आनन्दगिरिटीका (गीताभाष्य)
अष्टमोऽध्यायः
सप्तमाध्यायान्ते ‘येषान्त्वन्तगतं पापम् ‘ इत्यादिना येषां ब्रह्मादीनाम् अनुसन्धानम् उक्तम् , यच्च प्रयाणकाले भगवतः स्मरणं दर्शितम् , तदिदं जिज्ञासमानः सन् पृच्छति, इति प्रश्नसमुदायम् अवतारयति -
ते ब्रह्म इति ।
प्रश्नबीजानि - तद्विषयभूतानि ब्रह्मादीनि वस्तूनि, इति यावत् ।
बुभुत्सितविषयप्रतिलम्भानन्तरं तेषां प्रश्नद्वारा निर्णयार्थम् आह -
अत इति ।
यदुक्तं ‘ते ब्रह्म तद्विदुरिति’ तत् किम् सोपाधिकं?निरुपाधिकं वा ?ब्रह्मशब्दस्य उभयत्रापि सम्भवात् , इति मत्वा आह -
किं तदिति ।
यच्चोक्तं ‘कृत्स्नमध्यात्ममिति’ तत्र आत्मानं - देहम् , अधिकृत्य तस्मिन् अधिष्ठाने तिष्ठति इति अध्यात्मशब्देन श्रोत्रादिकरणग्रामो वा ? प्रत्यग्भूतं ब्रह्मैव वा विवक्षितम् ? इत्याह -
किमध्यात्ममिति ।
‘विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च’(तै. उ. २-५-१) इति श्रुतौ कर्मणःद्वैविध्यनिर्धारणात् ‘कर्म चाखिलम्’(भ. गी. ७-२९) इत्यत्र कीदृक् कर्म गृहीतम् इति पृच्छति -
किमिति ।
‘क्षराक्षराभ्याङ्कार्यकारणाभ्याम् ‘ अतीतस्य भगवतः न किञ्चित् वेद्यमस्ति इति सूचयति -
पुरुषोत्तम इति ।
साधिभूताधिदैवम् इत्यत्र अधिभूतशब्देन पृथिव्यादिषु भूतेषु वर्तमानं किञ्चिदेव, किं वा समस्तमेव कार्यम् , इति निर्दिधारयिषया पृच्छति -
अधिभूतमिति ।
अधिदैवमिति च दैवतविषयमनुध्यानं वा ? दैवतेषु आदित्यमण्डलादिषु वर्तमानं चैतन्यं वा ? जिघृक्षितम् इति प्रश्नान्तरं प्रस्तॊति -
अधिदैवमिति
॥ १ ॥
‘साधियज्ञं च’(भ. गी. ७-३०) इत्यत्र अधियज्ञशब्देन यज्ञम् अधिकृतो विज्ञानात्मा वा ? परदेवता वा ? इति प्रश्नान्तरं प्रकरोति -
अधियज्ञ इति ।
स च, कथम् - केन प्रकारेण ब्रह्मत्वेन चिन्तनीयः, किं तादात्म्येन ? किं वा अत्यन्ताभेदेन ? इत्याह -
कथमिति ।
सर्वथापि स किं अस्मिन् देहे वर्तते ? ततो बहिर्वा ? देहे चेत् सः, कोऽत्र - बुद्ध्यादिः ? तद्व्यतिरिक्तो वा ? इति जिज्ञासया ब्रूते -
कोऽत्रेति ।
‘अधियज्ञः कथं कोऽत्र’ इति न प्रश्नभेदः, कथम् इति तु प्रकारभेदविवक्षया, इति द्रष्टव्यम् ।
यत्तु समाहितचित्तानामुक्तम् ; यत् प्रयाणकालेऽपि भगवदनुसन्धानं सिध्यति इति, तत् अयुक्तम् , उत्क्रमणदशायां करणग्रामवैयग्र्यात् चित्तसमाधानानुपपत्तिः, इत्यभिप्रेत्य, आह -
प्रयाणेति
॥ २ ॥
व्याख्यातप्रश्नसप्तकस्य प्रतिवचनं भागवतम् अवतारयति -
एषामिति ।
क्रमेण कृतानां प्रश्नानां क्रमेणैव प्रतिवचने प्रष्टुः अभीष्टप्रतिपत्तिसौकर्यं सिध्यति, इति बुध्यमानो विशिनष्टि -
यथाक्रममिति ।
तत्र प्रश्नत्रयं निर्णेतुं भगवद्वचनम् उदाहरति -
अक्षरमिति ।
‘किं तत् ब्रह्म’(भ. गी. ८-१) इति प्रश्नस्य प्रतिवचनम् -
अक्षरं ब्रह्म परममिति ।
तत्र अक्षरशब्दस्य निरुपाधिके परस्मिन् आत्मनि अविनाशित्वव्याप्तिमत्वसम्बन्धात् प्रवृत्तिं व्युत्पादयति -
अक्षरमित्यादिना ।
कथं पुनः अक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगम् अन्तरेण व्युत्पत्त्या प्रवृत्तिः आश्रीयते ? व्युत्पत्तेः अर्थान्तरेऽपि सम्भवात् , इत्याशङ्क्य, द्यावापृथिव्यादिविषयनिरङ्कुशप्रशासनस्य परस्मात् अन्यस्मिन् असम्भवात् तथाविधप्रशासनकर्तृत्वेन श्रुतम् अक्षरं ब्रह्मैव, इत्याह -
एतस्येति ।
‘रूढिर्योगम् अपहरति’ इति न्यायात् ओङ्कारे वर्णसमुदायात्मनि अक्षरशब्दस्य रूढ्या प्रवृत्तिः आश्रयितुम् उचिता, इत्याशङ्क्य, आह -
ओङ्कारस्येति ।
प्रतिवचनोपक्रमे प्रक्रान्तम् अोङ्काराख्यम् अक्षरमेव उत्तरत्र विशेषितं भविष्यति, इत्याशङ्क्य, परमविशेषणविरोधात् न तस्य प्रक्रमः सम्भवति, इत्याह -
परममिति चेति ।
किम् अध्यात्मम् इति प्रश्नस्य, उत्तरं ‘स्वभावोऽध्यात्मम्’ इत्यादि । तद्व्याचष्टे -
तस्यैवेति ।
स्वकीयो भावः - स्वभावः श्रोत्रादिकरणग्रामः, स च आत्मनि देहे, अहंप्रत्ययवेद्यो वर्तते, इति अमुं प्रतिभासं व्यावर्त्य, स्वभावपदं गृह्णाति -
स्वो भाव इति ।
एवं विग्रहपरिग्रहे ‘स्वभावोऽध्यात्मम् उच्यते’ इत्यस्य अयम् अर्थो निष्पन्नो भवति, इति अनुवादपूर्वकं कथयति -
स्वभाव इति ।
तस्यैव परस्य इत्यादिना उक्तं न विस्मर्तव्यम् , इति विशिनष्टि -
परमार्थेति ।
परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावम् अनुभवति ‘तत्सृष्ट्वा तदेवानुप्राविशत् ‘(तै.उ. २ - ६ - १) इति श्रुतेः. इत्यर्थः ।
‘किं कर्म’ इति प्रश्नस्य उत्तरम् उपादत्ते -
भूतेति ।
भूतान्येव भावाः, तेषाम् उद्भवः - समुत्पत्तिः, तां करोतीति, व्युत्पत्तिं सिद्धवत्कृत्य, विधान्तरेण व्युत्पादयति -
भूतानामिति ।
भावः - सद्भावः - वस्तुभावः । अत एव भूतवस्तूत्पत्तिकर इति वक्ष्यति ।
वैदिकं कर्म अत्रउक्तविशेषणं कर्मशब्दितम् इति विसर्गशब्दार्थं दर्शयन् विशदयति -
विसर्ग इत्यादिना ।
कथं पुनः यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टिस्थितिप्रलयहेतुत्वेन तदुद्भवकरत्वम् ? इत्याशङ्क्य, ‘अग्नौ प्रास्ताहुतिः’(मनु. ३-७६) इत्यादिस्मृतिम् अनुस्मृत्य, आह -
एतस्माद्धीति
॥ ३ ॥
सम्प्रतिप्रश्नत्रयस्य उत्तरम् आह -
अधिभूतमिति ।
‘अधिभूतं च किं प्रोक्तम् ? ’(भ. गी. ८-१) इत्यस्य प्रतिवचनम् -
अधिभूतं क्षरो भाव इति ।
तत्र अधिभूतपदम् अनूद्य वाच्यम् अर्थं कथयति -
अधिभूतमित्यादिना ।
तस्य निर्देशम् अन्तरेण निर्ज्ञातुम् अशक्यत्वात् प्रश्नद्वारा तन्निर्दिशति -
कोऽसाविति ।
कार्यमात्रम् अत्र सङ्गृहीतम् , इति वक्तुं उक्तमेव व्यनक्ति -
यत्किञ्चिदिति ।
‘अधिदैवं किम् ? ’(भ. गी. ८-१) इति प्रश्ने, ‘पुरुषश्च’ इत्यादि प्रतिवचनम् । तत्र पुरुषशब्दम् अनूद्य मुख्यम् अर्थं तस्य उपन्यस्यति -
पुरुष इति ।
तस्यैव सम्भावितम् अर्थान्तरम् आह -
पुरि शयनाद्वेति ।
वैराजं देहम् आसाद्य आदित्यमण्डलादिषु दैवतेषु अन्तरवस्थितो लिङ्गात्मा व्यष्टिकरणानुग्राहकोऽत्र पुरुषशब्दार्थः ।
स च अधिदैवतम् इति स्फुटयति -
आदित्येति ।
‘अधियज्ञः कथम् ? ’(भ. गी. ८-२) इत्यादिप्रश्नं परिहरन् अधियज्ञशब्दार्थम् आह -
अधियज्ञ इति ।
कथम् उक्तायां देवतायाम् अधियज्ञशब्दः स्यात् , इत्याशङ्क्य, श्रुतिम् अनुसरन् आह -
यज्ञो वा इति ।
परैव देवता अधियज्ञशब्देन उच्यते ।
सा च ब्रह्मणः सकाशात् अत्यन्ताभेदेन प्रतिपत्तव्या, इत्याह -
स हि विष्णुरिति ।
शास्त्रीयव्यवहारभूमिः ‘अत्र’ इत्युक्ता,देहसामानाधिकरण्याद्वा, ‘अत्र’ इत्यस्य व्याख्यानम् -
अस्मिन् इति ।
किम् अधियज्ञो बहिः ? अन्तर्वा देहादौ ? इति सन्देहो माभूत् , इत्याह -
देह इति ।
ननु यज्ञस्यदेहाधिकरणत्वाभावात् कथं तथाविधयज्ञाभिमानिदेवतात्वं भगवता विवक्ष्यते ? तत्र आह -
यज्ञो हीति ।
एतेन तस्य बुद्ध्यादिव्यतिरिक्तत्वम् उक्तम् अवधेयम् । न हि परा देवता दर्शितरीत्या अधियज्ञशब्दिता बुद्ध्यादिषु अन्तर्भावम् अनुभावयितुम् अलम् । देहान् बिभ्रतीति - देहभृतः सर्वे प्राणिनः, तेषामेव वरः - श्रेष्ठः । युक्तं हि भगवता साक्षादेव प्रतिक्षणं संवादं विदधानस्य अर्जुनस्य सर्वेभ्यः श्रैष्ठ्यम्
॥ ४ ॥
यत्तु - ‘प्रयाणकाले च’(भ. गी. ८-२) इत्यादि - चोदितम् , तत्र आह -
अन्तकाले चेति ।
‘मामेव’ इति अवधारणेेन अध्यात्मादिविशिष्टत्वेन स्मरणं व्यावर्त्यते । विशिष्टस्मरणे हि चित्तविक्षेपात् न प्रधानस्मरणमपि स्यात् । न च मरणकालेकार्यकरणपारवश्यात् भगवदनुस्मरणासिद्धिः, सर्वदैव नैरन्तर्येण आदरधिया भगवति समर्पितचेतसः तत्कालेऽपि कार्यकरणजातम् अगणयतो भगवदनुसन्धानसिद्धेः । शरीरे तस्मिन् अहंममाभिमानाभावात् , इति यावत् ।
प्रयाति इत्यत्रप्रकृतशरीरम् अपादानम् ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्यादि श्रुुतिम् आश्रित्य, आह-
नास्तीति ।
व्यासेध्यं संशयमेव अभिनयति -
याति वेति
॥ ५ ॥
अन्तकाले भगवन्तं अनुध्यायतः भगवत्प्राप्तिनियमवत् अन्यस्यापि तत्काले देवादिविशेषं ध्यायतः देहं त्यजतः तत् प्रप्तिः अवश्यंभाविनी, इति दर्शयति -
न इत्यादिना ।
कथं पुनः अन्तकाले परवशस्य नियतविषयस्मृतिः भवितुमुत्सहते, तत्राह -
सदा इति ।
देवादिविशेषः तस्मिन् इति सप्तम्यर्थः । भावः - भावना - वासना, सः भावः भावितः सम्पादितः, येन पुंसा, सः तथाविधः सन् यं यं भावं स्मरति, तं तम् एव देहत्यागादूर्ध्वं गच्छति, इति सम्बन्धः
॥ ६ ॥
सततभावना प्रतिनियतफलप्राप्तिनिमित्तान्त्यप्रत्ययहेतुः, इति अङ्गीकृत्य अनन्तरश्लोकम् अवतारयति -
यस्मादिति ।
विशेषणत्रयवतः भगवदनुस्मरणस्य भगवत्प्राप्तिहेतुत्व तस्मात् इत्युच्यते । सर्वेषु कालेषु आदरनैरन्तर्याभ्यां सह, इति यावत् । भगवदनुस्मरणेे विशेषणत्रयसाहित्यं यथाशास्त्रमिति द्योत्यते ।
भगवदनुसन्धानं कर्तव्यम् उक्त्वा, तेन सह स्वधर्ममपि कुरु युद्धम् इति उपदिशता भगवता समुच्चयः ज्ञानकर्मणोः अङ्गीकृतो भाति, इत्याशङ्क्य, आह -
मयीति ।
मनोबुद्धिगोचरं क्रियाकारकफलजातं सकलमपि ब्रह्मैव, इति भावयन् , युध्यस्व इति ब्रुवता क्रियादिकलापस्य ब्रह्मातिरिक्तस्य अभावाभिलापात् नात्र समुच्चयो विवक्षितः, इत्यर्थः ।
उक्तरीत्या स्वधर्मम् अनुवर्तमानस्य प्रयोजनम् आह –
मामेवेति ।
उक्तसाधनवशात् फलप्राप्तौ प्रतिबन्धाभावं सूचयति -
असंशय इति
॥ ७ ॥
इतश्च पूर्वश्लोकार्थानुष्ठायी भगवन्तम् अन्तकाले प्रप्नोति, इत्याह -
किञ्चेति ।
अभ्यासं विभजते -
मयीति ।
न हि चित्तसमर्पणस्य विषयभूतं भगवतोऽर्थान्तरं वस्तुसदस्ति, इति मन्वानो विशिनष्टि -
चित्तेति ।
अन्तराळकालेऽपि विजातीयप्रत्ययेषु विच्छिद्य विच्छद्य जायमानेष्वपि सजातीयप्रत्ययावृत्तिः अयोगिनोऽपि स्यात् इत्याशङ्क्य, आह -
विलक्षणेति ।
अभ्यासाख्येन योगेन युक्तत्वं चेतसो विवृणोति -
तत्रैवेति ।
तृतीयया परामृष्टोऽभ्यासयोगः सप्तम्यापि परामृश्यते ।
ननु - प्राकृतानां चेतस्तथा, इत्याशङ्क्य, विशिनष्टि -
योगिन इति ।
तच्चेत् चेतः विषयान्तरं परामृशेत् , न तर्हि परमपुरुषार्थ प्रप्तिहेतुः स्यात् , इत्याशङ्क्य, आह -
नान्यगामिनेति ।
प्रामादिकं विषयान्तरपारवश्यम् अभ्यनुज्ञातुंताच्छील्यप्रत्ययः । तेन तात्पर्यात् अपरामृष्टार्थान्तरेण परमपुरुषनिष्ठेन, इत्यर्थः । तदेव पुरुषस्य निरतिशयत्वम् , यत् अपरामृष्टाखिलानर्थत्वम् अनतिशयानन्दत्वं च । तच्च प्रागेव व्याख्यातम् , नेह व्याख्यानम् अपेक्षते ।
‘यश्चासावादित्ये’(तै. उ. २-८-५) इत्यादिश्रुतिम् अनुसृत्य, आह -
दिवीति ।
तत्र विशेषतोऽभिव्यक्तिरेव भवनम् । पूर्वोक्तेन चेतसा यथोक्तं पुरुषम् अनुचिन्तयन् याति तमेव, इति सम्बन्धः ।
अनुचिन्तयन् इत्यत्र अनुशब्दार्थं व्याचष्ठे -
शास्त्रेति ।
चिन्तयन् इति व्याकरोति -
ध्यायन्निति
॥ ८ ॥
पुरुषम्अनुचिन्तयन्निति सम्बन्धः । चकारात् कया वा नाड्या उत्क्रामन् , इति अनुकृष्यते । तत्र ध्यानद्वारा प्राप्यस्य पुरुषस्य विशेषणानि दर्शयति -
उच्यत इति ।
कान्तदर्शित्वम् - अतीतादेरशेषस्य वस्तुनो दर्शनशालित्वम् । तेन निष्पन्नम् अर्थम् आह -
सर्वज्ञमिति ।
चिरन्तनम् - आदिमतः सर्वस्य कारणत्वात् अनादिम् , इत्यर्थः । सूक्ष्मम् आकाशादि, ततः सूक्ष्मतरम् , तदुपादानत्वात् , इत्यर्थः । यो यथोक्तम् अनुचिन्तयेत् , स तमेव अनुचिन्तयन् याति, इति पूर्वेणैव सम्बन्ध इति योजना ।
ननु - विशिष्टजात्यादिमतो यथोक्तम् अनुचिन्तनं फलवद्भवति, न तु अस्मदादीनाम् , इत्याशङ्क्य़, आह -
यः कश्चिदिति ।
‘फलमत उपपत्तेः’(ब्र. सू. ३-२-३८) इति न्यायेन आह -
सर्वस्येति ।
‘एतदप्रमेयं ध्रुवम् ‘(बृ० उ० ४ - ४ - २०) इति श्रुतिम् आश्रित्य आह -
अचिन्त्यरूपमिति ।
न हि परस्य किञ्चिदपि रूपादि वस्तुतोऽस्ति, ‘अरूपवदेव हि ‘(ब्र. सू. ३ - २ - १४) इति न्यायात् ।
कल्पितमपि न अस्मदादिभिः शक्यते चिन्तयितुम् , इत्याह -
नास्येति ।
मूलकारणात् अज्ञानात् तत्क्रार्यच्च परस्तात् - उपरिष्टात् व्यवस्थितं परमार्थतोऽज्ञानतत्कार्यास्पृष्ठम् इत्याह -
तमस इति
॥ ९ ॥
इतश्च भगवदनुस्मरणं सफलत्वात् अनुष्ठेयम् , इत्याह -
किञ्चेति ।
कदा तदनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थ्यते, तत्र आह -
प्रयाणकाल इति ।
कथं तदनुस्मरणम् ? इति उपकरणकलापप्रेक्ष्यमाणं प्रति आह -
मनसेति ।
योऽनुस्मरेत् , स किम् उपैति ? तत्र आह -
स तमिति ।
मरणकाले क्लेशबाहुल्येऽपि प्राचीनाभ्यासादासादितबुद्धिवैभवो भगवन्तम् अऩुस्मरन् यथास्मृतमेव देहाभिमानविगमनानन्तरम् उपागच्छति, इत्यर्थः ।
भगवदनुस्मरणस्य साधनं ‘मनसैवानुद्रष्टव्यम् ‘ इति श्रृत्युपदिष्टम् आचष्टे -
मनसेति ।
तस्य चञ्चलत्वात् न स्थैर्यम् ईश्वरे सिध्यति, तत्कथं तेत तदनुस्मरणम् ? इत्याशङ्क्य, आह -
अचलेनेति ।
ईश्वरानुस्मरणे प्रयत्नेन प्रवर्तितं विषयविमुखम् , तस्मिन्नेव अनुस्मरणयोग्यपौनःपुन्येन प्रवृत्त्या निश्चलीकृतम् , ततः चलनविकलम् , तेन, इति व्याचष्टे -
अचलेनेति ।
सम्प्रति अऩुस्मरणाधिकारिणं विशिनिष्टि -
भक्त्येति ।
परमेश्वरे परेण प्रेम्णा सहितो विषयान्तरविमुखोऽनुस्मर्तव्यः, इत्यर्थः ।
योगबलमेव स्फोरयति -
समाधिजेति ।
योगः - समाधिः, चित्तस्य विषयान्तरवृत्तिनिरोधेन परस्मिन्नेव स्थापनम् । तस्य बलम् - संस्कारप्रचयो ध्येयैकाग्र्यकरणम् । तेन, तत्रैव स्थैर्यम् , इत्यर्थः ।
चकारसूचितम् अन्वयम् अन्वाचष्टे -
तेन चेति ।
यत्तु कया नाड्या उत्क्रामन् याति, इति, तत्र आह -
पूर्वमिति ।
चित्त हि स्वभावतो विषयेषु व्यापृतं, तेभ्यो विमुखीकृत्य हृदये पुण्डरीकाकारे परमात्मस्थाने यत्नतः स्थापनीयम् ।
‘अथ यदिदमस्मिन् ब्रह्मपुरे ‘ इत्यादिश्रुतेः, तत्र चित्तं वशीकृत्य आदौ, अनन्तरं कर्तव्यम् उपदिशति -
तत इति ।
इडापिङ्गले दक्षिणोत्तरे नाड्यौ हृदयान्निस्सृते निरुध्य, तस्मादेव हृदयाग्रात् ऊर्ध्वगमनशीलया सुषुम्नया नाड्या हार्द प्राणम् आनीय, कण्ठावलम्बितस्तनसदृशं मांसखण्डं प्राप्य, तेन अध्वना भ्रुवोर्मध्ये तम आवेश्य अप्रमादवान् ब्रह्मरन्ध्रात् विनिष्क्रम्य ‘कविं पुराणम् ‘ इत्यादिविशेषणं परमपुरुषम् उपगच्छति, इत्यर्थः ।
‘भूमिजयक्रमेण ‘ इत्यत्र भूम्यादीनां पञ्चानां भूतानाम् , जयः - वशीकरणाम् - तस्य तस्य भूतस्य स्वाधीनचेष्टावैशिष्ट्यम् , तद्द्वारेण, इति एतदुच्यते । ‘स तम् ‘ इत्यादि व्याचष्टे -
स एवमिति
॥ १० ॥
येन केनचित् मन्त्रादिना ध्यानकाले भगवदनुस्मरणे प्राप्ते सति,अभिधानत्वे नियन्तुं स्मर्तव्यत्वेन प्रकृतपरमपुरुषस्य त्रैविद्यवृद्धप्रसिद्ध्या प्रामाणिकत्वम् आह -
पुनरपीति ।
उपायः - वक्ष्यमाण ओङ्कारः ।
अविषये प्रतीचि ब्रह्मणि वेदार्थविदामपि कथं वचनम् ? इत्याशङ्क्य, अविषयत्वम् अत्यक्त्वैव इति मत्वा, श्रुतिम् उदाहरति -
तद्वेति ।
तथापि तस्मिन् अविषये सर्वविशेषशून्ये वचनम् अनुचितम् इत्याशङ्क्य, आह -
सर्वेति ।
न केवलं विद्वदनुभवसिद्धं यथोक्तं ब्रह्म, किन्तु मुक्तोपसृप्यतया मुक्तानामपि प्रसिद्धम् , इत्याह -
किञ्चेति ।
केषां पुनः संन्यासित्वम् ? तदाह -
वीतरागा इति ।
ज्ञानार्थं ब्रह्मचर्यविधानादपि ब्रह्म ज्ञेयत्वेन प्रसिद्धम् इत्याह -
यच्चेति ।
कथं तर्हि यथोक्तं ब्रह्म मम ज्ञातुं शक्यम् ? इति आकुलितचेतसम् अर्जुनं प्रति आह -
तत्ते पदमिति
॥ ११ ॥
‘वक्ष्यमाणेन उपायेन’ इत्युक्तं व्यक्तीकुर्वन् ओङ्कारद्वारा ब्रह्मोपासनं श्रुत्युक्तम् अनुक्रामति -
सयो हेति ।
सत्यकामेन अभिध्यानफलं जिज्ञासुना भगवन्निति पिप्पलादः सम्बोध्य अभिमुखीक्रियते ।निपातौ तु प्रसिद्धम् अर्थमेव द्योतयन्तौ अभिध्यानस्य फलवत्वेन कर्तव्यत्वम् आवेदयतः । मनुष्येषु मध्ये सः, यो अधिकृतः मनुष्यः, तत् - प्रसिद्धम् अभिध्यानं यथा सिद्ध्यति, तथा सर्ववेदसारभूतम् ओङ्कारम् आभिमुख्येन ध्यायीत । तच्च अभिध्यानम्‘आप्रायणा ‘दिति न्यायेन मरणान्तम् अनुष्ठेयम् । स चैवम् अनुतिष्ठन्प्रकृतेन अभिध्यानेन लोकानां जेतव्यानां बहुत्वात् , कतमं लोकं जयति ? इति प्रश्नं पृष्टवते सत्यकामाय पिप्पलादनामा किल आचार्यः प्रतिवचनं प्रोवाच । तत्र प्रथमम् अभिध्येयम् ओङ्कारं परापरब्रह्मत्वेन महीकरोति -
एतद्वा इति ।
त्रिमात्रेण - अकारोकारमकारात्मकेन, इति यावत् । योऽभिध्यायीत, तमेव यथाभिध्यातं पुरुषम् अधिगच्छति, इत्यादिवचनेन उपासनम् ओङ्कारस्य उक्तम् , इत्यर्थः ।
प्रश्नश्नुतिवत् कठवल्ली च तत्रैवार्थे प्रवृत्ता, इत्याह -
अन्यत्रेति ।
अव्यवधानेन उपनिषदाम् , व्यवधानेन च कर्मश्रुतीनां परस्मिन् आत्मनि पर्यवसानं दर्शयति-
सर्व इति ।
तपसामपि सर्वेषां चित्तशुद्धिद्वारा तत्रैव पर्यवसानम् , इत्याह -
तपांसीति ।
तस्यैव च ज्ञानार्थम् अष्टाङ्गं ब्रह्मचर्य तत्र तत्र विहितम् , इत्याह -
यदिच्छन्त इति ।
तस्य पदनीयस्य ब्रह्मणः सङ्क्षेपेण कथनम् ओङ्कारद्वारकम् , इति कथयति -
ओमित्येतदिति ।
उदाहृतवचनानां तात्पर्यं दर्शयति-
परस्येति ।
तस्य वाचकरूपेण वा तस्यैव प्रतीकरूपेण वा विवक्षितस्य उपासनं यथोक्तैः वचनैः उक्तम् , इति सम्बन्धः ।
ननु - परस्मिन् ब्रह्मणि तत्वमस्यादिवाक्यादेव प्रतिपत्तिः अधिकारिणो भविष्यति, किमिति उपासनम् ओङ्कारस्य उपन्यस्यते ? तत्र आह -
परेति ।
यद्यपि विशिष्टाधिकारिणो विनैव उपासनं ब्रह्मणि प्रतिपत्तिः उत्पद्यते, तथापि मन्दानां मध्यमानां च तद्धीहेतुत्वेन ओङ्कारो विवक्षितः । तच्च उपासनं ब्रह्मदृष्ट्या श्रुतिभिरुपदिष्टम् , इत्यर्थः ।
तस्य क्रममुक्तिफलत्वात् अनुष्ठेयत्वं सूचयति -
कालान्तरेति ।
भवत्वेवं श्रुतीनां प्रवृत्तिः, तावता प्रकृते किमायातम् ? इत्याशङ्क्य, आह -
उक्तं यदिति ।
तदेव इहापि वक्तव्यम् , इति उत्तरेण सम्बन्धः ।
उपासनमेव उपास्योपन्यासद्वारा स्फोरयति -
कविमित्यादिना ।
पूर्वोक्तरूपेणेति - अभिधानत्वेन प्रतीकत्वेन च, इत्यर्थः ।
श्रौतस्य उपासनस्य अनूद्यमानस्य सोपस्करत्वं सङ्गिरते -
योगेति ।
तर्हि कथम् - ‘अनन्यचेताः सततम् ‘ इत्यादि वक्ष्यते तत्र आह -
प्रसक्तेति ।
ओङ्कारोपसनं प्रसक्तम् , तदनन्तरं तत्फलम् अनुप्रसक्तम् , तद् - द्वारा च अपुनरावृत्त्यादि वक्तव्यकोटिनिविष्टम् , इत्यर्थः ।
इत्येवमर्थ इति ।
श्रोत्रादीनां कुत्र द्वारत्वम् ? तत्र आह -
उपलब्धाविति ।
तेषां संयमनम् - विषयेषु प्रवृत्तानां दोषदर्शनद्वारा तेभ्यो वैमुख्यापादनम् ।
कोऽयं मनसो हृदये निरोधः ? तत्र आह -
निष्प्रचारमिति ।
मनसो विषयाकारवृत्तिं निरुध्य हृदि वशीकृतस्य कायं दर्शयति -
तत्रेति ।
‘ऊर्ध्वम् ‘ इत्यत्रापि हृदयात् इति सम्बध्यते । सर्वाणि उपलब्धिद्वाराणि श्रोत्रादीनि सन्निरुध्य, वायुमपि सर्वतो निगृह्य हृदयम् आनीय,ततो निर्गतया सुषुम्नया कण्ठभ्रूमध्यललाटक्रमेण प्राणं मूर्धनि आधाय योगधारणाम् आरूढोब्रह्म व्याहरन् , मां च तदर्थम् अनुस्मरन् , परमां गतिं याति, इति सम्बन्धः
॥ १२ ॥
यथोक्तयोगधारणार्थं प्रवृत्तो मूर्धनि प्राणम् आधाय - धारयन् किं कुर्यात् ? इत्याशङ्क्य, अनन्तरश्लोकम् अवतारयति -
तत्रैवेति ।
एकं च तत् अक्षरं च इति एकाक्षरम् - अोमित्येवंरूपम् , तत्कथंब्रह्मेति विशिष्यते ? तत्र आह -
ब्रह्मण इति ।
‘यः प्रयाति’(भ. गी. ८-५) इति मरणम् उक्त्वा ‘त्यजन् देहम् ‘ इति ब्रुवता पुनरुक्तिः आश्रिता स्यात् , इत्याशङ्क्य,विशेषणार्थं विवृणोति-
देहेेति ।
एवम् ओङ्कारम् उच्चारयन् अर्थं च अभिध्यायन् ध्याननिष्ठः स पुमान् , इत्यर्थः । परमामिति गतिविशेषणं क्रममुक्तिविवक्षया द्रष्टव्यम्
॥ १३ ॥
ननु - वायुनिरोधविधुराणाम् उदीरितया रीत्या स्वेच्छाप्रयुक्तोत्क्रमणासम्भवात् दुर्लभा परमा गतिः आपतेत् इति, तत्र आह -
किं चेति ।
इतश्च भगवदनुस्मरणे प्रयतितव्यम् , इत्यर्थः ।
सततम् , नित्यश इति विशेषणयोः अपुनरुक्तत्वम् आह -
सततमित्यादिना ।
उक्तमेव अपौनरूक्त्यं व्यक्तीकरोति -
नेत्यादिना ।
जितासुः इच्छया देहं त्यजति, तदितरस्तु कर्मक्षयेणैव इति विशेषं विवक्षयन् आह-
यत इति ।
अनन्यचेतसम् - समाहितचेतसं प्रति, ईश्वरस्य सौलभ्यम्एवमित्युच्यते
॥ १४ ॥
किं त्वां प्राप्ताः त्वय्येव अवतिष्ठन्ते ? किं वा पुनरावर्तन्ते चन्द्रलोकादिव ? इति सन्देहात् पृच्छति -
तवेति ।
तत्र उत्तरश्लोकेन निश्चयं दर्शयति -
उच्यत इति ।
ईश्वरोपगमनं न सामीप्यमात्रम् , इति व्याचष्टे -
मद्भावमिति ।
पुनर्जन्मनः अनिष्टत्वं प्रश्नद्वारा स्पष्टयति -
किमित्यादिना ।
महात्मत्वम् - प्रकृष्टसत्ववैशिष्ट्यम् । यतयः तस्मिन्नेव ईश्वरे समुत्पन्नसम्यग्दर्शिनो भूत्वा, इति शेषः ।
भगवन्तम् उपगतानाम् अपुनरावृ्त्तौ, ततो विमुखानाम् अनुपजातसम्यग्धियां पुनरावृत्तिः अर्थसिद्धा, इत्याह -
ये पुनरिति
॥ १५ ॥
‘अपामसोमममृता अभूम’ (ऋक् संं. ६ - ४ - ११)इति श्रुतेः स्वर्गादिगतानामपि समानैव अनावृत्तिः, इत्याशङ्क्यते -
किं पुनरिति ।
अर्थवादश्रुतौ कर्मिणाम् अमृतत्वस्य आपेक्षिकत्वं विवक्षित्वा परिहरति-
उच्यत इति ।
एतेन भूरादिलोकचतुष्टयं प्रविष्टानां पुनरावृत्तावपि जनआदिलोकत्रयं प्राप्तानाम् अपुनरावृत्तिः, इति विभागोक्तिः अप्रामाणिकत्वादेव हेया, इत्यवधेयम् । तर्हि तद्वदेव ईश्वरं प्राप्तानामपि पुनरावृत्तिः शङ्क्यते ? नेत्याह-
मामिति ।
यावत्सम्पातश्रुतिवत् ईश्वरं प्राप्तानां निवृत्ताविद्यानां पुनरावृत्तिः अप्रामाणिकी, इत्यर्थः । यस्य स्वाभाविकी वंशप्रयुक्ता च शुद्धिः तस्यैव उक्ते अर्थे बुद्धिरुदेति, इति मत्वा सम्बुद्धिद्वयम्
॥ १६ ॥
ब्रह्मलोकसहितानां पुनरावृत्तौ हेतुं प्रश्नद्वारा दर्शयति -
ब्रह्मेति ।
उक्तमेव हेतुम् आकाङ्क्षापूर्वकम् उत्तरश्लोकेन साधयति -
कथमित्यादिना ।
यथोक्ताहोरात्रावयवमासर्त्वयनसंवत्सरावयवशतसङ्ख्यायुरवच्छिन्नत्वात् प्रजापतेः तदन्तर्वर्तिनामपि लोकानां यथायोग्यकालपरिच्छिन्नत्वेन पुनरावृत्तिः, इत्यभिप्रेत्य व्याचष्टे -
सहस्रेत्यादिना ।
अक्षरार्थम् उक्त्वा, तात्पर्यार्थम् आह -
यत इति
॥ १७ ॥
यत् प्रजापतेः अहः, तद् युगसहस्रपरिमितम् , या च तस्य रात्रिः सापि तथा, इति कालविदाम् अभिप्रायम् अनुसृत्य ब्राह्मस्य अहोरात्रस्य कालपरिमाणं दर्शयित्वा तत्रैव विभज्य कार्यं कथयति -
प्रजापतेरिति ।
अव्यक्तम् अव्याकृतम् इतिशङ्कां वारयति -
अव्यक्तमित्यादिना ।
जातिप्रतियोगिभूता व्यक्तीः व्यावर्तयति -
स्थावरेति ।
असदुत्पत्तिप्रसक्तिं प्रत्यादिशति -
अभिव्यज्यन्त इति ।
पूर्वोक्तम् अव्यक्तसंज्ञकं स्वापावस्थं ब्रह्म प्रजापतिशब्दितम् , तस्मिन्निति यावत्
॥ १८ ॥
ननु - प्रबोधकाले ब्रह्मणः, यो भूतग्रामो भूत्वा, तस्यैव स्वापकाले विलीयते,तस्माद् अन्यो भूयो ब्रह्मणो अहरागमे भूत्वा, पुनः रात्र्यागमे परवशो विनश्यति । तदेवं प्रत्यवान्तरकल्पंभूतग्रामविभागो भवेत् , इत्याशङ्क्य, अनन्तरश्लोकतात्पर्यम् आह -
अकृतेति ।
प्रतिकल्पं प्राणिनिकायस्य भिन्नत्वे सति अकृताभ्यागमादिदोषप्रसङ्गात् तत्परिहारार्थं भूतग्रामस्य प्रतिकल्पम् ऐक्यम् आस्थेयम् , इत्यर्थः ।
यदि स्थावरजङ्गमलक्षणप्राणिनिकायस्य प्रतिकल्पम् अन्यथात्वम् , तदा एकस्य बन्धमोक्षान्वयिनोऽभावात् काण्डद्वयात्मनो बन्धमोक्षार्थस्य शास्त्रस्य प्रवृत्तिः अफला प्रसज्येत । अतः तत्साफल्यार्थमपि प्रतिकल्पं प्राणिवर्गस्य नवीनत्वानुपपत्तिः, इत्याह -
बन्धेति ।
कथं पुनः भूतसमुदायः अस्वतन्त्रः सन् अवशो भूत्वा प्रविलीयते ? तत्र आह -
अविद्यादीति ।
आदिशब्देन अस्मितारागद्वेषाभिनिवेशा गृह्यन्ते । यथोक्तंक्लेशपञ्चकं मूलं प्रतिलभ्य धर्माधर्मात्मककर्मराशिः उद्भवति । तद्वशादेव अस्वतन्त्रो भूतसमुदायो जन्मविनाशौ अनुभवति, इत्यर्थः ।
प्राणिनिकायस्य जन्मनाशाभ्यसोक्तेःअर्थम् आह -
इत्यत इति ।
संसारे विपरिवर्तमानानां प्राणिनाम् अस्वातन्त्र्यात् अवशानामेव जन्ममरणप्रबन्धात् अलम् अनेन संसारेण, इति वैतृष्ण्यं तस्मिन् प्रदर्शनीयम् । तदर्थं च इदं भूतानाम्अहोरात्रम् आवृत्तिवचनम् , इत्यर्थः ।
समनन्तरवाक्यम्इदमा परामृश्यते । रात्र्यागमे प्रलयम् अनुभवतः अहरागमे च प्रभवं प्रतिपद्यमानस्य प्रणिवर्गस्य तुल्यं पारवश्यम् , इत्याशयवान् आह -
अह्न इति
॥ १९ ॥
‘अक्षरं ब्रह्म परमम् ‘ इत्युपक्रम्य, तदनुपयुक्तं किमिदम् अन्यदुक्तम् , इत्याशङ्क्य वृत्तम् अनूद्य अनन्तरग्रन्थसङ्गतिम् आह -
यदुपन्यस्तमिति ।
अक्षरस्वरूपे निर्दिदिक्षिते, तस्मिन् पूर्वोक्तयोगमार्गस्य कथम् उपयोगः स्यात् , इत्याशङ्क्य, तत्प्राप्त्युपायत्वेन इत्याह -
अनेनेति ।
गन्तव्यमिति योगमार्गोक्तिः उपयुक्ता, इति शेषः । पूर्वोक्ताम् अव्यक्तात् इति सम्बन्धः ।
परशब्दस्य व्यतिरिक्तविषयत्वे तुशब्देन वैलक्षण्यम् उक्त्वा पुनः अन्यशब्दप्रयोगात् पौनरुक्त्यम् , इत्याशङ्क्य, आह -
व्यतिरिक्तत्व इति ।
तुनाद्योतितं वैलक्षण्यम् अन्यशब्देन प्रकटितम् । यतो भिन्नेष्वपि भावभेदेषु सालक्षण्यम् आलक्ष्यते, ततश्च अव्यक्तात् भिन्नत्वेऽपि ब्रह्मणः तेन सादृश्यम् आशङ्क्यते, तन्निवृत्त्यर्थम् अन्यपदम् , इत्यर्थः । यद्वा परशब्दस्य प्रकृष्टवाचिनो भावविशेषणार्थत्वे पुनरुक्तिशङ्कैव नास्ति, इति द्रष्टव्यम् ।
अनादिभावस्य अक्षरस्य अविनाशित्वाम् अर्थसिद्धं समर्थयते -
यः स भाव इति ।
सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति, स तु विनाशहेत्वभावान्न विनष्टम् अर्हति, इत्यर्थः
॥ २० ॥
यथोक्ते अव्यक्ते भावे श्रुतिसंमतिम् आह -
अव्यक्त इति ।
तस्य परमगतित्वं साधयति-
यं प्रप्येति ।
योऽसौ अव्यक्तो भावोऽत्र दर्शितः, सः ‘येनाक्षरं पुरुषं वेद सत्यम् ‘(मु.उ. १-२-१३) इत्यादिश्रुतौ अक्षर इत्युक्तः । तं चाक्षरं भावम् , परमां गतिम् , ‘पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’(क. उ. १-३-११) इत्याद्याः श्रुतयो वदन्ति, इत्याह -
योऽसाविति ।
परमपुरुषस्य परमगतित्वम् उक्तं व्यनक्ति -
यं भावमिति ।
‘तद्विष्णोः परमं पदम्’(क. उ. १-३-९) इति श्रुतिम् अत्र संवादयति -
तद्धामेति
॥ २१ ॥
ननु अव्यक्तात् अतिरिक्तस्य तद्विलक्षणस्य परमपुरुषस्य प्राप्तौ कश्चित् असाधारणो हेतुः एषितव्यः, यस्मिन् प्रेक्षापूर्वकारी तत्प्रेक्षणा प्रवृत्तो निर्वृणोति, तत्र आह -
तल्लब्धेरिति ।
परस्य पुरुषस्य सर्वकारणत्वं सर्वव्यापकत्वं च विशेषणद्वयम् उदाहरति -
यस्येति ।
निरतिशयत्वं विशदयति-
यस्मादिति ।
तुशब्दः अवधारणार्थः ।
भक्तिः - भजनं सेवा प्रदक्षिणप्रणामादिलक्षणा, तां व्यावर्तयति -
ज्ञानेति ।
उक्ताया भक्तेः विषयतो वैशिष्ट्यम् आह -
अनन्ययेति ।
कोऽसौ पुरुषः ? यद्विषया भक्तिः तत्प्राप्तौ पर्याप्ता, इत्याशङ्क्य, उत्तरार्धं व्याचष्टे -
यस्येति ।
कथम् भूतानां तदन्तस्थत्वम् ? तत्र आह -
कार्यं हीति ।
‘स पर्यगात्’(ई उ. ८) इति श्रुुतिम् आश्रित्य आह -
येनेति
॥ २२ ॥
ननु ज्ञानायत्ता परमपुरुषप्राप्तिः उक्ता । न च ज्ञानं मार्गम् अपेक्ष्य फलाय कल्पते, विदुषो गत्युत्क्रान्तिनिषेधश्रुतेः । तथा च मार्गोक्तिः अयुक्ता, इत्याशङ्क्य, सगुणशरणानां तदुपदेशो अर्थवान् , इत्यभिप्रेत्य आह -
प्रकृतानामिति ।
वक्तव्य इति, यत्र काले इत्याद्युच्यत इति सम्बन्धः ।
स चेद्वक्तव्यः, तर्हि किमिति अध्यात्मादिभावेन सविशेषं ब्रह्म ध्यायतां फलाप्तये मूर्धन्यनाडीसम्बद्धे देवयाने पथि उपास्यत्वाय वक्तव्ये कालो निर्दिश्यते ? तत्र आह -
विवक्षितेति ।
सोऽर्थो मार्गः, तदुक्तिशेषत्वेन कालोक्तिः इत्यर्थः ।
पितृयाणमार्गोपन्यासः तर्हि किमिति क्रियते ? तत्र आह-
आवृत्तीति ।
मार्गान्तरस्य आवृत्तिफलत्वात् , अस्य च अनावृत्तिफलत्वात् तदपेक्षया महीयान् अयम् , इति स्तुतिर्विवक्षिता इति भावः ।
योगिन इति ध्यायिनां कर्मिणां च तन्त्रेण अभिधानम् , इत्याह -
योगिन इति ।
कथं कर्मिषु योगशब्दो वर्तताम् ? , इत्याशङ्क्य, अनुष्ठानगुणयोगात् इत्याह-
कर्मिणस्त्विति ।
गुणतो योगिन इति सम्बन्धः ।
तत्रैव वाक्योपक्रमस्य आनुकूल्यम् आह -
कर्मयोगेनेति ।
अवशिष्टानि अक्षराणि व्याचक्षाणो वाक्यार्थम् आह -
यत्रेति ।
योगिनो ध्यायिनोऽत्र विवक्षिताः, आवृतौ अधिकृता योगिनः कर्मिण इति विभागः ।
काल - प्राधान्येन मार्गद्वयोपन्यासम् उपक्रम्य तमेव प्रधानीकृत्य देवयानं पन्थानम् अवतारयति -
तं कालमिति
॥ २३ ॥
यथोपक्रमं व्याख्याय यथाश्रुतं व्याख्याति -
अथवेति ।
कथं तर्हि देवतानां अतिनेत्रीणां ग्रहणे कालप्राधान्येन निर्देशः श्लिष्यते ? तत्र आह -
भूयसां त्विति ।
मार्गद्वयेऽपि कालाद्यभिमानिन्यो देवताः कालशब्देन उच्यन्ते । कालाभिमानिनीनां भूयस्त्वात् कालशब्देन सर्वासां देवतानाम् उपलक्षणत्वं विवक्षित्वा कालकथनम् इत्यर्थः ।
यथा आम्राणां भूयस्त्वात् विद्यमानेष्वपि द्रुमान्तरेषु आम्रैरेव वनं निर्दिश्यते, तद्वत् इति उदाहरणम् आह -
आम्रेति ।
ननु मार्गचिह्नानां भोगभूमीनां वा तत्तच्छब्दैः उपादानसम्भवे किमिति देवताग्रहणम् ? इत्याशङ्क्य, ‘अतिवाहिकस्तल्लिङ्गात्’(ब्र.सू. ४-३-४) इति न्यायेन उत्तरम् आह -
इति स्थित इति ।
तेषाम् अग्न्यादीनां समीपम् , इति सामीप्ये ‘तत्र’ इति सप्तमी । ब्रह्म कार्योपाधिकम् , परं वा ब्रह्म परम्परया मुक्त्यालम्बनम् । अत एव ‘क्रमेण’ इत्युक्तम् ।
निर्गुणम् अप्रपञ्चं ब्रह्मस्मि, इति विद्यावतो व्यवच्छिनत्ति -
ब्रह्मोपासनेति ।
ननु ब्रह्मशब्दस्य मुख्यार्थत्वार्थं परब्रह्मविदामेव इयं गतिः उच्यते, न बादर्यधिकरणविरोधात् इत्याह -
न हीति
॥ २४ ॥
प्रकृतं देवयानं पन्थानं स्तोतुं पितृयाणम् उपन्यस्यति-
धूम इति ।
अत्रापि मार्गचिह्नानि भोगभूमीश्च व्यवच्छिद्य आतिवाहिकदेवताविषयत्वं धूमादिपदानां विभजते -
धूमेत्यादिना ।
तत्रेति सप्तमी पूर्ववदेव सामीप्यार्था, ‘इष्टादि’ इत्यादिशब्देनपूर्तदत्तेगृह्येते । ‘कृतात्ययेऽनुशयवान् ‘(ब्र. सू. ३ - १ - ८) इति न्यायं सूचयति -
तत्क्षयादिति
॥२५॥
आरोहावरोहयोः अभ्यासवाचिना पुनश्शब्देन संसारस्य अनादित्वं सूच्यतेे । रात्र्यादौ मृतानां ब्रह्मविदाम् अब्रह्मप्राप्तिशङ्कानिवृत्त्यर्थम् अभिमानिदेवताग्रहणाय मार्गयोः नित्यत्वम् आह -
शुक्लेति ।
ज्ञानप्रकाशकत्वात् - विद्याप्रप्यत्वात् अर्चिरादिप्रकाशोपलक्षितत्त्वाच्च, शुक्ला देवयानाख्या गतिः । तदभावात् - ज्ञानप्रकाशकत्वाभावात् धूमाद्यप्रकाशोपलक्षितत्वात् अविद्याप्राप्यत्वाच्च, कृष्णा पितृयाणलक्षणा गतिः । तयोर्गत्योः श्रुतिस्मृतिप्रसिद्ध्यर्थो हिशब्दः ।
जगच्छब्दस्य ज्ञानकर्माधिकृतविषयत्वेन सङ्कोचे हेतुम् आह -
न जगत इति ।
अन्यथा ज्ञानकर्मोपदेशानर्थक्यात् , इत्यर्थः ।
तयोर्नित्यत्वे हेतुम् आह -
संसारस्येति ।
मार्गयोः यावत्संसारभावित्वे फलितम् आह -
तत्रेति ।
क्रममुक्तिः - अनावृतिः । भूयः - भोक्तव्यकर्मक्षये शेषकर्मदशात् , इत्यर्थः
॥ २६ ॥
गतेः उपास्यत्वाय तद्विज्ञानं स्तौति -
नैते इति ।
योगस्य मोहापोहकत्वे फलितम् आह -
तस्मादिति ।
ज्ञानप्रकारम् अनुवदति -
संसारायेति ।
मोक्षाय - क्रममुक्त्यर्थम् इत्यर्थः । योगी ध्याननिष्ठः गतिमपि ध्यायन् नैव मुह्यति, केवलं कर्मं दक्षिणमार्गप्रापकं कर्तव्यत्वेन न प्रत्येति इत्यर्थः ।
योगस्य अपुनरावृत्तिफलत्वे नित्यकतंव्यत्वं सिद्धम् इति उपसंहरति -
तस्मादिति
॥ २७ ॥
श्रद्धाविवृद्ध्यर्थं योगं स्तौति -
श्रृण्विति ।
पवित्रपाणित्वप्राङ्मुखत्वादिसाहित्यम् अध्ययनस्य सम्यक्त्वम् । अङ्गोपाङ्गोपेतत्वम् अनुष्ठानस्य साद्गुण्यम् । तपसां सुतप्तत्वं मनोबुद्ध्याद्यैकाग्र्यपूर्वकत्वम् । दानस्य च सम्यकत्वं देशकालपात्रानुगुणत्वम् ।
‘इदं विदित्वा’ इत्यत्र इदंशब्दार्थमेव स्फुटयति-
सप्तेति ।
यद्यपि ‘किं तद्ब्रह्म’(भ. गी. ८-१) इत्यादौ, ‘अधियज्ञः कथं कोऽत्र’(भ. गी. ८-२) इत्यत्र प्रश्नद्वयंप्रतिभासानुसारेण कश्चित् उक्तम् , तथापि प्रतिवचनालोचनायां द्वित्वप्रतीत्यभावात् प्रकारभेदविवक्षया चशब्दद्वयस्य प्रतिनियतत्वात् न सप्तेति विरुध्यते ।
न च इदं वेदनम् आपातिकं किन्तु अनुष्ठानपर्यन्तम् इत्याह -
सम्यगिति ।
प्रकृतो ध्याननिष्ठः योगी इत्युच्यते । ऐश्वरम् - विष्णोः परमं पदम् , तदेव तिष्ठति अस्मिन् अशेषम् इति स्थानम् । योगानुष्ठानात् अशेषफलातिशायि मोक्षलक्षणं फलं क्रमेण लब्धुं शक्यम् इति भावः । तदनेन सप्तप्रश्नप्रतिवचनेन योगमार्गं दर्शयता ध्येयत्वेन तत्पदार्थो व्याख्यातः
॥ २८ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने अष्टमोऽध्यायः ॥ ८ ॥