अद्वैतशारदा

आनन्दगिरिटीका (ईशावास्य)

१ परिच्छेदः

येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गुणेः ॥ १ ॥

ईशा वास्य­मि­त्या­दि­म­न्त्रा­न्व्या­चि­ख्या­सु­र्भ­ग­व­न्भा­ष्य­का­र­स्तेषां कर्म­शे­ष­त्व­शङ्कां तावद्व्युदस्यति । तथाहि कर्मजडाः केचन मन्यन्ते स्म । ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्र­त्वा­वि­शे­षा­दि­वे­त्वा­दि­म­न्त्र­वत् । अतः पृथ­क्प्र­यो­ज­ना­द्य­भा­वा­द­व्या­ख्येया इति तान्प्रत्याह -
ईशा वास्यमित्यादय इति ।

कर्म­स्व­वि­नि­युक्ता इति ।
इषे त्वेति शाखां छिन­त्ती­त्या­दि­व­द्वि­न­यो­ज­क­प्र­मा­णा­द­र्श­ना­त्प्रा­क­र­णा­न्त­र­त्वा­च्चे­त्यर्थः ।

श्रौत­वि­नि­यो­गा­भा­वेऽपि ‘बर्हिर्देवसदनं दामी’ त्यस्य बर्हि­र्ल­व­न­प्र­का­श­न­सा­म­र्थ्या­द्ब­र्हि­र्ल­वने यथा विनियोगस्तथा कर्म­शे­षा­त्म­प्र­का­श­न­सा­म­र्थ्येन कर्मस्वेषां विनियोग इत्यपि नाऽऽश­ङ्क­नी­य­मि­त्याह -
तेषामिति ।

शुद्ध­त्वा­दि­वि­शे­ष­ण­स्याऽऽ­त्मनः कर्मशेषत्वे प्रमा­णा­भा­वा­त्त­द्या­थात्म्यं न केवलं कर्मानुपयोगि किन्तु कर्मणा विरुध्यते चेत्याह -
याथात्म्यं चेति ।
शुद्धोऽहं स्वभावतो नाऽऽगन्तुकेनापि पाप्मना विद्धः सर्वत्रैकोऽशरीर आकाशोपम इति जानन्न कटाक्षेणापि कर्म वीक्षते । किन्त्वा­पा­त­प्र­ति­प­त्ति­र­प्ये­ता­दृशी निरुणद्ध्येव कर्म­प्र­वृ­त्ति­मि­त्यर्थः । किञ्च यः कर्मशेषः स उत्पाद्यो दृष्टो यथा पुरोडाशादिः । विकार्यः सोमादिः । आप्यो मन्त्रादिः । संस्कार्यो व्रीह्या­दि­स्त­दु­त्पा­द्या­दि­रू­पत्वं व्यापकं व्याव­र्त­मा­न­मा­त्म­या­था­त्म्यस्य कर्मशेषत्वमपि व्यावर्तयति ।

तथाऽऽ­त्म­या­थात्म्यं कर्तृ भोक्तृ च न भवति । येन ममेदं समीहितसाधनं ततो मया कर्त­व्य­मि­त्य­ह­ङ्का­रा­न्व­य­पुरः सरः कर्त्रन्वयः स्यादित्याह -
नह्येवमिति ।

ननूपनिषदां जपो­प­यो­गि­त्वा­द­न्यस्य च प्रमा­ण­स्या­द­र्श­ना­न्ना­स्त्ये­वै­ता­दृ­श­मा­त्म­या­थात्म्यं तत्राऽऽह -
सर्वासामिति ।
“यत्परः शब्दः स शब्दार्थः” इति मीमां­सा­प्र­सिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्प­र्य­द­र्श­नान्न जपो­प­यो­गि­त्व­मु­प­नि­ष­दां­शक्यं वक्तुम् । तथाहि - ईशा वास्य­मि­त्यु­प­क्रम्य स पर्य­गा­च्छु­क्र­मि­त्यु­प­सं­हा­रा­द­ने­ज­देकं तदन्तरस्य सर्व­स्ये­त्य­भ्या­स­द­र्श­ना­न्नै­न­द्देवा आप्नु­व­न्नि­त्य­पू­र्व­ता­स­ङ्की­र्त­नात् को मोहः कः शोक एकत्वमनुपश्यत इति फल­व­त्ता­स­ङ्की­र्त­ना­त्कु­र्व­न्ने­वे­हेति जिजी­वि­षो­र्भे­द­द­र्शिनः कर्म­क­र­णा­नु­वा­दे­ना­सुर्या नाम त इति निन्द­यै­का­त्म्य­द­र्श­नस्य स्तुत­त्वा­त्त­स्मि­न्नपो मातरिश्वा दधातीति युक्त्य­भि­धा­ना­च्चा­स्या­स्ता­व­दु­प­नि­षद ऐका­त्म्य­ता­त्पर्यं दृश्यते । एव­म­न्या­सा­म­प्यु­प­नि­ष­दा­मु­प­क्र­मो­प­सं­हा­रै­क­रू­प्या­भ्या­सा­पू­र्व­ता­फ­ल­व­त्ता­र्थ­वा­द­यु­क्त्यु­प­पा­द­नानि षट् तात्प­र्य­लि­ङ्गानि विकल्पेन समुच्चयेन चास्मा­भि­स्त­त्त्वा­लोके दर्शितानीति नेह प्रतन्यन्ते ।

किञ्च प्रत्य­य­स­म्वा­दोऽपि बलवत्त्वे कारणं प्रसिद्धम् । विद्यते चोपनिषदर्थे गीता­दि­स­म्वा­द­स्त­स्मा­दु­प­नि­ष­त्प­द­स­म­न्व­ये­ना­व­ग­म्य­मा­न­मै­कात्म्यं न प्रमा­णा­न्त­रा­नु­प­ल­म्भ­वि­रो­धे­ना­प­ल­प­नी­यम् । यथे­न्द्रि­या­न्त­रे­णा­न­व­ग­म्य­मा­न­मपि रूपं चक्षु­पाऽ­व­ग­म्य­मानं नापह्नूयते तथैकात्म्यमपि नाप­ह्न­वा­र्ह­मि­त्याह -
गीतानामिति ।
“समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विन­श्य­त्स्व­वि­न­श्यन्तं यः पश्यति स पश्यति ॥”(भ. गी. १३ । २७) इत्यादिगीतानाम् । ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥”(ब्रह्म­बि­न्दू­प­नि­षत् १२) इत्या­दि­मो­क्ष­शा­स्त्राणां चैका­त्म्य­प­र­त्वा­दि­त्यर्थः ।

यद्ये­ता­दृ­श­मा­त्म­तत्त्वं तर्हि निर­धि­का­रि­त्वा­त्क­र्म­का­ण्ड­मु­च्छि­द्ये­ते­त्यपि नाऽऽश­ङ्क­नी­य­मि­त्याह -
तस्मादिति ।
औप­नि­ष­दा­त्म­या­थ्या­त्म्य­वि­ज्ञा­न­वत इष्यत एव कर्मा­का­ण्डा­प्रा­मा­ण्यम् । यथा न ’हिंस्यात्सर्वा भूतानि’ इति निषे­ध­शा­स्त्रा­र्थ­नि­श्च­य­वत इष्यत एव श्येना­दि­वि­ध्य­प्र­मा­ण्यम् । यथा च तीव्र­क्रो­धा­क्रा­न्त­स्वान्तं प्रत्येव श्येना­दि­वि­धि­प्रा­माण्यं तथा मिथ्या­त्म­द­र्शिनं प्रत्येव कर्म­वि­धि­प्रा­मा­ण्य­मि­त्यर्थः ।

अत्र जैमि­नि­प्र­भृ­तीनां सम्मतिमाह -
यो हीत्यादिना ।
अर्थि­त्वा­दि­यु­क्तस्य कर्मण्यधिकारः षष्ठेऽध्याये प्रतिष्ठापितः । अर्थित्वादि च मिथ्या­ज्ञा­न­नि­दा­नम् । न हि नभो­व­न्नि­ष्क्रि­यस्य स्वत एव दुःखासंसर्गिणः पर­मा­न­न्द­स्व­भा­वस्य सुखं मे स्याद्दुःखं मे मा भूदित्यर्थित्वं शरी­रे­न्द्रि­य­सा­म­र्थ्येन च सम­र्थोऽ­ह­मि­त्य­भि­मा­नित्वं मिथ्याज्ञानं विना सम्भवतीत्यर्थः ।

यस्मा­दा­त्म­या­था­त्म्य­प्र­का­शका मन्त्रा न कर्मविधिशेषभूता न च माना­न्त­र­वि­रु­द्धा­स्त­स्मा­त्प्र­यो­ज­ना­दि­म­त्त्व­मपि तेषां सिद्धमित्याह -
तस्मादेत इति ।

व्याख्ये­य­त्व­मुक्त्वा प्रतिपदं व्याचष्टे -
ईशेति ।
‘ईशा’ ऐश्वर्ये इत्यस्य धातोः क्विपि लुप्ते कृदन्तं रूपमीट् तस्य तृती­यै­क­व­च­न­मी­शेति । ननु कर्तरि क्विब्वि­धा­ना­त्प­र­मा­त्म­न­श्चा­वि­क्रि­य­त्वा­त्कथं क्विब­न्त­श­ब्द­वा­च्य­तेति तत्राऽऽह -
ईशितेति ।
मातो­पा­धे­री­श­न­क­र्तृ­त्व­स­म्भ­वात् क्विब­न्त­श­ब्द­वा­च्यता न विरुध्यते निरूपाधिकस्य च लक्ष्यत्वं भविष्यतीत्यर्थः ।

ईशि­त्री­शि­त­व्य­भा­वेन तर्हि भेदः प्राप्त इत्याशङ्क्याऽऽह -
सर्व­ज­न्तू­ना­मात्मा सन्निति ।
यथाऽऽदर्शादिषु प्रति­बि­म्बा­ना­मात्मा सन् बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पि­त­भे­दे­ने­शि­त्री­शि­त­व्य­भा­व­स­म्भ­वान्न वास्त­व­भे­दा­नु­मानं सम्भवतीत्यर्थः । ‘वस’ आच्छादने । अस्य रूपं वास्यम् । तत्त्वत ईश्वरात्मकमेव सर्वं भ्रान्त्या यदनीश्वररूपेण गृहीतं तत्सर्वमीश्वर एवाऽऽत्मैवेति ज्ञाने­नाऽऽ­च्छा­द­नी­यम् । सर्वात्मक ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वो­प­दे­श­श्छा­न्दोग्ये तत्त्व­म­सी­ति­व­दि­त्यर्थः । ‘ब्रह्मैव सर्वमात्मैव सत्प्र­का­शा­वि­शे­षतः । हेयो­पा­दे­य­भा­वोऽयं न सन्स्व­प्न­व­दी­र्यते ॥’ उक्तं च - ‘न बन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तत्त्वतः । नित्यप्रकाश एवास्ति विश्वाकारो महेश्वरः ॥’ इति ।

यस्यौ­प­दे­शि­क­ज्ञा­न­मा­त्रे­णा­नृ­त­दृ­ष्टिर्न तिरस्क्रियते तस्य विचा­रा­दि­प्र­य­त्नेन तत्त्वप्रकाशे सत्य­नृ­त­दृ­ष्टि­स्ति­र­स्क्रि­ये­ते­त्य­भि­प्रेत्य दृष्टान्तमाह -
यथेति ।

चन्द­ना­ग­र्वा­दे­रु­द­का­दि­स­म्ब­न्धा­दा­र्द्री­भा­वा­दिना जातं यद्दौ­र्ग­न्ध्य­मौ­पा­धिकं मिथ्या तद्यथा तत्स्व­रू­प­नि­घ­र्ष­णा­भि­व्य­क्तेन स्वाभाविकेन गन्धे­नाऽऽ­च्छा­द्यते तद्वद्विचारादेः स्वरू­प­स­द्भा­वा­न्मि­थ्या­बु­द्धे­र्बा­ध­कत्वं सम्भवतीत्याह -
तद्वदेव हीति ।
स्वभा­वोऽ­ना­दि­र­विद्या तत्कार्यं स्वाभा­वि­क­मि­त्या­दि­बा­ध­यो­ग्य­त्व­प्र­द­र्श­नार्थं विशेषणम् । एवं विचा­रा­दि­प्र­य­त्न­व­तोऽ­नृ­त­दृ­ष्टि­ति­र­स्का­र­स­म्भा­व­ना­मुक्त्वा युक्त्य­न­भि­ज्ञस्य सर्वमिदमहं चेश्वर एवेति भाव­ना­या­म­धि­कृ­तस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वकर्मसंन्यास एवाधिकार इह मन्त्रे विव­क्षि­त­स्ते­न­त्य­क्ते­ने­त्य­त्र­त्या­ग­प­रा­म­र्शात् ।

“त्यजतैव हित­ज्ज्ञे­यं­त्यक्तुः प्रत्यक्परं पदम् ” इत्य­न्य­त्रा­प्यु­क्त­त्वा­त्पु­त्रा­द्ये­ष­णा­या­श्चि­त्त­वि­क्षे­प­हे­तु­त्वेन प्रसि­द्ध­त्वा­च्चे­त्य­भि­प्रे­त्याऽऽह -
एवमीश्वरात्मेति ।

चिकीर्षितं संन्यासं स्तौति -
तेन त्यक्तेनेति ।
त्यागेनाऽऽत्मा रक्षितः स्यान्नि­ष्क्रि­या­त्म­स्व­रू­पा­व­स्था­ना­नु­कू­ल­त्वा­त्त्या­ग­स्ये­त्यर्थः ।

संन्यासिनः शरी­र­सं­धा­र­णो­प­यु­क्त­कौ­पी­ना­च्छा­द­न­भि­क्षा­श­ना­दि­व्य­ति­रि­क्तेऽपि कथ­ञ्चि­द्द्र­व्य­प­रि­ग्रहे राग­श्चे­त्प्रा­प्नोति तन्निरोधे यत्नः कर्तव्यः । तस्य प्रधा­न­वि­रो­ध­त्वा­दि­त्य­भि­प्रेत्य नियमविधिमाह -
एवं त्यक्तैषण इति ।
स्विदिति निपातस्य सामा­न्या­र्थ­त्वेऽपि कस्यस्विदिति वित­र्का­र्थ­त्व­म­न्यत्र प्रसिद्धं तदिह न गृह्यत इत्य­न­र्थ­क­मि­त्यु­क्तम् । व्यव­हा­र­दृ­ष्ट्याऽ­प्या­त्मन एवेदं सर्वं शेषभूतं जडस्य चित्प­र­त­न्त्र­त्वा­द­तोऽ­प्राप्ते विषये नाऽऽङ्क्षा कर्तव्या । पर­मा­र्थ­त­स्त्वा­त्मैव सर्व­मि­त्या­का­ङ्क्षा­वि­षय एव नास्तीत्यर्थः ॥ १ ॥

आद्यमन्त्रस्य पूर्वार्धेन तत्त्वोपदेशः कृत­स्तृ­ती­य­पा­दे­ना­प­रि­प­क्व­ज्ञा­नस्य संन्या­स­वि­धि­रु­क्त­श्च­तु­र्थ­पा­देन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षि­प्या­र्थ­म­नु­व­द­त्यु­त्त­रस्य सम्ब­न्धा­भि­धि­त्सया -
एवमात्मविद इत्यादिना ।

पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यै­वो­त्त­र­म­न्त्रेण कर्म विहितं ततः समु­च्च­या­नु­ष्ठाने तात्पर्यं मन्त्र­द्व­य­स्ये­त्ये­क­दे­शि­श­ङ्का­मु­द्भा­व­यति -
कथं पुनरिति ।
शुद्ध­ब्र­ह्म­ज्ञा­न­क­र्मणी नैकाधिकारे विरु­द्ध­त्वा­दृ­तु­ग­म­न­त्रि­द­ण्डि­ध­र्म­वत् । अस्त्येव तत्रापि क्रमे­णै­क­क­र्तृ­क­त्व­मिति चेन्न । विशि­ष्ट­रू­प­भे­दा­द्भि­न्ना­धि­का­र­त्वात् । यच्चोक्तं ज्ञान­क­र्म­णो­र्वे­द­वि­हि­त­त्वेन शुद्धि­सा­म्या­द्वि­रो­धोऽ­सिद्ध इति तदसत् । ऋतु­ग­म­न­त्रि­द­ण्डि­ध­र्म­यो­र­प्य­वि­रो­ध­प्र­स­ङ्गात् । तदुभयं नैकस्य विहितमिति चेतुल्यमेतत् । प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि ‘न कर्मणा न प्रजया’(तै. ना. १२) ‘नानु­ध्या­या­द्ब­हू­ञ्छ­ब्दान्’ इत्या­दि­प्र­ति­षे­ध­स्तुल्यः ।

केवलकर्मविषयो निषेध इति न च वाच्यं केव­ल­प­द­व्य­व­च्छे­द्या­भा­वा­त्स­मु­च्च­य­वि­धे­र­द्या­प्य­नि­श्चि­त­त्वा­त्त­स्मान्न समच्चये तात्पर्यं मन्त्र­द्व­य­स्ये­त्याह -
ज्ञान­क­र्म­णो­र्वि­रोधमिति ।
कर्तृ­त्वा­द्य­ध्या­सा­श्रयं कर्म शुद्ध­त्वा­क­र्तृ­त्वा­दि­ज्ञा­ने­नो­प­मृ­द्यत इति सम्बन्धग्रन्थे यथोक्तं सहा­न­व­स्था­न­ल­क्षणं विरोधं किं न स्मरसि येनैकाधिकारत्वं तयोः कल्पयसीत्यर्थः ।

मन्त्रलिङ्गादपि तयो­र्भि­न्ना­धि­का­रत्वं प्रतीयत इत्याह -
इहाप्युक्तमिति ।
जिजीविषो रागिणः कर्म विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः । किञ्च धनसम्पन्नस्यैव कर्मण्यधिकारः । प्रथ­म­म­न्त्रा­र्था­धि­का­रि­णश्च धना­का­ङ्क्षा­नि­षे­धेन कर्मा­धि­का­र­नि­षेधः प्रतीयत इत्यर्थः ।

जिजीविषा हि कर्माधिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह -
न जीवित इति ।
अरण्यं स्त्रीज­ना­स­ङ्की­र्ण­मा­श्र­म­मि­या­द्ग­च्छे­दिति पदं वेद­शा­स्त्र­स्थि­ति­स्त­तोऽ­र­ण्य­वा­सो­प­ल­क्षि­ता­त्सं­न्या­सान्न पुन­रि­या­त्क­र्म­श्र­द्धया न प्रत्यावृत्तिं कुर्यादिति जिजी­वि­षा­दि­र­हि­तस्य संन्या­स­वि­धा­ना­दि­त्यर्थः ।

इतश्च नैकफलकामस्य ज्ञान­क­र्म­णो­र­धि­कारः प्रतिपत्तव्य इत्याह -
उभयोरिति ।
को मोहः कः शोक एकत्वमनुपश्यत इति सनि­दा­ना­न­र्थ­प्र­हाणं ज्ञानफलं वक्ष्यति । संसा­र­म­ण्ड­ला­न्त­र्ग­त­मेव च देशा­न्त­र­प्रा­प्त्या­यत्तं हिर­ण्य­ग­र्भ­प­द­प्रा­प्त्या­दि­ल­क्षणं कर्मफलं वक्ष्यति । अग्ने नय सुप­थे­त्य­न्ते­ने­त्यर्थः ।

नारा­य­णो­प­नि­ष­द्वा­क्य­मपि भिन्ना­धि­का­रित्वे प्रमाणयति -
इमौ द्वावेवेति ।
पुर­स्ता­त्सृ­ष्टि­का­लेऽ­नु­नि­ष्क्रा­न्त­तरौ भूत­सृ­ष्टि­म­नु­प्र­वृत्तौ भिन्ना­धि­का­रि­त्वा­दु­भयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति पर­म­पु­रु­षा­र्था­व्य­व­धा­ना­दि­त्यर्तः ।

व्यासवाक्यमपि सम्वादकमाह -
द्वाविमाविति ॥ २ ॥

आद्यमन्त्रार्थं प्रपञ्चयितुं प्रथ­म­म­वि­द्व­न्निन्दा क्रियत इत्याह -
अथेति ।
ते लोका इति तच्छब्दो यच्छब्दार्थे ।

यथाश्रुतमिति ।
येन यादृशं प्रतिषिद्धं विहितं वा देव­ता­दि­ज्ञा­न­म­नु­ष्ठितं स तदनुरूपामेव योनि­मा­प्नो­ती­त्यर्थः ।

आत्म­ह­न्तृ­त्व­स्यो­द­र­भे­दिनि प्रसिद्धेः कथमविद्वांस आत्महन इत्याह -
कथं त इति ।

उद­र­भे­दि­नोऽ­ध्या­त्मा­धि­कारे प्रस­ङ्गा­भा­वा­द­शु­द्ध­त्वा­ध्या­सेन तिरस्कार एवाऽऽ­त्म­ह­न्तृ­त्व­मि­त्याह -
अविद्यादोषेणेति ।
यथा कस्य­चि­च्छु­द्धस्य मिथ्या­भि­शा­पोऽ­श­स्त्र­वध उच्यते तद्वदात्मनि पापि­त्वा­द्य­ध्या­सोऽपि हिंसैवेत्यर्थः ।

अज­रा­म­र­त्वा­दि­ल­क्ष­णोऽ­ह­मिति सम्वेदनमभिधानं च यत्कार्यं तद्धतस्येव न दृश्यत इति हननमुपचर्यत इत्याह -
विद्यमानस्येति ।

अस्याऽऽ­त्म­घा­तस्य प्राय­श्चि­त­वि­धा­ना­द­र्श­ना­त्सं­स­र­ण­मेव फलमित्याह -
तेन हीति ॥ ३ ॥

उत्त­र­म­न्त्र­म­व­ता­र­यति -
यस्याऽऽत्मन इत्यादिना ।

अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिनः केचन नरकगामिन इति सांसा­रि­क­व्य­वस्था स्यादिति चेन्म­न­उ­पा­धि­नि­ब­न्ध­ने­त्य­भि­प्रे­त्याऽह -
मनस इत्यादिना ।
उपा­धे­र­नु­व­र्त­नात् विक्रि­या­दि­व्य­व­हा­रा­श्र­य­त्व­मिति शेषः ।

ननु मनसो देहा­न्तः­स्था­त्व­द्ब­हि­र्ग­म­ना­यो­ग्य­त्वा­त्कथं वेग­व­त्त्व­मि­त्या­श­ङ्क्याह -
देहस्थस्येति ।

जवी­य­स्त्वा­द­श्वा­दि­व­त्तर्हि चक्षु­रा­दि­ग्रा­ह्यत्वं प्राप्त­मि­त्या­श­ङ्क्याऽऽह -
नैनद्दैवा इति ।
चक्षु­रा­दि­प्र­वृ­त्ते­र्म­नो­व्या­पा­र­पू­र्व­क­त्वा­त्त­द­वि­ष­यत्वे चक्षु­रा­दि­वि­ष­य­त्व­म­प्या­त्मतो न सम्भवतीत्यर्थः ।

मनसो वा कथं न विषय आत्मेत्यत आह -
यस्मादिति ।
यथा मनःस्थं परिमाणं मनसो न विष­योऽ­त्य­न्ता­व्य­व­धा­ना­त­थाऽऽ­त्माऽ­प्य­न्ता­व्य­व­धा­ना­न्म­नसो न विष­य­स्त­द्व्या­प­क­त्वा­च्चे­त्यर्थः ।

उक्ता­त्म­स­म्भा­व­ना­यो­प­प­त्ति­माह -
तस्मि­न्ना­त्म­तत्त्वे सतीति ।
श्रौतानि कर्माणि सोमाज्यपयः प्रभृ­ति­भि­रिद्भिः सम्पाद्यन्त इति सम्ब­न्धा­ल्ला­क्ष­णि­कोऽ­प्शब्दः कर्मसु प्राण­चे­ष्टा­या­श्चा­ब्नि­मि­त­त्व­प्र­सिद्धेः; कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्ता इत्यर्थः ।

ईश्वरस्यापि हिरण्यगर्भस्य निय­त­प्र­वृ­त्त्य­न्य­था­नु­प­प­त्त्याऽ­धि­ष्ठाता परमेश्वरः सम्भाव्यत इत्युक्तमिदानीं मात­रि­श्व­ग्र­ह­ण­मु­प­ल­क्ष­णा­र्थ­मा­दाय तात्पर्यमाह -
सर्वा हीति ॥ ४ ॥

जामिता - आलस्यम् । व्यापि­त्वा­द्बा­ह्य­तोऽस्ति निर­ति­श­य­सू­क्ष्म­त्वा­द­न्त­श्चे­दस्ति तर्हि निरन्तरमेकरसं न स्यान्मा­ना­भा­वा­दि­त्या­श­ङ्क्याऽऽह -
प्रज्ञानघन एवेति ॥ ५ ॥

उक्ता­त्म­ज्ञा­नस्य फलं विधि­नि­षे­धा­ती­त­जी­व­न्मु­क्त­स्व­रू­पे­णा­व­स्था­न­मि­त्याह -
यस्त्विति ॥ ६ ॥

निर­ति­श­या­न­न्द­स्व­रू­प­मत एव दुःखा­स्पृ­ष्ट­मा­त्मा­न­म­जा­नतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति । ततः पुत्रा­दी­न्का­म­यते तदर्थं देवताराधनादि चिकीर्षति न त्वात्मैकत्वं पश्य­त­स्त­तोऽ­न्व­य­व्य­ति­रे­काभ्यां शोका­दे­र­वि­द्या­का­र्य­त्वा­व­धा­र­णा­न्मू­ला­वि­द्या­नि­वृ­त्त्यैव शोका­दे­रा­त्य­न्तिकी निवृ­त्ति­र्वि­द्या­फ­ल­त्वेन विवक्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह -
शोकश्च मोहश्चेत्यादिना ॥ ७ ॥

योऽयमिति ।
‘स्नु’ प्रक्षरणे धातुः । स्नावयन्ति शरीरमिति स्नावाः शिराः । क्रान्त­म­ति­क्रान्तं नष्ट­मि­त्यु­प­ल­क्षणं भूत­भ­वि­ष्य­द्व­र्त­मा­न­दर्शी ॥ ८ ॥

प्रकरणविभागं दिद­र्श­यि­षु­र्वृ­त्त­म­नु­व­दति -
अत्राऽऽद्येनेति ।
यदुक्तं भास्करेण सर्वाऽ­प्यु­प­नि­ष­देकं ब्रह्म­वि­द्या­प्र­क­रणं ततः प्रक­र­ण­भे­द­क­र­ण­म­नु­चि­मिति । तदसत् । प्राणा­द्यु­पा­स­न­वि­धा­न­स्या­प्यु­प­नि­षत्सु दर्शनात् । न च तदपि ब्रह्म­ज्ञा­ना­ङ्ग­मिति वाच्यम् । पृथक्फलश्रवणात् । तेनापि व्याकृ­ता­व्या­कृ­तो­पा­स­न­स­मु­च्च­य­वि­धा­नस्य प्रक­र­ण­भे­दे­नै­वे­ष्ट­त्वा­द्व्या­कृ­ता­व्या­कृ­तो­पा­स­नस्य प्रका­रा­न्त­र­त्वा­त्त­स्मा­द्यथा कर्म­का­ण्डेऽ­ग्नि­हो­त्रा­दि­प्र­क­रणं भिन्नमेवेष्यते भिन्ना­धि­का­र­त्वा­त्त­त्त­त्क­र्म­ण­स्त­थो­प­नि­ष­त्स्वपि भिन्ना­धि­का­र­त्वा­त्क­र्मा­वि­रु­द्ध­त­द्धि­रु­द्ध­वि­द्या­प्र­क­र­ण­भेदो न विरुध्यते ।

मन्त्रार्थे ब्राह्मणसम्मतिं दर्श­यि­तु­मु­प­क्र­मते -
अनयोश्चेत्यादिना ।

तत्र वाक्ये कथ­म­ज्ञ­त्व­म­व­ग­म्यत इत्याशङ्क्याऽऽह -
मन एवेति ।
“जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय”(बृ.उ. १-४-१७) इति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न सम्पद्यते तदाऽध्यात्मं जायादिसम्पत्तिं दर्शयति । एत­च्चा­ज्ञ­त्व­लिङ्गं मन आदि­ष्वा­त्म­त्वा­द्य­भि­मा­न­स्या­ज्ञा­न­का­र्य­त्वात् । यथा च बाह्य­का­मि­न्य­लाभे सुप्तो मनो­वि­जृ­म्भि­त­का­मि­नी­मु­प­भु­ञ्जा­नोऽज्ञः प्रसि­द्ध­स्त­द्व­द­य­म­पी­त्यर्थः ।

तेषां च कर्मणां फलं संसा­रा­प्ति­रे­वे­त्यपि तत्रैव दर्शितमित्याह -
तथा चेति ।
एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासौ वा; त्रीण्यस्य भोगसाधनानि मनो­वा­क्प्रा­ण­ल­क्ष­णानि; पश्वर्थमेकं तत्पय इति सप्ता­न्न­स­र्गो­द­र्शितः श्रुत्या यत्सप्तान्नानि मेधया तप­साऽ­ज­न­य­त्पि­ते­त्या­दिना । अत्रैकैको यजमान एव विहि­त­प्र­ति­षि­द्ध­ज्ञा­न­क­र्मा­नु­ष्ठा­ना­त्स­र्वस्य संसारस्य साक्षा­त्पा­र­म्प­र्याभ्यां जन­क­त्वा­त्पि­तो­च्यते । तेषु च सृष्टेष्वन्नेषु तस्य पितुरहमिदं ममे­द­मि­त्या­त्म­त्वा­ध्या­सेन मनआदिष्वितरेषु च सम्ब­न्धा­ध्या­से­ना­व­स्थानं संसारः प्रसिद्ध इत्यर्थः ।

एवं मन्त्र­प्र­द­र्शिते निष्ठाद्वये ब्राह्मणसम्मतिं दर्शयित्वा प्रकरणविभागं दर्शयति -
ये तु ज्ञाननिष्ठा इत्यादिना ।

अत्याश्रमिभ्य इति ।
उत्तमाश्रमिभ्य इत्यर्थः । साध्य­सा­ध­न­भे­दो­प­म­र्देन यदा­त्मै­क­त्व­वि­ज्ञानं यस्मिन्सर्वाणि भूता­न्या­त्मै­वा­भू­दि­त्य­व­धा­र­णे­नोक्तं पूर्वार्धेन, उत्तरार्धेन च संसा­र­नि­वृ­त्ति­फ­ल­क­मुक्तं तन्न श्रौतेन स्मार्तेन वा कर्मणा केनचिदमूढः समुच्चिचीषति । अन्धं तम इत्यादौ तु समु­च्चि­ची­ष­याऽ­वि­द्व­दा­दि­निन्दा दृश्यते ।

ततः किमित्यत आह -
तत्र च यस्येति ।

कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः समभ्वतीत्यत आह -
यद्दैवं वित्तमिति ।
यच्चोक्तं भास्करेणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रा­न्त­त्वा­त्तस्या एव समुच्चिचीषया निन्दोच्यत इति । तदसत् । न हि प्रकृ­त­मि­त्ये­ता­वता सम्बध्यते किं चु सम्बन्धयोग्यम् । शुद्ध­ब्र­ह्मा­त्मै­क­त्व­वि­द्या­यास्तु कर्तृ­त्वा­द्य­ध्या­सो­प­म­र्द­क­त्वा­न्नास्ति कर्म­स­म्ब­न्ध­यो­ग्यता । किञ्च यस्मि­न्नि­ष्प­न्नेऽपि फलस्य व्यवधानं सम्भाव्यते तस्यैव सहकारिसमुच्चय इष्यते दर्शादेः, इह त्वेक­त्व­म­नु­प­श्यतः को मोहः कः शोक इत्ये­क­त्व­द­र्श­न­स­म­का­ल­मेव मोहा­दि­नि­वृ­त्त्य­भि­धा­नान्न कालान्तरीयफलम् । ततो न सह­का­रि­स­मु­च्चि­चीषा । किञ्चास्या मन्त्रोपनिषदो ब्राह्मणे “ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इत्यादौ तृतीयाश्रुत्या यज्ञा­दे­रि­ष्य­मा­ण­वे­दने करणत्वेन सम्बन्धः प्रतीयते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया सम्बन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सह­का­रि­स­म्ब­न्ध­वि­धि­त्सया निन्दे­त्य­प्य­यु­क्तम् । अत एव चाग्नी­न्ध­ना­द्य­न­पेे­क्षे­ति­सूू­त्र­वि­रो­धश्च । समुच्चयश्च परेणापि नेष्यते । विरोधेन च परिजह्रे । तस्मा­त्क­र्मा­वि­रु­द्ध­दे­व­ता­ज्ञा­न­स्यै­वात्र समुच्चयो विधित्स्यते ।

ननु देवताज्ञानस्य कर्म­फ­ला­ति­रि­क्त­फ­ला­भा­वा­त्स­मु­च्चयो न सम्भवतीत्यत आह -
विद्ययेति ।

ननु समुच्चिचीषया निन्देति किमिति व्याख्यायते । अध्य­य­न­वि­धे­र्मो­क्षा­द­र्वा­क्प­र्य­व­सा­ना­नु­प­प­त्ते­र्दे­व­लो­का­दि­प्राप्तेः फला­भा­स­त्वा­त्प्र­हा­णा­र्थैव निन्दा किं नेष्यते तत्राऽऽह -
तयोर्ज्ञानकर्मणोरिति ।
न फलशब्दो मोक्षे रूढो मोक्ष­म­नि­च्छ­ता­मपि समीहिते फल­व्य­व­हा­र­द­र्श­ना­त्ततो यो देव­लो­का­दि­मु­क­पा­दि­त्सते तस्य तदपि फलं भवत्येवेत्यर्थः ॥ १-१०-११ ॥

चित्तन्त्रा माया पर­मे­श्व­र­स्यो­पाधिः । “मायां तु प्रकृतिं विद्या­न्मा­यि­नं­तु­म­हे­श्व­रमि”(श्वे. उ. ४ । १०) त्यादि­श्रु­त्य­न्त­र­प्र­सि­द्धाऽ­त्रा­स­म्भू­ति­श्ब्दे­नो­च्यते न ब्रह्म । तस्य निर्विकारस्य साक्षा­त्प्र­कृ­ति­त्वा­नु­प­पत्तेः । भास्कराभिमतस्तु परि­णा­म­वा­द­स्त­त्त्वा­लोके निरस्त एवास्माभिः । सांसा­रि­क­दुः­खा­नु­भ­वा­भा­वेन च सुषु­प्ति­व­त्प्र­कृ­ति­ल­यस्य पुरु­षे­णा­र्थ्य­मा­न­ताऽ­प्यु­प­प­द्यते । फलं च कर्मोपासन इव प्रकृ­त्यु­पा­स­नेऽपि परमेश्वर एव दास्यति । ततो जड­त्वा­त्प्र­कृतेः फल­दा­तृ­त्वा­नु­प­प­त्ते­रु­पा­स्य­त्वा­नु­प­प­त्ति­रि­त्यपि कुचोद्यमेव ॥१२-१३-१४ ॥

विस्त­रेे­णो­क्त­म­र्थ­जातं संक्षि­प्यो­प­सं­ह­रति -
मानु­ष­दै­व­वि­त्त­साध्यमित्यादिना ।
शरीरपाटवं गोभू­हि­र­ण्या­दि­सा­ध­न­स­म्प­तिश्च मानुषं वित्तम् । दैवं वित्तं देेवताज्ञानम् ।

उत्तरग्रन्थस्य सम्ब­न्धा­भि­धि­त्स­याऽ­र्थ­वि­शे­ष­म­नु­व­दति -
तत्र निषेकादीत्यादिना ।
तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्या­दि­नाऽऽ­पे­क्षि­का­मृ­तत्वं फल­मि­त्यु­क्त­म­स्मा­भि­रिति ॥ १५ ॥

व्याहृत्यव इति ।
तस्य भूरिति शिरः भुव इति बाहू सुवरिति प्रतिष्ठा पादावित्यर्थः ॥ १६-१७ ॥

मन्त्रान्पदशो व्याख्याय संक्षेपतो विचारमारभते -
अविद्यया मृत्युं तीर्त्वेत्यादिना ।

अमृतत्वं चेति ।
अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति सम्बन्धः ।

शास्त्री­य­यो­र्ज्ञा­न­क­र्म­णो­र्वि­रो­धा­वि­रोधौ शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोक्ते सिद्धान्ती शास्त्रसिद्ध एव विरोध इत्याह -
दूरमेते इति ।
विषूची नानागतौ विद्याविद्ये दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः ।

सह­स­म्भ­वा­नु­प­प­त्ते­रिति ।
काऽनुपपत्तिः? काठते विरोधश्रवणात् तद्ग­त­वि­द्या­वि­द्य­यो­र्वि­रो­धोऽस्तु । इह त्ववि­रो­ध­श्र­व­णा­द­वि­रोधो भविष्यतीति न वाच्यम् । विरोधाविरोधयोः सिद्धत्वेन विकल्पासम्भवात् । उदि­ता­नु­दि­त­हो­म­योर्हि पुरु­ष­त­न्त्र­त्वा­द्युक्तो विकल्प इत्युक्तं, तर्ह्यविरोध एवास्तु समु­च्च­य­वि­धि­ब­ला­दिति चेन्न । मुख्य­ब्र­ह्म­वि­द्या­वि­द्ययोः शुक्ति­वि­द्या­यो­रिव सहसम्भवानुपपत्तेः समु­च्च­य­वि­धि­र­सिद्धः । सिद्धे समुच्चयविधौ तद्ब­ला­द­वि­रो­धा­व­ग­मोऽ­वि­रो­वा­व­ग­माच्च समु­च्च­य­सि­द्धि­रि­त्य­न्यो­न्या­श्रयः स्यादित्यर्थः ।

सह­स­म्भ­वा­नु­प­प­त्ता­वपि क्रमेणैकाश्रये विद्याविद्ये स्यातामिति चेद्यदि पूर्वमविद्या पश्चात्तु विद्येति क्रमस्तर्हीष्यत एव । यदि पश्चा­त्त­र्ह्य­स­म्भव इत्याह -
न विद्यो­त्प­त्ता­विति ।
पूर्वसिद्धाया अविद्यायाः प्रध्व­स्त­त्वा­द­न्य­स्या­श्चो­त्पत्तौ कार­णा­स­म्भ­वा­न्मू­ला­भा­वेन भ्रम­सं­श­या­ग्र­ह­णा­ना­मपि विदु­षोऽ­नु­प­प­त्ति­रि­त्यर्थः ।

विद्योत्पत्तौ मा भूदविद्या कर्म तु भविष्यति विदुषोऽपि व्याख्या­न­भि­क्षा­ट­ना­दि­द­र्श­ना­दि­त्या­श­ङ्क्याह -
अवि­द्याऽ­स­म्भ­वा­दिति ।
चोद­ना­प्र­यु­क्ता­नु­ष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं ब्रह्मा­त्मै­कत्वं तु साक्षादनुभवतो न चोदना सम्भवति कामा­भा­वा­त्का­मिनो हि सर्वाश्चोदनाः । ‘अकामिनः क्रिया काचिद् दृश्यते नेह कस्यचित्। यद्यद्धि कुरुते जन्तु­स्त­त्त­त्का­मस्य चेष्टितम् ॥’ इति स्मरणात् । विद्व­च्छ­री­र­स्थि­ति­हे­त्व­वि­द्या­ले­शा­श्र­य­क­र्म­शे­ष­नि­मित्तं तु विदुषो भिक्षाटनादि न कर्म, चोद­ना­भा­वा­त्किन्तु याव­त्प्रा­ण­श­री­र­सं­यो­ग­भावि तत्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्मा­ध्या­सो­पा­दा­ना­वि­द्याया असम्भवान्नैव किञ्चित्करोमीति प्रत्ययाच्चेयति भावः ।

यदु­क्त­म­मृ­त­श­ब्देन मुख्य­मे­वा­मृ­तत्वं किं न गृह्यते विद्याशब्देन च परमात्मविद्येति तत्राऽऽह -
अमृतमिति ।
मुख्या­मृ­त­त्व­ग्र­हणे हिर­ण्म­या­दि­म­न्त्रेण द्वार­मा­र्ग­या­च­न­म­नु­प­पन्नं स्यात् । न तस्य प्राणा उत्क्रा­म­न्त्यत्र ब्रह्म समश्नुन इत्यादिश्रुतेः । ततो मुख्या­र्थ­बा­धा­द्गौ­णा­र्थ­ग्र­हणं युक्तमित्यर्थः । यस्मादर्थान्तरं न सङ्गच्छते तस्मा­दि­त्यु­प­सं­हारः ॥ १८ ॥

ईशा­प्र­भृ­ति­भा­ष्यस्य शाङ्करस्य परात्मनः ।
मन्दो­प­कृ­ति­सि­द्ध्यर्थं प्रणीतं दिप्पणं स्फुटम् ॥
इति श्रीप­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीशु­द्धा­न­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृता वाज­स­ने­य­सं­हि­तो­प­नि­ष­द्भा­ष्य­टीका समाप्ता ॥