आनन्दगिरिटीका (गीताभाष्य)
नवमोऽध्यायः
अतीतेन आगामिनोऽध्यायस्य अगतार्थत्वं वक्तुं वृत्तमनुवदति -
अष्टम इति ।
नाडी - सुषुम्नाख्या । धारणाख्येन अङ्गेन युक्ता योगो धारणायोगः । सगुणः - सर्वद्वारसंयमनादिगुणः, तेन सहित इत्यर्थः ।
तत्फलोक्त्यर्थम् अनन्तराध्यायारम्भम् आशङ्क्य, आह -
तस्य चेति ।
‘अग्निरर्चिः’ इत्यादिना उपलक्षितेन क्रमवता, देवयानेन पथा इति यावत् ।
ज्ञानानन्तरमेव यथोक्तफललाभात् अलम् अनेन मार्गेण, इत्याशङ्क्य, आह -
कालान्तर इति ।
अर्चिरादिमार्गेण ब्रह्मप्राप्तौ मुक्तेः मार्गायत्तत्वात् ‘न तस्य’ इत्यादिश्रुतिविरोधः स्यात् , इत्याशयेन शङ्कते -
तत्रेति ।
वृत्तोऽर्थः सप्तम्यर्थः ।
उक्ताशङ्कानिवृत्त्यर्थम् अनन्तराध्यायम् उत्थापयति -
तदाशङ्केति ।
सम्प्रयुक्तत्वेन अपरोक्षत्वाभावेऽपि पूर्वोत्तरग्रन्थालोचनया बुद्धिसन्निधानात् इदंशब्देन ब्रह्मज्ञानं गृहीतम् ; इत्याह -
तद् - बुद्धाविति ।
प्रकृतात् ध्यानात् ज्ञानस्य वैशिष्ट्यावद्योती तुशब्दः, इत्याह -
तुशब्दइति ।
निपातार्थमेव स्फुटयति -
इदमेवेति ।
तस्मिन्नर्थे संवादकत्वेन श्रृतिस्मृती दर्शयति -
वासुदेव इति ।
अद्वैतज्ञानवत् द्वैतज्ञानमपि केषाञ्चित् मोक्षहेतुः, इत्याशङ्क्य, आह -
नान्यदिति ।
द्वैतज्ञानं मोक्षाय न क्षमम् , इत्यत्र श्रुतिम् उदाहरति -
अथेति ।
अविद्याप्रकरणोपक्रमार्थः अथशब्दः । अतः - अद्वैतात् , अन्यथा - भिन्नत्वेन, इत्यर्थः । विदुः, तत्त्वमिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वात् न क्षेममिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वात् न क्षेमप्राप्तिहेतुः, इति चकारार्थः । असूया - गुणेषु दोषाविष्करणम् , तद्रहिताय, ज्ञानाधिकृताय इत्यर्थः ।
ज्ञानम् - ब्रह्मचैतन्यं, तद्विषयं वा प्रमाणज्ञानम् , तस्य तेनैव विशेषितत्वानुपपत्तिम् आशङ्क्य, व्याकरोति -
अनुभवेति ।
विज्ञानम् - अनुभवः - साक्षात्कारः, तेन सहितम् इत्यर्थः ।
उक्तज्ञानं प्राप्तस्य किं स्यात् ? इत्याशङ्क्य, आह -
यज्ज्ञानमिति
॥ १ ॥
तदाभिमुख्यसिद्धये तज्ज्ञानं स्तौति -
तच्चेति ।
ब्रह्मविद्या विद्यानां राजा श्रेष्ठा इत्यत्र हेतुमाह -
दीप्तीति ।
कुतो ब्रह्मविद्याया विद्यान्तरेभ्यो दीप्त्यतिशयवत्त्वम् ? तदाह -
दीप्यते हीति ।
दृश्यते हि विद्वदन्तरेभ्यो लोके पूजातिरेको ब्रह्मविदाम् , इति भावः ।
उत्कृष्टतमं शुद्धिकारणं ब्रह्मज्ञानम् , इत्येतत् उपपादयति -
अनेकेति ।
तत्र च श्रुतिस्मृती प्रमाणयितव्ये । न शास्त्रेैकगम्यम् इदं ज्ञानम् , किन्तु प्रत्यक्षप्रमेयम् इत्याह -
किञ्चेति ।
प्रत्यक्षम् , अवगमो मानम् अस्मिन् इति तथा, यद्वा अवगम्यत इति अवगमः फलम् , प्रत्यक्षः अवगमः अस्य, इति दृष्टफलकत्वं ज्ञानस्य उच्यते ।
धर्म्यम् इत्येतद् व्याकरोति -
अनपेतमिति ।
धर्मस्येव तस्य क्लेशसाध्यत्वम् आशङ्क्य, आह -
एवमपीति ।
तत्र रत्नविषयं विवेकज्ञानं सम्प्रयोगात् उपदेशापेक्षात् अनायासेन दृष्टम् , तथा इदं ब्रह्मज्ञानम् , इत्याह -
तथेति ।
‘अव्ययम् ‘ इति विशेषणम् आशङ्कापूर्वकं विवृणोति -
तत्रेत्यादिना ।
व्यवहारभूमिः सप्तम्यर्थः ।
ज्ञानस्य अक्षयफलत्वे फलितमाह -
अत इति
॥ २ ॥
आत्मज्ञानाख्ये धर्मे श्रद्धावतां तन्निष्ठानां परमपदप्राप्तिमुक्त्वा, ततो विमुखानां संसारप्राप्तिम् आह -
ये पुनरिति ।
आत्मज्ञानतत्फलयोः नास्तिकानेव विशिनष्टि -
पापेति ।
उक्तानाम् आत्मम्भरीणां भगवत्प्राप्तिसम्भावनाभावात् ‘ अप्राप्य माम् ‘ इति अप्रसक्तप्रतिषेधः स्यात् , इत्याशङ्क्य, आह-
मत्प्राप्ताविति
॥ ३ ॥
स्तुतिनिन्दाभ्यां ज्ञाननिष्ठां महीकृत्य ज्ञानं व्याख्यातुमारभते -
स्तुत्येति ।
सोपाधिकस्य व्याप्त्यसम्भवम् अभिप्रेत्य विशिनष्टि -
ममेति ।
अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति -
करणेति ।
व्याप्यव्यापकत्वेन जगतो भगवतश्च परिच्छेदमाशङ्क्य, आह -
तस्मिन्निति ।
तथापि भगवतो भूतानाञ्च आधाराधेयत्वेन भेदः स्यात् , इत्याशङ्क्य, आह -
नहीति ।
निरात्मकस्य व्यवहारानर्हत्वे फलितमाह -
अत इति ।
ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यात् , इत्याशङ्क्य, आह -
तेषामिति ।
तस्य तेषु स्थित्यभावं व्यवस्थापयति -
मूर्तवदिति ।
संश्लेषाभावेऽपि किमिति न आधेयत्वम् , अत आह -
नहीति
॥ ४ ॥
परमेश्वरस्य भूतेषु स्थित्यभावेऽपि भूतानां तत्र स्थितिः आस्थिता, इति, कुतोऽसङ्गत्वम् ? तत्राह -
अत एवेति ।
‘न च ‘ इत्यत्र चकारः अवधारणार्थः ।
भूतानाम् ईश्वरे नैव स्थितिः, इत्यत्र हेतुमाह -
पश्येति ।
आत्मनोऽसङ्गत्वं स्वरूपम् , इत्यत्र प्रमाणमाह -
तथा चेति ।
असङ्गश्चेत् ईश्वरः, तर्हि कथं ‘मत्स्थानि भूतानि’(भ. गी. ५-५) इत्युक्तम् , कथञ्च तथोक्त्वा ‘न च भत्स्थानि’ इति तद्विरुद्धमुदीरितम् , इत्याशङ्क्य, आह -
इदञ्चेति ।
तर्हि भूतसम्बन्धः स्यात् , इति नेत्याह -
नचेति ।
यथोक्तेन न्यायेन - असङ्गत्वेन, इति यावत् । असङ्गतया वस्तुतो भूतासम्बन्धेऽपि कल्पनया तदविरोधात् न मिथो विरोधोऽस्ति, इति भावः ।
आत्मनः सकाशात् आत्मनोऽन्यत्वायोगात् कुतः सम्बन्धोक्तिः ? इत्याशङ्क्य, आह -
असाविति ।
(विभज्येति) । यथा लोको वस्तुतत्त्वमजानन् भेदम् आरोप्य ‘ममायम् ‘ इति सम्बन्धमनुभवति, न तथा इह सम्बन्धव्यपदेशः, आत्मनि स्वतो भेदाभावात् । अतो भेदे असत्येव लोके सम्बन्धबुद्धिदर्शनम् अनुसरन् भगवान् आत्मनो देहादिसङ्घातं विभज्य अहङ्कारं तस्मिन् आरोप्य ‘असौ ममात्मा’ इति भेदं व्यपदिशति । तथा च सङ्घातस्य ‘मम’ इति व्यपदेशात् ततो नि(कृ)ष्कृष्टस्य स्वरूपस्य आत्मशब्देन निर्देशात् न भूतस्थोऽसौ, इत्यर्थः ।
पूर्वोक्तासङ्गत्वाङ्गीकारेणैव आत्मा भूतानि भावयति, इत्याह -
तथेति
॥ ५ ॥
सृष्टिस्थितिसंहाराणां असङ्गात्माधारत्वं ‘मया ततमिदम्‘(भ. गी. ९-४) इत्यादि श्लोकद्वयेन उक्तोऽर्थः । तं दृष्टान्तेन उपपादयन् आदौ दृष्टान्तमाह, इति योजना । ‘सदा’ इति उत्पत्तिस्थितिसंहारकालो गृह्यते । आकाशादेः महतोऽन्याधारत्वं कथम् ? इत्याशङ्क्य, आह -
महानिति ।
यथा सर्वगामित्वात् परिमाणतो महान् वायुः आकाशे सदा तिष्ठति, तथा आकाशादीनि महान्त्यपि सर्वाणि भूतानि आकाशकल्पे पूर्णे प्रतीचि असङ्गे परस्मिन् आत्मनि संश्लेषमन्तरेण स्थितानि, इत्यर्थः
॥ ६ ॥
आकाशे वाय्वादिस्थितिवत् आकाशादीनि भूतानि स्थितिकाले परमेश्वरे स्थितानि चेत् , तर्हि प्रळयकाले ततोऽन्यत्र तिष्ठेयुः, इत्याशङ्क्य, आह -
एवमिति ।
प्रकृतिशब्दस्य स्वभाववचनत्वं व्यावर्तयति -
त्रिगुणात्मिकामिति ।
सा च अपरेयं, इति प्रागेव सूचिता, इत्याह -
अपरामिति ।
तस्याश्च ईश्वराधीनत्वेन अस्वातन्त्र्यमाह –
मदीयामिति ।
प्रळयकाले भूतानि यथोक्तां प्रकृतिं यान्ति चेत् उत्पत्तिकालेऽपि ततस्तेषाम् उत्पत्तेः ईश्वराधीनत्वं भूतसृष्टेः न स्यात् , इत्याशङ्क्य, आह -
पुनरिति
॥ ७ ॥
तर्हि कीदृशी प्रकृतिः ? सा च कथं सृष्टौ उपयुक्ता, इत्याशङ्क्य, आह -
एवमिति ।
संसारस्य अनादित्वद्योतनार्थं पुनः पुनः इत्युक्तम् ।
भूतसमुदायस्य अविद्यास्मितादिदोषपरवशत्वे हेतुम् आह -
स्वभाववशादिति
॥ ८ ॥
यदि प्रकृतं भूतग्रामं स्वभावात् अविद्यातन्त्रं विषमं विदाधासि, तर्हि तव विषमसृष्टिप्रयुक्तं धर्मादिमत्त्वम् इति अनीश्वरत्वापत्तिः इति शङ्कते -
तर्हिति ।
‘तत्र’ इति सप्तम्या परमेश्वरो निरुच्यते । ईश्वरस्य फलासङ्गाभावात् कर्तृत्वाभिमानाभावाच्च कर्यासम्बन्धवत् ईश्वरात् अन्यस्यापि तदुभयाभावः धर्माद्यसम्बन्धे कारणम् , इत्याह-
अतोऽन्यस्येति ।
यदि कर्मसु कर्तृत्वाभिमानो वा कस्यचित् कर्मफलसङ्गो वा स्यात् , तत्राह -
अन्यथेति
॥ ९ ॥
ईश्वरे स्रष्टृत्वं ओदासीन्यं च विरुद्धम् , इति शङ्कते -
तत्रेति ।
पूर्वग्रन्थः सप्तम्यर्थः ।
विरोधपरिहारार्थम् उत्तरश्लोकम् अवतारयति -
तदिति ।
तृतीयाद्वयं समानाधिकरणम् , इति अभ्युपेत्य व्याचाष्टे -
मयेत्यादिना ।
प्रकृतिशब्दार्थम् आह -
ममेति ।
तस्या अपि ज्ञानत्वं व्यावर्तयति-
त्रिगुणेति ।
पराभिप्रेतं प्रधानं व्युदस्यति -
अविद्येति ।
साक्षित्वे प्रमाणम् आह -
तथा चेति ।
मूर्तित्रयात्मना भेदं वारयति-
एक इति ।
अखण्डं जा़ड्यं प्रत्याह -
देव इति ।
आदित्यवत् ताटस्थ्यं प्रत्यादिशति -
सर्वभूतेष्विति ।
किमिति तर्हि सर्वैः नोपलभ्यते ? तत्र आह -
गूढ इति ।
बुद्ध्यादिवत् परिच्छिन्नत्वं व्यवच्छिनत्ति -
सर्वव्यापीति ।
तर्हि नभोवत् अनात्मत्वम् ? नेत्याह -
सर्वभूतेति ।
तर्हि तत्र तत्र कर्मतत्फलसम्बन्धित्वं स्यात् , तत्र आह -
कर्मेति ।
सर्वाधिष्ठानत्वम् आह -
सर्वेति ।
सर्वेषु भूतेषु सत्तास्फू्र्तिप्रदत्वेन सन्निधिः वासः अत्र उच्यते ।
न केवलं कर्मणामेव अयम् अध्यक्षः अपि तु तद्वतामपि, इत्याह -
साक्षीति ।
दर्शनकर्तृत्वशङ्कां शातयति -
चेतेति ।
अद्वितीयत्वम् - केवलत्वम् ।
धर्माधर्मादिराहित्यम् आह -
निर्गुण इति ।
किं बहुना ? सर्वविशेषशून्य इति चकारार्थः ।
उदासीनस्यापि ईश्वरस्य साक्षित्वमात्रं निमित्तीकृत्य जगदेतत् पौनःपुन्येन सर्गसंहारौ अनुभवति, इत्याह -
हेतुनेति ।
कार्यवत् कारणस्यापि साक्ष्यधीना प्रवृत्तिः, इति वक्तुं व्यक्ताव्यक्तात्मकम् इत्युक्तम् । ‘सर्वावस्थासु’ इत्यनेन सृष्टिस्थितिसंहारावस्था गृह्यन्ते । तथापि जगतः सर्गादिभ्यो भिन्ना प्रवृत्तिः स्वाभाविकी, न ईश्वरायत्ता, इत्याशङ्क्य, आह -
दृशीति ।
न हि दृशि व्याप्यत्वं विना जडवर्गस्य कापि प्रवृत्तिः, इति हिशब्दार्थः । तामेव प्रवृत्तिम् उदाहरति -
अहमित्यादिना ।
भोगस्य विषयोपलम्भाभावे असम्भवात् नानाविधां विषयोपलब्धिं दर्शयति -
पश्यामीति ।
भोगफलं इदानीं कथयति -
सुखमिति ।
विहितप्रतिषिद्धाचरणनिमित्तं सुखन्दुःखं च, इत्याह -
तदर्थमिति ।
न च विमर्शपूर्वकं विज्ञानं विना अनुष्ठानम् , इत्याह -
इदमिति ।
इत्याद्या प्रवृत्तिः, इति सम्बन्धः । सा च प्रवृत्तिः सर्वा दृक्कर्मत्वम् उररीकृत्यैव इत्युक्तं निगमयति -
अवगतीति ।
तत्रैव च प्रवृत्तेः अवसानम् , इत्याह -
अवगत्यवसानेति ।
परस्य अध्यक्षत्वमात्रेण जगच्चेष्टा, इत्यत्र प्रमाणमाह -
यो अस्येति ।
अस्य - जगतः, यो अध्यक्षः - निर्विकारः, स परमे - प्रकृष्टे, हार्दे व्योम्नि स्थितः, दुर्विज्ञेय इत्यर्थः ।
ईश्वरस्य साक्षित्वमात्रेण स्रष्टृत्वे स्थिते फलितमाह -
ततश्चेति ।
किं निमित्ता परस्य इयं सृष्टिः ? न तावत् भोगार्था, परस्य परमार्थतो भोगासम्बन्धित्वात् तस्य सर्वसाक्षिभूतचैतन्यमात्रत्वात् । न चान्यो भोक्ता, चेतनान्तराभावात् ईश्वरस्य एकत्वात् अचेतनस्य अभोक्तृत्वात् । न च स्रष्टुः अपवर्गार्था, तद्विरोधित्वात् । नैवं प्रश्नो वा तदनुरूपं प्रतिवचनं वा युक्तम् , परस्य मायानिबन्धने सर्गे तस्य अनवकाशत्वात् , इत्यर्थः ।
परस्य आत्मनः दुर्विज्ञेयत्वे श्रुतिम् उदाहरति -
को अद्धेति ।
तस्मिन् प्रवक्तापि संसारमण्डले नास्ति, इत्याह -
क इहेति ।
जगतः सृष्टिकर्तृत्वेन परस्य ज्ञेयत्वम् आशङ्क्य कूटस्थत्वात् ततो न सृष्टिर्जाता, इत्याह -
कुत इति ।
नहि इयं विविधा सृष्टिः अन्यस्मादपि कस्माच्चित् उपपद्यते, अन्यस्य वस्तुनो अभावात् , इत्याह-
कुत इति ।
कथं तर्हि सृष्टिः ? इत्याशङ्क्य, अज्ञानाधीना, इत्याह -
दर्शितं चेति
॥ १० ॥
सर्वाध्यक्षः सर्वभूताधिवासो नित्यमुक्तश्चेत् त्वम् , तर्हि किमिति त्वामेव आत्मत्वेन भेदेन वा सर्वे न भजन्ते ? तत्राह -
एवमिति ।
विपर्यस्तबुद्धित्वं भगवदवज्ञायां कारणम् , इत्याह -
मूढा इति ।
भगवतो मनुष्यदेहसम्बन्धात् तस्मिन् विपर्यासः सम्भवति, इत्याह -
मानुषीमिति ।
अस्मदादिवत् देहतादात्म्याभिमानं भगवतो व्यावर्तयति -
मनुष्येति ।
भगवन्तम् अवजानताम् अविवेकमूलाज्ञानं हेतुमाह -
परमिति ।
ईश्वरावज्ञानात् किं भवति ? इत्यपेक्षायां तदवज्ञानप्रतिबद्धबुद्धयः शोच्या भवन्ति, इत्याह -
ततश्चेति ।
भगवदज्ञानादेव हेतोः अवजानन्तः, ते - जन्तवः, वराकाः - शोच्याः, सर्वपुरुषार्थबाह्याः स्युः इति सम्बन्धः ।
तत्र हेतुं सूचयति -
तस्येति ।
प्रकृतस्य भगवतः अवज्ञानम् अनादरणं निन्दनं वा, तस्य भावनं पौनःपुन्यम् , तेन आहताः तज्जनितदुरितप्रभावात् प्रतिबद्धबुद्धयः इत्यर्थः
॥ ११ ॥
भगवन्तम् अवजानतां प्रश्नपूर्वकं शोच्यत्वं विशदयति -
कथमिति ।
भगवन्निन्दापराणां न काचिदपि प्रार्थना अर्थवती, इत्याह -
वृथेति ।
ननु भगवन्तं निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्म अनुतिष्ठन्ति, तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भविष्यन्ति, इति ; नेत्याह -
तथेति ।
परिभवः - तिरस्करणम् , अवज्ञानं - अनादरणम् । तेषामपि शास्त्रर्थज्ञानवतां तद्द्वारा प्रार्थनार्थवत्वं, इत्याशङ्क्य, आह -
तथा मोघेति ।
तथापि यौक्तिकविवेकवशात् तत्प्रार्थनासाफल्यं, इत्याशङ्क्य, आह -
विचेतस इति ।
न केवलम् उक्तविशेषणवत्वमेव तेषां, किन्तु वर्तमानदेहपातात् अनन्तरं तत्तदतिक्रूरयोनिप्राप्तिश्च निश्चिता, इत्याह -
किञ्चेति ।
मोहकरीं इति प्रकृतिद्वयेऽपि तुल्यं विशेषणम् , छिन्धि भिन्धि, पिब खाद, इति प्राणिहिंसारूपो रक्षसां स्वभावः, असुराणां स्वभावस्तु न देहि, न जुहुधि, परस्वमेव अपहर, इत्यादिरूपः, मोहः -मिथ्याज्ञानम् ।
उक्तमेव स्फुटयति -
छिन्धीति
॥ १२ ॥
के पुनः भगवन्तं भजन्ते ? तानाह -
ये पुनरिति ।
महान् - प्रकृष्टः, यज्ञादिभिः शोधितः, आत्मा - सत्वं, येषाम् , इति व्युत्पत्तिमाश्रित्य, आह -
अक्षुद्रेति ।
तुशब्दः अवधारणे ।
प्रकृतिं विशिनष्टि -
शमेति ।
अनन्यस्मिन् - प्रत्यग्भूते मयि परस्मिन्नेव, मनः येषाम् इति व्युत्पत्या व्याकरोति -
अनन्यचित्ता इति ।
अज्ञाते सेवानुपपत्तेः शास्त्रोपपत्तिभ्याम् आदौ ज्ञात्वा ततः सेवन्ते, इत्याह -
ज्ञात्वेति ।
अव्ययम् - अविनाशिनम्
॥ १३ ॥
भजनप्रकारं पृच्छति -
कथमिति ।
तत्प्रकारम् आह -
सततमिति ।
“ सर्वदा “ इति श्रवणावस्था गृह्यते । कीर्तनं - वेदान्तश्रवणं प्रणवजपश्च, व्रतं - ब्रह्मचर्यादि, नमस्यन्तः - माम्प्रति चेतसा प्रह्वीभवन्तः, भक्त्या - परेण प्रेम्णा, नित्ययुक्ताः सन्तः - सदा सम्युक्ताः
॥ १४ ॥
उपासनप्रकारभेदप्रतिपित्सया पृच्छति -
ते केनेति ।
तत्प्रकारभेदोदीरणार्थं श्लोकम् अवतारयति -
उच्यत इति ।
इज्यते पूज्यते परमेश्वरः अनेन, इति, प्रकृते ज्ञाने यज्ञशब्दः । ‘ईश्वरञ्च’ इति चकारः अवधारणे ।
देवतान्तरध्यानत्यागम् अपिशब्दसूचितं दर्शयति -
अन्याम् इति ।
अन्ये - ब्रह्मनिष्ठा इति यावत् ।
ज्ञानयज्ञमेव विभजते -
तच्चेति ।
उत्तमाधिकारिणाम् उपासनम् उक्त्वा, मध्यमानाम् अधिकारिणाम् उपासनप्रकारम् आह -
केचिच्चेति ।
तेषामेवाहं यज्ञः स्मार्तः किंच स्वधाहं पित्ुभ्यो यद्दीयते तत्स्वधा । तथाहमोउषधं सर्वप्र्राणिभिर्यदद्यते । प्रकारान्तरेण उपासनम् उदीरयति -
केचिदिति ।
बहुप्रकारेण अग्नयादित्यादिरूपेण, इति यावत्
॥ १५ ॥
भगवदेकविषयम् उपासनं तर्हि न सिद्ध्यति, इति शङ्कते -
यदि इति ।
प्रकारभेदमादाय ध्यायन्तोऽपि भगवन्तमेव ध्यायन्ति, तस्य सर्वात्मकत्वात् , इत्याह -
अत आहेति ।
क्रतुयज्ञशब्दयोः अपौनरुक्त्यं दर्शयन् व्याचष्टे -
श्रौत इति ।
क्रियाकारकफलजातं भगवदतिरिक्तं नास्ति, इति समुदायार्थः
॥ १६ ॥
इतश्च भगवतः सर्वात्मकत्वम् अनुमन्तव्यम् , इत्याह -
किञ्चेति ।
पवित्रम् - पूयते अनेन, इति व्यत्पत्या परिशुद्धिकारणं पुण्यं कर्म, इत्याह -
पावनम् इति ।
वेदितव्ये ब्रह्मणि वेदनसाधनम् ओङ्कारः, तत्र प्रमाणम् ऋगादि । चकारात् अथर्वाङ्गिरसो गृह्यते
॥ १७ ॥
भगवतः सर्वात्मकत्वे हेत्वन्तरम् आह -
किञ्चेति ।
गम्यत इति प्रकृतिविलयान्तं कर्मफलं गतिः इत्याह -
कर्मेति ।
पोष्टा - कर्मफलस्य प्रदाता ।
कार्यकारणप्रपञ्चस्य अधिष्ठानम् इत्याह -
निवास इति ।
शीर्यते दुःखम् अस्मिन् इति व्युत्पत्तिम् आश्रित्य आह -
शरणमिति ।
प्रभवति अस्मात् जगत् इति व्युत्पत्तिम् आदाय उक्तम् -
उत्पत्तिरिति ।
कारणस्य कथम् अव्ययत्वम् ? इत्याशङ्क्य आह -
यावदिति ।
कारणम् अन्तरेणापि कार्यं कदाचित् उदेष्यति, किं कारणेन ? इत्याशङ्क्य आह -
न हीति ।
माभूत् तर्हि संसारदशायामेव कदाचित् कार्योत्पत्तिः इत्याशङ्क्य आह -
नित्यं चेति ।
कारणव्यक्तेः नाशम् अङ्गीकृत्य तदन्यतमव्यक्तिशून्यत्वं पूर्वकालस्य नास्तीति सिद्धवत्कृत्य विशिनष्टि -
बीजेति
॥ १८ ॥
इतश्च सर्वात्मत्वे भगवतो न विवदितव्यम् इत्याह -
किञ्चेति ।
“आदित्यात् जायते वृष्टिः“ (मनुः - ३ - ७६ ॥ ) इति स्मृतिम् अवष्टभ्य व्याचष्टे -
कैश्चिदिति ।
वर्षोत्सर्गनिग्रहौ एकस्य एकस्मिन् काले विरुद्धौ इत्याशङ्क्य आह -
अष्टभिरिति ।
ऋतुभेदेन वर्षस्य निग्रहोत्सर्गौ एककर्तृकौ अविरुद्धौ इत्यर्थः ।
यस्य कारणस्य सम्बन्धित्वेन यत्कार्यम् अभिव्यज्यते, तदिह सत् इत्युच्यते, कारणसम्बन्धेन अनभिव्यक्तं कारणमेव अनभिव्यक्तनामरूपं असत् इति व्यवह्रियते । तदेतत् आह -
सदिति ।
शून्यवादं व्युदस्यति -
न पुनरिति ।
भगवतः अत्यन्तासत्वे कार्यकारणकल्पना निरधिष्ठाना न तिष्ठति इत्यर्थः ।
तर्हि यथाश्रुतं कार्यस्य सत्वं कारणस्य च असत्वम् आस्थेयम् इत्याशङ्क्य, वाशब्देन निषेधति -
कार्येति ।
न हि कार्यस्य आत्यन्तिकं सत्वम् , वाचारम्भणश्रुतेः (छा.उ. ६ - १ - ४ - ६, ६ - ४ - ४ - १ - ४) नापि इतरस्य आत्यन्तिकम् असत्वम् “कुतस्तु खलु “ (छा.उ.६ - २ - २) इत्यादि श्रृतेः इत्यर्थः ।
उक्तै ज्ञानयज्ञैः भगवदभिनिविष्टबुद्धीनां किं फलम् इत्याशङ्क्य, सद्यो वा क्रमेण वा मुक्तिः इत्याह -
य इति
॥ १९ ॥
भगवद्भक्तानाम् अपि निष्कामानाम् एव मुक्तिः इति दर्शयितुं सकामानां पुंसां संसारम् अवतारयति -
ये पुनरिति ।
तिस्त्रः विद्याः अधोयते, विदन्ति इति वा त्रैविद्याः - वेदविदः । तदाह -
ऋगिति ।
वस्वादि इति आदिशब्देन सवनद्वयेशानादित्यरुद्राश्च गृह्यन्ते । शुद्धकिल्बिषाः - निरस्तपापाः, इति यावत्
॥ २० ॥
तर्हि स्वर्गप्राप्तिरपि भगवत्प्राप्तितुल्या इत्याशङ्क्य आह -
ते तमिति ।
पुण्येस्वर्गप्राप्तिहेतौ, इति यावत् । प्रसिद्ध्यर्थो हिशब्दः । त्रयाणाम् - हौत्रादीनां वेदत्रयविहितानां धर्माणां समाहारः त्रिधर्मम् , तदेव त्रयीधर्म्यम् तदनुप्रपन्नाः । तदनुगताः, इति यावत् ।
गमनागमनद्वारा कामितफलाप्तिश्चेत् इष्टमेव चेष्टितम् , इत्याशङ्क्य, आह -
गतेति
॥ २१ ॥
फलम् अनभिसन्धाय त्वामेव आराधयतां सम्यग्दर्शननिष्ठानाम् अत्यन्तनिष्कामाणां कथं योगक्षेमौ स्याताम् ? इत्याशङ्क्य आह -
ये पुनरिति ।
तेषां योगक्षेमं वहामि इति उत्तरत्र सम्बन्धः ।
येभ्यः अन्यो न विद्यते इति व्युत्पत्तिम् आश्रित्य आह -
अपृथगिति ।
कार्यस्य इव कारणे तादात्म्यं व्यावर्तयति -
परमिति ।
अहमेव वासुदेवः सर्वात्मा, न मत्तः अन्यत्किञ्चित् अस्ति इति ज्ञात्वा, तमेव प्रत्यञ्चं सदा ध्यायन्ते इत्याह -
चिन्तयन्त इति ।
प्राकृतान् व्यावर्त्य मुख्यान् अधिकारिणः निर्दिशति -
संन्यासिन इति ।
पर्युपासते - परितः - सर्वतः अनवच्छिन्नतया पश्यन्ति, इत्यर्थः ।
नित्याभियुक्तानाम् - नित्यम् - अनवरतम् आदरेण ध्याने व्यापृतानाम् इत्याह -
सततेति ।
योगश्च क्षेमश्च योगक्षेमम् । तत्र अपुनरुक्तम् अर्थम् आह -
योग इति ।
किमर्थं परमार्थदर्शिनां योगक्षेमं वहसि ? इत्याशङ्क्य, आह -
ज्ञानी त्विति ।
अतः तेषां योगक्षेमं वहामि, इति सम्बन्धः ।
सम्यग्दर्शननिष्ठानामेव योगक्षेमं वहति भगवान् इति विशेषणम् अमृष्यमाणः शङ्कते -
नन्विति ।
अन्येषामपि भक्तानां भगवान् योगक्षेमं वहति इत्येतद् अङ्गीकरोति -
सत्यमिति ।
तर्हि भक्तेषु ज्ञानिषु च विशेषो नास्ति इति पृच्छाति -
किन्त्विति ।
तत्र विशेषं प्रतिज्ञाय विवृणोति -
अयमित्यादिना ।
योगक्षेमम् उद्दिश्य स्वयम् ईहन्ते - चेष्टां कुर्वन्ति, इति यावत् ।
आत्मविदां स्वार्थं योगक्षेमम् उद्दिश्य चेष्टाभावं स्पष्टयति -
न हीति ।
गुद्धिः - अपेक्षा, कामना । ताम् इत्येतत् । ज्ञानिनां तर्हि सर्वत्र अनास्था इत्याशङ्क्य, आह -
केवलमिति ।
तेषां तदेकशरणत्वे फलितम् आह -
अत इति ।
इतिशब्दो विशेषशब्देन सम्बध्यते
॥ २२ ॥
तत्तत् देवतात्मना परस्यैव आत्मनः स्थित्यभ्युपगमात् देवतान्तरपराणामपि भगवच्छरणत्वाविशेषात् तदेकनिष्ठत्वम् अकिञ्चित्करमिति मन्वानः शङ्कते -
नन्विति ।
उक्तम् अङ्गीकृत्य परिहरति -
सत्यमित्यादिना ।
देवतान्तरयाजिनां भगवद्याजिभ्यो विशेषम् आह-
अविधीति ।
तद्व्याकरोति -
अविधिरिति
॥ २३ ॥
ननु वस्वादित्येन्द्रादिज्ञानपूर्वकमेव तद्भक्ताः - तद्याजिनः भवन्तीति, कथम् अविधिपूर्वकं तेषां यजनम् ? इति शङ्कते -
कस्मादिति ।
देवतान्तरयाजिनां यजनम् अविधिपूर्वकम् इत्यत्र हेत्वर्थत्वेन श्लोकम् उत्थापयति -
उच्यत इति ।
सर्वेषां द्विविधानां यज्ञानां वस्वादिदेवतात्वेन अहमेव भोक्ता, स्वेन अन्तर्यामिरूपेण प्रभुश्च, अहमेव इति प्रसिद्धमेतत् इति हिशब्दः ।
प्रभुरेव च इत्युक्तं विवृणोति -
मत्स्वामिको हीति ।
तत्र पूर्वाध्यायगतवाक्यं प्रमाणयति -
अधियज्ञोऽहमिति ।
तथापि देवतान्तरयाजिनां यजनम् अविधिपूर्वकम् इति कुतस्सिद्धम् ? तत्र आह -
तथेति ।
ममैव यज्ञेषु भोक्तृत्वे प्रभुत्वे च सति, इति यावत् ।
तयोः भोक्तृप्रभ्वोः भावः तत्वम् । तेन - भोक्तृत्वेन प्रभुत्वेन च, माम् यथावत् यतो न जानन्ति, अतो भोक्तृत्वादिना मम अज्ञानात् मय्यनर्पितकर्माणः च्यवन्ते कर्मफलात् इत्याह -
अतश्चेति
॥ २४ ॥
यदि अन्यदेवताभक्ताः भगवत्तत्वाज्ञानात् कर्मफलात् च्यवन्ते, तर्हि तेषां देवतान्तर यजनम् अकिञ्चित्करम् इत्याशङ्क्य, आह -
येऽपीति ।
देवतान्तरयाजिनाम् अनावृत्तिफलाभावेऽपि तत्तद्देवतायागानुरूपफलप्राप्ति ध्रौव्यात् न तत् अकिञ्चित्करम् , इत्यर्थः ।
देवतान्तरयाजिनाम् आवश्यकं तत्फलम् आशङ्कापूर्वकम् उदाहरति -
कथमित्यादिना ।
नियमः - बल्युपहारप्रदक्षिणप्रह्वीभावादिः, इत्यर्थः ।
देवतान्तराराधनस्य अन्तवत् फलम् उक्त्वा, भगवदाराधनस्य अनन्तफलत्वम् आह -
यान्तीति ।
भगवदाराधनस्य अनन्तफलत्वे देवतान्तराराधनं त्यक्त्वा भगवदाराधनमेव युक्तम् , आयाससाम्यात् , फलातिरेकाच्च, इत्याशङ्क्य, आह -
समानेऽपीति ।
अज्ञानाधीनत्वेन देवतान्तराराधनवतां फलतो न्यूनतां दर्शयति -
तेनेति
॥ २५ ॥
अनन्तफलत्वात् भगवदाराधनमेव कर्तव्यम् , इत्युक्तम् । सुकरत्वाच्च तथा, इत्याह -
न केवलमिति ।
भगवदाराधनस्य सुकरत्वमेव प्रश्नपूर्वकं प्रपञ्चयति -
कथमित्यादिना ।
यद्धि पुष्पादिकं भक्तिपूर्वकं मदर्थम् अर्पितम् , तेन अयं शुद्धचेताः तपस्वी माम् आराधयति इति अहम् अवधारयामि, इत्याह-
पत्रमित्यादिना ।
॥ २६ ॥
तदाराधनस्य सुकरत्वे तदेव आवश्यकम् इत्याह -
यत इति ।
स्वतः - शास्त्रादृते प्राप्तम् , गमनादि इति यावत् । यदश्नासि - यं कञ्चित् भागं भुङ्क्षे ।
हवनस्य स्वतस्त्वं वारयति -
श्रौतमिति ।
मत्समर्पणम् , तत्सर्वं मह्यं समर्पय, इत्यर्थः
॥ २७ ॥
किम् अतो भवति ? तदाह -
एवम् इति ।
भगवदर्पणबुद्द्या सर्वकर्म कुर्वतो जीवन्मुक्तस्य प्रारब्धकर्मावसाने विदेहकैवल्यमावश्यकम् , इत्याह -
शुभेत्यादिना ।
भगवदर्पणकरणात् मुक्तिः संन्यासयोगाच्च, इति साधनद्वयशङ्कां शातयति
सोऽयमिति
॥ २८ ॥
भगवतो रागद्वेषवत्वेन अनीश्वरत्वमाशङ्क्य, परिहरति -
रागेत्यादिना ।
तर्हि, भगवद्भजनम् अकिञ्चित्करम् , इत्याशङ्क्य, आह -
अग्निवदिति ।
तत् प्रपञ्चयति -
यथेति ।
भक्तान् अभक्तांश्च अनुगृह्ण्तः । अननुगृह्ण्तश्च भगवतो न कथं रागादिमत्वम् ? इत्याशङ्क्य, आह -
ये भजन्तीति ।
ये वर्णाश्रिमादिधर्मैः मां भजन्ति ते तेनैव भजनेन अचिन्त्यमाहात्म्येन परिशुद्धबुद्धयः मयि - मत्सपीपे, वर्तन्ते - मदभिव्यक्तियोग्यचित्ता भवन्ति । तुशब्दः अस्य विशेषस्य द्योतनार्थः । तेषु च समीपे तेषाम् अहमपि स्वभावतो वर्तमानः तदनुग्रहपरो भवामि । यथा व्यापकम् अपि सावित्रं तेजः स्वच्छे दर्पणादौ प्रतिफलति, तथा परमेश्वरः अवर्जनीयतया भक्तिनिरस्तसमस्तकलुषसत्त्वेषु पुरुषेषु सन्निधत्ते, दैवीं प्रकृतिम् आश्रिताः मां भजन्ति, इत्युक्तत्वात् - इत्यर्थः
॥ २९ ॥
प्रकृतां भगवद्भक्तिं स्तुवन् , पापीयसाम् अपि तत्र अधिकारः अस्ति, इति सूचयति -
श्रृणु इति ।
सभ्यग्वृत्त एव भगवद्भक्तो ज्ञातव्यः, इत्यत्र हेतुम् आह -
सम्यगिति
॥ ३० ॥
हेत्वर्थमेव प्रपञ्चयति -
उत्सृज्येति ।
भगवन्तं भजमानस्य कथं दुराचारता परित्यक्ता भवति, इत्याशङ्क्य, आह -
क्षिप्रमिति ।
सति दुराचारे कथं धर्मचित्तत्वम् ? तदाह -
शश्वदिति ।
उपशमः - दुराचारात् उपशमः ।
किमिति त्वद्भक्तस्य दुराचारात् उपरतिः उच्यते ? दुराचारोपहतचेतस्तया किमित्यसौ न नङ्क्ष्यति ? इत्याशङ्क्य, आह -
श्रृणु इति
॥ ३१ ॥
इतश्च भगवद्भक्तिः विधातव्या, इत्याह -
किञ्चेति ।
“ न मे भक्तः प्रणश्यति “ इत्यत्र हेतुम् आचक्षाणः भक्त्यधिकारे जातिनियमो नास्ति, इत्याह -
मां हीति
॥ ३२ ॥
यदि पापयोनिः पापाचारश्च त्वद्भक्त्या परां गतिं गच्छति, तर्हि किम् उत्तमजातिनिमित्तेन संन्यासादिना, किं वा सद् - वृत्तेन, इत्याशङ्क्य, आह -
किं पुनरिति ।
उत्तमजातिमतां ब्रह्मणादीनां अतिशयेन परा गतिः यतो लभ्यते, अतः भगवद्भजनं तैः एकान्तेन विधातव्यम् , इत्याह -
यत इति ।
मनुष्यदेहातिरिक्तेषु पश्वादिदेहेषु भगवद्भजनयोग्यता भावात् , प्राप्ते मनुष्यत्वे तद्भजने प्रयतितव्यम् , इत्याह -
दुर्लभमिति
॥ ३३ ॥
भगवद्भक्तेः इत्थम्भावं पृच्छति -
कथमिति ।
ईश्वरभजने इतिकर्तव्यतां दर्शयति -
मन्मना इति ।
एवं भगवन्तं भजमानस्य मम किं स्यात् ? इत्याशङ्क्य, आह -
मामेवेति ।
समाधाय भगवत्येव, इति शेषः ।
एवमात्मानमित्येतद् विवृणोति -
अहं हीति ।
अहमेव परम् अयनं तव - इति मत्परायणः, तथाभूतः सन् , मामेव आत्मानम् एष्यसि इति सम्बन्धः । तदेवं मध्यमानां ध्येयं निरूप्य, नवमेन अधमानां आराध्याभिधानमुखेन निजेन पारमार्थिकेन रूपेण प्रत्यक्त्वेन ज्ञानं परमेश्वरस्य परम् आराधनम् , इत्यभिदधता, सोपाधिकं तत्पदवाच्यम् , निरुपाधिकं च तत्पदलक्ष्यम् व्याख्यातम्
॥ ३४ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने नवमोऽध्यायः ॥ ९ ॥