्दस्य उभयत्रापि सम्भवात् , इति मत्वा आह -
किं तदिति ।

यच्चोक्तं ‘कृत्स्न­म­ध्या­त्म­मिति’ तत्र आत्मानं - देहम् , अधिकृत्य तस्मिन् अधिष्ठाने तिष्ठति इति अध्यात्मशब्देन श्रोत्रा­दि­क­र­ण­ग्रामो वा ? प्रत्यग्भूतं ब्रह्मैव वा विवक्षितम् ? इत्याह -
किमध्यात्ममिति ।

‘विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च’(तै. उ. २-५-१) इति श्रुतौ कर्म­णः­द्वै­वि­ध्य­नि­र्धा­र­णात् ‘कर्म चाखिलम्’(भ. गी. ७-२९) इत्यत्र कीदृक् कर्म गृहीतम् इति पृच्छति -
किमिति ।

‘क्षरा­क्ष­रा­भ्या­ङ्का­र्य­का­र­णा­भ्याम् ‘ अतीतस्य भगवतः न किञ्चित् वेद्यमस्ति इति सूचयति -
पुरुषोत्तम इति ।

साधिभूताधिदैवम् इत्यत्र अधिभूतशब्देन पृथिव्यादिषु भूतेषु वर्तमानं किञ्चिदेव, किं वा समस्तमेव कार्यम् , इति निर्दिधारयिषया पृच्छति -
अधिभूतमिति ।

अधिदैवमिति च दैव­त­वि­ष­य­म­नु­ध्यानं वा ? दैवतेषु आदि­त्य­म­ण्ड­ला­दिषु वर्तमानं चैतन्यं वा ? जिघृक्षितम् इति प्रश्नान्तरं प्रस्तॊति -
अधिदैवमिति
॥ १ ॥

‘साधियज्ञं च’(भ. गी. ७-३०) इत्यत्र अधियज्ञशब्देन यज्ञम् अधिकृतो विज्ञानात्मा वा ? परदेवता वा ? इति प्रश्नान्तरं प्रकरोति -
अधियज्ञ इति ।

स च, कथम् - केन प्रकारेण ब्रह्मत्वेन चिन्तनीयः, किं तादात्म्येन ? किं वा अत्यन्ताभेदेन ? इत्याह -
कथमिति ।

सर्वथापि स किं अस्मिन् देहे वर्तते ? ततो बहिर्वा ? देहे चेत् सः, कोऽत्र - बुद्ध्यादिः ? तद्व्यतिरिक्तो वा ? इति जिज्ञासया ब्रूते -
कोऽत्रेति ।
‘अधियज्ञः कथं कोऽत्र’ इति न प्रश्नभेदः, कथम् इति तु प्रका­र­भे­द­वि­व­क्षया, इति द्रष्टव्यम् ।

यत्तु समा­हि­त­चि­त्ता­ना­मु­क्तम् ; यत् प्रयाणकालेऽपि भगवदनुसन्धानं सिध्यति इति, तत् अयुक्तम् , उत्क्रमणदशायां कर­ण­ग्रा­म­वै­य­ग्र्यात् चित्त­स­मा­धा­ना­नु­प­पत्तिः, इत्यभिप्रेत्य, आह -
प्रयाणेति
॥ २ ॥

व्याख्या­त­प्र­श्न­स­प्त­कस्य प्रतिवचनं भागवतम् अवतारयति -
एषामिति ।

क्रमेण कृतानां प्रश्नानां क्रमेणैव प्रतिवचने प्रष्टुः अभी­ष्ट­प्र­ति­प­त्ति­सौ­कर्यं सिध्यति, इति बुध्यमानो विशिनष्टि -
यथाक्रममिति ।

तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनम् उदाहरति -
अक्षरमिति ।

‘किं तत् ब्रह्म’(भ. गी. ८-१) इति प्रश्नस्य प्रतिवचनम् -
अक्षरं ब्रह्म परममिति ।

तत्र अक्षरशब्दस्य निरुपाधिके परस्मिन् आत्मनि अवि­ना­शि­त्व­व्या­प्ति­म­त्व­स­म्ब­न्धात् प्रवृत्तिं व्युत्पादयति -
अक्षरमित्यादिना ।

कथं पुनः अक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगम् अन्तरेण व्युत्पत्त्या प्रवृत्तिः आश्रीयते ? व्युत्पत्तेः अर्थान्तरेऽपि सम्भवात् , इत्याशङ्क्य, द्यावा­पृ­थि­व्या­दि­वि­ष­य­नि­र­ङ्कु­श­प्र­शा­स­नस्य परस्मात् अन्यस्मिन् असम्भवात् तथा­वि­ध­प्र­शा­स­न­क­र्तृ­त्वेन श्रुतम् अक्षरं ब्रह्मैव, इत्याह -
एतस्येति ।

‘रूढिर्योगम् अपहरति’ इति न्यायात् ओङ्कारे वर्ण­स­मु­दा­या­त्मनि अक्षरशब्दस्य रूढ्या प्रवृत्तिः आश्रयितुम् उचिता, इत्याशङ्क्य, आह -
ओङ्कारस्येति ।

प्रतिवचनोपक्रमे प्रक्रान्तम् अोङ्काराख्यम् अक्षरमेव उत्तरत्र विशेषितं भविष्यति, इत्याशङ्क्य, पर­म­वि­शे­ष­ण­वि­रो­धात् न तस्य प्रक्रमः सम्भवति, इत्याह -
परममिति चेति ।

किम् अध्यात्मम् इति प्रश्नस्य, उत्तरं ‘स्वभा­वोऽ­ध्या­त्मम्’ इत्यादि । तद्व्याचष्टे -
तस्यैवेति ।

स्वकीयो भावः - स्वभावः श्रोत्रा­दि­क­र­ण­ग्रामः, स च आत्मनि देहे, अहं­प्र­त्य­य­वेद्यो वर्तते, इति अमुं प्रतिभासं व्यावर्त्य, स्वभावपदं गृह्णाति -
स्वो भाव इति ।

एवं विग्रहपरिग्रहे ‘स्वभा­वोऽ­ध्या­त्मम् उच्यते’ इत्यस्य अयम् अर्थो निष्पन्नो भवति, इति अनुवादपूर्वकं कथयति -
स्वभाव इति ।

तस्यैव परस्य इत्यादिना उक्तं न विस्मर्तव्यम् , इति विशिनष्टि -
परमार्थेति ।
परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्य­गा­त्म­भा­वम् अनुभवति ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत् ‘(तै.उ. २ - ६ - १) इति श्रुतेः. इत्यर्थः ।

‘किं कर्म’ इति प्रश्नस्य उत्तरम् उपादत्ते -
भूतेति ।

भूतान्येव भावाः, तेषाम् उद्भवः - समुत्पत्तिः, तां करोतीति, व्युत्पत्तिं सिद्धवत्कृत्य, विधान्तरेण व्युत्पादयति -
भूतानामिति ।
भावः - सद्भावः - वस्तुभावः । अत एव भूत­व­स्तू­त्प­त्ति­कर इति वक्ष्यति ।

वैदिकं कर्म अत्रउक्तविशेषणं कर्मशब्दितम् इति विसर्गशब्दार्थं दर्शयन् विशदयति -
विसर्ग इत्यादिना ।

कथं पुनः यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टि­स्थि­ति­प्र­ल­य­हे­तु­त्वेन तदुद्भवकरत्वम् ? इत्याशङ्क्य, ‘अग्नौ प्रास्ताहुतिः’(मनु. ३-७६) इत्यादिस्मृतिम् अनुस्मृत्य, आह -
एतस्माद्धीति
॥ ३ ॥

सम्प्र­ति­प्र­श्न­त्र­यस्य उत्तरम् आह -
अधिभूतमिति ।

‘अधिभूतं च किं प्रोक्तम् ? ’(भ. गी. ८-१) इत्यस्य प्रतिवचनम् -
अधिभूतं क्षरो भाव इति ।

तत्र अधिभूतपदम् अनूद्य वाच्यम् अर्थं कथयति -
अधि­भू­त­मि­त्या­दिना ।

तस्य निर्देशम् अन्तरेण निर्ज्ञातुम् अशक्यत्वात् प्रश्नद्वारा तन्निर्दिशति -
कोऽसाविति ।

कार्यमात्रम् अत्र सङ्गृहीतम् , इति वक्तुं उक्तमेव व्यनक्ति -
यत्किञ्चिदिति ।

‘अधिदैवं किम् ? ’(भ. गी. ८-१) इति प्रश्ने, ‘पुरुषश्च’ इत्यादि प्रतिवचनम् । तत्र पुरुषशब्दम् अनूद्य मुख्यम् अर्थं तस्य उपन्यस्यति -
पुरुष इति ।

तस्यैव सम्भावितम् अर्थान्तरम् आह -
पुरि शयनाद्वेति ।
वैराजं देहम् आसाद्य आदि­त्य­म­ण्ड­ला­दिषु दैवतेषु अन्तरवस्थितो लिङ्गात्मा व्यष्टि­क­र­णा­नु­ग्रा­ह­कोऽत्र पुरुषशब्दार्थः ।

स च अधिदैवतम् इति स्फुटयति -
आदित्येति ।

‘अधियज्ञः कथम् ? ’(भ. गी. ८-२) इत्यादिप्रश्नं परिहरन् अधि­य­ज्ञ­श­ब्दा­र्थम् आह -
अधियज्ञ इति ।

कथम् उक्तायां देवतायाम् अधियज्ञशब्दः स्यात् , इत्याशङ्क्य, श्रुतिम् अनुसरन् आह -
यज्ञो वा इति ।
परैव देवता अधियज्ञशब्देन उच्यते ।

सा च ब्रह्मणः सकाशात् अत्यन्ताभेदेन प्रतिपत्तव्या, इत्याह -
स हि विष्णुरिति ।

शास्त्री­य­व्य­व­हा­र­भूमिः ‘अत्र’ इत्यु­क्ता,दे­ह­सा­मा­ना­धि­क­र­ण्याद्वा, ‘अत्र’ इत्यस्य व्याख्यानम् -
अस्मिन् इति ।

किम् अधियज्ञो बहिः ? अन्तर्वा देहादौ ? इति सन्देहो माभूत् , इत्याह -
देह इति ।

ननु यज्ञ­स्य­दे­हा­धि­क­र­ण­त्वा­भा­वात् कथं तथा­वि­ध­य­ज्ञा­भि­मा­नि­दे­व­तात्वं भगवता विवक्ष्यते ? तत्र आह -
यज्ञो हीति ।
एतेन तस्य बुद्ध्या­दि­व्य­ति­रि­क्त­त्वम् उक्तम् अवधेयम् । न हि परा देवता दर्शितरीत्या अधियज्ञशब्दिता बुद्ध्यादिषु अन्तर्भावम् अनुभावयितुम् अलम् । देहान् बिभ्रतीति - देहभृतः सर्वे प्राणिनः, तेषामेव वरः - श्रेष्ठः । युक्तं हि भगवता साक्षादेव प्रतिक्षणं संवादं विदधानस्य अर्जुनस्य सर्वेभ्यः श्रैष्ठ्यम्
॥ ४ ॥

यत्तु - ‘प्रयाणकाले च’(भ. गी. ८-२) इत्यादि - चोदितम् , तत्र आह -
अन्तकाले चेति ।
‘मामेव’ इति अवधारणेेन अध्या­त्मा­दि­वि­शि­ष्ट­त्वेन स्मरणं व्यावर्त्यते । विशिष्टस्मरणे हि चित्तविक्षेपात् न प्रधानस्मरणमपि स्यात् । न च मर­ण­का­ले­का­र्य­क­र­ण­पा­र­व­श्यात् भग­व­द­नु­स्म­र­णा­सिद्धिः, सर्वदैव नैरन्तर्येण आदरधिया भगवति समर्पितचेतसः तत्कालेऽपि कार्यकरणजातम् अगणयतो भग­व­द­नु­स­न्धा­न­सिद्धेः । शरीरे तस्मिन् अहं­म­मा­भि­मा­ना­भा­वात् , इति यावत् ।

प्रयाति इत्य­त्र­प्र­कृ­त­श­री­रम् अपादानम् ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादि श्रुुतिम् आश्रित्य, आह-
नास्तीति ।

व्यासेध्यं संशयमेव अभिनयति -
याति वेति
॥ ५ ॥

अन्तकाले भगवन्तं अनुध्यायतः भग­व­त्प्रा­प्ति­नि­य­म­वत् अन्यस्यापि तत्काले देवादिविशेषं ध्यायतः देहं त्यजतः तत् प्रप्तिः अवश्यंभाविनी, इति दर्शयति -
न इत्यादिना ।

कथं पुनः अन्तकाले परवशस्य नियतविषयस्मृतिः भवितुमुत्सहते, तत्राह -
सदा इति ।
देवादिविशेषः तस्मिन् इति सप्तम्यर्थः । भावः - भावना - वासना, सः भावः भावितः सम्पादितः, येन पुंसा, सः तथाविधः सन् यं यं भावं स्मरति, तं तम् एव देह­त्या­गा­दूर्ध्वं गच्छति, इति सम्बन्धः
॥ ६ ॥

सततभावना प्रति­नि­य­त­फ­ल­प्रा­प्ति­नि­मि­त्ता­न्त्य­प्र­त्य­य­हेतुः, इति अङ्गीकृत्य अनन्तरश्लोकम् अवतारयति -
यस्मादिति ।
विशेषणत्रयवतः भगवदनुस्मरणस्य भग­व­त्प्रा­प्ति­हे­तुत्व तस्मात् इत्युच्यते । सर्वेषु कालेषु आद­र­नै­र­न्त­र्याभ्यां सह, इति यावत् । भगवदनुस्मरणेे विशे­ष­ण­त्र­य­सा­हित्यं यथाशास्त्रमिति द्योत्यते ।

भगवदनुसन्धानं कर्तव्यम् उक्त्वा, तेन सह स्वधर्ममपि कुरु युद्धम् इति उपदिशता भगवता समुच्चयः ज्ञानकर्मणोः अङ्गीकृतो भाति, इत्याशङ्क्य, आह -
मयीति ।
मनोबुद्धिगोचरं क्रिया­का­र­क­फ­ल­जातं सकलमपि ब्रह्मैव, इति भावयन् , युध्यस्व इति ब्रुवता क्रियादिकलापस्य ब्रह्मा­ति­रि­क्तस्य अभावाभिलापात् नात्र समुच्चयो विवक्षितः, इत्यर्थः ।

उक्तरीत्या स्वधर्मम् अनुवर्तमानस्य प्रयोजनम् आह –
मामेवेति ।

उक्तसाधनवशात् फलप्राप्तौ प्रतिबन्धाभावं सूचयति -
असंशय इति
॥ ७ ॥

इतश्च पूर्व­श्लो­का­र्था­नु­ष्ठायी भगवन्तम् अन्तकाले प्रप्नोति, इत्याह -
किञ्चेति ।

अभ्यासं विभजते -
मयीति ।

न हि चित्तसमर्पणस्य विषयभूतं भगवतोऽर्थान्तरं वस्तुसदस्ति, इति मन्वानो विशिनष्टि -
चित्तेति ।

अन्तराळकालेऽपि विजा­ती­य­प्र­त्य­येषु विच्छिद्य विच्छद्य जायमानेष्वपि सजा­ती­य­प्र­त्य­या­वृत्तिः अयोगिनोऽपि स्यात् इत्याशङ्क्य, आह -
विलक्षणेति ।

अभ्यासाख्येन योगेन युक्तत्वं चेतसो विवृणोति -
तत्रैवेति ।
तृतीयया परा­मृ­ष्टोऽ­भ्या­स­योगः सप्तम्यापि परामृश्यते ।

ननु - प्राकृतानां चेतस्तथा, इत्याशङ्क्य, विशिनष्टि -
योगिन इति ।

तच्चेत् चेतः विषयान्तरं परामृशेत् , न तर्हि परमपुरुषार्थ प्रप्तिहेतुः स्यात् , इत्याशङ्क्य, आह -
नान्यगामिनेति ।
प्रामादिकं विष­या­न्त­र­पा­र­व­श्यम् अभ्य­नु­ज्ञा­तुं­ता­च्छी­ल्य­प्र­त्ययः । तेन तात्पर्यात् अप­रा­मृ­ष्टा­र्था­न्त­रेण पर­म­पु­रु­ष­नि­ष्ठेन, इत्यर्थः । तदेव पुरुषस्य निरतिशयत्वम् , यत् अप­रा­मृ­ष्टा­खि­ला­न­र्थ­त्वम् अनतिशयानन्दत्वं च । तच्च प्रागेव व्याख्यातम् , नेह व्याख्यानम् अपेक्षते ।

‘यश्चा­सा­वा­दित्ये’(तै. उ. २-८-५) इत्यादिश्रुतिम् अनुसृत्य, आह -
दिवीति ।
तत्र विशे­ष­तोऽ­भि­व्य­क्ति­रेव भवनम् । पूर्वोक्तेन चेतसा यथोक्तं पुरुषम् अनुचिन्तयन् याति तमेव, इति सम्बन्धः ।

अनुचिन्तयन् इत्यत्र अनुशब्दार्थं व्याचष्ठे -
शास्त्रेति ।

चिन्तयन् इति व्याकरोति -
ध्यायन्निति
॥ ८ ॥

पुरु­ष­म्अ­नु­चि­न्त­य­न्निति सम्बन्धः । चकारात् कया वा नाड्या उत्क्रामन् , इति अनुकृष्यते । तत्र ध्यानद्वारा प्राप्यस्य पुरुषस्य विशेषणानि दर्शयति -
उच्यत इति ।

कान्तदर्शित्वम् - अतीतादेरशेषस्य वस्तुनो दर्शनशालित्वम् । तेन निष्पन्नम् अर्थम् आह -
सर्वज्ञमिति ।
चिरन्तनम् - आदिमतः सर्वस्य कारणत्वात् अनादिम् , इत्यर्थः । सूक्ष्मम् आकाशादि, ततः सूक्ष्मतरम् , तदुपादानत्वात् , इत्यर्थः । यो यथोक्तम् अनुचिन्तयेत् , स तमेव अनुचिन्तयन् याति, इति पूर्वेणैव सम्बन्ध इति योजना ।

ननु - विशि­ष्ट­जा­त्या­दि­मतो यथोक्तम् अनुचिन्तनं फलवद्भवति, न तु अस्मदादीनाम् , इत्याशङ्क्य़, आह -
यः कश्चिदिति ।

‘फलमत उपपत्तेः’(ब्र. सू. ३-२-३८) इति न्यायेन आह -
सर्वस्येति ।

‘एतदप्रमेयं ध्रुवम् ‘(बृ० उ० ४ - ४ - २०) इति श्रुतिम् आश्रित्य आह -
अचिन्त्यरूपमिति ।
न हि परस्य किञ्चिदपि रूपादि वस्तुतोऽस्ति, ‘अरूपवदेव हि ‘(ब्र. सू. ३ - २ - १४) इति न्यायात् ।

कल्पितमपि न अस्मदादिभिः शक्यते चिन्तयितुम् , इत्याह -
नास्येति ।

मूलकारणात् अज्ञानात् तत्क्रार्यच्च परस्तात् - उपरिष्टात् व्यवस्थितं पर­मा­र्थ­तोऽ­ज्ञा­न­त­त्का­र्या­स्पृ­ष्ठम् इत्याह -
तमस इति
॥ ९ ॥

इतश्च भगवदनुस्मरणं सफलत्वात् अनुष्ठेयम् , इत्याह -
किञ्चेति ।

कदा तदनुस्मरणे प्रय­त्ना­ति­रे­कोऽ­भ्य­र्थ्यते, तत्र आह -
प्रयाणकाल इति ।

कथं तदनुस्मरणम् ? इति उप­क­र­ण­क­ला­प­प्रे­क्ष्य­माणं प्रति आह -
मनसेति ।

योऽनुस्मरेत् , स किम् उपैति ? तत्र आह -
स तमिति ।
मरणकाले क्लेश­बा­हु­ल्येऽपि प्राची­ना­भ्या­सा­दा­सा­दि­त­बु­द्धि­वै­भवो भगवन्तम् अऩुस्मरन् यथास्मृतमेव देहा­भि­मा­न­वि­ग­म­ना­न­न्त­रम् उपागच्छति, इत्यर्थः ।

भगवदनुस्मरणस्य साधनं ‘मन­सै­वा­नु­द्र­ष्ट­व्यम् ‘ इति श्रृत्यु­प­दि­ष्टम् आचष्टे -
मनसेति ।

तस्य चञ्चलत्वात् न स्थैर्यम् ईश्वरे सिध्यति, तत्कथं तेत तदनुस्मरणम् ? इत्याशङ्क्य, आह -
अचलेनेति ।

ईश्वरानुस्मरणे प्रयत्नेन प्रवर्तितं विषयविमुखम् , तस्मिन्नेव अनु­स्म­र­ण­यो­ग्य­पौ­नः­पु­न्येन प्रवृत्त्या निश्चलीकृतम् , ततः चलनविकलम् , तेन, इति व्याचष्टे -
अचलेनेति ।

सम्प्रति अऩु­स्म­र­णा­धि­का­रिणं विशिनिष्टि -
भक्त्येति ।
परमेश्वरे परेण प्रेम्णा सहितो विष­या­न्त­र­वि­मु­खोऽ­नु­स्म­र्तव्यः, इत्यर्थः ।

योगबलमेव स्फोरयति -
समाधिजेति ।
योगः - समाधिः, चित्तस्य विष­या­न्त­र­वृ­त्ति­नि­रो­धेन परस्मिन्नेव स्थापनम् । तस्य बलम् - संस्कारप्रचयो ध्येयै­का­ग्र्य­क­र­णम् । तेन, तत्रैव स्थैर्यम् , इत्यर्थः ।

चकारसूचितम् अन्वयम् अन्वाचष्टे -
तेन चेति ।

यत्तु कया नाड्या उत्क्रामन् याति, इति, तत्र आह -
पूर्वमिति ।
चित्त हि स्वभावतो विषयेषु व्यापृतं, तेभ्यो विमुखीकृत्य हृदये पुण्डरीकाकारे परमात्मस्थाने यत्नतः स्थापनीयम् ।

‘अथ यदिदमस्मिन् ब्रह्मपुरे ‘ इत्यादिश्रुतेः, तत्र चित्तं वशीकृत्य आदौ, अनन्तरं कर्तव्यम् उपदिशति -
तत इति ।
इडापिङ्गले दक्षिणोत्तरे नाड्यौ हृदयान्निस्सृते निरुध्य, तस्मादेव हृदयाग्रात् ऊर्ध्वगमनशीलया सुषुम्नया नाड्या हार्द प्राणम् आनीय, कण्ठा­व­ल­म्बि­त­स्त­न­स­दृशं मांसखण्डं प्राप्य, तेन अध्वना भ्रुवोर्मध्ये तम आवेश्य अप्रमादवान् ब्रह्मरन्ध्रात् विनिष्क्रम्य ‘कविं पुराणम् ‘ इत्यादिविशेषणं परमपुरुषम् उपगच्छति, इत्यर्थः ।

‘भूमिजयक्रमेण ‘ इत्यत्र भूम्यादीनां पञ्चानां भूतानाम् , जयः - वशीकरणाम् - तस्य तस्य भूतस्य स्वाधी­न­चे­ष्टा­वै­शि­ष्ट्यम् , तद्द्वारेण, इति एतदुच्यते । ‘स तम् ‘ इत्यादि व्याचष्टे -
स एवमिति
॥ १० ॥

येन केनचित् मन्त्रादिना ध्यानकाले भगवदनुस्मरणे प्राप्ते सति,अभिधानत्वे नियन्तुं स्मर्तव्यत्वेन प्रकृ­त­प­र­म­पु­रु­षस्य त्रैवि­द्य­वृ­द्ध­प्र­सिद्ध्या प्रामाणिकत्वम् आह -
पुनरपीति ।
उपायः - वक्ष्यमाण ओङ्कारः ।

अविषये प्रतीचि ब्रह्मणि वेदार्थविदामपि कथं वचनम् ? इत्याशङ्क्य, अविषयत्वम् अत्यक्त्वैव इति मत्वा, श्रुतिम् उदाहरति -
तद्वेति ।

तथापि तस्मिन् अविषये सर्वविशेषशून्ये वचनम् अनुचितम् इत्याशङ्क्य, आह -
सर्वेति ।

न केवलं विद्व­द­नु­भ­व­सिद्धं यथोक्तं ब्रह्म, किन्तु मुक्तोपसृप्यतया मुक्तानामपि प्रसिद्धम् , इत्याह -
किञ्चेति ।

केषां पुनः संन्यासित्वम् ? तदाह -
वीतरागा इति ।

ज्ञानार्थं ब्रह्म­च­र्य­वि­धा­ना­दपि ब्रह्म ज्ञेयत्वेन प्रसिद्धम् इत्याह -
यच्चेति ।

कथं तर्हि यथोक्तं ब्रह्म मम ज्ञातुं शक्यम् ? इति आकुलितचेतसम् अर्जुनं प्रति आह -
तत्ते पदमिति
॥ ११ ॥

‘वक्ष्यमाणेन उपायेन’ इत्युक्तं व्यक्तीकुर्वन् ओङ्कारद्वारा ब्रह्मोपासनं श्रुत्युक्तम् अनुक्रामति -
सयो हेति ।

सत्यकामेन अभिध्यानफलं जिज्ञासुना भगवन्निति पिप्पलादः सम्बोध्य अभिमुखीक्रियते ।निपातौ तु प्रसिद्धम् अर्थमेव द्योतयन्तौ अभिध्यानस्य फलवत्वेन कर्तव्यत्वम् आवेदयतः । मनुष्येषु मध्ये सः, यो अधिकृतः मनुष्यः, तत् - प्रसिद्धम् अभिध्यानं यथा सिद्ध्यति, तथा सर्ववेदसारभूतम् ओङ्कारम् आभिमुख्येन ध्यायीत । तच्च अभि­ध्या­न­म्‘आ­प्रा­यणा ‘दिति न्यायेन मरणान्तम् अनुष्ठेयम् । स चैवम् अनु­ति­ष्ठ­न्प्र­कृ­तेन अभिध्यानेन लोकानां जेतव्यानां बहुत्वात् , कतमं लोकं जयति ? इति प्रश्नं पृष्टवते सत्यकामाय पिप्पलादनामा किल आचार्यः प्रतिवचनं प्रोवाच । तत्र प्रथमम् अभिध्येयम् ओङ्कारं परा­प­र­ब्र­ह्म­त्वेन महीकरोति -
एतद्वा इति ।
त्रिमात्रेण - अका­रो­का­र­म­का­रा­त्म­केन, इति यावत् । योऽभिध्यायीत, तमेव यथाभिध्यातं पुरुषम् अधिगच्छति, इत्यादिवचनेन उपासनम् ओङ्कारस्य उक्तम् , इत्यर्थः ।

प्रश्नश्नुतिवत् कठवल्ली च तत्रैवार्थे प्रवृत्ता, इत्याह -
अन्यत्रेति ।

अव्यवधानेन उपनिषदाम् , व्यवधानेन च कर्मश्रुतीनां परस्मिन् आत्मनि पर्यवसानं दर्शयति-
सर्व इति ।

तपसामपि सर्वेषां चित्त­शु­द्धि­द्वारा तत्रैव पर्यवसानम् , इत्याह -
तपांसीति ।

तस्यैव च ज्ञानार्थम् अष्टाङ्गं ब्रह्मचर्य तत्र तत्र विहितम् , इत्याह -
यदिच्छन्त इति ।

तस्य पदनीयस्य ब्रह्मणः सङ्क्षेपेण कथनम् ओङ्कारद्वारकम् , इति कथयति -
ओमित्येतदिति ।

उदाहृतवचनानां तात्पर्यं दर्शयति-
परस्येति ।
तस्य वाचकरूपेण वा तस्यैव प्रतीकरूपेण वा विवक्षितस्य उपासनं यथोक्तैः वचनैः उक्तम् , इति सम्बन्धः ।

ननु - परस्मिन् ब्रह्मणि तत्व­म­स्या­दि­वा­क्या­देव प्रतिपत्तिः अधिकारिणो भविष्यति, किमिति उपासनम् ओङ्कारस्य उपन्यस्यते ? तत्र आह -
परेति ।
यद्यपि विशि­ष्टा­धि­का­रिणो विनैव उपासनं ब्रह्मणि प्रतिपत्तिः उत्पद्यते, तथापि मन्दानां मध्यमानां च तद्धीहेतुत्वेन ओङ्कारो विवक्षितः । तच्च उपासनं ब्रह्मदृष्ट्या श्रुति­भि­रु­प­दि­ष्टम् , इत्यर्थः ।

तस्य क्रम­मु­क्ति­फ­ल­त्वात् अनुष्ठेयत्वं सूचयति -
कालान्तरेति ।

भवत्वेवं श्रुतीनां प्रवृत्तिः, तावता प्रकृते किमायातम् ? इत्याशङ्क्य, आह -
उक्तं यदिति ।
तदेव इहापि वक्तव्यम् , इति उत्तरेण सम्बन्धः ।

उपासनमेव उपा­स्यो­प­न्या­स­द्वारा स्फोरयति -
कविमित्यादिना ।
पूर्वो­क्त­रू­पे­णेति - अभिधानत्वेन प्रतीकत्वेन च, इत्यर्थः ।

श्रौतस्य उपासनस्य अनूद्यमानस्य सोपस्करत्वं सङ्गिरते -
योगेति ।

तर्हि कथम् - ‘अनन्यचेताः सततम् ‘ इत्यादि वक्ष्यते तत्र आह -
प्रसक्तेति ।
ओङ्कारोपसनं प्रसक्तम् , तदनन्तरं तत्फलम् अनुप्रसक्तम् , तद् - द्वारा च अपु­न­रा­वृ­त्त्यादि वक्त­व्य­को­टि­नि­वि­ष्टम् , इत्यर्थः ।

इत्येवमर्थ इति ।

श्रोत्रादीनां कुत्र द्वारत्वम् ? तत्र आह -
उपलब्धाविति ।
तेषां संयमनम् - विषयेषु प्रवृत्तानां दोषदर्शनद्वारा तेभ्यो वैमुख्यापादनम् ।

कोऽयं मनसो हृदये निरोधः ? तत्र आह -
निष्प्रचारमिति ।

मनसो विषयाकारवृत्तिं निरुध्य हृदि वशीकृतस्य कायं दर्शयति -
तत्रेति ।
‘ऊर्ध्वम् ‘ इत्यत्रापि हृदयात् इति सम्बध्यते । सर्वाणि उपलब्धिद्वाराणि श्रोत्रादीनि सन्निरुध्य, वायुमपि सर्वतो निगृह्य हृदयम् आनीय,ततो निर्गतया सुषुम्नया कण्ठ­भ्रू­म­ध्य­ल­ला­ट­क्र­मेण प्राणं मूर्धनि आधाय योगधारणाम् आरूढोब्रह्म व्याहरन् , मां च तदर्थम् अनुस्मरन् , परमां गतिं याति, इति सम्बन्धः
॥ १२ ॥

यथो­क्त­यो­ग­धा­र­णार्थं प्रवृत्तो मूर्धनि प्राणम् आधाय - धारयन् किं कुर्यात् ? इत्याशङ्क्य, अनन्तरश्लोकम् अवतारयति -
तत्रैवेति ।

एकं च तत् अक्षरं च इति एकाक्षरम् - अोमित्येवंरूपम् , तत्कथंब्रह्मेति विशिष्यते ? तत्र आह -
ब्रह्मण इति ।

‘यः प्रयाति’(भ. गी. ८-५) इति मरणम् उक्त्वा ‘त्यजन् देहम् ‘ इति ब्रुवता पुनरुक्तिः आश्रिता स्यात् , इत्या­श­ङ्क्य,वि­शे­ष­णार्थं विवृणोति-
देहेेति ।
एवम् ओङ्कारम् उच्चारयन् अर्थं च अभिध्यायन् ध्याननिष्ठः स पुमान् , इत्यर्थः । परमामिति गतिविशेषणं क्रम­मु­क्ति­वि­व­क्षया द्रष्टव्यम्
॥ १३ ॥

ननु - वायु­नि­रो­ध­वि­धु­रा­णाम् उदीरितया रीत्या स्वेच्छा­प्र­यु­क्तो­त्क्र­म­णा­स­म्भ­वात् दुर्लभा परमा गतिः आपतेत् इति, तत्र आह -
किं चेति ।
इतश्च भगवदनुस्मरणे प्रयतितव्यम् , इत्यर्थः ।

सततम् , नित्यश इति विशेषणयोः अपुनरुक्तत्वम् आह -
सततमित्यादिना ।

उक्तमेव अपौनरूक्त्यं व्यक्तीकरोति -
नेत्यादिना ।

जितासुः इच्छया देहं त्यजति, तदितरस्तु कर्मक्षयेणैव इति विशेषं विवक्षयन् आह-
यत इति ।
अनन्यचेतसम् - समाहितचेतसं प्रति, ईश्वरस्य सौल­भ्य­म्ए­व­मि­त्यु­च्यते
॥ १४ ॥

किं त्वां प्राप्ताः त्वय्येव अवतिष्ठन्ते ? किं वा पुनरावर्तन्ते चन्द्रलोकादिव ? इति सन्देहात् पृच्छति -
तवेति ।

तत्र उत्तरश्लोकेन निश्चयं दर्शयति -
उच्यत इति ।

ईश्वरोपगमनं न सामीप्यमात्रम् , इति व्याचष्टे -
मद्भावमिति ।

पुनर्जन्मनः अनिष्टत्वं प्रश्नद्वारा स्पष्टयति -
किमित्यादिना ।
महात्मत्वम् - प्रकृ­ष्ट­स­त्व­वै­शि­ष्ट्यम् । यतयः तस्मिन्नेव ईश्वरे समु­त्प­न्न­स­म्य­ग्द­र्शिनो भूत्वा, इति शेषः ।

भगवन्तम् उपगतानाम् अपुनरावृ्त्तौ, ततो विमुखानाम् अनु­प­जा­त­स­म्य­ग्धियां पुनरावृत्तिः अर्थसिद्धा, इत्याह -
ये पुनरिति
॥ १५ ॥

‘अपामसोमममृता अभूम’ (ऋक् संं. ६ - ४ - ११)इति श्रुतेः स्वर्गा­दि­ग­ता­ना­मपि समानैव अनावृत्तिः, इत्याशङ्क्यते -
किं पुनरिति ।

अर्थवादश्रुतौ कर्मिणाम् अमृतत्वस्य आपेक्षिकत्वं विवक्षित्वा परिहरति-
उच्यत इति ।

एतेन भूरा­दि­लो­क­च­तु­ष्टयं प्रविष्टानां पुनरावृत्तावपि जनआदिलोकत्रयं प्राप्तानाम् अपुनरावृत्तिः, इति विभागोक्तिः अप्रा­मा­णि­क­त्वा­देव हेया, इत्यवधेयम् । तर्हि तद्वदेव ईश्वरं प्राप्तानामपि पुनरावृत्तिः शङ्क्यते ? नेत्याह-
मामिति ।
याव­त्स­म्पा­त­श्रु­ति­वत् ईश्वरं प्राप्तानां निवृ­त्ता­वि­द्यानां पुनरावृत्तिः अप्रामाणिकी, इत्यर्थः । यस्य स्वाभाविकी वंशप्रयुक्ता च शुद्धिः तस्यैव उक्ते अर्थे बुद्धिरुदेति, इति मत्वा सम्बुद्धिद्वयम्
॥ १६ ॥

ब्रह्म­लो­क­स­हि­तानां पुनरावृत्तौ हेतुं प्रश्नद्वारा दर्शयति -
ब्रह्मेति ।

उक्तमेव हेतुम् आका­ङ्क्षा­पू­र्व­कम् उत्तरश्लोकेन साधयति -
कथमित्यादिना ।

यथो­क्ता­हो­रा­त्रा­व­य­व­मा­स­र्त्व­य­न­सं­व­त्स­रा­व­य­व­श­त­स­ङ्ख्या­यु­र­व­च्छि­न्न­त्वात् प्रजापतेः तद­न्त­र्व­र्ति­ना­मपि लोकानां यथा­यो­ग्य­का­ल­प­रि­च्छि­न्न­त्वेन पुनरावृत्तिः, इत्यभिप्रेत्य व्याचष्टे -
सहस्रेत्यादिना ।

अक्षरार्थम् उक्त्वा, तात्पर्यार्थम् आह -
यत इति
॥ १७ ॥

यत् प्रजापतेः अहः, तद् युग­स­ह­स्र­प­रि­मि­तम् , या च तस्य रात्रिः सापि तथा, इति कालविदाम् अभिप्रायम् अनुसृत्य ब्राह्मस्य अहोरात्रस्य कालपरिमाणं दर्शयित्वा तत्रैव विभज्य कार्यं कथयति -
प्रजापतेरिति ।

अव्यक्तम् अव्याकृतम् इतिशङ्कां वारयति -
अव्य­क्त­मि­त्या­दिना ।

जाति­प्र­ति­यो­गि­भूता व्यक्तीः व्यावर्तयति -
स्थावरेति ।

अस­दु­त्प­त्ति­प्र­सक्तिं प्रत्यादिशति -
अभिव्यज्यन्त इति ।
पूर्वोक्तम् अव्यक्तसंज्ञकं स्वापावस्थं ब्रह्म प्रजा­प­ति­श­ब्दि­तम् , तस्मिन्निति यावत्
॥ १८ ॥

ननु - प्रबोधकाले ब्रह्मणः, यो भूतग्रामो भूत्वा, तस्यैव स्वापकाले विलीयते,तस्माद् अन्यो भूयो ब्रह्मणो अहरागमे भूत्वा, पुनः रात्र्यागमे परवशो विनश्यति । तदेवं प्रत्य­वा­न्त­र­क­ल्पं­भू­त­ग्रा­म­वि­भागो भवेत् , इत्याशङ्क्य, अन­न्त­र­श्लो­क­ता­त्प­र्यम् आह -
अकृतेति ।
प्रतिकल्पं प्राणिनिकायस्य भिन्नत्वे सति अकृ­ता­भ्या­ग­मा­दि­दो­ष­प्र­स­ङ्गात् तत्परिहारार्थं भूतग्रामस्य प्रतिकल्पम् ऐक्यम् आस्थेयम् , इत्यर्थः ।

यदि स्थाव­र­ज­ङ्ग­म­ल­क्ष­ण­प्रा­णि­नि­का­यस्य प्रतिकल्पम् अन्यथात्वम् , तदा एकस्य बन्ध­मो­क्षा­न्व­यि­नोऽ­भा­वात् काण्डद्वयात्मनो बन्ध­मो­क्षा­र्थस्य शास्त्रस्य प्रवृत्तिः अफला प्रसज्येत । अतः तत्सा­फ­ल्या­र्थ­मपि प्रतिकल्पं प्राणिवर्गस्य नवी­न­त्वा­नु­प­पत्तिः, इत्याह -
बन्धेति ।

कथं पुनः भूतसमुदायः अस्वतन्त्रः सन् अवशो भूत्वा प्रविलीयते ? तत्र आह -
अविद्यादीति ।
आदिशब्देन अस्मि­ता­रा­ग­द्वे­षा­भि­नि­वेशा गृह्यन्ते । यथो­क्तं­क्ले­श­प­ञ्चकं मूलं प्रतिलभ्य धर्मा­ध­र्मा­त्म­क­क­र्म­राशिः उद्भवति । तद्वशादेव अस्वतन्त्रो भूतसमुदायो जन्मविनाशौ अनुभवति, इत्यर्थः ।

प्राणिनिकायस्य जन्म­ना­शा­भ्य­सो­क्तेः­अ­र्थम् आह -
इत्यत इति ।
संसारे विप­रि­व­र्त­मा­नानां प्राणिनाम् अस्वा­त­न्त्र्यात् अवशानामेव जन्म­म­र­ण­प्र­ब­न्धात् अलम् अनेन संसारेण, इति वैतृष्ण्यं तस्मिन् प्रदर्शनीयम् । तदर्थं च इदं भूता­ना­म्अ­हो­रा­त्रम् आवृत्तिवचनम् , इत्यर्थः ।

सम­न­न्त­र­वा­क्य­म्इ­दमा परामृश्यते । रात्र्यागमे प्रलयम् अनुभवतः अहरागमे च प्रभवं प्रतिपद्यमानस्य प्रणिवर्गस्य तुल्यं पारवश्यम् , इत्याशयवान् आह -
अह्न इति
॥ १९ ॥

‘अक्षरं ब्रह्म परमम् ‘ इत्युपक्रम्य, तदनुपयुक्तं किमिदम् अन्यदुक्तम् , इत्याशङ्क्य वृत्तम् अनूद्य अन­न्त­र­ग्र­न्थ­स­ङ्ग­तिम् आह -
यदुपन्यस्तमिति ।

अक्षरस्वरूपे निर्दिदिक्षिते, तस्मिन् पूर्वो­क्त­यो­ग­मा­र्गस्य कथम् उपयोगः स्यात् , इत्याशङ्क्य, तत्प्रा­प्त्यु­पा­य­त्वेन इत्याह -
अनेनेति ।
गन्तव्यमिति योगमार्गोक्तिः उपयुक्ता, इति शेषः । पूर्वोक्ताम् अव्यक्तात् इति सम्बन्धः ।

परशब्दस्य व्यति­रि­क्त­वि­ष­यत्वे तुशब्देन वैलक्षण्यम् उक्त्वा पुनः अन्य­श­ब्द­प्र­यो­गात् पौनरुक्त्यम् , इत्याशङ्क्य, आह -
व्यतिरिक्तत्व इति ।
तुनाद्योतितं वैलक्षण्यम् अन्यशब्देन प्रकटितम् । यतो भिन्नेष्वपि भावभेदेषु सालक्षण्यम् आलक्ष्यते, ततश्च अव्यक्तात् भिन्नत्वेऽपि ब्रह्मणः तेन सादृश्यम् आशङ्क्यते, तन्नि­वृ­त्त्य­र्थम् अन्यपदम् , इत्यर्थः । यद्वा परशब्दस्य प्रकृष्टवाचिनो भाव­वि­शे­ष­णा­र्थत्वे पुनरुक्तिशङ्कैव नास्ति, इति द्रष्टव्यम् ।

अनादिभावस्य अक्षरस्य अविनाशित्वाम् अर्थसिद्धं समर्थयते -
यः स भाव इति ।
सर्वं हि विन­श्य­द्वि­का­र­जातं पुरुषान्तं विनश्यति, स तु विना­श­हे­त्व­भा­वान्न विनष्टम् अर्हति, इत्यर्थः
॥ २० ॥

यथोक्ते अव्यक्ते भावे श्रुतिसंमतिम् आह -
अव्यक्त इति ।

तस्य परमगतित्वं साधयति-
यं प्रप्येति ।

योऽसौ अव्यक्तो भावोऽत्र दर्शितः, सः ‘येनाक्षरं पुरुषं वेद सत्यम् ‘(मु.उ. १-२-१३) इत्यादिश्रुतौ अक्षर इत्युक्तः । तं चाक्षरं भावम् , परमां गतिम् , ‘पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’(क. उ. १-३-११) इत्याद्याः श्रुतयो वदन्ति, इत्याह -
योऽसाविति ।

परमपुरुषस्य परमगतित्वम् उक्तं व्यनक्ति -
यं भावमिति ।

‘तद्विष्णोः परमं पदम्’(क. उ. १-३-९) इति श्रुतिम् अत्र संवादयति -
तद्धामेति
॥ २१ ॥

ननु अव्यक्तात् अतिरिक्तस्य तद्विलक्षणस्य परमपुरुषस्य प्राप्तौ कश्चित् असाधारणो हेतुः एषितव्यः, यस्मिन् प्रेक्षा­पू­र्व­कारी तत्प्रेक्षणा प्रवृत्तो निर्वृणोति, तत्र आह -
तल्लब्धेरिति ।

परस्य पुरुषस्य सर्वकारणत्वं सर्वव्यापकत्वं च विशेषणद्वयम् उदाहरति -
यस्येति ।

निरतिशयत्वं विशदयति-
यस्मादिति ।
तुशब्दः अवधारणार्थः ।

भक्तिः - भजनं सेवा प्रद­क्षि­ण­प्र­णा­मा­दि­ल­क्षणा, तां व्यावर्तयति -
ज्ञानेति ।

उक्ताया भक्तेः विषयतो वैशिष्ट्यम् आह -
अनन्ययेति ।

कोऽसौ पुरुषः ? यद्विषया भक्तिः तत्प्राप्तौ पर्याप्ता, इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -
यस्येति ।

कथम् भूतानां तदन्तस्थत्वम् ? तत्र आह -
कार्यं हीति ।

‘स पर्यगात्’(ई उ. ८) इति श्रुुतिम् आश्रित्य आह -
येनेति
॥ २२ ॥

ननु ज्ञानायत्ता पर­म­पु­रु­ष­प्राप्तिः उक्ता । न च ज्ञानं मार्गम् अपेक्ष्य फलाय कल्पते, विदुषो गत्यु­त्क्रा­न्ति­नि­षे­ध­श्रुतेः । तथा च मार्गोक्तिः अयुक्ता, इत्याशङ्क्य, सगुणशरणानां तदुपदेशो अर्थवान् , इत्यभिप्रेत्य आह -
प्रकृतानामिति ।
वक्तव्य इति, यत्र काले इत्याद्युच्यत इति सम्बन्धः ।

स चेद्वक्तव्यः, तर्हि किमिति अध्या­त्मा­दि­भा­वेन सविशेषं ब्रह्म ध्यायतां फलाप्तये मूर्ध­न्य­ना­डी­स­म्बद्धे देवयाने पथि उपास्यत्वाय वक्तव्ये कालो निर्दिश्यते ? तत्र आह -
विवक्षितेति ।
सोऽर्थो मार्गः, तदुक्तिशेषत्वेन कालोक्तिः इत्यर्थः ।

पितृ­या­ण­मा­र्गो­प­न्यासः तर्हि किमिति क्रियते ? तत्र आह-
आवृत्तीति ।
मार्गान्तरस्य आवृत्तिफलत्वात् , अस्य च अना­वृ­त्ति­फ­ल­त्वात् तदपेक्षया महीयान् अयम् , इति स्तुति­र्वि­व­क्षिता इति भावः ।

योगिन इति ध्यायिनां कर्मिणां च तन्त्रेण अभिधानम् , इत्याह -
योगिन इति ।

कथं कर्मिषु योगशब्दो वर्तताम् ? , इत्याशङ्क्य, अनु­ष्ठा­न­गु­ण­यो­गात् इत्याह-
कर्मिणस्त्विति ।
गुणतो योगिन इति सम्बन्धः ।

तत्रैव वाक्योपक्रमस्य आनुकूल्यम् आह -
कर्मयोगेनेति ।

अवशिष्टानि अक्षराणि व्याचक्षाणो वाक्यार्थम् आह -
यत्रेति ।
योगिनो ध्यायिनोऽत्र विवक्षिताः, आवृतौ अधिकृता योगिनः कर्मिण इति विभागः ।

काल - प्राधान्येन मार्ग­द्व­यो­प­न्या­सम् उपक्रम्य तमेव प्रधानीकृत्य देवयानं पन्थानम् अवतारयति -
तं कालमिति
॥ २३ ॥

यथोपक्रमं व्याख्याय यथाश्रुतं व्याख्याति -
अथवेति ।

कथं तर्हि देवतानां अतिनेत्रीणां ग्रहणे कालप्राधान्येन निर्देशः श्लिष्यते ? तत्र आह -
भूयसां त्विति ।
मार्गद्वयेऽपि काला­द्य­भि­मा­निन्यो देवताः कालशब्देन उच्यन्ते । कालाभिमानिनीनां भूयस्त्वात् कालशब्देन सर्वासां देवतानाम् उपलक्षणत्वं विवक्षित्वा कालकथनम् इत्यर्थः ।

यथा आम्राणां भूयस्त्वात् विद्यमानेष्वपि द्रुमान्तरेषु आम्रैरेव वनं निर्दिश्यते, तद्वत् इति उदाहरणम् आह -
आम्रेति ।

ननु मार्गचिह्नानां भोगभूमीनां वा तत्तच्छब्दैः उपादानसम्भवे किमिति देवताग्रहणम् ? इत्याशङ्क्य, ‘अति­वा­हि­क­स्त­ल्लि­ङ्गात्’(ब्र.सू. ४-३-४) इति न्यायेन उत्तरम् आह -
इति स्थित इति ।
तेषाम् अग्न्यादीनां समीपम् , इति सामीप्ये ‘तत्र’ इति सप्तमी । ब्रह्म कार्योपाधिकम् , परं वा ब्रह्म परम्परया मुक्त्यालम्बनम् । अत एव ‘क्रमेण’ इत्युक्तम् ।

निर्गुणम् अप्रपञ्चं ब्रह्मस्मि, इति विद्यावतो व्यवच्छिनत्ति -
ब्रह्मोपासनेति ।

ननु ब्रह्मशब्दस्य मुख्या­र्थ­त्वार्थं परब्रह्मविदामेव इयं गतिः उच्यते, न बाद­र्य­धि­क­र­ण­वि­रो­धात् इत्याह -
न हीति
॥ २४ ॥

प्रकृतं देवयानं पन्थानं स्तोतुं पितृयाणम् उपन्यस्यति-
धूम इति ।

अत्रापि मार्गचिह्नानि भोगभूमीश्च व्यवच्छिद्य आति­वा­हि­क­दे­व­ता­वि­ष­यत्वं धूमादिपदानां विभजते -
धूमेत्यादिना ।

तत्रेति सप्तमी पूर्ववदेव सामीप्यार्था, ‘इष्टादि’ इत्या­दि­श­ब्दे­न­पू­र्त­द­त्ते­गृ­ह्येते । ‘कृता­त्य­येऽ­नु­श­य­वान् ‘(ब्र. सू. ३ - १ - ८) इति न्यायं सूचयति -
तत्क्षयादिति
॥२५॥

आरोहावरोहयोः अभ्यासवाचिना पुनश्शब्देन संसारस्य अनादित्वं सूच्यतेे । रात्र्यादौ मृतानां ब्रह्मविदाम् अब्र­ह्म­प्रा­प्ति­श­ङ्का­नि­वृ­त्त्य­र्थम् अभि­मा­नि­दे­व­ता­ग्र­ह­णाय मार्गयोः नित्यत्वम् आह -
शुक्लेति ।
ज्ञान­प्र­का­श­क­त्वात् - विद्या­प्र­प्य­त्वात् अर्चि­रा­दि­प्र­का­शो­प­ल­क्षि­त­त्त्वाच्च, शुक्ला देवयानाख्या गतिः । तदभावात् - ज्ञान­प्र­का­श­क­त्वा­भा­वात् धूमा­द्य­प्र­का­शो­प­ल­क्षि­त­त्वात् अवि­द्या­प्रा­प्य­त्वाच्च, कृष्णा पितृयाणलक्षणा गतिः । तयोर्गत्योः श्रुति­स्मृ­ति­प्र­सि­द्ध्यर्थो हिशब्दः ।

जगच्छब्दस्य ज्ञान­क­र्मा­धि­कृ­त­वि­ष­य­त्वेन सङ्कोचे हेतुम् आह -
न जगत इति ।
अन्यथा ज्ञान­क­र्मो­प­दे­शा­न­र्थ­क्यात् , इत्यर्थः ।

तयोर्नित्यत्वे हेतुम् आह -
संसारस्येति ।

मार्गयोः याव­त्सं­सा­र­भा­वित्वे फलितम् आह -
तत्रेति ।
क्रममुक्तिः - अनावृतिः । भूयः - भोक्त­व्य­क­र्म­क्षये शेषकर्मदशात् , इत्यर्थः
॥ २६ ॥

गतेः उपास्यत्वाय तद्विज्ञानं स्तौति -
नैते इति ।

योगस्य मोहापोहकत्वे फलितम् आह -
तस्मादिति ।

ज्ञानप्रकारम् अनुवदति -
संसारायेति ।
मोक्षाय - क्रम­मु­क्त्य­र्थम् इत्यर्थः । योगी ध्याननिष्ठः गतिमपि ध्यायन् नैव मुह्यति, केवलं कर्मं दक्षि­ण­मा­र्ग­प्रा­पकं कर्तव्यत्वेन न प्रत्येति इत्यर्थः ।

योगस्य अपु­न­रा­वृ­त्ति­फ­लत्वे नित्यकतंव्यत्वं सिद्धम् इति उपसंहरति -
तस्मादिति
॥ २७ ॥

श्रद्धा­वि­वृ­द्ध्यर्थं योगं स्तौति -
श्रृण्विति ।
पवि­त्र­पा­णि­त्व­प्रा­ङ्मु­ख­त्वा­दि­सा­हि­त्यम् अध्ययनस्य सम्यक्त्वम् । अङ्गो­पा­ङ्गो­पे­त­त्वम् अनुष्ठानस्य साद्गुण्यम् । तपसां सुतप्तत्वं मनो­बु­द्ध्या­द्यै­का­ग्र्य­पू­र्व­क­त्वम् । दानस्य च सम्यकत्वं देश­का­ल­पा­त्रा­नु­गु­ण­त्वम् ।

‘इदं विदित्वा’ इत्यत्र इदंशब्दार्थमेव स्फुटयति-
सप्तेति ।
यद्यपि ‘किं तद्ब्रह्म’(भ. गी. ८-१) इत्यादौ, ‘अधियज्ञः कथं कोऽत्र’(भ. गी. ८-२) इत्यत्र प्रश्न­द्व­यं­प्र­ति­भा­सा­नु­सा­रेण कश्चित् उक्तम् , तथापि प्रति­व­च­ना­लो­च­नायां द्वित्व­प्र­ती­त्य­भा­वात् प्रका­र­भे­द­वि­व­क्षया चशब्दद्वयस्य प्रतिनियतत्वात् न सप्तेति विरुध्यते ।

न च इदं वेदनम् आपातिकं किन्तु अनु­ष्ठा­न­प­र्य­न्तम् इत्याह -
सम्यगिति ।
प्रकृतो ध्याननिष्ठः योगी इत्युच्यते । ऐश्वरम् - विष्णोः परमं पदम् , तदेव तिष्ठति अस्मिन् अशेषम् इति स्थानम् । योगानुष्ठानात् अशेषफलातिशायि मोक्षलक्षणं फलं क्रमेण लब्धुं शक्यम् इति भावः । तदनेन सप्त­प्र­श्न­प्र­ति­व­च­नेन योगमार्गं दर्शयता ध्येयत्वेन तत्पदार्थो व्याख्यातः
॥ २८ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने अष्टमोऽध्यायः ॥ ८ ॥