अद्वैतशारदा

आनन्दगिरिटीका (काठक)

प्रथमोऽध्यायः: प्रथमा वल्ली

धर्मा­ध­र्मा­द्य­सं­सृष्टं कार्य­का­र­ण­व­र्जि­तम् ।
काला­दि­भि­र­वि­च्छिन्नं ब्रह्म यत्तन्नमाम्यहम् ॥ १ ॥

यः साक्षा­त्कृ­त­प­र­मा­नन्दो यावदधिकारं याम्ये पदे वर्त­मा­नोऽ­क­र्तृ­ब्र­ह्मा­त्म­ता­नु­भ­व­ब­लतो भूत­या­त­ना­नि­मि­त्त­दो­षै­र­लि­प्त­स्व­भाव आचार्यो वरप्रदानेन पर­ब्र­ह्मा­त्मै­क्य­वि­द्या­मु­प­दि­देश यस्मै चोपदिदेश ताभ्यां नम­स्कु­र्व­न्ना­चा­र्य­भ­क्ते­र्वि­द्या­प्रा­प्त्य­ङ्गत्वं दर्शयति -
ओं नमो भगवते वैवस्वतायेति ।
अथशब्दो मङ्गलार्थः ।

चिकीर्षितं प्रतिजानीति -
काठकेति ।

ननूपनिषदो वृत्ति­र्नाऽऽ­र­ब्धव्या प्राणिनां काम­क­लु­षि­त­चे­त­सा­मु­प­नि­ष­च्छ्र­व­णा­त्प­रा­ङ्मु­ख­त्वा­द्वि­शि­ष्ट­स्या­धि­का­रिणो दुर्नि­रू­प­त्वा­द्ब­न्धस्य च सत्यस्य कर्मभ्य एव निवृ­त्ते­रु­प­नि­ष­ज्ज­न्य­वि­द्याया निष्प्र­यो­ज­न­त्वा­ज्जी­वस्य चासं­सा­रि­ब्र­ह्मा­त्म­तायाः प्रति­पा­द­यि­तु­म­श­क्य­त्वेन निर्वि­ष­य­त्वा­च्चे­त्या­श­ङ्क्यो­प­नि­ष­च्छ­ब्द­नि­र्व­च­नेन विद्याया विशि­ष्टा­धि­का­र्या­दि­म­त्त्व­प्र­द­र्श­नेन तज्जनकस्य ग्रन्थस्यापि विशि­ष्टा­धि­का­र्या­दि­म­त्त्वेन व्याख्येयत्वं दर्शयितुं प्रथ­म­मु­प­नि­ष­च्छ­ब्द­स्व­रू­प­सिद्धिं तावदाह -
उपनिपूर्वस्येति ।

ब्रह्म­वि­द्या­या­मु­प­नि­ष­च्छ­ब्दस्य ‘उपनिषदं भो ब्रूहि’(के.उ. ४-७) इत्या­दि­प्र­यो­ग­द­र्श­ना­द्धा­त्व­र्थ­माह -
उपनिषच्छब्देनेति ।

क्लृप्ता­व­य­व­श­क्त्यैव प्रयोगसम्भवे समु­दा­य­श­क्ति­रु­प­नि­ष­च्छ­ब्दस्य न कल्पनीयेत्याह -
केन पुनरिति ।

‘षद्लृ’ विश­र­ण­ग­त्य­व­सा­द­ने­ष्विति धातो­र्वि­श­र­ण­म­र्थ­मा­दाय योगवृत्तिमाह -
उच्यत इति ।
विषयेषु क्षयि­ष्णु­त्वा­दि­दो­ष­द­र्श­ना­द्वि­रक्ताः केचन मुमुक्षवः प्रसिद्धा न सर्वे भवदृशाः कामुका एवेति यच्छब्देन प्रसि­द्धा­व­द्यो­त­केन कथयति । आनुश्रविकाः शब्दप्रतिपन्नाः स्वर्गभोगादयः ।

उपसद्येति ।
आचा­र्यो­प­दे­शा­ल्लब्ध्वा याव­त्सा­क्षा­त्कारं शीलयन्ति संसा­र्य­सं­सा­र्यै­क्या­स­म्भा­व­नादि निर­स्य­न्ती­त्यर्थः ।

गत्य­र्थ­मा­दा­याऽऽह -
पूर्वोक्तेति ।

अग्नि­वि­द्या­या­म­प्य­व­सा­द­न­मा­दा­यो­प­नि­ष­च्छ­ब्दस्य वृत्तिमाह -
लोकादिरिति ।
भूरा­दि­लो­का­ना­मादिः प्रथमजो ब्रह्मणो जातो ब्रह्मजः स एव जानातीति ज्ञः ।

ग्रन्थे तु भक्त्येति ।
उप­चा­रे­णो­प­नि­ष­च्छ­ब्द­प्र­योग इत्यर्थः ।

उप­नि­ष­च्छ­ब्द­नि­र्व­च­नेन सिद्धमर्थमाह -
एवमित्यादिना ।
आत्यन्तिकी निदाननिवृत्त्या निवृ­त्ति­र्वि­व­क्षिता । निदानं चान्व­य­व्य­ति­रे­क­शा­स्त्र­न्या­येभ्यः संसा­र­स्याऽऽ­त्मै­क­त्वा­विद्या । सा च न कर्मणा विनिवर्ततेऽतो विद्यायाः प्रयोजनेन साध्यसाधनलक्षणः सम्बन्ध इत्यर्थः । ‘वश’ कान्तावित्यस्य शत्रन्तं रूपमुशन्निति । श्रवः कीर्तिः । सर्वमेधेन सर्व­स्व­द­क्षि­णे­नेजे यजनं कृतवानित्यर्थः ॥ १ ॥

सदसि यज्ञसभायां येऽन्ये मिलिता ब्राह्म­णा­स्ते­भ्यश्च ॥ २ ॥

पीतमुदकं प्रागेव नोत्तरकालं पान­श­क्ति­र­प्य­स्ती­त्यर्थः ॥ ३ - ४ ॥

यथावसरं गुरोरिष्टं ज्ञात्वा शुश्रूषणे प्रवृ­त्ति­र्मुख्या । आज्ञावशेन मध्यमा । तदपरिपालनेनाधमा । मया दत्तेन यत्कर्तव्यमद्य यमस्य करिष्यति तत्किं कर्त­व्य­मा­सी­न्ना­सी­देव विधानाभावात् । कथं तर्ह्यु­क्त­वा­नि­त्यत आह -
नूनमिति ॥ ५ - ६ ॥

श्रुत्य­नु­क्त­पू­र्व­भा­ष­णा­दि­क­मपि कथायामपेक्षितं पूरयति -
स एवमुक्तः पितेति ॥ ७ - ८ ॥

प्रेती­भू­तोऽ­य­मा­गतो नावलोकनीय इति मत्वोपेक्षां यथा न करोति तथा प्रसादं कुर्वित्याह -
किञ्च त्वत्प्र­सृ­ष्ट­मिति ॥ ९ - १० ॥

औद्दालकिरिति तद्धितः स्वार्थे व्याख्या­तोऽ­प­त्यार्थे व्याख्येय इत्याह -
द्व्यामुष्यायणो वेति ।
अमुष्य प्रख्या­त­स्या­प­त्य­मा­मु­ष्या­यणः । द्वयोः पित्रोः पूर्वभाषादिना सम्बन्धी चासा­वा­मु­ष्या­य­णश्च । न जारज इत्यर्थः ॥ ११ ॥

स्वर्ग­सा­ध­न­म­ग्नि­ज्ञानं प्रष्टुं स्वर्गस्वरूपं तावदाह -
स्वर्गे लोक इति ॥ १२ - १३ ॥

इयं च वक्ष्यमाणा मृत्योः प्रत्नि­ज्ञाऽ­व­ग­न्तव्या । “स त्रेधाऽऽत्मानं व्यकुरुत”(बृ.उ. १-२-३) इति श्रुते­र­ग्नि­वा­य्वा­दि­त्य­रू­पेण समष्टिरूपो विराडेव व्यवस्थित इति । तेन विरा­ड्रू­पे­णा­ग्नि­र्ज­गतः प्रति­ष्ठे­त्यु­च्यते ॥ १४ ॥

सप्र­प­ञ्च­म­ग्नि­ज्ञानं चय­न­प्र­क­र­णा­द्द्र­ष्ट­व्य­मिति श्रुति­र­स्मा­न्बो­ध­य­ती­त्याह -
इदं श्रुतेर्वचनमिति ॥ १५ - १६ ॥

विशुद्धिरिति धर्माद्यवगतिः ।
दृष्ट्वा चाऽऽत्मभावेनेति ।
अयमर्थः - विंशत्यधिकानि सप्त शतानीष्टकानां सङ्ख्या संव­त्स­र­स्यो­रा­त्राणि च ताव­त्स­ङ्ख्या­का­न्येव सङ्ख्या­सा­मा­न्या­त्तै­रि­ष्ट­का­स्था­नी­यै­श्चि­तोऽ­ग्नि­र­ह­मि­त्या­त्म­भा­वेन ध्यात्वेति ॥ १६ - १७ - १८ - १९ ॥

पिता­पु­त्र­स्ने­हा­दि­स्व­र्ग­लो­का­व­सानं यद्वरद्वयसूचितं संसाररूपं तदेव कर्म­का­ण्ड­प्र­ति­पा­द्य­मा­त्म­न्या­रो­पितं तन्निवर्तकं चाऽऽत्म­ज्ञा­न­मि­त्य­ध्या­रो­पा­प­वा­द­भा­वेन पूर्वो­त्त­र­ग्र­न्थयोः सम्बन्धमाह -
एतावद्धीति ।

प्रथ­म­व­ल्ली­स­मा­प्ति­प­र्य­न्ता­ख्या­यि­काया अवा­न्त­र­स­म्ब­न्ध­माह -
तमेतमर्थमिति ।

देह­व्य­ति­रि­क्ता­त्मा­स्तित्वे वादि­वि­प्र­ति­पत्तेः संशयश्चेत्तर्हि प्रत्यक्षादिना स्वस्यैव निर्ण­य­ज्ञा­न­स­म्भ­वा­त्त­न्नि­र्ण­यस्य निष्प्र­यो­ज­न­त्वाच्च न तदर्थः प्रश्नः कर्तव्य इत्याशङ्क्याह -
अतश्चास्माकमिति ।
प्रत्यक्षेण स्थाणौ निर्णीते पुरुषो न वेति सन्दे­हा­द­र्श­ना­द्व्य­ति­रि­क्ता­त्मा­स्तित्वे च सन्देहदर्शनान्न प्रत्यक्षेण निर्णयः पर­लो­क­स­म्ब­न्ध्या­त्मना च कस्य­चि­ल्लि­ङ्ग­स्या­वि­ना­भा­वा­द­र्श­ना­न्ना­नु­मा­ने­नापि निर्णय इत्यर्थः ॥ २० - २१ - २२ ॥

एकैकं पुत्रधनादीनां वरत्वेनोपन्यस्य समु­च्चि­त­मि­दा­नी­मु­प­न्य­स्यति -
किञ्च वित्तं प्रभूतमिति ।
‘अस्’ भुवीति धातो­र्लो­ण्म­ध्य­म­पु­रु­षै­क­व­च­ना­न्तस्य निपात एधीति ततो भवेति व्याख्यातम् ॥ २३ - २४ - २५ - २६ - २७ ॥

किञ्चो­त्कृ­ष्ट­पु­रु­षा­र्थ­लाभे सम्भवत्यधमं कामयमानो मूर्ख एवाहं स्यां ततोऽपि मम स एव वर इत्याह -
यत­श्चा­जी­र्य­ता­मि­त्या­दिना ॥ २८ - २९ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते काठ­को­प­नि­ष­द्भा­ष्य­व्या­ख्याने प्रथमा वल्ली समाप्ता ॥

अभ्यु­द­य­निः­श्रे­य­स­वि­भा­ग­प्र­द­र्श­नेन विद्याऽ­वि­द्या­वि­भा­ग­प्र­द­र्श­नेन च केव­ल­वि­द्या­र्थि­तया शिष्यं प्रथमं स्तौतीत्याह -
परीक्ष्येति ।

श्रेयः­प्रे­य­सो­र­न्य­त­र­प­रि­त्या­गे­नै­वा­न्य­त­रो­पा­दाने हेतुमाह -
ते यद्यपीति ।
ते यद्य­प्ये­कै­क­पु­रु­ष­स­म्ब­न्धिनी तथाऽपि विरुद्धे ॥ १ - २ - ३ - ४ - ५ ॥

सम्य­क्प्रा­क्काले देह­पा­ता­दू­र्ध्व­मे­वे­यते गम्यत इति शेषः ॥ ६ - ७ ॥

अणुत्वं परोक्षत्वम् ॥ ८ - ९ ॥

मया जानताऽपि वह्वायासं कर्म कृतं त्वं दीयमानमपि तत्फलं न गृह्णासि मत्तोऽ­धि­क­प्र­ज्ञोऽ­सीति सन्तो­षा­त्स्तौ­ती­त्याह -
पुनरपि तुष्ट आहेति ॥ १० - ११ ॥

यश्च त्वया देहव्यतिरिक्त आत्मा दृष्टस्तस्यैव पर­मा­र्थ­स्व­रू­प­ज्ञानं संसारनिवर्तकं पर­मा­न­न्द­प्रा­प्ति­सा­धनं धर्म्यं च नातः परं श्रेयः­सा­ध­न­म­स्तीति पृष्टस्य वस्तुनः प्रशंसया च प्रष्टारं प्रशंसति -
यं त्वं ज्ञातु­मि­च्छ­सी­त्या­दिना ॥ १२ - १३ ॥

यदि देह­व्य­ति­रि­क्त­स्याऽऽ­त्मनः प्रथमं पृष्टस्य पर­मा­र्थ­स्व­रू­प­ज्ञा­न­मेव श्रेयःसाधनं तर्हि तदेव ब्रूहीत्याह -
यद्यहं योग्य इत्यादिना ।
अत एव वर­दा­न­व्य­ति­रे­के­णा­पू­र्वोऽयं प्रश्न इति नाऽऽशङ्कनीयं पूर्वपृष्टस्यैव याथातथ्यप्रश्नः पृष्टस्य वस्तुनो विशेषणान्तरं ज्ञानसाधनं वक्तुमित्यर्थः ॥ १४ ॥

सर्वे वेदा इति ।
वेदैकदेशा उपनिषदः । अनेनोपनिषदो ज्ञानसाधनत्वेन साक्षा­द्वि­नि­यु­क्ता­स्त­पांसि कर्माणि शुद्धि­द्वा­रे­णा­व­ग­ति­सा­ध­नानि ।

मन्दाधिकारिणो विचारासमर्थस्य क्रमे­णा­व­ग­ति­सा­धनं सङ्क्षिप्याऽऽह -
सङ्ग्रहेणेति ।
यस्य शब्दस्योच्चारणे यत्स्फुरति तत्तस्य वाच्यं प्रसिद्धं समा­हि­त­चि­त्त­स्यो­ङ्का­रो­च्चा­रणे यद्वि­ष­या­नु­प­रक्तं संवेदनं स्फुरति तदो­ङ्का­र­म­व­लम्ब्य तद्वाच्यं ब्रह्मास्मीति ध्याये­त्त­त्रा­प्य­स­मर्थ ओंशब्द एव ब्रह्मदृष्टिं कुर्यादित्यर्थः ॥ १५ - १६ ॥

साध­न­ही­ना­यो­प­दे­शोऽ­न­र्थक इति मत्वो­च्चा­व­च­म­व­ग­ति­सा­ध­न­मुक्त्वा वक्तव्यस्वरूपं यत्पृष्टं तद­भि­धा­ना­यो­प­क्र­मत इत्याह -
अन्यत्र धर्मा­दि­त्या­दि­नेति ।
यद्या­त्म­नोऽ­न्य­द्ब्रह्म स्यात्तत्र जन्मा­दि­प्रा­प्त्य­भा­वा­द­प्रा­प्त­नि­षेधः स्यादतो जन्मा­दि­प्र­ति­षेे­धेन ब्रह्मो­प­दि­श­न्ना­त्म­स्व­रू­प­मे­वो­प­दि­श­तीति गम्यते । मरणनिमित्ता च नास्ति­त्वा­श­ङ्का­त्मनो मर­णा­भा­वेऽ­स्ति­त्व­वि­ष­य­प्र­श्न­स्या­प्ये­त­देव प्रतिवचनं भवतीति द्रष्टव्यम् ॥ १७ - १८ ॥

यद्यविक्रिय एवाऽऽत्मा तर्हि धर्मा­द्य­धि­का­र्य­भा­वा­त्त­द­सिद्धौ संसारोपलम्भ एव न स्यादि­त्या­श­ङ्क्याह -
अनात्मज्ञविषय एवेति ।

यद­ज्ञा­ना­त्प्र­वृत्तिः स्यात्त­ज्ज्ञा­नात्सा कुतो भवेदिति न्याया­च्चाऽऽ­त्म­ज्ञस्य धर्मादि नोपपद्यतेऽत आत्मज्ञः सदा मुक्त एवेत्याह -
न्यायाच्चेति ।
तदुक्तम् - “विवेकी सर्वदा मुक्तः कुर्वतो नास्ति कर्तृता । अले­प­वा­द­मा­श्रित्य श्रीकृष्णजनकौ यथा” इति ॥ १९ ॥

अका­म­त्वा­दि­सा­ध­ना­न्त­र­वि­धा­ना­र्थ­मु­त्त­र­वा­क्य­म­व­ता­र­यति -
कथं पुनरिति ।

एकस्याणुत्वं महत्त्वं च विरुद्धं कथमनूद्यत इत्या­श­ङ्क्या­णु­त्वा­द्य­ध्या­सा­धि­ष्ठा­न­त्वा­द­णु­त्वा­दि­व्य­व­हारो न तत्त्वत इत्यविरोधमाह -
अणु महद्वेति ॥ २० ॥

विरु­द्धा­ने­क­ध­र्म­व­त्त्वा­द्दु­र्वि­ज्ञे­य­श्चे­दात्मा कथं तर्हि पण्डितस्यापि सुज्ञेयः स्यादि­त्या­श­ङ्क्याऽऽह -
स्थितिगतीति ।
विश्वरूपो मणिर्यथा नानारूपोऽवभासते परं नाना­वि­धो­पा­धि­स­न्नि­धा­नान्न स्वतो नानारूपः चिन्तामणौ वा यद्यच्चिन्त्यते तत्त­च्चि­न्तो­पा­धि­क­मे­वा­व­भा­सते न तत्त्वतः, तथा स्थिति­ग­ति­नि­त्या­नि­त्या­दयो विरु­द्धा­ने­क­धर्मा येषां तदु­पा­धि­व­शा­दा­त्माऽपि विरु­द्ध­ध­र्म­वा­नि­वा­व­भा­सत इति योजना । इति तस्य सुविज्ञेयो भवति । उपा­ध्य­वि­वि­क्त­द­र्शि­नस्तु दुर्विज्ञेय एवेत्यर्थः ।

स्वतो विरु­द्ध­ध­र्म­वत्त्वं नास्तीत्येतदेव श्रुतियोजनया दर्शयति -
कर­णा­ना­मि­त्या­दिना ।

एक­दे­श­वि­ज्ञा­न­स्येति ।
मनुष्योऽहं नीलं पश्या­मी­त्या­दि­प­रि­च्छि­न्न­वि­ज्ञा­न­स्ये­त्यर्थः ॥ २१ - २२ ॥

न बहुना श्रुतेनेति ।
आत्म­प्र­ति­पा­द­को­प­नि­ष­द्वि­चा­रा­ति­रि­क्ता­शा­स्त्र­श्र­व­णेन न लभ्यः । उप­नि­ष­द्वि­चा­रे­णापि केवलेनेति । सिद्धो­प­दे­श­र­हि­तेन न लभ्यत इत्यर्थः ।

पर­मे­श्व­रा­चा­र्या­नु­ग्र­हेण तु लभ्यत इत्याह -
यमेवेति ।
स्वात्मानमेव साधकः श्रव­ण­म­न­ना­दि­भि­र्वृ­णुते सम्भजते श्रवणादिकालेऽपि सोऽह­मि­त्य­भे­दे­नै­वा­नु­स­न्धत्त इत्यर्थः ।

तेनैवेति ।
लक्षणया पर­मा­त्मा­नु­ग्र­हे­णैव वरि­त्राऽ­भे­दा­नु­स­न्धा­न­वता यथा­नु­स­न्धा­न­मा­त्म­त­यैव परमात्मा लभ्यो भवतीत्यर्थः । वैपरीत्येन वा योजना । आत्मा त्वेष प्रकरणी पर­मा­त्माऽ­न्त­र्या­मि­रू­पे­णाऽऽ­चा­र्य­रू­पेण वा व्यवस्थितो यमेव मुमुक्षुं वृणुते भजतेऽनुगृह्णाति तेनैव पर­मे­श्व­रा­नु­गृ­ही­ते­ना­भे­दा­नु­स­न्धा­न­वता लभ्यत इत्यर्थः ॥ २३ ॥

दुश्चरितं कायिकं पापम् ॥ २४ ॥

यस्त्वनेवम्भूत उक्त­सा­ध­न­स­म्पन्नो न भवति स कथं वेदेति सम्बन्धः ।
अश­न­त्वेऽ­प्य­प­र्याप्त इति ।
अन्न­त्वेऽ­प्य­स­मर्थः शाकस्थानीय इत्यर्थः । यत्र स्वे महिम्नि स विश्वोपसंहर्ता वर्तते तथाभूतं तं को वेेेदेति सम्बन्धः ॥ २५ ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­म­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते काठ­को­प­नि­ष­द्भा­ष्य­व्या­ख्याने द्वितीया वल्ली समाप्ता ॥

रथरूपककल्पनेति ।
प्रसि­द्ध­र­थ­सा­दृ­श्य­क­ल्प­ने­त्यर्थः । ऋतपानकर्ता जीव­स्ता­व­दे­क­श्चे­तनः सिद्धो द्विती­या­न्वे­ष­णायां लोके सङ्ख्याश्रवणे समानस्वभावे प्रथ­म­प्र­ती­ति­द­र्श­ना­च्चे­त­न­तया समानस्वभावः परमात्मैव द्वितीयः प्रतीयते । तस्य चोप­चा­रा­दृ­त­पा­तृ­त्व­मि­त्यर्थः । बाह्य­पु­रु­षा­का­श­सं­स्थानं देहाश्रय आकाशप्रदेशः ।

पञ्चाग्नय इति ।
गार्हपत्यो दक्षि­णा­ग्नि­रा­ह­व­नीयः सभ्य आव­स­थ्य­श्चे­त्येते पञ्चाग्नयो येषां ते यथोक्ताः । द्युप­र्ज­न्य­पृ­थि­वी­पु­रु­ष­यो­षि­त्स्व­ग्नि­दृष्टिं ये कुर्वन्ति तेऽग्नि­हो­त्रा­दि­का­रि­णस्ते वा पञ्चाग्नय इत्यर्थः ॥ १ ॥

ननु न सन्ति ब्रह्मविदः पञ्चाग्निविदश्च साम्प्र­त­म­नु­प­ल­म्भा­दि­त्या­शङ्क्य पूर्व­वि­द्व­द­नु­भ­व­वि­रो­ध­माह -
यः सेतु­रि­वे­त्या­दिना ।

पूर्वेषां यद्यपि ब्रह्म­वि­त्त्वादि सम्भवति प्रभा­वा­ति­श­या­त्त­थाऽपि नाऽऽधु­नि­का­ना­म­ल्प­प्र­ज्ञानां सम्भ­व­ती­त्या­शङ्क्य चेत­न­त्वा­त्स्वा­भा­विकी ज्ञातृ­त्व­यो­ग्य­ताऽ­स्ती­त्य­भि­प्रेत्य तात्पर्यमाह -
परापरे इति ॥ २ ॥

तत्रेति ।
तयोः प्रथ­म­ग्र­न्थो­क्त­यो­रा­त्म­नो­र्मध्ये ॥ ३ ॥

आत्मा रथस्वामी यः कल्पितस्तस्य भोक्तृत्वं च न स्वाभा­वि­क­मि­त्याह -
आत्मे­न्द्रि­य­म­नो­यु­क्त­मिति ।

औपाधिके भोक्तृ­त्वेऽ­न्व­य­व्य­ति­रेकौ शास्त्रञ्च प्रमाणमित्याह -
न हि केवलस्येति ।

वैष्ण­व­प­द­प्रा­प्ति­श्रु­त्य­नु­प­प­त्त्याऽपि न स्वाभाविकं भोक्तृत्वं वाच्यमित्याह -
एवं च सतीति ॥ ४ - ५ - ६ - ७ - ८ - ९ ॥

प्रत्य­गा­त्म­भू­ता­श्चेति ।
प्रत्य­ग­न­पा­यि­स्व­रू­प­भूता इत्यर्थः । नन्वर्थेभ्यो मनस आरम्भकं भूतसूक्ष्मं परम् तस्माद् बुद्ध्यारम्भकं भूतसूक्ष्मं परमिति न युक्तम् । कार्यापेक्षया ह्यपा­दा­न­मु­प­चि­ता­व­यवं व्याप­क­म­न­पा­यि­स्व­रूपं च प्रसिद्धम् । यथा घटादेर्मृदादिः । न चेह भूतसूक्ष्माणां पर­स्प­र­का­र्य­का­र­ण­भावे मानमस्ति । सत्यम् , तथाऽपि विष­ये­न्द्रि­य­व्य­व­हा­रस्य मनोऽ­धी­न­ता­द­र्श­ना­न्म­न­स्ता­व­द्व्या­पकं कल्प्यते । तच्च परमार्थत एवाऽऽत्मभूतमिति केषाञ्चिद् भ्रम­स्त­न्नि­रा­सा­योक्तं मनः शब्दवाच्यं भूतसूक्ष्ममिति । ‘अन्नमयं हि सोम्य मन’(छा. उ. ६ । ५ । ४) इत्या­दि­श्रु­ते­र्भौ­ति­क­त्वा­व­ग­मा­द­न्न­भा­वा­भा­वा­भ्या­मु­प­च­या­प­च­य­द­र्श­ना­द्भौ­ति­क­मेव तत् । तस्य च सङ्क­ल्पा­दि­ल­क्ष­ण­स्या­ध्य­व­सा­य­नि­य­म्य­त्वाद् बुद्धेेस्ततः परत्वमिति ।

बुद्धि­श्चाऽऽ­त्मेति केषा­ञ्चि­द­भि­मा­न­स्त­द­प­न­या­र्थ­माह -
बुद्धि­श­ब्द­वा­च्य­मिति ।
कर­ण­त्वा­दि­न्द्रि­य­वत् बुद्धे­र्भौ­ति­कत्वं सिद्धम् । करणत्वं च स्वबु­द्ध्याऽ­ह­मु­प­लभे इत्य­नु­भ­वा­त्सि­द्धम् । ततो भूता­व­य­व­सं­स्था­ने­ष्वे­वा­र्था­दि­षू­त्त­रो­त्तरं परत्वं कल्प्यं पर­म­पु­रु­षा­र्थ­दि­द­र्श­यि­षया । न त्वर्थादीनां परत्वं प्रति­पि­पा­द­यि­षितं प्रयो­ज­ना­भा­वा­द्वा­क्य­भे­द­प्र­स­ङ्गा­च्चेति । सुर­न­र­ति­र्य­गा­दि­बु­द्धीनां विधा­र­क­त्वा­त्सा­त­त्य­ग­म­ना­दा­त्मो­च्यते । सूत्रसंज्ञकं हैर­ण्य­ग­र्भ­त­त्त्व­मि­त्यर्थः ।

बोधा­बो­धा­त्म­क­मिति ।
ज्ञान­क्रि­या­श­क्त्या­त्म­क­मि­त्यर्थः । अथ­वाऽ­धि­का­रि­पु­रु­षा­भि­प्रा­येण बोधा­त्म­क­त्व­म­व्य­क्त­स्याऽऽद्यः परिणाम उपा­धि­र­प­ञ्ची­कृ­त­भू­ता­त्म­क­स्तेन रूपे­णा­बो­धा­त्म­कत्वं हिर­ण्य­ग­र्भ­स्ये­त्यर्थः ॥ १० ॥

प्रलये सर्व­का­र्य­का­र­ण­श­क्ती­ना­म­व­स्था­न­म­भ्यु­प­ग­न्तव्यं शब्दा­र्थ­स­म्ब­न्ध­श­क्ति­ल­क्ष­णस्य नित्य­त्व­नि­र्वा­हाय । तासां शक्तीनां समाहारो मायातत्त्वं भवति ब्रह्म­णोऽ­स­ङ्ग­त्वा­दिति शक्ति­स­मा­हा­र­रू­प­म­व्य­क्त­मि­त्यर्थः । “तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत्”(बृ. उ. १ । ४ । ७) “एत­स्मि­न्ख­ल्व­क्षरे गार्ग्याकाश ओतश्च प्रोतश्च”(बृ. उ. ३ । ८ । ११) “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”(श्वे. उ. ४ । १०) इत्या­दि­श्रु­ति­प्र­सिद्धं चाव्यक्तम् । तस्य साङ्ख्या­भि­म­त­प्र­धा­ना­द्वै­ल­क्ष­ण्य­माह -
परमात्मनीति ।

शक्ति­त्वे­ना­द्वि­ती­य­त्वा­वि­रो­धि­त्व­माह -
वटकणिकायामिवेति ।
भावि­व­ट­वृ­क्ष­श­क्ति­म­द्व­ट­बीजं स्वशक्त्या न सद्द्वितीयं कथ्यते तद्वद् ब्रह्मापि न मायाशक्त्या सद्वितीयम् । सत्त्वादिरूपेण निरूप्यमाणे व्यक्तिरस्य नास्ती­त्य­व्य­क्तम् । ततोऽ­व्य­क्त­श­ब्दा­द­प्य­द्वै­ता­वि­रो­धित्वं द्रष्टव्यम् । सर्वस्य प्रपञ्चस्य कारणमव्यक्तम् । तस्य पर­मा­त्म­प­र­त­न्त्र­त्वा­त्प­र­मा­त्मन उपचारेण कारणत्वमुच्यते न त्वव्य­क्त­व­द्वि­का­रि­त­याऽ­ना­दि­त्वा­द­व्य­क्तस्य पारतत्र्यं च पृथक्सत्त्वे प्रमा­णा­भा­वा­दा­त्म­स­त्त­यैव सत्ता­व­त्त्वा­च्चे­त्यर्थः ॥ ११ ॥

पारयिष्णव इति ।
संसारपारं गन्तार इत्यर्थः ।

न प्रकाशते चेत्तर्हि नास्त्येवेति न वाच्यं लिङ्ग­द­र्श­ना­दि­त्याह -
दर्शनश्रवणादीनि ।
कर्माण्यस्येति तथोक्तः । जीवस्य प्रकशत्वे ब्रह्मात्मत्वे सत्यपि योऽयं ब्रह्म­स्व­रू­पा­न­व­भासः स केनापि प्रतिबन्धेन कृत इति कल्प्यते । तच्च प्रतिबन्धकं न वस्तु ज्ञाना­न्मु­क्ति­श्रु­ते­र्बा­ध­प्र­स­ङ्गात् ।

ततोऽविद्यैव प्रति­ब­न्धि­के­त्याह -
अविद्यामायाछन्न इति ।
निदि­ध्या­स­न­प्र­च­ये­नै­का­ग्र्य­मा­प­न्न­म­न्तः­क­रणं यदा सहकारि सम्पाद्यते तदा तत्स­ह­कृ­ता­न्म­हा­वा­क्या­दहं ब्रह्मास्मीति या बुद्धि­वृ­त्ति­रु­त्प­द्यते तस्यामभिव्यक्तो ब्रह्मभाव इति स्वतोऽपरोक्षतया व्यवह्रियत इति दृश्य­त्व­मु­प­च­र्यते । यो हि यत्प्र­यु­क्त­व्य­व­हारः स तद्दृश्य इति प्रसिद्धम् ॥ १२ - १३ ॥

क्रमेणैवं विष­य­दो­ष­द­र्श­ने­ना­भ्या­सेन च बाह्य­क­र­णा­न्तः­क­र­ण­व्या­पा­र­प्र­वि­ला­पने सति प्रविलापनकर्तुः कः पुरुषार्थः सिद्ध्यतीत्यत आह -
एवं पुरुष इत्यादिना ॥ १४ ॥

याव­द्या­व­द्गु­णा­प­च­य­स्ता­व­त्ता­व­त्ता­र­त­म्येन सौक्ष्म्यं दृष्टं पृथिव्यादिषु परमात्मनि तु गुणा­ना­म­त्य­न्ता­भा­वा­न्नि­र­ति­शयं सौक्ष्म्यं दृष्टं सिध्यतीत्याह -
स्थूला तावदित्यादिना ॥ १५ - १६ - १७ ॥
इति काठ­को­प­नि­ष­द्भा­ष्य­टी­कायां प्रथमाध्याये तृतीया वल्ली समाप्ता इति ॥
श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चार्य श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­न­न्द­ज्ञा­न­वि­र­चिते काठ­को­प­नि­ष­द्भा­ष्य­व्या­ख्याने प्रथमोऽध्यायः समाप्तः ॥