आनन्दगिरिटीका (काठक)
प्रथमोऽध्यायः: प्रथमा वल्ली
धर्माधर्माद्यसंसृष्टं कार्यकारणवर्जितम् ।
कालादिभिरविच्छिन्नं ब्रह्म यत्तन्नमाम्यहम् ॥ १ ॥
यः साक्षात्कृतपरमानन्दो यावदधिकारं याम्ये पदे वर्तमानोऽकर्तृब्रह्मात्मतानुभवबलतो भूतयातनानिमित्तदोषैरलिप्तस्वभाव आचार्यो वरप्रदानेन परब्रह्मात्मैक्यविद्यामुपदिदेश यस्मै चोपदिदेश ताभ्यां नमस्कुर्वन्नाचार्यभक्तेर्विद्याप्राप्त्यङ्गत्वं दर्शयति -
ओं नमो भगवते वैवस्वतायेति ।
अथशब्दो मङ्गलार्थः ।
चिकीर्षितं प्रतिजानीति -
काठकेति ।
ननूपनिषदो वृत्तिर्नाऽऽरब्धव्या प्राणिनां कामकलुषितचेतसामुपनिषच्छ्रवणात्पराङ्मुखत्वाद्विशिष्टस्याधिकारिणो दुर्निरूपत्वाद्बन्धस्य च सत्यस्य कर्मभ्य एव निवृत्तेरुपनिषज्जन्यविद्याया निष्प्रयोजनत्वाज्जीवस्य चासंसारिब्रह्मात्मतायाः प्रतिपादयितुमशक्यत्वेन निर्विषयत्वाच्चेत्याशङ्क्योपनिषच्छब्दनिर्वचनेन विद्याया विशिष्टाधिकार्यादिमत्त्वप्रदर्शनेन तज्जनकस्य ग्रन्थस्यापि विशिष्टाधिकार्यादिमत्त्वेन व्याख्येयत्वं दर्शयितुं प्रथममुपनिषच्छब्दस्वरूपसिद्धिं तावदाह -
उपनिपूर्वस्येति ।
ब्रह्मविद्यायामुपनिषच्छब्दस्य ‘उपनिषदं भो ब्रूहि’(के.उ. ४-७) इत्यादिप्रयोगदर्शनाद्धात्वर्थमाह -
उपनिषच्छब्देनेति ।
क्लृप्तावयवशक्त्यैव प्रयोगसम्भवे समुदायशक्तिरुपनिषच्छब्दस्य न कल्पनीयेत्याह -
केन पुनरिति ।
‘षद्लृ’ विशरणगत्यवसादनेष्विति धातोर्विशरणमर्थमादाय योगवृत्तिमाह -
उच्यत इति ।
विषयेषु क्षयिष्णुत्वादिदोषदर्शनाद्विरक्ताः केचन मुमुक्षवः प्रसिद्धा न सर्वे भवदृशाः कामुका एवेति यच्छब्देन प्रसिद्धावद्योतकेन कथयति । आनुश्रविकाः शब्दप्रतिपन्नाः स्वर्गभोगादयः ।
उपसद्येति ।
आचार्योपदेशाल्लब्ध्वा यावत्साक्षात्कारं शीलयन्ति संसार्यसंसार्यैक्यासम्भावनादि निरस्यन्तीत्यर्थः ।
गत्यर्थमादायाऽऽह -
पूर्वोक्तेति ।
अग्निविद्यायामप्यवसादनमादायोपनिषच्छब्दस्य वृत्तिमाह -
लोकादिरिति ।
भूरादिलोकानामादिः प्रथमजो ब्रह्मणो जातो ब्रह्मजः स एव जानातीति ज्ञः ।
ग्रन्थे तु भक्त्येति ।
उपचारेणोपनिषच्छब्दप्रयोग इत्यर्थः ।
उपनिषच्छब्दनिर्वचनेन सिद्धमर्थमाह -
एवमित्यादिना ।
आत्यन्तिकी निदाननिवृत्त्या निवृत्तिर्विवक्षिता । निदानं चान्वयव्यतिरेकशास्त्रन्यायेभ्यः संसारस्याऽऽत्मैकत्वाविद्या । सा च न कर्मणा विनिवर्ततेऽतो विद्यायाः प्रयोजनेन साध्यसाधनलक्षणः सम्बन्ध इत्यर्थः । ‘वश’ कान्तावित्यस्य शत्रन्तं रूपमुशन्निति । श्रवः कीर्तिः । सर्वमेधेन सर्वस्वदक्षिणेनेजे यजनं कृतवानित्यर्थः ॥ १ ॥
सदसि यज्ञसभायां येऽन्ये मिलिता ब्राह्मणास्तेभ्यश्च ॥ २ ॥
पीतमुदकं प्रागेव नोत्तरकालं पानशक्तिरप्यस्तीत्यर्थः ॥ ३ - ४ ॥
यथावसरं गुरोरिष्टं ज्ञात्वा शुश्रूषणे प्रवृत्तिर्मुख्या । आज्ञावशेन मध्यमा । तदपरिपालनेनाधमा । मया दत्तेन यत्कर्तव्यमद्य यमस्य करिष्यति तत्किं कर्तव्यमासीन्नासीदेव विधानाभावात् । कथं तर्ह्युक्तवानित्यत आह -
नूनमिति ॥ ५ - ६ ॥
श्रुत्यनुक्तपूर्वभाषणादिकमपि कथायामपेक्षितं पूरयति -
स एवमुक्तः पितेति ॥ ७ - ८ ॥
प्रेतीभूतोऽयमागतो नावलोकनीय इति मत्वोपेक्षां यथा न करोति तथा प्रसादं कुर्वित्याह -
किञ्च त्वत्प्रसृष्टमिति ॥ ९ - १० ॥
औद्दालकिरिति तद्धितः स्वार्थे व्याख्यातोऽपत्यार्थे व्याख्येय इत्याह -
द्व्यामुष्यायणो वेति ।
अमुष्य प्रख्यातस्यापत्यमामुष्यायणः । द्वयोः पित्रोः पूर्वभाषादिना सम्बन्धी चासावामुष्यायणश्च । न जारज इत्यर्थः ॥ ११ ॥
स्वर्गसाधनमग्निज्ञानं प्रष्टुं स्वर्गस्वरूपं तावदाह -
स्वर्गे लोक इति ॥ १२ - १३ ॥
इयं च वक्ष्यमाणा मृत्योः प्रत्निज्ञाऽवगन्तव्या । “स त्रेधाऽऽत्मानं व्यकुरुत”(बृ.उ. १-२-३) इति श्रुतेरग्निवाय्वादित्यरूपेण समष्टिरूपो विराडेव व्यवस्थित इति । तेन विराड्रूपेणाग्निर्जगतः प्रतिष्ठेत्युच्यते ॥ १४ ॥
सप्रपञ्चमग्निज्ञानं चयनप्रकरणाद्द्रष्टव्यमिति श्रुतिरस्मान्बोधयतीत्याह -
इदं श्रुतेर्वचनमिति ॥ १५ - १६ ॥
विशुद्धिरिति धर्माद्यवगतिः ।
दृष्ट्वा चाऽऽत्मभावेनेति ।
अयमर्थः - विंशत्यधिकानि सप्त शतानीष्टकानां सङ्ख्या संवत्सरस्योरात्राणि च तावत्सङ्ख्याकान्येव सङ्ख्यासामान्यात्तैरिष्टकास्थानीयैश्चितोऽग्निरहमित्यात्मभावेन ध्यात्वेति ॥ १६ - १७ - १८ - १९ ॥
पितापुत्रस्नेहादिस्वर्गलोकावसानं यद्वरद्वयसूचितं संसाररूपं तदेव कर्मकाण्डप्रतिपाद्यमात्मन्यारोपितं तन्निवर्तकं चाऽऽत्मज्ञानमित्यध्यारोपापवादभावेन पूर्वोत्तरग्रन्थयोः सम्बन्धमाह -
एतावद्धीति ।
प्रथमवल्लीसमाप्तिपर्यन्ताख्यायिकाया अवान्तरसम्बन्धमाह -
तमेतमर्थमिति ।
देहव्यतिरिक्तात्मास्तित्वे वादिविप्रतिपत्तेः संशयश्चेत्तर्हि प्रत्यक्षादिना स्वस्यैव निर्णयज्ञानसम्भवात्तन्निर्णयस्य निष्प्रयोजनत्वाच्च न तदर्थः प्रश्नः कर्तव्य इत्याशङ्क्याह -
अतश्चास्माकमिति ।
प्रत्यक्षेण स्थाणौ निर्णीते पुरुषो न वेति सन्देहादर्शनाद्व्यतिरिक्तात्मास्तित्वे च सन्देहदर्शनान्न प्रत्यक्षेण निर्णयः परलोकसम्बन्ध्यात्मना च कस्यचिल्लिङ्गस्याविनाभावादर्शनान्नानुमानेनापि निर्णय इत्यर्थः ॥ २० - २१ - २२ ॥
एकैकं पुत्रधनादीनां वरत्वेनोपन्यस्य समुच्चितमिदानीमुपन्यस्यति -
किञ्च वित्तं प्रभूतमिति ।
‘अस्’ भुवीति धातोर्लोण्मध्यमपुरुषैकवचनान्तस्य निपात एधीति ततो भवेति व्याख्यातम् ॥ २३ - २४ - २५ - २६ - २७ ॥
किञ्चोत्कृष्टपुरुषार्थलाभे सम्भवत्यधमं कामयमानो मूर्ख एवाहं स्यां ततोऽपि मम स एव वर इत्याह -
यतश्चाजीर्यतामित्यादिना ॥ २८ - २९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने प्रथमा वल्ली समाप्ता ॥
अभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याऽविद्याविभागप्रदर्शनेन च केवलविद्यार्थितया शिष्यं प्रथमं स्तौतीत्याह -
परीक्ष्येति ।
श्रेयःप्रेयसोरन्यतरपरित्यागेनैवान्यतरोपादाने हेतुमाह -
ते यद्यपीति ।
ते यद्यप्येकैकपुरुषसम्बन्धिनी तथाऽपि विरुद्धे ॥ १ - २ - ३ - ४ - ५ ॥
सम्यक्प्राक्काले देहपातादूर्ध्वमेवेयते गम्यत इति शेषः ॥ ६ - ७ ॥
अणुत्वं परोक्षत्वम् ॥ ८ - ९ ॥
मया जानताऽपि वह्वायासं कर्म कृतं त्वं दीयमानमपि तत्फलं न गृह्णासि मत्तोऽधिकप्रज्ञोऽसीति सन्तोषात्स्तौतीत्याह -
पुनरपि तुष्ट आहेति ॥ १० - ११ ॥
यश्च त्वया देहव्यतिरिक्त आत्मा दृष्टस्तस्यैव परमार्थस्वरूपज्ञानं संसारनिवर्तकं परमानन्दप्राप्तिसाधनं धर्म्यं च नातः परं श्रेयःसाधनमस्तीति पृष्टस्य वस्तुनः प्रशंसया च प्रष्टारं प्रशंसति -
यं त्वं ज्ञातुमिच्छसीत्यादिना ॥ १२ - १३ ॥
यदि देहव्यतिरिक्तस्याऽऽत्मनः प्रथमं पृष्टस्य परमार्थस्वरूपज्ञानमेव श्रेयःसाधनं तर्हि तदेव ब्रूहीत्याह -
यद्यहं योग्य इत्यादिना ।
अत एव वरदानव्यतिरेकेणापूर्वोऽयं प्रश्न इति नाऽऽशङ्कनीयं पूर्वपृष्टस्यैव याथातथ्यप्रश्नः पृष्टस्य वस्तुनो विशेषणान्तरं ज्ञानसाधनं वक्तुमित्यर्थः ॥ १४ ॥
सर्वे वेदा इति ।
वेदैकदेशा उपनिषदः । अनेनोपनिषदो ज्ञानसाधनत्वेन साक्षाद्विनियुक्तास्तपांसि कर्माणि शुद्धिद्वारेणावगतिसाधनानि ।
मन्दाधिकारिणो विचारासमर्थस्य क्रमेणावगतिसाधनं सङ्क्षिप्याऽऽह -
सङ्ग्रहेणेति ।
यस्य शब्दस्योच्चारणे यत्स्फुरति तत्तस्य वाच्यं प्रसिद्धं समाहितचित्तस्योङ्कारोच्चारणे यद्विषयानुपरक्तं संवेदनं स्फुरति तदोङ्कारमवलम्ब्य तद्वाच्यं ब्रह्मास्मीति ध्यायेत्तत्राप्यसमर्थ ओंशब्द एव ब्रह्मदृष्टिं कुर्यादित्यर्थः ॥ १५ - १६ ॥
साधनहीनायोपदेशोऽनर्थक इति मत्वोच्चावचमवगतिसाधनमुक्त्वा वक्तव्यस्वरूपं यत्पृष्टं तदभिधानायोपक्रमत इत्याह -
अन्यत्र धर्मादित्यादिनेति ।
यद्यात्मनोऽन्यद्ब्रह्म स्यात्तत्र जन्मादिप्राप्त्यभावादप्राप्तनिषेधः स्यादतो जन्मादिप्रतिषेेधेन ब्रह्मोपदिशन्नात्मस्वरूपमेवोपदिशतीति गम्यते । मरणनिमित्ता च नास्तित्वाशङ्कात्मनो मरणाभावेऽस्तित्वविषयप्रश्नस्याप्येतदेव प्रतिवचनं भवतीति द्रष्टव्यम् ॥ १७ - १८ ॥
यद्यविक्रिय एवाऽऽत्मा तर्हि धर्माद्यधिकार्यभावात्तदसिद्धौ संसारोपलम्भ एव न स्यादित्याशङ्क्याह -
अनात्मज्ञविषय एवेति ।
यदज्ञानात्प्रवृत्तिः स्यात्तज्ज्ञानात्सा कुतो भवेदिति न्यायाच्चाऽऽत्मज्ञस्य धर्मादि नोपपद्यतेऽत आत्मज्ञः सदा मुक्त एवेत्याह -
न्यायाच्चेति ।
तदुक्तम् - “विवेकी सर्वदा मुक्तः कुर्वतो नास्ति कर्तृता । अलेपवादमाश्रित्य श्रीकृष्णजनकौ यथा” इति ॥ १९ ॥
अकामत्वादिसाधनान्तरविधानार्थमुत्तरवाक्यमवतारयति -
कथं पुनरिति ।
एकस्याणुत्वं महत्त्वं च विरुद्धं कथमनूद्यत इत्याशङ्क्याणुत्वाद्यध्यासाधिष्ठानत्वादणुत्वादिव्यवहारो न तत्त्वत इत्यविरोधमाह -
अणु महद्वेति ॥ २० ॥
विरुद्धानेकधर्मवत्त्वाद्दुर्विज्ञेयश्चेदात्मा कथं तर्हि पण्डितस्यापि सुज्ञेयः स्यादित्याशङ्क्याऽऽह -
स्थितिगतीति ।
विश्वरूपो मणिर्यथा नानारूपोऽवभासते परं नानाविधोपाधिसन्निधानान्न स्वतो नानारूपः चिन्तामणौ वा यद्यच्चिन्त्यते तत्तच्चिन्तोपाधिकमेवावभासते न तत्त्वतः, तथा स्थितिगतिनित्यानित्यादयो विरुद्धानेकधर्मा येषां तदुपाधिवशादात्माऽपि विरुद्धधर्मवानिवावभासत इति योजना । इति तस्य सुविज्ञेयो भवति । उपाध्यविविक्तदर्शिनस्तु दुर्विज्ञेय एवेत्यर्थः ।
स्वतो विरुद्धधर्मवत्त्वं नास्तीत्येतदेव श्रुतियोजनया दर्शयति -
करणानामित्यादिना ।
एकदेशविज्ञानस्येति ।
मनुष्योऽहं नीलं पश्यामीत्यादिपरिच्छिन्नविज्ञानस्येत्यर्थः ॥ २१ - २२ ॥
न बहुना श्रुतेनेति ।
आत्मप्रतिपादकोपनिषद्विचारातिरिक्ताशास्त्रश्रवणेन न लभ्यः । उपनिषद्विचारेणापि केवलेनेति । सिद्धोपदेशरहितेन न लभ्यत इत्यर्थः ।
परमेश्वराचार्यानुग्रहेण तु लभ्यत इत्याह -
यमेवेति ।
स्वात्मानमेव साधकः श्रवणमननादिभिर्वृणुते सम्भजते श्रवणादिकालेऽपि सोऽहमित्यभेदेनैवानुसन्धत्त इत्यर्थः ।
तेनैवेति ।
लक्षणया परमात्मानुग्रहेणैव वरित्राऽभेदानुसन्धानवता यथानुसन्धानमात्मतयैव परमात्मा लभ्यो भवतीत्यर्थः । वैपरीत्येन वा योजना । आत्मा त्वेष प्रकरणी परमात्माऽन्तर्यामिरूपेणाऽऽचार्यरूपेण वा व्यवस्थितो यमेव मुमुक्षुं वृणुते भजतेऽनुगृह्णाति तेनैव परमेश्वरानुगृहीतेनाभेदानुसन्धानवता लभ्यत इत्यर्थः ॥ २३ ॥
दुश्चरितं कायिकं पापम् ॥ २४ ॥
यस्त्वनेवम्भूत उक्तसाधनसम्पन्नो न भवति स कथं वेदेति सम्बन्धः ।
अशनत्वेऽप्यपर्याप्त इति ।
अन्नत्वेऽप्यसमर्थः शाकस्थानीय इत्यर्थः । यत्र स्वे महिम्नि स विश्वोपसंहर्ता वर्तते तथाभूतं तं को वेेेदेति सम्बन्धः ॥ २५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीया वल्ली समाप्ता ॥
रथरूपककल्पनेति ।
प्रसिद्धरथसादृश्यकल्पनेत्यर्थः । ऋतपानकर्ता जीवस्तावदेकश्चेतनः सिद्धो द्वितीयान्वेषणायां लोके सङ्ख्याश्रवणे समानस्वभावे प्रथमप्रतीतिदर्शनाच्चेतनतया समानस्वभावः परमात्मैव द्वितीयः प्रतीयते । तस्य चोपचारादृतपातृत्वमित्यर्थः । बाह्यपुरुषाकाशसंस्थानं देहाश्रय आकाशप्रदेशः ।
पञ्चाग्नय इति ।
गार्हपत्यो दक्षिणाग्निराहवनीयः सभ्य आवसथ्यश्चेत्येते पञ्चाग्नयो येषां ते यथोक्ताः । द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निदृष्टिं ये कुर्वन्ति तेऽग्निहोत्रादिकारिणस्ते वा पञ्चाग्नय इत्यर्थः ॥ १ ॥
ननु न सन्ति ब्रह्मविदः पञ्चाग्निविदश्च साम्प्रतमनुपलम्भादित्याशङ्क्य पूर्वविद्वदनुभवविरोधमाह -
यः सेतुरिवेत्यादिना ।
पूर्वेषां यद्यपि ब्रह्मवित्त्वादि सम्भवति प्रभावातिशयात्तथाऽपि नाऽऽधुनिकानामल्पप्रज्ञानां सम्भवतीत्याशङ्क्य चेतनत्वात्स्वाभाविकी ज्ञातृत्वयोग्यताऽस्तीत्यभिप्रेत्य तात्पर्यमाह -
परापरे इति ॥ २ ॥
तत्रेति ।
तयोः प्रथमग्रन्थोक्तयोरात्मनोर्मध्ये ॥ ३ ॥
आत्मा रथस्वामी यः कल्पितस्तस्य भोक्तृत्वं च न स्वाभाविकमित्याह -
आत्मेन्द्रियमनोयुक्तमिति ।
औपाधिके भोक्तृत्वेऽन्वयव्यतिरेकौ शास्त्रञ्च प्रमाणमित्याह -
न हि केवलस्येति ।
वैष्णवपदप्राप्तिश्रुत्यनुपपत्त्याऽपि न स्वाभाविकं भोक्तृत्वं वाच्यमित्याह -
एवं च सतीति ॥ ४ - ५ - ६ - ७ - ८ - ९ ॥
प्रत्यगात्मभूताश्चेति ।
प्रत्यगनपायिस्वरूपभूता इत्यर्थः । नन्वर्थेभ्यो मनस आरम्भकं भूतसूक्ष्मं परम् तस्माद् बुद्ध्यारम्भकं भूतसूक्ष्मं परमिति न युक्तम् । कार्यापेक्षया ह्यपादानमुपचितावयवं व्यापकमनपायिस्वरूपं च प्रसिद्धम् । यथा घटादेर्मृदादिः । न चेह भूतसूक्ष्माणां परस्परकार्यकारणभावे मानमस्ति । सत्यम् , तथाऽपि विषयेन्द्रियव्यवहारस्य मनोऽधीनतादर्शनान्मनस्तावद्व्यापकं कल्प्यते । तच्च परमार्थत एवाऽऽत्मभूतमिति केषाञ्चिद् भ्रमस्तन्निरासायोक्तं मनः शब्दवाच्यं भूतसूक्ष्ममिति । ‘अन्नमयं हि सोम्य मन’(छा. उ. ६ । ५ । ४) इत्यादिश्रुतेर्भौतिकत्वावगमादन्नभावाभावाभ्यामुपचयापचयदर्शनाद्भौतिकमेव तत् । तस्य च सङ्कल्पादिलक्षणस्याध्यवसायनियम्यत्वाद् बुद्धेेस्ततः परत्वमिति ।
बुद्धिश्चाऽऽत्मेति केषाञ्चिदभिमानस्तदपनयार्थमाह -
बुद्धिशब्दवाच्यमिति ।
करणत्वादिन्द्रियवत् बुद्धेर्भौतिकत्वं सिद्धम् । करणत्वं च स्वबुद्ध्याऽहमुपलभे इत्यनुभवात्सिद्धम् । ततो भूतावयवसंस्थानेष्वेवार्थादिषूत्तरोत्तरं परत्वं कल्प्यं परमपुरुषार्थदिदर्शयिषया । न त्वर्थादीनां परत्वं प्रतिपिपादयिषितं प्रयोजनाभावाद्वाक्यभेदप्रसङ्गाच्चेति । सुरनरतिर्यगादिबुद्धीनां विधारकत्वात्सातत्यगमनादात्मोच्यते । सूत्रसंज्ञकं हैरण्यगर्भतत्त्वमित्यर्थः ।
बोधाबोधात्मकमिति ।
ज्ञानक्रियाशक्त्यात्मकमित्यर्थः । अथवाऽधिकारिपुरुषाभिप्रायेण बोधात्मकत्वमव्यक्तस्याऽऽद्यः परिणाम उपाधिरपञ्चीकृतभूतात्मकस्तेन रूपेणाबोधात्मकत्वं हिरण्यगर्भस्येत्यर्थः ॥ १० ॥
प्रलये सर्वकार्यकारणशक्तीनामवस्थानमभ्युपगन्तव्यं शब्दार्थसम्बन्धशक्तिलक्षणस्य नित्यत्वनिर्वाहाय । तासां शक्तीनां समाहारो मायातत्त्वं भवति ब्रह्मणोऽसङ्गत्वादिति शक्तिसमाहाररूपमव्यक्तमित्यर्थः । “तद्धेदं तर्ह्यव्याकृतमासीत्”(बृ. उ. १ । ४ । ७) “एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च”(बृ. उ. ३ । ८ । ११) “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”(श्वे. उ. ४ । १०) इत्यादिश्रुतिप्रसिद्धं चाव्यक्तम् । तस्य साङ्ख्याभिमतप्रधानाद्वैलक्षण्यमाह -
परमात्मनीति ।
शक्तित्वेनाद्वितीयत्वाविरोधित्वमाह -
वटकणिकायामिवेति ।
भाविवटवृक्षशक्तिमद्वटबीजं स्वशक्त्या न सद्द्वितीयं कथ्यते तद्वद् ब्रह्मापि न मायाशक्त्या सद्वितीयम् । सत्त्वादिरूपेण निरूप्यमाणे व्यक्तिरस्य नास्तीत्यव्यक्तम् । ततोऽव्यक्तशब्दादप्यद्वैताविरोधित्वं द्रष्टव्यम् । सर्वस्य प्रपञ्चस्य कारणमव्यक्तम् । तस्य परमात्मपरतन्त्रत्वात्परमात्मन उपचारेण कारणत्वमुच्यते न त्वव्यक्तवद्विकारितयाऽनादित्वादव्यक्तस्य पारतत्र्यं च पृथक्सत्त्वे प्रमाणाभावादात्मसत्तयैव सत्तावत्त्वाच्चेत्यर्थः ॥ ११ ॥
पारयिष्णव इति ।
संसारपारं गन्तार इत्यर्थः ।
न प्रकाशते चेत्तर्हि नास्त्येवेति न वाच्यं लिङ्गदर्शनादित्याह -
दर्शनश्रवणादीनि ।
कर्माण्यस्येति तथोक्तः । जीवस्य प्रकशत्वे ब्रह्मात्मत्वे सत्यपि योऽयं ब्रह्मस्वरूपानवभासः स केनापि प्रतिबन्धेन कृत इति कल्प्यते । तच्च प्रतिबन्धकं न वस्तु ज्ञानान्मुक्तिश्रुतेर्बाधप्रसङ्गात् ।
ततोऽविद्यैव प्रतिबन्धिकेत्याह -
अविद्यामायाछन्न इति ।
निदिध्यासनप्रचयेनैकाग्र्यमापन्नमन्तःकरणं यदा सहकारि सम्पाद्यते तदा तत्सहकृतान्महावाक्यादहं ब्रह्मास्मीति या बुद्धिवृत्तिरुत्पद्यते तस्यामभिव्यक्तो ब्रह्मभाव इति स्वतोऽपरोक्षतया व्यवह्रियत इति दृश्यत्वमुपचर्यते । यो हि यत्प्रयुक्तव्यवहारः स तद्दृश्य इति प्रसिद्धम् ॥ १२ - १३ ॥
क्रमेणैवं विषयदोषदर्शनेनाभ्यासेन च बाह्यकरणान्तःकरणव्यापारप्रविलापने सति प्रविलापनकर्तुः कः पुरुषार्थः सिद्ध्यतीत्यत आह -
एवं पुरुष इत्यादिना ॥ १४ ॥
यावद्यावद्गुणापचयस्तावत्तावत्तारतम्येन सौक्ष्म्यं दृष्टं पृथिव्यादिषु परमात्मनि तु गुणानामत्यन्ताभावान्निरतिशयं सौक्ष्म्यं दृष्टं सिध्यतीत्याह -
स्थूला तावदित्यादिना ॥ १५ - १६ - १७ ॥
इति काठकोपनिषद्भाष्यटीकायां प्रथमाध्याये तृतीया वल्ली समाप्ता इति ॥
श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने प्रथमोऽध्यायः समाप्तः ॥