अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

नवमोऽध्यायः

अतीतेन आगा­मि­नोऽ­ध्या­यस्य अगतार्थत्वं वक्तुं वृत्तमनुवदति -
अष्टम इति ।
नाडी - सुषुम्नाख्या । धारणाख्येन अङ्गेन युक्ता योगो धारणायोगः । सगुणः - सर्व­द्वा­र­सं­य­म­ना­दि­गुणः, तेन सहित इत्यर्थः ।

तत्फ­लो­क्त्य­र्थम् अन­न्त­रा­ध्या­या­र­म्भम् आशङ्क्य, आह -
तस्य चेति ।
‘अग्निरर्चिः’ इत्यादिना उपलक्षितेन क्रमवता, देवयानेन पथा इति यावत् ।

ज्ञानानन्तरमेव यथोक्तफललाभात् अलम् अनेन मार्गेण, इत्याशङ्क्य, आह -
कालान्तर इति ।

अर्चि­रा­दि­मा­र्गेण ब्रह्मप्राप्तौ मुक्तेः मार्गा­य­त्त­त्वात् ‘न तस्य’ इत्या­दि­श्रु­ति­वि­रोधः स्यात् , इत्याशयेन शङ्कते -
तत्रेति ।
वृत्तोऽर्थः सप्तम्यर्थः ।

उक्ता­श­ङ्का­नि­वृ­त्त्य­र्थम् अनन्तराध्यायम् उत्थापयति -
तदाशङ्केति ।

सम्प्र­यु­क्त­त्वेन अप­रो­क्ष­त्वा­भा­वेऽपि पूर्वो­त्त­र­ग्र­न्था­लो­च­नया बुद्धि­स­न्नि­धा­नात् इदंशब्देन ब्रह्मज्ञानं गृहीतम् ; इत्याह -
तद् - बुद्धाविति ।

प्रकृतात् ध्यानात् ज्ञानस्य वैशि­ष्ट्या­व­द्योती तुशब्दः, इत्याह -
तुशब्दइति ।

निपातार्थमेव स्फुटयति -
इदमेवेति ।

तस्मिन्नर्थे संवादकत्वेन श्रृतिस्मृती दर्शयति -
वासुदेव इति ।

अद्वैतज्ञानवत् द्वैतज्ञानमपि केषाञ्चित् मोक्षहेतुः, इत्याशङ्क्य, आह -
नान्यदिति ।

द्वैतज्ञानं मोक्षाय न क्षमम् , इत्यत्र श्रुतिम् उदाहरति -
अथेति ।
अवि­द्या­प्र­क­र­णो­प­क्र­मार्थः अथशब्दः । अतः - अद्वैतात् , अन्यथा - भिन्नत्वेन, इत्यर्थः । विदुः, तत्त्वमिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जु­स­र्पा­दि­ज्ञा­न­तु­ल्य­त्वात् न क्षेममिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जु­स­र्पा­दि­ज्ञा­न­तु­ल्य­त्वात् न क्षेम­प्रा­प्ति­हेतुः, इति चकारार्थः । असूया - गुणेषु दोषाविष्करणम् , तद्रहिताय, ज्ञानाधिकृताय इत्यर्थः ।

ज्ञानम् - ब्रह्मचैतन्यं, तद्विषयं वा प्रमाणज्ञानम् , तस्य तेनैव विशे­षि­त­त्वा­नु­प­प­त्तिम् आशङ्क्य, व्याकरोति -
अनुभवेति ।
विज्ञानम् - अनुभवः - साक्षात्कारः, तेन सहितम् इत्यर्थः ।

उक्तज्ञानं प्राप्तस्य किं स्यात् ? इत्याशङ्क्य, आह -
यज्ज्ञानमिति
॥ १ ॥

तदा­भि­मु­ख्य­सि­द्धये तज्ज्ञानं स्तौति -
तच्चेति ।

ब्रह्मविद्या विद्यानां राजा श्रेष्ठा इत्यत्र हेतुमाह -
दीप्तीति ।

कुतो ब्रह्मविद्याया विद्यान्तरेभ्यो दीप्त्य­ति­श­य­व­त्त्वम् ? तदाह -
दीप्यते हीति ।
दृश्यते हि विद्वदन्तरेभ्यो लोके पूजातिरेको ब्रह्मविदाम् , इति भावः ।

उत्कृष्टतमं शुद्धिकारणं ब्रह्मज्ञानम् , इत्येतत् उपपादयति -
अनेकेति ।

तत्र च श्रुतिस्मृती प्रमाणयितव्ये । न शास्त्रेै­क­ग­म्यम् इदं ज्ञानम् , किन्तु प्रत्य­क्ष­प्र­मे­यम् इत्याह -
किञ्चेति ।
प्रत्यक्षम् , अवगमो मानम् अस्मिन् इति तथा, यद्वा अवगम्यत इति अवगमः फलम् , प्रत्यक्षः अवगमः अस्य, इति दृष्टफलकत्वं ज्ञानस्य उच्यते ।

धर्म्यम् इत्येतद् व्याकरोति -
अनपेतमिति ।

धर्मस्येव तस्य क्लेशसाध्यत्वम् आशङ्क्य, आह -
एवमपीति ।

तत्र रत्नविषयं विवेकज्ञानं सम्प्रयोगात् उपदेशापेक्षात् अनायासेन दृष्टम् , तथा इदं ब्रह्मज्ञानम् , इत्याह -
तथेति ।

‘अव्ययम् ‘ इति विशेषणम् आशङ्कापूर्वकं विवृणोति -
तत्रेत्यादिना ।
व्यवहारभूमिः सप्तम्यर्थः ।

ज्ञानस्य अक्षयफलत्वे फलितमाह -
अत इति
॥ २ ॥

आत्मज्ञानाख्ये धर्मे श्रद्धावतां तन्निष्ठानां पर­म­प­द­प्रा­प्ति­मुक्त्वा, ततो विमुखानां संसारप्राप्तिम् आह -
ये पुनरिति ।

आत्म­ज्ञा­न­त­त्फ­लयोः नास्तिकानेव विशिनष्टि -
पापेति ।

उक्तानाम् आत्मम्भरीणां भग­व­त्प्रा­प्ति­स­म्भा­व­ना­भा­वात् ‘ अप्राप्य माम् ‘ इति अप्र­स­क्त­प्र­ति­षेधः स्यात् , इत्याशङ्क्य, आह-
मत्प्राप्ताविति
॥ ३ ॥

स्तुति­नि­न्दाभ्यां ज्ञाननिष्ठां महीकृत्य ज्ञानं व्याख्या­तु­मा­र­भते -
स्तुत्येति ।

सोपाधिकस्य व्याप्त्य­स­म्भ­वम् अभिप्रेत्य विशिनष्टि -
ममेति ।

अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति -
करणेति ।

व्याप्य­व्या­प­क­त्वेन जगतो भगवतश्च परि­च्छे­द­मा­शङ्क्य, आह -
तस्मिन्निति ।

तथापि भगवतो भूतानाञ्च आधाराधेयत्वेन भेदः स्यात् , इत्याशङ्क्य, आह -
नहीति ।

निरात्मकस्य व्यव­हा­रा­न­र्हत्वे फलितमाह -
अत इति ।

ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यात् , इत्याशङ्क्य, आह -
तेषामिति ।

तस्य तेषु स्थित्यभावं व्यवस्थापयति -
मूर्तवदिति ।

संश्लेषाभावेऽपि किमिति न आधेयत्वम् , अत आह -
नहीति
॥ ४ ॥

परमेश्वरस्य भूतेषु स्थित्यभावेऽपि भूतानां तत्र स्थितिः आस्थिता, इति, कुतोऽसङ्गत्वम् ? तत्राह -
अत एवेति ।
‘न च ‘ इत्यत्र चकारः अवधारणार्थः ।

भूतानाम् ईश्वरे नैव स्थितिः, इत्यत्र हेतुमाह -
पश्येति ।

आत्मनोऽसङ्गत्वं स्वरूपम् , इत्यत्र प्रमाणमाह -
तथा चेति ।

असङ्गश्चेत् ईश्वरः, तर्हि कथं ‘मत्स्थानि भूतानि’(भ. गी. ५-५) इत्युक्तम् , कथञ्च तथोक्त्वा ‘न च भत्स्थानि’ इति तद्वि­रु­द्ध­मु­दी­रि­तम् , इत्याशङ्क्य, आह -
इदञ्चेति ।

तर्हि भूतसम्बन्धः स्यात् , इति नेत्याह -
नचेति ।
यथोक्तेन न्यायेन - असङ्गत्वेन, इति यावत् । असङ्गतया वस्तुतो भूतासम्बन्धेऽपि कल्पनया तदविरोधात् न मिथो विरोधोऽस्ति, इति भावः ।

आत्मनः सकाशात् आत्म­नोऽ­न्य­त्वा­यो­गात् कुतः सम्बन्धोक्तिः ? इत्याशङ्क्य, आह -
असाविति ।
(विभज्येति) । यथा लोको वस्तु­त­त्त्व­म­जा­नन् भेदम् आरोप्य ‘ममायम् ‘ इति सम्बन्धमनुभवति, न तथा इह सम्ब­न्ध­व्य­प­देशः, आत्मनि स्वतो भेदाभावात् । अतो भेदे असत्येव लोके सम्ब­न्ध­बु­द्धि­द­र्श­नम् अनुसरन् भगवान् आत्मनो देहादिसङ्घातं विभज्य अहङ्कारं तस्मिन् आरोप्य ‘असौ ममात्मा’ इति भेदं व्यपदिशति । तथा च सङ्घातस्य ‘मम’ इति व्यपदेशात् ततो नि(कृ)ष्कृष्टस्य स्वरूपस्य आत्मशब्देन निर्देशात् न भूतस्थोऽसौ, इत्यर्थः ।

पूर्वो­क्ता­स­ङ्ग­त्वा­ङ्गी­का­रे­णैव आत्मा भूतानि भावयति, इत्याह -
तथेति
॥ ५ ॥

सृष्टि­स्थि­ति­सं­हा­राणां अस­ङ्गा­त्मा­धा­रत्वं ‘मया ततमिदम्‘(भ. गी. ९-४) इत्यादि श्लोकद्वयेन उक्तोऽर्थः । तं दृष्टान्तेन उपपादयन् आदौ दृष्टान्तमाह, इति योजना । ‘सदा’ इति उत्प­त्ति­स्थि­ति­सं­हा­र­कालो गृह्यते । आकाशादेः मह­तोऽ­न्या­धा­रत्वं कथम् ? इत्याशङ्क्य, आह -
महानिति ।
यथा सर्वगामित्वात् परिमाणतो महान् वायुः आकाशे सदा तिष्ठति, तथा आकाशादीनि महान्त्यपि सर्वाणि भूतानि आकाशकल्पे पूर्णे प्रतीचि असङ्गे परस्मिन् आत्मनि संश्लेषमन्तरेण स्थितानि, इत्यर्थः
॥ ६ ॥

आकाशे वाय्वा­दि­स्थि­ति­वत् आकाशादीनि भूतानि स्थितिकाले परमेश्वरे स्थितानि चेत् , तर्हि प्रळयकाले ततोऽन्यत्र तिष्ठेयुः, इत्याशङ्क्य, आह -
एवमिति ।

प्रकृतिशब्दस्य स्वभाववचनत्वं व्यावर्तयति -
त्रिगु­णा­त्मि­का­मिति ।

सा च अपरेयं, इति प्रागेव सूचिता, इत्याह -
अपरामिति ।

तस्याश्च ईश्वराधीनत्वेन अस्वा­त­न्त्र्य­माह –
मदीयामिति ।

प्रळयकाले भूतानि यथोक्तां प्रकृतिं यान्ति चेत् उत्पत्तिकालेऽपि ततस्तेषाम् उत्पत्तेः ईश्वराधीनत्वं भूतसृष्टेः न स्यात् , इत्याशङ्क्य, आह -
पुनरिति
॥ ७ ॥

तर्हि कीदृशी प्रकृतिः ? सा च कथं सृष्टौ उपयुक्ता, इत्याशङ्क्य, आह -
एवमिति ।
संसारस्य अना­दि­त्व­द्यो­त­नार्थं पुनः पुनः इत्युक्तम् ।

भूतसमुदायस्य अवि­द्या­स्मि­ता­दि­दो­ष­प­र­व­शत्वे हेतुम् आह -
स्वभाववशादिति
॥ ८ ॥

यदि प्रकृतं भूतग्रामं स्वभावात् अविद्यातन्त्रं विषमं विदाधासि, तर्हि तव विष­म­सृ­ष्टि­प्र­युक्तं धर्मादिमत्त्वम् इति अनी­श्व­र­त्वा­पत्तिः इति शङ्कते -
तर्हिति ।

‘तत्र’ इति सप्तम्या परमेश्वरो निरुच्यते । ईश्वरस्य फलासङ्गाभावात् कर्तृ­त्वा­भि­मा­ना­भा­वाच्च कर्यासम्बन्धवत् ईश्वरात् अन्यस्यापि तदुभयाभावः धर्मा­द्य­स­म्बन्धे कारणम् , इत्याह-
अतोऽन्यस्येति ।

यदि कर्मसु कर्तृत्वाभिमानो वा कस्यचित् कर्मफलसङ्गो वा स्यात् , तत्राह -
अन्यथेति
॥ ९ ॥

ईश्वरे स्रष्टृत्वं ओदासीन्यं च विरुद्धम् , इति शङ्कते -
तत्रेति ।
पूर्वग्रन्थः सप्तम्यर्थः ।

विरो­ध­प­रि­हा­रा­र्थम् उत्तरश्लोकम् अवतारयति -
तदिति ।

तृतीयाद्वयं समानाधिकरणम् , इति अभ्युपेत्य व्याचाष्टे -
मयेत्यादिना ।

प्रकृ­ति­श­ब्दा­र्थम् आह -
ममेति ।

तस्या अपि ज्ञानत्वं व्यावर्तयति-
त्रिगुणेति ।

पराभिप्रेतं प्रधानं व्युदस्यति -
अविद्येति ।

साक्षित्वे प्रमाणम् आह -
तथा चेति ।

मूर्ति­त्र­या­त्मना भेदं वारयति-
एक इति ।

अखण्डं जा़ड्यं प्रत्याह -
देव इति ।

आदित्यवत् ताटस्थ्यं प्रत्यादिशति -
सर्वभूतेष्विति ।

किमिति तर्हि सर्वैः नोपलभ्यते ? तत्र आह -
गूढ इति ।

बुद्ध्यादिवत् परिच्छिन्नत्वं व्यवच्छिनत्ति -
सर्वव्यापीति ।

तर्हि नभोवत् अनात्मत्वम् ? नेत्याह -
सर्वभूतेति ।

तर्हि तत्र तत्र कर्म­त­त्फ­ल­स­म्ब­न्धित्वं स्यात् , तत्र आह -
कर्मेति ।

सर्वा­धि­ष्ठा­न­त्वम् आह -
सर्वेति ।
सर्वेषु भूतेषु सत्ता­स्फू्र्ति­प्र­द­त्वेन सन्निधिः वासः अत्र उच्यते ।

न केवलं कर्मणामेव अयम् अध्यक्षः अपि तु तद्वतामपि, इत्याह -
साक्षीति ।

दर्श­न­क­र्तृ­त्व­शङ्कां शातयति -
चेतेति ।
अद्वितीयत्वम् - केवलत्वम् ।

धर्मा­ध­र्मा­दि­रा­हि­त्यम् आह -
निर्गुण इति ।
किं बहुना ? सर्वविशेषशून्य इति चकारार्थः ।

उदासीनस्यापि ईश्वरस्य साक्षित्वमात्रं निमित्तीकृत्य जगदेतत् पौनःपुन्येन सर्गसंहारौ अनुभवति, इत्याह -
हेतुनेति ।

कार्यवत् कारणस्यापि साक्ष्यधीना प्रवृत्तिः, इति वक्तुं व्यक्ता­व्य­क्ता­त्म­कम् इत्युक्तम् । ‘सर्वावस्थासु’ इत्यनेन सृष्टि­स्थि­ति­सं­हा­रा­वस्था गृह्यन्ते । तथापि जगतः सर्गादिभ्यो भिन्ना प्रवृत्तिः स्वाभाविकी, न ईश्वरायत्ता, इत्याशङ्क्य, आह -
दृशीति ।

न हि दृशि व्याप्यत्वं विना जडवर्गस्य कापि प्रवृत्तिः, इति हिशब्दार्थः । तामेव प्रवृत्तिम् उदाहरति -
अहमित्यादिना ।

भोगस्य विषयोपलम्भाभावे असम्भवात् नानाविधां विषयोपलब्धिं दर्शयति -
पश्यामीति ।

भोगफलं इदानीं कथयति -
सुखमिति ।

विहि­त­प्र­ति­षि­द्धा­च­र­ण­नि­मित्तं सुखन्दुःखं च, इत्याह -
तदर्थमिति ।

न च विमर्शपूर्वकं विज्ञानं विना अनुष्ठानम् , इत्याह -
इदमिति ।

इत्याद्या प्रवृत्तिः, इति सम्बन्धः । सा च प्रवृत्तिः सर्वा दृक्कर्मत्वम् उररीकृत्यैव इत्युक्तं निगमयति -
अवगतीति ।

तत्रैव च प्रवृत्तेः अवसानम् , इत्याह -
अवगत्यवसानेति ।

परस्य अध्य­क्ष­त्व­मा­त्रेण जगच्चेष्टा, इत्यत्र प्रमाणमाह -
यो अस्येति ।
अस्य - जगतः, यो अध्यक्षः - निर्विकारः, स परमे - प्रकृष्टे, हार्दे व्योम्नि स्थितः, दुर्विज्ञेय इत्यर्थः ।

ईश्वरस्य साक्षि­त्व­मा­त्रेण स्रष्टृत्वे स्थिते फलितमाह -
ततश्चेति ।
किं निमित्ता परस्य इयं सृष्टिः ? न तावत् भोगार्था, परस्य परमार्थतो भोगा­स­म्ब­न्धि­त्वात् तस्य सर्व­सा­क्षि­भू­त­चै­त­न्य­मा­त्र­त्वात् । न चान्यो भोक्ता, चेत­ना­न्त­रा­भा­वात् ईश्वरस्य एकत्वात् अचेतनस्य अभोक्तृत्वात् । न च स्रष्टुः अपवर्गार्था, तद्विरोधित्वात् । नैवं प्रश्नो वा तदनुरूपं प्रतिवचनं वा युक्तम् , परस्य मायानिबन्धने सर्गे तस्य अनवकाशत्वात् , इत्यर्थः ।

परस्य आत्मनः दुर्विज्ञेयत्वे श्रुतिम् उदाहरति -
को अद्धेति ।

तस्मिन् प्रवक्तापि संसारमण्डले नास्ति, इत्याह -
क इहेति ।

जगतः सृष्टि­क­र्तृ­त्वेन परस्य ज्ञेयत्वम् आशङ्क्य कूटस्थत्वात् ततो न सृष्टिर्जाता, इत्याह -
कुत इति ।

नहि इयं विविधा सृष्टिः अन्यस्मादपि कस्माच्चित् उपपद्यते, अन्यस्य वस्तुनो अभावात् , इत्याह-
कुत इति ।

कथं तर्हि सृष्टिः ? इत्याशङ्क्य, अज्ञानाधीना, इत्याह -
दर्शितं चेति
॥ १० ॥

सर्वाध्यक्षः सर्वभूताधिवासो नित्य­मु­क्त­श्चेत् त्वम् , तर्हि किमिति त्वामेव आत्मत्वेन भेदेन वा सर्वे न भजन्ते ? तत्राह -
एवमिति ।

विप­र्य­स्त­बु­द्धित्वं भगवदवज्ञायां कारणम् , इत्याह -
मूढा इति ।

भगवतो मनु­ष्य­दे­ह­स­म्ब­न्धात् तस्मिन् विपर्यासः सम्भवति, इत्याह -
मानुषीमिति ।

अस्मदादिवत् देह­ता­दा­त्म्या­भि­मानं भगवतो व्यावर्तयति -
मनुष्येति ।

भगवन्तम् अवजानताम् अवि­वे­क­मू­ला­ज्ञानं हेतुमाह -
परमिति ।

ईश्वरावज्ञानात् किं भवति ? इत्यपेक्षायां तद­व­ज्ञा­न­प्र­ति­ब­द्ध­बु­द्धयः शोच्या भवन्ति, इत्याह -
ततश्चेति ।
भगवदज्ञानादेव हेतोः अवजानन्तः, ते - जन्तवः, वराकाः - शोच्याः, सर्व­पु­रु­षा­र्थ­बाह्याः स्युः इति सम्बन्धः ।

तत्र हेतुं सूचयति -
तस्येति ।
प्रकृतस्य भगवतः अवज्ञानम् अनादरणं निन्दनं वा, तस्य भावनं पौनःपुन्यम् , तेन आहताः तज्ज­नि­त­दु­रि­त­प्र­भा­वात् प्रति­ब­द्ध­बु­द्धयः इत्यर्थः
॥ ११ ॥

भगवन्तम् अवजानतां प्रश्नपूर्वकं शोच्यत्वं विशदयति -
कथमिति ।

भग­व­न्नि­न्दा­प­राणां न काचिदपि प्रार्थना अर्थवती, इत्याह -
वृथेति ।

ननु भगवन्तं निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्म अनुतिष्ठन्ति, तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भविष्यन्ति, इति ; नेत्याह -
तथेति ।

परिभवः - तिरस्करणम् , अवज्ञानं - अनादरणम् । तेषामपि शास्त्र­र्थ­ज्ञा­न­वतां तद्द्वारा प्रार्थ­ना­र्थ­वत्वं, इत्याशङ्क्य, आह -
तथा मोघेति ।

तथापि यौक्ति­क­वि­वे­क­व­शात् तत्प्रा­र्थ­ना­सा­फल्यं, इत्याशङ्क्य, आह -
विचेतस इति ।

न केवलम् उक्त­वि­शे­ष­ण­व­त्व­मेव तेषां, किन्तु वर्त­मा­न­दे­ह­पा­तात् अनन्तरं तत्त­द­ति­क्रू­र­यो­नि­प्रा­प्तिश्च निश्चिता, इत्याह -
किञ्चेति ।
मोहकरीं इति प्रकृतिद्वयेऽपि तुल्यं विशेषणम् , छिन्धि भिन्धि, पिब खाद, इति प्राणिहिंसारूपो रक्षसां स्वभावः, असुराणां स्वभावस्तु न देहि, न जुहुधि, परस्वमेव अपहर, इत्यादिरूपः, मोहः -मिथ्याज्ञानम् ।

उक्तमेव स्फुटयति -
छिन्धीति
॥ १२ ॥

के पुनः भगवन्तं भजन्ते ? तानाह -
ये पुनरिति ।

महान् - प्रकृष्टः, यज्ञादिभिः शोधितः, आत्मा - सत्वं, येषाम् , इति व्युत्प­त्ति­मा­श्रित्य, आह -
अक्षुद्रेति ।
तुशब्दः अवधारणे ।

प्रकृतिं विशिनष्टि -
शमेति ।

अनन्यस्मिन् - प्रत्यग्भूते मयि परस्मिन्नेव, मनः येषाम् इति व्युत्पत्या व्याकरोति -
अनन्यचित्ता इति ।

अज्ञाते सेवानुपपत्तेः शास्त्रो­प­प­त्ति­भ्याम् आदौ ज्ञात्वा ततः सेवन्ते, इत्याह -
ज्ञात्वेति ।
अव्ययम् - अविनाशिनम्
॥ १३ ॥

भजनप्रकारं पृच्छति -
कथमिति ।

तत्प्रकारम् आह -
सततमिति ।
“ सर्वदा “ इति श्रवणावस्था गृह्यते । कीर्तनं - वेदान्तश्रवणं प्रणवजपश्च, व्रतं - ब्रह्मचर्यादि, नमस्यन्तः - माम्प्रति चेतसा प्रह्वीभवन्तः, भक्त्या - परेण प्रेम्णा, नित्ययुक्ताः सन्तः - सदा सम्युक्ताः
॥ १४ ॥

उपा­स­न­प्र­का­र­भे­द­प्र­ति­पि­त्सया पृच्छति -
ते केनेति ।

तत्प्र­का­र­भे­दो­दी­र­णार्थं श्लोकम् अवतारयति -
उच्यत इति ।
इज्यते पूज्यते परमेश्वरः अनेन, इति, प्रकृते ज्ञाने यज्ञशब्दः । ‘ईश्वरञ्च’ इति चकारः अवधारणे ।

देव­ता­न्त­र­ध्या­न­त्या­गम् अपिशब्दसूचितं दर्शयति -
अन्याम् इति ।
अन्ये - ब्रह्मनिष्ठा इति यावत् ।

ज्ञानयज्ञमेव विभजते -
तच्चेति ।

उत्त­मा­धि­का­रि­णाम् उपासनम् उक्त्वा, मध्यमानाम् अधिकारिणाम् उपासनप्रकारम् आह -
केचिच्चेति ।

तेषामेवाहं यज्ञः स्मार्तः किंच स्वधाहं पित्ुभ्यो यद्दीयते तत्स्वधा । तथाहमोउषधं सर्व­प्र्रा­णि­भि­र्य­द­द्यते । प्रकारान्तरेण उपासनम् उदीरयति -
केचिदिति ।
बहुप्रकारेण अग्न­या­दि­त्या­दि­रू­पेण, इति यावत्
॥ १५ ॥

भगवदेकविषयम् उपासनं तर्हि न सिद्ध्यति, इति शङ्कते -
यदि इति ।

प्रकारभेदमादाय ध्यायन्तोऽपि भगवन्तमेव ध्यायन्ति, तस्य सर्वात्मकत्वात् , इत्याह -
अत आहेति ।

क्रतु­य­ज्ञ­श­ब्दयोः अपौनरुक्त्यं दर्शयन् व्याचष्टे -
श्रौत इति ।
क्रिया­का­र­क­फ­ल­जातं भगवदतिरिक्तं नास्ति, इति समुदायार्थः
॥ १६ ॥

इतश्च भगवतः सर्वात्मकत्वम् अनुमन्तव्यम् , इत्याह -
किञ्चेति ।

पवित्रम् - पूयते अनेन, इति व्यत्पत्या परिशुद्धिकारणं पुण्यं कर्म, इत्याह -
पावनम् इति ।
वेदितव्ये ब्रह्मणि वेदनसाधनम् ओङ्कारः, तत्र प्रमाणम् ऋगादि । चकारात् अथर्वाङ्गिरसो गृह्यते
॥ १७ ॥

भगवतः सर्वात्मकत्वे हेत्वन्तरम् आह -
किञ्चेति ।

गम्यत इति प्रकृ­ति­वि­ल­यान्तं कर्मफलं गतिः इत्याह -
कर्मेति ।
पोष्टा - कर्मफलस्य प्रदाता ।

कार्य­का­र­ण­प्र­प­ञ्चस्य अधिष्ठानम् इत्याह -
निवास इति ।

शीर्यते दुःखम् अस्मिन् इति व्युत्पत्तिम् आश्रित्य आह -
शरणमिति ।

प्रभवति अस्मात् जगत् इति व्युत्पत्तिम् आदाय उक्तम् -
उत्पत्तिरिति ।

कारणस्य कथम् अव्ययत्वम् ? इत्याशङ्क्य आह -
यावदिति ।

कारणम् अन्तरेणापि कार्यं कदाचित् उदेष्यति, किं कारणेन ? इत्याशङ्क्य आह -
न हीति ।

माभूत् तर्हि संसारदशायामेव कदाचित् कार्योत्पत्तिः इत्याशङ्क्य आह -
नित्यं चेति ।

कारणव्यक्तेः नाशम् अङ्गीकृत्य तद­न्य­त­म­व्य­क्ति­शू­न्यत्वं पूर्वकालस्य नास्तीति सिद्धवत्कृत्य विशिनष्टि -
बीजेति
॥ १८ ॥

इतश्च सर्वात्मत्वे भगवतो न विवदितव्यम् इत्याह -
किञ्चेति ।

“आदित्यात् जायते वृष्टिः“ (मनुः - ३ - ७६ ॥ ) इति स्मृतिम् अवष्टभ्य व्याचष्टे -
कैश्चिदिति ।

वर्षो­त्स­र्ग­नि­ग्रहौ एकस्य एकस्मिन् काले विरुद्धौ इत्याशङ्क्य आह -
अष्टभिरिति ।
ऋतुभेदेन वर्षस्य निग्रहोत्सर्गौ एककर्तृकौ अविरुद्धौ इत्यर्थः ।

यस्य कारणस्य सम्बन्धित्वेन यत्कार्यम् अभिव्यज्यते, तदिह सत् इत्युच्यते, कारणसम्बन्धेन अनभिव्यक्तं कारणमेव अन­भि­व्य­क्त­ना­म­रूपं असत् इति व्यवह्रियते । तदेतत् आह -
सदिति ।

शून्यवादं व्युदस्यति -
न पुनरिति ।
भगवतः अत्यन्तासत्वे कार्यकारणकल्पना निरधिष्ठाना न तिष्ठति इत्यर्थः ।

तर्हि यथाश्रुतं कार्यस्य सत्वं कारणस्य च असत्वम् आस्थेयम् इत्याशङ्क्य, वाशब्देन निषेधति -
कार्येति ।
न हि कार्यस्य आत्यन्तिकं सत्वम् , वाचा­र­म्भ­ण­श्रुतेः (छा.उ. ६ - १ - ४ - ६, ६ - ४ - ४ - १ - ४) नापि इतरस्य आत्यन्तिकम् असत्वम् “कुतस्तु खलु “ (छा.उ.६ - २ - २) इत्यादि श्रृतेः इत्यर्थः ।

उक्तै ज्ञानयज्ञैः भग­व­द­भि­नि­वि­ष्ट­बु­द्धीनां किं फलम् इत्याशङ्क्य, सद्यो वा क्रमेण वा मुक्तिः इत्याह -
य इति
॥ १९ ॥

भगवद्भक्तानाम् अपि निष्कामानाम् एव मुक्तिः इति दर्शयितुं सकामानां पुंसां संसारम् अवतारयति -
ये पुनरिति ।

तिस्त्रः विद्याः अधोयते, विदन्ति इति वा त्रैविद्याः - वेदविदः । तदाह -
ऋगिति ।
वस्वादि इति आदिशब्देन सव­न­द्व­ये­शा­ना­दि­त्य­रु­द्राश्च गृह्यन्ते । शुद्धकिल्बिषाः - निरस्तपापाः, इति यावत्
॥ २० ॥

तर्हि स्वर्ग­प्रा­प्ति­रपि भग­व­त्प्रा­प्ति­तुल्या इत्याशङ्क्य आह -
ते तमिति ।
पुण्ये­स्व­र्ग­प्रा­प्ति­हेतौ, इति यावत् । प्रसिद्ध्यर्थो हिशब्दः । त्रयाणाम् - हौत्रादीनां वेद­त्र­य­वि­हि­तानां धर्माणां समाहारः त्रिधर्मम् , तदेव त्रयीधर्म्यम् तदनुप्रपन्नाः । तदनुगताः, इति यावत् ।

गमनागमनद्वारा कामि­त­फ­ला­प्ति­श्चेत् इष्टमेव चेष्टितम् , इत्याशङ्क्य, आह -
गतेति
॥ २१ ॥

फलम् अनभिसन्धाय त्वामेव आराधयतां सम्य­ग्द­र्श­न­नि­ष्ठा­नाम् अत्य­न्त­नि­ष्का­माणां कथं योगक्षेमौ स्याताम् ? इत्याशङ्क्य आह -
ये पुनरिति ।
तेषां योगक्षेमं वहामि इति उत्तरत्र सम्बन्धः ।

येभ्यः अन्यो न विद्यते इति व्युत्पत्तिम् आश्रित्य आह -
अपृथगिति ।

कार्यस्य इव कारणे तादात्म्यं व्यावर्तयति -
परमिति ।

अहमेव वासुदेवः सर्वात्मा, न मत्तः अन्यत्किञ्चित् अस्ति इति ज्ञात्वा, तमेव प्रत्यञ्चं सदा ध्यायन्ते इत्याह -
चिन्तयन्त इति ।

प्राकृतान् व्यावर्त्य मुख्यान् अधिकारिणः निर्दिशति -
संन्यासिन इति ।
पर्युपासते - परितः - सर्वतः अनवच्छिन्नतया पश्यन्ति, इत्यर्थः ।

नित्या­भि­यु­क्ता­नाम् - नित्यम् - अनवरतम् आदरेण ध्याने व्यापृतानाम् इत्याह -
सततेति ।

योगश्च क्षेमश्च योगक्षेमम् । तत्र अपुनरुक्तम् अर्थम् आह -
योग इति ।

किमर्थं परमार्थदर्शिनां योगक्षेमं वहसि ? इत्याशङ्क्य, आह -
ज्ञानी त्विति ।
अतः तेषां योगक्षेमं वहामि, इति सम्बन्धः ।

सम्य­ग्द­र्श­न­नि­ष्ठा­ना­मेव योगक्षेमं वहति भगवान् इति विशेषणम् अमृष्यमाणः शङ्कते -
नन्विति ।

अन्येषामपि भक्तानां भगवान् योगक्षेमं वहति इत्येतद् अङ्गीकरोति -
सत्यमिति ।

तर्हि भक्तेषु ज्ञानिषु च विशेषो नास्ति इति पृच्छाति -
किन्त्विति ।

तत्र विशेषं प्रतिज्ञाय विवृणोति -
अयमित्यादिना ।
योगक्षेमम् उद्दिश्य स्वयम् ईहन्ते - चेष्टां कुर्वन्ति, इति यावत् ।

आत्मविदां स्वार्थं योगक्षेमम् उद्दिश्य चेष्टाभावं स्पष्टयति -
न हीति ।

गुद्धिः - अपेक्षा, कामना । ताम् इत्येतत् । ज्ञानिनां तर्हि सर्वत्र अनास्था इत्याशङ्क्य, आह -
केवलमिति ।

तेषां तदेकशरणत्वे फलितम् आह -
अत इति ।
इतिशब्दो विशेषशब्देन सम्बध्यते
॥ २२ ॥

तत्तत् देवतात्मना परस्यैव आत्मनः स्थित्य­भ्यु­प­ग­मात् देव­ता­न्त­र­प­रा­णा­मपि भग­व­च्छ­र­ण­त्वा­वि­शे­षात् तदेकनिष्ठत्वम् अकिञ्चित्करमिति मन्वानः शङ्कते -
नन्विति ।

उक्तम् अङ्गीकृत्य परिहरति -
सत्यमित्यादिना ।

देव­ता­न्त­र­या­जिनां भगवद्याजिभ्यो विशेषम् आह-
अविधीति ।

तद्व्याकरोति -
अविधिरिति
॥ २३ ॥

ननु वस्वा­दि­त्ये­न्द्रा­दि­ज्ञा­न­पू­र्व­क­मेव तद्भक्ताः - तद्याजिनः भवन्तीति, कथम् अविधिपूर्वकं तेषां यजनम् ? इति शङ्कते -
कस्मादिति ।

देव­ता­न्त­र­या­जिनां यजनम् अविधिपूर्वकम् इत्यत्र हेत्वर्थत्वेन श्लोकम् उत्थापयति -
उच्यत इति ।
सर्वेषां द्विविधानां यज्ञानां वस्वा­दि­दे­व­ता­त्वेन अहमेव भोक्ता, स्वेन अन्तर्यामिरूपेण प्रभुश्च, अहमेव इति प्रसिद्धमेतत् इति हिशब्दः ।

प्रभुरेव च इत्युक्तं विवृणोति -
मत्स्वामिको हीति ।

तत्र पूर्वा­ध्या­य­ग­त­वाक्यं प्रमाणयति -
अधियज्ञोऽहमिति ।

तथापि देव­ता­न्त­र­या­जिनां यजनम् अविधिपूर्वकम् इति कुतस्सिद्धम् ? तत्र आह -
तथेति ।
ममैव यज्ञेषु भोक्तृत्वे प्रभुत्वे च सति, इति यावत् ।

तयोः भोक्तृप्रभ्वोः भावः तत्वम् । तेन - भोक्तृत्वेन प्रभुत्वेन च, माम् यथावत् यतो न जानन्ति, अतो भोक्तृत्वादिना मम अज्ञानात् मय्य­न­र्पि­त­क­र्माणः च्यवन्ते कर्मफलात् इत्याह -
अतश्चेति
॥ २४ ॥

यदि अन्यदेवताभक्ताः भग­व­त्त­त्वा­ज्ञा­नात् कर्मफलात् च्यवन्ते, तर्हि तेषां देवतान्तर यजनम् अकिञ्चित्करम् इत्याशङ्क्य, आह -
येऽपीति ।
देव­ता­न्त­र­या­जि­नाम् अना­वृ­त्ति­फ­ला­भा­वेऽपि तत्त­द्दे­व­ता­या­गा­नु­रू­प­फ­ल­प्राप्ति ध्रौव्यात् न तत् अकिञ्चित्करम् , इत्यर्थः ।

देव­ता­न्त­र­या­जि­नाम् आवश्यकं तत्फलम् आशङ्कापूर्वकम् उदाहरति -
कथमित्यादिना ।
नियमः - बल्यु­प­हा­र­प्र­द­क्षि­ण­प्र­ह्वी­भा­वादिः, इत्यर्थः ।

देव­ता­न्त­रा­रा­ध­नस्य अन्तवत् फलम् उक्त्वा, भगवदाराधनस्य अनन्तफलत्वम् आह -
यान्तीति ।

भगवदाराधनस्य अनन्तफलत्वे देवतान्तराराधनं त्यक्त्वा भगवदाराधनमेव युक्तम् , आयाससाम्यात् , फलातिरेकाच्च, इत्याशङ्क्य, आह -
समानेऽपीति ।

अज्ञानाधीनत्वेन देव­ता­न्त­रा­रा­ध­न­वतां फलतो न्यूनतां दर्शयति -
तेनेति
॥ २५ ॥

अनन्तफलत्वात् भगवदाराधनमेव कर्तव्यम् , इत्युक्तम् । सुकरत्वाच्च तथा, इत्याह -
न केवलमिति ।

भगवदाराधनस्य सुकरत्वमेव प्रश्नपूर्वकं प्रपञ्चयति -
कथमित्यादिना ।

यद्धि पुष्पादिकं भक्तिपूर्वकं मदर्थम् अर्पितम् , तेन अयं शुद्धचेताः तपस्वी माम् आराधयति इति अहम् अवधारयामि, इत्याह-
पत्रमित्यादिना ।
॥ २६ ॥

तदाराधनस्य सुकरत्वे तदेव आवश्यकम् इत्याह -
यत इति ।
स्वतः - शास्त्रादृते प्राप्तम् , गमनादि इति यावत् । यदश्नासि - यं कञ्चित् भागं भुङ्क्षे ।

हवनस्य स्वतस्त्वं वारयति -
श्रौतमिति ।
मत्समर्पणम् , तत्सर्वं मह्यं समर्पय, इत्यर्थः
॥ २७ ॥

किम् अतो भवति ? तदाह -
एवम् इति ।

भग­व­द­र्प­ण­बुद्द्या सर्वकर्म कुर्वतो जीवन्मुक्तस्य प्रार­ब्ध­क­र्मा­व­साने विदे­ह­कै­व­ल्य­मा­व­श्य­कम् , इत्याह -
शुभेत्यादिना ।

भगवदर्पणकरणात् मुक्तिः संन्यासयोगाच्च, इति साधनद्वयशङ्कां शातयति
सोऽयमिति
॥ २८ ॥

भगवतो रागद्वेषवत्वेन अनी­श्व­र­त्व­मा­शङ्क्य, परिहरति -
रागेत्यादिना ।

तर्हि, भगवद्भजनम् अकिञ्चित्करम् , इत्याशङ्क्य, आह -
अग्निवदिति ।

तत् प्रपञ्चयति -
यथेति ।

भक्तान् अभक्तांश्च अनुगृह्ण्तः । अननुगृह्ण्तश्च भगवतो न कथं रागादिमत्वम् ? इत्याशङ्क्य, आह -
ये भजन्तीति ।
ये वर्णा­श्रि­मा­दि­धर्मैः मां भजन्ति ते तेनैव भजनेन अचि­न्त्य­मा­हा­त्म्येन परिशुद्धबुद्धयः मयि - मत्सपीपे, वर्तन्ते - मद­भि­व्य­क्ति­यो­ग्य­चित्ता भवन्ति । तुशब्दः अस्य विशेषस्य द्योतनार्थः । तेषु च समीपे तेषाम् अहमपि स्वभावतो वर्तमानः तदनुग्रहपरो भवामि । यथा व्यापकम् अपि सावित्रं तेजः स्वच्छे दर्पणादौ प्रतिफलति, तथा परमेश्वरः अवर्जनीयतया भक्ति­नि­र­स्त­स­म­स्त­क­लु­ष­स­त्त्वेषु पुरुषेषु सन्निधत्ते, दैवीं प्रकृतिम् आश्रिताः मां भजन्ति, इत्युक्तत्वात् - इत्यर्थः
॥ २९ ॥

प्रकृतां भगवद्भक्तिं स्तुवन् , पापीयसाम् अपि तत्र अधिकारः अस्ति, इति सूचयति -
श्रृणु इति ।

सभ्यग्वृत्त एव भगवद्भक्तो ज्ञातव्यः, इत्यत्र हेतुम् आह -
सम्यगिति
॥ ३० ॥

हेत्वर्थमेव प्रपञ्चयति -
उत्सृज्येति ।

भगवन्तं भजमानस्य कथं दुराचारता परित्यक्ता भवति, इत्याशङ्क्य, आह -
क्षिप्रमिति ।

सति दुराचारे कथं धर्मचित्तत्वम् ? तदाह -
शश्वदिति ।
उपशमः - दुराचारात् उपशमः ।

किमिति त्वद्भक्तस्य दुराचारात् उपरतिः उच्यते ? दुरा­चा­रो­प­ह­त­चे­त­स्तया किमित्यसौ न नङ्क्ष्यति ? इत्याशङ्क्य, आह -
श्रृणु इति
॥ ३१ ॥

इतश्च भगवद्भक्तिः विधातव्या, इत्याह -
किञ्चेति ।

“ न मे भक्तः प्रणश्यति “ इत्यत्र हेतुम् आचक्षाणः भक्त्यधिकारे जातिनियमो नास्ति, इत्याह -
मां हीति
॥ ३२ ॥

यदि पापयोनिः पापाचारश्च त्वद्भक्त्या परां गतिं गच्छति, तर्हि किम् उत्त­म­जा­ति­नि­मि­त्तेन संन्यासादिना, किं वा सद् - वृत्तेन, इत्याशङ्क्य, आह -
किं पुनरिति ।

उत्तमजातिमतां ब्रह्मणादीनां अतिशयेन परा गतिः यतो लभ्यते, अतः भगवद्भजनं तैः एकान्तेन विधातव्यम् , इत्याह -
यत इति ।

मनु­ष्य­दे­हा­ति­रि­क्तेषु पश्वादिदेहेषु भगवद्भजनयोग्यता भावात् , प्राप्ते मनुष्यत्वे तद्भजने प्रयतितव्यम् , इत्याह -
दुर्लभमिति
॥ ३३ ॥

भगवद्भक्तेः इत्थम्भावं पृच्छति -
कथमिति ।

ईश्वरभजने इतिकर्तव्यतां दर्शयति -
मन्मना इति ।

एवं भगवन्तं भजमानस्य मम किं स्यात् ? इत्याशङ्क्य, आह -
मामेवेति ।
समाधाय भगवत्येव, इति शेषः ।

एव­मा­त्मा­न­मि­त्ये­तद् विवृणोति -
अहं हीति ।
अहमेव परम् अयनं तव - इति मत्परायणः, तथाभूतः सन् , मामेव आत्मानम् एष्यसि इति सम्बन्धः । तदेवं मध्यमानां ध्येयं निरूप्य, नवमेन अधमानां आरा­ध्या­भि­धा­न­मु­खेन निजेन पारमार्थिकेन रूपेण प्रत्यक्त्वेन ज्ञानं परमेश्वरस्य परम् आराधनम् , इत्यभिदधता, सोपाधिकं तत्पदवाच्यम् , निरुपाधिकं च तत्पदलक्ष्यम् व्याख्यातम्
॥ ३४ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञान - विरचिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने नवमोऽध्यायः ॥ ९ ॥